१५ वेदप्रमाण्यपरिग्रहानुपपत्ति-प्रसाधनम्

अनादि परमं सत्यमशेषपुरुषार्थदम् । अबाध्यमृषिभिर्जुष्टमनन्तं ब्रह्म संश्रये ॥ अद्वितीयब्रह्मातिरिक्तमशेषं मिथ्येति चदद्भिः अध्यक्षानुमाने अध्यवधूय शब्दब्रह्मण्येव पुष्कलं प्रामाण्यं पर्यग्राहि । प्रत्यक्षविरोधे शास्त्रमप्रमाणं स्यादि त्याक्षेपं दुष्परिहरं मन्वानैश्च तैः प्रत्यक्षमपि शास्त्रार्थमेव दर्शयतीति सन्मात्रप्रत्यक्षवादेन प्रत्यवस्थितम् । तदापि शास्त्र प्रत्यक्षगृहीतग्राहित्वात् पुनरप्रमाण मेवापतेत् ; अनधिगताबाधितार्थप्रतिपादकत्वस्यैव प्रामाण्यपदार्थत्वादिति पुनस्ते पराकृताः । अथ वेदे प्रत्यक्षादिविरोधचिन्ता तावदास्ताम् । वेदप्रामाण्यमद्वैतिभिः सौगतागम वैलक्षण्येन सर्वथा दुर्वचमिति स्थाष्यते शतदूषण्याम् । तत्राद्वैतमते स्थित्वा यत् निष्कृष्ट निरूपणीयम्, तत्रापारयन्ती शतभूषणी विशिष्टाद्वैतिनां पाञ्चरावनामाण्यास्थायितया बौद्धाद्यागमवैलक्षण्येन कथं पाञ्चरात्र प्रमाणमभिलप्यत इति प्रतिबन्दी प्रवर्तयन्ती शतदूषणीकृत विकल्पान् सर्वान् तत्र संभवासंभवपर्यालोचनं विनैवारोप्य विस्तृणाति । अस्मन्मते वेदप्रामाण्यस्याविचालिततया नास्माकं वैदिक गोष्ठीतो बहिष्कारप्रसक्तिः । बौद्धाद्यागमाविशेषं पाञ्चरात्राप्रामाण्यं यद्युपपादयितुं शक्यम्, तावता पाञ्चरात्रत्याग एव कर्तव्यो भवेत्, न विशिष्टाद्वैत सिद्धान्तहा निः । तत्परवेदप्रामाण्यस्य सुस्थत्वात् । " चार्वाक सौगताद्यगमाः वेदनिरपेक्षतत्तत्प्रक्रियावलम्बनात् अहिंसादितत्त्वविषयेऽपि न प्रमाणं मन्तव्या इति वैदिकानां राद्धान्तः " इति शतभूषण्यामेवोक्ततया अद्वैतागमवत् सौगतागमोऽपि प्रमाणमेवेति नाद्वैतिनः वक्तुमुद्युज्जीरन् । अतः सौगतागमाप्रामाण्यं यया पद्धत्या स्थाष्यते, तयैव वेदस्वाप्यप्रामाण्ये आपतिते कथमवैदिकत्वान्निर्मोक इति ते प्रष्टव्याः । तस्मात् वेदप्रामाण्यपरिग्रहानुपपत्ति-प्रसाधनम् ३७१ वृथा पश्चिरात्रप्रामाण्याप्रामाण्यचर्चेयं विना खपक्षे वेदप्रमाण्यसंभवोपपादनमेवश्यकर्तव्यम् । शतभूषणी तु विष्णुशिवसाम्यबुद्धिमर्वाक्का लप्रसृतामात्मविरूढामनुरुध्य वा, शैवपक्षे पतित्वा वा पाशुपतात् पाञ्चरात्रस्यातिशयं सूत्रभाष्यकल्प तर्वादिसंमतमप्यननुमन्यमाना स्वपूर्वाचार्यपद्धतिं परित्यज्य विषमे पदं निक्षिपति । सूत्रस्वारस्य-भङ्गप्रसाधनावसर एव सूत्रभाष्यं कल्पतरुवाक्यं च प्रदर्श्य, ‘पाञ्चरात्रस्य, न केवलं सौगताद्यागमवैलक्षण्यम्, पाशुपताद्यागमवैलक्षण्यमप्यप्रधृष्यमस्तीति, ‘कल्पतरुकारः पाञ्चरात्रस्य सामग्र्येण प्रामाण्यमेव प्रतिपादयती ‘ति च सम्यगुपपादितमस्माभिरिति न परिमलादिलोभात् मलिनयितव्यमद्वैति भिरात्मनो मन इति कृत पिष्टपेषेण । सौगतमत इवाद्वैतिमतेऽपि जगतो मिध्यात्वात् प्रामाण्यपारमार्थस्य प्रतीतिसत्यत्वस्य चाभावात् अभिमानमात्रस्य चोभयपक्षेऽप्यविशिष्टत्वात् न वैलक्षण्यमिति अस्माभिरुच्यमानमस्मदुपरि भूषणी न कथमप्यारोपयितुं पारयति । ‘बौद्धा अपि क्षणिकविज्ञानसत्यत्वं वदन्ति । तदागमः सत्य इति चाभ्युपयन्ति । तस्मादविशेषः’ इत्यादिः कोलाहलः किं साधयिष्यति ? वित्तिवेद्यवेदवेदितॄणां सर्वेषां वस्तुतः सत्यत्वनित्यत्व । देर्यथायथं वास्तवत्वस्य, सौगतादिसम्बन्धिनाञ्च तादृशानामाभिमानिकतया काल्पनिकतया वास्तवत्वाभावस्य चोपपादनेन वैषम्यस्य जागरूकत्वात् । अद्वैतिनां पुनः सर्वमाभिमानिकमात्रमित्यविशेष एव ॥ " यदि सौगतागमस्य स्वतन्त्रबुद्धकर्तृकत्वेनाप्रामाण्यम्, तर्हि पाञ्चरात्रस्यापि नारायणकर्तृकत्वादप्रामाण्यमेव ; उभयोः पौरुपेयत्वेन सादित्वात्" इति वदन्ती भूषणी मन्वादिस्मृतीनां शाङ्करभाष्यादीनाञ्चाविशेषेणाप्रामाण्यमेव दर्शयेत् । अपौरुषेयवेदाविरुद्धतया पौरुषेयस्यापि प्रामाण्ये तु पाञ्चरात्रस्थापि तदस्तीत्येव पराक्रान्तमस्मत्प्राच्यैरेवेति किमत्र वक्तव्यमवशिष्यते ? न स्खल्वेवं सौगतागमोऽपि श्रुत्यविरुद्धः । भगवान् बादरायणो महाभारते ૩૨

पाश्चरात्रप्रमाण्यं प्रपञ्चयन् सांख्याद्यागमानां विभिन्नमतिमूलत्वमभिधाय पौरुषे 66 " इति परमाप्त यत्वेऽपि, " पाश्चरात्रस्य कृतस्नस्य वक्ता नारायणः स्वयम् पुरुषोत्तमप्रणीततया पाश्चरात्रप्रमाण्यमविचाल्यं प्रतिपादयति । भूषणी तु तादृशमपि नारायणमनाप्तकाटौ निक्षिपतीति अहो आग्रहः ! अत्र श्लोके स्वयं पदस्वारस्यै सुबहु अनुभवनीयम् । उपरि च, नारायणस्य सर्वज्ञत्वं शास्त्रैकसमधिगम्यम् । बुद्धस्य सर्वज्ञत्वं तु सर्वलोकप्रसिद्धम्, सर्वज्ञः सुगतो बुद्धः " इति लेखनश्च पाञ्चरात्रादिकमपि परिहृत्य बौद्धपक्षपातिभिरद्वैतिमिर्भाव्यमित्यात्मनोऽन्तर्गतमाशयमाविष्करोति । कति कति प्रशंसाप्रवृत्तपरिकल्पितानन्वर्थबिरुदधारिणः सन्ति वैदिका लौकिकाच । वास्तवार्थस्वीकारश्रद्धायां तु प्रतिविहितमभियुक्तैः, “सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा ? तावुभौ यदि सर्वज्ञौ मतिभेदः कथं तयोः ?” इति ॥ पाश्चर स्वीकारे यदि परमार्थभूतप्रामाण्याश्रयत्वं प्रमातृसत्यत्वं प्रमितिसत्यत्वमित्यादि कारणम्, तत् सर्वं सौगतदृष्ट्या तदागमस्वीकारेऽप्यक्षत मिति बदन्त्या भूषण्या स्वाभिमतवेदप्रामाण्यमप्येवमेवापैष्यतीति नूनं न परिशीलयते । अथ वेदसौगतागमयोर्वैषम्यं यददर्शि -तत् समनन्तरं परिशीलयिण्यामः । यत्त्वन्ते किञ्चिदनुयुक्तम्अद्वैतमते वेदसौगतागमयोः साम्यापादनमन्यैः क्रियमाणं किंफलकमिति तत्रानुयोगमात्रेणोपरमे प्रत्युत्तरं वक्तव्यमुक्त्वाऽस्माभिर्विरम्येत । उपरि विकल्प्य दूषणात्तु तदूषणमप्यवसर प्राप्तम् । यस्तत्र विकल्पः वेदसौगतयोः साम्ये उभयोरद्वैतसौगतयोः प्रामाण्यं व्यवस्थितमिति वा, एकतरेणान्यतरबाधो वा, अभयोरप्रामाण्यमेव वेति — तत्रोच्यतेवस्तुनि विकल्पायोगात् वस्तुविषये मतद्वये एकमेव स्वीकार्य भवेत् ; न द्वयम् । क्रियाविषये विकल्पसंभवेऽपि क्रियाबोधकस्य प्रामाण्ये विसंवादे तत्रापि न विकल्पप्रसक्तिः । एकस्य स्वीकार्यत्वमपि तदैव, यदि तस्य प्रमाणिकत्वं सुव कम् -अन्यथा पुनः रज्जुविषये सर्पभूदलनबुद्धयोरिव द्वयोरपि मतयोर्बाध्यत्व वेदप्रामाण्यपरिग्रहानुपपत्ति-प्रसाधनम् I ३७३ मेव । तदत्र एकस्य प्रामाणिकत्वसिद्धावेव तेनान्यस्य बाध इति