अद्रीकृत महातल्पम विकल्पदयानिधिम् । आश्रितप्रार्थनाकल्पमा कल्पयतु मे मनः ॥ वन्ध्यापुत्रो गगनकुसुमं धारयन् क्रीडतीति श्रुत्वा द्रष्टुं व्यवसितवतो ऽन्धस्य जात्यन्ध एकः । नेता पृष्टः कथमिदमिति प्रौढितो निर्विशेष ज्ञानात् सिद्धिं निखिल विषयां निर्विकल्पादवोचत् ॥ R
कतिपयमात्र विषयकत्व निबन्धनं निर्विकल्पकत्वमेव स्वरसतया स्वीकृतम् । एवं स्थिते शतमूषण्याम्, " विगीता बुद्धिः विशिष्टज्ञानपूर्विका विशिष्टबुद्धित्वात् संप्रतिपन्नज्ञानवत् इत्यनुमानात् निर्विकल्पकं नैयायिका इवाद्वैतिनोऽपि स्वीकुर्वन्तीति " इति लेखनम् –खसिद्धान्तविरुद्धम् शतदूषण्यामस्य वादस्य नैयायिक निरसनांशघटितत्वात् कस्मिन् अंशे अद्वैतिखण्डनमित्यविविच्य एकरूपनिर्विकल्पकमद्वैतिनैयायिकोभयस्वीकृतं स्यादित्युत्प्रेक्षणमात्रमूलकञ्च ॥ " " ; एवं नैयायिकनिर्विकल्पे निरस्ते प्रामाणिकैः क्रियमाणो निर्विकल्पकस विकल्प करूपप्रत्यक्षावान्तर भेदव्यवहारः किमभिप्रायक इति विवेचनीयम् । परिभाषोक्तरीत्यां हि सोऽयं देवदत्त इत्यादौ कचिदेव निर्विकल्पकं भवति । न तत् सार्वत्रिकप्रामाणिक निर्वाहायालम् । तत्रापि निर्विकल्पकत्वं नेति तदवसरे वक्ष्यते । अत्र विशिष्टाद्वैतिनः प्रथमाक्षसन्निपातजन्यं प्रत्यक्षं निर्विकल्पकम् तदधीनमनुभूतांशानुवृत्तिसाहित्येन विशिष्टवस्तुग्राहि सविकल्पकमिति । युक्तञ्चैतत् ; आलोचनमिन्द्रियाणाम्, विकल्पस्तु मनसः इति सांख्यव्यवहारस्यापि एतदभिप्रायकत्वसम्भवात् । अन्यैरन्यथा गृह्यमाणोऽ पि स व्यवहारो नूनमेतदभिप्रायक एव । तत् विविच्यते–" आलोचनमिन्द्रियाणाम्, विकल्पस्तु मनसः, अभिमानोऽहङ्कारस्य, अध्यवसायो बुद्धेः " इति वदतां सांख्यानामयमाशयः -प्रथममिन्द्रियं चक्षुरादिकं सर्वसन्निकर्षरूपसामग्रीसद्भावात् इयं गौरिति विशिष्टं प्रत्यक्षमेव जनयति । इदमालोचनम् । पश्चादेतद्दर्शनाधीन संस्कारोद्बोधे सति पूर्वानुभूतमिदञ्चै की कृत्य, इयमपि गौरिति वा, सेयं गौरिति वा गृहाति । अयं विकल्पः अनुभूतानुभूयमानयोः विभिनयोः समाहारात् । तत्र पूर्वज्ञाने व्यक्तिभेदः, जात्यनुवृत्तिग्रहणम् ; द्वितीयज्ञाने देशकालभेदः, व्यत्तत्यनुवृत्तिग्रहणम् । अयञ्च विकल्पः नेन्द्रियमात्राधीनः, संस्कारस्येन्द्रियवशत्वाभावात् । एवं विकल्पे जाते सति पूर्वानुभूतवस्तुना स्वस्य भोगं प्राग्भूतं स्मरतः तथाभूते संप्रति सन्निकृष्टे वस्तुनि तादृशभोगोपयोगित्वचिन्तनया ममेदमित्यभिमानो अहङ्कारकार्यो जायते । निर्विशेषनिर्विकल्प भङ्ग-प्रसाधनम् अथ च बुद्धितत्त्वसहायस्तदेव वस्तु स्वव्यापाराविष्टं कर्तुमध्यवस्यति, इदं कर्तव्यम् इदमुपादातव्यमित्येवम् । अतो विशिष्टज्ञानस्यैव प्राथमिकत्वात् न नैयायिकोक्तं निर्विकल्पकमस्ति । ननु लौकिकस्य निर्विकल्पकस्य तदसाधकत्वेऽपि अलौकिकं निर्विकल्पकं निर्विशेषसाधकमस्तीति चेत् -तत्र किं मानम् ? नैयायिका हि सविकल्प कान्यथानुपपत्त्या