जयन्ति सन्तः सन्सात्रग्राहिणोऽसद्वदासिनः । अध्यक्षागमसंवेद्यस द्विशेषानपह्नवात् ॥ प्रत्यक्षं सन्मात्रग्राहीति वादिनः प्रष्टव्याः । प्रत्यक्षमिदं चैतन्यरूपं ब्रह्मैव वा अन्तःकरणवृत्तिर्वा । आद्ये तस्य न सन्मात्रविषयकत्वम्, स्वस्य स्वविषयत्वायोगात् । ब्रह्मणो वृत्तिव्याप्यत्वमेव, न फलव्याप्यत्वमिति पौनःपुन्येन लेखनाच्च । चैतन्यस्येन्द्रियाजन्यतया ऐन्द्रियकप्रत्यक्षं सन्मात्रग्राहीत्युक्तेरयोगाच्च । नान्त्यः, वृत्तिरियं ब्रह्मविषयिणी तत्त्वमसिवाक्यार्थ प्रत्यक्षसमानाकारेति लौकिकैतद्वृत्तिबलादेव मुक्तिप्रसङ्गात् । तथाच उपरि विकल्पाद्युत्पत्तिरेव न भवेत्; अविद्याया एव निवृत्तेः । अनिवृत्तौ अखण्डाकारशाब्दसाक्षात्कारादपि तुल्ययोगक्षेमान्न तन्निवृत्तिः स्यात् । अप्रामाण्यज्ञानास्कन्दितत्वात् न निवर्तत इति चेत् — तस्याप्रामाण्यज्ञानस्याकार उच्यताम् । अप्रामाण्यं प्रामाण्याभावः, तद्वति तत्प्रकारकत्वरूपप्रामाण्याभावश्चेत्-तत्त्वमसिवाक्यार्थज्ञानस्याप्यप्रामाण्यापत्तिः ; तत्र प्रकाराभावात् । तदभाववति तत्प्रकारकत्वरूपं यदप्रामाण्यम्, तज्ज्ञानास्कन्दितत्वं दुर्वचम् । सन्मात्रमहिज्ञाने किञ्चित्प्रकारकत्वाभावात् । अद्वितीयत्वाद्यवगाहित्वाभावादविद्यानिवर्तकत्वं नास्तीति चेत् — तत्त्वमसीतिवाक्यजन्याखण्ड कारप्रत्यक्षेऽपि तुल्यमेतत् । अतः सन्मात्रग्राहि प्रत्यक्षपक्षे संसारानुवृत्तिः नैव प्रसजेदिति वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः । प्रत्यक्षविरोधस्य शास्त्रे स्वीकारो मा भूदिति हि शास्त्रप्रत्यक्षयोरेवं समानविषयकत्वं साध्यते । तथा च शास्त्रस्य वैयर्थ्यमेव ; संसारानुवृत्त्यभावप्रसङ्गश्चेति । कथश्च, “पराश्चि खानि व्यतृणत् स्वयम्भूः तस्मात् पराङ् पश्यति नान्तरात्मन्” इति श्रुतिविरोधेन सन्मात्रस्येन्द्रियग्राह्यत्व मिष्यताम् ॥ ; सन्मात्र प्रत्यक्ष-भङ्ग प्रसाधनम्
३४७ किश्च रज्ज्वादौ अहिभूदलनाम्बुधारादिवत् घटः सन् पटः सन् इत्यत्र सति घटादिप्रतीतिरिति घटादिर्मिथ्येति तावदस्तु । घटादौ प्रत्यक्षविषयत्वं कथं वार्यते । न हि अहिभूदलनादि तत्राप्रत्यक्षम् । सर्प साक्षात्करोमीत्यादिप्रतीतिनिर्वाहार्थमेव हि प्रातिभासिक पदार्थः स्वीकृतः । यदि तत्र रज्जुविषयिणी अन्तःकरणवृत्तिरन्या, अह्यादिविषयिणी अविद्यावृत्तिरन्या, तथेहापीति सन्मातविषयकवृत्तौ न घटादेर्भानमित्युच्यते तन्न — प्रातिभासिकानामिव घटादेरपि साक्षिभास्यत्वप्रसङ्गात् । सर्वस्यापि प्रातिभासिकतुल्यमारोप्यमाणतया