तदभावे सौगतमिवाद्वैतमपि प्रबलेनान्येन बाध्यमेव । यत्तु तत्रोक्तम् -एतेन विशिष्टाद्वैतप्रामाण्येन अद्वैतप्रामाण्यसौगतप्रामाण्यो भयबाधापेक्षया विशिष्टाद्वैतप्रामाण्यबाध एव युक्त इति —तेन अद्वैतप्रामाण्यमिवावैदिकसौगतमतप्रामाण्यमपि भुवि स्थापयितु भवान् वाञ्छति, न पुनर्विशिष्टाद्वैतप्रामाण्यं क्षणमपि वर्तयितुमिति ज्ञायते । यतो हि भवता अद्वैतप्रामाण्येन सौगतप्रमाण्यविशिष्टाद्वैतप्रामाण्यो भयोपमर्द इत्युपपादने प्रवृत्तिर्नाधायि । विमृष्टेतु, एकेनाद्वैतप्रामाण्येन भूयिष्ठानां द्वैतमतप्रामाण्यानां निषेधस्यानुपपन्नत्वात् अद्वैतप्रामाण्यमेव न सिद्धयेत् । एवमेकैकमतप्रामाण्यमपि प्रतिषेध्यबहुत्वात् न स्थातुमर्हतीति स्यात् । अत्र विषमयोरेकतरेणान्यतरबाधः । वेदसौगतयोः वैषम्यञ्चास्माभिरुक्तम् । भवन्मते वेदसौगतयोः साम्यादेकतरेणान्यतरबाधो न भवतीति च । तत्र वेदेन सौगतबाधो न भवतीति वा, सौगतेनैव वेदबाध इति वा भवतोपपादित चेत्-अस्माकमनिष्टमुक्त स्यात् । तद्विहाय विशिष्टाद्वैतप्रामाण्येण एकेन अद्वैतसौगतद्वयबाधो न युक्त इति वर्णनञ्चास्थान इति ध्येयम् । एवञ्चात्रेदं निष्कृष्टम्, यत्सौगतमतखण्डनेन लोके श्रौतमतप्रचारणपरमप्रयासिप्रथमशङ्कराचार्यप्रवर्तितं मतं सौगतागमसाम्यस्यैव सर्वेष्वाम्नायेषूपपादनात् स्वलक्ष्य विघातक मेवापतितमिति । अत एवादिशङ्कराचार्यणामाशयोऽन्य एव कश्चित् क्रमेण कृत्स्रवेदसंरक्षणगोचर ऊ इत्यास्तिका आतिष्ठन्ते । अन्यसाम्यसिद्धौ तु बौद्धमते स्थित्वाऽपि श्रेयोलाभाभिमानसंभवात् उदयनाचार्योक्तरीत्या सप्तघटिकाभोजनादि सौगतदर्शितसुखमार्गमुपेक्ष्य कायक्लेशाद्यापादके वैदिके पथि न कश्चित् प्रवर्ततेति सर्वथा वैदिकहानिः स्यादिति प्रतिबोधितं भवतीति ध्येयम् ॥

अथाद्वैतरीत्या वेदसौगतसाम्यमेव किञ्चिद्विशदीक्रियते–अद्वैतिभिरद्वितीयात्ममात्रसत्यत्वम्, अन्यस्य सर्वस्य मिध्यात्वं च मन्यमानैरपि, मन्त्रब्राह्मणात्मक वेदवेदितेनैव वर्त्मना संचरमाणाभिः प्रजाभिर्भवितव्यमिति, ३७४ 66

" धर्माधर्मयोः वेद एव प्रमाणमिति च स्वीक्रियते । कुत एवम् ? मानाधीनत्वान्मेयसिद्धेः, बौद्धाद्यागमानां सदोषतया प्रामाण्याभावात् नित्यनिरवद्यवेदप्रामाण्यस्य च स्थितत्वादिति वक्तव्यम् । तदिदमेव परीक्षणीयम् । कथं बौद्धागमोsप्रमाणम्, वेदः परं प्रमाणमिति । अत्र यदुक्तं भूषण्याम्, क्रमविशेषापेक्षोच्चरितत्वरूपपौरुषेयत्वतदनपेक्षोच्चरितत्वरूपापौरुषेयत्वाभ्यामेव वैषम्यमनादित्वसादित्वाभ्याम् " इति — तत्र प्रथमं तावत् अनन्वितत्वमपि दूषणम् । अपौरुषेयस्यैव पूर्वपूर्ववर्णक्रमसापेक्षोच्चरणविषयत्वादेवं विपरीतवर्णनायोगात् । व्याहतश्च ; स्वयमेवोपरि, पूर्वपूर्वक्रमानपेक्षक्रमकत्वरूपं पौरुषेयत्वम्” इति, “पूर्वपूर्वक्रमापेक्षक्रमकत्वरूपापौरुषेयत्वमेव " इति चोक्तेः । तत्र, " सर्वज्ञस्यापि बुद्धस्व स्वतन्त्रकर्तृकत्वम्" इति लेखनमप्यनन्वितम् । अस्तु तावदीदृशी सर्वत्राशुद्धिः । विषय एव शोधनीयः । वेदस्तावन्न स्वरूपतो ब्रह्मवानादिः । अविद्या परिणामशब्द संघातरूपत्वात् । न