१६ दृश्यत्वानुमान-भङ्ग प्रसाधनम्

यो दृष्टिश्रुतिमतिगोचरः समयः प्रत्यक्ष्यः प्रशमितविभ्रमैर्विशिष्टैः 1 सत्योऽसौ त्रयचिदचिद्विभूतिभव्यो मिथ्योक्तिप्रशमकरो ममाविरस्तु । मानाधीनां मेयसिद्धि गृणन्तो दृश्यत्वे खल्वास्थिता वस्तुसत्ताम् । तत् दृश्यत्वं वस्तुनास्तित्वहेतुं मन्वानानां स्यान्मृषावाद सौस्थ्यम् ॥ प्रतीयमानत्वं ब्रह्मणोऽप्यस्तीति तस्य मिथ्यात्वाभावाय प्रतीयमानत्वे सति बाध्यमानत्वं मिथ्यात्वमिति वदन्त एवाद्वैतिनः दृश्यत्वमात्रेण मिथ्यात्वं साधयन्ति । तन्नन शून्यवादिसंमतमेव हेतुमनवधाय प्रयोक्तुमारभन्त इति युक्तं मभ्यूहितुम् । तदनुमाननिरासप्रवृत्तं शतदूषणीवाद परीक्षमाणा शतभूषणी दृश्यत्वानुमान भज-प्रसाधनम् ३८३ यल्लिखति श्रुतौ निर्विशेषवाक्यप्राबल्यं सविशेषवाक्यदौर्बल्यञ्चाद्वैत्यभिमतमिति तत् सत्यम् । परंतु निर्विशेषवाक्यत्वेनाभिमतायाः श्रुतेः वास्तवार्थ वर्णयन्तस्सन्तः प्राबल्यं मन्यन्ते, उतार्थान्तरकल्पनयेति विचारः शिष्यते । यतु — तत्र सविशेषवाक्यप्राबल्यं निर्विशेषवाक्यदौर्बल्यं च विशिष्टाद्वैतिसंमतमिति -तत्पुनरयुक्तम् । निर्विशेषश्रुतेरपि स्वरसार्थस्यैव वर्णनात् । उभयोरप्यबाधितार्थपरतया दौर्बल्यंस्याप्रामाण्यप्रयोजकस्य कुत्राप्यभावात् । यत्तु — मिथ्याविशेषप्रतिपादकतया कतिपयश्रुतिवाक्यनिर्देशपूर्वं कथितम् — श्रुतिप्रतिपादितार्थप्रतिपादकत्वात् अनुमानं निर्दुष्टमिति – तत्रेदं वक्तव्यम् । " श्रोतव्यो मन्तव्यः " इति श्रवणानन्तरं यन्मननं विहितम् -तन्नूनं श्रवणप्रतिष्ठार्थम् । श्रवणञ्च मीमांसारूपमिति विचारपूर्वकार्यनिर्णये अनुत्पन्ने यदनुमानम्, न तत् श्रवणप्रतिष्ठार्थं भवितुमर्हति । एवञ्च मिथ्यात्वपरत्वाभिमतानां वाक्यानां मिथ्यात्वपरत्वं वाऽर्थान्तरपरत्वं वेतिं विवाद एव यावन्न शमितः, न तावदनुमानस्य श्रुत्युपष्टब्धत्वम् । श्रुत्युपष्टब्धमप्यनुमानं निर्दुष्टमेव प्रयोक्तव्यम् । अन्यथाऽनुमानस्य श्रवणप्रतिष्ठार्थत्वमेवं भज्येत । उपात्तश्रुतीनां वास्तवार्थश्चान्यः I तथाहि-सदसद्भिन्नं तम आसीत् प्रलय इति प्रथयत् वाक्यम्, ’ तदानीं सदसन्नासीत्; इदानीं तु सदसदस्ती ‘ति बोधयत् जगतः सदसद्रूपतामेव गमयेत्, न तु सदसद्विलक्षणत्वम् । ‘नेह नानास्ति किञ्चने ‘ति श्रुतेः ब्रह्मणि नानाभूतजगन्निषेधपरत्वे किञ्चनेति पदं व्यर्थम् । अतो नानेत्यस्य पृथगित्यर्थः 1 संसारे ब्रह्मापृथसिद्धमेव सर्वमित्युक्त भवति । अतो नेयं जगतः प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वदर्शिनी । अथ परा यया तदक्षरमधिगम्यते " इति श्रुत्या च अक्षरब्रह्मण एव प्रतीयमानत्वमवगम्यते । भूतयोनित्वादिविशिष्टोपास नेनावत्वादिविशिष्टाक्षरप्राप्तयभिधानात् तत्कतुन्यायेनोपासितगुणप्राप्तेरपि वक्तव्यतया भूतयोनित्वस्यावर्णत्वादेच्या विरोधस्य, वास्तवत्वस्य च प्रतीयमानतया ब्रह्मणो जगदत्यन्ताभावाधिकरणत्वमितो दुर्ज्ञानम् । अतोऽन्यदार्तम् " इति श्रुतिश्च ब्रह्मवैलक्षण्यं जगति बोधयेत् । तत् मिथ्यात्वरूपसद्विविक्तवमेवेति तु न ततः सिद्धयेत् । (( ૮૪

किञ्च सदसद्विलक्षणत्वमनन्वितं कथं श्रुतिः प्रत्याययेत् ? असत्पदस्य सद्भिन्नार्थकतया सन्नासीदित्युक्तौ असदासीदित्येव सिद्धया तस्यापि निषेधायोगात् । तत्र कीदृशार्थ वर्णनेनोभयसंघटनम्, “परस्परविरोधे हि न प्रकारान्तरस्थितिः " इति न्यायादिति विचारे, यत् सर्वदा सत् तद्भिन्नम् यच्च सदैवासत्, तद्भिन्नञ्च तदित्यर्थवर्णने किञ्चित्कालस्थितं तदा आसीदित्येव प्रतीयेत ॥ मिथ्यात्वनिर्वचनशोधनावसरे च शेषं विशदीकरिष्यते श्रुत्युधविचारावसरे च । एवं श्रुतिचतुष्टयार्थाः खल्पमत्र संगृहीताः परपक्षाननुकूलत्वप्रदर्शनाय । अत्रास्मदीयपरमार्थप्रकाशिकादिकमपि द्रष्टव्यम् । M दृश्यत्वानुमानस्य श्रुत्युपष्टव्धतया प्राबल्यस्थापनाय स्मृत्यधिकरणोदाहरणञ्चायुक्तम् । तत्र हि श्रुतिविरुद्धायाः स्मृतेदौर्बल्यस्य पूर्वमीमांसासिद्धत्वेऽपि सर्वशाखोपसंहारेणावधारणीयस्योपनिषत्तत्त्वार्थस्यास्मादृशैरेकदेशदर्शनमात्रेणावधारयितुमशक्यत्वात् स्मृत्यपेक्षायां कपिलस्मृतिरनवकाशा. ग्रहणमईतीत्याशंक्य भूयस्स्मृतिविरोधस्य कपिलस्मृतौ स्पष्टत्वात् भूयः स्मृति सहकृोपनिषद्यथाश्रुतार्थ एव ग्राह्य इत्युक्तम् ; न पुनः सर्वशाखोपसंहारनिरपेक्ष सुगता दिभिरपि सुकल्प सर्वश्रुत्यन्तरविरुद्ध कतिपयश्रुत्या पातमुख्यत्वाभिमतयत्किञ्चिदर्थानुकूलमनुमानमेवाने कश्रुतिप्रत्यक्षानुगुणनिर्दोषानन्तानुमानविरुद्ध मध्यादर्तव्यमिति । भेदश्रुतियथाश्रुतार्थानुगुण जगत्पारमार्थसाधकानुमानानामेव तुल्यन्यायेन श्रुत्युपष्टब्धतया प्राबल्यमिति किं न स्यात् एवञ्च मिश्रो विरोधे आभासस्त्र त्यागः, अनाभासस्य स्वीकार इति स्थिते श्रुत्युपष्टम्भवर्णन हि व्यर्थमेव । प्रत्यक्षागोचरविषय एव च श्रुतिरन्यथयितुमशक्या । प्रत्यक्षगोचर विषयं तु तद्विरुद्धं श्रुतिर्वक्तुं नालम् । न ह्यागमाः सहस्रमपि घटं पटयितुमीशते " इति च वाचस्पतिमिश्रः । न हि ‘आदित्यो यूपः ‘, ’ यजमानः प्रस्तर’ इत्यादौ यथाश्रुतार्थस्वीकारो ऽद्वैतिभिरपि क्रियते । वस्तुतः अबाधेनोपपत्तौ बाधायोगात्, 66 ; दृश्यत्वानुमान भङ्ग-प्रसाधनम् ३८५ तत्त्वमसि’, ‘नेह नानास्ति किञ्चने’त्यादीनामद्वैतिवर्ण्यमान एवामुरूयोऽर्थः, मुख्यस्तु विशिष्टाद्वैतिवर्ण्यमान एवेति स्वावसरे वक्ष्यमाणत्वाच्च न कथमपि दृश्यत्वानुमानस्य श्रुत्युपष्टम्भप्रसक्तिरस्ति । ६ प्रपञ्चो मिथ्या दृश्यत्वादित्यत्र साध्यस्वरूपं प्रथमं शोधनीयम् । ततो हेतुखरूपम् । ततः प्राकू यत् हेतोरनैकान्तिकत्वं वा बाधितत्वं वा नास्तीत्युपपादितम्, तद्विचार्यते । दृश्यत्वरूप हेतोः ब्रह्मण्यपि सत्त्वात् अनैकान्तिकत्वमिति शङ्कापरिजिहीर्षया स्वाधिकरणान्यून सत्ताकत्वरूपं विशेषण दृश्यत्वे दीयते । ब्रह्मणः पारमार्थिकत्वात् ब्रह्मगतदृश्यत्वस्य च व्यावहारिकत्वात् ब्रह्मन्यून सत्ताकं दृश्यत्वमेव तत्रेति स्वाधिकरणान्यून सत्ताकं दृश्यत्वं घटपटादिश्यत्वमेवेति न दोषः ; शुक्तिरूप्ये च दृष्टान्ते यत हृदयत्वं तत्सत्ता न शुक्तिरूप्यन्यूनेनि न साधनवैकल्यमिति तदुपपादनम् । तत्र विचार्यते–दृश्यत्वं नाम किमित्युपरि विचारे दृश्यत्वं वृत्त्यवच्छिन्न चैतन्यविषयत्वमिति च वक्ष्यते । एवञ्च तस्य ब्रह्मण्यभावादेवानैकान्तिकत्वे परिहृते किमर्थमिदं विशेषणम् ? अथ वृत्तिव्याप्यत्वरूपदृश्यत्वपक्षेऽपि निर्दुष्टत्वसंरक्षणार्थमिति चेत्-अस्तु तावत् । दृश्यलं तावत् दर्शनविषयत्वम् । तच्च दर्शनकाले वस्तुन्यस्ति; नान्यदा । एवञ्चाधिकरणसत्तापेक्षया दृश्यत्वसत्ता प्रायो न्यूनैवेति कथं तत्र प्रपञ्चान्यून सत्ता कल्वम् ? यदि तु परमार्थिकत्वापारमार्थिकत्वादिरूपं वैजात्यं सत्तायां विवक्षितम्, तर्हि खाधिकरणसत्तासजातीयसत्ताकत्वमिति परिष्करणीयम् ; न त्वेवंरीत्या । यदि दृश्यत्वं दर्शनवरूप योग्यत्वरूपम्, कोऽसौ योग्यत्वरूपो धर्मः ? यदि वस्तुनः स्वरूपमेव ? तर्हि ब्रह्मखरूपमेव ब्रह्मगतं दृश्यत्वं भवतीति तत्र ब्रह्मान्यून सत्ता कत्वमक्षतमेव । वस्तुगतधर्ममिशेषश्चेत् — तस्य ब्रह्मण्यभावादेवानैकान्तिकत्वपरिहारे व्यर्थं विशेषणम् । सधर्मके वस्तुनि धर्मरूपम् ; स्वरूपतो भासमाने च स्वरूपात्मकमेवेति चेत्-एवमपि स्वरूप्यन्यून सत्ताकदर्शन विषयस्वरूपकत्वं ब्रह्मण्यक्षतमेवेति पूर्वोक्तस्यानैकान्तिकत्वस्य 49 ३८६

तादवस्थ्यमेव । अथोक्तरूपसाजात्यघटितपरिष्कार एव क्रियते । दर्शनविषयत्वं च ब्रह्मसत्ता विजातीयव्यावहारिकसत्ताकमिति न दोष इति चेत् — दृष्टान्तः साधनविकलः; शुक्तिरूप्यस्य प्रातिभासिकत्वेऽपि तद्दर्शनस्य व्यावहारिकत्वात् तद्गतदृश्यत्वे शुक्तिरूप्यसत्ता सजातीयसत्ताकत्वाभावात् । सत्तायां व्यावहारिकत्वप्रातिभासिकत्वरूपवैलक्षण्यस्य प्रतिवाद्यसिद्धतया च सर्वत्र सत्ता भवत्येकजातीयैवेति ब्रह्मण्यपि हेतुसत्त्वादनैकान्तिकत्वमेव । सत्ता त्रैविध्यानङ्गीकार्यद्वैतिमते हेत्वप्रसिद्धिश्च । 1 बाधकत्वं न भवतीति — तत्र प्रत्यक्षस्य संभा यच्च प्रपञ्चे सत्यत्वस्य प्रत्यक्षसिद्धतया बाघशङ्कायां दुष्टकारणजन्यत्व संभावनया वनाकारणं किमिति वाच्यम् । श्रुत्या सर्वस्य निषेधेन मिथ्यात्वस्य गमितत्वात् स्थितः सत्यत्वानुभवः दुष्टकारणजन्यत्वेनोत्प्रेक्ष्यत इति चेत् — अनुभूत सत्यत्वविरोधात् श्रुतिरेव सर्वं निषेद्धुं न पारयतीति ब्रूमः । प्रपञ्चो मिध्येत्यनुमान सहकारात् पारयतीति चेत्-अनुमानमपि बाधितत्वादकिञ्चित्करमिति खल्विहोच्यते । श्रुत्युपष्टब्धत्वादनुमानं प्रबलमिति चेत् –अनुमानसहकृतत्वात् श्रुतिः पारयतीत्युक्तम् ; अनुमानस्यासामर्थे कथ्यमाने च श्रुत्युपष्टम्भात् प्राबल्यमित्युच्यत इत्यन्योन्याश्रयः । श्रुतिरनुमानमित्युभयं मिलित प्रत्यक्ष प्रतिरुणद्धीति चेत् न संख्या धिक्यमात्रेण विजयप्रत्याशा । चतुर्दश सहस्राणि हि रक्षसां भीमकर्मणामेकेन श्रीरामेण पराजीयन्त । इदञ्च प्रत्यक्षम् । किञ्च भेदश्रुतिप्रत्यक्षतदनुगुणानुमान त्रयम भेदश्रुत्यनुमानोभयं परिभविष्यति । भूयस्त्वमपि भेदश्रुत्यादिष्वेव । निरस्तपुंदोषत्वनिरूपकमपौरुषेयत्वं तत्राप्यविशिष्टम् । प्रपञ्चपदेन च शुक्तिरूप्यस्यापि ग्रहणे सिद्धसाधनम् । ब्रह्मक्रोडी कारे च बाधः । प्रातिभासिकपारमार्थिकसत्ता शून्यमिति प्रपञ्चपदार्थविवक्षायां तादृशसत्ताद्वया प्रसिद्ध्या पक्षासिद्धिः । जगति तच्छ्रन्यत्वस्यानुमानात् प्राक् दृश्यत्वानुमान-भङ्गः {૭ असिद्ध्या च शशविषाणमेव वः पक्षः स्यात् । श्रुत्या तत्सिद्धौ चानुमानवैयर्थ्यम् । श्रुतार्थमननमेवं क्रियत इति चेत् —तदपि अनुमानसरणिमनुसूत्यैव कार्यम् । विवादे वादिनं प्रति अनेनानुमानेन विवक्षितसाधनस्यासंभवात् । अतो नेहमनुमानेन परपक्षप्रतिक्षेपः । अथ मिथ्यात्वविकल्पविचारः —अन्यथाख्यातिवादे संसर्गारोपमात्रम्, न तु रूप्याद्यारोपोऽपीति न युक्तम् । एकेन संसर्गेण वर्तमानस्य संसर्गान्तरेण ग्रहणे संसर्गारोपः; तत्संबन्धितयाऽननुभूतस्य तत्र ग्रहणे तु वस्त्वारोप इति द्विविधस्याप्यारोपस्य अन्यथाख्यातिवादीष्टत्वात् । मुखे चन्द्रत्वाद्याहार्यारोपवत् शुक्तौ रजतत्वारोपस्य ग्रहणेनैव तदभाववति तत्प्रकारकत्वरूपायथार्थानुभवत्वोपपादनाच्च । तत्तदधिष्ठानारोपितत्वं मिथ्यात्वमित्युक्तौ न कोऽपि दोषः " इत्युक्तमप्ययुक्तम् । आरोपसामान्यस्याधिष्ठान सापेक्षत्वात् आरोपितत्वस्थले अधिष्ठानारोपितत्वस्याप्यक्षततया प्रपञ्चसत्यत्वपक्षेऽपि तदन्तर्गत कतिपयपदार्थानामन्यत्रारोपस्यानुभविकत्वेन सिद्धसाधनदोषानतिवृत्तेः । सदसद्विलक्षणत्वमित्यात्रासत्त्वं कचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वं तुच्छमात्रगतम् । सत्त्वपदेन च सत्त्वं तद्विपरीतं विवक्षितम् । ईदृशसदसद्विलक्षणत्वं मिथ्यात्वमित्युक्तमपि न सम्यक् । सत्त्वं तद्विपरीतमित्यस्य क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यन्नर्ह मिन्नत्वमित्यर्थकतया प्रपञ्चान्तर्गतपदार्थानामपि यथायथं कचित् सत्त्वेन प्रतीत्यर्हतया अनर्ह भिन्नत्वरूप सत्त्वसत्त्वेन सद्विलक्षणत्वासंभवात् । यदि तद्विपरीतमित्यस्य सर्वत्रोपाधौ सत्त्वेन प्रतीत्यहत्वरूपसत्त्वपरत्वम्, तर्हि ब्रह्मणो निराधारत्वात् विभुत्वाच्च उपाध्यवच्छिन्नसत्त्वाभावात् सद्विलक्षणत्वापत्तिः । ब्रह्मशशविषाणभिन्नत्वरूप सदसद्विलक्षणत्वस्य प्रपञ्चे परेष्टतया सिद्धसाधनमर्थान्तरश्च । यत्तु सदसद्विलक्षणत्वमित्यत्रा प्रसिद्ध विशेषणत्वदोषं परिहरतोक्तम्, प्रतीतिबाधान्यथानुपपत्त्या शुक्तिरूप्यादौ तत् प्रसाध्यानुमानानाप्रसिद्धिरिति — तत्रोत्तरं शतदूषण्यामेव दत्तमस्ति " अर्थापत्तिप्रसिद्धं ३८८

तदिति चेन्न तस्याः स्वावसरे दूषयिप्यमाणत्वात् " इति ॥ यच्च अनिर्वचनीयख्यात्यादरेणोक्तम् " परेषामख्यातिवादः परेषामख्यातिवादः अन्यथाख्यातिवादो वा सर्वानुभवविरुद्ध इति -तत्र भ्रमस्थले यत्र यदारोपः, तत्र तद्भेदाग्रहस्य तदसंसर्गाग्रस्य वा सरवश्यं स्वीकृततया भेदग्रहादिरूपविपरीतानुभवाभावेन च सर्वतीर्थकर संमतविषये सर्वानुभवविरुद्धत्ववर्णनं सर्वानुभवा ख्यातिमूलकमेव । एवमन्यथाख्यातिः सर्वानुभवविरुद्धेत्यप्यन्यथाख्यातिरेव । समग्राहि चेदं द्वयमचा पादै रेव, " स्वारस्यमन्यथाख्यातावाख्याततै लाघवं स्मृतम् " इति । तस्मादनिर्वचनीयवाद एवानिर्वचनीयः सर्वलोकानुभवविरुद्धश्च । अत्र शुक्तिरूप्यदृष्टान्ते उपन्यस्ते दृष्टन्तासिद्धिः कथं न वर्णितेति प्रश्नश्चायुक्तः, अप्रसिद्ध विशेषणत्वकथनेनैव भवत्संमतान्यादृशशुक्तिरूप्या सिद्धेर्गमितत्वात् । शुत्यारोपितरूप्यमित्यापणस्थरूप्यग्रहणे तु नासिद्धिः ; किंतु साध्यवैकल्य मेवेति । बाध्यत्वरूपं मिथ्यात्वं बाध्यमबाध्यं वेति विकल्पे यदुक्तम् बाध्यत्वस्य बाध्यत्वेऽपि न जगत्सत्यत्वप्रसक्तिः । बाध्यत्वस्यापि प्रपञ्चान्तर्गततया प्रपञ्चस्य तस्य च बाधनात् प्रपञ्चस्थित्ययोगादिति -तत् स्वावसरे विवेचथिण्यते । किञ्चित्त्विहोच्यते प्रपश्चबाधो हि नाम प्रपञ्चाभावः । तद्वाधश्च प्रपञ्चाभावाभावः । स च प्रपञ्च एवेति कथं प्रपञ्चापलापः ? वस्तुतः इह बाध्यत्वमिदं साध्यं मिथ्याभूतं वा सत्यभूतं वेत्येव विकल्पार्थः । तत्र प्रपञ्चमिध्यात्ववादिभवत्कल्पितं यत् बाध्यत्वं प्रपञ्चस्यानिर्वचनीयमध्यस्तम्, तस्य वस्तुतः स्थितप्रपञ्चीयसत्यत्वनिवारकत्वं न भवति, न हि शुक्तिरूप्यस्य शुक्तित्वनिवर्तकत्वमिति बाध्यत्वपक्षे दूषणमुक्तमिति नात्र भवदभिमतार्थोपन्यासप्रसक्तिरस्ति । न च पारमार्थिक बाध्यत्वाश्रय इति साध्यम् मिथ्याभूते बाध्यत्वे भवत्कल्पितपारमार्थिकत्वसत्त्वेन पारमार्थिक वाध्यत्वस्याप्यक्षतत्वात् । तस्मादनिर्वचनीयस्य शुक्तिरजतादेरर्थापत्त्या सिद्धावपि न जगत्सत्यत्वापलापः; भवद्दर्शितानुमानस्या निर्वचनीयबाध्यत्वमादायैव निर्वाहादभिमता सिद्धिरेवेति । दृश्यत्वानुमान प्रसाधनम् ३८९ यच्च बाध्यत्वमवाध्यमिति पक्षे बाध्यत्वं ब्रह्मेत्युक्ता बाध्यत्वोपलक्षितं ब्रह्मेति निष्कृप्य बाध्यत्वपलक्षितत्वञ्च बाध्यत्वप्रपञ्चोभयाभाववत्त्वेनेत्युक्तम्तदप्यसङ्गतम् । ब्रह्मण एकस्यैवाबाध्यतया बाध्यतायाः ब्रह्मरूपत्वमित्यस्तु । ब्रह्मणः तदुपलक्षितत्वं कथम् ; स्वस्य स्वोपलक्षितत्वायोगात् । किञ्च यत् कदाचित् संबद्धमन्यदा चासंबद्धम्, तत् उपलक्षणं भवति । न च बाध्यत्वं जगत इव ब्रह्मणोऽपि जात्वस्ति । तथा सति तदपि मिथ्येत्यापत्तेः । ननु शाखा चन्द्रस्योपलक्षणम् ; तत्र न शाखासंबन्धः कदापि चन्द्रस्येति चेत्सत्यम् । तत्साक्षात्संबन्धित्वाभावेऽपि परम्परया तत्संबन्धित्वात् तदुपलक्षितत्वं तत्र । शाखाचन्द्रयोरे कऋजुप्रदेशवर्तित्वेन शाखायाः उपलक्षणत्वात् । अत्र कथम् ? बाध्यताश्रयजगत्संबन्धित्वात् ब्रह्मणो बाध्यत्वोपलक्षितत्वमिति चेत्–किमर्थमिदमुपलक्षितत्ववर्णनम् ? जगति बाध्यत्वरूपमिथ्यात्वस्यैव प्रकृतत्वात् । व्याहतञ्च ; बाध्यत्वप्रपञ्चोभयाभाववत्त्वेन बाध्यत्वोपलक्षितत्वस्यैव भवदुक्तत्वात् प्रपञ्चसंबन्धित्वस्यानुक्तत्वात् । उभयाभाववत्त्वेनेत्युक्तमपि न घटते । यदि प्रपञ्चाभाववत्त्वं ब्रह्मणः, तर्हि प्रपञ्चनिष्ठबाध्यत्वं नाम प्रपञ्चाभाव एव, प्रपञ्चनिष्ठं ब्रह्मनिष्ठाभावप्रतियोगित्वं वा ? आद्ये, तदाश्रयत्वमेवास्तीति न तदुपलक्षितमिति वक्तव्यम् । अन्त्ये च प्रतियोगित्वस्य खनिरूपकाभावाश्रयत्व संबन्धेन ब्रह्मसंबन्धित्वमित्येव सुवचम् । प्रपञ्चाभाव एक क इति च पुनर्वि चार्यम् । स ब्रह्मैवेति चेत् — अभाववद्ब्रह्मेत्याधाराधेयभाव-भङ्गः । अभावस्य ब्रह्मत्वे तस्य सर्वदैव सत्त्वात् प्रतियोगिभूतः प्रपञ्चः कदापि न भवेत् ; न च भायात् । अभावस्य मिथ्यात्वे च सत्य मिथ्यार्थियोः संबन्धायोगः । तदुपलक्षितत्वे तूच्यमाने किं तदुपलक्षितमिति पुनरशोधनीयतयाऽनवस्थैवेति । " बाध्यत्वस्य प्रथमं विशेषणतया भातस्य पश्चादभावेनोपलक्षणत्वम्" इत्युक्तमध्ययुक्तम् । बाध्यत्वस्य ब्रह्मविशेषणतया भातत्वाभावात् । न हि ब्रह्म बाध्यम् । जगन्निष्ठबाध्यत्वस्वरूपे विचार्यमाणे वाध्यत्वोपलक्षितं ब्रह्मेत्युपन्यासश्चासङ्गतः । ’ प्रपञ्चः भावो ब्रह्मातिरिक्तः सत्य एव । तत्सत्त्वेऽपि न भावा-३९०

द्वैतहानिः ब्रह्मसिद्धिकारादिपक्षावलम्बनात्’ इति चेत् भावान्तराभाववादस्यैव प्रामाणिकत्वात् भावद्वैत एव तर्हि पर्यवसानम् । एकत्वाद्वितीयत्वादेरभावसत्यत्वपक्षेऽप्यनाञ्जस्यमेव ; धर्मधर्मिरूपानेकसत्त्वात् । आञ्जस्ये, अनेकभावस्वीकारेऽप्याजस्यं सुवचम् । अस्तु तहींष्टसिद्धयभिमतः प्रपञ्चनिवृत्तेः पञ्चमप्रकार तेति चेत् — चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका एव जगदुः । तद्रीत्या ब्रह्मापि तादृशमापद्यते इति बौद्धमत एव पर्यवसानम् ॥ किञ्चास्मिन् पक्षद्वयेऽपि अविद्यानिवृत्तिरूपस्य मोक्षस्य नित्यस्य ब्रह्मन्यतिरिक्तत्वात् ब्रह्मव्यतिरिक्तं सर्वं मिथ्येति ग्रहणकवाक्यगृहीतत्वमावश्यकमिति कथं मिथ्यात्वाभावः । मिथ्यात्वेष्टौ च कथं मोक्षस्य नित्यत्वम् । अनिष्टौ च 1 दृश्यस्वरूप हेतुसत्त्वात् साध्याभावादनेकान्तः । मुक्तिदशायां दृशिविषयत्वं नास्तीति चेत् — तदानीं मा भूत् । इदानीं श्रुतितोऽनुमानतश्चावगतत्वादेव दृश्यत्वमक्षतम् । स्वान्यून सत्ताकदृइत्वं यत्र तत्रैव मिथ्यात्वमिति चेत् — घटपटादीनामपि कदाचिदेवानुभूयमानत्वात् शास्त्रैकसमधिगम्यानाञ्च कदाचिदेव ततोऽबगमाश्वान्यून सत्ता कदृश्यत्वाभावात् मिथ्यात्वासिद्धिप्रसंगः । हेतोर्भागा सिद्धिश्च । तथा तदितरमात्रपक्षीकारे कादाचित्कदृश्यत्वाश्रयं दृष्टान्तीकृत्य केवलदृश्यत्वहेतुनैव सर्वस्य सत्यत्वस्थापनसंभवात् सत्प्रतिपक्षश्च । दर्शनकाल एवानिर्वचनीयमस्ति, न त्वन्यदेति चेत्–अदर्शनदशायां घटाद्यभावे दर्शनकालभेदेनानिर्वचनीयभेदे च सोऽयं घट इति प्रत्यभिज्ञादि भज्येत । एवं दृश्यत्वगतसत्तायाः ब्रह्मगतसप्ताविलक्षणत्वस्य मिथ्यात्वसिद्धेः पूर्वम निश्चितत्वात् हेतुनिश्च दुर्लभ इति च प्रागेवोक्तम् ॥ यत्तु अद्वैत सिद्धौ – दृश्यत्वं शब्दाजन्यवृत्तिविषयत्वम्, सप्रकारकवृत्तिविषयत्वं वा । इदञ्च न ब्रह्मणि । तस्य श्रुतिरूपशब्दमात्र जन्याखण्ड (कारज्ञानविषयत्वात् 1 नापि पञ्चमप्रकारायामविद्यानिवृत्तौ ; अज्ञानसमकालिकत्वस्यापि हेतुविशेषणत्वादिति–तन्न —— घटोऽस्तीत्यादि दृश्यत्वानुमान भङ्ग-प्रसाधनम् ३९१ प्रत्यक्षविषये ब्रह्मणि शास्त्रमात्रजन्यवृत्तिविषयत्वस्य दुर्वचत्वात । ज्ञानसामान्यस्य प्रमाणजन्यस्यापि ब्रह्मरूपतया भ्रान्तेश्चाधिष्ठानज्ञानघटितमूर्तिकतया ब्रह्मणः सर्ववृत्तिविषयतया व्यभिचारतादवस्थ्यात् । पञ्चमप्रकाराविद्यानिवृत्तौ च यदि वृत्तिविषयत्वं नास्ति, तदानीमज्ञानकालवृत्तित्वं विशेषणं न देयम् । यद्यस्ति, अज्ञानकाल एव तत् समन्वेतीति तद्दोषतादवस्थ्यम् । तत्र तत्र व्यभिचारवारणाय हेतौ विशेषिते सति विशेषणानाक्रान्तदृश्यत्वविशिष्टमिव तादृशदृश्यत्वविशिष्टमपि अमिथ्यैवास्त्वित्यप्रयोजकशङ्का दृढीकृतैव भवतीति व्याध्यत्वासिद्धिश्च ॥ यत्तु -खात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वरूप मिथ्यात्वविकल्पविमर्शे उक्तम् -अतस्मिन् तत्प्रकारत्वं तदर्थः ; तदभाववति तत्प्रकारत्वमिति पर्यवसन्नम् । अत्र तदभावाधिकरणत्वमसंभवीति शतदूषणीप्रतिपादनमयुक्तम् -तदधिकरणत्वस्य भ्रान्त्या ग्रहणेऽपि बाधप्रमया तदभावाधिकरणत्वग्रहोपपत्तेरिति तन्न –तद्भिन्ननिरूपितप्रकारताश्रयत्वमिति प्रथमोक्तं यथाश्रुतं तावत् न मिथ्यात्वम् । आधेयानां स्वभिन्नयत्किश्चिदाधारनिरूपितप्रकारताश्रयत्वस्यैव घटवद्भूतलमित्यादौ सर्वत्रानुभविकतया मिथ्यात्वरूपत्वाभावात् । प्रत्युत तदेव तथ्यम् । स्वस्य स्वं प्रत्याधेयतया प्रकारत्वमेव मिथ्यात्वाय भवेत् । अतः स्वभिन्ननिरूपिततादात्म्यसंबन्धावच्छिन्नप्रकारताश्रयत्वं मिथ्यात्वमिति वक्तव्यम् । तत्र तदभाववति तत्प्रकारत्वमिति पर्यवसानं किमर्थम् ; पूर्व तत्पदं धर्मिग्राहि, इह तत्पदं धर्मग्राहीति वैलक्षण्यात् । अथ तत्प्रकारत्वमिति तार्किकोक्तभ्रमलक्षणवासना विलसितश्चेत्, तत्प्रकारकत्वमित्यर्थपरं सत् अनन्वितम् ; ज्ञान एव तत्सत्त्वात् प्रकारे तदभावात् । तन्निष्ठं प्रकारत्वमित्यर्थश्चेत् — खात्यन्ताभाववन्निरूपितप्रकारताश्रयत्वमिति लेखनमेव ऋजु; न त्वेवम् । अस्य पर्यवसितार्थस्य स्वात्यन्ताभावेति शतदूषणीग्रन्थ एवं स्पष्टतया प्रथमम्, अतस्मिन्नित्यादिवचनम्, अथ पर्यवसानमिति विस्तरो वृथैव । ३९२