अविद्यावृत्ते. रेव सर्वत्र सुवचतया सन्मात्रस्य च स्वत एव प्रकाशमानतया तदतिरिक्तान्तःकरणवृत्तिकल्पन एव प्रमाणाभावाच्च । घटादीनां चाक्षुषत्वाद्यस्वीकारे चक्षुरादीन्द्रियकपकल्प्रमाणाभावाश्च । रूपादिग्रहणव्यवस्था निबन्धनं हि चक्षुरादिविभिन्नेन्द्रियकल्पनम् । ग्राह्यार्थवैलक्षण्याभावे च किमिति विभिन्नेन्द्रिय कल्पनेति । घटादिभ्रमस्य च तत्तत्कालभाविप्राचीनवासनावैचित्र्यायतत्वस्यैव वक्तव्यतया घटचक्षुस्सन्निकर्षादेः कारणत्रकल्पनं च व्यर्थम् । अतश्चान्धबधिराद्यभावापादनं. श्री भाष्यकृतं सुस्थम् । अपि च, घटः सन्, पटः सन् इत्यादिप्रतीतेः, अयमहिः, इदं भूदलनमिति प्रतीतितुयत्वं दुर्वचम् । यद्देशकालावच्छिन्नरज्जुविशेषे अहिबुद्धिः तद्देशाद्यवच्छिन्ने तस्मिन्नेव हि भूदलनबुद्धिरिपि । इह त्वेकत्र सति घटबुद्धिः, अन्यत्र कापि सति पटबुद्धिरिति वैलक्षण्यम् । एवञ्च घटः सन् इति प्रतीते सद्वस्तुन्येव यदि, ‘पटः सन्नयम्, न तु घट’ इति बाधबुद्धिः स्यात्, घटो बाधितो भवेत् ; एवंभूतबुद्धयन्तरेण पटस्यापि क्रमात् बाध्यत्वमिति च स्यात् । न त्वेवम् ॥ यदि घटस्य पट भेदरूपत्वात् घटचक्षुः सन्निकर्षकाले च पटरूपप्रतियोगिज्ञानस्याभावात् न घटस्य प्रत्यक्षविषयत्वमिति – तर्हि सन्मात्रप्रत्यक्षमपि न भविष्यति । सन्मात्रस्य नेनि नेतीति ग्राह्यस्य सर्वव्यावहारिकप्रातिभासिक पदार्थभेदरूपतया भेदप्रतियोगिनां सर्वेषां ज्ञानं विना तद्ग्रहणायोगात् । शुक्तौ इद ૪૮
रजतमिति बुद्धौ जातायां नेदं रजतमिति बाधबुद्धौ चोत्पन्नायां तत्र पूर्वगृहीतप्रातिभासिकरजतभेदस्य शुक्तौ गृह्यमाणस्य प्रातिभासिकं रजतं प्रतियोगि । इह तु सन्मात्रे सर्वस्य प्रपञ्चस्याध्यस्ततया व्यावहारिकमपि सन्मात्ररूपभेदप्रतियोगि । तज्ज्ञानाभावाश्च भेदग्रहणायोगात् भेदात्मकं सन्मात्रं कथं गृह्येत । अथ भेदस्य भेदत्वेन ग्रहणे कर्तव्य एव प्रतियोग्यपेक्षेति चेत्-सिद्धं तर्हि घटादेरपि प्रथमत एव प्रत्यक्षम् । यद्येवं घटादिकं प्रथमं न गृह्यते, तर्हि पश्चाद्वा कथं गृह्यते । यदि पश्चादपि न गृह्यते ? तदा घटोऽस्ति पटोऽस्तीत्यादिप्रतीतीनां वैलक्षण्यं न स्यात् । अश्वादिविशेषज्ञानाभावात् अश्वार्थित्वादिकमपि न स्यात् । सन्मात्र ज्ञानस्याश्वार्थित्वापादकत्वमसंभावितम् । संभवे च महिषोऽस्तीति प्रतीरावप्यपेक्षितसन्मात्रज्ञानसत्त्वात् अश्वार्थी प्रवर्तेत । चाक्षुषश्रावणादिप्रत्यक्षसामान्यस्य समानविषयकत्वादन्धबधिराद्यभावश्च प्रसज्यते । ननु प्रथमप्रत्यक्षे