चानादित्वमात्रेण सर्वमुपादेयम् । अनादित्वेऽप्यविद्याया हेयत्वात् । अत एव नित्यनिरवद्यो वेद इत्य् अपि नाद्वैतिभिः सुवचम् । ब्रह्मज्ञानबाधिप्यमाणतया प्रवाह नित्यत्वस्याप्यसंभवात् । अतः पौरुषेयत्वापौरुषेयत्वाभ्यां वैषम्यवर्णन एव नैर्भर्यम् । पौरुषेयत्वञ्च स्वतन्त्रपुरुष प्रणीतत्वम् । मन्वादेश्च स्वातन्त्र्याभावान्न तत्स्मृत्यादेरप्रामाण्यम् । एवमपौरुषेयत्ववर्णनमपि पुरुषदोषमूलकत्वनिबन्धनाप्रामाण्यशङ्कामात्र परिहारकं स्यात् । न त्वप्रामाण्यसामान्यस्य वक्तदोषाधीनत्वम्, इन्द्रियदोषायत्तस्याप्यप्रामाण्यस्य दर्शनात् । शब्दस्याप्रामाण्यं वक्तदोषाधीनमेव दृष्टमिति चेत् — कोऽसौ वक्तदोषः ? श्रमप्रमादविप्रलम्भादिरिति चेत्वक्तसमवेतस्य भ्रमत्वे किं नियामकम् ? दुष्टकारणजन्यत्वात् भ्रमत्वमवधार्थत इति चेत् तर्हि दुष्टकारणजन्यज्ञानाधीनशब्दस्याप्रामाण्यमित्युक्तं भवति । तेन शब्दाप्रामण्ये कारणदोषः साक्षात् परम्परया वा हेतुरिति स्थिते यदि वेदस्यापि दोषमूलकत्वम् तर्ह्यप्रामाण्यमा पतितमेव । यावदविद्यामूलकत्वं वेदस्य न परित्यज्यते, तावत् दोषमूलकत्वं न हातुं शक्यम् । एवञ्च दोषा } ८ वेदाप्रामाण्यपरिग्रहानुपपति-प्रसाधनम् ३७५ धीनं वेदवाक्यज्ञानमवाक्ये वाक्यभ्रान्तिरूपं घट इहास्तीति वाक्ये पट इहास्तीति वाक्यभ्रान्तिरिव विपरीतार्थबोधकमिति सिद्धं वेदस्याप्रामाण्यम् ॥ यत्त यत्त बौद्धागमस्य प्रत्यक्षानुमानोपजीवकत्वादप्रामाण्यम्, अद्वैतमते तु वेदोपजीवित्वमेव प्रत्यक्षानुमानयोरिति स्वतन्त्रत्वाद्वेदः प्रमाणमिति —तत्र किमिदमुपजीवित्वम् ? यदि शाब्दबोधजनने प्रत्यक्षानुमानापेक्षत्वं बौद्धागमस्य, तत् वेदस्यापि तुल्यम्, व्यवहारादेव संगतेयत्वात् तत्र प्रत्यक्षानुमानोभयस्थितेः । यदि चोपजीवित्वं जन्यत्वं, तर्हि प्रात्यक्षस्य न वेदजन्यत्वम् । एवं धूमेनाग्न्याद्यनुमानमपि न वेदजन्यम् । " वेदशब्देभ्य एवादौ देवादीनां चकार सः " इत्युक्तरीत्या वेदस्य सर्वजनकत्वे च सुगतवच एव जनकमिति सौगतहठात्कारे कः समाधिः ? अस्तु वा वेदोपजीवित्वं प्रत्यक्षादेः, तावता तस्यामुख्यं प्रामाण्यमिति कुतः ? एवं निर्विशेषवस्तुविषयकानुमानप्रत्यक्षयोः श्रवणोपबृंहणत्वकथनमप्ययुक्तम् । अश्रुतवेदान्तस्यापि सन्मात्रविषयकमेव प्रत्यक्षमित्येव भवद्भिरुक्तेः। न चाद्वैतश्रुतिश्रवणानन्तरमेव सन्मात्रविषयकत्वावधारण प्रत्यक्षस्येति वाच्यम् अश्रुतवेदान्तानामप्यनुपपत्तिस्फुरणे सति तदवधारणोपपत्तेः । बौद्धैरश्रुतवेदान्तैरेव ’ प्रत्यक्षं स्वलक्षणा पर पर्यायव्यक्तिमात्रग्राहि । अन्यत् सर्वं विकल्पविषयः’ इति प्रत्यक्षस्यैकमात्रविषयकत्वकल्पनात् । नूनं बौद्धमतमेव भङ्गयन्तरेणाद्वैतिमिरत्र विषयेऽप्युपन्यस्तमिति तु तत्त्वम् ॥ किञ्च यद्यपीश्वरो गतकल्पीय वेदमेव स्वबुद्धित्थमस्मिन् कल्पेऽप्युपदिशतीति नापूर्ववेदरचना प्रतिकल्पम् अथापि वेदमिव तदर्थान् कालं देशमुपदेष्टृश्च सर्वान् ज्ञात्वैवोपदिशतीति अर्थज्ञानपूर्वकमेव वेदोच्चारणमीश्वरस्य प्रतिकल्पमिति तादृशार्थज्ञानस्य मिथ्याभूतार्थविषयकतया भ्रान्तित्वावश्यम्भावात् तदधीनोच्चारणशब्दसन्दर्भों भ्रान्तिमूलक । एव एतेन बाध्यार्थविषयकत्वादपि वेदस्याप्रामाण्यं व्याख्यातम् । सर्वस्यापि जगतः तत्त्वज्ञानबाध्यत्वस्वीकारेण वेदप्रतिपाद्यवर्णाश्रमधर्माधर्मतत्फलादेः सर्वस्य बाध्यत्वात् । एवञ्च सौगता ३७६