( किञ्च कस्यचित् कचित् विषये भ्रमः, उन्मत्तस्य तु सर्वत्रैव भ्रम इति तदभाववन्निरूपितप्रकारताश्रयत्वं वस्तुषु जगत्सत्यत्ववादितार्किका दिसर्वसंमतमेवेति नेदं भवदभिमतं मिथ्यात्वं भवितुमर्हति । अथ “खात्यन्तभावाववत्येव प्रतीयमानत्वमिति एवकारघटनान्न दोषः । सत्यत्ववादिभिः तदधिकरणे तदभावाधिकरणे च तत्प्रतीतेरभ्युपगमादिति चेन्न उपरि भवता, कपालादौ घटादेः स्वाभाव सामानाधिकरण्यस्य सर्वलोकप्रत्यक्षविरुद्धत्वेऽपि ब्रह्मणि प्रपञ्चाभावज्ञानं न बाधितुं शक्यते " इत्युक्तया प्रपञ्चान्तर्गतघटादेः कपालादौ प्रतीतेरिष्टतया स्वात्यन्ताभाववत्येव प्रतीयमानत्वस्यासंभवात् । पृथिव्यादेः कूर्माद्याधारकत्वस्य, कृत्स्नस्य प्रपञ्चस्य सगुणब्रह्मरूपेश्वराधारकत्वस्य च शास्त्रप्रतिपन्नत्वात् घटं प्रति कपालस्येव तस्य तस्य नियमेन तत्तदाधारकत्वात् एवकाराश्रनन्वयात् । एवं ब्रह्मणोऽपि चैतन्यस्य अहं जानामीत्याद्यनुभवेन व्यञ्जकाहमर्थनिष्ठतया प्रतीयमानतया खात्यन्ताभावाधिकरण एव प्रतीयमानत्वमस्तीति तदेव मिथ्या स्यात् । अपि च, नेह नानास्तीति श्रुतिः ब्रह्मणि प्रपञ्चाभावं बोधयति, उत भूतलादौ घटाद्यभावम् ? नान्त्यः, भूतलस्य सत्यत्वे घटस्यापि सत्यत्वेन तन्निष्ठस्य तदवृत्तित्वकथनायोगात् । घटस्य मिथ्यात्वेन वस्तुतस्तदभावस्य विवक्षितत्वे तुल्ययुक्तया भूतलस्याप्यभावेन तंत्र घटाभावाधारत्ववर्णनायोगात् आद्ये अप्रसक्तप्रतिषेधः स्यात् । श्रुत्या ब्रह्मणि प्रपञ्चसत्ता बोधिता बाध्यत इति चेत्–तन्न युक्तम् । श्रुतिबोधितत्वे बाधायोगात् । उपपादयिष्यत इदमुपरिष्टात् । निषेधेऽपि हदे अग्न्यभाववचनवत् ब्रह्मणि तदभावमात्रं सिद्ध्यति चेत् –कथं जगन्मिथ्यात्वम् । एतेन घटः सन् इति प्रत्यक्षत एव ब्रह्मणि जगत्प्रतीतिरिति निरस्तम् । घटः सन् भित्तिः सती, गृहं सत्, घटोsस्तीत्यादिविचित्रप्रतीतिसिद्धिविशेषणभावस्य सत्त्वस्य स्वतन्त्रत्रह्मरूपत्वासिद्धेः । भूतले घटोऽस्तीत्यादौ ब्रह्मण एव सत्तारूपाधेयतात्वेन भ्रम इति चेत्-न तर्हि सत्पदं पारमार्थिकसत्तापरम् । यदि च सत्तापदमाधेयतात्वेन ब्रह्मग्राहकम् । 1 दृश्यत्वानुमान-भङ्ग प्रसाधनम् ३९३ घटादिपदमपि तर्हि घटत्वेन ब्रह्मग्राहकं मन्येत । इष्टमेवेति चेत् सन् घट इत्युदाहरणानुधावनं व्यर्थम् । घटोऽस्तीत्यादौ घटस्यान्यविशेषणतयाऽनुभव एव न । नतरां कलिपतत्वेन । किञ्च घटोऽस्तीत्यादौ ब्रह्मणि सति घटतादात्म्यभ्रान्तिरेव वक्तव्या । तादृशभ्रान्तिनिवृत्यर्था चेत् श्रुतिः, नेह नानेति सप्तम्यन्तनिर्देशो न घटते । नेदं नानेत्येव हि तदा युक्तम् । तस्मात् श्रौतं ब्रह्मणः प्रपञ्चवत्त्वमेव श्रुत्या निषेध्यमिति निषेधायोग एव ॥ एवं तदभावाधिकरणे प्रतीयमानत्वं प्रत्यक्षविरुद्धम् । लोके कृत्स्नपपञ्चस्य साधिकरणत्वेन प्रतीयमानत्वस्यैवाभावात् । घटवद्भूतलमित्यादौ क्वचिद्धूतलादेरधिकरणत्वेन प्रतीतिरस्तीति चेत् तस्य घटाभावाधिकरणत्वं प्रकृतानुमानाभिमतं नेति भवतैवोक्तम् । अप्रसिद्धश्च घटादेः सर्वत्र त्रैकालिकोऽभावः । श्रुतिबलसिद्ध इति चेत् — तर्ह्यनुमानेन मिथ्यात्वं न साधनीयम् ॥ ; अथ शतभूषण्यनुक्तविधामप्याशङ्कय परिहरामः । खात्यन्ताभावाधिकरणे प्रतीयमानत्वं हि नाम तुल्यगत्या स्वप्रकारकप्रतीति विशेष्यवृत्त्यत्यन्ताभावप्रतियोगित्वम् । इदमत्यन्ताभावप्रतियोगित्वं प्रकृतहेतुना साध्यत इति चेत्–व्यवहारदशायां भूतलवत् घटस्यापि सत्त्वेन अन्यदा चोभयोरप्यभावेन विशेप्यपदेन भूतलग्रहणं न भवति भूतलसत्त्वे घटस्यापि तत्र सत्त्वात् तदभावायोगात् । भूतलाभावे च तदधिकरणकत्वस्य भावे दुर्वत्वात् । प्रतीतिविशेष्यत्वं ब्रह्मण इति चेत्यो हि भवादृशवाक्यात् ब्रह्मास्तीति बुद्धा पश्चात् विमृशति, प्रपञ्चो न ब्रह्मविशिष्ट इति तदीयप्रतीतिविशेष्यवृत्यत्यन्ताभावप्रतियोगित्वं ब्रह्मणोऽपीति तस्य मिध्यात्वापत्तिः । वस्तुतः तत् बाध्यं तत्र नास्तीति चेत् — प्रपञ्चे परमस्तीति कथमवसितम् । प्रकृतेन दृश्यत्वानुमानेनैवावसीयत इति चेत् — अग्न्यनुष्णत्वानुमानवत् बाधितो हेतुः । अथैतदवसायः श्रुत्येति चेत् — उक्त तावत् तदाऽनुमानं व्यर्थमिति । न च श्रुतिरपि तस्य अन्यार्थकत्वात् । तदिदमुक्तं शतदूषण्याम्, 50 66 प्रत्यक्षाद्यैस्त द्वि ३९४

धायकैस्तदभावग्रहासम्भवात् । श्रुतीनामपि निषेधिकानामन्यत्र व्यवस्थापनात् इति । एतेन, " ब्रह्मणि प्रपञ्चाभावानुमानस्य प्रमात्मकश्रुति सिद्धप्रपञ्चाभावज्ञानोपष्टब्धत्वात् " इति निरस्तम् ॥ अथ सद्विलक्षणत्वरूप मिथ्यात्वमप्यामृश्यते । जगतो व्यावहारिकसत्ताश्रयत्वेन, सामान्यतः सद्विलक्षणत्वं बाधितम् । पारमार्थिक सत्ताश्रयविलक्षणत्वं साध्यमिति चेत्किमिदं पारमार्थिकत्वम् ? अबाधितत्वमिति चेत् -तर्हि तादृशसं द्विलक्षणत्वं नाम बाधितत्वमेव । तच्चात्यन्ताभावप्रतियोगित्वमिति प्रागुतादविशेषः । अत्र सद्विलक्षणत्वसाधने सिद्धसाधनम् । सत्सामान्यभिन्नत्व-साधने च बाध इत्यादि शतदूषण्यामेव विस्तृतम् । यत्तक्तं सद्विविक्तत्वं दोषासह कृतकरणजन्यज्ञान विषयान्यत्वं ब्रह्मतुच्छव्यावृत्तमिति तन्न —’” न चक्षुषा गृह्यते " इत्यादिना ब्रह्मणः चक्षुरविषयत्वात् प्रपञ्चप्रत्यक्षार्थमेवेन्द्रियाणां क्लृप्तत्वात् शुत्त्यादेः रजताद्यात्मना भाने दोषसापेक्षत्वेऽपि शुत्यादिस्वरूपप्रत्यक्षे दोषापेक्षा विरहात् दोषासहकृत करणजन्यज्ञानविषयत्वस्यैव प्रपञ्चे सत्त्वेन बाधात् । ब्रह्मण्येव त्विदं साध्यं स्यात् । तस्य करणागोचरतायाः, “ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह " इत्यादिसिद्धत्वात् । एवं तुच्छव्यावृत्तत्वमपि न । तस्य करणजन्यज्ञानविषयान्यत्वात् । दोषसहकृतकरणजन्यज्ञानविषयत्वमेवेति चेत्–तदापि सिद्धसाधनम् । प्रपञ्चे प्रमाविषयत्ववत् भ्रान्तिविषयत्वस्यापीष्टत्वात् । अत्र दोषपदेन काचकामलादि गृह्यत इति किल भवतोक्तम् । घटादि च काचाद्य सहकृतचक्षुर्जन्यज्ञानविषय एव । यच्चाविद्याया दोषत्वं ब्रह्मावरणादिति तन्न ; आवारकदोषसद्भावपर्यन्तं ब्रह्मज्ञानोत्पत्त्ययोगेन तत्त्वमस्यादिवाक्चात् ब्रह्मज्ञानासंभवप्रसङ्गात् । यच्च …. भ्रान्तिसिद्ध इति निष्कर्ष इति —तत्र केयं भ्रान्तिः ? तदभाववति तत्प्रकारकज्ञानमिति चेत्-तदिह पूर्वविकल्प एव चर्चितम् ।

अनिर्वचनीयविषयक ज्ञानविषयत्वमपि बाधितम् । अनिर्वचनीयत्वस्यानिर्वाच्यत्वादप्रसिद्धिश्व । दृश्यत्वानुमान भज-प्रसाधनम् ३९५ यच्च सद्विविक्तत्वं ब्रह्मभिन्नत्वं, तश्च ब्रह्मतादात्म्यम् । तादात्स्य भेदघटितत्वात् । अत एव ब्रह्मणो न ब्रह्मतादात्म्यमिति तदिदं व्यवहारपथानारूढम् । को हि भिन्नत्वं तादात्म्यञ्चैकं ब्रूयात् ? भिन्नत्वतादात्म्ययोः भिन्नत्वस्यैव सर्वलोकप्रसिद्धत्वात् । नीलो घट इतिवत् ‘घटो घट’ इति व्यवहाराभावात् समानाधिकरणप्रयोगः, किञ्चिद्रूपेण भेदे सति तादात्म्यं यत्र, तत्रेत्युच्यते । तावता तादात्म्यं भिन्नत्वश्चैकमिति को ब्रूयात् ? भेदघटिततादात्म्याङ्गीकारे च भेदाभेदस्वीकारात् भास्करमतप्रवेशापत्तिः । असम्भवि च ब्रह्मतादात्म्यं जडप्रपञ्चस्य । किञ्च भामत्याम्, न खल्वनन्यत्वमित्य मेद ब्रूमः । किन्तु भेद व्यासेधामः " इत्युक्तम् । तथा च न भेदः, । । नाप्यभेदो ब्रह्मणः प्रपञ्चम्येति कथमिदं तादात्म्यम् ? ॥ "" अस्मन्मते शरीरशरीरिणोः भेदात् प्रपञ्च ब्रह्मभिन्नत्वं सिद्धमेवेति शतदूषण्युक्तविषये यदुच्यते–भेदे ब्रह्मपरिणामवादः परित्यक्तः स्यात् । ब्रह्मशरीरभूतप्रकृतिपरिणाम इत्युक्तौ च प्रकृतेरेवोपादानत्वम्, न ब्रह्मण इति नाममात्रमभिन्ननिमित्तोपादानत्ववचनमिति । एवं क्रियासमभिहारेण ब्रह्मणः उपादानत्वमस्मन्मते औपचारिकमिति घोषणमात्रेण न शक्यं ब्रह्मण उपादानत्वं मुख्यमपलपितुम् । भाव्यवस्थावतः पूर्वावस्थाश्रयत्वं छुपादानत्वम् । अवस्थाश्रयत्वं च ब्रह्मणोऽप्यस्तीति विस्तृतमन्यत्र । विवर्तोपादानत्वमेव तु लोकाप्रसिद्धमिति ब्रह्मण उपादानत्वानुपपतिर्भवन्मत एवेत्युक्तमधस्तात् । प्रकृतिगतामवस्थामादाय अवस्थाश्रयत्वं ब्रह्मण उच्येतं चेत् — मुख्योपादानत्व-भङ्ग इति च कुतोऽवगम्यते ? " काठिन्यवान् यो विभर्ति तस्मै भूम्यात्मने नमः" इति भगवता पराशरेण भूमिगतं काठिन्यमादाय ब्रह्मणः काठिन्यवत्त्वमुक्तम् । साक्षादिव स्वाश्रयाश्रयत्व संबन्धेनापि तद्वत्त्वव्यवहारोऽनुभवारूढो न हातुं शक्यः । विवेकिभिरयःपिण्डे औष्ण्यव्यवहारः क्रियमाणः तथैव निर्वोदव्यः । सुरभि जलमित्यादिरपि । साक्षादवस्थाश्रयत्वमेवोपादानत्वमिति न ३९६ परार्थभूषणे श्रुतिरस्ति ; न वा युक्तिः । पदार्थस्वरूपस्वभावेष्ववगतेषु यत्र यत्रोपादानत्वव्यवहारः श्रुत्यादिप्यवगम्यते, तत्र तत्रानुगतिर्यादृशनिर्वचनादरणे भवितुमर्हति तादृशमेव वक्तव्यमिति साक्षात् वा, परम्पराविशेषेण वा अवस्थाश्रयत्वमेवोपादानत्वमुपादेयत्वञ्च । अत एव चेतनानां कार्यत्वकारणत्ववचनानि सङ्गच्छन्ते । अन्यथा निर्विकारे तत्र तदनिर्वाहात् । तदेतत् स्वावसरे विशदीभविष्यति । नियम्यनियामकभावमात्रेणौपचारिकः शरीरात्मत्वव्यवहार इत्य् अपि खण्डयिष्यते । केन रूपेण मुख्यस्तद्व्यवहार इति च भवता निरूपणीयमित्यलमामहवचनोपरि अनवसरे विस्तरेण ॥ 1 किश्च सत्यभिन्नमिति ब्रह्मण एकस्यैव सत्यत्वात् तद्भिन्नत्वं प्रपञ्चे उच्यते सत्यत्वेन रूपेण गृहीत्वेति पक्षे, सत्यत्वस्य ब्रह्ममात्रनिष्ठतया उस्य लोकानवगतत्वेन शास्त्रादवसेयतया तत्र एवं शास्त्रात् विश्वमिथ्यात्वमप्यवसीयत इति व्यर्थमिदमनुमानम् । ‘श्रोतव्यो मन्तव्य’ इत्युक्त मननमेवं क्रियत इति चेत् — तदपि सिषाधयिषामात्रेण प्रयोगपक्षे कथञ्चित् स्यात्, न तु साध्यविषयकशङ्कातङ्कशामकं मननमिति पक्षे । हेतोरप्रयोजक शङ्कायामनुमानस्यासाधकतया शङ्काया अपरिहरणात् । अत एव श्रुतिप्रामाण्यवादिनां तदप्रामाण्यवादिनां च विश्वस्मिन् कल्पितस्य सत्यत्वस्य निषेधार्थमनुमानमित्यपि निरस्तम् । हेतोरप्रयोजकत्वात् । प्रत्यक्षवाधितत्वेनानुमानस्याभासत्वाच्च । प्रत्यक्षेण सत्यत्वमगृहीतमिति चेत् तर्हि अप्रसक्तं न प्रतिषेधनीयम् । ब्रह्मगतं सत्यत्वं द्वैतिभिरारोपितमिति चेत्–तत् सर्वकालसंबन्धरूपम्, अन्यद्वा ? माधे तदभावसाधने सिद्धसाधनम् । तस्य द्वैतिभिरवचनात् अनारोपात् । अन्त्ये, श्रुत्यप्रामाण्यवादिभिरपि विश्वस्मिन् सत्यत्वग्रहात् तैः ब्रह्मगतस्य सत्यत्वस्य श्रौतस्यागृहीतत्वेन तदारोपायोगात् प्रपञ्चगतमेव तत् सत्यत्वमिति नारोपप्रसक्तिः । अत एवानारोपात्मक प्रत्यक्षसिद्धं सत्यत्वं न दुर्बलेनानुमानेन शक्यं निरसितुम् । चन्द्रप्रादेशिकत्वप्रत्यक्ष बाध्यते किलेति चेत्—तत्र श्रुति 1 । । दृश्यत्वानुमान-भङ्ग प्रसाधनम् ३९७ प्रमाण्यातुं दूरत्वदोषस्य अल्पतामहेतुत्वस्याञ्जसा क्लृप्तत्वाच्च तथा । न च प्रकृते श्रुतेरिदानीं वादिप्रतिवादिभ्यां मिथ्यात्वरूपार्थावधारणमविशेषेण । न च लोकक्लृप्तः कंश्चिदिह दोषः समस्ति । शेषं शास्त्र विरोधपरिहारप्रसाधने । नभोनैल्यप्रत्यक्षं दोषायत्तमिति न केवलं श्रुत्या, किन्तु, अन्तिके नभसि नैल्यस्य प्रत्यक्षबाधितत्वात् यस्मिन् कस्मिञ्चित् नीलत्वेन गृह्यमाणे नभस्त्वारोप इति पर्यालोचनयाऽप्यवगम्यते । " नभोनीरूपत्वानुमानस्य च विपक्षे बाधुकतर्कसचिवत्वाच्च" इति लेखनात् दृश्यत्वानुमानं विपक्षे बाधकरहितं न श्रुत्यनुम्राहकमिति विदितप्रायम् । ‘युक्तयुपन्यासः तर्काप्रतिष्ठानार्थम् ; न तु तर्कजैव किमपि तत्त्वं साधयितु’ मित्यस्तु । तावता नापेक्षितान विकलत्वेनावधृतस्य तर्कस्य तर्काप्रतिष्ठान प्रदर्शनार्थता । अन्यथा तर्कपादे साङ्ख्यतर्क-सौगतादि मतखण्डनार्थमुप क्षिप्तान् तर्कान् पूर्वपक्षे निक्षिप्य तन्निरस्तान् तत्तद्वादिपूर्वपक्षतकनेव सिद्धान्ततया ते वादिनोऽनू विजयोद्धोषं विदधियः । यत्तु -सत्यत्वा त्यन्ताभावाप्रसिद्धिपरिजिहीर्षयोच्यते, सत्यत्वं किञ्चिनिष्ठाभावप्रतियोगि, धर्मात्वादित्यनुमानेनाभावसिद्धिरिति तन्न -न ह्यत्र शतदूषण्यां सत्यत्वात्यन्ताभावाप्रसिद्धिरुद्भविताऽस्ति, येनैवमनुमानप्रयास आदरणीयः स्यात् । ‘श्रुत्यनुपजीवनेन प्रत्यक्षवाधितमनुमातुमशक्यम् । श्रुत्युपजीवने चानुमानं व्यर्थम् । श्रुतिरप्यन्यार्थेति नोपजीव्या भवती’ त्येतावदेवेहोच्यते । यदि च तथापि सामान्यतः सत्त्वाभावस्य वस्तुत बाधितत्वात् अप्रसिद्धत्वाच्च घटादौ वस्तुतः स्वानधिकरणत्वेन प्रत्यक्षसिद्धततस्तु निरूपितसत्त्वाभावरूपविशेषः शुक्तौ रूप्यतादात्म्याभाववत् सिषाधयिष्यते, तर्हि सिद्धसाधनदुष्टञ्चंद धर्मत्वरूपं किञ्चिन्निष्ठाभावप्रतियोगित्वानुमानम् । एवं केवलान्वयिधर्मषु साध्याभावात् हेतोः सत्त्वाच्चानैकान्त्यम् । किञ्च किञ्चिदिति कस्य ग्रहणेन पक्षे साध्यसाधनम् ? तुच्छस्येति चेत् कथं तत् असत् कस्यचिदाधारभूतम् । अतः तन्निष्ठत्वेनाभावो दुरुपपादः । यदि तु अभावप्रतियोगित्वं तदनुयोगित्वं च शशविषाणादेरपीष्यते, तर्हि सत्यत्वात्यन्ताभावस्यैव तुच्छे प्रसिद्धिः सुवचेति \

किमर्थमिदमनुमानम् ? किश्च प्रतिभासिके सत्त्वाभावस्येष्टत्वात् भवतां नापसिद्धिरपि । वयं तु शुक्तिरूप्यादेर्विलक्षणस्य पदार्थस्याभावात् दृष्टान्तासिद्ध्याऽनुमानमेव दुःस्थं ब्रूमः । शुक्तिश्च रूप्यश्च पृथक् सत्यमेव, अन्यच्च नेति दृश्यत्व हेतुः सत्यत्वसाधकत्वात् विरुद्ध एव । प्रपञ्चदृष्टान्तेन शुक्तिरूप्ये दृश्यत्वहेतुना सत्यत्वसाधनं प्रत्युत युक्तम् । आहच कणादः, “अविद्या च विद्यालिङ्गम् " इति । अतो भवदुक्तस्य दृश्यत्वहेतोः दृष्टान्ताभावात्, ’ स्तम्भादिप्रत्यया असद्विषयकाः बाध्यार्थविषयकाः प्रत्ययत्वात् शुक्तिरूप्यप्रत्ययवदित्येवानुमातव्यम् । तदा च बौद्धमतप्रवेश एव । तत्र च " नाभाव उपलब्धेः " इति सूत्रतच्छाङ्करभाष्यादिकमप्युत्तरं भविष्यति । यत्क्तम् " परमार्थतस्तु प्रत्यक्षेण मिथ्यात्वविरोधि सत्त्वं न गृह्यते । त्रिकालावाध्यत्वमेव सत्त्वम् । तस्यातीतानागतकालादिघटिततया न प्रत्यक्षयोग्यत्वम्" इति -तत्र मिथ्यात्वविरोधिसत्त्वं प्रत्यक्षेण गृह्यत इति अद्वैतसिद्धयुक्तखण्डनेन शास्त्रबलीयस्त्वपरीक्षणावसरे प्रपञ्चयिष्यते । एतावत् पुनरिहोच्यते ; अबाध्यत्वं बाध्यत्वत्वावच्छिन्नप्रतियोगिताकाभावः सत्त्वम् । न तत्र अतीतानागतकालादेर्विषयता । एवम्, “ज्ञानप्रामाण्यग्राहिणा सक्षिणा विषयगतमबाध्यत्वं गृह्यते । अन्यथा प्रामाण्यग्राहित्वासंभवात्" इति तदुक्ततया, तद्रीस्यैवाबाध्यत्वरूपमपि सत्त्वं प्रत्यक्ष्यं भवति । न च व्यवहारकाला बाध्यत्वमात्रं साक्षिभास्यमिति वाच्यम् -व्यवहारादेः साक्ष्यग्राह्यत्वेन तद्घटिताबाध्य त्वस्य साक्षिणा ग्रहणायोगात् । बाध्यत्वसामान्याभावग्रहणमन्तरा किञ्चित्कालाबाध्यत्वग्रहणमात्रेण सत्यत्वायोगाच्च । बाध्यं शुक्तिरूप्यादिकमपि हि न सर्वदा बाध्य लक्ष्यत इति तस्यापि सत्यत्वापत्तेश्च । शतदूषण्युक्तेषु सत्त्वविकल्पेषु स्वानभ्युपगतकोटीनां स्वयमपि शतदूषणयुक्तदूषणानुवादो वृथा । “अतोऽन्यदार्तम्” इति श्रुतिः ब्रह्मव्यतिरिक्तस्य नासत्त्वं बोधयति । आर्तमित्यस्य मिथ्यापर्यायत्वाभावात् । यत्तु -प्रामाणिकत्वं सत्त्वमिति शतदूषण्यभिमतार्थखण्डनम्, “मिथ्यात्वस्यापि दृश्यत्वानुमान सिद्धस्य सत्त्वापत्तेः । एवञ्चा दृश्यत्वानुमान भज-प्रसाधनम् ३९९ नुमानेनापि सत्त्वमेव गृहीतमिति न प्रत्यक्षेण मिथ्यात्वानुमानबाधः" इति तन्न — दृश्यत्वानुमानस्य प्रमाणत्वे तदनुमितं मिथ्यात्वं सत् भवेत् । न तु तदेव सत्त्वम् । अतो मिथ्यात्वानुमानं न सत्त्वानुमानं भवति । मिध्यात्वाश्रयत्वेनाभिमतानां वस्तूनां सत्त्वं प्रामाणिकत्वमस्तीति तेषां मिथ्यात्वमप्रामाणिकत्वरूपमनुमातुं न शक्यते इति ब्रूमः । तदत्र भवदुक्तमनन्वितम् । न च दृश्यत्वानुमानं प्रमाणम्, प्रामाणिकेषु अप्रामाणिकत्वसाधकतया बाधितत्वात् । प्रमाणानि हि प्रत्यक्षानुमानागमादीनि ब्रह्मातिरिक्तपदार्थप्रमित्यर्थमेव स्थितानीति चैषां प्रामाणिकत्वमविचाल्यम् । अथ मिथ्यात्वं नाम नाप्रामाणिकत्वम् ; किन्तु पश्चात्तनबाधविषयत्वम् । यावद्वाधं मिथ्यात्वेन । निश्चीयमानार्थविषयकज्ञानविषयत्वेन प्रामाणिकत्वमस्ति । अत एव व्यवहारयोग्यतारूपं सत्त्वमपि नासंभवीति चेत्तन्न-व्यवहारयोग्यत्वं प्रामाणिकत्वं च न भिन्नम् । व्यवहारयोग्यता हि व्यवहारप्रयोजकज्ञानविषयत्वम् । व्यवहारश्च प्रमाणजन्यज्ञानत एव, न शुक्तिरूप्यादिज्ञानात् । कायव्यापाररूपव्यवहारासिद्धेः । अत्र यावद्वाधं मिथ्यात्वेनानिश्चीयमानत्वमात्रेण प्रामाणिकत्वस्वीकारे शुक्तिरूप्यादेरपि प्रामाणिकत्वापत्तिः । बाधात् पूर्वमपि बाधिष्यमाणमिति ज्ञाने सति प्रामाणिकत्वं नेष्यते, यथा, पीतः शङ्खः इति प्रत्यक्षे पीतरूपादौ । तथात्रा द्वैतशास्त्रजन्यज्ञानेन बाधिष्यत इति यो मन्यते स कथं यावद्वाधं मिध्यात्वेनानिश्चीयमानत्वं ब्रूयात् । सर्वथा बाधिप्यमाणार्थज्ञानसाधनस्य प्रमाणत्वमपि नास्तीति प्रामाणिकत्वरूपसत्त्वपरित्याग एव स्यात् । अतः शुक्तिरूप्य स्वामिकपदार्थादौ तदात्वे प्रामाणि कत्वबुद्धिरिवेहापि व्यवहारदशायां प्रामाणिकत्वबुद्धिमात्रम्; वस्तुतः प्रामाणिकत्वं नास्त्येवेति पक्ष एव भवतां युक्तः । तथा कथनञ्च बाधप्राप्त्यनन्तरमेव युज्यते । व्यवहारमध्ये तु अनुभवविरोधात् अनाप्तत्वेनाध्यवसितपुरुषोक्तात्, नेदं रजतमिति वाक्यात् जायमानं ज्ञानमिव जगन्मिथ्यात्वज्ञानमेव मिथ्याविषयकमध्यवसीयेत । नन्वनाप्तवाक्यतस्तथाऽस्तु ; अनाप्तीयविलक्षणात् तत्त्व •४००

मस्यादिवाक्याज्जाते ज्ञाने कथं मिथ्याविषयकत्वनिश्चय इति चेत् -अनुभव विरोधात् अनाप्तीयविलक्षणमिदं वाक्यं न विपरीतार्थबोधनक्षममिति वाक्यस्यार्थान्तरपरत्वाध्यवसायात् तात्पर्याविषयतादृशार्थज्ञानं मिथ्याविषयकमिति तत्रापि निश्चीयेत । नन्वाप्तेनेश्वरेणोपदिष्टे अद्वैते कथमश्रद्धेति चेत् -न; अदर्शनात् । ईश्वरस्तावत् असाक्षात्कृततत्त्वो न भवितुमर्हति । साक्षात्कृतवांश्च स्वातिरिक्तस्योपदेश्यस्य पुंसोऽभावात् कस्मै उपदिशेत् सर्वं मिथ्येति व्यवसाये च न हेयं किञ्चिनिवर्तनीयमस्ति ; न च भोग्यं किञ्चित्प्राप्यमस्ति यदर्थ उपदेशः स्यात् । न च नित्यसाक्षात्कारिणः बाघज्ञानपूर्वस्थितानुवृत्तिरवशादापततीति सुवचम् । न च तत्त्वोपदेशो बधितानुवृत्त्यात्मा । अतः एवमर्थतत्त्वे सति उपदेष्टृत्वायोगात् आप्तस्येश्वरस्य वचनमन्याभिप्रायमिति विवेचनादद्वैतज्ञानं मिथ्याविषयक निश्चीयेतेति ॥ ; ज्ञानस्य यत्तु –सत्त्वं नाम प्रामाणिकत्वमित्युक्तौ सत्त्वं न प्रत्यक्षयोग्यं स्यात्, चक्षुरयोग्यप्रमादिघटितत्वात् । अन्योन्याश्रयश्च -सदर्थविषयकलं प्रमात्वम् । अर्थस्य सत्त्वं च प्रमाविषयत्वमिति । न च सन् घटः इति ज्ञानस्य ज्ञानान्तरं विषयः, येन प्रमान्तरविषयत्वरूपं सत्त्वं घटे ज्ञानेनान्येन गृह्यत इति स्यादिति पराक्रान्तमद्वैत सिद्ध्यादाविति -तत्राद्वैतसिद्धिपराक्रमः शास्त्रबलीयस्त्वविचारे प्रतिहनिष्यते । एतावत्त्विहोच्यते–घटोऽस्तीति व्यवहारो द्विविधः । भूतले घटोऽस्तीत्येवं सोपपदः, केवलर्श्व । आद्ये, सत्ता भूतलादिनिरूपिताधेयतारूपा । अन्त्ये तु न सत्त्वमाधेयत्वम् । घट इति कश्चित् पदार्थः प्रामाणिको न वेति विचारावसरे तन्निर्णयाय तथा प्रयोगात् । अत एव तत्र सत्त्वं प्रामाणिकत्वमेव । प्रामाणिकत्वञ्च प्रमाणजन्य मितिविषयत्वम् । तच्च ज्ञानविषयस्य वस्तुनः यथागृहीतं सद्भावः अर्थतथात्वमिति यावत् । घट इति किञ्चिदस्ति न वेति प्रष्टुश्ध वस्तुनि घटत्ववत्त्वमस्ति न वेत्येव प्रश्नपर्यवसानम् । अतः अस्ति घट इत्यस्य घटत्वाश्रय एव वस्तु इति बोधनपरत्वम् । पण्डितो भवतीत्यादौ भूधातोः पाण्डित्यरूपसममिव्याहृतपदार्थ दृश्यत्वानुमान प्रसाधनम् જન્મ तावच्छेदकधर्मवत्त्वमर्थः इत्यानुभविकम् । “अस भुवि” इति धावत्वर्थपरामर्शे घटोऽस्तीति प्रयोगोऽपि ज्ञानविषये वस्तुनि घटत्ववत्तामेव गृह्णाति । इदमेव च प्रामाणिकत्वम् । इदञ्च चक्षुरादिप्राह्यमेव । मिध्यात्वं च तद्वत्त्वेन प्रतीते तदभावः । घटोऽस्तीत्यनेन च यत् घटत्वेन प्रतीयते, तत्र घटत्वमस्तीति बोध्यते । एवं प्रमाविषयत्वं सत्त्वमित्युक्तावपि न दोषः । घटविषयकप्रमा हि जायमाना स्वप्रकाशत्वात् घटं स्वञ्च प्रकाशयति । अत एव घटमहं जानामीत्याकारः ज्ञानस्य प्रदश्यते । एवञ्च यावदुक्तं भवति, घटोऽनुभूयते घटः प्रमीयते इति तावदुक्तं भवति घटोऽस्तीति । किञ्च घटविषयकप्रमायामेकस्यां जातायां प्रमान्तरेण तद्विषयीकारोऽपि नायुक्तः । ज्ञानस्य ज्ञानान्तरवेद्यत्वसंमतेः । सर्वथा सत्त्वं प्रत्यक्षगम्यम् वस्तुतथात्वं चेत् बहिरिन्द्रियग्राह्यम् । प्रमाविषयत्वं चेत् आन्तरप्रत्यक्षविषय इति ॥

“घटोऽस्तीत्यत्र न पारमार्थिकसता प्रतीयते । किन्तु व्यावहारिकी” इत्यप्ययुक्तम् । पारमार्थिकत्वेन सताया अनुभवात् । दृश्यत्वानुमानेन तन्निवेधश्च बाधादयुक्त एव । सत्तात्रैविध्यञ्च निर्मूलम् । एवं निर्मूलानेककल्पनानां सर्वत्र सिद्धवत्कारेणोपन्यासक्रियासमभिहारमात्रेण न वस्तुसिद्धिः । यदपिघटोऽस्तीत्यत्र सन्मात्र गृह्यते, घटादिकं विकल्पितम् । अतो न घटादिसत्ता ग्रहविषय इति तत्तु सन्मात्रग्राहित्व-भङ्गे परास्तमेवेति किमत्र पुनः प्रस्तावेन । सन्मात्रग्राहित्वे च प्रत्यक्षस्य ग्राह्यवैजस्याभावात् ग्राहकेन्द्रियभेदसद्भावेऽपि न प्रमाणम् । यदि घटोऽस्तीत्यादिकं न घटादिगतसत्ताग्राहकम्, तर्हि घटादौ सत्तायाः प्रसत्तत्यभावात् घटे सत्त्वाभावरूपमिथ्यात्वानुमानेन तन्निषेधः किमर्थः । प्रत्यक्षस्वरूपशोधनमात्रस्य पर्याप्तत्वात् । तदा च घटादेरप्रत्यक्षत्वात् दृश्यत्वरूप हेत्वसिद्धिश्च । ब्रह्मण एव दृश्यत्वात् तस्यैव मिथ्यात्वं स्यात् । ज्ञेयत्वसामान्यमेव दृश्यत्वमित्युक्तावपि ब्रह्मगो मिथ्यात्वनपरिहार्यम् । चैतन्यविषयत्वं घटादेरेव ; न तु वृत्तिनात्रविषयस्य ब्रह्मण इति चेत् घटोऽस्तीति प्रत्यक्षं चैतन्यं वा वृत्तिर्वा ? आद्यस्य न सविषय 1 51 ४०२

