१४ भेददूषण-भङ्ग-प्रसाधनम्

अपरिमितमहिनामङ्घ्रिपद्म गुरूणा मवनमति विनेप्यन् भेदविद्वेषिणोऽयम् । अनृतजडपरिच्छिन्नेतरत् " नेति नेती " त्यखिलमपलपन्ती भेदमेतत् य आहुः ॥ अद्वैतमा स्थितैः सजातीयविजातीयखगत भेदरहितं ब्रह्मेति भेदशब्दः प्राकू वस्तुषु प्रयुक्त आसीत् । एवं भेदव्यपदेशभाजां वस्तूनामनिर्वचनीयत्वे. ३५६

तैरभिप्रेयमाणे लोके भेदशब्दस्यान्योन्याभावे भूरिप्रयोगदर्शिभिः पाश्चात्यैः मेद इत्यन्योन्याभावमेव गृहीत्वा अनिर्वचनीयस्थापनाय तदपलापे महान् संरम्भः कृतः । एवं कृतवद्भिरेवान्ते सानुशयमुच्यते " न वयं सर्वात्मना मेदमपलपामः, किन्त्वनिर्वचनीयत्वमेव तस्यैवं स्थापयन्तो व्यवहारोत्तीर्णतादशायां तदभावमेव मन्यामहे " इति । एवञ्च यावत्प्रपञ्चसत्त्वं भेदोऽप्यस्तीति स्थिते प्रपञ्चानिर्वचनीयत्ववादतः कोऽयमन्यो भेदानिर्वचनीयत्ववादः । यदि घटपटादिरूपप्रपञ्चान्तर्गतपदार्थानां मिथो भेदोऽपलष्यते, तर्हि घटपटाद्यैक्यमेव संमन्तव्यं स्यात् । यदि ब्रह्मणि, “सत्यं ज्ञानमनन्त " मिति अनृतनडपरिच्छिन्नभेदः श्रुत एवापलष्यते, तर्हि अनृताद्यैक्यात् ब्रह्मणोऽप्यसिद्धौ शून्यमेव स्वीकृतं स्यात् । द्वयोर्मिथो भेदालापो हि नाम द्वयोः स्वीकारेण तन्मात्रनिषेध एव यथा नीलवटवोर्मेदापलापे । ननु वस्तूनामभावादेवाभेदो भेदश्च न स्तः । अत एव भामती, " न खल्वनन्यत्वमित्यभेदं ब्रूमः, किन्तु भेदं व्यासेधामः " इतीति चेन्न तर्हि वस्तुमियात्वे सामान्येनैव मन्तव्ये किमिति भेदापलापयासः । मिथ्याभूतं भेदमधिकृत्य च कोऽयं विचारः, भेदः स्वरूपं धर्मो वेति । एवं हि सति ब्रह्मणि अनृतादिभेदः स्वरूपं धर्मो वा । आद्ये ब्रह्म अनृतादिभेद इति सामानाधिकरण्येन व्यवहारापतिः । एवमनृतादिभेदवत् ब्रह्मेति व्यवहा रानापत्तिः । एवमपि तस्मिन् इप्यमाणे ब्रह्म ब्रह्मवत् इत्यादिव्यवहारापत्तिः । अन्त्ये भेदरूपधर्मस्य ब्रह्मणश्च यो भेदः सोऽपि तद्धर्मः, तस्यापि भेदस्तथेन्यनवस्थेति दोषप्रसक्त्या भेदासिद्धौ अनृतादिरूपमेव स्यात् ब्रह्म । अथानृतादेरेवाभावात् केनैक्यमापाद्यत इति चेत् — अनृतादेरभावे घटपटयोरप्यभावे कयोर्भेदः खरूपं धर्मो वेति विकल्पितो भवद्भिः । एवं महावाक्याधीनबाधोदयं यावत् वस्तूनामिव तद्भेदस्यापि सद्भावे आवश्यके घटपटादिभेदापलापः विभूर्तिभेदापला प इत्यादिकं व्यवहारमार्गे कियन्तमनर्थ काण्डे आपादयतीति किञ्चिद्भवद्भिरेव विमृश्यम् । व्यावहारिकस्य घटपटपुत्रापुत्रदारादारादिभेदस्नैव विकल्पनेन दूषणे भेददूषण-भङ्ग-प्रसाधनम् ३५७ विधीयमाने प्रातिभासिकस्य घटपटाद्यभेदस्य दूषणं सुतरां संभावितमिति कस्मात् तयोरभेदोऽपि भवद्भिर्विकल्प्य न दूष्यत इत्य् अपि पर्यनुयोक्तव्यम् । नीलघटयोरभेदः तादात्म्यं किं धर्मिस्वरूपं धर्मो वा ? आद्ये, नीलज्ञानमेव घटाभेदज्ञानमिति किमिति घटशब्दप्रयोगः ? अन्त्ये, घटाभेदो नीलवृत्तिरित्यत्र नीलवृत्त्यभेदो घटाभेदनिष्ठः धर्मिखरूपं धर्मो वेत्यनवस्था दुप्परिहरेति व्यावहारिका भेदोऽपि विकल्प्य दूप्यताम् । एवं भेदापला पिभिश्च घटः सन् इत्यादौ घटादेः पटभेदादिरूपतया सप्रतियोगिकतया सता सह प्रत्यक्षेण ग्रहणं दुष्करमिति कथमुपन्यस्यते । प्रत्यक्षस्य सन्मात्रग्राहित्ववादी कश्चिदन्यः, भेदस्यासंभावितत्ववादी च तदितर इति नैतदूपणमिति चेन्न प्रथमतः तत्तन्मतप्रवर्तकयोर्भेदेऽपि न तौ संप्रत्यस्माभिः पर्यनुयुज्येते । किन्तु भवन्त एव, ये तावुभावपि वादौ स्वीकृत्य प्रत्यवतिष्ठन्ते । तस्मात् भेददूषणनिस्तारवादपरीक्षेयं सन्मात्र ग्राहित्व-परीक्षावत् विविदिषासाधनत्व-परीक्षादिवच्च परित्याज्यैव सहदवैरद्वैतिभिः । तदिदमवगच्छन्त्येव शतभूषणी सगोत्रदूषणपरिजिहीर्षया तत्रापि किश्चित् व्याप्रियते ॥ तत्र "” I अधिष्ठानज्ञानमेव चेत् भेदज्ञानम्, तर्हि शुक्तिग्रहणकाले रजताध्यासः कथमिति यत् पृष्टम् तत् स्थवीयः । शुक्तिरेव रजतभेद इत्यस्माभिरनङ्गीकारात् । यस्मिन् यद्दर्शने येषामध्यासो नोपपद्यते । तस्य भेदः स तेभ्यः स्यात् " इति खलु शतदूषणी निष्कर्षति । भाष्ये च शुक्तित्वादेरेव रजतभेदत्वं स्पष्टमिति प्रश्नोऽयमस्थाने । घटस्य पटभेदरूपत्वमुत्तवा घटस्यात एव प्रत्यक्षाविषयत्वमप्युपपाद्य सन्मात्रग्राहित्वसमर्थनपवृत्तानां पक्षे किलायं दोषः, यत् शुक्तिग्रहणस्यैव रजतभेदग्रहणरूपत्वादध्यासो न स्यादिति । एवं खलु शोधने घटघटत्वादीनां प्रत्यक्षविषयत्वस्य सर्वानुभवसिद्धतया भेदरूपत्वे तदयोगात् तार्किकपक्ष इव, भेदातिरिक्तं घटघटत्वादिकं भावात्मकम् ; भेदस्तु तदन्य एवाभावपदार्थः’ इति वक्तुं साम्प्रतम् । अस्ति चाद्वैतिनां पक्षः, भावातिरिक्त एवाभाव इत्य् अपि । भेदः स्वरूपं धर्मो वेति विकल्प्य दूषयितुं ३५८ परमार्थ भूषणे प्रयतमानः दूप्यदूषकभेदं वाच्यवाचकभेदं वर्णभेदं पदभेदमर्थभेदं धर्मधर्मिभेदमेवमादिमनन्तं भेदमुपजीव्य कथं तमपलपितुं पारयेत् । अनुपजीवने च कथं व्याहरेदिति विभाव्यताम् । आर्जवेन चेदद्वैती वादे प्रवर्तते, एवं वदितुमर्हति भेदस्य घटत्वाद्यवस्थारूपतायाः प्रतिवादिनोऽप्यभिमतत्वात् अवस्थायाश्च विकारवेनवाचारम्भणश्रुत्या मिथ्यात्वावसायात् भेदमिथ्यात्वं सिद्धमेवेति न भेदः पृथक् परिश्रम्य प्रतिबोधनीयः, न च प्रतिषेधनीय इति । एवं हि सति वाचारम्भणश्रुतिवास्तवार्थविचारेण वादः शीघ्रं शमितः स्यात् । अतः पृथक् भेदचिन्तेयं वृथा कालयापनेन प्रतिवादिनः परमार्थशोधनार्थमवकाशाप्रदानायाद्वैतिभिरादृतेति ॥ यत्तु –इयं शुक्तिरित्येव बाधकं ज्ञानम् ; नेदं रजतमिति तत्फलानुवादमात्रमिति बाधकज्ञानस्य न भेदग्राहित्वमिति तन्न नेदं रजतमिति ज्ञानस्यापि कदाचित् बाधकज्ञानत्वात् । किञ्च तद्वत्ताबुद्धिं प्रति तदभाववत्ताविश्वयस्य प्रतिबन्धकतया इथं शुक्तिरिति निश्चयोऽपि रजतभेदनिश्चय एव । यदि कश्चित् शुक्तावपि रजतत्वं स्यादिति भ्राम्येत् तस्य, नेदं रजतविति भेदज्ञानं शुक्तिज्ञानफलं न भविष्यतीति तं प्रति नेदं रजतमिति ज्ञानस्यैव बाधकत्वात् बाधकज्ञानस्य भेदग्राहित्वमबाध्यम् । , यत्तु -भेदाभेदयोर्मध्ये भेदो मिथ्या, अभेदस्तु धर्मिस्वरूपत्वात् सत्य इति – नैष विवेको युक्तः । ब्रह्मण्यनृतजडपरिच्छिन्नभेदस्यापि सत्यत्वात् । अन्यथा अनृतादितादात्म्यप्रसङ्गात् । घटपटादेः परस्परमभेदस्याप्यसत्यत्वात् । ब्रह्माभिन्नेन प्रपञ्चेन ब्रह्मणो भेदः श्रीभाव्यकृदिष्टः " इति अयथानुवादेनाभिनिवेशेन दूषणमद्वैत्यपि व्युत्पन्नो न श्रद्दध्यात् ॥ यत्तु मैदस्य धर्मधयुभयरूपत्वं शतदूषण्युक्तमयुक्तम्, व्याघातादिति -तन्नआशयानवधारणात् । भेदः कचित् धर्मरूपः, अन्यत्र कचित् धर्मिरूपः इत्येव विवरणात् । यथासंभवमिति भवतैवानूद्यमानत्वाच्च । सर्वज्ञानयाथार्थ्य वादिभिः शुक्तौ नेदं रजतमिति बाधबुद्धिर्भवतीति दुर्वचमिति तन्न – यशस्य भूयस्त्वम्, तदंशग्रहणेनैव तथातथा व्यवहारात रजतांशभूयस्वाभावेन न रजत pan मेददूषण-भङ्ग-प्रसाधनम्

३५९ मिति व्यवहारे अनुपपत्त्यभावात् । शुक्तिधर्मिण्यंशद्वयसत्त्वेन एकांशे रजता भेदग्रहणमंशान्तरे रजतभेदग्रहणं च ह्युपपन्नमेव ॥ यत्तु परमार्थत इतख्यावृत्त्यतिरिक्तधर्मास्वीकारात् धर्मस्य भेदतावादो न युक्त इति तदिदम्, गोत्वमगोव्यावृत्तिमात्रम् ; न कश्चित् धर्म इति भावपदार्थविद्वेषिबौद्धपक्षश्रद्धानुवृत्तिविजृम्भितम् । गोत्वादेस्तार्किक संमतजातिरूपत्वस्य वेदान्त्यसंमतत्वेऽपि अवस्थारूपतायामसंमत्यभावात् । अन्यथा लोकदृष्टानामवस्थानां सर्वासामभावरूपत्वे धर्मधर्म्यभेदस्यापि प्रागद्वैतभाष्यादितो दर्शितत्वात् जगद्धेतुरज्ञानमप्यभाव एवेति भावरूपाज्ञानवादः परिणामवादे इति विवर्तवादे ब्रह्माप्यभावरूपमेव संमन्तुमर्हमिति च शून्यवाद एव स्थापितः स्यात् । कथञ्च अगोव्यवृत्तिरेव गोत्वम् । किं तत्रागौरिति महिषादेः कस्यचित् तत्त्वेन ग्रहणम्, उतागोत्वेन सर्वस्य ? आद्ये, अगोव्यावृत्तिरश्वेऽपीति सोऽपि गौः स्यात् । अन्त्ये ऽश्वमहिषादीनाम सर्वज्ञदुर्ज्ञानतया विशिष्य ग्रहणायोगात् गोभिन्नत्वेन ग्रहणे अगोव्यावृत्तिपदार्थस्य गोत्वघटिततया आत्माश्रयान्योन्याश्रयादिदोष उन्मिषेत् । तस्मात् धर्म एव भावरूपो गोत्वादिः । भेदस्तदन्य इति तार्किकाः । धर्मः स एव भेद इति वेदान्तिनः ॥ , यत्तु — सन् घट इत्यादौ घटो वा घटत्वं वा भेदः न स्वरूपं भवितुमर्हति -अखण्ड ब्रह्मस्वरूपावगत्यनन्तरं घटादिव्यवहारायोगात् तदवगत्यनन्तरं घटादेरभावादिति अनेन स्वपक्षरक्षणं कियत् कृतं भवति ? ब्रह्मणि न कश्चित् धर्म इति भवतैवानन्तरमुच्यते । तदा च सदिति अखण्डब्रह्मग्रहणं वा न वा ? न चेत् — प्रकृतविरोधः । सन्मात्र ब्रह्मग्रहणं प्रत्यक्षेणेत्येवेह निरूप्यमाणत्वात् । ब्रह्मैव गृह्यत इति चेत् तर्हि तदवगत्यनन्तरं घटादेरभावस्य भवतैवोक्तत्वात् कथं घटादिव्यवहारवर्णनम् । एवञ्च प्रत्यक्षेण सन्मात्रग्रहणम्, घटादिकं तु भ्रान्तिरूपविकल्पग्राह्यमिति भवत्पक्षो भमः, भ्रान्तेरेवानवकाशात् । बाधकज्ञानस्योदितत्वात् । तथा च सदिति ब्रह्म न गृह्यत इत्युक्तावेव व्यवहारनिर्वाह इति सिद्धं भवत्पक्षखण्डनम् ; सिद्धश्चा “३६०

स्मत्पक्षः । घटादिरूपस्य भेदस्य ब्रह्मस्वरूपत्वे वा तदभावे वा सन्मात्रसग्रहणादेव त्वदुक्तदोपस्यापत्त्या सदित्यपि न ब्रह्म घटाद्यपि न ब्रह्मेत्येव ह्येतावतोक्तं भवति । पटादिभेदो घटत्वादिस्वरूप इत्येवास्माभिरुच्यते ; न तु घट घटत्वादिरूपो भेदो ह्मस्वरूप इति न युक्तं तादृशपक्षोद्भावनपूर्व दूषणप्रदानम् । यदि च सन्मात्रग्रहणानन्तरमपि घटादिकं तद्व्यवहारश्चानुवर्तितुमर्हतीति वेोत्याखण्डब्रह्मज्ञानस्यास्य च वैलक्षण्याभिमानेन वक्तुं प्रवत्यते, तत् घटादिरूपस्य भेदस्य ब्रह्मस्वरूपत्वपक्षेऽपि तुल्यमिति च भाग्यताम् । असंभवि तयोर्वैलक्षण्यमिति चाधस्तादेवावोचाम । सन् घट इति प्रत्यक्षस्य च सवंशे प्रमाणत्वेन सन्मात्रसद्भावात् माध्यमिकमतवैलक्षण्यमिति मन्यमानेन सम्मावस्वयंप्रकाशत्वपक्षः त्याज्य एव स्यात् । शब्दस्याविद्यानिवृत्तावेव तात्पर्यम् ब्रह्म तु स्वयंप्रकाशमिति बढ़ता खलु आविद्यकविरहस्यैवागमप्रमेयत्वमेषितव्यम् । तद्वत् प्रत्यक्षमप्याविद्यक विरहविषयकमिति दुर्वचम् । अविद्यातत्कार्य रूपप्रतियोगिग्रहसापेक्षत्वात् विरहग्रहस्य, प्रत्यक्षेण प्रथमं तद्ग्रहणायोगात् । तथासति तदंशस्यापि ज्ञाततया ब्रह्मणश्च स्वयंप्रकाशतया शास्त्र वैयर्थ्य तादवस्थ्याच्च । आविद्यकविरह रूपेण तद्भानायोगेऽपि यत्किञ्चिद्भावरूपेण तद्भानं प्रत्यक्षे युक्तमिति चेत्—घटादेरपि पटादिभेदात्मतां विना भावरूपेण भानं युक्तमिति समः समाधिः ।

यत्तु –भेददूषणे खण्डनखण्डखाद्यं बहु पराक्रमते । तत्र न किञ्चित् स्पृष्टं शतदूषण्येति-तनूनं वञ्चनया वा स्यात्, अनवधानतो वा । यतः शतदूषण्यां खण्डनमिह खण्डितमेव । खण्डने हि, भेदः किं स्वरूपभेदः, किमन्योन्याभावः, किं वैधर्म्यम्, अन्यदेव वेति विकल्प्य दूषितम् । तत्र चतुर्थः पक्षश्च पृथत्तवमिति, अत एव च भेदो नाम धर्मान्तरं पृथतवाइति चतुथपक्षखण्डनावसरोक्तवाक्यादवगम्यते । परनामकमित्यपि परास्तम् " (C श्रीभाष्ये, शतदूषण्यां च यो विकल्पः कृतोऽस्ति भेदः स्वरूपं धर्मो वेति, तत्रानन्तर्भूतमपूर्व किमत्रास्ति । इदमेव मनसिकृत्योक्तम् " मेददूषण-भङ्ग-प्रसाधनम् विकल्पाटोपेन श्रुतिपथमशेषं विघटयन् यदृच्छा निर्दिष्टे यतिनृपतिशब्दे विरमति । वितण्डाहुं कुर्वत् प्रतिकथकवेडा वियातव्यापारव्यतिमथनसंरम्भकलहः ॥ " इति । ३६१ गभीरभाषिणा श्रीमाण्यकृता कृते विकल्पे सर्वोऽयं कोलाहलोऽन्तर्गत एव । तदिदं मुक्तकण्ठमेव निर्दिष्टं शतदूषण्याम्, “ एवञ्च स्वरूपधर्मयोरन्यतरकोटिबहिर्भावाभावात् अन्योन्याभावपृथक्त्व विशेषाणामपि भेदत्वं पलायितम्” इति । न च खण्डनग्रन्थमात्रं चिखण्डयिषितं शतदूषण्याम् । तत्कल्पा अनेके ग्रन्था अपि । अनुक्ता अपि पुरुषबुद्धि कल्पनागोचराः स्वयं विकल्प्य निरस्यन्ते । प्रायेण च प्राञ्चः ग्रन्थपुरुषनामनिर्देशं विनैव विषयदूषणमात्रे व्याप्रियन्ते व्यक्तिप्रद्वेषविरहात् । वयमपि स्थलसुमहत्वायैव नाम प्रायो निर्दिशामः । व्यक्तिद्वेषं तु नेपदपि रोचयामहे । तत् खण्डितमेवात्र शतदूषण्यां खण्डनखण्डखाद्यम् । अथ शतभूषणीतृप्तये विशिष्याप्यत्र खण्डनग्रन्थमामृशामः - ; यदुक्तं खण्डने घटभेदः पटखरूपश्चेत् घटात्मक प्रतियोगिविशिष्टशे भेदः पट एवेत्याचाति । तथा च पटस्वरूपे घटस्यापि निविष्टत्वात् पटघटैक्यमेव प्रत्यक्ष गृहीतं स्यादिति तन्न न हि घटरूपप्रतियोगिविशिष्टो भेदः पट इत्यस्य घटः भेदश्च पट इत्यर्थः । येनेव मापादानं स्यात् । भेदस्य भेदान्तरात् व्यावर्तनार्थं हि प्रतियोगितया घटो निवेश्यते । भेदाभेदयोर्विरोधात् भेदमुल्लिखत् प्रत्यक्ष अभेदरूपमैक्यं कथमुल्लिखेत् ? रावणभेदस्य रामात्मकत्वे रामरावणयोरैक्यं कथमापद्यते ? अविद्याभेदस्य ब्रह्मखरूपत्वे अविद्याह्मणोरैक्यं भवन्मत आपद्येत ॥ ‘घटभेदे घटस्य प्रविष्टत्वात् पटेऽपि घटप्रवेश इति घटपदैक्य’ मित्यस्य च कोऽर्थः तत्नविष्टत्वं किं तदन्तरवयवावच्छिन्नसंयोगाश्रयत्वम् ; किं वा तद्घटकलं स्वाविषयकप्रतीत्यविषयतत्कत्वरूपम् ? आधे प्रवेष्टुप्रवेश्ययोर्भेद एव स्पष्ट इति नैक्यसिद्धिप्रसक्तिः । अन्येऽपि 46 ३६२

विशेषणविशेष्ययोर्भेद एव प्रायो दृष्टः । सुतराम भेदसंबन्धातिरिक्तेन केनचित् भेद संबन्धेन विशेषणत्वे इति नैक्यसिद्धिः । यत्तच्यते -पारमार्थिक भेद मिच्छन्तोऽपि अविद्याधीनं भेदं न प्रत्यादिशाम इति तन्न — प्रत्यक्ष सिद्धभेदविरोधेन पारमार्थिका भेदस्वीकारासंभवात् । अद्वैतश्रुतिरभेदपरा जागर्तीति सिद्धवत्कृत्य सहस्रकृत्वो व्यवहरणमात्रेण नाभेदसिद्धिः । अवसरे तत्तच्छ तत्तच्छ्रुत्य र्थश्च भेदपरतायां स्वारस्यप्रदर्शनेनोपपादयिष्यते । यत्तु भेदस्य प्रतियोगिनिरूव्यस्य पटस्य चैक्यं न संभवतीति तदपि न ; देवदत्तपुत्रो यज्ञदत्त इत्यत्र पुत्रयज्ञदत्तयोरैक्यानापत्तेः पुत्रपदस्य देवदत्तपदसाका क्षत्वात्, यज्ञदत्तपदस्य चातथात्वात् । एवं पटरूपे भेदे घटस्य प्रतियोगित्वे घटे पटप्रतियोगित्वमुक्तं भवति । प्रतियोगित्वञ्च घटादभिन्नमिति पटप्रतियोगित्वे पटस्य प्रवेशात् घटे ऽपि पटः प्रविष्ट इति भवति घटपटेक्यमित्यपि निस्तम् । प्रवेशस्य भेदसाधकत्वात् । घटे पटप्रतियोगित्वं धर्म इति पक्षे प्रतियोगित्वस्य धर्मत्वे पटस्यापि घटधर्मतापत्तिरिति यत् आपादनम्, तत् कुत्रैवं व्याप्तिग्रहणमूलकम् ? अग्रहे च व्याप्तेः आपादनमनवसर मिति सर्वं संमुग्धसंमोहनमात्रम् । अथ यदुक्तं धर्मधर्मिणोः संबन्धः स्वरूपं वा अन्यद्वा । अन्यत्वे संवन्धान्तरकल्पनादनवस्था । स्वरूपत्वे धर्नसंबन्धनरिव धर्मधर्मिणोरप्यैक्यमेव वस्तुतोऽस्तु इति -तन्न -धर्मधर्मिणोरभेदे नैल्यं घटः इति प्रयोगापत्तेः । सर्वाद्वैतश्रुतिरपि कारणेन कार्यस्य सर्वस्यैवयमेव दर्शयति ; न तु कार्थयोर्मिंथ ऐक्यम् । घटशरावयोर्भूत्पिडेनाभेदेऽपि घट एव शराव इत्यैक्यप्रतीत्यभावात् । ब्रह्माभिन्नेऽपि घटपटादौ मिथ ऐक्यस्यानुभवविरुद्धत्वात् । धर्मधयैक्यं तु न श्रुत्या कुत्राप्युच्यते । ऐक्येऽपि धर्मधर्मिभावे