गमाविशेष एव श्रुतीनाम् । बाधिप्यमाणा अपि वर्णाश्रमादय इदानीं सन्तीति चेत् — प्रश्नोऽयं नाश्यबाध्यार्थविषयविवेकवैधुर्यमूलकः । यत् खलु नाश्यम्, तत् नक्ष्यदपीदानीमस्तीति सुवचम् । न तु बाधिप्यमाणस्य बाधात् प्राक् सद्भावः । अन्यथा त्रैकालिकात्यन्ताभावप्रतियोगित्वाभावेन मिथ्यात्वस्यैवासिद्धेः । ततश्चाविद्यमानमेव सर्वं वेदवाक्यतः प्रतीयते, यथा बुद्धवाक्यतोऽन्यादृशं सर्वमित्यविशेष एव । ननु व्यावहारिकसत्यत्वं वेदोक्तानामर्थानामिष्यते, बौद्धोक्तानां तु प्रातिभासिकमिति चेत् — उभयं भ्रान्तिमूलकमिति तावत् संप्रतिपन्नम् । तत्र बौद्धः स्वसंमतानां व्यावहारिक सत्यत्वं वेदसंमतधर्माधर्मादेश्व प्रातिभासिकत्वं मन्यते ; अद्वैती तु विपरीतमिति नात्रान्यतरावधारणनियामकमति । अथ वेदानादित्वभ्रान्तिमूलेयमास्तिकानां वैदिकार्थआन्तिरनादिः । बौद्धागममूला तु भ्रान्तिर्न चिरन्तरनीति विशेष इति चेत्किं ततः ? विवेकिभिरुभयमश्रद्धेयमेव । तत्रानादिभ्रान्तिवशः कश्चित्, अभिनवभ्रान्तिवशश्चान्य इति विवेकी विद्वान् न खलु, ’ एवं न अमितव्यम्, किं तु तथैवेति वक्तुं वाञ्छेत् । अपि तु वैदिकधर्मचारिणः सौगतधर्मश्रद्धालूंश्वोभयानप्यवेक्ष्याद्वैती सौगततत्त्ववेदी न धर्मो न फलं किञ्चित् न तयोर्हेतुसाध्यता । मुधा भ्राम्यन्ति हन्ते इति तुल्यं विभावयेत् ॥

’ नन्वतत्त्व विद्धिधर्मानुष्ठाने फलं भविष्यत्येवेति चेत् — यदि भविष्यत्येव, तर्हि जगत् सत्यम् ; तस्य बाध्यत्वेनावधारणमद्वैति निष्ठमेव भ्रान्तिरिति स्यात् । पश्चात्तनबाधे सत्यपि व्यवहारमध्ये न वैदिकधर्मबाध इति चेत्अस्त्येव बाधः सौगतसमयिभिः । तत् बाधज्ञानं मिथ्येति चेत् — वैदिकधर्मस्यापि वस्तुतोऽभावः अद्वैतिनामपि संमतः । सोऽयमभावोऽद्वैति बुद्धिविषयश्चेत् — तज्ज्ञानममिथ्या, सौगतबुद्धिविषयश्चेत्-तज्ज्ञानं मिथ्येति श्रमिक्षाप्रतिक्षेपमिमं मिक्षवस्तावद विशिष्टमेव ग्रहीतुमर्हन्ति । यद्यपि सौग नेतृशापप्थर स्प्रिहानुपपत्ति-प्रसाधनम् ३७७ तानामत्र बाधज्ञानमस्ति अथाप्यस्माकं तथाज्ञानं न जातमिति अस्मत्कल्पितधर्मादिकमाबाधमस्मान् प्रति स्थास्यत्येवेति चेत् — सौगतकल्पितं सांवृतिकं वस्त्वपि तथैव तस्य बाधज्ञानोदयपर्यन्तं स्थास्यत्येव ; न पुनरस्माभिस्तनिषेधमात्रेणापैष्यतीति तुल्यम् । वस्तुतो भ्रान्तिस्थलेऽनिर्वचनीयोत्पत्तेरुत्तरत्र विस्तरेण निरसिष्यमाणत्वात् सर्वत्र कल्पनामात्रम्, न तु व्यावहारिकसत् किश्चिदिति न वैषम्यलेशस्याप्यवसरः । अपि च वैदिकधर्मानुष्ठान एव फलम्, न सौगतधर्मानुष्ठान इत्यादिक वेदप्रामाण्यतदागमाप्रामाण्यनिश्चयाधीनम् । यदा च दोषमूलकत्वात् अन्तिमदीश्वरोच्चरितत्वात् बाध्यार्थविषयकत्वाच्च वेदप्रमाण्यमेव दूरापेतम्, तत्र कथमेव