कत्वम् । अन्त्ये, घटादयः सत्याः वृत्तिविषयत्वात् ब्रह्मवत् इति ; विरोध एव स्यात् । अस्तीति ब्रह्मणो ग्रहणे च घटोऽस्तीतिवत् घटो ब्रह्म घट आत्मेत्यादिव्यवहारस्याप्यापत्तिः । शुक्तिरूप्यादिभ्रमे शुत्यादेर्विशेषरूपेणाभानवत् ब्रह्मणो न विशेषरूपेण भानं युक्तमिति चेत्घटोऽस्तीत्यत्र केन रूपेण भानम् ? इदं रजतमिति पुरोदेश वर्तमान काल स्थितत्वेन रूपेण शुक्तिभानवत् सत्त्वेन ब्रह्मभानमिति चेत्-निर्धर्मके ब्रह्मणि किमेवं कश्चिद्धर्मोऽस्ति ? अन्यगतधर्म आरोपितस्तत्रेति चेत् तर्हि घटोऽस्तीति घटगतमेव सत्त्वं भासते धर्मि पुनः ब्रह्म तथा गृह्यते इत्युक्तं भवति । तथा च गतं पारमार्थिकसत्तया । घटादिरेव पारमार्थिकसत्ताश्रयो भाव्यः । एवं भ्रमत्वसाधनाय ब्रह्मभानमत्रेति कल्पनामात्रम् । स्वरूपतो ब्रह्मभानवत् घट एव स्वलक्षणभूतः स्वरूपतो भासते घटत्वसत्त्वादिकं विकल्पविषयभूतमिति सौगतच्छायैव कस्मान्न स्यात् ? यदि घटस्य पटभेदरूपतया प्रतियोगिग्रहणमन्तरा प्रत्यक्षेण ग्रहणायोगः, ब्रह्मणोऽप्यनृतजड परिच्छिन्नभिन्नतया प्रतियोग्यग्रहणात् प्रत्यक्षविषयत्वायोग एव । स्वरूपेण तद्भानं संभवतीति चेत् घटादेरेव तत् संभवतीति किमप्रसिद्धवस्तुग्रह कल्पनयेत्यलम् । W एतेन ब्रह्मणि सत्त्वं कल्पितम् । सद्रूपमेव ब्रह्म; न तु सत्त्वविशिष्टम्, सद्विविक्तत्वरूपमिथ्यात्वं च ब्रह्मभिन्नत्वापरपर्यायमित्यपि निरस्तम् । कल्पितस्य सत्त्वस्य वस्तुतो य आश्रयः तद्विषयतयैव प्रतीतिनिर्वाहे ब्रह्मविषयकत्वप्रतीतिभ्रमत्वादिकल्पनानुपपत्तेः । सतो ब्रह्मपर्यायत्वे घटोऽस्तीतिवत् घटो ब्रह्मेति व्यवहारापत्तेरुक्तत्वाच्च । सत्त्वाभावेऽपि सद्रूपमिति व्यवहारश्च व्याहतः ॥ यत्तु शतदूषणयुक्त सर्व विकल्प स्वीकारप्रत्याशया प्रत्युक्तम् सद्भिन्नत्वं नाम निर्हेतुकभिन्नत्वं ब्रह्मविवर्तत्वरूपम् । अतो न सिद्धसाधनमिति तन्न–सत्पदस्य, “यः सदाऽस्तीति केवल " मिति निर्वचनानुसारात भावविकार राहित्यपरत्वे निर्हेतुकत्वलाभ इति हेतोः भवदुक्तं स्वीकुर्मः । परन्तु सद्भिन्नत्वं । } दृश्यत्वानुमानभम-प्रसाधनम् ४० ३ निर्हेतुक भिन्नत्वात्मक सहेतुकत्वरूपं त्रा, अपक्षयविनाशपरिमाणर्द्धिजन्मवत्त्वं वा भविष्यतीति तत्र विवर्तत्वरूपविशेषपर्यवसानं कथम् ? परिणामत्वस्याप्यहेतुकत्वाभावरूपत्वसंभवात् । एवमपि मिथ्यात्वस्यासाधनादर्थान्तरं स्यात् । गोमयविवर्ते वृश्चिकादावपि विवर्तत्वसत्त्वेन शुक्तिरूप्य इव तत्र मिथ्यात्वस्यासिद्धेश्च । शुक्तिरूप्येऽपि विवर्तत्वस्य परैरनङ्गीकृततया तद्दृष्टान्तेन साधनासंभवश्च । एतेन सद्भिन्नत्वं नाम स्वप्रकाशभिन्नत्वम् परप्रकाश्यत्वं ब्रह्माश्रिताज्ञानतत्कार्यान्यतरत्वरूपम्, तत् परमतेऽसिद्धं साध्यत इत्य् अपि निरस्तम् । दृष्टान्ते शुक्तिरूप्यादौ परैस्तदसमतेः । शुक्तयज्ञानस्य ब्रह्माश्रितत्वाभावाच्च । श्रुत्यनुपजीवने ब्रह्मण एवासिद्ध्याऽप्यप्रसिद्धिः । स्वयंप्रकाशभिन्नत्वस्याज्ञानतत्कार्यान्यतरत्वे पर्यवसानञ्च कथम् ? सत्यभूतप्रकृतितत्कार्यान्यतरत्वेऽपि पर्यवसानसंभवात् । अज्ञानमिति ज्ञानाभावश्चेत्, न तत्कार्यत्वं प्रपञ्चस्य । भावरूपाज्ञानञ्चाप्रसिद्धम् ; दृष्टान्तेऽप्यस्वीकृतम् । अज्ञानं कर्मेति पक्षेच सिद्धसाधनत्वं तदवस्थम् । 1

यच्च तृतीयम् — सद्भिन्नत्वं नाम सत्त्वाभावे सति सद्रूपं यत् तद्भिन्नन्नत्वमिति तत्र सत्त्वाभावविशिष्टसद्रूपत्वमेव विरोधात् न संभवति । नतरां तद्भिन्नत्वम् । सत्त्वाभावविशिष्टसद्रूपभिन्नत्वं च सत्त्वविशिष्टसद्रूपत्वरूपं भवत् जगतः सत्त्वं सत्यत्वमेव गमयतीति मिथ्यात्वविपरीतसिद्धिः स्यात् । प्रपञ्चस्य सद्रूपत्वं श्रुतिविरोधात् बाधितमिति चेन्न – सदेवेदमिति श्रुत्या प्रपञ्चे सद्रूपत्वस्यैट बोधनादविरोधात् । एतेन सद्रूप भिन्नत्वानुमाने प्रपञ्च सद्रूपत्वमादायार्थान्तरकथनायोग इति प्रत्युक्तम् । सत्त्वाभावविशिष्ट सद्रूपभिन्नत्वस्य सत्त्वविशिष्टसद्रूपत्वे पर्यवसानसंभवात् ॥ यत्तु अन्यथाख्यातिवादिभिः सत्यरजतस्यैवापणस्थस्य शुक्तिस्थलेऽभावात् तन्निष्ठाभावप्रतियोगित्वरूपं मिथ्यात्वमस्तीति न वाच्यम्; तत्तदधिकरणे अध्यस्यमानत्वस्यापि विवक्षणादिति तेन कथमन्यथाख्यातिवादिवैलक्षण्यम् ? अध्यासो हि तैरपीष्यत एव । तुच्छवारणायाध्यस्यमानत्वनिवेश इति तु स्यात् । न त्वारोपितसत्यरजतवार णायेति । अध्यासमात्रविषयत्वं विवक्षितमिति चेत् तन्निष्ठाभावप्रतियोगित्वदळं ૪૪

व्यर्थम् । कश्चायमध्यासः ? तदभावाधिकरणविशेष्यकतद्वत्ताप्रतीतिरिति चेत्-तर्हि अधिकरणनिष्ठाभावप्रतियोगित्वघटितमेव मिध्यात्वमुक्तं भवतीति तद्दलमधिकमेव । एवं मात्रपदमपि व्यर्थम् । सत्यरजतवारणायेति चेत् — यदि भ्रमस्यानिर्वचनीय विषयकत्वमिति नियमं परित्यज्यापणस्थरजतादिविषयकत्वमिष्यते, तर्हि तत एव भ्रमस, मान्यनिर्वाहे अनिर्वचनीयकल्पनमेवासंभवि । यदि त्वनिर्वचनीयमित्येव साध्यते, दृष्टान्तः साध्यविकलः । शुक्तिरजतादेरनिर्वचनीयत्वस्य प्रतिपक्षिभिरस्वीकारात् । उभयसंमतस्यैव दृष्टान्तत्वात् । “लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः” इति हि न्यायसूत्रम् । शुक्तिरजतादिकमनिर्वचनीयमिति प्रथमं संस्थाप्य तत एवं दृष्टान्तप्रदानमिति चेत्–वयमपिं स्थापनां निरस्य पुनर्दृष्टान्तासिद्धिमेव निरूपयेम । तद्विस्तरेण करिष्यते च । किमिदमनिर्वचनीयत्वमिति प्रश्न पुनर्मिथ्यात्वनिर्वचनान्येवानुवदितव्यानीति दुरुत्तरतैव । अथ दृश्यत्वानुमानस्यास्य मिथ्यात्वे मिथ्यात्वासाधकत्वापत्तिः, सत्यत्वे विश्वान्तर्गतस्यास्य सत्यत्वान्न विश्वमिथ्यात्वमिति प्रभे यदुक्तम् दृश्यत्वस्य मिध्यात्वं न दृश्यत्वप्रयुक्तम्, किन्तु प्रमाणत्वप्रयुक्तमिति तदिदं स्थवीयः । दृश्यत्वस्य यदि मिध्यात्वप्रयोजकत्वं नास्ति, कुत्रापि दृश्यत्वेन मिथ्यात्वं न सिद्धयेत् । यद्यस्ति, दृश्यत्वगतं दृश्यत्वमपि तत्साधकमेवेति कथं तन्मिथ्यात्वं न दृश्यत्वप्रयुक्तम् ? प्रमाणत्वप्रयुक्तं तदिति च न युज्यते । न हि यत् प्रमाणं तत् मिथ्येति कश्चिन्नियमोऽस्ति । यद्यत् मिध्याभूर्तम्, तत्र सर्वत्रानुगतस्यै मिथ्यात्वनियामकस्य वक्तव्यतया प्रमाणत्वस्य कतिपयमात्रवर्तिनो हेतुत्वायोगात् । शुक्तिरजतादौ दृष्टान्ते तदभावाच्च । प्रत्यक्षादिप्रमाणानां दृष्टान्तत्वे च तत्र मिथ्यात्वस्य प्रागसिद्धतया तद्दोषतादवस्थ्यम् । किञ्च प्रयोजकं किमपि भवतु । मिथ्यात्वमिष्टश्चेत् कथमनुमापकत्वम् असतोऽपि कारणत्वं संभवत्येवेति च व्याघातान्न भवतीति कथानधिकारप्रसाधने, तथा प्रथमतश्च प्रपञ्चितमेव । ब्रह्मसिद्धयादौ मिथ्याभूतस्याप्यर्थ क्रियाकारित्वमुपपादितमिति चेत् संवित्सि । हृदयत्वानुमान भज-प्रसाधनम् ४०५ प्रत्यक्ष विरोध यादौ तदूषितमेवेति न तथा निर्देशमात्रेण वस्तुसिद्धिः । दृष्टान्तासिद्ध्यादिना एतदनुमानासंभवश्च प्रागुक्त एव । सत्त्वं प्रत्यक्षयोग्यमपि प्राकू विवेचितमेव । अतः, विश्वमिथ्यात्वानुमानमिद प्रत्यक्षाविरोधसह कृतशुक्तिरूप्यहान्तोपबृंहितयोगानुभवसिद्धमपीति वचनमपार्थम् । अपि चात्रानुमानस्य योगानुभावसिद्धत्वं वर्णयता योगिनाऽप्यनुमानेनानुभवसिद्धेनानुमेयमेव विश्वमिध्यात्वं मन्यत इव । युक्तञ्चैतत् । अविद्यमानं मिथ्यात्वं कथं योग्यपि अध्यक्षयितुमर्हति । अतोऽनुमितिरेव प्रमितिरूपा वा भ्रान्तिरूपा वा तेनाप्यनुमानेन संपाद्यते । न च योगानुभावः सर्वोऽपि प्रमारूप इत्य् अपि सर्वे संप्रतिपद्यन्ते । विपरीतभावनामूलस्य योगजानुभवस्य भ्रान्तिरूपताया एव संप्रतिपन्नत्वात् । एवं भ्रान्त्यापि विश्वमिध्यात्वं प्रत्यक्षीकर्तुं योगिनाऽप्यशक्यम् । ज्ञानस्य स्वयंप्रकाशतया अहं विश्वमिथ्यात्वमनुभवामीति किल तदनुभवाकारेण भाव्यम् । स्वस्य, स्वसमवेतज्ञानस्य चास्य सद्भावं गृह्णन् एष कथं विश्वमिथ्यात्वमनुभवेत् । मिथ्यात्वज्ञानञ्च सत्यत्वभ्रमनिवर्तकमिति वक्तव्यम् । निवर्त्यनिवर्तकभावश्च समानाधिकरणयोरेव ज्ञानयोः । अतः निवर्तकज्ञानं स्वाश्रये स्वयं सदेव निवर्तकमिति सर्वमिथ्यात्वे तदयोग एव । अनुमानस्याप्रमाणत्वशङ्का त्रिचतुरकक्ष्या विश्रान्तैव भवतीति भवतोच्यते । अनुमानं तु प्रथमकक्ष्यायामेव व्याघातादिभिर्विलयमासादितमिति शतदूषण्याविष्कृतमिति तस्यैवाभावे किं तदनमाणत्वशङ्कया ? अपच्छेदनयविचारञ्चाद्वैत सिद्ध्याद्यामर्शेन सगुण निर्गुणश्रुतिव्यवस्थापनप्रसाधनावसरे प्रपञ्चयिष्याम इति नात्रानुमान विचारे तत्प्रपञ्चनं युक्तम् । * " मिथ्यात्वानुमानस्य निरासोऽयं शिवद्रोहे तात्पर्येणैव" इत्यनन्तद्रोहिण आग्रहवचनमप्यसङ्गतत्वादुपेक्ष्यमित्यच्युतशेषसर्वज्ञ शिवस्वरूपविदां वैष्णवानां शिव एव पन्थाः । जगन्मिथ्यात्वादिन एव तु सर्वदेवताद्रोहितया शिवद्रोन खलु राजानं कश्चिन्न सेवत इत्येतावता राजद्रोही स भवेत् । हिणः । ४०६

इदं त्विह भाव्यम् । प्रत्यक्षस्य मिथ्यात्वानुमानेन परेण बाधः परस्य प्राबल्यादिति यदि, मिध्यात्वानुमानस्य मिथ्यात्वभावानुमानेन परेण बाधः स्यादेव । तथा मिथ्यात्वाभावानुमानो पबृंहितेन मिथ्यात्वानुमानानन्तरमप्यनुस्यूतं प्रवहता सत्त्वप्रत्यक्षेणाप्यनुमानबाधः । यदि च शुक्तितत्त्वज्ञानस्य पश्चात्तनेन शुक्तिरूप्यभ्रमेण बाधाभावाय परेण भ्रान्तितया दुष्टकारणजन्यतया निर्धारितेन पूर्ववाधो न भवतीत्युच्यते, तदाऽपि मिथ्यात्वानुमानस्यापि अनन्तदोषदुष्टतया दोषमूलानुमितेर्भ्रान्तितया न प्रत्यक्षबाध इति सिद्धम् । यत्तु –दुष्टकारणजन्यत्वं प्रत्यक्ष एव भ्रमत्वप्रयोजकम्, न तु परोक्ष इति तत् किं परोक्षज्ञानस्य भ्रान्तित्वमेव नास्तीति किं वा भ्रान्तिर्भवदपि तत् कारणदोषं विनैव जायत इति, आहो दोषस्यापेक्षितत्वेऽपि दोषजन्यत्वं भ्रमत्वांशे प्रयोजकं न भवतीति । सर्वमिदं भ्रम सामान्यस्य दोषाधीनत्वस्य सर्वतीर्थकर संगततया तदुपमर्दकयुक्त भावाच्च न शक्यशङ्कमपि । अभ्यधाम चाधस्तात् भ्रमात्मकपरामर्शादेः प्रमात्मकानुमितिजनकत्वं नैयायिकोक्तमपि न जाघटीति ; सुतरामनिर्वचनीयवस्तुस्वीकार्य द्वैतमत इति । अनुमानसामान्यस्य प्रमाणत्वे तु प्रत्यधिकरणं पूर्वपक्षिणामनुमानान्यवाधितानि भवेयुरिति गतं सिद्धान्तन्यायैः । । उभयसमावेशेन सर्वविरोधस्वीकार एव वा । एवञ्च सत्यत्वानुमानान्यपि सुस्थानि । तदैक कण्ठयात् सत्यत्वग्राहि प्रत्यक्षमपि नान्यथयितव्यमिति किमित्यपच्छेदनयावतारणम् ? अत एव भवदीयसूत्रभाष्यवार्तिकमपि व्युदस्तं मन्तव्यम् । ; एवं दृश्यत्वनुमानमिध्यात्वे विश्वमिथ्यात्वासिद्धिस्थापन्या शतदूषण्या साध्यस्य मिथ्यात्वस्य मिध्यात्वे विश्वसत्यत्वसिद्धिरपि, " मिथ्यात्वस्य च मिथ्यात्वे मिथ्यात्वं बाधितं भवेत् । सत्यत्वस्य तु सत्यत्वे सत्यत्वं स्थापितं भवेत् ॥” दृश्यत्वानुमानम-प्रसाधनम् इत्यन्यत्राचार्य दर्शितरीत्या व्युत्पादिता वेदितव्या । तदुपपाद्यते मिथ्यात्वं हि प्रपञ्चस्य ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वम् । तस्य यदि मिध्यात्वम्, ब्रह्मणि सत्यमेवोक्तं भवतीति न विश्वमिथ्यात्वसिद्धिः । न च मिथ्यात्वं यत् प्रपञ्चनिष्ठम्, तदपि प्रपञ्चवत् मिथ्येति वदतामद्वैतिनां पक्षे प्रपञ्चस्येव प्रपञ्चगतमिथ्यात्वस्यापि ब्रह्मण्येव कल्पितत्वमस्तु, तथा च ब्रह्मज्ञानेन प्रपञ्च इव तेन सह तन्मिथ्यात्वमपि बाध्यत इति सूपपादम् । एवञ्च मिथ्यात्वबाधदशायां प्रपञ्चस्यापि बाधिततया एकबाधकबाधिते तत्र कथं सत्यत्वप्रसक्तिरिति शङ्कयम्यतः प्रपञ्चे सत्यत्वस्यैव व्यवहारसिद्धतया व्यावहारिकस्य च तस्य ब्रह्मज्ञानबाध्यत्वस्यैव भवन्मते आवश्यकतया न प्रपञ्चगतं मिथ्यात्वं व्यावहारिकसत्यं भवितुमर्हति । सत्यत्व मिथ्यात्वयोविरोधात् । किंश्च लोके पारमार्थिक प्रातिभासिकं चेति द्विविधमेव मिथ्यात्वं प्रसिद्धम् ; न तु व्यावहारिकमिति किश्चित् । अतः प्रतिभासिकं वा पारमार्थिक वा मिथ्यात्वमिष्यत इति विकल्प्य प्रथमपक्षे दूषणमुच्यते " मिथ्यात्वस्य च मिच्यात्वे सत्यत्वं स्थापितं भवेत्" इति । अपि च तन्निष्ठं मिथ्यात्वं तत्सत्ताविषमसत्ताकमेव लोके प्रसिद्धम् । यथा शुक्तिरजतं प्रातिभासिकम्, तन्मिथ्यात्वं पारमार्थिकम् । वास्तवरजते आरोपितं च मिथ्यात्वं तद्रजतविलक्षणतया प्रातिभासिकम् । अतश्च व्यावहारिकप्रपञ्चगत मिथ्यात्वमपि व्यावहारिकसत्ताविलक्षणसत्ताकम् प्रपञ्चसत्ताविलक्षणसत्ताकं तन्मिथ्यात्वत्वात् । यत् मिथ्यात्वं यदी यम्, तत्, तद्विषमसत्ताक मिति सामान्यमुखी व्याप्तिः । एवञ्च मिथ्यात्वे प्रपञ्चवैलक्षण्यस्यावश्यकतया तन्मिथ्यात्वं पारमार्थिकं प्रातिभासिकं वा वाच्यम् । तत्र पारमार्थिकत्वे द्वैता पत्तिः । दृश्यत्वहेतोस्तत्र सत्त्वात् साध्याभावात् दृश्यत्वानुमानस्यानैकान्तिकता च । न च न मिथ्यात्वस्य दृश्यत्वमिति वाच्यम् । मिथ्यात्वमिति शब्दगम्यतयैव दृश्यत्वस्याप्रतिषेध्यत्वात् । ज्ञानसामान्यविषयत्वमेव हि दृश्यत्वम् । अपारमार्थिकप्रपञ्चधर्मस्य मिध्यात्वस्य पारमार्थिकत्वायोगश्च । एतेन प्रपञ्चमिथ्यात्वं ब्रह्मस्वरूपमित्यपि निरस्तम् । ब्रह्मणि कल्पितस्य प्रपञ्चस्य धर्मभूतं मिथ्या ४०८

त्वं खाधारप्रपञ्चाधिष्ठानत्ररूपमित्यसंभावितमेतत् । अन्यथा प्रपञ्चो मिथ्येत्यस्य प्रपञ्चो ब्रह्मवानित्यर्थः स्यात् । एवं मिथ्यात्वस्य ब्रह्मणचैकत्वेऽपि व्यवहारवैलक्षण्यप्रयोजकाकारभेदस्य स्वीकारे तस्याकारस्य मिथ्यात्वगतस्य पारमार्थिकत्वे तमादायैव द्वैतापत्तिः । तस्य मिथ्यात्वे मिथ्यात्वमिथ्यात्वपक्ष एव भङ्गयन्तरेणोक्तो भवति । अस्तु तदेव ; तस्यैव प्रकृतपक्षत्वादिति चेत्–तर्हि अपारमार्थिकं तत् मिध्यात्वं प्रातिभासिकमिति तस्य शुक्तिरजतादिवत् व्यवहारकाल एव बाधात् प्रपञ्चसत्यत्वं सिद्धम् । 1 ननु प्रपञ्चसत्यत्वं व्यावहारिकं मा भूत् । किन्तु प्रातिभासिकमेव । तद्विलक्षणञ्च प्रपञ्चमिथ्यात्वं व्यावहारिकम् । तच्च प्रपञ्चेन सह ब्रह्मज्ञानबाध्यमिति ब्रह्माद्वैतसिद्धिरिति चेन्न — व्यावहारिकं हि नाम वाचिककायिकव्यवहारानुबद्धम् । प्रातिभासिक च प्रतिमासानुगुणकायिकादिव्यवहारानुपयोगित्वे सति प्रतिभासमात्र संबद्धम् । यदि प्रपञ्चः सत्य इति मत्या प्रवर्तमानः शुक्तिरजतबुद्धया प्रवर्तमान इव तदनुगुणं कार्यं निर्वर्तयितुं न भवेत्, भवेत् तत् सत्यत्वं प्रातिभासिकम् । न चैवमस्ति । मिथ्यात्वं तु प्रातिभासिकम् । सर्वं मिथ्येति सरिमाणा अपि हि सौगताः क्षुत्पिपासाकुलाः मिक्षार्थे भ्रमन्ति । न च क्षुदादिकं मिथ्येति मन्यमाना जोषमासते । तेन तन्मिथ्यात्वबुद्धिः आस्तिकानामिव तेषामपि सत्यत्वबुद्धया बाध्यते इति । अतो व्यवहारविसंवादात् प्रपञ्चमिथ्यात्वं प्रातिभासिकम् । किञ्च यत् ब्रह्मप्रमाबाध्यम्, तत् व्यावहारिकम्, यत् तदन्यतोऽवि बाध्यम्, तत् प्रातिभासिकम् । तत्र प्रपञ्चसत्यत्वं यदि ब्रह्मज्ञानेतरबाध्यम्, तहिं प्रपञ्चोऽपि तेन बध्येतैव । न हि तदस्तित्वं बाधितम् तत् पुनरबाधितमनुवर्तत इति युक्तम् । एवञ्च प्रपञ्चस्य परतो बाधे ब्रह्ममैवानपेक्षिता स्यात् । अतः प्रपञ्च सत्यत्वस्य प्रपञ्चबाधकब्रह्मप्रमामात्र बाध्यतया व्यावहारिकत्वमेवेति प्रपञ्चमिथ्यात्वं व्यावहारिकं न भवितुमर्हति । एवञ्च प्रपञ्चमिथ्यात्वस्यैव प्रातिभासिकत्वेन प्रपञ्चसत्यत्वस्य दृश्यत्वानुमान-भङ्ग प्रसाधनम् ४०९ प्रातिभासिकत्वं चन्द्रिकेष्टमयुक्तम् । तथा प्रपञ्च मिथ्यात्वस्य प्रपञ्चसत्यत्वस्येव अद्वैतसिद्धयुक्तं व्यावहारिकत्वमपि ॥ ; इदं तु स्यात् -एवं प्रपञ्च मिध्यात्वस्य मिथ्यात्वेऽपि तावता प्रपञ्चसत्यत्वस्य सिद्धावपि तत् सत्यत्वं व्यावहारिकं प्रपञ्चेन सह ब्रह्मज्ञानबाध्यमस्त्विति —— तत्रोच्यते । प्रातिभासिकव्यावहारिकादिविभागः अनिर्वचनीयपदार्थनिष्पत्त्यधीनः । तदप्रामाणिकत्वे चोपपादिते विभागोऽयं न स्थास्यति । अतः प्रपञ्चस्य वाऽन्यस्य वा कस्यचिदस्तित्वे अवाध्यत्वमेवः बाध्यत्वे च नास्तित्वमेवेति न व्यावहारिक सत्त्वप्रसक्तिः । एवं च तन्मिथ्यात्वं नाम तत्प्रकारकज्ञानविशेष्यनिष्ठाभावप्रतियोगित्वम् । यद्वा प्रमाण गम्यत्वाभावः । तत्र प्रपञ्चगत मिथ्यात्वस्य मिध्यात्वे, प्रपञ्चनिष्ठं यत् अभावप्रतियोगित्वं तस्याभावः प्रपञ्चनिष्ठाभावप्रतियोगित्वमुच्यत इत्यायाति । अतश्च यथा पर्वतनिष्ठाभावप्रतियोगित्वस्य वह्निनिष्ठाभावप्रतियोगित्वे कथ्यमाने पर्वते वचस्तित्वम्, तथा प्रपञ्चास्तित्वमेवोक्तं भवतीति सिद्धम्, ‘मिथ्यात्वस्य च मिथ्यात्वे सत्यत्वं स्थापितं भवेत् ’ इति । किञ्च, ‘नेह नानास्तीति वाक्येन ब्रह्मेतरत् मिथ्येति बोध्यत इति काममस्तु । तत्रेतरशब्देन प्रपञ्चवत् प्रपञ्चगतं मिथ्यात्वमपि ग्रहीतुमशक्यम् । मिथ्यात्वविधानात् पूर्वं प्रपञ्चमिथ्यात्वरूपपदार्थस्यैवासिद्धतया प्रमाणान्तरसंभावितप्रसिद्धिपदार्थमात्र ब्रह्मेतरपदेन गृहीत्वा तन्मात्रानुवादेन मिथ्यात्वस्य विधेयत्वात् । ब्रह्मेतरत्वाविशेषात तद्ग्रहणमिति तु अनुवाद्यत्वसंभवे शक्येतापि ; न तु मिथ्यात्वविधेः पूर्वम् । यथा, सर्वं त्यजेति त्यागे विधीयमाने त्यागस्यापि सर्वपदेन ग्रहणेन त्यागत्यागोऽपि विधीयत इति दुर्वचम्, तथेहापि ॥ ननु मिथ्यात्वे मिथ्यात्वं तत्र च मिथ्यात्वमित्यनन्त मिथ्यात्वधाराप्रसङ्गादनवस्था स्यादिति मिथ्यात्वस्य मिथ्यात्वं नेष्यत इति चेत् तर्हि प्रथमं मिथ्यात्वं प्रपञ्चगतं पारमार्थिकं स्यात् । तच ब्रह्मनिष्ठाभावप्रतियोगित्वम् । 52मे १००

अन्ततो ब्रह्मनिष्ठः नाद्याभाव एव तस्याधिकरणस्वरूपत्वे प्रागप्यधिकरणभूतव्रह्मप्रकाशसत्त्वात् पञ्चनामिव न स्यादिति ब्रह्मनिष्ठधर्मविशेषत्वमवश्याश्रयणीयमिति वैनापत्तिरनिकाय । तथाचः विशेषात् सर्वाबाध एव वरम् । श्रुत्यर्थवर्णन दैवत ॥ अथ त्वरूपहेतुशोधनम् । तत्र चाक्षुषत्वादिरूपत्वे दृश्यत्वस्य क्षण इति स्वयमेव परिहृत्य ज्ञानविषयत्वरूपं विकल्प गृहीत्वा ‘तन्निर्दम्, मणि वृतिविपत्वेऽपि वृत्त्यवच्छिन्न चैतन्यविषयत्वरूपहेत्वभावात् नानैकान्तिक’मिति यदुक्तम्-तत्रोच्यते । चैतन्यविषयत्वमात्र हेतुकथनेनैव निर्वाहे चैतन्ये नृत्यत्वविशेपणप्रवेशात् हेतुर्दुष्टः । अप्रसिद्धञ्च चैतन्ये वृत्त्यवच्छिनत्वम् । नहिवृत्तिलेकितः प्रसिद्धा । नतरां चैतन्ये वृत्त्यवच्छिन्नत्वम् । शावानुवादमापक्षे ज्ञानसामग्र्यैव ज्ञानका सिद्धया किमन्तर्गडुना ज्ञानेनेति सिर्दिवं स्यादिति न्यायकुसुमाञ्जल्यादौ रूपि । तेन अनुप लाववयुक्तया नापहांतुं शक्यम् । अनुभवाभावे च लाघवशरणैरतीन्द्रियमाणाभावे दुस्साध’ मिति सिद्ध्यति । न चवृत्तिः चैतन्यद्विलोकेन । अतो हेत्वासिद्धिः । चैतन्यस्य वृत्त्यवच्छिन्नतचासिद्ध! पारवारिक चैतन्यस्थातात्त्विकवृत्त्यवच्छिवतस्या वेगात् । अवासाविष्ठानमावातिरिक्तः सम्बन्धो हि मिथ्यासत्यो गन्तुमर्हति । अत एव चैतन्यविषय अत एव चैतन्यविषयत्वमप्यहेतुः । विषयत्वस्त्र तत्संबन्धवागात् । वृत्तिस्वीकारे घटादेरपि वृत्तिविषयत्वेनैव दृष्टत्वानुमितत्वश्रुतत्वादीनामुपपन्नतया चैतन्यविषयत्वकल्पने प्रमाणाभावश्च । वृत्तिर्जडा न स्वो विषयीकर्तुं शक्नोतीति चेत् -ज्ञानमपि विषयीकुर्वत् कुत्र दृष्टम् ? निर्विषयक चैतन्यरूपस्य च ज्ञानस्प विषयीकरणासंभवः सुतराम् । एवं वृतेनिर्विषयत्वे ब्रह्मणो वृत्तिविषयत्वायोगात्, आत्मा वा अरे द्रष्टव्यः " इत्यादीनामनिर्वाह एव । दर्शनश्रवणादीनां चैतन्यरूपताया एवानुभवसिद्धतया तेषां ब्रह्मचैतन्याभेदे ब्रह्मणि विषयत्वस्य दुर्वचत्वेन च ब्रह्मातिरिक्तचैतन्यत्वमेव "" दृश्यत्वानुमान भज-प्रसाधनम् ४११ तेषां युक्तमिति चैतन्यविषयत्वरूप हे तो ब्रह्मण्यन कान्त्यं दुष्परिहरम् । वृत्त्यवच्छिचैतन्यस्य विशिष्टतया शुद्धब्रह्मातिरिक्तत्वमिष्यते चेत् विपयविषयिभावोऽपि तत एव ब्रह्मविषयेऽपि सुवच इति पुनरनैकात्यमेव ॥ यदि च ब्रह्मवकाशम्, तत्रान्तःकरणवृत्त्वा किं साध्यम् । आवृतचैतन्यमनावृतचैतन्याभिनमित्य मेदारियः फलमिति चेत् यत् आवृतम्, तत् देवानामपीति दुर्धचमेतत् । एतद्विशेषणविशिष्टानुरोगप्रयोगका भेदविषयकामिव्यक्तिहेतुश्च वृत्तिनं कथमध्यखण्डे साविपयिणी भवितुमर्हति । अभेदो यदि व्र, तहिं खरकाशं ब्रह्मवृत्त्या प्रकाश्यत इति प्रश्नस्तदवस्थ एव । यद्यतिरिक्तः, तीसत्यज्ञानान्मुक्तिका स्यात् । एवं चिदुपरागार्था वृत्तिरिति पक्षोऽप्ययुक्तः । दुर्नियत्यात् । उपरक्तञ्च ज्योतिर्यथावदप्रकाशमानञ्च विमुक्तञ्च स्यात् । एवंभूतायाश्च वृत्तेरविद्यानिवर्त कत्वमप्यसंभावितम् । तत्त्वविवकवृतेरेवातत्त्वनिवर्तकलात् श्रद्धब्रह्मण. तद्द्वृत्त्यविषयत्वात् । आवरणाभिभवार्था वृतिरिति पक्षधायुक्तः । आवरणकालेऽपि चैतन्यस्यावृतस्वाहमिति प्रकाशमानलात् । " युम्मदस्मपत्ययगोचरयो “रिवि, " अपरोक्षत्वात् प्रत्यगात्सयसिदे “हितचैवमात्मप्रकाशस्य सर्वदा सुषुप्त्यादिदशानामपि स्वीकृततया आवरणस्यैवाभावात् । वंशः कचिदावृत इति च निरंशे ब्रह्मणि न शक्यं वक्तुम् । वृतिप्रयोजनञ्च जिज्ञासानुपपत्तिप्रसाधने प्रागेव परिशीलितमित्यलमत्र ॥ विषयत्वमात्रोक्तौ वृत्तिविषयत्वमादाय ब्रह्मणि तुच्छे चानैकान्तिकतेति न द्वितीये दृश्यत्वे व्यर्थविशेषणतेति यदुक्तम्-तत्र किञ्चिद्विचार्यम्अशुद्धमुद्रणग्रन्थ निरीक्षणेन ज्ञानविषयलं दृश्यत्वविको द्वितीय इति भवता मन्यत इव । अयं तु वस्तुतस्तृतीयनिकरूपः । प्रत्यक्षज्ञानविषयत्वमिति तु द्वितीयं दृश्यत्वम् । तदेव विवक्षितमिति चेत् विषयत्वमात्रोक्ताविति वचनं न घटते । द्वितीयविकल्पे व्यर्थविशेषपलं प्रत्यक्षरूपविशेषणविषये खलु ४११