शौक्ल्यं धर्मी घटो धर्म इत्य् अपि जातु प्रतीतिः स्यात् — अविशेषात् । घटस्य शौक्ल्यमितिवत् शौयल्यस्य घट इत्य् अपि प्रयोगापत्तिः । “भेदव्यपदेशाच्चान्यः " इतिच आधाराधेयभावेन सूत्रे भेदसाधनमयुक्तं स्यात् । सर्वस्याभिन्नत्वे सर्वस्याभेद एव संबन्ध इति मेदसंबन्ध एव कश्चित् न स्यात्। सर्वेषां पदानां समानविभक्तिकतयैव प्रयोगापत्तिश्च ; मेददूषण-भङ्ग-प्रसाधनम् ३६३ भेदसंबन्धस्यैवाभावात् तदर्थं विभत्तयन्तरस्याप्रसक्तेः । कथं तर्हि संवन्धसंबन्धिनोरभेद इति चेत्नायं सर्वत्र घटवद्भतलमित्यादौ संयोगस्यातिरिक्तस्य संबन्धस्योपलम्भात् । तस्य संवन्ध्यभिन्नत्वे वियुक्तावस्थायामपि घटवत् भूतलमिति व्यवहारापत्तेः । यत्र तु संबन्धिनोर्द्वयोः संबन्धो नित्यः तत्रैव स्वरूपं संबन्ध इत्यतिरिक्तः संबन्धो नेष्यते । न तावता सर्वस्य सर्वाधारत्वापत्तिः । यथानुभवमाधारत्वस्याधेयत्वस्य च तत्र तत्र मिथोमिन्ने व्यवस्थितत्वात् । अतः, ‘अर्थानामभेदः स्वाभाविकः, भेदस्तु कल्पनिक’ इति न युक्तम् । अनुभवहीनस्या मेदस्य काल्पनिकतयाऽप्यप्रसक्तौ स्वाभाविकत्वस्य का प्रसक्तिः ? काल्पनिक भेदवादिनापि व्यावहारनियमहेतुः कश्चिदेषितव्य इति न कश्चिद्विशेषः । तत्र हेतौ तदधीनव्यावहारे तद्विषये च सर्वत्र वास्तवत्वमसति बाधे सिद्धम् । अद्वैतश्रुतिस्तु न बाधिकेति वक्ष्यते । अस्तूपर्युपरि संबन्धकल्पनादनवस्थैवेति चेत्काममस्तु, का नो हानिः ? अनवस्थामपि सोद्रवा वरमनैक्यं स्वीकर्तुम् ; न पुनः घटपटाद्यैक्यमत्यन्तविरुद्धम् । एवं घटीयस्य प्रतियोगित्वस्य घटाभेदेऽपि तन्निविष्टत्वमात्रेण न घटपटैक्यम् । प्रतियोगित्वेन साकमैक्यस्य विरोधात् । अन्यथा शीतोष्णयोरप्यैक्यापत्तेः । यत्तु एक एव घटः इतरनिरपेक्ष वीक्ष्यमाणः घट इति प्रतीयते । पटादिना निरूपणे च भेद इत्ययुक्तम् । निर्देशभेदबलादेव वस्तुभेदस्यावश्यकत्वादिति तन्त्र शब्दस्वभावनिबन्धनत्वान्निर्देश वैलक्षण्यस्य । छेदनस्योद्यमननिपातनात्मकव्यापाररूपत्वेऽपि काष्ठं छिनत्ति, परशुमुद्यच्छति, निपातयतीति दृष्टो व्यवहारभेदः; पुष्पाणीच्छति, पुष्पेभ्यः स्पृहयते, घटं करोति, घटे यतत इति च बहु द्रष्टव्यम् । पटस्य घटभेदरूपत्वस्वीकारमात्रेण घटभेदे घटस्य निविष्टतया पटघटैक्यापत्तिरिति को नु ब्रूयात् ? प्रतियोग्यभावयोः मिथो विरुद्धयोरैक्यागात् भेदघट्यो क्याभावे घटपटयोरनैक्यमेव हि सिद्धम् । जलं गन्धाभाववदिति प्रतीतिमादाय जलगन्धयोरैक्यम्, अद्वैतं द्वैताभाववदिति द्वैताद्वैतैक्यमित्यादि न व्युत्पन्नो वक्तुमर्हति । एवं हि सति कलहस्यैवानवकाशात्, ३६४

किमित्यद्वैती किञ्चित् कथयितुं यतते । तन्निविष्टत्वमात्रेण तदैक्यस्वीकारे नीलो घट इत्यादौ घटे नीलभेोऽप्यापद्यते । नीलाभेदस्य नीलभेदाभावस्य घटरूपत्वे तादृशभेदाभावनिविष्टस्य नीलभेदस्य घटस्य चैक्यापत्तिः भेदस्य चाधेयताव्यहारानुभवात् नीलाभिन्नो घटो नीलभिन्न इत्यापि वक्तव्यं भवेत् । भेदमनङ्गीकुर्वता चाभेदोऽपि दुर्वचः, अभेदस्य भेदज्ञानाधीनज्ञानकत्वात् । अपि च भेदमनङ्गीकुर्वन् स्वरूपं वा अन्योन्याभावो वा वैध वा पृथक्त्वं वेति विविध कल्पं कथमुद्भावयति ? एवं भेदमूल व्यवहारं कुर्वन्नेव भेदमपलपन् किं व्यवहारदशायां तदभावं मन्यते, उतान्यदा? आद्यमशक्यःन् । अन्त्यमप्रसिद्धम् । न च व्यवहारोत्तीर्णतादशायां पटो घटश्च स्तः, योरक्य तदा अध्यवसीयत । यदा च स्तः, तदा न तयोरैक्यमिति । वस्तुतोऽस्माभिर्घटादिभेदस्य पटनिष्ठस्य न पटखरूपत्वमिष्यते, किन्तु पटत्वस्वरूपत्वमेवेति च ध्येयम् । अथान्योन्याभावपक्षोक्तदूषणमपि निरस्यते । अन्योन्याभावो हि अन्योन्यतादाम्याभावः घटपटतादाम्यस्याभावः । घटपटतादात्म्यञ्च शशविषा-. णवदप्रसिद्धम् । अतस्तदभावो