वैषम्यवर्णनप्रसक्तिः ? तुल्यनयात अधर्मानुष्ठानमपि न निन्द्यं स्यादद्वैतिनाम् । तस्य अनिष्टजनकतायाः बाध्यत्वात् । सेश्वरस्य जगतः सत्यत्वाभिसन्धौ सति खल्वीश्वरो नरकादौ पातयेदिति पातकाद्भेतव्यम् । सर्वमिध्यात्वे चावधृते पापस्य च फलस्य च तयोः कार्यकारणभावस्य च मिथ्यात्वं सुनिश्चितमिति द्वितीयाभावान्न भीप्रसक्तिः । यदि कश्चित् सत्यत्वाभिमानी पापभीरुरितिकर्तव्यतामूढः स्यात्, तं प्रति तत्त्वमस्यर्थमुपदिश्याभयं ब्रह्म प्राप्तोऽसीति वक्तव्यम् । स चात्मानं जीवन्मुक्त मन्यमानः कुलालचक्रभ्रमणन्यायेन पूर्ववासनावशापतितेषु परश्शतेव्वपि लौकिक कर्मसु परदृष्ट्या निषिद्धकर्मप्रायेष्वपि असंगात्मनः संसर्गमपश्यन् न कथञ्चित् भेष्यतीति नूनमलेपकमतमेव मुखान्तरेण समासादितं भवति । एवं स्थिते पापान् प्रेक्ष्य, ‘नैवं पापं चरथ, पतिष्यथ घोरे नरके’ इति न खुपदेशस्यावसरः । एवञ्च निषिद्धाचरणेऽपि न किञ्चिदिति सर्वे स्वैरगामिन एव भवितुमर्हन्तीति तत्र सौगतमतावलम्बनेऽपि न कश्चित् प्रत्यवेयादद्वेतिदृष्टयेति किमिति, ‘वैदिकं ग्राह्यम्; अवैदिकं त्याज्य’ मिति विभागविधानम् ? अतो वैदिकेष्वपि सौगतमतप्रचारार्थमिदं वैदिककर्मादिष्वतिशयितादरानियमात्रं मिथ्यामतस्थानामिति निरूपयितुं जगत्सत्यत्वमेवास्थितैर द्वैति भिरेवा 48 ३७८

न्यादृशैः, “वेदोऽनृतो बुद्धकृतागमोऽनृत " इति गाधा काचिदगायि, या शतदूषण्यामन्ववादि ॥ अद्वैतिनस्तु मन्यन्ते, आतत्त्वज्ञानोदयमखिलमपि वर्णावर्णपुण्यापुण्यस्वर्गनरकादिकमबाधितमवतिष्ठते, अनाद्यविद्या निबन्धनानिर्वचनीयोत्पत्तिस्वीकारात् । बुद्धादिदेशनास्तु सादयो रज्जुसर्पव्यवहारवत् प्रातिभासिकविषयाः तदा तदैव बाध्यन्ते इति । अत्र सर्वत्र भ्रान्तावपूर्वपदार्थोत्पत्तिरप्रमाणिकी च निष्कारणा च अनुभवदूरा चेत्यवसरे वक्ष्याम इति प्रागेवोक्तम् । किञ्च प्रत्यक्षादीनां व्यावहारिकं प्रामाण्यमित्यप्यप्रामाण्यस्य परिभाषा । तथाहि–किमिदं व्यावहारिकं ग्रामाण्यं नाम ? व्यवहारविषयभूतं प्रामाण्यमिति चेत् –शुक्तिरूप्यज्ञानप्रामाण्यमपि तदा व्यवहारविषय एव । व्यवहार कालवर्ति प्रामाण्यं तदिति चेत् — वस्तुतः प्रामाण्यस्य काललयेऽप्यभावात् व्यवहारकालवर्तित्वमपि दुर्वचम् । व्यवहारकालवर्तित्वेन प्रतीयमानं प्रामाण्यं तदिति चेत्शुक्तिरूप्यज्ञानप्रामाण्यमपि यावद्वाधं तथा प्रतीयत एव । अथ व्यवहारकालो नाम निष्प्रकारकत्रह्मसाक्षात्कारपूर्वकालः; तत्कालावच्छिन्नबाधविषयत्वाभाववत् प्रामाण्यमेव तदिति चेत् तर्हि कदा बाधविषयत्वं प्रामाण्यस्य ? निष्प्रकार ब्रह्मसाक्षात्कारानन्तरमिति चेत् — तदनन्तरं मूलनाशात् कथं प्रामाण्यबाधज्ञानमुदेष्यति । अखण्डब्रह्मसाक्षात्कारस्तु न तद्विषयक इति न प्रामाण्यस्य बाधविषयत्वम् । वस्तुतः अद्वैतश्रवणानन्तरं साक्षात्कारात् प्राक् प्रामाण्यादिकं परमार्थतो नास्तीति बुद्धयुदयेन तस्य व्यवहारकालत्वात् तात्कालिकबाध विषयत्वाभावः प्रामाण्ये दुर्भणः । ननु बाधज्ञाने सत्यपि नेदानीं पदार्थो बाध्यते, न निवर्तत इति यावत् । तथा च व्यवहारका