शतदूषण्यामुक्तम् । तद्वैयर्थ्यपरिजिहीर्षुणा च ज्ञानविषयत्वमात्रोक्ता विति वक्तव्यम् । तथैव तात्पर्यमिति न । भवता ज्ञानविषयत्वमित्यस्य वृत्त्यवच्छिन्नचैतन्यविषयत्वमित्यर्थस्य प्राकूनिरुक्तत्वेन ब्रह्मयनैकान्तिकत्वप्रसत्तत्यभावेन तत्परिहारार्थ विशेषणमिति निरूपणासामञ्जस्यात् । अस्त्वेतत् । तुच्छे हेतुर्थीदि, " शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः” इति योगसूत्रानुसारेण विकल्पाव्यवृत्तिविषयत्वमिष्यते, तर्हि साध्यमपि तत्रास्तीत्यनैकान्तिकत्वं परिह्नियताम् । ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वस्य तत्र संभवात् । सत्त्वेन प्रतीयमानत्वे सति अत्यन्ताभावप्रतियोगित्वं साध्यम् ; तन्न तुच्छे इति चेत्साध्यविशेषणदळं व्यर्थम् । जगत्सत्यत्ववादिभिः सत्यत्वेन प्रतीयमानत्वस्य संमतत्वेन तदेशस्या साधनीयत्वात् अत्यन्ताभावप्रतियोगित्वमात्रसाधनसंभवात् । बौद्धं प्रति साधने तदावश्यकमित्यपि न ; बद्धेन संवृतिवादिना सत्त्वस्यासंमतत्वेऽपि सत्त्वेन प्रतीयमानत्वस्य स्वीकृतत्वात् अत्यन्ताभावप्रतियोगिस्वस्यापि संमतत्वात् सिद्धसाधनापत्तेः । वृत्त्यवच्छिन्न चैतन्यविषयत्वरूपहेत्वप्रसिद्धिरपि तदुद्भावनीया भवतीत्यपि न बौद्ध प्रति प्रयुक्तपिदमनुमानम् ॥ यच्च वृत्त्यतिरिक्तत्वरूप दृश्यत्वनिर्वहणम् दृग्व्यतिरिक्तत्वं दृग्भेदघटितदृक्तादात्म्यम् — तच्च ब्रह्मतुच्छव्यावृत्तमिति — तश्च तुच्छसाधारणस्य कथञ्च भेदमात्रस्य हेतुत्वेऽप्यदोषस्य प्रागस्माभिः प्रतिबोधितत्वादुषेक्ष्यम् । प्रपञ्चे भेदघटितं तादात्म्यम् । तदनन्यत्वमित्यत्र “न वयमनन्यत्वमित्यभेद ब्रूमः किन्तु भेदं व्यासेघामः " इति ब्रह्मभेदस्य प्रपञ्चे निषिद्धत्वाद्धि न भेदघटिततादात्म्यसंभवः । जडाजडयोरभेदा संभवपर्यालोचन चैव, “अभेदं न ब्रूमः " इत्युक्तत्वात् तादात्म्यमप्यसंभवि । दृग्व्यतिरिक्तत्वरूपहेतुघटको व्यतिरेकः पारमार्थिकः, अपारमार्थिको वेति विकल्प्य प्रथमे, शुक्तिरजतादौ साधनवैकल्यम्, द्वितीये ब्रह्मयनैकान्त्यमिति शतदूषण्यां दूषयन्त्यां तदग्रहेण, “न पारमार्थिकव्यतिरेकित्वं शुक्तिरजताद वनैकान्तिकम्” इति अनैकान्तिकत्वपरिहारप्रयासो व्यर्थः । व्यतिरेकीति पदस्य हेतुपदघटकत्वाभावेन तत्र मतुबर्थवर्णन < दृश्यत्वानुमानम-प्रसाधनम् ४१३ संरम्भः, “ व्यतिरेकिपदेन मत्वर्थनिनिप्रत्ययान्तेन " इत्यपूर्वप्रत्ययघटनञ्च तथैव मुधा । व्यतिरेकप्रकारकधी विशेष्यत्वविवक्षणात् न तुच्छे व्यभिचार इत्य् अपि वार्तम् । तुच्छवारणस्यानपेक्षितताया उक्तत्वात् । शशविषाणं न ब्रह्मेति बुद्धया च व्यतिरेकप्रकारकधीविशेष्यत्वं तुच्छेऽपि सुवचम् । " पारमाथिकत्वं च त्रिकाला बाध्यत्वम् । तच्च न प्रपश्चे " इत्युपपादयता पारमार्थिकात् व्यतिरेकित्वं पारमार्थिकव्यतिरेकित्वमित्यर्थो विवक्षित इव । न चैतत् शतदूषणीसंबद्धम् । प्रपञ्चेऽपीदं पारमार्थिकत्वमस्ति च ; कालत्रयेऽपि प्रपञ्चसत्त्वात् । प्रपञ्चेन सह कालस्यापि बाध्यमानत्वात् कालाबाधदशायां प्रपञ्चस्य सत्त्वाच्च तस्य त्रिकालाबाध्यत्वम् । ब्रह्मण एव तु कालत्रया संबन्धित्वम् । पारमार्थिकस्य ब्रह्मणः मिथ्याभूतेन कालेन कालिकसंवन्धेन संबद्धत्ववर्णनस्यासंभवात् । एवं प्रातिभासिक व्यतिरेकप्रकारकधीविशेष्यत्वमिति परिष्कारोऽपि हेयः । ब्रह्म दृग्व्यतिरिक्तमिति ज्ञानीयव्यतिरेकप्रकारकधीविशेष्यताश्रयत्वस्य ब्रह्मण्यक्षतत्वात् ॥ अन्यच्च श्रूयताम् — दृक्पदेन चक्षुरिन्द्रियविवक्षायां तद्व्यतिरिक्तत्वस्य चक्षुष्यभावेन हेतोर्भागासिद्धिः । तत्र मिध्यात्व सिद्धिप्रसङ्गश्च । ब्रह्मणि तद्व्यतिरेकसत्त्वादनैकान्तिकता च । ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्यमपि ब्रह्मण्यस्तीति न व्यभिचार इति चेत् तर्हि प्रपञ्चेऽप्येतदनुमानं ब्रह्मानाधारकत्वमेव साधयेत् ; न तु मिथ्यात्वमित्यर्थान्तरं दोषः । दृकूपदं चैतन्यार्थकं चेत् -प्रतिवादिना नानाजीवानां धर्मभूतज्ञानानाश्च चैतन्यरूपत्वस्य स्वीकृततया तत्र तद्व्यतिरेकरू पहेत्वसिद्धया तन्मिथ्यात्वासिद्धिः स्यात् । ब्रह्मभिन्नत्वं दृग्व्यतिरिक्तत्वमिति चेत् — विशिष्टस्य शुद्धातिरिक्तत्वा-योगेनाद्वैतिपक्षे जीवेश्वरादेः मिथ्यात्वा सिद्ध्यापत्तिरित्यलम् ॥ यच्च वृत्तिविषयत्वरूपदृश्यत्वपक्षे चाधिकरणान्यूनसत्ताकविषयताश्रयत्वविवक्षणान ब्रह्मणि व्यभिचार इति तत्र प्रपञ्चसत्तायाः ब्रह्मसत्तायाश्च यावत् वैलक्षण्यमसिद्धम्, तावदिदमनुमानमसंभवि । सिद्धौ चानुमानवैथमित्यादि प्रागुक्तमेव हेतोरप्रयोजकत्वादिकमपि ईदृशस्थले भाव्यम् ॥ ૪૧૪

अथाद्वैत सिद्धयुक्तेषु, त्रिमतं मिथ्या दृश्यत्वादित्यनुमाने मिथ्यात्वदृश्यत्वरूपसाध्यहेतुपरिष्कारेषु सारांशमुद्धृत्य प्रतिक्षिपेम । तत्र – सदसद्विलक्षणत्वरूप प्रथम मिध्यात्वनिरूपणे यदुक्तम् -सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावो भयवत्त्वं मिथ्यात्वम् । न च सत्त्वासत्त्वयोर्मिथो विरोधात् तदत्यन्ताभावयोरपि समावेशायोगात् व्याघातः । अत्र सत्त्वपदस्य त्रिकाला बाध्यत्वार्थकत्वात्; असत्त्वस्य च सत्त्वेन प्रतीयमानत्वानधिकरणत्वरूपत्वात् । तथा च त्रिकालाबाध्यविलक्षणत्वं कचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वञ्च मिलितं साध्यम् । प्रथमं दक्षं ब्रह्मव्यावर्तकम् । द्वितीय तुच्छव्यवच्छेदकमिति तत्रोच्यते त्रिकालावाध्यविलक्षणत्वं हि त्रिकालबाध्यत्वाभाववद्भिन्नत्वम् । ब्रह्मणो निर्धर्मकत्वेनाभावरूपधर्मानधिकरणत्वस्याप्यद्वैतसिद्धावेवैतदन्ते उक्तत्वेन बाध्यत्वाभाववत् तन्त्र भवितुमर्हतीति तद्विलक्षणमेव ब्रह्म । तर्हि बाध्यत्वाभाववत् अप्रसिद्धमिति चेत् तहिं साध्याप्रसिद्धिरपि दोपः । एतेन निर्धर्मकत्वादेव अवाध्यविलक्षणत्वरूपधर्मस्याप्यभावेन नातिप्रसक्तिरिति निरस्तम् । ब्रह्मणि कस्यापि धर्मस्याभावेन यस्य कस्यापि साध्यत्वेऽपि ब्रह्मण्यतिप्रसत्यभावात् ईदृशगुरुदळ निवेशस्या योगश्च । प्रपञ्चे किञ्चित् कालावच्छेदेन वाधोऽपि दुर्वचः । ब्रह्मेतरत् मिथ्येति तत्त्वज्ञानेन प्रपञ्चस्य कालेन सहैव बाध्यमानत्वात् बाघपूर्वक्षण एव कालसत्त्वेन तत्र कालावच्छिन्नत्वस्य दुर्वचत्वात् । कालाभावे बाधस्योत्तर कालवर्तित्वरूपं कार्यत्वं कथमिति चेत् — अद्वैतिभिरेव तद्विमृश्यम् । बाधो वा दुरुपपादत्वादुपेक्ष्यः । अथ, बाधो नाम न निवृत्तिः किन्तु नास्तीति ज्ञानम् । तदुत्पत्तिश्च कालान्तिमक्षण इति कालावच्छिन्नबाधविषयत्वं प्रपञ्चस्येति चेत्ब्रह्म नास्तीति ज्ञानमादाय ब्रह्मणोऽपि बाध्यत्वापतिः । निर्धर्मके कथं तदिति चेत् -ब्रह्मगतसत्त्वमेव प्रपञ्चे आरोप्यत इति कथनं कथम् ? सत्त्वस्याघ्ययोगात् । सत्त्वाभावेऽपि सद्रूपमिति चेत् वाध्यत्वाभावेऽपि बाध्यरूपं भवतु । ५ दृश्यत्वानुमान-भङ्ग-प्रसाधनम् ४१५ यदि ब्रह्मणि सत्त्वधर्मे विना सद्रूपतचैव व्यवहार निर्वाहः, सर्वत्रापि वस्तुनि तत्तद्धर्मानङ्गीकारेण तत्तद्रूपं तदित्येवोत्तया व्यवहार निर्वाह इति सर्व निर्धर्मक भवतु । अतः प्रपञ्च प्रकृतरीत्या साध्यसाधनमप्ययुक्तम् । अथेदं ब्रह्मणि नास्तीति ज्ञानं भ्रमः ; नास्तीति प्रमाविषयत्वमेव बाध्यत्वमिति चेत् — किमिदं प्रमात्वम् ? तद्वति तत्प्रकारकत्वमिति चेत् भ्रमेऽपि कचिदंशे तदस्ति । अबाधितार्थविषयकत्वमित्युक्तावपि स एव दोषः । बाधितार्थाविषयकत्वमिति चेत् — कोऽयं बाधो नाम ? अस्तु तदभाववति तत्त्रकारकज्ञानभिन्नत्वं प्रमात्वमिति चेत्-एतदपेक्षया अभावप्रतियोगित्वं बाध्यत्वमित्येवालम् । एवमत्र त्रिकालाचाध्यविलक्षणत्वस्थाने बाध्यत्वमेव सुवचमिति वृधा विस्तरः । एवं सत्त्वेन प्रतीयमानत्वमित्युत्तरदळेऽपि सत्त्वमित्येव पर्याप्तम् । प्रपञ्च ब्रह्मसत्ताया एवारोपः, न तु पृथक् सत्त्वमिति पक्षेऽपि निर्वाहाय सत्त्वमित्यनुक्त्वा, सत्त्वेन प्रतीयमानत्वमित्युक्तिः, अस्तु वा सत्तादात्म्यं चन्द्रिकोक्तमिति चेत् तर्हि बाध्यत्वे सति सत्त्वेन प्रतीयमानत्वमित्येव निष्कृष्टं भवति । तत्र बाध्यत्वमत्यन्ताभावप्रतियोगित्वं चेत् — ब्रह्मण्यपि तदस्ति । जगतो ब्रह्म प्रति अनाधारत्वात् ब्रह्मात्यन्ताभावस्य सर्वत्र स्थितेः । बाध्यत्वं निवृत्तिप्रतियोगित्वमिति चेत् कथं निवृत्तिः : अत्यन्ताभाव इत्युक्तौ प्रागुक्तो दोषः । न च निवृत्तिर्ध्वसः । अनित्यप्रपञ्चे ध्वंसप्रतियोगित्वस्य प्रतिवादीष्टत्वेन सिद्धसाधनात् । नास्तीति विषयत्वमिति चेत् — पूर्ववत् धीः प्रमा वाच्या । प्रमात्वं च पुनः किमिति पृच्छयते । अत्यन्ताभावप्रतियोगित्वप्रकारक प्रमितिविषयत्वं ब्रह्मण्यप्यस्तीति प्रागुक्तदोषस्तदवस्थः । ननु खप्रकारकप्रतीतिविशेष्यवृत्त्यत्यन्ताभावप्रतियोगित्वं बाध्यत्वम् । ब्रह्मणः प्रपञ्चवत्त्वस्य तदभावस्य च शास्त्रेण बोधनात् प्रपञ्च प्रकारकधीविशेष्ये ब्रह्मणि प्रपञ्चाभावोऽस्तीति प्रपञ्चे समन्वयः । ब्रह्मवत्त्वेन च कस्याप्यग्रहणात् ब्रह्मणः खपदेन ग्रहणायोगात् न ब्रह्मण्यतिव्याप्तिरिति चेत् तर्हि शशशृङ्गप्रकार **

कधियोऽप्रसिद्धचैव तद्वारणात् सत्त्वेन प्रतीयमानत्वादिति दळं व्यर्थम् । इष्टापत्तिरिति चेत् — एवमपि सिद्धसाधनम् । प्रापञ्चिकपदार्थानां तत्तद्वत्तया भ्रान्त्या गृहीते धर्मिणि तत्तन्निषेधसंभवेन स्वप्रकारकप्रतीतिविशेष्यवृत्त्यभावप्रतियोगित्वसत्त्वेनार्थान्तरम् । स्वप्रकारकप्रतीतिविशेष्ययावद्वृत्त्यभावप्रतियोगित्वं विवक्षितमित्यपि न युक्तम् । घटादीनां ब्रह्मणि बाधेऽपि भूतलादौ उदधिकरणे बाधाभावेन प्रतीतिविशेप्ययावद्वृत्त्यभावप्रतियोगित्वस्य प्रपञ्चेऽप्ययोगात् । ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वं साध्यमिति चेत् — तावता प्रपञ्चस्य ब्रह्मानाधारकत्वं वास्तवमित्येव सिद्धयेत् ; न तु प्रपञ्चस्य सर्वथाऽपलाप इति पक्षभेदेन सिद्धसाधनमर्थान्तरश्च ॥ एवं सत्प्रतियोगिकभेदासत्प्रतियोगिक भेदो भयवत्त्वं मिथ्यात्वमित्यव्ययुक्तम् । घटरूपकिञ्चित्सत्प्रतियोगिकभेदस्य पटादौ सत्त्वेन पटादेस्तथ्यत्वेऽपि समन्वयात् विवक्षितासिद्धिः । सत्त्वावच्छिन्न प्रतियोगिताकभेद इत्युक्तौ ब्रह्मणः सद्रूपत्वेऽपि सत्त्वानङ्गीकारात् सत्त्वावच्छिन्न प्रतियोगिता कभेदसत्त्वात् मिथ्यात्वापत्तिः । एवं मिथ्यात्वस्यैवं परिष्कारेऽपि प्रकृते जगत्सत्यत्वनादिनः प्रतिवादिनः समाधानाय सत्प्रतियोगिक भेदमात्रस्य निवेश्यतया शिष्ट व्यर्थम् । सत्प्रतियोगिक भेदस्य तुच्छेऽपि सत्त्वेन स दृश्यत्वे प्रयोजको न भवतीति विशिष्टसाध्यकथनमिति चेत् —मिलितस्यापि दृश्यत्वं प्रत्यप्रयोजकत्वमेव । दृश्यत्वं प्रति दर्शनसामयन्वयस्यैव प्रयोजकत्वात् । किञ्च, सत्यदेन ब्रह्मग्रहणं वा शुक्तयादेरपि वा ? आये ब्रह्मभेदप्रयुक्तः शुक्तिरूप्ये मिथ्याव्यवहार इति स्यात् । तन्न युक्तम् । शुक्तिभेदप्रयुक्तो हि तत्र तथा व्यवहारः । तथा ब्रह्मभेदतुच्छ मेदोभयसाधने सिद्धसाधनम् । अन्त्ये शुतयादेः सत्त्वानङ्गीकारात् सत्प्रतियोगिक भेदः शुक्तिमादाय दुर्वचः । सत्तादात्म्यवद्भेदविवक्षायां न दोषः; शुक्तिरस्तीति प्रतीत्या शुक्तौ सत्तादात्म्यखीकारादिति चेत् — शुक्तिरूप्येऽपि तदस्ति ; शुक्तिरजतमस्तीति प्रतीतेरविशेषादिति न तस्य भिन्नत्वमिति । दृश्यत्वानुमानभन्न-प्रसाधनम् ४१७ एवं सत्त्वात्यन्ताभावविशिष्टा सत्त्वात्यन्ताभाववत्त्वं मिथ्यात्वमित्यपि निरस्तम् । सत्त्वादेः पूर्वोक्तरीत्या विवेचने पूर्वदोषाणामेव जागरूकत्वात् । ब्रह्मणः सत्त्ववत्त्वाभावेन मिथ्यात्वापत्तेश्च । निर्धर्म के ब्रह्मणि सत्त्वाभावाधिकरणत्वमपि नास्तीति न दोष इति चेत् एवं तर्हि अनृतजडपरिच्छिन्नव्यावृत्त्यादीनामप्यभावात्, ‘अस्थूलमनणु’, ‘नेतिनेती’त्यादिश्रुत्यर्थसमन्वयोऽपि ब्रह्मणि न स्यात् । भावाभावरूप सर्वधर्मत्यागे च ब्रह्म न कथमपि वक्तुं शक्यम् । पारमार्थिकधर्माभावेऽपि व्यावहारिकसत्त्वात् श्रुत्यादिसमन्वय इति चेत्-तथैव प्रकृतसमन्वयः । प्रपञ्चशुक्तिरजतादिष्वपि हि अपारमार्थिकधर्ममादायैव साध्यसमन्वयादविशेष इति । तत् सिद्धं प्रथम मिथ्यात्वनिरुक्तिरयुक्तेति ॥ अथ प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं द्वितीय मिध्यात्वं विचार्यते । तत् किं निष्कृष्टं खसमानाधिकरणात्यन्ताभावप्रतियोगित्वम्, यद्वा यथाश्रुतानुसारेण प्रथममुक्तं स्वप्रकारकधीविशेष्यवृत्त्यत्यन्ताभावप्रतियोगित्वम् । नाद्यः, अनिर्वचनीयस्य वस्तुनो यत्रात्यन्ताभाव उच्यते, तत्र तत् पूर्वं स्थितमस्थितं वा ? आधे अत्यन्तमभात्रो दुरुपपादः । अन्त्ये खसामानाधिकरण्यमभावे दुर्वचम् । एकदेशावच्छेदेन प्रतियोगि स्थितम् ; देशान्तरावच्छेदेन तदत्यन्ताभाव उच्यते इति चेत् तर्हि संयोगादिवत् अव्याप्यवृत्तित्वमेव सिद्धयेत् ; न तु मिथ्यात्वम् । द्रव्यस्याव्याप्यवृत्तित्वं संगतमेवेति सिद्धसाधनञ्च । न द्वितीयः, स्वप्रकारकधी विशेष्यभूतं धर्मि स्वस्याधिकरण न वा ? आधे स्वसमानाधिकरणेत्येव लघु सुवचम् । सामानाधिकरण्यस्वीकारेऽनुपपत्तिस्तु प्रागुक्तैव । तद्धमिं खानधिकरणमेवेति चेत् — स्वप्रकारकधीविशेप्ये यत्र कचित् यस्यात्यन्ताभावः, अन्यत्र तु तादृशे तत्सत्त्वम् तस्यापि मिथ्यात्वापतिः । यथा जपास्पटिकौ रक्तौ इत्यत्र रक्तिम्नः । न च स्फटिके तदनिर्वचनीयमेवेति वाच्यम् — तत्र परिभाषायां अर्निवचनीयोत्पत्तिनिरासात् । तथा तत् स्वं शुक्तिरजतं किं कचिदधिकरणे उत्पद्यते, उतानधिकरणक उत्पद्यते, आहो नोत्पद्यत एव ? तृतीये अनिर्वचनीयस्यासिद्धिः । द्वितीयस्तु न युक्तः ; उत्पद्यमानानां देशे 53

, / ૪૧૮

f काले च कचिदुत्पत्ते रेवानुभविकत्वात् । अतः प्रथमपरिशेषे तदधिकरणे तस्मिन् कथं तदत्यन्ताभावः ? यत्र निषेधः क्रियते, तद्भिन्नमेव शुक्तिरजताधिकरणमिति चेत्–किं भूतले उत्पन्नस्य शुक्तिरजतस्य निषेधं कृत्वा मिध्यात्वं सिषाधयिषसि ? न ह्येवं कपालादावुत्पन्नस्य घटादेः तन्त्वादौ निषेधमात्रेण मिध्यात्व मनीषिणो ऽध्यवस्यन्ति ? * अथात्यन्ताभावमधिकृत्य किञ्चिदुच्यते—ध्वंसं प्रागभावमन्योन्याभाव श्वादाय घटवृत्तिध्वंसादिप्रतियोगितया श्यामरूपादौ मिथ्यात्वव्यवहाराभावादत्यन्तेति निवेश्यते । एवमप्यव्याप्यवृत्तिसंयोगादौ मिथ्यात्वाभावस्तुल्यः । तदर्थं स्वावच्छेदकदेशावच्छिन्नात्यन्ताभावेति परिष्करणमयुक्तम् । तथा हि सति प्रतियोग्यवच्छेदक देशस्यात्यन्ताभावावच्छेदकत्वायोगात् अनन्वय एव । स्वावच्छेदकत्वेन प्रतीत देशावच्छिन्नात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमित्युक्ता बपि उत्पन्नमनिर्वचनीय शुक्तिरजत वस्तुतः किञ्चिदवच्छेदेनोत्पन्नं न वा ? न चेत्, न तदुत्पन्नत्वं स्यात् । द्रव्यसामान्यस्य किञ्चिदवच्छेदेनोत्पत्तेरेव दृष्टत्वात् । आद्ये तु विरोधात् तदवच्छेदेन तन्निषेघायोगः । अन्यावच्छेदेन निषेधे च संयोगादेरपि तथात्वेन मिथ्यात्वापत्तिः । किञ्चेदमभावगतमत्यन्तत्वम् ? कालत्रयसंबन्धित्वमिति चेत्-एकप्रदेशावच्छेदेन प्रतियोगितदभावोभयसंबन्धित्वमयुक्तम् । काले प्रतियोगिसंबन्धानङ्गीकारे च उत्पत्तिरेव दुर्वचा । आद्यक्षणसंबन्धो ह्युत्पत्तिः । मा भूदनिर्वचनीयोत्पत्तिरिति चेत् तर्हि कस्य मिथ्यात्वमिष्यते ? किं निर्वचनीयस्यापणस्थरजतादेः ?, किं वा नित्यस्य कस्यचिदनिर्वचनीयस्य ? अपिच शुक्तौ रजताध्यासे इदं रजतमित्या कारके विशेष्यत्वं शुक्तेः रेव । एवं खप्रकार कधीविशेष्यशुक्तौ रजतस्य तादात्म्येनैवाध्यासात् तत्र रजतात्यन्ताभावस्य भ्रान्तेनापि संप्रतिपन्नत्वात् भ्रान्तिकालेऽपि इदं रजतं मिथ्येति प्रतीत्यापत्तिः । संयोगसंबन्धावच्छिन्न स्वनिष्ठ प्रकारता कधी विशेष्यत्वं’ दृश्य त्वानुमानम-प्रसाधनम् ง इत्येवं भूतले उपपाद्य समन्वय इति चेत् — नात्र रजतमिति प्रतीतिस्तावत् न प्रातिभासिकरजतमात्रविषयिणी ; प्रतिभासिकव्यावहारिकंसाधारण्येन रजतत्वेनं गृहीतस्यैव निषेधात् । तेस्य च त्रैकालिकाभावो भूतले दुर्वचः । कदांचित तत्र व्यावहारिकरजतसंभवात् । अस्तु दृष्टान्ते । पक्षे कथं समन्वयः ? " सदेव सोम्येदम् ”, " सर्वं खल्विदं ब्रह्म “, ‘घटोऽस्ति’, ‘पटोऽस्ति ब्रह्मणि प्रपञ्चतादात्म्याभ्यासस्यैव प्रामाणिकत्वात् शुक्तिरूपेदमर्थे रजतास्यन्ताभावस्येव ब्रह्मणि प्रपञ्चात्यन्ताभावस्य तादात्म्याध्यासकाल एव संभवेन तावता मिथ्यात्वायोगात् । शुत्यधिकरणभूतलवत् ब्रह्माधिकरणमन्यत्तु दुर्वचम् । ब्रह्मणो भूतलस्थानापन्नत्वमेवास्त्विति चेत् —– तर्हि किंविषयक ज्ञानात् प्रपञ्चकल्पना ? भूतले शुक्तयज्ञानवदत्रापि कस्यचिद्वाच्यत्वात् । अन्यकिञ्चिदुक्तौ तत्तत्त्वज्ञानादेव मुक्तिरिति न ब्रह्मज्ञानं मोक्षाय । शङ्खे शौक्लयज्ञान यथा पीतनिवर्तकम्, तथा ब्रह्मणि किञ्चिदशाज्ञानात् प्रपञ्चः, न तु ब्रह्मावारकाज्ञानादिति तस्मिन्नंशे एव जगत्तादात्म्याध्यासो युक्त इति, सर्वं खल्विदं ब्रह्मेत्यादेः तिरस्कार एव । तादृशतत्त्वेतरत् मिथ्येति तत्त्वज्ञानात् प्रपञ्चस्येव ब्रह्मणोऽपि तदितरत्त्वाविशेषात् बाधश्च स्यात् ॥ CICI अत एव ’ नेदं रंजतमिति बाधज्ञानं न साक्षात् मिथ्यात्वसाधकम् । अत्यन्ताभावघटितत्वात् मिथ्यात्वस्य । नात्र रजतमित्येव तु बाधज्ञानम् । शुक्तेश्च प्रागेव भेदस्य स्थितत्वात् । अपि तु इदं रजतमिति ज्ञानेन लौकिकपरमार्थिकरजततादात्म्येन शुक्तौ अनिर्वचनीयस्य प्रतीतत्वात् तत्रानिर्वचनीयरजतम् इदमिति गृहीत्वा नेदं रजतमिति व्यावहारिकरजततादात्म्यनिवर्तन क्रियत इति निरस्तम् । अत्यन्ताभावघटित मिथ्यात्वस्य प्रपञ्चे दुर्वचत्वात् ।.. नेदं रजतमित्यंत्र इदम्पदं च नानिर्वचनीयपरम् । नेदं रजतं, किन्तु शुक्तिरेवेति प्रतीतौ इदमर्थे शुतयैक्यस्य भानात् । अन्यथा अनिर्वचनीये पुनश्शुत्यारोपरूपतया भ्रान्तित्वापत्तेः । शुक्तिरित्यत्रानुषक्तमिदम्पदमर्थान्तरपरमिति तु साहसम् । इदं रजतमिति पूर्व भ्रान्तिविषयस्य शुक्तेरेव हि नेदं.?

रजतमित्यत्रापि इदमर्थत्वं युक्तम् ; आवश्यकञ्च । तर्हि व्यावहारिकशुक्तौ प्रातिभासिक रजतभेदस्य प्रागेव स्थितत्वात् अनिर्वचनीयोत्पत्तिवाद्यद्वैतिमते भ्रान्तिकालेऽपि नेदं रजतमिति प्रतीत्यापत्तिरिति चेत् भवतैव तत्र पर्यालोचनीयम् । इदमर्थस्य शुक्तित्वेनाग्रहणात् तत्र रजततादात्म्यमारोपयतीति चेत् — किं प्रातिभासिकतादात्म्यम् उत व्यावहारिकतादात्म्यम् ? अन्त्ये अनिर्वचनीयकल्पनं व्यर्थम् । आद्ये प्रातिभासिकस्य व्यावहारिककार्याङ्गुलीयकादिकार्यकरत्वाभावात् न प्रवर्तत । प्रवर्तते प्रातिभासिके व्यवहारिकतादात्म्याध्यासादिति चेत् -तर्हि अन्यथाख्यातिं परिहृत्या निर्वचनीय ख्यातिमभिमम्यमानैः प्रतिभ्रममन्यथाख्यातिद्वयमवश्यमिष्टं स्यात् शुक्तौ प्रातिभासिकरजततादात्म्यारोपः, प्रातिभासिके व्यावहारिकतादात्म्यारोपश्चेति । 1 ‘प्रातिभासिकव्यावहारिकसाधारणं रजतत्वम् । न तु प्रातीतिकमात्रवृत्तिरजतत्वमन्यत् । तथोभयसाधारणरजततादात्म्यत्वेन तादात्म्यं संसर्गः । एवं सामान्यरूपेण प्रातीतिकरजतं सामान्यधर्मावच्छिन्नप्रातीतिकतादात्म्यसंसर्गेण भासते’ इति चन्द्रिकापक्षेऽपि तत् तादात्म्यं शुक्तौ नास्तीति तदारोपात् अन्यथाख्यातिरेव । यथा हि व्यावहारिकरजततादात्म्यं शुक्तौ बाधितम्, तथा प्रातिभासिकरजततादात्म्यमपि । तादात्म्यं भेदघटितमिति चेत् — अस्तु ; तथाप्यैक्यमपि घटकमेव । घटो घट इति वत् घटः पट इत्यप्यप्रयोगात् । तादात्म्यं नाम तत्पदार्थविशे षणभिन्नविशेषणवत्त्वे सति तत्पदार्थादभिन्नत्वम् ; यद्वा जातिमान् घट इत्यादि संग्रहाय तत्पदार्थाविषयकप्रतीतिविषयत्वे सति तदैक्यम् ; अथ वा स्वाविषयकप्रतीतिविषयत्वतदविषयकप्रतीतिविषयत्वान्यतरखाभिन्नत्वोभयसंबन्धेन किञ्चिद्विशिष्टत्वम् । जातिमान् घट इत्यादौ जातिमदविषयक प्रतीतिविषयत्वं घटे, दण्डवान् रक्तदण्डवानित्यादौ रक्तदण्डवद्रूपतद विषयकरक्तदण्डवद्रूपतदविषयकप्रतीतिविषयत्वं दण्डवतीति यथायथं समन्वयः । सर्वथा ऐक्यं तु न परित्यक्तम् । सिंहो माणवक इत्यादौ तत एवोपचार आश्रीयते । ऐक्यञ्च शुक्तिरजतयोः दृश्यत्वानुमान प्रसाधनम् ૪૧ कथमपि न भवतीति अविद्यमानतादात्म्यस्य संसर्गत्वे अन्यथाख्यातिरवर्जनीयेति अनिर्वचनीयकल्पनं व्यर्थमेव । विशिष्य चानिर्वचनीयं पृथक् निरसिष्यामः ॥ एवम् इयं शुक्तिरिति ग्रहणानन्तरं दोषवशात् इदं रजतमेवेतिभ्रमे नात्र शुक्तिरिति प्रातिभासिकाभावप्रतीतौ शुक्तेरपि खप्रकारकधी विशेष्यवृत्तिर्यः प्राति • भासिकोऽत्यन्ताभावः तत्प्रतियोगित्वमस्तीति मिथ्यात्वापत्तिः । अप्रातिभासिकात्यन्ताभावप्रतियोगित्वमिति निरुक्तौ च स्वामिकशुक्तिरजतस्य मिथ्यात्वायोगः ; तत्र स्वामिकधर्मिणि स्थितस्य नेदं रजतमिति निषेधस्यापि खानिकस्य प्राति भासिकतया अप्रातिभासिकत्वघटितलक्षणायोगात् । तथा, नात्र शुक्तिरिति पूर्वोक्तस्थले, अयमभावः पारमार्थिकोप्रातिभासिक इत्येव मतिसत्त्वेन प्राति. भासिकस्याप्रातिभासिकत्वस्यात्यन्ताभावे सत्त्वेन स दोषस्तदवस्थ एव । सर्व ब्रह्ममयमिति वेदान्तार्थबाधिनां नात्र ब्रह्मेति भ्रान्तिमादाय निरुक्तात्यन्ताभावप्रतियोगित्वं प्रातिभासिकमुपपाद्य ब्रह्मण्यपि मिथ्यात्वमापादनीयम् । व्यावहारिकमिति वा पारमार्थिकमिति वा अप्रातिभासिकमिति वा विशेषणदानेनाप्यद्वैतिभिरिदं दुष्परिहरम् । निवेशितस्य दलस्यापि प्रातिभासिकस्य तत्र संभवेन दोषापादनस्य जागरूकत्वात् । अतः सर्वविधमपि मिध्यात्वमित्थममिध्यावस्तुन्यापाद्यमानमद्वैतिभिरशक्यपरिहारमेव ॥ अपि चयमप्रातिभासिकोऽत्यन्ताभावः व्यावहारिकः पारमार्थिको वा ? नाद्यः प्रपञ्चाभावस्य ब्रह्मनिष्ठस्य व्यावहारिकत्वे बाध्यत्वस्यावश्यकतया तत्प्रतियोगिनः प्रपञ्चस्य सत्यत्वसिद्धेः । नन्वभावस्य बाध्यत्वे प्रतियोगिनः सत्यत्वमिति न नियमः, स्वमे स्वामिकपदार्थाभावस्य प्रतीतस्य बाध्यत्वेऽपि तत्प्रतियोगिनः स्वामिकस्य सत्यत्वाभावादिति चेत् —न; जागरदशाकालिकप्रतीतिविषयस्य स्वामिकाभावस्यैव कदाचित् स्वप्रेऽपि प्रतीतिरित्येवोपपतौ अतिरिक्ताभावकल्पने गौरवात् । कथं जागरिकस्याभावस्येन्द्रियग्राह्यस्य स्वप्ने इन्द्रियोपरतौ प्रत्यक्षमिति चेत् — इन्द्रियनिरपेक्ष प्रातिभासिकप्रत्यक्षजन ४२२