दुर्वच इति हि दूषणम्। अन्योन्याभाव इत्यस्य तथार्थास्वीकारात् । यादृशो ह्यभावः एकस्यान्यस्मिन्निव अन्यस्याप्येकस्मिन् नियमेन भवति, सोऽन्योन्याभावः । संसर्गाभाव सामान्यं तु नैवं भवतीति तद्वारणम् । अन्ततः घटतादन्यस्य पटे पटतादात्म्यस्य च घटेsभाव एवान्योन्याभावः । तत्र च प्रतियोगि नापसिद्धम् । एवं तादात्म्यसंसर्गावछिन्नघटनिष्ठप्रतियोगिताको भावो घटान्योन्याभावः, तत्संसर्गानवच्छिन्नप्रतियोगिताकाभावश्च संसर्गाभाव इत्य् अपि प्रसिद्धमेव संसर्गाभावान्योन्याभाववैलक्षण्यम् । अन्योन्यप्रतियोगिको भावः अन्योन्याभावः । ’ एक एव भेदः घटप्रतियोयिकः सन् पटानुयोगिकः, पटप्रतियोगिकः सन् घटानुको गिकः । संसर्गाभावे तु नैवं विनिमय’ वैलक्षण्योक्तावपि न दोषः । न च तदा एकस्मिन् भेदे घटप्रतियोगिकत्वघटानुयोगिकत्व गेः सत्त्वात् घटो घटाद्भिन्न मेददूषण-भङ्ग-प्रसाधनम् ३६५ इति प्रयोगापत्तिः; घटप्रतियोगिकत्वावच्छिन्न भेद निरूपिता धिकरणतयाः घटेऽनङ्गीकारेणादोषात् । एवं घटे पटत्वाभावस्य चैक्यस्वीकारात् अन्योन्याभाव एव मुखान्तरेण संसर्गाभावोऽपि । ननु पटत्वे वर्तमानो घटत्वाभावः पटत्वस्वरूपः । एवञ्च घटत्वाभावे घटत्वस्यापि निविष्टतया पटलं घटत्वस्वरूपमपि । एवञ्च घटे पटत्वनिषेधे घटत्वमपि निषिद्धं स्यादिति चेन्न –प्रविष्टत्वे ऐक्यमित्यस्य प्रागेव दूषितत्वादस्य वितण्डावादस्याप्रसक्तेः । एवं वैधर्म्यपक्षदूषणमपि परास्तम्घटे पटवैधर्म्यं यदस्ति, तलवैध पटवैधर्म्यं किञ्चित् नेष्यते चेत् तत् पटः स्यात्; इष्यते चेत्, उपर्युपरि वैधर्म्यस्वीकारात अनवस्थेति दूषणस्यायुक्तत्वात् । परप्रकाशकस्यचैतन्यस्य खप्रकाशत्ववत् घटे वैधव्यवहारस्थापकस्य पटवैधयैस्यैव स्वस्मिन्नपि सति सभवे तद्वयवहारप्रयोजकत्वस्वीकारात् । अस्तु वा घटव्यत्तचाश्रितत्वरूपधर्म एव पटवैधम्र्म्य घटत्वनिष्ठम् । आश्रितत्वञ्च तन्निरूपितायतावत्त्वम् । पारमार्थिकस्वारसिकमतुप्प्रकृतिभूतव्यवहारविषयत्वमित्यादि परोक्तं वा यथानुभवं ग्राह्यम् । ननु वैधम् घटे निविशमानं किं पटभिन्ने तत्र निविशते, उताभिने । अन्त्यमसंभवि । आद्ये मिन्नेत्युक्तो भेदः किं मिन्ने निशिते, उताभिन्ने इत्यनवस्थेति चेत्–न पूर्वमभिन्नं पश्चाद्भिन्नं भवतीति वा, पूर्व भिन्नं सत् पश्चात् भेदाश्रय इति वा अनभ्युपगमात् । वस्तुनः, तन्निष्ठस्य भेदस्य च यौगपद्यात् यावदात्मभावि त्वात् । अतो नानवस्था । अथ घटस्वरूपमेव पटभेदश्चेत्, पटस्यापि स्वरूपत्वात् पटोऽपि पट भेदरूपः स्यात् । स्वरूपविशेषः पटभेद इति चेत्, कोऽयं विशेषो नाम ? स्वरूपस्य भिन्नभिन्नत्वाच्च शक्तिग्रहो न शक्यः इति चेत्–भिन्नभिन्नस्य तत्तत्स्वरूपस्यैव भेदत्वात् । कथं शक्तिग्रह इति चेत् -अगृहीतशक्तिकश्चेत् कथं भवान् स्वरूपशब्दं व्यवहरति ? यथा भवतः, तथैव सर्वेषामिति वृथाऽयं विचारः । अद्वैत सिद्धान्तेऽप्यनुगत जातेः गोत्वादि रूपायाः नित्यायाः अनङ्गीकारात् संस्थानातिरिक्तजातौ प्रमाणाभावात् संस्थानस्य च प्रतिव्यक्तिभिन्नत्वात् कथं घटादिपदात् संगतिग्रहः ? एवं वांच ३६६

कानां घटपदरूपव्यक्तिविशेषाणामानन्त्यात् कथं सर्वासु तासु व्यक्तिषु शक्तत्वग्रहः : घकारोत्तराकारोत्तरटकारोत्तराकारत्वरूपधर्मश्च विभिन्नोत्तरत्वरूपधर्मघटितो नैकः । अतः सौसादृश्यमेव सर्वत्र शरणमिति । पृथक्त्वमिति चतुर्थः कल्पश्चात एव न पृथङ्कनिरसनीयः । सर्वमिदं शतदूषण्यां विना विस्तरं खण्डनोक्त विकल्पमनूद्य निरसनेन ज्ञापितमेव सुखग्रहणायेह विशदं व्युत्पादितम् ॥ सन्मात्रग्राहितापक्षः सत्ता त्रैविध्यवादिभिः । यथा नेष्टः, तथा भेददूषणचेति शाम्यत ॥ यद्यनिर्वाच्यतास्थित्यै यत्नः प्रत्येकखण्डने । खण्डनानिर्वाच्यतायामन्यत् सर्वमखण्डितम् ॥ खण्डनं खण्डनग्रन्थखण्डिनां खाद्यमेव यत् । अत एव तथा नाम तस्य दैववशैः कृतम् ॥ इति खण्डनखण्डखाद्यकृत्याः कुटिलाया इह शब्दतोऽर्थतश्च । हतसौगतसौहृदोत्थहर्षोद्गलिताया गति-भङ्गदिग् विभाव्या ॥ अथ शतभूषण्याम्, “सत्त्वाच्या परस्य " इति सूत्रभामत्यादिकं भेदस्य कल्पितत्वोपपादकमुद्भूतं विचार्यते । वस्तुतः सूत्रमिदमद्वैतवादखण्डनार्थं प्रवृत्तम् । कथं कार्यकारणयोरनन्यत्वम्, कारणस्य सत्यत्वात्, कार्यस्य च मिथ्यात्वादित्याशङ्कायाम्, परस्य अकार्यस्यापि कारणवत् सत्त्वात् वस्तुतः सद्भा वात् मिथ्यात्वाभावात् नानन्यत्वहानिरिति । सूत्रभाष्ये कारणस्य ब्रह्मण इव कार्यस्यापि त्रिषु कालेषु सत्यं भाषित्वा, “एकञ्च पुनः सत्त्वम् " इत्युक्तम् । तदर्थ उच्यते भामत्याम्, “ कार्यकारणयोः सत्त्वस्य एकत्वात् अभिन्नसत्त्वानन्यत्वात् कार्यकारणे अप्यभिने " इति । अतेंद वक्तव्यम् –कारणस्य ब्रह्मणः त्रिषु कालेषु सत्त्ववत् कार्यस्य त्रिषु कालेषु सत्त्वं भ. प्योक्तमयुक्तम् । कार्यस्य नाशप्रागभावयोरानुभविकत्वात् इति शङ्का अवतरति । अत एव कार्यकारणयोः भेदशङ्कायाम् — कार्यकारणयोरेकद्रव्यत्वस्वीकारात् कार्यात्मना त्रैकालि मेददूषण-भङ्ग-प्रसाधनम् ३६७ कत्वाभावेऽपि कारणात्मना तथात्वमिष्यत इति प्रदश्य, अत एव कारणसत्त्वं कार्यसत्त्वमिति पृथग्भूतस्य सत्त्वद्वयस्य न त्रैकालिकत्वमुच्यतेऽस्माभिः, येन कार्यसत्ता न त्रैकालिकीति शङ्का स्यात् । कारणात्मनैव कालत्रयसत्त्वकथनात् एकमेव सत्त्वं त्रैकालिकमिति न दोष इत्युच्यत इति तावदृजुः शाङ्करभाष्याशयः । तत्र भामतीकारेण यदुक्तम् अभिन्नसत्त्वानन्यत्वात् कार्यकारणयोरभेद इति तदनन्वितम् । सत्त्वस्य धर्मत्वात् कार्यकारणयोश्च धर्मित्वात् कथं सत्त्वानन्यत्वं तयोः सिद्धं कृत्वा व्यवहियत्त इति । सत्त्वं ब्रह्मेति स्वपक्षवासना तु न परैः श्रद्धेया भवति । कथञ्च धर्मस्यैकत्वे धर्मिणोरैक्यम् ? घटत्वस्यैकत्वेऽपि घटव्यक्तीनां भिन्नत्वात् । घटपटसंयोगस्यैकत्वेऽपि घटपटयोर्भेदात् । अत्र सत्त्वे कार्यकारणयोरारोपितत्वेन तद्वधतिरेकेणाभावः इति कारणमप्यारोपितं कथयन् कल्पतरुकारः, ब्रह्मणः कारणत्वस्यैव भाष्योक्तत्वात् ब्रह्मैव कल्पितं मन्यत इति विचित्रमेतत् । अथ तु शुद्धस्य ब्रह्मणः कारणत्वायोगात् अविद्याशबलितस्यैव कारणत्वात् शुद्धे शबलितं ब्रह्मप्यारोपितम् कार्यवत् इति कथञ्चित् भिर्वाहः कार्यः । ( अत्र भामती कल्पतर्वोः पाठाशुद्धिरपि परिमलतो ज्ञायते इत्यन्यदेतत् ।) द्रव्यैक्यनिबन्धनं कार्यकारणैक्यमेव प्रकृताधिकरणार्थः ; न तु कार्यकारणयोः सत्त्वमेकं स्वीकृत्य तदैक्यमूलक कार्यकारणैक्यम् । एवं हि सति सत्त्वव्यतिरेकेणान्यस्याभाव इति भामत्यभिमतः प्रकृताधिकरणार्थः स्यात् ; न तु कारणव्यतिरेकेण ‘कार्यस्याभाव इति । न च कारणानन्यत्वं कार्यस्येति वाक्यस्य निर्विशेषसत्त्वातिरिक्तं किमपि नास्तीत्यर्थं कश्चित् स्वरसमनुमन्वीतेति ध्येयम् । अथ भामतीकारः, कार्यकारणयोर्भेदात् सत्त्वस्यापि भेदो वा सत्त्वाभिन्नत्वात् कार्यकारणयोरेवाभेदो वेत्यत्र किं विनिगमकंमिति विचारयन्, “वयं तु पश्याम” इत्यादिना अभेदं वास्तवं भेदञ्च कल्पितमुपपादयति । तत्र भेदग्रहस्य प्रतियोगिग्रह सापेक्षत्वात् मेदग्रहणमन्तरेण च प्रतियोगिग्रहणानुपपत्तेः अन्योन्याश्रयापत्तेः भेदः कल्पितः इति वचनमभेदेऽपि तुल्यम् । तथा हिभेदग्रहस्य न क्रवलं प्रतियोग्यपेक्षत्वम् ; अपि तु अनुयोग्यपेक्षत्वमपि । ૩૬૮