लिकनिवृत्त्यभाववत्पदार्थकत्वं व्यावहारिकप्रामाण्यमिति चेत् — केयं निवृत्तिः ? न तावत् ध्वंसः । असत्यपदार्थस्य ध्वंसायोगात् । न हि यथावास्थितशुक्तिज्ञानानान्तरं शुक्तिरूप्यं नष्टमिति कश्चित् प्रत्येति । नाप्य / वेदप्रामाण्यपरिग्रहानुपपति-प्रसाधनम् ३७९ भावः, अभावधीर्वा निवृत्तिः । वस्तुतो व्यवहारकालेऽपि प्रपञ्चाभावेन व्यवहारका लिकाभावाभाववत्त्वस्य, अद्वैतश्रवणानन्तरमभावधी सत्त्वेनाभावधीविषयत्वाभाववत्त्वस्य च प्रपञ्चरूपेऽर्थे असंभवात् । अथ तर्हि अद्वैतश्रवणपूर्वकाल एव व्यवहारकालः । तथा च तात्कालिकाभावधीविषयत्वाभाववदर्थकत्वं व्यावहारिकप्रामाण्यमिति चेत् — तदपि न ; शून्यवादिबौद्ध सिद्धान्तश्रवणे प्रपञ्चाभावबुद्धेरुदयेन तादृशाभावधीविषयत्वसत्त्वेन तदभाववदर्थकृत्वा भावात् । न हीयमभावधीभ्रमः ; ब्रह्मसद्भावविषये युवयोर्विवादेपि प्रपश्चाभांवबुद्धेरुभयविधाया अप्येकरूपतया असत्यात् सत्युबुद्धिवादिभवद्दृष्ट्या पि प्रमात्वस्याक्षतत्वात् । अद्वैतश्रवणप्राक्कालेपि प्रपञ्चो बाध्यत इति कस्यचिद् भ्रमे सति तादृशाभावधी विषयत्वस्यानिर्वचनीयस्य सत्वेन तदभावस्यार्थे दुर्वचस्वाच्च । न च पारमार्थिकं यत् अभावधीविषयत्वम्, तदभावो विवक्षित इति वाच्यम् -ब्रह्ममात्रपारमार्थ्यपक्षे तस्याप्रसिद्धत्वात् । न च पारमार्थिकमिति स्थाने व्यावहारिकमिति निवेशः । इदमभावधीविषयत्वं व्यावहारिकमिति कस्यचिद् भ्रमदशायां व्यावहारिकत्वस्यापि कल्पितस्य सत्त्वात् । एवं शुक्तिरूप्यज्ञानप्रमाण्यमपि स्यात् । तत्र व्यवहारका लिकाभावधी विषयत्वं नास्तीति भ्रमदशायाम निर्वचनीयतत्सत्त्वेन तादृशाभाववदर्थकत्वस्यानपायात् । एवमनिर्वचनीयवादिनां तात्त्विकं प्रामाण्यम्, व्यावहारिक प्रामाण्यम्, तादृशमप्रामाण्यमित्यादीनां सर्वेषामपि अनिर्वचनीयतया कल्पनसंभवात् सर्वत्र सर्वसंकरापत्तिरेव । अतोऽनिर्वचीयस्याभावात् अस्तिनास्तीतिपक्षद्वये आद्यस्वीकारे अद्वैतश्रुतेन तन्निषेधकत्वम् । अन्त्ये प्रत्यक्षादेरप्यप्रामाण्यमेवेति । अपिच बद्धमुक्त व्यवस्थार्थं नानाजीयोपगामिनाम् । अविद्याभेदसंमत्या निर्वाच्यं विभिद्यते ॥ तत्तज्जी वाश्रिताविद्यापद ब्रह्मविवर्तनात् । वेदतद्वेद्यलोकादेः सर्वस्यापि भिदा स्थिता ॥परार्थभूषणे प्रतिजीवं जगद्भेदे मिथः संवाददर्शनम् । कथं घटेत भिन्नत्वात् तत्तद्दृष्टस्य वस्तुनः ॥ शुक्तौ रजतबुद्धीनां जीवभेदेन जन्मनि । यथा रजतनानात्वेऽप्यैक्यभ्रान्तिस्तथेति चेत्एवं नानाजगन्नानेश्वरसद्भावकल्पनाम् । वेदलोकानुभूबायां नैव लोकोऽनुमन्यते ॥ गामेकोऽश्वं खरञ्चान्यो भ्राम्यन् विवदते यदि । अविद्याभेदमूलत्वात् भेदोऽस्तीत्यशमो भवेत् ॥ भूयोजनानुरोधेन परदृष्टेस्तु बाध्यता । सर्वदृष्टपदार्थैक्ये स्यात् न त्वन्यान्यकल्पने ॥ तस्य तस्य हि जीवस्य तत्तत्कल्पितवस्तुधीः । स्वक्लृप्तपरसंवाददृष्ट्या तत्रैक्यधीरपि ॥ तथापि तत्र नानात्वमिति यो निपुणो वदेत् । सोऽद्वैती पृच्छयते, कुत्र नानात्वं संमतं तव ! ॥ त्वदविद्यावऌप्तजीवतदर्थाः परक्लृप्ततः । भिद्यन्ते खलु तत् ते स्यात् तत्र नानात्वधीः कथम् ? ॥ अविद्यमाने जगति जगद्रान्तिस्त्वयोदिता । जीवभेदप्रसिद्धया च जगन्नानेति कल्पितम् ॥ नानाजगत्यैक्य बुद्धिः भ्रान्तिरित्यथ कल्पितम् । तन्नानात्वं कदोत्पन्नमनिर्वाच्य जगद्गतम् ॥ जगता सह नोत्पत्तिः कल्पना हेत्वभावतः । परिक्षकाद्वैतिचिन्तासमकाल जर्नियदि ॥ ततः प्राक् जगदेकं वा नाना वा कथ्यतामिदम् । न नानात्वमनुत्पत्तेः एकं चेत् केन कल्पितम् ॥ वेदप्रामाण्यपरिप्रहानुपपत्ति-प्रसाधनम् प्रत्यात्मं कल्पनाभेदे कथमैक्यवचोन्वयः । जगत्स्वरूपं नानात्वमिति चेत् नैक्यधीर्भवेत् ॥ वद्धमुक्त व्यवस्थायै जीवनानात्ववादिभिः । जगदैक्योपपत्त्यर्थं त्याज्याऽनिर्वाच्यकल्पना ॥ एवं सतश्च जगतो न तत्त्वज्ञानबाध्यता । एतद्बोधितया वेदो मानं बौद्धी त्वसत्यवाक् ॥ अन्यथा त्वास्तिका विद्या क्लृप्तधर्मार्थवेदवत् । आगमः सौगताविद्याकल्पितोऽप्यादृतो भवेत् ॥ ३८१ एवं तावत् धर्माधर्मादिविषयाणां भेदश्रुतीनां प्रामाण्यम्, सौगतागमस्य त्वप्रामाण्यमिति भेदस्थितिरद्वैतपक्षे न घटत इत्युक्तम् । अथ मा भूवन् भेदश्रुतयः प्रमाणम्, आस्तिको नास्तिकः, सदाचारो दुराचारः, पापभीरुः पातकी इति सर्वेऽप्यद्वैत तत्त्वजिज्ञासायामुपवेश्योपदेश्याः । तत्त्वज्ञानामिदग्धसर्वभेदकक्षाः जीव मुक्ता इति तदुपयोगितया केवलमद्वैतश्रुतीनां प्रामाण्यमतिष्ठामह इति चेत् — एवं तर्हि योगाचारागमः चिन्मात्रपरः कथं न प्रामाणमिति पृच्छयते । अभ्युपगतस्यापि चिन्मात्रस्यात्मनः क्षणिकत्वाने कत्वकल्पनादप्रमाणमिति चेत् — कीदृशमात्मस्वरूपमङ्गीकर्तव्यम् ? नित्यत्वैकत्वश्रुतिमामाण्यादीदृशमिति चेत् — तर्हि नित्यत्वैकत्वादिधर्म विशिष्टात्मवादिन्यः श्रुतयः सविशेषपरत्वादद्वैतिदृष्ट्या कथं प्रमाणं स्युः ? विशिष्टार्थबोधकत्वेऽपि विशेषणांशे तात्पर्याभावात् निर्विशेषविषये प्रमाणमेवेति चेत् -योगाचारस्यापि चिन्मात्रव्यतितिक्तस्यापारमार्थ्यात् क्षणिकत्वादेरपि विषयस्य विषय्यतिरिक्ततया मिथ्यात्वमिति निर्विशेषमेव पर्यवसितमिति तत्परस्तदागमोऽपि नाप्रमाणमद्वैतिनाम् । तस्मादबाधितार्थविषयकतया प्रामाण्यमद्वैतश्रुतीनामिति पक्षेऽपि योगाचारागमस्यापि तदिति न तद्बहिष्कारसंभवः । विषयबाधाभावे च पौरुषेयत्वापौरुषेयत्वादिकल्पना वैषम्यमकिञ्चित्करम् ॥ शून्यवादिबौद्धौपन्यासेन योगाचा O ३८२

रमतमपास्तमिति चेत्-अद्वैतियोगाचारयोरन्ततो भेदाभावे तन्मतस्यापास्तत्वे इदमप्यपास्तमेव । इदमपि श्रीभाष्ये एवोपरि व्यक्तम् । तस्मात्, तदेतत् संवृतिरिति गीयते " इति सौगतोक्तसंवृतिपक्षश्लाघिनं स्वगोष्ठीगरिष्ठत्वेनाभिमन्यमानं वैतण्डिकप्रकाण्डं खण्डनखण्डखाद्यकारमनुसृत्य स्पष्टं सौगतमतमेव वैदिकमतमिति मत्या तन्निरसनमुपेक्ष्यताम् । वैदिका वैदिकम तवास्तववैषम्यज्ञानेन वा जगन्मिथ्यात्वचिन्मात्रसत्यत्वादिपक्षमुपेक्ष्य द्वैतवाद एव स्थित्वा सर्ववेदप्रामाण्यमास्थीयतामिति ॥ अमानत्वं भेदश्रुतिषु यदि मन्येत भवतात् अभेदश्रुत्या वा सुगतवचनैर्वाऽपि तदिदम् । अभेदश्रुत्या च स्फुटमिह विशिष्टैक्यवचनम्, न चेत्, योगाचारो न कथमनुरोद्धव्यवचनः ॥ श्रीः