कसामय्या एवावहारिक प्रातिभासिकप्रतियोगिकमभावमपि प्रातिभासि कानुपकाकाले ग्राहयितुं प्राभवमस्तीति स्वीक्रियताम् । वस्तुतः स्वानिक पदार्थस्य स्वप्नमध्ये बाधो नाम नैकत्र देशेऽनुभूतस्यान्यत्राभावः ; किन्तु प्रतिपन्नोपाधौ । तत्र जागरे शुक्तिमाहकविलक्षणा यथा रजतग्राहिका दोषघटितसामग्री, तथा वनव्यवहारोपयोगि सामग्रीविलक्षणभूतया स्वामिकवाधबुद्धिनिवर्त्यदोषघटितया सामग्र्या स्वामिकशुक्तौ रजतभ्रमे पश्चात् तत्रैव स्वामिकंसामग्र्या बांधो जायते । तत्र जागरे शुक्तिरजततदभावयोर्मध्ये यथा रजतसत्तापेक्षया तदभावसत्ताऽधिका, तथा स्वममध्ये तद्रजतसत्तापेक्षया तदभावसत्ताऽप्यधिकैवेति सुप्तपुरुषदृष्ट्या अभावस्तावदप्रातिभासिक एव । उपयद्वैत सिद्धावेव " भिन्नसत्ताकयोरविरोधेऽपि समसत्ताकयोर्विरोधात् " इत्युक्त्तयाऽप्यत्र स्वामिकर्तदभावसत्तयोः स्वमत्वा भावदर्शनात् । अतः स्वाघिकसत्ताकाभावप्रतियोगित्वमेव मिध्यात्वं वाच्यमिति न प्रपञ्चाभावस्य प्रपञ्चवत् व्यावहारिकत्वमिति ॥ यत्तु अन्यून सत्ताकाभावप्रतियोगित्वं मिथ्यात्वमिति –तन्न ! अन्यूनसत्ताकत्वं हि समसत्ता कत्वमपि । तथा चोभयोर्विरोधे कतरस्य मिध्यात्वमिति दुर्निश्वयं भवेत् । संयोगतदभावयोरिवाविरोधेनोभयसत्यत्वमेव स्यात् । किञ्चेदमन्यून सत्ता कत्वम् ? ‘न्यून सत्ताकत्वं नाम प्रातिभासिकस्याभावस्य व्यावहारिकपारमार्थिकप्रतियोगिकत्वं यत् यच्च व्यावहारिकस्याभावस्य पारमार्थिकप्रतियोगिकत्वम्, तदन्यतरवत्त्वम् । तदभावश्चान्यूनसत्ता कत्व’ मित्यादिपरिष्कारश्च व्यावहारिक पारमार्थिकरूपविधाद्वयसिद्धावेव घटते । मिथ्यात्वसाधनात् पूर्वं च विधाद्वयमनवगतमिति नैष परिष्कारः सुकरः । अपि चेदं पारमार्थिकत्वं मिथ्याभिन्नत्वमिति मिथ्यात्वघटितमेव मिथ्यात्वमित्यात्माश्रयः । ज्ञाननिवर्त्य.. त्वरूपमिथ्यात्वं घटकम् ; घटितं तु मिथ्यात्वमन्यदिति चेत् — घटकं ज्ञाननिवर्त्यत्वमेव कृत्स्नं भवतुः किं बहुना ? अस्तु तथैवेति चेत् -किमिदं निवत्र्त्यत्वम् ? ज्ञानजन्या निवृत्तिर्नाम का ? तत्रैव च न प्रमाणम् । शुक्तिज्ञानेन शुक्तिरूप्यं निवर्तत इति चेत् -दोषाधीनत्वात् रूप्यस्य दोषनिवृत्तौ निवृत्ति दृश्यत्वानुमान भज-प्रसाधनम् ४२३ रित्यस्तु । न तु शुक्तिज्ञानेन तन्निवृत्तिः । द्विचन्द्रादिस्थले हि दोषनिवृत्त्यैव मिथ्यावस्तुनिवृत्तिर्दृष्टा । ज्ञानं तु जातं दुर्बलविपरीतज्ञानोत्पत्तिप्रतिबन्धकमात्रम् । न तु वस्तुनिवर्तकम् । एवं प्रातिभासिकनिष्ठ यत् स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वम्, यच्च विनाशिनिष्ठ स्वसमानाधिकरणाप्रातिभासिकाभावप्रतियोगित्वम्, तदम्यतरवत्त्वमिति पारमार्थिकत्वाद्यघटितः " चन्द्रिको रूः परिष्कारोऽपि हेयः । दृश्यत्वरूप हेतुना शुक्तिरूप्यदृष्टान्तेन साध्यमानं हि मिथ्यात्वं तद्वत् प्रातिभासिकनिष्ठ वर्तमानाधिकरणात्यन्ताभावप्रतियोगित्वमेव स्यात् । तत् यद्यसंभवि, ’ तर्हि दृश्यत्वं मिथ्यात्वाप्रयोजकमित्येव स्यात् । न त्वन्या दृशमेकं दले स्वीकृत्यान्यतरवत्त्वमिति परिष्करणं युज्यते । वस्तुतः खसमानाधिकरणाप्रातिभासिकाभावप्रतियोगित्वमेव पर्याप्तम् । तत्र च दोषः प्रागेवादर्शि ॥ I यस घटध्वंसाधिकरणे कपाले प्रष्टात्यन्ताभावनिषेधेऽपि यथा म घटसत्त्वापत्तिः, तथा प्रपञ्चात्यन्ताभावस्य ब्रह्मणि निषेधेऽपि न प्रपञ्चसत्त्वापत्तिरिति–तन्न ; वैषम्यात् । तत्र हि ध्वंसप्रागभावाधिकरर्णे नात्यन्ताभाव इति प्राचीनतार्किकमते घटात्यन्ताभावं प्रति घटतदृध्वंसतत्प्रागभावानी त्रयाणामपि प्रतियोगितया घटात्यन्ताभावाभावस्य अत्यन्ताभावविरोधिनि तदन्यतम एवं विश्रम इति न घटैकुपरिशेषसंभवः । यथा घटपटान्यतराभावाभावस्य नं घटमात्रे पर्यवसानम्, तद्वत् प्रकृते तु प्रपञ्चाभावस्य प्रपञ्चमात्रप्रतियोगिकतया तन्निषेधः प्रपञ्च एव पर्यवस्यति । अस्तु वा प्रपञ्च प्रागभावप्रध्वंसाभावान्यतरस्मिन्नपि पर्यवसानम् । तथापि ध्वंसप्रागभावयोः सत्यत्वे प्रपञ्चसत्यत्वमप्यर्थ प्राप्तम् ; तन्निरूपणाधीननिरूपणत्वात् तयोः ॥ किञ्चैवमभावस्य व्यावहारिकत्वे कृत्स्नस्य वेदस्या बाधिता घोधकस्वरूप -प्रामाण्यायोगः । किं श्रुतेः प्रामाण्यमबाधितब्रह्मबोधकत्वात् उत अद्वितीय-त्वादिबोधकत्वात् ? नाद्यः, स्वयंप्रकाशे तत्र शास्त्राप्रवृत्तेः । नान्त्यः, अद्वितीय ૪૧૪

त्वादेर्व्यावहारिकत्वेन तद्बोधकस्य वेदस्या बाधितार्थकत्वाभावात् । ननु ब्रह्मातिरिक्तस्यातात्त्विकत्वं बोधयन्त्याः श्रुतेः कथमप्रामाण्यम् ! अतात्त्विकत्वमेव हि परमार्थ इति चेन्न -अतात्त्विकत्वं मिथ्यात्वम् ; स्वसमानाधिकरणः स्वाभावः । स च व्यावहारिकः बाध्य इति संप्रत्युच्यमानतया तस्यापारमार्थिकत्वात् । ‘कर्मकाण्ड इव तत्रापि व्यावहारिकमेव प्रामाण्यम् । तत्त्वमसीति श्रुतिरेव प्रमाण’ मिति चेत् — तदपि न तस्याः प्राप्तार्थकत्वात् । अप्राप्ते हि शास्त्रमर्थवत् । तस्याः स्वयंप्रकाश खण्डब्रह्मातिरिक्तांशबोधकत्वे तु श्रुत्यन्तरसमानयोगक्षेमत्वमेव । तत्त्वमसीत्यस्य तात्त्विकं प्रामाण्यमित्यपि स्थवीयः ; शब्दसामान्यस्य बाध्यतया तद्वतप्रामाण्यस्यापि बाध्यत्वेन तात्त्विकत्वायोगादिति ॥ अथ प्रपञ्चस्य व्यावहारिकतया तदभावस्य तत्समसत्ताकत्वे विरोध इति अत्यन्ताभावस्य पारमार्थिकत्वमेव स्वीकुर्म इति चेत् — तहिं ब्रह्मणः तस्य चोभयस्य स्वीकारात् द्वैतापत्तिः । ब्रह्मैवायमभावः, अभावस्याधिकरणात्मकत्वादिति चेत् — तेन साकं प्रपञ्चस्य विरोधोऽस्ति न वा ? आये ब्रह्मप्रकाशस्य सार्वदिकत्वात् प्रपञ्चप्रतीतिरेवानुपपन्ना । अभावस्य ब्रह्मणः प्रपञ्चप्रतियोगिकत्वाकारेण प्रागज्ञातत्वात् प्रपञ्चप्रतीतिरिति चेत्—तत् प्रपञ्चप्रतियोगित्वं परमार्थः अपरमार्थो वा ? आधे तदादाय द्वैतापत्तिः । तस्य ब्रह्मभेदे प्रपञ्चप्रतियोगिकत्वमपि प्रागेव ज्ञातमिति प्रपञ्चप्रतीतिर्न स्यादेव । अपरमार्थ इति चेत्–प्रपञ्चप्रतियोगित्वमभावे यदि मिथ्या, तर्हि प्रपञ्चसत्यत्वमेव । किञ्च तात्त्विकाभावप्रतियोगित्वादपि प्रपञ्चस्य तात्त्विकत्वापत्तिः । प्रपञ्चप्रतियोगि कत्वविशिष्टाभावरूपविशिष्टपदार्थे विशेषणस्यापारमार्थे विशिष्टस्याप्यपारमार्थ्यात् । उक्तञ्च न्यायकुसुमाञ्जलौ – “न चापारमार्थप्रतियोगिकः पारमार्थिकोऽभावो नाम " इति । ननु शशशृङ्गे नास्तीति निषेधः अनुभवसिद्ध इति चेन्न कचित् प्रसक्तस्यैवान्यत्र प्रतिषेधात् शशशृङ्गमस्तीति प्रतीत्यभावेन तन्नास्तीति प्रतिषेधाप्रसक्तेः । शशशृङ्गमस्तीति प्रतीतिरिष्यत इति चेत् —तर्हि, ‘सत्त्वेन प्रतीयमानत्वाभावात् प्रपञ्चशशशृतयोर्वै दृश्यत्वानुमान-भङ्ग-प्रसाधनम् ४२५ लक्षण्य’ मिति खोक्तिव्याघातः । अनुभवविरोधश्च । कस्तर्हि शशशृङ्गं नास्तीत्यस्यार्थ इति चेत्-अशक्यं प्रयोक्तमित्युक्तम् । अपिच पराक्रान्तमत्र भट्टकुमारिलादिभिरपीति किमधिकं स्थापनीयम् । तर्हि प्रपञ्चस्य सत्त्वेन प्रतीयमानत्वात् तदभावप्रतीतिर्न न घटते इति चेत्-घटतां नाम । तस्याभावस्य पारमाथिंकत्वे प्रपञ्चोsपि पारमार्थिक इत्येव संप्रत्युच्यत इति । ननु प्रपञ्चः परमार्थः, तात्त्विकाभावप्रतियोगित्वादिति न युक्तम् । तात्त्विकाभावप्रतियोगिनः शुक्तिरजतस्य मिथ्यात्वादिति चेन्न -तस्य मिथ्यात्वे मानाभावात् । आपणस्थपारमार्थिकरजतस्यैव इदं रजतमित्यत्र प्रतीयमानतया तदभावस्यैव, नेदं रजतमिति बोधनात् । इदं रजतमिति भ्रान्तिकाले लौकिक परमार्थिकमिदं रजतमित्येवानुभवात् । तदेतदनिर्वचनीयनिरसने निरूपयिष्यते । तथा च पारमार्थिकप्रपञ्चाधिकरणे पारमार्थिकस्याभावस्य दुर्वचतया अत्यन्ताभावस्यापारमार्थिकत्वमेव । ननु पारमार्थिकप्रतियोगि कस्याभावस्य परं कथमपारमार्थिकत्वमिति चेत् — अपारमार्थिकत्वकथनमिदमन्यत्राधिकरणे स्थितस्य प्रपञ्चाभावस्य आपणस्थरजततादात्म्यस्य शुक्ता विवात्रारोपाभिप्रायेण । अधिकरणान्तरे प्रपञ्चाभावः प्रसिद्धः । अप्रसिद्धौ तु सुतरां न प्रपञ्चनिषेध इति सिद्धं प्रपश्च सत्यत्वम् ॥ अथ तृतीयं ज्ञाननिवर्त्यत्वरूपं मिथ्यात्वं विचार्यते केथं निवृत्तिः : “न तावत् ध्वंसः । उत्तरज्ञानाधीनपूर्वज्ञानविनाशमादाय पूर्वज्ञानस्य मिथ्यात्वापत्तेः । शुक्तिरजतं ध्वस्तमिति ध्वंसप्रतीत्यभावाच्च । यदा तत्त्वसाक्षात्कारः, तदातनानां तदधीननिवृत्तावपि तत्पूर्वभाव्यतादिसृष्टिनष्टपदार्थानां ज्ञानाधीननाशप्रतियोगित्वाभावेन मिथ्यात्वानापत्तेश्च । यहि ज्ञानोत्पत्तिकाले तत् सर्वं स्थितं स्यात् नष्टं स्यादित्युल्लेखानुरोधात् ज्ञानप्रयोज्यत्वमतीतवस्तुनाशेष्वपि स्वीक्रियत इति चेत् — तादृशोलेखे किं प्रमाणम् ? ज्ञानात् सर्वनाशश्रुतिरिति चेत् न हि तथा श्रुतिरस्ति । प्रत्युत, " भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् 54 ૪૨૬

दृष्टे परावरे ॥” इति कतिपयनाश एव श्रूयते । सत्कार्यवादे नाशस्य विरोध्युत्तरावस्थारूपतायाः घटो नष्ट इत्यादौ घटत्वविरोधितदुत्तरकपालत्वाद्यवस्थावत्त्वबोध क्लृप्तत्वेन अनादिभावरूपाज्ञाने ज्ञाननिवर्त्यत्वाभिमते ईदृशावस्थाशालित्वकथनायोगेन मिथ्यात्वासिद्धयापत्तेश्च । तत्पदार्थनाशस्यापि व्यावहारिकस्य मिथ्यात्वेन तन्निवृत्तेरपि वक्तव्यतया नाशस्य नाशाभावेन निवृत्तेर्नाशरूपत्वायोगाच्च । नात्र रजतमिति रजताभावस्य प्राक्कालस्थितस्यापि ग्रहणेन नो ध्वंस परत्वायोगाश्च । ध्वंसो हि प्रतियोग्यनन्तरभावी ॥ निवृत्तिर्बाध इति चेत् — कोऽयं बाधो नाम ? कालत्रयेऽप्यभाव इति चेत् अस्यात्यन्ताभावस्य नित्यत्वान्न ज्ञानजन्यत्वम् । अत्यन्ताभावज्ञानं बाधः । शुक्तितत्त्वज्ञानाधीनरजताभावज्ञानविषेयाभावप्रतियोगित्वमेव रजतस्य ज्ञाननिवर्त्यत्वम् । तथा ब्रह्मज्ञानाधीनज्ञानविषयात्यन्ताभावप्रतियोगित्वं प्रपञ्चस्येत्युक्तयैवात्यन्ताभावे ज्ञानप्रयोज्यत्वनिर्वाह संभवेऽन्यादृशप्रयोज्यत्वमप्रामाणिक मेव । अस्तु तथैवेति चेत् — किं कुत्रापि कदापि स्थितस्य प्रामाणिकस्य प्रपञ्चस्य ब्रह्मण्यभावः, उतास्थितस्य । नाद्यः कदाचित् स्थितस्य सार्वकालिकाभावोत्ययोगात् । कादाचित्काभावमात्रविवक्षायाञ्चानित्यत्वमेव सिद्धयेत् ; न मिथ्यात्वम्। नान्त्यः, “अविद्या च विद्यालिङ्गम् " इति वैशेषिकसूत्रोक्तरीत्या कचित् यथावत् गृहीतस्यैवान्यत्र विपर्ययमाह्यतायाः अनुभवसिद्धत्वात् । नाननुभूतयथाभूतरजतस्य पुंसः शुक्तौ रजतभ्रान्तिः संभवति । अतः भ्रमविषयताव्यापकत्वस्य प्रमाविषयतायामानुभविकत्वेन यथाभूतप्रपञ्चस्य कदाप्यभावे आरोपासंभव एव । पूर्वभ्रमाधीन संस्कारोद्बोधवशादेवोत्तरभ्रम इत्यस्त्विति चेत्–इदमुत्तरोत्तरज्ञाने पूर्वपूर्ववासनामात्राधीनत्ववादिबौद्धमतानुसरणम् । तथा च वस्तूनां कार्यकारणभावादि सर्वमनपेक्षितं भविष्यति । ननु अस्थितस्य अन्यत्रस्थितस्य वा प्रपञ्चस्य नाधिष्ठानेऽभाव उच्यते । किं तर्हि ? अनिर्वचनीयोत्पत्तिस्वीकारात् ब्रह्मणि कल्पितस्य तत्र स्थितस्यैव तत्रैवाभाव उच्यत इति चेत् — भावरूपाज्ञानमनादि कीदृशसामग्रीबलात् कदा कथमुत्पन्नम् ? अनु दृश्यत्वानुमान-भङ्ग-प्रसाधनम् ४२७ त्पन्नत्वे कथं कल्पितत्वम् । उत्पन्नत्वे च कथमनादित्वम् ? दीपज्वालादिवत् अविद्यासन्तति स्वीकारे च कथं जीवानादित्वम् ? पूर्वजीवादुत्तरस्य भिन्नत्वे चाकृताभ्यागमकृतविप्रणाशप्रसङ्ग इति । कथञ्च तत्र स्थितस्यैव तत्रैवाभावः । शुक्तौ इदं रजतमिति ज्ञानकाले तावत् तत्र रजतोत्पत्तिर्नाग्राहि । किन्तु स्थितं रजतं गृहीतमित्येव । अथ च नात्र रजतमिति प्रमया तत्र रजतस्य प्रागप्यभावोऽवधारितः । एवं प्रमागृहीतरजतात्यन्ताभावविरुद्ध शुक्तिस्थले रजतसत्त्वं न शक्यं स्वीकर्तुम् । ’ भ्रमात्मकरजतप्रत्यक्षान्यथानुपपत्त्या तत्साक्षात्कारतानिर्वाहाय रजतोत्पत्तिकल्पना किं युक्ता, किं वा रजतात्यन्ताभावग्राहिप्रमात्मकप्रत्यक्षाविरोधाय रजतसत्त्वं रजतोत्पत्तिश्च नाङ्गीक्रियतामिति विमर्श प्रमानुसारेण भ्रमस्यान्यथा निर्वाह एवोचित इति स्थिते अनिर्वचनीयस्थितिकल्पनायाः का प्रसक्तिः ? तर्हि सत्त्वेन प्रतीयमानत्वमिति भ्रान्तिग्राह्यत्वरूपविशेषसत्त्वेऽपि प्रमासिद्धस्यात्यन्ताभावस्याविशिष्टत्वात् तुच्छप्रपञ्चयोरविशेष एव तत्त्वतः स्यादिति चेत् — अस्तु कामम् । वस्तुतस्तु परमार्थस्यैव कचिदारोप इति भ्रान्तिविषयस्यात्यन्ताभावप्रतियोगित्वमस्ति । तुच्छं तु अप्रसिद्धमिति न तस्यात्यन्ताभावप्रतियोगित्वमपि । शशशृ नास्तीति प्रतीत्यनुपगमात् । अतः तत्र स्थितस्य तत्राभाव इति विरुद्धं नोपन्यसनीयम् । अपि चैवमत्यन्ताभावप्रतियोगित्वरूपमिदं मिथ्यात्वं प्रथमनिरुक्तमिध्यात्वादिविशिष्टमिति न पृथकू कर्तव्यम् । न वा पृथक् दूषणीयम् ॥ एवमन्यादृश निवृत्तिपदार्थासम्भवस्योक्ततया निरुक्त परिष्कारे उत्तरज्ञाननाश्यपूर्वज्ञानादावतिव्याप्तिप्रसत्त्यभावात् ज्ञानत्वव्याप्यधर्मावछिन्ननिवर्तकताकत्वम् साक्षात्कारत्वावच्छिन्न निवर्तकताकत्वमित्यादिपरिष्करणमप्यनुपादेयम् । किञ्च परोक्षभ्रान्तिस्थले अर्निर्वचनीयमिष्यते न वा । अन्त्ये तत्र कीदृशी ख्यातिः ? तद्वदेव प्रत्यक्षस्थलेऽपि लाघवादनिर्वचनीयाभावस्वीकारणं युक्तम् । परोक्षस्थलेऽप्यनिर्वचनीयमस्ति चेत् — तत्कल्पकस्याज्ञानस्य तत्सह कृतप्रमाणजन्यपरोक्ष ४२८

ज्ञानेनैव सुनिरसतया तत्र साक्षात्कारान्वेषणस्य व्यर्थत्वादसम्भवाच तत्रानिव चनीये साक्षात्कारत्वावच्छिन्न निवर्तकताकत्वं ह्यव्याप्तमेव भवतीति । ; चतुर्थमिथ्यात्वं तु स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वं द्वितीयमिध्यात्वमेव ; विशेषण विशेष्यभावविपर्यासमात्रमिति तद्विचारेणैव विचारितं भवति । तत्र विशेषाशङ्कापरिहारप्रकारे सिद्धयाहते तु स्थितमनौचित्य मनागाविष्क्रियते । तत्कार्यसमवायिनि देशे तत्कार्यस्यात्यन्ताभावः कथम् ? अत्यन्ताभावसत्त्वे तु तस्योपादानत्वानुपपत्तिरिति शङ्का । तदधिकरणस्यापि तदत्यन्ताभावाधिकरणत्वस्य काले दर्शनात् देशेऽपि तथात्वं नानुपपन्नम् । अत्यन्ताभाववत् कार्यप्रागभावस्यापि कारणे सत्त्वादुपादानत्वञ्चेति परिहारः । तदिदं घटादिसम वायिनि कपालादावुपपादयन्ति । वेदान्तसिद्धान्ते समवायाभावात् घटकपालयोरैक्यात् घटाधिकरणत्वस्य कपाले वक्तुमशक्यत्वात्, “मही घटत्वं घटतः कपालिके " ति घटपश्चाद्भावस्य कपाले कथनाच्चानुपपन्नमिदम् । अथापि नोदाहरणमादर्तव्यमिति कथञ्चिच्छङ्कापरिहारे यतनीयमेव अवयवसंयोगविशेषरूपावस्थाविशेषात्मकघटत्वघटगतरूपादीनां स्वरूपात्मक संबन्धेनाधिकरणे द्रव्ये तदत्यन्ताभावः कथमिति शङ्कापर्यवसाने परिहारस्यावश्यकत्वात् । कृतस्तु परिहारो न युक्तः । काले वृत्तौ देशस्यावच्छेदकत्वम्, देशे वृत्तौ कालस्यावच्छेदकत्वमिति नियमात् कालस्य प्रतियोगितदभावो भयाधिकरणत्वस्य विभिन्न देशावच्छेदेनैवोपपादनात् घटाद्यवच्छेदेन घटरूपादिकं कालेऽस्ति तदन्यदेशावच्छेदेन तु तत्तत्र नास्ति । एवं कार्यतत्प्रागभावाधिकरणत्वं घटस्य भिन्नकालावच्छेदेनेति च भाव्यम् । तद्वत् यदि कार्यं तदत्यन्ताभावयोर्मिन्त्रकालावच्छेदे नैकत्रातिदेशेनोपपादनमिष्टम्, तदयुक्तम् — कार्यकालभिन्न कालावच्छेदेन स्थितस्याभावस्यात्यन्ताभावत्वायोगात् । त्रैकालिको त्यन्ताभावः । यच्च कार्यप्रागभावसत्त्वादुपादानत्वमुपपन्नमिति -तदपि न कार्यतं सतत्प्रागभावानां त्रयाणामपि अत्यन्ताभावप्रतियोगितया अत्यन्ताभावसत्त्वे प्रागभावायोगात् प्रागभावसत्त्वे च दृश्यत्वानुमान भज-प्रसाधनम् s कार्यसत्त्वे इवात्यन्ताभावासंभवप्रश्नस्य जागरूकत्वात् । कालदृष्टान्तस्य च वैषम्यप्रदर्शनेन वारितत्वात् ॥ यत्तु — श्रुतिप्रामाण्यात् तदधिकरणेऽपि तदत्यन्ताभावस्वीकार इति -तदप्यनुपपन्नम् श्रुतिप्रतिपन्नत्वे विमतं मिथ्या दृश्यत्वादित्यनुमानस्यानपेक्षितत्वात् । प्रत्यक्षविरुद्धार्थस्य श्रुत्या बोधयितुमशक्यत्वाश्च । नेह नानास्तीति श्रुतेर्ब्रह्मणि घटादिप्रपञ्चाभावबोधकत्वेऽपि कपालादावुपादाने तदभावबोधकत्वाभावाच्च । यदि च इहेतिपदं कपालादितादात्म्यापन्नब्रह्म परम्, ब्रह्मणस्तत्तत्तादात्म्यं केन प्रमाणेनावसितम् ? " सदेव सोम्ये “ति श्रुत्यैवावगतमिति चेत् — तर्हि श्रुतिप्रतिपन्नार्थस्य श्रुत्या बाधायोगात् इहेति तत्तादात्म्या न्नतया प्रकृतवाक्य एव ब्रह्मण उपात्तत्वेन तदविरोधेनैव, ‘नाना नास्तीत्यस्यार्थवर्णनं कार्यमिति तत्तादात्म्यापन्ने ब्रह्मणि किञ्चित्तादात्म्यापन्नानापन्नरूपार्थद्वयाभाव एव श्रुत्यर्थः स्यात् । अतो न पूर्वप्रमितार्थविरुद्धार्थपरता । अन्यथा तदधिकरण एव तदत्यन्ताभावस्वीकारे भावाभावयोर्विरोध एवोच्छिन्नकथः स्यात् । द्वैताद्वैतयोरविरोधात् अद्वैतज्ञानञ्च कथं द्वैतनिवर्तकम् ? कपाले सदा घटाद्यभावसत्त्वे च ’ कपालं घटाभाववत्’ इति ज्ञानस्याप्रमात्वानापत्तिः । घटानधिकरणत्वस्य कपाले तन्तौ च तुल्यतया तन्तावपि घटोपादानत्वप्रसङ्गः । तन्तोर्घटाधिकरणत्वं नास्तीति चेत्-कपालस्यापि तन्नास्ति, प्रतियोग्यधिकरणेऽभावस्याङ्गीकारात् । तन्तौ घट इति घटाधिकरणत्वप्रतीतिर्नास्तीति चेत् तदुपादानत्वतदधिकरणत्वतत्प्रतीत्यादिकमेवापाद्यते । ननु समानसत्ताकयोर्भावाभावयोर्विरोधः, न तु भिन्नसत्ताकयोः । तदत्र श्रुतिप्रतिपन्नः अभावः पारमार्थिकः । तत्प्रतियोगितया चापारमार्थिको भाव इति न विरोध इति चेत् — एवं तर्हि कालदृष्टान्तवर्णनमयुक्तम् । न च पारमार्थिको घटाभावः कपाले वर्णयितुं शक्यः, ब्रह्मेतराभावज्ञानरूपतत्त्वज्ञानेन घटबाधकाले कपालस्यापि बाधितत्वेन घटाभावे कपालाधिकरणकत्वस्यायोगात् । तर्हि खाधिकरणपदेन४३०

ब्रह्म गृहीत्वा तत्रैवात्यन्ताभावसमन्वयेन मिथ्यात्वमुपपादयाम इति चेत्-तर्हि कुत एवं घटकपालादिग्रहणेन विस्तरः । ननु सिद्धिग्रन्थो न कपालाद्यभिप्रायेण प्रवृत्तः, किन्तु ब्रह्माभिप्रायेणैव । ब्रह्मणि प्रपञ्चरूपकार्याधारत्वस्य 1 संप्रतिपन्नत्वात् तत्र कथं तदभावः ? लोके कार्यसमवायिनि देशे कार्यात्यन्ताभावादर्शनात् तथासति ब्रह्मणः कार्योपादानत्वायोगश्चेत्येव प्रश्नः । अतः परिहारोऽपि ब्रह्माभिप्रायक एवेति चेत्–लोकन्यायेन परिहारायोगः प्रागुक्त एवेहाभ्यनुसन्धेयः ॥ ; यत्तु –कारणत्वं नियतपूर्ववृत्तित्वम् । नियतत्वं च व्यापकत्वम् । तच्च कार्याधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वम् । तद्वत्यपि तदत्यन्ताभावस्वीकारे च कारणस्यापि कार्याधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वस्यैव सद्भावात् कारणत्वानापत्तिरित्याशङ्कय साध्यसामानाधिकरण्यावच्छेदकहेतुतावच्छेदकवत्त्वं व्याप्तिरित्यस्यापि नैयायिकसंमतत्वात् तत्रावच्छेदकत्वं स्वरूप संबन्ध विशेष इति तद्रीत्या दण्डादिसामानाधिकरण्यावच्छेदकघटत्वमेव घटस्य दण्डादिकार्यत्वमिति न दोष इति–तन्न -नियतपूर्ववृत्तित्वरूपकारणत्वस्यापि लौकिकनैयायिक सर्व संप्रतिपन्नत्वात् अन्वयव्यतिरेकाभ्यां कारणत्वावधारणप्रवृत्तैर्नियतपूर्ववृत्तित्वस्योपेक्षणायोगाच्च तत्समन्वयस्याप्यावश्यकत्वात् । अथ दण्डादौ घटाधिकरण निष्ठात्यन्ताभावप्रतियोगित्वसत्त्वेऽपि तदभावोऽप्यस्ति, प्रतियोग्यधिकरणेऽभावस्याङ्गीकारादेवेति न नियतत्वक्षतिरिति चेत् तर्हि रासमादेरपि प्रतियोगित्वसत्त्वेऽप्यभावोऽप्यस्तीति कारणत्वापत्तिः । घटसामानाधिकरण्यावच्छेदकत्वं वा रासभत्वे कुतो नास्ति । रासभस्य घटनियतत्वाभावादिति चेत् तर्हि लक्षणान्तरमपि नियतत्वनिरूपणसापेक्षमिति तदवस्थ दोषः । अथानुपपत्तिसद्भावेऽपि श्रुतेर्बलीयस्त्वात् प्रतियोगिमत्यप्यभावः एषितव्य इत्येव ब्रह्मणि प्रपञ्चाभावमात्रोपपादनाय ब्रूम इति चेत् —तर्हि विमर्शो वृथा । यथा यथा श्रुतिराह, तथा तथा तत् ब्रह्म तस्य प्रपञ्चेन संबन्धश्च स्वीकार्ये इति । शारीरकमीमांसाऽपि श्रुत्यर्थ आपातप्रतीतः सर्वोऽपि दृश्यत्वानुमान भज-प्रसाधनम् ** 1 श्रुतिप्राबल्यात् अनाक्षेपमादर्तव्य इत्येकमुपदेशं विधायोपरन्तुमर्हतिः न पुनश्च तुरध्यायीरूपेण प्रवृत्य बहुविधपूर्वपक्षपरिहरणे तया प्रवर्तितव्यम् । अत एव उपरि लक्षणस्यास्य तुच्छेऽतिव्याप्तिमाशङ्कय सत्त्वेन प्रतीयमानत्वं नास्तीति परिहृत्य, ’ असदेवेदमग्र आसीत्’ इति श्रुतावसतोऽपि आसीदिति सत्त्वेन प्रतीयमानत्वस्य प्रतीत्या पुनरतिव्याप्तिरित्या क्षिप्य तत्र असदित्यत्र, ‘अ-मा-नोनाः प्रतिषेधवचनाः’ इत्यनुशासनानुरोधेन अकारं पृथक्कृत्य, सदिदमग्रे नासीदित्यर्थाश्रयणात् असति न सत्त्वप्रतीतिः श्रौतीत्युक्तमप्युपेक्ष्यम् । अकारपृथक्कारपरिश्रममपरिगृह्य श्रुत्युक्तत्वादसतोऽपि सत्त्वेन प्रतीयमानत्वमस्तु इत्येव वक्तव्यत्वात् । ’ लोके शशश्टङ्गमस्तीति प्रतीत्यभावात् लौकिकं सत्त्वं शशश्टङ्गस्य नास्ति ; श्रुतिप्रामाण्यादलौकिकं तु सत्त्वमस्ती ‘ति सुवचत्वात् । असत्कार्यवादखण्डनश्रुतिस्तु अलौकिक सत्ताश्रयस्यैव शशश्टङ्गस्य जगत्कारणत्वमात्रव्यदासिकेति न दोष इति च । अपिचात्र आशनैवानुपपन्ना । स्वात्यन्ताभावाधिकरण एव प्रतीयमात्वं हि प्रागुक्तम् । न च शशश्टङ्गमेव प्रतीयते ‘प्रतीयत एव ’ शशटरङ्ग’ मिति ; ‘शब्दज्ञानानुपाती वस्तुशून्यो विकल्प’ इति पातञ्जलवचनादिति चेत् — न हि तत्र किञ्चिदधिकरणे प्रतीयमानत्वं विवक्षितम् । अधिकरणे प्रतीयमानत्वं हि अधिकरणविशेष्यकप्रतीतिविषयत्वं वा अधिकरणनिरूपिताधेयत्वप्रकारकप्रतीतिविशेष्यत्वं वा । तत् कथं शशश्टङ्गे? यदि तु तदप्यस्ति, तर्हि सत्त्वेन प्रतीयमानत्वनिवेशेऽपि न निस्तारः । तस्मात् यदि सिद्धिः समर्थनीया, एवं गंच्यम् — खात्यन्ताभावाधिकरणे प्रतीयमानत्वमिति अधिकरणे इति सप्तमी निर्देशप्रयोजनम् असत्यतिव्याप्तिशङ्कापरिहारमुखेन सिद्धिर्दर्शयति । व्याख्यातारस्तु उपेक्षणीया इति । किं तद्ग्रन्थार्थयाथात्म्यशोधनेन । स्वाधिकरणस्यात्यन्ताभावाधिकरणत्वं तु न युक्तम् । पारमार्थिका पारमार्थिकत्वमुखेन विरोधपरिहारस्तु अर्थद्वयसद्भावनिश्चयायत्तः । श्रुतिश्च न विरुद्धमर्थ प्रतिपादयितुमीष्टे । इदमेव तावदेतन्मिथ्यात्वविकल्पनिराकरणप्रसङ्गे शतदूषण्या समग्राहि, " न च पञ्चमः, श्रुत्याद्यैस्तद्विधायकैस्तदभावग्रहासंभवात् । श्रुतीनामपि निषेधिकानामन्यत्र व्यवस्थापनात् " इत्यादिना ॥ ४.३२