घटादेरविषयत्वेऽपि तदनन्तरं कारणान्तराधीनं घटादिज्ञानं जातम् । तस्यायमभिलापः, घटोऽस्तीति । तदेव तु ज्ञानं ज्ञानान्तर विलक्षणमिच्छाप्रवृत्त्यादिविशेषहेतुरिति न दोष इति चेन्न तज्ज्ञानं भ्रान्तिरभ्रान्तिर्वा ? उभयत्रापि तज्जनकं किम् ? भ्रान्तिश्चेत् — कुत्र तद्विषयकप्रमा ? सर्वत्र भ्रान्तेः प्रमापूर्वकत्वात् । वास्तवरजतप्रमाधी नतत्स्मृत्यभावे रजतश्रमादर्शनात् । पूर्वपूर्वभ्रान्त्यधीनवासनवशादुपर्युपरि भ्रान्तिप्रादुर्भाव इति चेत् — अस्तु’ नाम । तद्वासनोद्बोधकं किम् ? सर्वस्यापि प्रत्यक्षस्य सन्मात्रविषयकतया प्रत्यक्षवैचित्र्यमूलको हि विचित्रवासनोद्बोधो दुर्वचः । एवञ्च अश्वोऽस्तीति भ्रान्तिप्रयोजकसन्मात्रप्रत्यक्षकाले महिषोऽस्तीति भ्रान्तिरेव किं न जायेत ? अनुमानादीनां प्रत्यक्षमूलकत्वात् प्रत्यक्षे यावत् वैलक्षण्यं नेष्यते, तावत् प्रमाणान्तराधीनमुद्बोधवैलक्षण्यमपि दुर्मणम् । अत एवानुमानादिजन्या घटादिभ्रान्तिः न तु स्मृतिरूपेत्यपि वक्तुमशक्यम् । प्रत्यक्षवैलक्षण्याभावे घटानुम/पकविलक्षणहेतुज्ञानमेवेदानीमित्यत्र नियामकाभावेन घटोऽस्तीत्यनुमानस्थाने पटोऽस्ती सन्मानप्रत्यभिज-प्रसाधनम् ૨૪ त्यप्यनुंमानसंभवात् । अविशेषात् सर्वं ज्ञानं सर्वविषयक वा भवेत् । तत्रानौचित्ये चिन्त्यमाने च सर्व पुनः सन्मात्रविषयकमेव भवेत् । सर्वविषकत्वे च अधार्थी महिषदर्शनेऽपि प्रवर्तेत । सन्मात्राधिकविषयकज्ञानस्यैवाभावे च सर्वलोकानुभूयमान सर्वव्यवहारबाघप्रसङ्गः । अनुभूयमानस्य व्यवहारस्य कथमप्यनिर्वाहे च तथा निर्वहणासमर्थोपन्यस्यमानं मतमखिलैरप्यनादरणीयमेव स्यात् । तस्मात् सुष्ठुपपन्नं श्रीभाष्यकृतं सन्मात्रविषयकत्वे प्रत्यक्षस्य घटोऽस्तीत्यादिप्रतीत्यवैलक्षण्य अश्वार्थिमहि षदर्शना निवृत्ति प्रतिनियतघटादि शब्दमात्रा स्मरणाद्यापादनम् ॥ F एतेन अनुपलब्धिरूपाभावप्रमाणेन वा अनुमानेन वा पटादिभेदरूप घटादिज्ञानं भवितुमर्हति । प्रत्यक्षस्य प्रतियोगितदभावोभयविषयकत्वायोगेऽपि प्रमाणान्तरस्यानेकविषयकत्वसंभवात् अनुमाने पक्षसाध्याद्यनेकविषयकत्व दर्शनादिति निरस्तम् । अनुपलब्ध्यनुमानादिग्रायाणां तत्तत्पदार्थानामपि तत्तदितर प्रतियोगिक भेदरूपतया प्रतियोगिग्रहणाभावे तत्तद्द्महणायोगात । पर्वतो वह्निमानित्यनुमित्यां पर्वतेतरेषां प्रतियोगिनां मानस्यानुभवविरुद्धत्वेन तद्भेदरूपपर्वतग्रहणायोगात् । किञ्च घटोऽस्तीतिज्ञानं घटानुमितिरूपञ्चेत्, तदा पटरूपप्रतियोगिमात्रज्ञानमस्ति उत घटेतर सर्वज्ञानम् । नाद्यः ; पटमात्रज्ञाने