। एवमभेदग्रहोऽपि प्रतिसंबन्धिद्वयसापेक्षः । अयमस्मात् भिन्न इतिवत् अयमस्मादभिन्न इत्येव व्यवहारात् । अभेदश्च भेदाभावः । तत्त्रेदमर्थप्रतियोगिकभेदं कचिन्निर्धार्य तदभाव इह ग्राह्य इति तत्रापि वस्त्वन्तरज्ञानसापेक्षत्वमपरिहार्यम् । न चाभेदः तादात्म्यम्, तद्वृत्तिधर्म एव । अतो न भेदस्य घटकतेति वाच्यम् अयमस्मादभिन्न इति पञ्चम्यन्तव्यवहारस्य भेदपदार्थघटनविरहेऽनुपपत्तेः । सूत्रकारश्च, “तदनत्यत्व” मिति अन्यपदं घटितवानस्ति । यदि च भेदस्याभेदत्वेन न ग्रहणम् ; किं तु वस्तुस्वरूपेण ; अतो न प्रतियोग्याद्यपेक्षेत्युच्यते तर्हि भेदोऽपि पटभेदादिरूपः घटादौ घटत्वादिरूपेणैव गृह्यत इति मास्त्विापि प्रतियोग्यपेक्षा । किञ्च भेदस्यान्योन्याश्रयात् ग्रहणायोगात् भेदः कल्पित इति भवतोच्यते । भेदं तु सर्वे व गृह्णीमः ; व्यवहरामश्च । यद्यन्योन्याश्रयः स्यात् कथं गृहीतः स्यात् ? अतः कार्यनिष्पत्तेर्निस्संशयत्वे नान्योन्याश्रयदोषस्येहाभाव एव निर्धार्य इति न भेदस्य काल्पनिकत्वम् 1 भेदस्य कल्पनाऽपि हि भ्रान्तिरूपं ज्ञानमन्योन्याश्रयदोपे जाग्रति भेदत्वेन कथमुदियात् ? कथमन्योन्याश्रयस्याभाव इति चेत् — श्रूयताम् । भेदस्य भेदत्वेन ज्ञान एव प्रतियोग्यपेक्षा; प्रतियोगिनश्च प्रतियोगित्वेन ज्ञान एव भेदापेक्षा । यदा तु वस्तुतः प्रतियोगिभूतं वस्तु बुद्धयारूढम् भेदाश्रयः पदार्थश्च तथातदा तत्प्रतियोगिक भेदः तादृशभेदत्वेनानुयोगिनि विशिष्टरूपेण गृह्यत इत्यनुभवातु नैवान्योन्याश्रय इति । A एतदधिकरणारम्भे च भामत्याम्, “न खल्वनन्यत्वमित्यभेदं ब्रूमः । किं तु भेदं व्यासेधामः” इति लेखनं स्मरन् कल्पतरुरिहाह -" न हि सत्त्वेन कार्यकारणयोः साक्षादभेदं ब्रूमः । किन्तु तत्र तयोरारोपितत्वेन तद्व्यतिरेकेणाभावम् " इति । एवञ्च भेदेनाभावः इहाभेद इति कल्पितं भवति । अस्तु तावदिह विग्रह सौष्ठवम् । एवञ्च ‘अभेदग्रहस्य निरपेक्षतया अन्योन्याश्रयानापत्तेः अभेदग्रहोपादाना भेदकल्पना’ इति भामत्युक्तं कथं घटताम् ? अमेदस्यापि तदनिष्टत्वात् भेदघटितत्वाच्च । अभेदग्रहोपादाना भेदकल्पना" इति च भेददूषण भङ्ग प्रसाधनम् ३६९ वार्तम् । अभेदग्रहे प्रतिबन्धके स्थिते भेदकल्पनायोगात् । एकप्रतियोगिका भेदज्ञानमन्यप्रतियोगिक भेदकल्पनाकारणमिति चेत् — घटे घटप्रतियोगिकाभेदग्रहे पटप्रतियोगिक भेदप्रमाया एव संभवेन भेदज्ञानस्य कल्पनारूपत्वे प्रमाणाभावः । एतेन स्वरूपग्रह एवा भेदग्रह इत्युच्यते । ततो भेदकल्पनेत्यपि निरस्तम् । कल्पनात्वनियामकस्याभावात् । एवमभेदग्रहस्योपादानत्वमपि न भवति । भ्रान्ति प्रति प्रमाया उपादानत्वस्य अद्वैतिभिरप्यनुक्तेः । अतो भामत्युक्त सर्वमनन्वितम् । कल्पतरौ तु, “भेदः कार्यकारणलक्षणः, सत्त्वम् अभेदः" इति व्याख्या क्रियते । एवं तर्हि भेदग्रहस्य प्रतियोग्यपेक्षा कथम् ? ईश कल्पतरुमनूद्य च शतभूषणी परिमलोक्तं सर्व स्वोक्तिभतया विलिखति । तत्रावधाने क्रियमाणे मूलोक्तमसमञ्जसमित्येव परिमलकृता तत्राविष्कृतमिति सिद्धयेत् ॥ यत्तु परिमले समाधानम् खप्नेन्द्रजालादिमूलप्रासादनगरादीनामिव व्यावहारिकस्य भेदग्रहस्य कारणकलापसापेक्षत्वाभावान्नानुपपत्तिरद्वैतमत इति तदिदमयुक्तम् । वास्तवकारणकलापसापेक्षत्वं कुत्र वा स्वीकृतमद्वैतिभिः ? कुत्राप्यस्वीकारे च कार्यकारणभावस्यैवासिद्धिरिति कथं कारणकलापसापेक्षत्ववर्णनम् ? एवं निश्चिन्वानेन चाद्वैतिना भोजनार्थमन्नमिक्षण पचनादौ न व्यापरितव्यम् । स्वक्रियाव्याघातरूपे दोषे आपाद्वितेऽपि यदि कारणमनभ्युपयन्नेव कारण संविधाने सर्वत्र प्रयतते, कथमयं स्वहृदयविसंवादेनैव व्यवहरमाणः सम्यश्च पन्थानमानीतो भविष्यतीति नूनमुपेक्षणीय एवेदृक्ष इत्यलमधिकेन ॥ निर्वोढुं व्यवहारमेभिरखिलैर्भेदो न निर्धूयते गृह्णन्तोऽपि गदन्ति कल्पनशतव्यमा इमं दुर्ब्रहम् । ब्रह्माप्येवमुदीरयन्त्यभिमतं यद्दुर्ग्रहं दुर्वचं भेदो ब्रह्मसमोऽस्तु तंत्र यदि वा ब्रह्मास्तु भेदोपमम् ॥ 47 श्रीः