अथ पञ्चममिथ्यात्वविचारः । सदसद्विलक्षणत्वमेव प्रथम लक्षण वैलक्षन्याय मुखान्तरेणोच्यते । तत्रासद्विलक्षणत्वं सत्त्वेन प्रतीयमानत्वमिति प्रागुक्तमेव । सद्विलक्षणत्वे तु सद्भिन्नत्वे घटकं सत्त्वं प्रागुक्तात् अबाध्यत्वादन्यत् प्रमाणसिद्धत्वरूपम् । प्रमाणञ्च दोषासहकृतं सत् यत् ज्ञानकरणम्, तत् । तथा च सद्भिन्नत्वं दोषासहकृतज्ञानकरणजन्यज्ञानविषयभिन्नत्वम् ; दोषाजन्यज्ञानविषयाभिन्नत्वमिति यावत् । न च ज्ञानसामान्यस्याविद्यामूलकत्वात्, अविद्यायाश्च दोषत्वात् दोषाजन्यज्ञानाप्रसिद्धिः । अविद्यापरिणामान्तःकरणवृत्तिरूपज्ञानानामन्तःकरणोपादानकतया अविद्योपादानकत्वाविशेषेऽपि तदन्तर्गतं तत्त्वविषयकं तत्त्वमसिवाक्यजन्यं ज्ञानं प्रति अविद्यायाः दोषविधया निमित्तकारणत्वानङ्गीकारात् दोषनिष्ठनिमित्तकारणत्वानिरूपकज्ञानत्वस्यैव दोषाजन्यज्ञानरूपतया तथाभूतं ज्ञानं तत्त्वमसिवाक्यजन्यं प्रसिद्धमित्यदोषात् । अथ विवरणमते शुद्धब्रह्मणो वृत्तिविषयत्वाङ्गीकारेण दोषाजन्यज्ञानप्रसिद्धया तद्विषयान्यत्वस्य ब्रह्मातिरिक्ते सत्त्वेन समन्वयेऽपि, भामतीमते तत्त्वमसिजन्यज्ञानस्याप्युपहितब्रह्मविषयकतया दोषाजन्यज्ञानाप्रसिद्धिरित्यसम्भवः । तथा ज्ञानस्य प्रमात्वाभावप्रसङ्गश्चेति चेत् न वृत्तिविषयत्वोपहितरूपविषयकज्ञानत्वं वृत्तिविषयत्वानुपहितरूपाविषयकज्ञानत्वं वा प्रमात्वमिति न तत्त्वमसि जन्यज्ञानस्य प्रमात्वानापत्तिरिति । अतः तत्त्वमसिवाक्यस्य प्रामाण्यं सुस्थम् । घटादिज्ञानं तु न वृत्तिविषयत्वोपहितरूपविषयकम् । कदाचित् वृत्तिविषयत्वोपहिततद्विषयकत्वाङ्गीकारेऽपि घटादेर्वृत्तिविषयत्वानुपहितरूपविषयकज्ञानविषयत्वमप्यस्ति । यस्तु कश्चित् ज्ञानसामान्यं ब्रह्मज्ञानं घटादिज्ञानं बा वृत्तिविषयत्वोपहितविषयकमेवेति भ्राम्यति सः घटादिज्ञानं प्रमात्वेन व्यवहर्तुं प्रभवत्येव । तत्र (ज्ञाने मिथ्याभूतपदार्थविषयके दोषकारणकज्ञानान्यज्ञानत्वरूपप्रमात्वस्य तेन दुर्महत्वेऽपि ) वृत्तिविषयत्वोपहितरूपविषयक ज्ञानत्वादिरूपप्रमात्वस्य सुग्रहत्वात् । तथा च दोषनिष्ठनिमित्तकारणताकज्ञानान्यज्ञानविषयत्वं सत्त्वम् । तद्भिन्नत्वं सद्विविक्तत्वम् । बटादिज्ञानश्च वृत्तिविषयत्वानुपहित दृश्यत्वानुमानभम-प्रसाधनम् ૪૨ रूपविषयकमेव वस्तुत इति दोषजन्यतादृशज्ञानं प्रपश्वज्ञानम्, तदन्यज्ञानं तत्त्वमसिजन्यमिति नाप्रसिद्धिः । न चैवं वृत्तिविषयत्वोपहितब्रह्मणो मिध्यात्वलक्षण समन्वयो न स्यात् ; तज्ज्ञानस्य प्रमात्वेन दोषनिमित्तकत्वाभावेन तस्यान्यज्ञानविषयत्वादिति चेत् — इष्टापत्तिः । शुद्धस्येव तस्योपहितस्यापि मिध्यात्वस्यास्वीकारेणा लक्ष्यतयैवादोषात् । न चैवं तत्र दृश्यत्वरूपहेतु सत्त्वाद्रयभिचार इति शङ्कयम् ईदृशब्रह्माद्यविषयकवृत्तिविषयत्वरूप दृश्यत्वस्यैव हेतुत्वाङ्गीकारादिति तावदेतन्मिथ्यात्व निष्कर्षः ॥ " अयं विचार्यते अविद्यायाः दोषविधयापि कारणत्वे किं प्रमाणम् ? भूतमनोज्ञानेन्द्रियकर्मेन्द्रियमुख्यप्राणाविद्य। कामकर्मात्मकलिङ्गशरीरविशिष्टः जीवः । तत्र व्यावहारिकप्रपञ्चे जीवीयाविद्यारागादृष्टानां कारणत्वात् तेषामेव दोषत्वात् तथात्वमवसीयते । तथा विद्वान् नामरूपाद्विमुक्तः " इति श्रुतिश्च व्यावहारिकप्रपञ्चस्य ब्रह्मज्ञानवाध्यत्वमवगमयतीति चेदुच्यते–तदिदं तत्त्वमसिवाक्यजन्यज्ञानस्याप्यविशिष्टम् ; अविद्यायाः, विविदिषायाः, भक्तिमूलकेश्वरसङ्गल्पादिरूपादृष्टस्य च तत्राप्यपेक्षितत्वात् । अथापि तेषां दोषविधया तत्र न कारणत्वमिति चेत तुल्यमन्यत्रापि । प्रपञ्चस्यापारमार्थ्यात् तज्ज्ञाने तेषां दोषविधया कारणत्वमेष्टव्यम्, शुक्तिरजतज्ञान इव शुक्त्तयज्ञानादेरिति चेत्—प्रपञ्चापारमार्थ्यमेव किल किंरूपमितीदानीं विचार्यते । तथा च तत्र तस्यैव नियामकत्वाश्रयणे आत्माश्रयादि । न च, ‘नामरूपाद्विमुक्त इति श्रुतिः प्रमाणम् ; कारागृहान्मुक्तश्चोरः, राहोर्मुक्तश्चन्द्र इत्युक्तिमात्रेण बन्धमिध्यात्वस्य तत्र तत्र सर्वथैवाप्रतिपत्तेः । अस्तु प्रकृतदृश्यत्वहेतुरेव नियामक इति चेत्–दृश्यत्वं ब्रह्मालीकयोरप्यविशिष्टमित्युक्तत्वात् ब्रह्मज्ञाने तत्त्वमसिजन्येऽपि तेषां दोषविधया कारणत्वापत्तिः । अत एव दृश्यत्वहेतुर्ब्रह्मालीकविषयक वृत्तिभिन्नवृत्तिविषयत्वरूपेण परिष्कृत इति चेत्-प्रागेवाप्रयोजको हेतुरिदानीं सुतरामप्रयोजकः संवृत्तः । तत्तदनभिमतविषये तद्भिन्नत्वनिवेशस्य तेन तेन सुवचत्वात् । 55 ४३४ परमार्थभूषण किञ्च लोके शुक्तिरजतज्ञानं भ्रमः । अयं शुक्तिरजतज्ञानवानिति, अस्य शुक्तिरजतज्ञानं दोषजन्यमित्येवंज्ञानं तु शुक्तिरजतविषयकमपि प्रमाभूतमित्येवानुभविकम् । अन्यथा अस्मद् श्रमविषयकज्ञानशालिनो भगवतोऽवि भ्रान्तत्वप्रसङ्गात् । तथा च प्रमाभूतज्ञाने कस्यापि दोपविधया कारणत्वं न युक्तम् । एवमत्र प्रपञ्चज्ञानं भ्रमः, प्रपञ्चज्ञानं पुंसां दोषजन्यम्, ब्रह्मणोऽद्वितीयत्वज्ञानं न भ्रमः, जीवब्रह्मैक्यज्ञानं प्रमा इत्यादिज्ञानेषु कस्यापि दोषविधया कारणत्वं न युक्तमिति दोषत्कयाप्यधर्मावच्छिन्नकारणता निरूपितकार्यताशालिज्ञानान्यज्ञानं तत्तदिति तद्विषयान्यत्वस्य प्रापञ्चिकपदार्थेष्वभावात् बाधः । तेषां ज्ञानानां भ्रमत्वेष्टौ च सिद्धं प्रपञ्चसत्यत्वम् । अपि च यस्य भ्रमः प्रमेति द्वै ज्ञानस्येष्टम् स प्रमां प्रति कारणत्वेन क्लृप्तादतिरिक्तं दोषमपेक्ष्य भ्रमोत्पत्ति विवक्षुः कस्यचित् दोष विधया कारणत्वं स्वीकरोति । यस्य तु सर्वमेव वृत्तिज्ञानं भ्रमः, तदर्थमेव चेन्द्रियसन्निकर्षपरामर्शपदार्थज्ञानादि क्लृप्तम्, तस्य दोषविधया कस्यचिदन्यस्य कारणत्वस्य वा, तेषामेव दोषविधयाऽपि कारणत्वान्तरस्य वा कल्पनायां न किञ्चित् प्रमाणम् । तत्त्वमसिवाक्यजन्यवृत्तिज्ञानं प्रमेति तद्वारणाय कल्प्यत इति चेत्–तत् ज्ञानं प्रमेति किं श्रुत्योपदिष्टमस्ति ? उपदेशेऽपि तदुपदेशाधीनज्ञानान्तरस्यापि प्रमात्वापत्तिः । अनुपदेशे चाविशिष्टमेव भ्रमत्वम् ॥ अन्यच्च शुद्धब्रह्मणो न वृत्तिविषयत्वम्, किन्तु वृत्तिविषयत्वोपहितब्रह्मण एवेति भामतीपक्षे उपहितं तत् मिथ्यैवेति तद्विषयकज्ञानस्य भ्रमत्वमेव युक्तम् । न च वृत्तिविषयत्वोपहितब्रह्मणो वृत्तिविषयत्वोक्तावपि वृत्तिविषयत्वरूपविशेषणस्य न वृत्त्यंशे विषयत्वम् ; किन्तु अविषयस्यैव तस्य उपलक्षणविधया वृत्तिविषयतावच्छेदकत्वम्, तदादिपदशक्यतायां बुद्धिविषयत्वादेरिवेति वाच्यम् एवं तर्हि बुद्धिविषयत्वाद्यविषयकपदार्थज्ञानस्य तदादित इव वृत्तिविषयत्वानवगाहि शुद्ध ब्रह्मज्ञानस्य स्वीकारसिद्ध्या विवरणपक्षात् भामतीपक्ष दृश्यत्वानुमान भङ्ग प्रसाधनम् ४३५ म्याविशेषप्रसङ्गात् । ब्रह्मनिष्ठवृत्तिविषयता विवरणमते अनवच्छिन्ना, भामतीमते वृत्तिविषयत्वावच्छिन्नेति विशेष इति चेत्-इदं वृत्तिविषयत्वमच्छेदक१वच्छेयभूतवृत्तिविषयत्वापेक्षयाऽतिरिक्तमनतिरिक्तं वा ? आद्ये, प्रथमवृत्तिविषयता यामवच्छेदकं वृत्तिविषयत्वान्तरं नास्तीति तत्र विवरणमताविशेषः । अन्त्ये आत्माश्रयः । अगत्या सह्योऽयमात्माश्रयः, वह्नौ घृतं जुहोतीत्यत्र वह्निसंयोगानुकूलक्रियानुकूलव्यापारात्म कहोमान्तर्गतवह्निसंयोगांशे वह्नाविति वह्निसंयोगस्यागत्या व्युत्पत्तिवादे अन्वयस्वीकारवदिति चेन्न –तदर्थस्यापि विचारणीयत्वात् । जुहोत्यर्थस्य तदुक्तस्य मीमांसकमतविरुद्धत्वाच्च । देवतोद्देश त्याग प्रक्षेपत्रयं किल मिलित जुहोत्यर्थः । प्रक्षेपश्च यत्र कापि प्राप्तः, “यदाहवनीये जुहोति”, “पदे जुहोति” इति अौ तद्भिन्नेऽप्यधिकरणे नियम्यत इति, वह्नौ घृतं जुहोतीत्यस्य न दृष्टान्तत्वं युक्तम् । आस्तां तत् । केयमगतिः प्रकृते विवरणमतरीत्यैवोपपत्तेः । वस्तुतो भामत्याशयः प्रागेव जिज्ञासानुपपत्तिप्रसाधना दौं शोधित इति नेह तन्यते । अद्वैत सिद्धावेव हि दृश्यत्वविचारावसरे उक्तम्, शुद्ध हि ब्रह्म न दृश्यम् किन्तूप हितमेव । तच्च मिथ्यैव " इति । अतः एतस्य लक्षणत्वे वृत्त्युपहितत्राभिन्नमेव लक्ष्यम्, अन्यथा अन्याप्तेरिति मिथ्याभूतस्यामिथ्यात्वकल्पनप्रयासश्चन्द्रिकाकृतो न युक्तः । " अतः उपहितब्रह्मणो वृत्तिविषयत्वमिति पक्षे उपाधेर्ब्रह्मणश्च वृत्तिविषयत्वमेव उपहितञ्चानुपहितादन्यत् मिथ्याभूतमेव । तद्विषयवृत्तिज्ञानस्य भ्रान्तित्वमपि सह्यम् । अतो दोषविधया कारणत्वमविद्यादेस्तत्रापीत्येव वक्तव्यम् । तर्हि दोषजन्यज्ञानान्यज्ञानाप्रसिद्धया मिथ्यात्वलक्षणं दुर्वचमापद्यत इति चेत्वस्तुतः सद्विविक्तमित्यस्य प्रमाण सिद्धभिन्नमित्यर्थात् तच्छोधने एवमर्थस्य प्राप्तावपि दोषजन्यज्ञानान्यज्ञानविषयान्यत्वं मिथ्यात्वमित्यस्य अन्ततो लाघवात् दोषजन्यज्ञानविषयत्वं मिध्यात्वमित्यत्रैव पर्यवसानान्न दोष इत्येव युक्तम् । इदमपि खण्डनीयमेव प्रमाभ्रमरूपद्विविधज्ञानाभावात् सर्वेषामपि कारणानां भ्रमं प्रत्येव कारणत्वात् दोषत्वेन कारणत्वस्याकल्पनीयत्वादीदृशं मिथ्यात्वं न भवतीति । ¥{{ 1

तथा च शुक्तिरजतादौ तत्सत्त्वेऽपि प्रपञ्चे तत्सत्त्रे मानाभावात् हेतुरप्रयोजक इति न साध्यसिद्धिरिति । यद्वा सर्वस्यापि प्रेमयस्य प्रमाविषयत्ववत् भ्रमविषयत्वस्यापि प्रायः संभवेन सत्यतयाऽभ्युपगतेषु तेषु पदार्थेषु दोषजन्यज्ञानविषयत्वस्यापि सत्त्वात् सिद्धसाधनम् । शुक्तौ इदं रजतमिति ज्ञाने वास्तवरजतभानस्यैव तार्किकादिसंमतेः । यदि तु स्वविषयताव्यापकदोषजन्यज्ञानविषयताकत्वमिति मिथ्यात्वपरिष्कारः, तदा पूर्वोक्तदोषोऽस्त्येव । ज्ञानसामान्यस्यांद्वैतिमते भ्रमत्वेन ज्ञानसामान्यकारणातिरिक्तदोषरूपकारण कल्पने मानाभावेन दोषत्वावच्छिन्नजनकता निरूपितजन्यताश्रयज्ञानाप्रसिद्धेः । शुक्तिरजतादौ साध्यवैकल्यमपि । अयं शुक्तिरजतज्ञानवानिति परभ्रमविषयक प्रमायामपि रजतविषयतासत्त्वात् तस्याः दोषजन्यत्वाभावेन दोषजन्यज्ञानविषतायां स्वविषयताव्यापकत्वायोगादिति । अत एवाविद्यायाः उपादानत्वातिरेकेण दोषविधया कारणत्वाभावेऽपि इन्द्रियसन्निकर्षादीनामेव दोषविधया कारणत्वमिति चन्द्रिकोक्तमप्ययुक्तम् ; सर्वज्ञानाप्रामाण्यस्यैव सौगतमत इव स्वीकार्यतया भ्रमं प्रत्येव सर्वस्य कारणतया दोषविधया कारणत्वकल्पनस्यैवाद्वैत्मितेऽनपेक्षितत्वात् । एवञ्चानुगतदोषत्वनिर्वचनायोगात् इन्द्रियसन्निकर्षादेः प्रातिस्विकरूपेणा सर्वज्ञदुर्ज्ञानतया निवेशासम्भवाच्च कथं साध्यपरिष्कार इत्याशङ्कय ‘चन्द्रिकायां यदुक्तम्–भ्रमाजनकजन्यधीविषयान्यत्वं मिथ्यात्वमिति सुवच मिति -तदप्युपेक्ष्यम् -तादृशधिय एवाप्रसिद्धेः । किं नामैतद्धटकं भ्रमत्वमिति प्रश्न दोषजन्यज्ञानमित्युक्तौ आत्माश्रयाच्च । अन्यथानिर्वचने च तादृशभ्रमविषयत्वं मिथ्यात्वमित्येवालमिति अन्यदनतिप्रयोजनकम् । लक्षणस्य लक्षणान्तरादूषकत्वमित्यादिकं तु गन्धवत्त्वनानारूपवत्त्वा दिपृथिवीलक्षणादिस्थल एव सम्यक् समस्वयमर्हति । इदमेव मनसिकृत्य चन्द्रिकाकार एवान्ते लिखति, " भ्रमविषयत्वे, अविनाश्यवृत्तिधर्मवत्त्वे वा तात्पर्यम् " इति । अस्तु तावदेव लक्षणमिति चेत् — सिद्धसाधनम् । सत्यानामेव पदार्थानां सर्वेषां प्रमाविषयत्ववत् भ्रमविषयत्वस्यापि सर्वेष्टत्वात् । भ्रान्तेः हृदयत्वानुमानभावसाधनम् ४३७ पुरुषधर्मत्वात् । यद्यपि स्वविषयताव्यापक भ्रम विषयताकत्वं मिथ्यात्वमिति परिष्क्रियतामिति वक्तुं शक्यम् –तथापि शुक्तिरजतादिभ्रमविषयकप्रमायां प्रागुक्तरीत्या तस्य विषयतया तद्विषयताव्यापकत्वस्य भ्रमविषयतायामभावात् साध्यवैकल्यम् । न च इदन्त्वावच्छिन्न विषयतामात्रनिरूपित स्वविषयताव्यापकभ्रमविषयताकत्वं मिथ्यात्वम्, ताहंशी च स्वविषयता इदं रजतमित्येतावन्मात्रावमाहिज्ञानीयैव । तद्वयापकत्वं भ्रमविषयतायामस्तीति न साध्यवैकल्यमिति वाच्यम्आपणस्थरजतातिरिक्तार्निर्वचनीयरजतादौ मानाभावेन इदन्त्वावच्छिन्न ; विषयतानिरूपितर जतविषयतायाः इदं रजतमिति प्रमायामपि सत्त्वेन साध्यवैकल्यात् । एवमविनाश्यवृत्तिधर्मवत्त्वं मिथ्यात्वमित्युक्तमप्ययुक्तम् । मिथ्याभूतानां तत्त्वज्ञानवाध्यत्वमेव न विनाशित्वमिति । व्यावहारिकौ उत्पत्तिविनाशौ स्त एव पदार्थानामिति चेत्-तावनित्य एव स्तः ; न त्वनाद्यविद्यादौ । घटो नश्यतीत्यस्य हि घटत्वावस्थाविरोधितदुत्तरावस्थावान् स इत्यर्थः । एवमविद्या नश्यतीति न प्रयोक्तुं शक्यते । अविद्यात्यविरोधितदुत्तरावस्थाभाक्तस्याविद्यायां दुर्वचत्वात् । अत्राविनाशीत्यनेन पूर्वावस्था विरोध्यव स्थाशून्येत्येवार्थ विवक्षणात् अविद्यायामवस्थाद्वयस्य संप्रतिपन्नतया न दोष इति चेत् -अवस्थानामवस्थावत्त्वाभावेनाविना शिपदार्थत्वापत्त्या तत्र तदवृत्तिधर्मवत्त्वरूपमिथ्यात्वासिद्धिः । अवस्थायामवस्थायाः कथञ्चिदुपपादने चावस्थावत्त्वमेव मिथ्यात्वमित्यलम् । सिद्धसाधनञ्च । जगत्सत्यत्ववादिभिरप्यस्य संमतत्वादिति । एवं द्रव्यस्य निरन्वयविनाशस्वीकारे वैनाशिकत्वमद्वैतिनोऽपि स्यात् । एवं मिथ्यात्वरूपसाध्यविषये सिद्ध्यादिकृतो विचारः संसृष्टः । अथ तत्कृतो दृश्यत्व हेतु विचारोऽपि संमृश्यते । न्यायामृतादौ विकल्प्य खण्डितेषु दृश्यत्वकल्पेषु वृत्तिव्याप्यत्वरूपदृश्यत्व समर्थनं न युक्तम् । इन्द्रियग्रामेषु घटादिष्वेवान्तः करणस्येन्द्रियद्वारा निर्गम्य व्यापनस्य स्वीकृततया अतीन्द्रियेषु वृत्तिव्याप्तयभावेन तत्र पक्षैकदेशे हेत्वभावात् भागासिद्धेः । शुक्तिरजतादावन्नःकरणवृत्तिसंबन्धानिष्टया साधनवैकल्याच । अथ वृत्तिविषयत्वमेव वृत्तिव्याप्य 1 **

त्वम् । तत् तत्राक्षतमिति चेत् — ब्रह्मण्यपि सत्त्वाद्वयभिचारः । तत्त्वमसीत्यादिश्रुत्यधीनवृत्तिविषयत्वात् । न चाद्रेश्य मित्यादिश्रुत्यनुसारेण शुद्धब्रह्मणो वृत्तिविषयत्वं नेष्यते, उपहिते तु ब्रह्मणि वृत्तिविषयत्ववत् मिथ्यात्वमपीष्यत इति न दोष इति वाच्यम् अद्रेश्यमिति श्रुत्या यदि शुद्धमदृश्यत्वेन वेद्यते, तर्हि कथं तस्य वृत्त्यविषयत्वम् ? अथ न वेद्यते, तर्हि तत्त्वमसीत्यादिश्रुतिवेद्यत्वस्य तत्र स्वीकारे किं बाधकम् । उपहितमेव वृत्तिविषय इत्येतदपि विमृश्यम् । किं प्रपञ्चोपहितम्, अविद्योपहितं वा वृत्तिविषय इति विवक्षितम्, उत वृत्त्युपहितम् ? नाद्यः, ‘सर्वस्येशानः ‘, ’ मायिनं तु महेश्वरम्’ इत्यादौ तादृशस्य वृत्तिविषयत्वेऽपि तत्वमसीत्यत्राखण्डार्थिपरत्वाभिमते तथात्वायोगात् । तत्र वृत्त्युपहित विषय इति चेत् केयं वृत्तिः ? अखण्डाकारवृत्तिरेवेति चेन्न ; अखण्डाकरवृत्तौ अखण्डाकारवृत्त्युपहित विषय इत्यस्यायोगात् । न हि तत्रैव तस्या अपि विषयत्वम् ? स्वप्रकाशतया तदिष्टौ चापसिद्धान्तः । चैतन्यातिरिक्तस्याखप्रकाशतया वृत्तेस्तदयोगात् । अथ वृत्त्युपहितं ब्रह्म वृत्तिविषय इत्यस्य वृतिश्च ब्रह्म च वृत्तिविषय इति नार्थः ; किन्तु ब्रह्मैव वृत्तिविषयः तत्रोपाधिभूता वृत्तिः अविषय एवावच्छेदिकेति चेत् तर्हि घटपटादेर्वृत्तिविषयत्वमपि वृत्त्युपहितस्यैन, न तु शुद्धस्येति स्यात् । वृत्त्यभावकाले वृत्तिबिषयत्वाभावात्; वृत्तिकाले च वृत्त्युपहितत्वसंभवात् । किञ्चेदं वृत्त्युपहितत्वम् ? न तावत् वृत्त्याश्रयत्वम् । अन्तःकरण एव तत्संभवात् । नापि वृत्तिसंयुक्तत्वम् ; सत्यासत्ययोः संयोगायोगात् । अतो वृत्तिविषयताविशिष्टस्य वृत्तिविषयत्वमित्येव वक्तव्यम् । तथा वृत्तिविषयतां प्रति तस्या एवावच्छेदकत्वे आत्माश्रयः । विषयतासंबन्धेन वृत्तिविशिष्टं चैतन्यं वृत्तिविषय इति कृत्वावृत्तिविषयत्वमवच्छेद्यम्, वृत्तिर्विषयतासंबन्धेनावच्छेदिकेति नवीनदन्धनं तु प्रलोभनमात्रमिति प्रागेवोक्तम्; अन्ततो वस्तुनोरभेदात् । एवमुक्तावपि शुद्ध ब्रह्म वृतिविषय इति स्वीकृतमेव । ब्रह्मनिष्ठविषयतायाः किञ्चिद्विषयत्वानिरूपितत्वात् । वृत्तिविषयत्वाच्छिन्ना ब्रह्मविषयतेति विषयतायाः अनवच्छिन्नत्वं नास्तीति चेत् मा भूत् । ’ शुद्धं विषय ’ इति वक्तुर्हि ब्रह्मविशेषणतया / दृश्यत्वानुमान-भङ्गम-प्रसाधनम् ४३९ किञ्चिन्न भासते इत्येव विवक्षितम् । तत्तु स्वीकृतमेवेति को विवरणपक्षात् भामतीपक्षे विशेषः ? विवरणकारोऽपि वृत्तिकाले ब्रह्मणि वृत्त्युपहितत्वं न प्रतिषेधिष्यति । एवञ्च वृत्तिविषयत्वांशे वृत्तिविषयत्वायोगेऽपि ब्रह्मणि वृत्ति विषयत्वस्य स्वीकृतत्वात् दृश्यत्व हेतुर्व्यभिचारित एव । वृत्तिविषयत्वं यदा, तदा ब्रह्मणि वृत्त्युपहितत्वमस्ति चेत् — अस्तु, किं तेन ? अतस्तदुपहितत्वात् तन्मिथ्येति चेत् –तर्हि यदा किञ्चिदुपहितं ब्रह्म, तदा तन्मिथ्या; यदा त्वनुपहितम्, तदा सत्यमिति अविद्यातदधीनप्रपञ्चतदन्तर्गतवृत्तिकालेषु ब्रह्मण उपहितत्वात् मिथ्यात्वम्; अथानुपहिततादशायां तथ्यत्वमित्युंक्तं स्यात् । एकमेव कालभेदेन वो मिध्या तथ्यं चेति व्याहतमेतत् । ननूपहितमन्यत्, अनुपहितमन्यदिति न विरोध इति चेत् — अनुपहितमपि प्रपञ्चकालेऽस्ति, न वा ? न चेत् ब्रह्मणोऽनादित्व-भङ्गः । अस्ति चेत्-तस्यानुपहितत्वं तदा दुर्वचम् । अतः शुद्धब्रह्मणो वृत्तिविषयत्वं न शक्यं प्रतिषेद्धम् । अदेश्यमिति श्रुतिस्तु चैतन्यात्मनो ब्रह्मणश्चैतन्याविषयत्वमाहेति विवरणकारो निर्वोदु महतीत्यन्यदेतत् । यद्युच्येत —ब्रह्मणः सत्यत्वात उपाधीनाञ्च मिथ्यात्वात् मिथ्यातथ्ययोश्च संसर्गायोगात् ब्रह्मण्युपहितब्रह्म कल्पितमन्यत् मिथ्याभूतम् । एवं जीवेवरोरपि किञ्चिद्विशिष्टरूपत्वात् ब्रह्मणि कल्पितत्वं भिन्नत्वं मिथ्यात्वं च । प्रापञ्चिकपदार्थेषु पुनर्मिथ्याभूतेषु विशिष्टं शुद्धश्चानतिरिक्तम् । मिथ्याभूतविशेष्ये मिथ्याभूतविशेषण संसर्गस्य सुवचत्वात् । एवञ्च वृत्त्युपहितं ब्रह्म वृत्तिविषय इत्युक्तौ मिथ्याभूतस्यैव विषयतया तदतिरिक्तस्य शुद्धस्य न विषयत्वसंभव इति — एवं तर्हि जीवादेर्ब्रह्मणश्चाध्यासमूलकमेव सामानाधिकरण्यमिति तत्त्वमसीत्यादौ बाधार्थ सामानाधिकरण्यमेव स्यात् ; नाखण्डब्रह्मपरता । तच्छब्दार्थस्य कारणस्य विशिष्टस्य त्वंशब्दार्थस्यान्यादृशविशिष्टस्य च शुद्धब्रह्मणि कल्पिततया ततो भिन्नत्वे तयोर्ब्रह्मणैक्यस्याभावेन विशेषणानां परित्यागे विशेष्यमखण्डब्रह्मैकं सिद्ध्यतीत्यस्य दुर्वचत्वात् । कथञ्चिदविद्यावच्छिन्नस्येश्वर-४४०