पटभेदस्य कुड्येऽपि सत्त्वेन कुड्यमस्तीत्य कारकमेव तत् ज्ञानं किं न स्यात् । घटेतरसर्व पदार्थ रूपप्रतियोगि सामान्यज्ञानञ्च न कस्यापीति तद्भेदरूपघटज्ञानं नैवोदेष्यति । न च तावज्ज्ञानमसर्वज्ञस्य सम्भावितम् । अनुपलब्धिजन्यञ्चाभावज्ञानमधिकरणप्रतियोग्युभयाविषयकं न दृष्टम् । अधिकरणस्याधिकरणतया प्रतियोगिनश्च प्रतियोगितया भानं विना अभावज्ञानमनुपलब्धिप्रयोज्यं न दृश्यते इति घटोऽस्तीत्यनुभवे तत्तदभानात नानुपलब्धिः कारणं भवितुमर्हति । किश्च अनुपलब्ध्यनुमानादिकं भेदग्राहिप्रमाणं भेदरूपघटादिना सह अस्तित्वं गृह्णाति, न वा ? अन्त्ये घटादिग्रहेऽपि सन्मात्राग्रहात् सन्मात्रस्या-३५० परार्थभूषणे नुवर्तमानत्वं घटादेर्व्यावर्तमानत्वमिति वैलक्षण्यं न स्यात् । व्यावर्तमानतया सन्मात्रमपि मिथ्या भवेत् । आद्ये, सन्मात्रग्राहि तत् प्रमाणं तदैव प्रतियोगिग्रहणसापेक्ष भेदग्रहरूपं कथं स्यात् ? पश्चादेव भेदग्राहीति चेत्विरम्यव्यापारापत्तिः । क्षणिकत्वादनुपलब्धिजन्यज्ञानस्य पश्चात् ग्राहकत्वासम्भवश्च । अनुपलब्धिः सन्मात्रमहणार्थं प्रवर्तते । ततः प्रागेव प्रतियोगिग्रहादिसामग्रीमेलनात् शक्नोत्येव तदैव भेदमपि ग्रहीतुमिति चेत्-एवमिन्द्रियमपि पूर्वजातप्रतियोगिग्रहादिसापेक्ष सत् सन्मात्रं भेदञ्च स्वावसरे गृहणीयात् । तथाच पटादौ प्रत्यक्षाभिमानमात्रमिति न युक्तम् ॥
यत्तु घटत्वं पटादिव्यावृत्तिरेव, न तु जातिरतिरिक्तः पदार्थ इतितत् सत्यम् । तावता अवयवसंस्थानविशेषरूपभावपदार्थातिरिक्तेयं पटादि व्यावृत्तिरित्यत्र न प्रमाणम् । भावातिरिक्ताभावानङ्गीकारात् । अभावस्यातिरिक्तत्वेऽपि स्वरूपतस्तद्भाने प्रतियोग्यपेक्षा नास्तीत्येव स्वीकर्तव्यम् । अन्यथा पटादिकमजानता घटाद्यपि दुर्ग्रहं स्यात् । एकैकस्यापि पुरुषस्य सर्वज्ञत्वाभावेन परिमितज्ञानमपि न स्यात् । सर्वप्रतियोगिज्ञानाभावेन ज्ञानोदयायोगात् ॥ भेदः स्वरूपं धर्मो वेति विकल्प्य घटस्य पटभेदरूपत्वं निराकुर्वता च घटः पटादिव्यावृत्तिरेवेति दुर्वचम् । पूर्वापरविरुद्धं तदा तदा भातमवसरानुसारेणोत्सवा विजयाभिलाषो न तत्त्वस्थापनाय प्रभवति । तत् सिद्धं घटोsस्तीत्यादौ विषयादिभेदो दुरुपपाद इति । एवं प्रत्यक्षवेद्यं चेत् ब्रह्म, तत्र शास्त्रमप्रमाणं स्यात् । यदुच्यतेब्रह्मविषयकत्वे समानेऽपि आनन्दात्मना ज्ञानाभावात् अस्ति वैलक्षण्यम् । अत एव घटादिभ्रमोऽपीति — तन्न—– लोकप्रसिद्धे सन्मात्रे आनन्दत्वरूपधर्मविशेषप्रतिपादकं चेत् शास्त्रम्, तर्हि निर्विशेषप्रतिपादकत्वं न स्यात् । एतेन अखण्डब्रह्म लोकतो न सिद्धमित्यपि निरस्तम् । सत्मात्रग्रहणमेव हाखण्डग्रहणम् । तत् कथमसिद्धमिति ॥ " न सन् सन्मात्र प्रत्यक्ष मा-प्रसाधनम् ३५१ इति श्रीगीतावचनोदा घटः सन् पटः सन् इत्यनुवर्तमानत्वात् सत् सत्यम् । व्यावर्त मानत्वात् घटादिर्मिथ्येति च न युक्तम् । घटोऽसन् इत्यत्र घटस्यानुवर्तमानत्वात् सतो व्यावर्तमानत्वाच्च विपरिवर्तप्रसङ्गादिति शतदूषणयुक्तोपरि, " नासतो विद्यते भावो नाभावो विद्यते सतः " हरणेन किमप्यनन्विनमेवोच्यते । गीतावचनं तु पूर्वापर सन्दर्भविरोधात्, ‘घटादेरसतः अनुवृत्तिर्नास्ति, सतः व्यावृत्तिर्नास्ति’ इत्यर्थकं न भवतीति विमृश्य, सांख्यादिमतसत्कार्यवादपरत्वमप्यसङ्गतमिति चालोच्य शाङ्करभाष्याद्यर्थमुपेक्ष्य प्रकृतयोर्देहात्मनोर्मध्ये देहस्य न स्थैर्यम्, आत्मनो न विनाश इत्येवम्परं श्रीगीताभाष्य एव व्याख्यातम् । घटोऽसन्, पटोऽसन्, पटो नष्टः इत्यादौ सतो व्यावृत्तेः स्पष्टतया प्रसज्जितस्य परिहारस्तावन्न लक्ष्यते । ननु इति नञर्थविशेषणतया सतोऽनुवृत्तिरस्त्येवेति चेत्–तर्हि घटोऽपि सर्वत्रानुवर्तमान एव । घटः सन्’ इत्यादौ घटानुवृत्तिर्निर्विवादा । पटः सन् ’ इत्यादावपि तदनुवृत्तिरस्ति । पटस्य घटादिभेदरूपतया पटादितत्तत्प्रतीतौ प्रतियोगिविधया घटादेर्भानस्याप्यावश्यकत्वात् । न च पटोऽस्तीत्यत्र पटेतरभेदास्तित्वग्रहणमेव परमार्थः । तत्र घटस्य पटेतरत्वेन प्रवेशेऽपि न घटत्वेन विशिष्य प्रवेश इति वाच्यम्-तथा सति तंत्र इतरत्वप्रतियोगितया भासमानः पटः केन रूपेण गृह्यत इति विवेचनीयत्वात् । तत्र पटत्वं जातिरिति चेत् — उक्तिविरोधः । प्रागेव च तद्युक्तं स्वीकर्तुम् । तस्य पुनस्तदितर भेदरूपत्वोक्तौ आत्मश्रयादिदोषश्च । एवं पटग्रहणं भेदग्रहणरूपमिति प्रतियोगिग्रहणानन्तरं तद्भानमेव किल भवदिष्टम् । एवच पटादिप्रतीतिसामान्ये घटस्य प्रतियोगिविधया, घटोऽस्तीत्यत्र साक्षाच घटस्य भानात् सर्वत्रानुवृत्तिरेव घटस्येति न मिध्यात्वं स्यात् । 1 एवं घटः पृथिवी, घटो द्रव्यम्, घटो मृत्, घटः सन् इत्यादौ व्यावर्तमानतया पृथिव्यादेर्मिथ्यात्वं घटस्य सत्यत्वं च स्यात् । एवं रज्जुभूदरनाम्बुधाराः पृथक् पृथक् गृहीत्वा, अयं सर्पः, अयं सर्पः, अयं सर्प इति ग्रहे ३५२