स्याविद्यापरिणामावच्छिन्नस्य जीवस्य च मिथ्याभूतयोर्विशेष्यांशे ऐक्यमस्तीति सर्वविशेषणत्यागेनैक्यभावनायामपि मिथ्याभूतार्थविषयकज्ञानादेव मुक्तिर्वक्तव्या भवेत् । सा च मुक्तिः ईश्वरात्मैक्यरूपयाथात्म्यज्ञानिनि विषये ईश्वरकृतप्रसा दमावितं साम्यमैक्यं वा किञ्चिदेवेति न जातु तत्त्वज्ञानादशेषाविद्याविलयप्रसक्तिः । यदा यदा तत्त्वज्ञानं जीवस्येवरस्य वा तदा तदा तत् ब्रह्म वृत्त्युपहितमेव भवतीति उपहितब्रह्मणो ब्रह्मणश्च मिथो भेदस्याssवश्यकतया कस्यापि तत्त्वज्ञानत्वायोगात् । तस्मात्, उपाधेरपि ज्ञाने विषयत्वेन विशिष्टविषयकत्वे अतत्त्वज्ञानत्वम्, उपाधेर विषयत्वे च शुद्धमेव गृह्यत इति तत्त्वज्ञानत्वश्च वक्तव्यम् । वृत्त्युपहितब्रह्मविषविणी वृत्तिः शुद्धविषयिण्येवेति तत्र सत्ये यत्वरूप हेतुरनैकान्तिक एव ॥ अन्यथा, ’ यत्तददेश्यमग्राह्यम्’, ‘शुद्धं स्वप्रकाशम् ’ इत्यादावपि वृत्त्युपहित एवादृश्यत्वखप्रकाशत्वाद्यन्वयात् स्वाभिमतखरूपे तदसिद्धयापत्तिश्च । वृत्त्युपहिते तत् तत् बाधितमिति चेत् — कुत एतत् ? प्रत्यक्षाच्छास्त्रस्य बलीयस्त्वेन तदुक्तस्थादृश्यत्वस्यास्वीकारायोगात् । शुद्धब्रह्मण इव तस्याप्यदृश्यत्वे बाधकाभावात् । वृत्त्यंशे अदृश्यत्वं बाधितमिति चेत् — तदपि शास्त्रबलादेष्टव्यम् । सा वृत्तिः परमदृश्येत्येवास्तु । एवं स्वप्रकाशत्वमपि वृत्तेरापाद्यमानं नानिष्टम् । लोके मनोवृत्तीनां जातानामुपलम्भनैयत्यस्य संमतत्वात् ज्ञानखप्रकाशत्ववादिभिर्वृत्तिस्खप्रकाशत्वेऽपि संमतिसंभवात् । प्रकृत्याद्यपेक्षया अन्तःकरणे स्वच्छत्वादिरूपस्य वैलक्षण्यस्येव वृत्तिविशेषेषु स्वप्रकाशत्वस्यापि स्वीकारौचित्याच्च । तर्हि गतं चैतन्येनेति चेत्-वेदाननुसारे गतमित्येतदिष्टमेव । वेदाप्रमाध्ये तु तदप्यस्तु तदर्थे प्रतीतवृत्तिस्वप्रकाशत्व परित्यागः कुतः ? शुद्धस्य वृत्तिविषयत्वें स्वप्रकाशत्वविरोध इति चेन्न—– जात्वपि, नाहमस्मीति विपर्ययाद्यभावात् सुखमहमखाप्यमित्यादि बलाच स्वप्रकाशत्वमपीष्यते ; तावन्मात्रेण संसारोच्छेदाभावात् तदर्थे वृत्तिविषयत्वमपीष्यत इत्यविरोधात् । ज्ञानानां खकाले खाश्रयं प्रति खप्रकाशत्वस्य, " ; दृश्यत्वानुमानभम-प्रसाधनम् ४४१ स्वाभावकाले स्वाश्रयं प्रति, स्वाश्रयभिन्नं पुरुषं प्रति सर्वदा च वृत्त्यधीनप्रकाशस्य चानुभविकत्वाच्च । मा भूद्रा वृत्तेः स्वप्रकाशत्वम् । अथापि शुद्ध स्वप्रकाशमिति वृत्तिकाले ब्रह्मणो वृत्त्युपहितत्वे सत्यपि न विशेष्यांशे खप्रकाशत्वहानिः । अज्ञानोपहितचैतन्यं साक्षीत्युक्तिः अज्ञानांशे साक्षित्वाभावेऽपि घटत इति सिद्धिग्रन्थे समनन्तरमेव वक्ष्यमाणत्वात् तद्रीत्या वृत्त्युपहितेऽपि विशेष्यमात्रे खप्रकाशत्वस्याप्युपपत्तेः । अतः शुद्धस्य वृत्तिविषयत्वे शुद्धत्वासंभव इति सिद्धयुक्तम्, शुद्धस्य वृत्तिविषयत्वे स्वप्रकाशत्वायोग इति चन्द्रिकोक्तञ्चायुक्तम् । शुद्धं स्वप्रकाशमित्यस्य हि न ब्रह्मणि वृत्त्याद्युपधानराहित्यबोधकत्वम् । किन्तु वृत्तिप्रपञ्चाद्युपहितमपि ब्रह्म उपाध्येशं विना स्वरूपमात्रे स्वप्रकाशमिति बोधकत्वमेव । न च वृत्तिविषयत्वस्वप्रकाशत्वयोर्विरोधः । प्रदीपस्य प्रदीपान्तरनिरपेक्षतया स्वयंप्रकाशस्याप्यानयनादिक्रियाकर्मत्ववत् ब्रह्मणः स्वयंप्रकाशस्य वृत्तिक्रियाकर्मत्वे बाधकाभावात् । तत् वृत्तिविषयत्वमसत्यं स्यान्नाम । तावता शुद्धस्य तन्न भवतीति कथम् । यदि च शुद्धस्य ज्ञानविषयत्वमेव न स्यात्, शुद्ध विषयस्य विचारस्य वादिभ्यां क्रियमाणस्यैवासंभवः स्यात् । अत एव शुद्धं स्वप्रकाशमिति वाक्यस्या ‘अशुद्धम् उपहितमखप्रकाश’ मित्यर्थवर्णनमप्यनपेक्षितम् । अत्र तथा वर्णनमसंभवि च । शुद्धपदेन स्वप्रकाशपदेन च शक्यार्थोपस्थापनद्वारैव लक्षणायाः वर्णनीयतया शुद्धब्रह्मातिरिक्तस्य तदर्थत्वाभावेन ततः शुद्धब्रह्मानुपस्थितौ लक्षणानुपपत्तेः । शुद्धमित्यत्र लौकिकशुद्धेः, स्वप्रकाशमित्यत्र प्रदीपप्रकाशादेश्च ग्रहणे अशुद्धमखप्रकाशमित्यत्र प्रकृतविशेषालाभः स्यात् । एवमुपहितमस्वप्रकाशमित्युक्त । वपि शक्यार्थस्योद्देश्यत्वं विहाय लक्ष्यार्थस्योद्देश्यत्वमित्येव लाभात् प्रथमश्रुतत्वाच्च उपहितमुद्दिश्यास्खप्रकाशत्वमेव विधेय स्यात् । तथा चोपहितत्वव्यापकमखप्रकाशत्वमिति पर्यवसाने स्वप्रका 56 २४४२ शोदशेनाविति नस्य शुद्धं व्यापी परमायभूषणे नितु नतु शुद्धोद्देशेन स्वप्रकाशत्वविधा : विद्धिः । एवमस्वप्रकाशमित्यस्य कोडी सावकाशुद्धावरणे तदवीन काशामसिद्धिः । विधि । स्वाधीनप्रकाशवत्त्वमस्वप्रकाशत्वम् । सचदेव उपहितानधीनः प्रकाशः किमधीनः कारवचैवाधीन इत्येवोतरनितिसिद्धं युद्धम् अविच काशी देवा । एवमुपहितत्वव्यापकं स्वावसाचे, व्यापकाभावात् व्याप्याभाव इति गत्या स्वाधीनता उपहितत्वाभावस्य च नियम । उपपादनीय इति, तस्य वरानिपाणे समन्वय इति न शुद्ध स्वप्रकाशमिति पर्यवसानस्यावश्यकता । स्वानधी प्रकाशकमिचत्यमित्यस्य स्वाधीनप्रकाशकत्वमिति पचाने दिवा । स्वादितत्वस्य च नियम इति चेत् तर्हि स्वाधीनप्रकाशकमिति न गृहीतमेव भविष्यति । 1 विश्वका शोव्यात्मावे शुद्धस्वप्रकाशत्वपर्यवसानमित्यस्य कोडी व्यस्वार्थान्तरपात्वेऽपि व्यापकाभावात् व्याप्याभाव इति रीत्या गृवत इत्येव । तथा च मानसवृतिविषयत्वं शुद्धे सुस्थम् । पर्यवसानमित्यनेन, अपहितं स्वमाशमिति ज्ञायत इति न विवक्षितम् ; किन्तु अनुपस्पिकाशत्वाभाववदिति न ज्ञायत इत्येवेति चेत् — अत्रानुपहितमिति धर्मिग्रहणं कथम् स्ववकाशत्वरूपधर्माप्रसिद्धि । स्वशब्देन शुद्धस्याग्रहणात् । अनुपहितं परमकश्यमिति न ज्ञायत इत्यर्थ इत्युक्तावप्यनिस्तार एव । धर्मितया परत्वप्रतियोगितया च शुद्धग्रहणात् । अपिचोपहितं स्वानधीनप्रकाशकमित्युक्तौ पदासानान्यं प्रमेयमित्युक्तौ यथा पदार्थत्वव्यापकं प्रमेयत्वमिति सिद्धावपि न पदार्थातिरिक्तं प्रमेयतारहितमस्तीत्यर्थालाभः तथा (उपहितत्वं स्वाधीनप्रकाशकत्वं च केवलान्वावितया व्याप्यव्यापकभावापन्न मित्यप्यवगम्येतेति ) नानुपहिते तत्स्वप्रकाशत्वस्य तत्रास्वप्रकाशत्वेन दृश्यत्वानुमान भङ्गसाधनम् ४४३ ज्ञायमानत्वाभावस्य च सिद्धिः स्वानधीनः प्रकाशः किञ्चिदायत्तो वक्तव्य इति चेत्-तावता प्रकाशकारणत्वरूपविशेषवत्तयैव किञ्चित्सिद्धिः सादिति न शुद्धलाभः । उपदितमेकैकं स्वेतरेणोपहितेनैवान्येन कासव स्वाधीन प्रकाशकत्ववत् भवेदेव, यथा प्रमाणानामेव प्रमेयत्वं न्यासूत्रमाप्याद्युपपादितम्, तद्वदिति न वस्वन्तराधीनस्यावता । नवि चास्वप्रकाश सर्वमुपहितमिति कस्मै उपदेवम् । गः अनुपतिमयकारी ग्रीवम् । यदि न मन्यते तस्मा इति चेतेन गृहीतम्, तर्हि किमर्थ उपदेशः ? प्रकाश द्धति न वेति संयोजन नि । शुद्धस्य वृत्तिविषयत्वाभावे टिकोटको स्वश मिति वाक्यागः हिमव भावान भवतीत्येष दुतयमि इदि का एदि काला लरकाशत्व व्याप्तिः दुर्गादति वाकयनानपुरस्सरं पती त्यपलापायोगात् । त्वमावेपि विकल्प तज्ज्ञापनपूर्वकं तविशिष्टकििं क एका विका व्यवृत्तिची कारिणा शुद्ध शत्वरूपविशेषणान्वनः स्वप्रकाशत्वं चान्त्रयकाइयत्वाभाव कथीत देवा विरूपम् ; में पिकरणात्मक इति नाविकः कचिदुच्या उति विपविकान्तविशेषणात्यायनेऽपि वास्तव इत्येवम् ॥ यत्तु दृष्टान्तवर्णनम् वा वेदना तथैवाशुद्धत्व प्रावृत्त्या स्वयंप्रकाशत्वपर्यवसानी दिन्तम्-यं वस्थार्थःतादात्म्यरूपाभिन्नत्वप्रतियोगि काभाकपावकस्य तादात्म्यपर्यवसानम्, तथा स्वप्रकाशत्वा गाळ्यापकस्योपनि स्वप्रकाशत्व ४४४

पर्यवसानमिति । अत्र यथाश्रुतस्याभिन्नत्वस्य भेदाभावस्य विवक्षितत्वे अभिन्नस्वाभावो भेदवएवेति भेदव्यापको भेद इत्युक्तं भवतीति भेदनिषेधेनाभिन्नत्वज्ञानमित्यस्य दुर्वचत्वात् अभिन्नत्वं तादात्म्यं विवक्षितम् । अस्तु तावदिदं तादात्म्यात्यन्ताभावव्यापकत्वस्य भेदे ज्ञानम् । तत्प्रतियोगिकात्यन्ताभावज्ञानञ्च, तादात्म्यस्य, अत्यन्ताभावस्य भेदस्य, तदत्यन्ताभावस्य च यथायथमधिकरण. यत् तज्ज्ञानाभावे दुर्लभम् । विशिष्य चाभावस्य प्रतियोग्यनुयो गिनिरपेक्ष ज्ञानं न भवितुमर्हति । अनुयोग्य प्रसिद्धौ अभावाप्रसिद्ध्याः पदार्थत्वप्रमेयत्वादावनुभवात् । एवं स्वप्रकाशत्वाभावव्यापको योऽनुपहितत्वरूप शुद्धत्वाभाव इत्यत्र स्वपदार्थस्य स्वप्रकाशत्वाश्रयस्य उपहितत्वाभावाश्रयस्य च ज्ञानमपेक्षितमिति शुद्धज्ञानमवर्जनीयम् । एवम्, “भेदनिषेधेन भिन्नत्वम्” इति वाक्यस्य चन्द्रिकोते, “उपहितचित्तादात्म्यात्यन्ताभावव्यापकस्योपहित चिदत्यन्तभेदस्य शुद्धचिदन्यनिष्ठस्य प्रतियोगी उपहितचिद्भेदात्यन्ताभाव इति निश्वयोत्तरं ताहशात्यन्ताभावविशिष्ट उपहितचित्तादात्म्यं पर्यवस्यती” त्यर्थेऽप्यनुपपत्तिद्रष्टव्या । उपहितचिदभिन्नत्वं हि नाम उपहितचिद्भेदाभावः । उपहितत्वविशिष्टचित्त्वावच्छिन्नप्रतियोगिताक भेदाभावः । तच्चोपहितत्वविशिष्टचित्त्वमेवेति उपहितचित्त्वात्यन्ताभावव्यापकत्वनिवेशे शुद्धचित्यपि उपहितत्वविशिष्टचित्त्वा भावोऽस्तीति नोपहितचिदत्यन्तभेदस्य शुद्धचिदन्यनिष्ठस्य तद्व्यापकत्वमिति हि उपहितचित्तादात्म्यात्यन्ताभावनिवेशः । तत्तादात्म्यञ्च शुद्धचित्यप्यस्तीति न दोष इति । एवञ्च तत्तादात्म्यं शुद्धचिदादौ तदत्यन्ताभावो घटादावित्येव समन्वयः कर्तव्य इति कथं शुद्धचिदग्रहणम् । एवमुपहितचिदत्यन्तभेद इति अत्यन्तपदप्रयोगोऽपि शुद्धचितः उपहितचिद्भेदवत्त्ववारणार्थः । तथा उपहितविदेत्यन्त भेदप्रतियोगितया उपहितचिद्भेदात्यन्ताभावग्रहणम्, उपहितचिद्भेदात्यन्ताभावः शुद्धचिति, तदभावस्य च प्रथमाभावप्रतियोगिस्वरूपतया भेदरूपत्वम् । अतस्तत्प्रतियोगित्वं शुद्धचिनिष्ठे उपहितचिद्भेदात्यन्ताभावे इति विवेचनायत्तमिति च भाव्यम् ॥ दृश्यत्वानुमान भज-प्रसाधनम् । ४४५ एवं मायादिविशेषणविशिष्टब्रह्मज्ञानरूपदृशि विषयत्वादपि ब्रह्मण्यनैकान्त्यम् । न च तत्र विशिष्टस्य मिथ्यात्वमिष्टम् । विशेष्यमात्रे तु दृशिविषयतापर्याप्त्यधिकरणत्वस्य हेतुत्वविवक्षया व्यभिचारपरिहारः । विशिष्टज्ञानीयविषयतापर्याप्तेः शुद्धेऽभावादिति वाच्यम्—तर्हि घटत्वादिविशेषणांशविविक्ते भटव्यत्तयंशे दृशिविषयत्वपर्याप्त्यभावात् व्यभिचारात् । न च निर्विकल्पकविषयतापर्याप्तिस्तत्र, तदनङ्गीकारस्य प्रागेव दर्शितत्वात् । न चैवं तन्मात्रविषयक ज्ञानाभावे तस्यालीकतापत्तिः, पृथक्तन्मात्राग्रहणेऽपि विशेषणैस्सह ग्रहणादेव तत्सिद्धया तदलीकत्वायोगात् । यथा कदाचित् पुंभिरज्ञायमानत्वमात्रेण वस्तुनो नालीकत्वम्, तथा पृथगग्रहणमात्रेणालीकत्वमपि दुर्वचम् । अन्यथा संबन्धस्य, अभावस्य च अनुयोगिप्रतियोगिसाहित्येनैव ग्राह्यतया पृथगग्रहणमात्रेण तुच्छत्वं स्यादिति ॥ एवमज्ञानतत्कार्याविषयकज्ञानस्यैव संसारनिवर्तकतया तत्त्वमसिवाक्याधीनज्ञानस्य वृत्तिपर्यन्तसर्वाविषयका खण्डब्रह्मविषयक ज्ञानत्वमावश्यकमित्यपि शुद्धविषयकत्वसिद्धिः । उपरि " स्वव्यवहारे स्वातिरिक्तसंविद पेक्षा नियतिरूपं दृश्यत्वम् " इति परिष्कारे संवित्पदेन शुद्धचितोऽति ग्रहणाच्च शुद्धस्य वृत्तिविषयत्वमस्तीति ॥ यत्तु तत्वमसीति चरमवृत्तेरुपहितविषयकत्वेऽपि ब्रह्माज्ञान निवर्तकत्वं नानुपपन्नम् । अज्ञानस्याप्युपहितविषयकत्वेन समानविषयकत्वात् । न ह्यज्ञानविषयीभूतं ब्रह्म अज्ञानकाले अज्ञानानुपहितं भवति । अतः समानविषयक स्वान्निवर्तकत्वमिति–तदपि न । " शुद्धं हि ब्रह्म न दृश्यम् ; किन्तूप हितम् । तच्च मिथ्यैव " इति हि प्रागुक्तम् । शुद्धं तु ब्रह्म सत्यम् ; अतस्तयोर्भेदः सिद्धः । एवमज्ञानोपहित ब्रह्म अज्ञानविषयः । तदप्युपहितं तुल्यनयात् शुद्धाद्भिन्नम् । एवञ्च ब्रह्मणोऽपि भिन्नमज्ञानोपहित ब्रह्म अज्ञानविरोधिवृत्तिमात्रोपहित ब्रझतोऽपि भिन्नमेवेति कथं ज्ञानाज्ञानयोः समानविषयकत्वम् ! ४४६

अग्न्युपहितस्यायः पिण्डस्यायःपिण्डादेव भेदे सति हि जलोपहितादयःपिण्डाद्भेदः किंपुनर्न्यायसिद्धः । यदि तूपहितविषयकस्य ज्ञानस्याज्ञानस्य चोपाध्यविषयकत्वेन विशेष्यमात्र विषयकतया एकविषयकत्वम्, तर्हि तदेकमेव कदाचिदज्ञानोपहितं कदाचित् वृत्त्युपहितमिति तत्र न शुद्धब्रह्माविषयकत्वम् । शुद्धब्रह्मविषयकलं हि नाम ब्रह्मेतराविषयकत्वे सति ब्रह्मविषयकत्वमेव । उपहितविषयकमित्यस्यापि उपलक्षणस्यैवोपाधिशब्दवाच्यतया पूर्वोक्त एवार्थ इष्ट इति नोभयोः पक्षयोर्विशेषोऽन्यत्र शब्दभेदात् । यत्तु चन्द्रिकायाम् उपहितविपयकत्वं नाम उपाध्यविषयकत्वे सति उपहितान्याविषयकत्वे सति उपहितविषयकत्वमिति–तत्र उपाधेरुपलक्षणत्वज्ञप्तये उपा ध्यविषयकत्वदलनिवेशस्तावत् युक्तः । उपहितान्याविषयकत्वं तु कुतः ? अज्ञानतत्कार्यप्रपञ्चप्रकार काहाज्ञानस्यापि चरमवृत्त्यविषयकत्वब्रह्मविषयकत्वयोः सत्त्वात् उपहितविषयकत्वापत्तिरिति तद्वारणार्थमिति चेत् — अस्तु तस्याप्युपहितविषयकत्वम्; ततः किम् ? ज्ञानसमानविषयकत्वं न भवति । अज्ञानस्योपाध्यविषयकत्वात् ब्रह्ममात्रविषयकत्वात् तत्समानविषयकत्वाभावे तद्विरोधित्वं न स्यादिति चेत् — किमिह समानविषयकत्वम् ? तत्समानविषयकत्वं नाम तद्विषयविषयकत्वे सति तद्विषयाधिकाविषयकत्वमिति चेत् — तन्न लोकेऽधिकविषयकस्यापि तत्त्वज्ञानस्य संशयविपर्ययनिवर्तकत्वस्य दर्शनेनाधिकविषयकत्वस्यानिवेश्यत्वात् । घटवन्न वेति, घटाभाववद्भूतलमिति च ज्ञानं प्रति घटपटोभयवद्भूतलमिति प्रत्यक्षमपि विरोध्येव । यदि तु चरमवृत्तेरज्ञानादिना सह विरोधात् तदुपहितब्रह्मज्ञाने अन्यस्य विषयत्वं न भवतीति मन्यते, तर्हि तत एव विरोधात् तदविषयकत्वे सिद्धे अन्याविषयकत्वनिवेशनं व्यर्थमेव । लोकप्रसिद्धमज्ञानमपि स्वयं यद्विषयकम् तद्विषयकज्ञानात् निवर्तत इत्येवानुभविकम् । नाधिकविषयकत्वे तद्-भङ्गः । तस्मादुपहितत्रह्मगो मिध्यात्वे तद्विषयकज्ञानस्य भ्रमत्वापातात् अतत्त्वज्ञानात् ततो नाज्ञाननिवृत्तिः । निवर्तकत्वे च तत्त्व , दृश्यत्वानुमान-भङ्ग प्रसाधनम् ज्ञानान्मुक्तिरिति गतम् ; " तरति शोकमात्मवित्” इत्यादिश्रुतिश्च कदर्थिता स्यात् । तत्त्वज्ञानत्वस्वीकारे च शुद्धब्रह्मविषयकत्वं दुर्वारमिति दृश्यत्वमनैकान्तिकमेव ॥ v अत एवाद्वैत सिद्धावेव दृश्यत्वं शब्दाजन्यवृत्तिविषयत्वमिति प्रकारान्तरं पश्चादनुसृतमिति चेत् न घटोऽस्ति पटोऽस्तीति शब्दाजन्यसन्मात्रम त्यक्षवृत्तिविषयतया व्यभिचारात् । प्रत्यक्षस्य सन्मात्र ब्रह्मविषयकत्वमिति पक्षास्वीकारेणैतदुक्तिरिति चेत्-न-वृत्तिश्चैतन्याधीनप्रकाशा जडत्वात् घटादिवत् इत्यनुमानेऽपि ब्रह्मणो विषयत्वात् । किञ्च किमिदं शब्दजन्यत्वम् ? यथाश्रुतमेवेति चेत् शशविषाणमिति शब्दस्याप्रयोगेऽपि शशविषाणविकल्पस्य जायमानतया तस्य शब्दजन्यत्वाभावेन शब्दाजन्यवृत्तिविषये तत्र तुच्छे व्यभिचारः । शब्दज्ञानाजन्येति ब्रूमः । शब्दस्याप्रयोगेऽपि तत्र तज्ज्ञानमस्तीप्यत इति चेन्न -तत्र वस्त्वभावेन शशविषाणशब्दज्ञानातिरिक्तस्य तज्जन्यज्ञानस्याभावात् । नन्वव्युत्पन्नस्य शशविषाणशब्दश्रवणं न विवक्षितविकल्पात्मकम्, व्युत्पन्नस्यापि शशस्य विषाणित्वे भ्राम्यतो ज्ञानं न विकल्पः । तस्मादभ्रान्तव्युत्पन्नं गतं शशविषाणज्ञानं शब्दज्ञानातिरिक्तं किमपीति चेत् तर्हि तस्य शब्दज्ञानं विनापि शशविषाणतदसंबन्धज्ञानिनः स विकल्पो भवतु । ततः शब्द स्मृत्वा व्यवहरतीति शब्दस्मरणमेव तत्र विकल्पजन्यम् ; न तु शब्दज्ञानाधीनस्तत्र विकल्पः । तर्हि कथम्, शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः " इति पातञ्जलयोगसूत्रे विकल्पे शब्दज्ञानजन्यत्वमुक्तमिति चेत् न हि तत्र शशविषाणादिकं तुच्छमुदाहृतं भाष्ये; किंतु, “चैतन्यं पुरुषस्य स्वरूपम् " इति । पुरुषचैतन्ययोरभेदात् चैतन्यात्मक स्वरूपे पुरुषस्य भेदसंबन्धः षष्ठ्या निर्दिष्टो यद्यपि वस्तुतो नास्ति, अथापि भेदकल्पनया प्रामाणिकैः प्रमाणप्रत्ययगुणभाव बुद्धयैव तथा व्यवहियते शास्त्रेषु । एवं राहोः शिर इत्याद्यपि । तत्र तादृशशब्दसमुदायबुबोधयिषितस्य वास्तवस्यैव कस्यचिदर्थस्य • (* rve

पदान्तरार्थेन साकमन्वयोऽपि भवति । न खल्वेवं शशविषाणशब्देनोच्यमान किञ्चित् सत्त्वेन प्रतीयमानं पदार्थान्तरान्वया भवति । तत्र च, ‘चैतन्यं पुरुषस्य स्वरूपम् ’ इत्यादौ षष्ठीश्रवणादेव वक्तृतात्पर्याविषयभूतस्यैव भेदस्य कल्पना स्वयमनुपततीति शब्दज्ञानानुपाती इति तद्दर्शितम् । शशविषाणादिकं तु समभिव्याहृत पदार्थान्तरान्वयानर्हं तुच्छं न तत्रोदाजिहीपितमिति शशविषाणविषये तत्सूत्रप्रमाणीकरणमर्वाचामयुक्तम् । न च शशविषाणपदस्याभाव इत्यर्थः । घटाभाववद्भूतलमित्येतत्स्थाने घटशशविषाणवद्भूतलमिति प्रयोगापतेः । यदि तु शशाधिकरणको विषाणाभाव इति तदर्थः, तदा प्रमाणवृत्तिरेवेयम्; न विकल्पः । अत एव शशानुयोगिक विषाणप्रतियोगि काभावः शशविषाणरूपेण प्रतीतत्वात् तुच्छ इत्य् अपि चिन्त्यम् शशविषाणरूपेणेत्यस्यार्थासंप्रतिपत्तेः । शशविषाणशब्दा मिलप्यरूपेणेत्यर्थ इति चेत् — अस्तु शब्दः कोऽपि । विवक्षितार्थस्याभावविशेषस्य परमार्थतया कथं तुच्छत्वम् ? लाक्षणिकशब्दबोध्यस्यातुच्छत्वात् । अतः शशविषाणं तुच्छं प्रतीतिक्रियाविषयीभवदपि अर्थक्रियासंबन्धविरहात् किञ्चिदन्वयितया कथयितुं ग्रहीतुमप्यनई निरुपाख्यं तुच्छमिति । आस्तामेतत् । चन्द्रिकायामेव शशविषाणस्य शब्दाजन्यानुमानवृत्तिविषयत्वमस्तीत्युक्तमिति तत्राप्यनैकान्त्यमेव ॥ अथ सिद्धिकार इदमपि विहाय सप्रकारकवृत्तिविषयत्वं दृश्यत्वमिति किञ्चिदाह । तदप्ययुक्तम् । ‘सत्यं ज्ञानमनन्तं ब्रह्म’, ‘अद्वितीयं ब्रह्म’ इत्यादौ अनृतजडपरिच्छिन्नव्यावृत्त्याद्युपस्थितौ तद्विशिष्टतया ब्रह्मणः शब्दतीऽर्थतो वा गम्यमानत्वात् तत्राभावरूपाणां प्रकाराणां वस्तुतो ब्रह्मा भिन्नतया मिथ्यात्वायोगात् । विशेप्यस्य च सत्यत्वात् । अभेदेऽप्याधाराधेयभावसंभवस्य कचित् भवदीयेष्टत्वात् सप्रकारकधीविषये तत्र सर्वत्र मिथ्यात्वस्यायोगात् । तुच्छत्वप्रकार कधीविषये तुच्छे व्यभिचाराच्च । अत एव सोपाख्यधर्मप्रकारकप्रतीतिविषयत्वमिति परिष्कृतमिति चेत् — केयमुपाख्या ? अस्तीतिप्रतीतिविषयत्वमिति चेत् — तर्हि सत्त्वप्रकारकप्रतीतिविषयत्वविशिष्टधर्मप्रकारक दृश्यत्वानुमानभम-प्रसाधनम् ४४९ प्रतीतिविषयत्वादिति हेतुरुक्तो भवति । तुच्छे तुच्छत्वमस्तीति प्रतीत्या पुनस्तत्र व्यभिचार एव । एतदपेक्षया सत्त्वप्रकारकप्रतीतिविषयत्वादित्येव हेतुः पर्याप्त इति किमधिकेन ? प्रतीतीत्यपि व्यर्थम् । सत्त्वनिष्ठप्रकारतानिरूपित विशेप्यताश्रयत्वादित्यलम् । अस्ति ब्रह्मेति चेद्वेद " इति श्रुत्या तत् ब्रह्मण्यप्यस्तीति चेत् —-सप्रकारकप्रतीतिविषयत्वमिति सिद्धयुक्तमप्यस्त्येव । विशिष्टतया प्रतीतं तन्मिथ्यैवेति चेत्–सत्यम् । श्रुत्युक्तं सर्वं मिथ्यैव । स्वानुभवसिद्धमेव तु सत्यं भवताम् । अस्तु कथमपीति चेत् — बौद्धैः सर्वः प्रत्ययो मिथ्याविषयकः प्रत्ययत्वादित्युक्तम् । तदेव विषयपक्षीकारेण विमतं मिथ्या प्रत्ययविपयत्वादिति भवद्भिरुच्यते । एवं सामान्यरूपेणैव हेतोः साध्यप्रयोजकत्वे संभवति सप्रकार कधीविषयत्वादिति विशेषनिर्देशो ऽप्रयोजकः । श्रुतिप्रामाण्यादेवमिति चेत् श्रुतित एव मिथ्यात्वावगतौ अस्य हेतोः प्रयोजकत्वकल्पनं वृथा । विमतं मिथ्या तत्त्वादित्येवो क्तिसंभवात् । तर्हि दृष्टान्ते हेतुसमन्त्रयः कथमिति चेत् -शास्त्रसिद्धव्याप्यव्यापकभावमादाय हेतुप्रयोगे लोकदृष्टान्तो नापेक्षित इत्युक्तिसंभवात् । श्रुतिपरिशीलने च प्रकारविशिष्टानन्तपदार्थसत्यत्वमेव सिद्ध्यतीति हेतुरप्रयोजक एवेति । अथ फलव्याप्यत्ववृत्तिव्याप्यत्वसाधारणं दृश्यत्वमपि युक्तम् । तच्च व्यवहारप्रयोजक किञ्चिद्विषयत्वरूपम् । व्यवहारः स्फुरणाभिवदनादिः । प्रयोजकञ्च चित्, वृतिश्चेत्युभयमपि यथायथमिति यदुक्तम्-तदपि शुद्धब्रह्मण्यपि वृतिविषयत्वस्य प्रागुपपादितत्वादेव निरस्तम् । विषयत्वमात्रस्यैव पर्याप्तत्वात् तत्र प्रयोजकेति, तत्र व्यवहारेति च व्यर्थम् । एवं स्फुरणा भिवदनादिसाधारणस्य व्यवहारत्वस्य कस्यचिदभावात् ज्ञानाकूलव्गापारो व्यवहार इत्युक्तौ तत्र ज्ञानपदं फलपरं वृत्तिपरं साधारणं वेति विकल्पस्य पुनः प्रवृत्तेश्च अत्र विशिष्य चिद्विषयत्व (चित्तादात्म्य) वृत्तिविषयत्वान्यतरवत्त्वमिदं दृश्यत्वमिति परिष्करणमपि प्रतिक्षेप्यम् । एकतरस्यैव पर्याप्ततया द्वयोर्निवेशवैयर्थ्यात् । हेतोरप्रयोजकत्वं तु सर्वथाऽस्त्येव । अस्तु तर्हि चित्संबन्धित्वं दृश्यत्वम् । 57४५०

सर्वेषामपि वस्तूनां वृत्तिविप त्वे वृत्तौ च चैतन्यस्य प्रतिफलितत्वे तादृशचैतन्यसंबन्धित्वमव्याहृतम् । चिति न चित्संबन्धः, संबन्धस्य भेदव्याप्यतया तदभावेऽभावादिति चेन्न -चैतन्यप्रतिफलना धिकरणवृत्तिविषयत्वरूप चैतन्यसंबन्धित्वस्य चैतन्ये सत्त्वात् व्यभिचारात् । किञ्च व्यवहारं प्रति चितः प्रयोजकत्वं प्राकू व्यवहारप्रयोजकविषयत्वरूपदृश्यत्वनिर्वचने उक्तम् । चिद्व्यवहारे चितः प्रयोजकत्वञ्च तादात्म्येन । ’ तादात्म्यस्य भेदघटिततया कथं चिति चित्तादात्म्य’ मित्याशङ्कय, व्यवहारकारणत्वोपहितचित्तादात्म्यं शुद्धचितीति चोक्तम् । एवञ्च तादात्म्यसंबन्धेन संबन्धित्वमस्तीति चिति अनैकान्त्यम् । एवमत्र, " तुच्छे च व्यभिचारः परिहरणीय " इति कथनमप्यनपेक्षितम् । अत्यन्तासतः सत्संबन्धायोगादव्यभिचारात् । कथञ्चित् चित्तादात्म्यापन्नविकल्पाख्यवृत्तिविषयतया चित्संबन्धित्वमस्तीति चेत्-चित्तादात्म्यस्य जगति भवतामिष्टतया तस्यैव हेतुत्वसंभवे किमित्येवं क्लेशः ? अस्तु तथैवेति चेत्–तत् प्रतिवाद्यसंगतम् । दुर्वचञ्च; मिथ्याभूतेषु सत्यवस्तुतादात्म्यायोगात् । इदं रजतमिति प्रतीदिमात्रेण रजते शुक्तितादात्म्यस्य लोकरीत्या, अनिश्चनोत्पत्तिवादिभवद्रीत्या चासंभवात् । अत एव जड जडयोस्तादात्म्यायोगात् बाधार्थसामानाधिकरण्यं भवद्भिर्वर्ण्यते । अथ द्वित्वे सति तदभिन्नत्वेन प्रतीयमानत्वमेवेह तादात्म्यमौपचारिकमिति चेत् — धर्मिणि धर्मभ्रमस्थले इदं न भवति । तर्हि तदसंबन्धित्वे सति तत्संबन्धित्वेन प्रतीयमानत्वादिति सामान्येनोच्यतामिति चेत् तुच्छेSस्याभावात् तत्र प्रकारान्तरेण व्यभिचारपरिहारप्रयासो व्यर्थः । प्रपञ्चे कथञ्चित् चित्संबन्धिनि तदसंबन्धित्वमपि कथम् ? तद्भिन्नत्वे सति तत्संबन्धित्वेन प्रतीयमानत्वादित्यस्तु हेतुरिति चेत्–प्रतीयमानत्वादिति व्यर्थम् । अस्तु तद्भिन्नत्वे सति तत्संबन्धित्वादित्येव । इदं तुच्छेऽप्यस्ति । तुच्छविषयक विकल्पाख्यवृत्तेरप्यन्तःकरणपरिणामतयां वृत्तः प्रतिफलितचैतन्यकतया स्वप्रतिफलनाधार वृत्तिविषयत्वरूप चित्संबन्धस्य तुच्छेऽपि संभवात् । अतः, तुच्छे व्यभिचारः परिहरणीयः " इत्युक्तमपि संगच्छत इति चेत् — चिद्भि दृश्यत्वानुमान भङ्ग-प्रसाधनम् ४५१ त्वमेवालमिति किं चित्संबन्धित्व निवेशेन ? इष्टापत्तिरिति चेत् — एवं तर्हि तुच्छवारणाय तद्भिन्नत्वस्यापि निवेशे सदसद्विलक्षणत्वरूपमिथ्यात्वं प्रति तदेव हेतुरित्युक्तं भवतीति साध्याविशिष्टो हेतुः । चित्वं हेतुघटकम् ; सत्त्वं साध्यघटकमिति भेद इति चेत् — न खलु सत्त्वचित्वरूपधर्मद्वयं ब्रह्मण्यस्ति, येन तन्मुखेन भेदः स्यात् । अप्रयोजकश्च हेतुः । लोके च सत्यं व्यापकम्, चित्त्वं व्याप्यमिति प्रसिद्धम् । तत्र सद्वेदात् चिद्भेद्रः साधयितुं शक्यते । व्याप कधर्मावच्छिन्नाभावे सति व्याप्यधर्मावच्छिन्नाभावस्य संप्रतिपन्नतया प्रयोज्यप्रयोजकभावात् । अत्र तु वैपरीत्यमिति न व्याप्तिसिद्धिः ॥ किञ्च यदि चित्संबन्धित्वं चिद्विपयलं वा मियुक्तम्, तत् ब्रह्मण्यप्यक्षतम् । चित् ब्रह्मणो रूपमिति कल्पितभेदसत्त्वात् संबन्धसंभवात् । पारमार्थिकसंबन्धवत्त्वं विवक्षितमिति चेत् संबन्धोऽयं पारमार्थिक इति बुद्धिकृतमनिर्वचनीयं पारमार्थिकत्वमपि तत्र स्यादेव । पारमार्थिकत्वाश्रयसंबन्धवत्त्वमित्येवमुक्ति परम्परयाऽप्यमुक्तिरेव । ब्रह्मव्यावृत्तये दलान्तर निवेशे, तदप्येवं कलिपतं सत् भवन्मते ब्रह्मण्यक्षतमित्यनिर्मोक्ष एव । एवं चिद्विषयत्वमपि चिति अस्त्येव । ननु घटादेरख प्रकाशतया व्यवहाराय चिद्विषयत्वमेष्टव्यम्; चितस्तु स्वयम्प्रकाशतया किमर्थं तदिति चेत् —तर्हि चिद्विपरणी वृत्तिरप्यनपेक्षिता । वृत्तेरेवाज्ञान-भङ्गो घटादिविषये दृष्ट इति तद्विषयत्वस्वीकार इति चेत् वृत्तेर्जडायाः विषयीकरणसामर्थ्याविरहात् वृत्त्यवच्छिन्नचिद्विषयत्वमेव लोंके स्वीकृतमिति चित्यपि वृत्त्यवच्छिन्नचिद्विषयत्वमेव संमन्व्यम् । संभवति चोपहितचिति वृत्तिप्रतिविम्बितविशिष्टचिद्विषयत्वम् । विशिष्टस्य भिन्नत्वात् । अतो ब्रह्मण्यनैकान्त्यमेव । वृत्तेरेव विषयीकरणसामार्यमस्ति चेत्–घटादावपि चिविषयत्वमनपेक्षितम् । वृत्त्यैव निर्वाहादिति हेत्वसिद्धिः । एवं स्वातिरिक्तसंविदपेक्षस्वव्यवहार सामान्यकत्वमिति दृश्यत्वनिर्वचनमपि हेयम् । अन्तःकरणावच्छिन्नचैतन्यरूपस्य जीवस्या विद्यावच्छिन्नचिद्रप ४५२