इदमर्थानां भिन्नतया व्यावर्तमानत्वात् सर्वत्र सर्पानुवृत्तिदर्शनात् तेषां मिथ्यात्वं सर्पसत्यत्वं चापद्यते । तत्र धर्मिणां भिन्नभिन्नत्वमिति चेत् -घटः सन् पटः सन् इत्यत्रापि तुल्यम् । न च सर्वप्रतीत्यनुवृत्तिः सतो भवद्भिरिष्यते । ‘नीलो घटः ‘, ’ सत्यं ज्ञानमनन्तं ब्रह्म’ इति समानाधिकरणवाक्येषु अस्तीत्यध्याहारे अखण्डवस्तुबोधे क्लेशं विमृश्य तत्त्वमसीत्यादौ धातुश्रवणस्थले कथञ्चित् क्लेश सहनेऽप्यन्यत्र, “प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्" इति न्यायं मनसिकृत्य, अध्याहारस्यानावश्यकत्वमुक्त्वा नीलत्व घटत्वसत्यत्वादिधर्माणाञ्च त्यागेन शुद्धधर्मिमात्रबोधस्य वर्णितत्वात् । एवञ्च सदनुवृत्तिं विना घटाद्यनुवृत्तिरस्तीति सन्मिथ्या स्यात् । एवमत्रास्तीत्यध्याहारस्यानिष्टौ घटः पटो नेन्यत्रापि तदनिष्टिरेवेति सद्व्यावृत्तिः घटाद्यनुवृत्तिश्च भाव्ये । एवमस्तीत्यनेन सद्रूपब्रह्मबोधं प्रतियतां पक्षे, ’ तत्त्वमसी’ त्यत्र तत्पदमपि व्यर्थम् । ’ त्वमसी’ त्यस्यैव ’ सदेवेदमग्र आसीत् ’ इति प्रक्रान्तसन्मात्र जीवस्वरूपैक्यप्रतिपादनसमर्थत्वात् । एवं घट आसीत्, घटो भविष्यतीत्यादावपि सदननुवृत्तिर्भाव्या । न हि तत्रासीदिति धातूक्तं सन्मात्रं भवितुमर्हति भूतादिकालानन्वयात् अन्यादृशसत्ताया एव वक्तव्यत्वात् । तत्रापि सन्मात्रमहणे, ’ सदेव सोम्येदमग्र आसीत्’ इत्यत्रापि धातुनैव तादृशसन्मात्रस्योक्ततया सदिति व्यर्थम् । तथा, आसीत्, भविष्यतीत्यादौ धात्वर्थे कालानन्वयेनान्यत्र तदन्वयस्वीकारे पचति, पक्ष्यति, अपाक्षीदित्यादौ क्लृप्तव्यवस्था भङ्गप्रसङ्गः । धातोः क्रियावाचित्वं साध्यावस्थापन्नार्थवा चित्वमनुशासनाभिमतञ्च त्यक्तव्यं स्यात् । एवञ्च धातुलक्षणाभावेनाधातुत्वात् तिविभक्त्यादिप्रत्ययानामसंभवः । बुभूषतीत्यादौ इच्छाद्यर्थान्वयासंभवश्च । एवं घटो जलं धारयतीत्येवं क्रियान्तरयोगेऽपि सदननुवृत्तिरनुसन्धेया । तस्मादनुवर्तमानत्वेन सतः सत्यत्वं दुम्पपादम् । विशिष्य चानुवृत्तिव्यावृत्तिस्वरूपे व्यावर्तमानत्वानुमान-भङ्गसाधने शोधयिष्येते इत्यलमत्र । एवं दृश्यत्वविषयेऽपि । प्रागपीदृशं दृश्यत्वं शोधितमेव सन्मात्र प्रत्यक्ष-भङ्ग-प्रसाधनम् ३५३ यस्तुसर्वप्रत्ययवे च ब्रह्मरूपे व्यवस्थिते । प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते ॥" इति भवन्मतश्लोकः, स नावश्यम्, ‘सन्मात्रस्य प्रत्यक्षविषयत्वम् । न तु घटादेः ’ इत्यस्यापि साधकः । घटादिना सह अस्तीति सद्रूप झग्रहणपक्षेऽपि तच्छलोक सामञ्जस्यात् । ब्रह्मणि प्रत्यक्षविदिते सिद्धे शास्त्रयैयर्थ्यमित्याशय निष्प्रपञ्चत्वरूपाद्वितीयत्वांशस्य मानान्तरानवसितत्वात् तत्प्रतिपादनेन शास्त्रं सार्थमिति तदर्थात् । एतेन’प्रत्यक्षं सद्वितीयं ब्रह्म ग्राहयति । अनुमानादिना च द्वितीयस्य मिथ्यात्वं वस्तुतोऽभावो न सिद्ध्येत् । अ मानान्तराप्राप्ततत्परं शास्त्रम्’ इति सिद्ध्या प्रत्युप सन्मातग्राहित्वपक्षप्रतिकूल एवायं श्लोक इत्य् अपि स्यात् । अस्तु यथाकथञ्चिद । लोकः किं तस्याप्रमाणस्यार्थशोधनेन ॥ प्रत्यक्षस्य सन्मात्रग्रहित्वे अश्वार्थिनो महिषदर्शने निवृत्तिन स्यादिति वर्णयतः श्रीभाष्यात्, ‘घटपटादयः परस्परमभिन्नाः सद्बुद्धिविषयत्वा’ दित्यर्थः कथं लभ्यते ? तत् अबद्धं कृत्वा कुचोद्योद्योगः अनवसरः । एवमर्थश्च प्रत्यक्षवाधित इति कथनमप्यसमञ्जसम् । प्रत्यक्षस्य सन्मात्रविषयकत्वसमर्थकैः घटपटादिभेदस्य प्रत्यक्षाविषयतया प्रत्यक्षबाधितत्ववर्णनायोगात् । अद्वैतिमते घटपटादीनां सति कल्पितत्वात् सत्यमिथ्याभूतयोरैक्यस्याप्रक्कतया, “ घटाभिन्नसदभिन्नः पटः" इति बुद्धिपूर्विका घटार्थिनः पटे प्रवृत्तिरिति न वक्तुं शक्यते । श्रीभाष्यार्थश्च प्रागेव व्युत्पादितः । अश्वार्थिनो महिषदर्शन निवर्तकं कदा भवेत् ? यदि महिषरूपमश्वमेदं विषयीकुर्यात् । प्रत्यक्षस्य भेदरूपमहिषाग्राहकत्वे च सदित्येव सद्दर्शनमिति तस्याश्वसाधारण्यात् कथं निवृत्तिरिति तदर्थे सति तावता अश्वनहिषैक्यं कथमुक्त भवति ? एवं बहुविधानुपपत्तिग्रस्तत्वादेव सद्पत्रह्मविषयकत्वं घटोऽस्तीत्यादेः दुर्वचमिति विवेचितवन्तः अर्वाचीना अद्वैतिनः अस्तीति क्रियाविशेषबोधनमेव सर्वतान्त्रिकाविशेषं संगिरमाणाः, ब्रह्मास्ति, घटोऽस्ति, (शुक्तौ) रजतमस्तीति प्रयोगेषु यथाक्रमं पारमार्थिकव्यावहारिक प्रातिभासिकसत्ताप्रतीतिं स्थापयन्त एकसत्तावादं स्वयमेवोपेक्षांचक्रिरे । 45 ३५४ परमाथभूषणे " स्वशरीर प्रकृति परिणामत्वात् सर्वेषां कार्याणां स्वस्याप्यौपचारिकं परिणामित्वम् इति सिद्धान्तावलम्बिनाम्" इति परिणामित्व औपचारिकत्वं सिद्धान्त इत्यर्थानुवाद आग्रहमेवाविष्करोति । औपचारिकत्वस्यास्माभिरनुक्तेः । एतत्तत्त्वमुपादानविचारे प्राप्स्यति वैशद्यम् । प्रकृते औपचारिकपदाघटनेन लेखनं भवदभिमतस्यात्यन्तोपयुक्तमिति तद्धनमयुक्तमेव । तर्हि एक ब्रह्मकार्यत्वाविशेषात् घटार्थिनः पटे प्रवृत्तिः कुतो नेति प्रश्नः कथं परिहियत इति चेत् — किं ब्रह्मपर्यन्तगमनेन ? एकप्रकृति कार्यत्वादविशेष इति शङ्का सांख्येन यथा परिहियते, एका विद्यापरिणामत्वादविशेष इति शङ्का चाद्वैतिना यथा, तथैव । अश्वदर्शनं सन्मात्रविषयकत्वादेव प्रवर्तकं चेत् — महिषदर्शनमपि तावन्मात्रविषयकत्वात् अनिवर्तकम् ; प्रत्युत प्रवर्तकमेवेत्यद्वैतिनामुपरि विहितं दूषण कथमन्यान् अस्कन्दिष्यति । अश्वादेः प्रत्यक्षविषयत्वात् अश्वत्वप्रकारकप्रत्यक्षत्वस्य यादृशप्रवृत्तिहेतुत्वम्, तादृशप्रवृत्तिहेतुत्वस्य महिषत्वप्रकारकप्रत्यक्षे प्रसत्त्यभावात् । यथा पुंस एकत्वेऽपि पुत्रत्वजामातृत्वपतित्वर। जत्वा दिप्रकारभेदायत्तबुद्धिभेदायत्तः प्रवृत्तिभेदः, तदा का कथा धर्मिस्वरूपेऽप्यंशतो भिन्ने घटपटादाविति । विवर्तोपादानत्वं भवन्मताभिमतं लोकानुभवदूरमत्यन्तासिद्धमिति प्रागेवोक्तम् ; वक्ष्यते च ॥ । पञ्चीकरणप्रक्रियापरिशीलने शुत्त्यादावपि रजतांशसद्भावात् शुक्तौ रजतप्रतीतेः यथार्थत्ववाद्यस्मन्मते लोके प्रमाश्रमनिर्वाह प्रकारः श्रीभाष्ये विशदं व्युत्पादित एवेति तदग्रहेण वा तद्ग्रहेऽप्याग्रहेण वा क्रियासमभिहारेणासंभावितानुपपत्त्युद्धाटकं पिष्टपेषणपर एव समाधातुमर्हति । अश्वार्थिनः सन्मात्रज्ञानस्य प्रवर्तकत्वे महिषदर्शनमपि प्रवर्तकमस्तु इति अस्मत्कृतमापादनं हि शुक्तौ इदं रजतमिति ज्ञानस्यापि सन्मात्रविषयकत्वधौव्यात्, वास्तवरजतज्ञानतौल्यात् तद्वदेव तत्र प्रवर्तकं स्यादिति भवन्मते दोषापत्तिं तुल्यनयात् दर्शयत्येव । तद्दोषपरिहारमार्गान्वेषिणा च भवता अस्मन्मते प्रतिबन्दिप्रदर्शनेन कथञ्चित् कृतार्थीबुभूयते । तत्रास्माभिर्वक्तव्यं समाधानं भवतैवोपरि, “ कार्योपयोगिनो " सन्मात्र प्रत्यक्षभम-प्रसाधनम् ३५५ रजतस्यासत्त्वात्" इति विलिख्यत एव । " यावदपेक्षितरजतलाभार्थमेव किं न यतत " इति तदुपरि भवत्प्रश्नस्तु विचित्रः । कार्यानुपयोगित्वे सिद्धे यावदपेक्षितलाभार्था कथं प्रवृत्तिः । न ह्यत्र सहस्रकामस्य तत्रैकलाभोऽपि न त्याज्य इति नयस्य प्रसक्तिरस्ति । सहस्रशुक्तिसंभरणेऽपि शुद्धरजत पृथक्करणस्याशक्यताया अन्यत्र निरूपितत्वात् । पृथक्करणशक्तः प्रकारान्तरेण रजतमलभमानः क्लेशेन शुक्तितो रजतमार्जयत्विति चेत् — शक्तः करोतु ; प्रयस्यतु कनकापगासैकतात् कनकमुत्क्रष्टुम् । कस्तद्वारयिष्यति । तत् सिद्धम् शास्त्रस्य निर्विशेषब्रह्मपरत्व जगन्मिथ्यात्ववोधकत्वं न बाध्यमिति ज्ञप्तये शास्त्र प्रत्यक्षाविरोधसंपादनाय प्रत्यक्षस्य सन्मात्रग्राहित्व परिकल्पनप्रयासः प्राप्तार्थकत्वेन पुनः शास्त्रस्याप्रमाण्यापादक एव, वस्तुतः सन्मात्रविषयकत्वं प्रत्यक्षस्य न कथमपि च वक्तुं शक्यमिति ॥ विरोधे शास्त्रार्थं गणयति बुधो नेत्यत इमे विरोधिप्रत्यक्षं विघटयितुमाश्चर्यमुदिताः । वियाताः अन्वीक्षां निखिल निगमादीन्यपि तथा निकृन्तन्तु स्वैरं निजमतबुभूषैकमुदिताः ॥
श्रीः