स्येश्वरस्य च मिथ्यात्वस्येष्टतया तत्र हेत्वभावाद्भागासिद्धेः । अहमितिस्फुरणे अहमित्युच्यमानस्यैवापेक्षिततयाऽतिरिक्तसंविदपेक्षायां प्रमाणाभावात् । अहमर्थस्वयंप्रकाशत्वस्य चानुभविकत्वात् । विशिष्टसंविदोऽस्वयंप्रकाशत्वमिति चेत्-यस्य स्वयंप्रकाशत्वमनुभूतम् तस्य तन्नेष्यते, यत्तु किञ्चित् शुद्धं सर्वथैवानुभवानारूढम् तत् स्वयंप्रकाशमितीप्यत इति क इममादेशमादरिष्यते । एवं जीवेश्वरयोः वृत्युपहितचितश्च मिथ्यात्वे तत्र शुद्धचिदपेक्षव्यवहारकत्वेऽपि स्वातिरिक्तसंविद पेक्षव्यवहारकत्वं नास्ति । शुद्धापेक्षया स्वातिरिक्तत्वविशिष्टायाः तदुपहिताया वा संविदः ईषद्वैलक्षणण्यप्रयुक्तस्य भेदस्यावर्जनीयतया शुद्धापेक्षत्वेऽपि एतदपेक्षत्वाभावात् । संवित्पदेन संवित्पदबोध्यत्वोपहितस्यैव ग्राह्यतया तादृशोपहिताधीनत्वस्य व्यवहारे अभावाच्च । किमर्थञ्च सामान्यपदम् ? व्यवहारः स्फुरणाभिवदनादिः । तत्र चित्स्फुरणस्य नित्यत्वेन तत्र स्वातिरिक्तचिदपेक्षाविरहेऽपि अभिवदनादौ स्वातिरिक्ता पेक्षाऽस्तीति ब्रह्मणि व्यभिचारः स्यादिति तन्निवेशः । व्यवहारे शब्दज्ञानादिकमपेक्षितम् ; न तु स्फुरणरूपे इति व्यवहारसामान्ये तदपेक्षत्वाभावाद्वारणमिति चेत् — व्यभिचारः किं वृत्त्युपहिते; उत शुद्धे ? नाद्यः, तस्य मिथ्यात्वस्येष्टत्वात् । नान्त्यः, शुद्धे निर्विशेषे हेतु रूपविशेषो नास्तीत्येव भवद्भिर्व्यभिचारस्य सुपरिहरत्वात् । स्वातिरिक्तसंविदपेक्षस्फुरणकत्वमिति लघुनिर्वचनस्यैव संभवे व्यवहारेति अतिप्रसञ्जकपदनिवेशस्य सामान्यपदप्रयोगस्य चायुक्तत्वाच्च । अस्तु तथैव तदेव लघुचन्द्रिकोक्तमपीति चेत् —स्वातिरिक्तसंवित्कत्वमिति लघुतरमेवास्तु । ब्रह्मातिरिक्तसंविदभावादेव ब्रह्मणि न व्यभिचार इति । तथाच संविद्भिन्नत्वमेव दृश्यत्वमित्यापतति । तत्तु प्राक् दूषितमेव । न च स्वातिरिक्तेत्येवंरीत्या निवेशे वृत्तिप्रतिबिम्बितसंविदः, विषयावच्छिन्नचैतन्यादेश्च संवित्त्वात् तत्र स्वातिरिक्तत्वसत्त्वात् भिचार इति स्फुरणान्तनिवेश इति वाच्यम् तस्य तस्य चैतन्यस्य स्वात्यन्तातिरिक्तत्वाभावादेव वारणसंभवात् । स्वातिरिक्तसंविदधीनस्फुरणकत्वनिवेशेऽपि सर्वसंवित्तादात्म्यस्येष्टतया स्वाधीनस्य स्वस्फुरणस्य स्वातिरिक्तस्वतादात्म्यापन्नतत्तत्संविदधीनत्वस्यापि संभवेन व्यभिचारावारणात् । तादात्म्यं हि भेदाभेदोभयसह मिष्टम् । किञ्च किमिदं स्फुरणं नामः प्रकाश इति चेत् दृश्यत्वानुमान भज-प्रसाधनम् ४५३ ब्रह्मणि स्वातिरिक्तप्रकाशाख्यधर्माभावात् स्फुरणाश्रयत्वमित्येतावतैव तत्र व्यभिचारवारणेऽन्यत् सर्वं व्यर्थम् । धर्मस्वीकारे च सविशेषत्वापातः । / एवं स्वात्मप्रकाशस्य नित्यस्य किञ्चिदधीनत्वाभावादेव वारणे खातिरिक्तसंविदिति व्यर्थमेव । अङ्गीकृतं हि स्फुरणं नित्यमिति चन्द्रिकायामपि । यत्तु तत्रोक्तम् – " ब्रह्मण्यानन्दांशाज्ञाननिवृत्तेस्तदाकार कवृत्त्यधीनतया तंदशे स्फुरणं सादि, न तु चिदंशे । वृत्तिं विनाऽपि चिदस्तीति व्यवहारात् " इति तत्रांशद्वय दुर्वचत्वादिदूषणमन्यत्र द्रष्टव्यम् । चिदस्तीति सर्वदा व्यवहारसद्भावकथ नमप्ययुक्तम् । तथा स्फुरणस्य वा अन्यस्य वा व्यवहारस्यानुपलम्भात् । चिदिति किं चैतन्यविशिष्टमुच्यते, उत चैतन्यमात्रम् ? नाद्यः, विषयग्रहणवेलायामेव चैतन्यस्फुरणस्यानुभविकत्वेन सर्वदा चैतन्यविशिष्टवस्तुस्फुरणस्यादर्शनात् । दर्शने च निर्विशेषब्रह्मासिद्धिप्रसङ्गात् । नान्त्यः, तथा चैतन्यस्य स्फुरणे ज्ञानमागन्तुकमिति तार्किकविवादाभावप्रसङ्गात् । आत्मरूपचैतन्यमस्तीति व्यवह्नियत इति चेत् —— एवं तर्हि आत्मनश्चैतन्यरूपत्वमपरोक्षमिति, आत्मा स्वयंप्रकाशो न वेति विवादस्यैव विलयापत्तिः । अतः, अहमिति वा, अस्मीति वा, सर्वदा स्फुरणादिति कथञ्चित् स्यात्, न तु, “चिदस्तीति व्यवहारात् “इति । उपरि, “शुद्धचितोऽज्ञानाविषयत्वे नित्यसिद्धे वृत्तेरप्रयोजकत्वेऽपि अज्ञानाविषयत्वविशिष्टचित एव तत्र क्षेमसाधारणप्रयोजकत्वात् शुद्धचितस्तद्विशिष्टत्वेन स्फुरणम् " इति लेखनमप्यनन्वितम् । स्फुरणं हि असत्त्वा पादकाज्ञानाविषयत्वप्रयोजक विशिष्टचिदित्युक्तम् । घटादिविषये स्फुरणं नाम, तदसत्त्वापादकं यत् अज्ञानम्, तदविषयत्वप्रयोजकम् घटादिवृत्तिसामग्रीति उपर्युक्तम्, यद्वा घटाविषयिणी वृत्तिः, तत्प्रतिफलितत्वरूपं चिति तद्वैशिष्ट्यम् । शुद्धचितः स्वत एवाज्ञानाविषयत्वात् तत्र वृत्त्यपेक्षा नास्तीति असत्त्वापादकाज्ञानाविषयत्वप्रयोजकपदेन न वृत्तेर्ग्रहणं भवति । तत् किं तत्र प्रयोजकम् ! चित्त्वमेवेति चेत् — किमिद चित्त्वम् ? स्फुरणमिति चेत् — आत्माश्रयः । चिदेवेति चेत्–तद्विशिष्टं चिदिति दुर्वचम् । अज्ञान विषयत्वमिति चेत्–न तदेव ४५४

तत्र प्रयोजकम् । अखण्डो धर्मः कश्चिदिति चेत्–चितः सविशेषत्वापत्तिः । अज्ञानाविषयत्वम्य नित्यतया न तत्र प्रयोजकापेक्षाऽपि । ब्रह्मण्यानन्दांशे अज्ञानसद्भावात् अज्ञानाविषयत्वमपि दुर्वचम् । असत्त्वापाद काज्ञानमिति चेत्–आत्मन्यसत्त्वग्रहस्य कदाप्यनिष्टत्वात् असत्त्वापादकाज्ञानमप्रसिद्धम् । ननु घटादावसत्त्वापादकस्याज्ञानस्य प्रसिद्ध या सामान्यतः असत्त्वापादकाज्ञानाविषयत्वं चिति उच्यते ; तत्र चाज्ञानाविषयत्वविशिष्टचिदेव प्रयोजिकेति चेत्–मित्यस्याप्यभावस्य प्रयोज्यत्व स्वीकारेऽपि तत्रैव तद्विशिष्टस्य प्रयोजकत्वे आत्माश्रयात् । विशेषणांशस्य प्रयोजककोटिप्रवेशे मानाभावाच्च । " अज्ञानाविषयत्वविशिष्टत्वेन स्फुरणमिति च कथम् ? अहं नास्मीत्यज्ञानस्याभावस्तावदिष्टः । न तु अहं नास्मीत्याकारकाज्ञानाविष । योऽस्मीति अज्ञानाविषयत्वविशिष्टस्वस्फुरणं सर्वदाऽस्तीति । अतः अज्ञानम्, तद्विषयत्वम्, तदभावः, चित् इत्येतेषां नित्यानां स्फुरणमपि नित्यमिति वर्णन स्वहृदयविसंवाद्यनि । ईदृशस्फुरणस्वानुभवानारूढत्वादेव संविलदकृत्यवर्णनमप्ययुक्तम् । तद्धटका स्वातिरिक्ता पेक्षस्फुरणकत्वोक्तौ अज्ञानाविषयत्वविशिष्टचित्स्फुरणे ज्ञानस्यापि प्रयोजकतया स्वातिरिक्तापेक्षत्वसत्त्वेन व्यभिचार इति हि संवित्पदसार्थक्यमुच्यते । न ह्यज्ञानाविषयत्वविशिष्टतया चित्स्फुरणं प्रसिद्धमस्ति । तथासति इदं स्फुरणं नित्यमित्यपि विरुद्धयते । नित्यत्वे अस्य स्फुरणस्य मोक्षेऽपि स्वीकार्यत्वात् तदानीमज्ञानाभावेन तत्प्रयोज्यत्वस्यायोगांत् व्याघातात् । अतीतानागतघटाद्यज्ञानाविषयत्वस्यापि चिति सत्त्वेन तादृशाज्ञानस्य प्रयोजकत्वायोगाच्च । अज्ञानविषयत्वाभाव विशिष्ट चिद्दित्यत्रायमभावः चिदेव वा तद्धर्मो वा ? आद्ये, नाज्ञानादिकं तत्स्फुरणे प्रयोजकम् । अन्त्ये विशिष्टचितोऽस्य शुद्धचिदपेक्षयाऽतिरिक्ततया तत्र मिध्यात्वस्य सङ्गमनीयतया तद्व्यावृत्तहेतुनिर्वचने भागासिद्धिः स्यात् । अतः शुद्धचित्स्फुरणस्यैव प्रकृतत्वात् तत्र स्फुरणेअतिरिक्तापेक्षाभावात् संवत्पदवैयमेव । अत एव संवित्पदं विनैवोपरि सिद्धौ प्रयोगः । सर्वांशवैयर्थ्यञ्च प्रागुक्तमेव । दृश्यत्वानुमानम-प्रसाधनम् ४५५ अनन्तरदृश्यत्व निर्वचने चन्द्रिकायाम्, “आनन्दांशस्य खान्यचिदंशाधीना परोक्षताकत्वात् न खप्रकाशत्वम् " इत्युक्तत्वात् स्वातिरिक्तसंविदशापेक्षस्फुरणकतया आनन्दांशस्य मिथ्यात्वापत्तिः । अतश्चानन्दरूपता मुक्तेर्न जाघटीति । सत्यासत्यचिदानन्दांशद्वयविशिष्टं ब्रह्म कृत्स्नं सत्यं निर्विशेषमिति वादे चास्मिन् विविधो व्याघातः । अप्रयोजकश्च हेतुः । संविदपेक्षव्यवहारकत्वं प्रत्युत संविदमिव विषयमपि साधयेदेव । अन्यथा स्तम्भादिप्रत्ययो मिथ्याविषयकः, प्रत्ययत्वात् स्वप्नादिवदिति सौगतमतमेष स्वीकृतं भवेदिति ॥ एतेन अस्वप्रकाशत्वं दृश्यत्वम् इत्यप्यपास्तम् । स्वप्रकाशत्वं च स्वापरोक्षत्वे स्वातिरिक्तानपेक्षत्वमित्युक्तम् । तच्च अतिरिक्तानपेक्षापरोक्षत्वकत्वम्। तथा च तद्वद्भिन्नत्वमस्वप्रकाशत्वम् । नञ्द्र्यत्यागे चातिरिक्तापेक्षापरोक्षत्वकत्वमेव । अपरोक्षत्वं च स्फुरणम् । पूर्वनिर्वचने व्यवहारत्वेन व्यवहारं निवेश्य दोषवारणाय सामान्यांशनिवेशनस्यानतिप्रयोजनत्वात्, व्यवहारत्वस्यानुगतस्याभावेन स्फुरणाभिवदनाद्यन्यतमत्वेन निवेशनीयतया अत्यन्तगौरवाच्च स्वातिरिक्तसापेक्षस्फुरणकत्वमेव पूर्व निष्कृष्टमिति ततो नास्य भेद इति हि नद पृथक् दूषणीयं भवति । न च स्वातिरिक्तापेक्षापरोक्षत्वकत्वमतीन्द्रियेष्वसिद्धमिति 1 तत्संग्रहाय स्वातिरिक्तानपेक्षा परोक्षताकभिन्नत्वरूपं निरुक्तमिति वाच्यम् अपरोक्षत्वं तदपरपर्याय स्फुरणञ्चापेक्ष्य व्यवहारप्रयोजकस्य परोक्षापरोक्षसाधारणस्य प्रकाशस्यैव घटनेना सिद्धिपरिहारात् । सर्वस्यापि योगिप्रत्यक्षविषयतया अपरोक्षतायाः परोक्षेऽप्यक्षततया स्वातिरिक्तपेक्षा परोक्षताकत्वस्यैव पर्याप्तवाच्च ॥ " अत्र, “ तथा चानान्याधीनापरोक्षत्वं पर्यवस्यतीति तन्निरूपितभेदवत्त्वं हेतुः " इति सिद्धिवाक्यस्य पूर्वमस्वप्रकाशत्वमित्युपक्रमानुरोधात्, भेदवत्त्वमिति मतुबनुसाराच्च अन्यानधीनापरोक्षत्वाविच्छिन्नप्रतियोगिक भेदानुयोगित्वमित्यर्थे स्फुटं प्रतीयमाने तद्विरोधेन चन्द्रिकायाम्, अन्यानधीनापरोक्षत्वावच्छिन्नानुयोगिताक भेदप्रतियोगित्वमित्यर्थवर्णनमप्यनादेयम् । यथाश्रुते बाधकाभावात् । ननु च स्वप्रकाशत्वं स्वातिरिक्तचिदनधीना परोक्षताकत्वमित्युक्तौ ब्रह्मण्यसमन्वयः । स्वातिरिक्तचितोऽप्रसिद्धेः । अतः स्वनिष्ठापरोक्ष ४५६ परमार्थ भूषणे त्वप्रयोजकस्वान्यत्वात्यन्ताभाववच्चित्कत्वमेव स्वप्रकाशत्वम् । ब्रह्मरूपा च चित ब्रह्मनिष्ठापरोक्षत्वप्रयोजिका, ब्रह्मान्यत्वात्यन्ताभाववती चेति लक्षणसमन्वयः । स्वपदेन घटादिकं न ग्राम् । तन्निष्ठापरोक्षत्वप्रयोजिकायाश्चितः तदन्यत्वात्यन्ताभावावत्त्वायोगात् । इदञ्च किञ्चिद्विशेषणविशिष्ट चित्वरूपं स्वप्रकाशत्वं चित्त्वरूपधर्मापेक्षया गुरुभूतम् । संभवति लघौ गुरुधर्मस्य प्रतियोगितावच्छेदकत्वानङ्गीकारात् तदवच्छिन्नप्रतियोगिक भेदस्य दुर्वचत्वात् तदवच्छिन्नानुयोगिताकभेदेत्युक्तमिति चेन्न – गुरुधर्मस्याभावप्रतियोगितावच्छेदकत्वस्वीकारेण ग्रन्थः प्रवृत्त इत्येव सुखं व्याख्येयत्वात् । स्वनिष्ठा परोक्षत्वाप्रयोजकस्वभिन्नसामान्यकत्वमिति चित्त्वाघटितरूपात्मकस्वप्रकाशत्ववर्णनसंभवाच । स्वातिरिक्तचिदनधीनापरोक्षताकत्वमित्यत्र यथामूलं चिदशाघटनेनैव परिष्करणसंभवाच्च । स्वातिरिक्तेत्यनेन अविद्याया ग्रहणेन दोषापादनमयुक्तमिति च प्रागेवोपापादि । न च निरुक्तस्वप्रकाशत्वस्य भावरूपतया शुद्धब्रह्मणि च तदयोगात् तदवच्छिन्नभेद एव ब्रह्मण्यस्ति भेदस्याधिकरणात्मकतया, आधाराधेयभाव स्वीकारेण च तदक्षतेः । एवञ्च तत्र मिथ्यात्वरूपसाध्याभावाद्वयमिचारः । स्वप्रकाशत्वावच्छिन्नानुयोगिक भेदप्रतियोगित्वस्य हेतुत्वे तु प्रतियोगित्वस्य भावरूपतया निधमके ब्रह्मणि तदभावादेव न व्यभिचार इति वाच्यम्-भावरूप निरुक्तधर्मस्य निर्विशेषब्रह्मण्यनङ्गीकारे, अन्यत्र च स्वयंप्रकाशत्वाभावेन त्वयंप्रकाशत्वस्यैवाप्रसिद्ध्या तदवच्छिन्नानुयोगिकाभावस्याप्यप्रसिद्ध्या तद्द्घटितहेतुपरिष्करणस्यैवायोगात् । प्रतियोगित्वस्य भावरूपतया ब्रह्मण्यप्रसिद्धया व्यभिचारवारणाभिप्राये च प्रतियोगित्वादित्येव हेतुरलम् । अन्यत् व्यर्थं स्यात् । जीवो ब्रह्म न, ईशो ब्रह्म नेति ब्रह्मप्रतियोगिक भेदवर्णनमुरि कृतमपि न सङ्गच्छेत । ब्रह्मणः प्रतियोगित्वायोगात् शशविषाणादिप्रायोगिक भेदस्य स्वयंप्रकाशे सत्त्वेन तुच्छे तत्र व्यभिचारश्च स्वाभिमतस्वयंप्रकाशत्वनिरुक्तावपि तुल्यः । ; aa feat भेदस्य कल्पितस्य ब्रह्मणि सत्त्वेऽपिं स्वयंप्रकाशत्वावच्छि मेदस्तत्र न किन्तु जीवत्वेश्वरत्वावच्छिन्नभेद एवेति तन्न -शुद्धचितः i 1 दृश्यत्वानुमानम-प्रसाधनम् ४५७ किञ्चिद्विशिष्टस्य च भिन्नत्वेन स्वयंप्रकाशत्वविशिष्टप्रतियोगिक भेदस्यापि ब्रह्मणि संभवात् । खप्रकाशत्वोपलक्षितप्रति रोगिक भेदो नास्तीत्यस्य च जीवत्वादिविषयेऽपि शैल्यात् जीवत्वाद्युपलक्षितप्रति योगिक भेदस्यापि शुद्धे दुर्वचत्वात् । hिa प्रातिभासिकः स्वयंप्रकाशत्वावच्छिन्नभेदः ब्रह्मण्यस्तीति व्यभिचार एव । न चाप्रातिभासिकत्वेन विशेषणान्न दोष इति वाच्यम् अप्रातिभासिकोऽयं भेद इति प्रतीत सत्यामप्रातिभासिकत्वस्यापि तत्रानिर्वचनीयस्य सत्त्वेनावारणात् । स्वयंप्रकाशत्वविशिष्टप्रतियोगि केत्यनुक्ता स्वयंप्रकाशत्वोपलक्षितप्रतियोगिकेत्युक्तिर्हि शुद्धस्य प्रतियोगित्वाभिप्रायेण । न च शुद्धे निर्धर्म के प्रतियोगित्वमस्ति ? तत् यदि तत्र कल्पितमस्ति, तथेदृशमप्यस्तीति व्यभिचारमहादनुमानप्रतिबन्ध एव । किञ्चोपलक्षितप्रति योगिक भेदः जीवत्वावच्छिन्नप्रतियोगिताकभेदः : स्वयंप्रकाशत्योपलक्षितजीवत्वोपलक्षितयोरैक्येन जीवत्वावच्छिन्नप्रतियोगितायाः खयंप्रकाशत्वोपलक्षितनिष्ठत्वात् । न च स्वयंप्रकाशत्वमुपहितनिष्ठप्रतियोगितावच्छेदकम् उपलक्षणस्येदृशस्थलेऽवच्छेदकत्वकल्पकमानाभावात् । अवच्छेदकत्वस्वीकारे तु शुद्धचिति तदवच्छिन्नप्रतियोगिताको भेदोऽपि दुर्वार इत्यलम् ॥ अवेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वाभावो दृश्यत्वमित्यपि न युक्तम् । अत्र सत्यन्तार्थस्य नाभावेऽन्वयः, किन्तु योग्यत्वे । अन्यथा घटादावपरोक्षे हेतोरसिद्धिः, शुक्तिरूप्यादौ साधनवैकल्यञ्च । अतो घटादावपरोक्षव्यवहारयोयत्वसत्त्वेऽपि तस्य वेद्यत्वविशिष्टतया तत्राभावात् विशिष्टाभावसंपत्तिः । ब्रह्मणि वेद्यत्वस्य फलव्याप्यत्वरूपस्याभावात् अवेद्यत्वविशिष्टापरोक्षव्यवहारयोग्यत्वमेवास्तीति न व्यभिचारः । वृत्तिविषयत्वरूप वेद्यत्वनिवेशे तु ब्रह्मणि तत्सत्त्वेनावेद्यत्वाभावात् अवेद्यत्वविशिष्टा परोक्षव्यवहारयोग्यत्वं नास्तीति व्यभिचारः स्यादिति फलव्याप्यत्वरूपवेद्यत्वनिवेशः । तर्हि अवेद्यत्वविशिष्टापरोक्षत्वं यथा ब्रह्मण्यस्ति तथा शुक्तिरूप्यादावपि । वृत्तिप्रतिफलित चैतन्यस्यैव फरुपदार्थतया साक्षिभास्ये शुक्तिरूप्यादौ फळयाप्यत्वाभावेनादृश्यत्वस्यापि सत्वा 58 ४५८ परमायभूषण दिति साधनवैकल्यमिति चेन्न अपरोक्षव्यवहारयोग्यत्वेत्यस्वाज्ञाननिवर्तकवृत्तिविषयत्व योग्यत्वेत्यर्थात् । शुक्तिरुप्यादिप्रातिभासिकविषयका ज्ञानानङ्गीकारेण तन्निवर्तकवृत्तिविषयत्वस्य तत्राभावात् । अतो विशेष्याभावादेव तत्र विशिष्टाभावरूपहेतु संपत्तिः । योग्यत्वविवेशस्तु यदा ब्रह्मणः वृत्तिविषयत्वं नास्ति, तदा फलव्याप्यत्वाभावरूपविशेषणसत्त्वेऽपि वृत्तिविषयत्वरूपविशेष्याभावाद्विशिष्टा भावरूप हेतु सत्त्वाद्वयविचारः स्यादिति तत्परिहाराय । विषयत्वाभावेऽपि तदा तत्राक्षतं योग्यत्वसत्त्वमिति अयं तावत् सिद्धिवाक्यार्थः । अत्र फल्याप्यत्वमात्रस्य हेतुत्वे शुक्तिरजतादौ साधनवैकल्यं स्वादिति तन्माऽस्तु । अज्ञाननिवर्तकवृत्तिविषयत्व योग्यत्वाभावमात्रमस्तु । तहिं घटादावसिद्धिरिति चेत् उच्यते । मणि व्यामिचारवारणमत्र कथम् वृत्तिविषयत्वयोग्यतासत्त्वादिति चेत केरुं पोग्यता ? अज्ञानविषयत्वमेव । घटाद्यवच्छिन्नचित एवाज्ञानविपयत्वाङ्गीकारात् घटादौ तदनङ्गीकारात् अज्ञानविषयत्वरूपविशेप्यदलस्य फलव्याप्यत्वाभावरूपविशेषणस्य चोभयस्याभावात् विशिप्टाभावः; शुक्तिरजतादौ च अज्ञानानङ्गीकारात् अज्ञानविषयत्वरूपविशेषणाभावादिति चेत् अज्ञानविषयत्वं योग्यतेत्यनुक्ता चित्वमेव योग्यतेत्युच्यतान् । तथा च चित्त्वाभाव एवं पर्याप्त हेतुरिति सर्वे व्यर्थम् । हेतोरप्रयोजकत्वं तु सर्वत्राविशिष्टम् । स्वसिद्धान्तपात्रसिद्ध परासंमतार्थघटनेन हेतुपरिष्करणे यो हेत्वप्रसिद्धिदोषः, स इह नास्तीति च कश्चिद्विशेषः ॥ यच्च अविद्यानिवृत्तेः पञ्चमप्रकारत्वपक्षे तत्र व्यभिचारवारणाय अज्ञानकालवृत्तित्वं विशेषणं देयमिति तन्न – काले कालवृत्तित्वाभावात् भागासिद्धेः । अज्ञानेति विशेषणस्य व्यर्थत्वाच्च । मुक्तौ कालाभावेन कालवृत्तित्वाप्रसक्तेः । सत्त्वासत्त्वान्यतरानाश्रयस्यैवाप्रसिद्धया तृतीयप्रकार एव दुर्वचः, प्रागेव तु पञ्चमः प्रकार इति च प्रतिपादयिष्यते । सिद्धयुक्तमिदं लक्षणं चन्द्रिकाकारः स्वरसार्थं परित्यज्यान्यथा व्याख्याति । फलव्याप्यत्वपदेन वृत्तिव्याप्यत्वमेवोक्तं मन्यते । वृत्तिव्याप्यत्वरूप दृश्यत्वानुमान भज-प्रसाधनम् ४५९ वैद्यत्वप्रतियोगि काभावरूपस्यावेद्यत्वस्य ब्रह्मणि शुक्तिरजतादौ स्थितिदर्शकसि द्धिवाक्यनिर्वाहाय च तदेवं परिष्करोति — स्वावच्छिन्नचिद्विषयकं यत् अभानापादकमज्ञानम्, तन्निवर्तकवृत्तिव्याप्यत्वं वेद्यत्वम्, तदभावश्चावेद्यत्वम् । स्वपदेन ब्रह्मणे स्वावच्छिन्नचिदमसिद्धया ब्रह्मणि वेद्यत्वं दुःसंगममिति तस्यावेद्यत्वसिद्धिः । शुक्तिरजतस्य सती भानं नियतमिति अभानापादकाज्ञानाभावात् तन्निवर्तकवृत्तिव्याप्यत्वरूपं दृश्यलं तत्रापि नेति तस्याप्यवेद्यत्वसिद्धिः । अज्ञाने अभानापादकत्वानिवेशे तु गुक्तिरजते समन्वयो दुर्घटः । तस्यातीततादशायां शुक्तिरजतमासीदित्यनुमिनिरूपया वृत्त्या शुक्तिरजतासत्त्वापाद काज्ञाननिवृत्तिदर्शनात् तस्यापि दृश्यत्ययसंग दिति । भवतु तावदेवं शुक्तिरजतमहत्वम् । अपरोक्षवहार नोम्यत्वरूपविशेष्यदलमपि तत्रास्त्येवेति चेन्न विशेष्यस्याज्ञानसामान्यविनिवृत्तिविषयतायोग्यत्वमित्येतद्रूपत्वात् । तच्च योग्यत्वमभानापादकाज्ञानविषत्वम् । शुक्तिरजतस्य च नियमेन मानादमानापादकाज्ञानविषयले नास्तीति द्वारणम् । न च घटादेरपीयं योग्यता न समता । न हि तत्राज्ञानविषयत्वम् । जडस्याज्ञानविषयत्वस्यानिटेरिति वाच्यम् अभानापाद काज्ञानविषयतदवच्छेदकान्यतरत्वं योग्यत्वमित्युक्तिसंभवात् । घटावच्छिचिद्विपयाज्ञाने घटस्यावच्छेदकत्वात् समन्वय इति । , ईशास्वर सार्थवगनमप्यनुपपन्नम् । स्वावच्छिन्नचिद्रिकत्वमभानापादकत्वञ्चाज्ञानविशेषणं कृत्वा तादृशन्निवर्तकत्वरूपविशेषणस्य वृत्तौ निवेशो हि मूलोक्त प्रभशुक्तिरजतो रहइयत्वसंगमनं निर्वादमेव न पुनरन्यत् किञ्चित् प्रयोजनमस्ति । अतस्तद्विसृज्य वृत्त्यविषयत्वमात्रमव्यत्वं विवक्षित्वा तदनुगुणमुपरितन इलारिकरणमेव युक्तम् । शुक्तिरजतादेरसत्त्वापादकाज्ञानसद्भाववर्णनञ्चायुक्तम् । शुक्तौ रजतं नासीदित्यज्ञानं किं बाधज्ञानिन उच्यते, उतान्त्रस्य ? नाद्यः ; तत्र रजतप्रतियोगि कत्रैकालिकाभावज्ञानम्य बाधज्ञानरूपस्य प्रमात्वेन तदा तदसत्त्वापादकाज्ञानस्य दुर्वचत्वात् । अन्यथा परमात्मनोऽध्य-४६०

ज्ञत्वापत्तेः । नान्त्यः, स किं प्राग्गृहीतशुक्तिरजतः, उतान्यः ? नाद्यः ; तस्यानुभूतप्रतिसंहितरजतस्य नासीदित्यज्ञानप्रसक्त्यभावात् । अनुभूतविस्मृतशुक्तिरजतस्य रजतं नासीदिति यत् ज्ञानम्, तत्कालेऽपि न तद्रजतासत्त्वापादकाज्ञानमावश्यकम् । तद्धि, रजतज्ञानमत्र मे पूर्व नासीदिति रजतज्ञानाभावभ्रमाधीनम् । तत् ज्ञानं शुक्तौ रजतभ्रमे, नेदं रजतमिति बाधे, समनन्तरमेव रजतमेवेदमिति पुनः प्रबलभ्रमे च मध्यज्ञानवत् अज्ञानं विना बाघज्ञानमात्रतयाऽप्युपपन्नमिति । अगृहीत शुक्तिरजतस्य तु शुक्तौ, रजतं नासीदिति ज्ञानं यथावस्थितार्थकमेवेति न तत्राज्ञानकल्पनाप्रसक्तिः । असत्त्वापादकमज्ञानं हि सतो वक्तव्यम् । प्रातिभासिकञ्च न प्रतिभासात् प्राक् सत् । ततः प्रातिभासिकस्थले असत्त्वापादकाज्ञानकल्पनमप्यनपेक्षितमेव । एवमपरोक्षव्यवहारयोग्यत्वं हि सर्वदैवापरोक्षेऽपि स्वरससिद्धमिति तत्र योग्यताया अज्ञानविषयतारूपत्वकल्पनमयुक्तमेव । एतत्सर्वापेक्षया अज्ञानतदवच्छेदकान्यतरत्वं दृश्यत्वमित्येतावत एव हेतुत्वं संभवति । सर्वोऽयं परिष्कारः स्वसिद्धान्तवासनावासितान्तःकरणं प्रत्येव च शोभते; न तु प्रतिवादिनं प्रीति अहेतुरेवायं वस्तुगत्येत्यलमधिकेन ॥ इति पक्षगतिमुपेक्ष्य तु साध्ये हेतौ च सिद्धिचन्द्रिकयोः । मिथ्यात्वे दृश्यत्वे गतिरामृष्टेह सज्जनप्रीत्यै ॥ दृश्यत्वातिरिक्तहेतुदूषणञ्चानन्तरे वादे द्रष्टव्यम् ॥ अप्रत्यक्षमपह्नुवन् अचकथत् दृश्यं परं तात्त्विकं चार्वाकः, तदपो सद्भिरुदिता तुल्यं परोक्षप्रमा । सर्वे दृश्यमदृश्यमप्यपलपन् बौद्धो जजृम्भे मुधा सत्यं मानविदूरमिच्छति मृषावादी च मेयं मृषा ॥ शुभमस्तु श्रीः