तत्कारणतया निर्विकल्पकमतीन्द्रियमनुभबानारूढमपि कल्पितवन्तः । विशिष्टज्ञानं प्रति विशेषणज्ञानस्य कारणतायाः अद्वैतिमि रंप्यनङ्गीकृतत्वस्योपदर्शिततया निर्विशेषत्वात् ब्रह्मणः तद्विषयसविकल्पकस्य दुर्वचतया च तत्कारणतया निर्विकल्पकल्पनं तु न भवति । अतो विशिष्टज्ञानकार्यबलात् ब्रह्मनिर्विकल्प कानुमानप्रत्याशाया नावसरः । सर्वसंसारसमूलो-मूलनार्थमन्ते संपाद्यमानत्वेनाभिमतस्य ब्रह्मनिर्विकल्पकस्य सांसारिक विशिष्टज्ञानकारणत्वं कथमपि न भविष्यति । शास्त्रं प्रमाणमिति चेत् — शास्त्रं वृत्त्या वा समुदायतात्पर्येण वा न निर्विकल्पजनकम् । तथा निर्विशेषासिद्धेः वक्ष्यमाणत्वात् । शेषमखण्डार्थविचारे ॥ "" " सन्मात्रोपलम्भः स्वरूपमात्रग्रहणं निर्विकल्पकम् " इति वदतश्च न नैयायिकेककण्ठ्यम् । " जातिगुणादीनां स्वरूपतो भिन्नत्वात् " इति विकिख्य, भेदराहित्येऽपि देवोऽहमित्यादौ सामानाधिकरण्यप्रतीतिदर्शनात् " इत्येवं व्याहतलेखन प्रन्याशया ग्रहणेन दूषणसंरम्भमात्रम् । अपृथक् सिद्धत्वस्य सामान नाधिकरण्यप्रयोजकत्वे शरीरमहमित्यपि सामानाधिकरण्यापत्तिरिति दूषणं प्रथमपर्वण्येव श्रीभाष्ये निरस्तमस्ति । नीलो घट इति सामानाधिकरण्ये । रूपं घट इति कस्मान्नेति प्रश्न उभाभ्यामपि परिहर्तव्यः । गोशब्दस्य जातिवाचिनो जातिविशिष्टव्यक्तिवा चित्वस्वीकारे जातिपदस्यापि तदस्तु इति प्रश्नः तार्किकेण यथा समाधीयते, तथैवेहापि । भिन्नसामग्री वेद्येषु स्वरूपमात्रग्रहणमिति कुत्रोक्तम् ? येन विशिष्टा विषयक निर्विकल्पस्या स्मम्मते आपत्तिः स्यात् । भिन्नसामग्रीवेद्यपदार्थवैशिष्ट्यं न भासते इत्येतावता एक 49 ३३८
सामग्रीवेद्य वैशिष्ट्यबाधः कथम् ? न हि घटस्य घटत्वस्व च विभिन्न सामग्रीवेद्यत्वम् । स्वरूपनिरूपकधर्मविशिष्टधर्मिग्रहणं इदमित्थमित्याकारकं सर्वत्र निराबाधमिति न विशिष्टाविषयकज्ञानप्रसक्तिः । तत्त्वमस्यादिवाक्यस्य निर्विशेषे एव तात्पर्यात् तावन्मात्रप्रतिपत्तिजनकत्वमस्तीत्येतत् अखण्डवाक्यार्थविचारे निराकरिष्यत एव । अत्रेदमवधेयम् स्वरूपं जतिगुणाद्यात्मकमिति कश्चित् पक्षः तद्विषयकं निर्विकल्पकमिति पक्षनिरासायानूदितः शतदूषण्याम् । शतभूषणी तु एतद्वादे, किं किं मतं निरस्यते ; कः प्रधानपूर्वपक्षः ; निर्विकल्पनिरासकश्रीभाष्यस्य कीदृशमवतरणमंत्र उपन्यस्यत इत्येतत् सर्वमनवधाय, दूषणं सर्व स्वपक्षदूषणमेवेति कृत्वा, सर्वत्र समाधाने सरभमाणा किमपि किमप्याह । स्वरूपस्य जातिगुणाद्यपेक्षया भेद एवेति शतदूषण्यामनुपदमेव वक्ष्यत इति किमर्थं शतभूषणी प्रयत्नं वहति । व्यावहारिकतत्त्वविषये सर्वत्र यथायथमव्यवस्थयैव व्यवहरतामद्वैतिनां कदाचित् भेदाभेदपक्षोऽप्यनुकूलश्चित्ते समुन्मिषत्येव । अत एव वैशेषिकनिराकरणप्रसङ्गे जगन्मिथ्यात्व इवान्यत्रापि विषये बौद्धवासनावशतया शाङ्करभाष्ये, “इह तु शुक्लः कम्बलः" इत्यारभ्य “तस्मात् द्रव्यात्मकता गुणस्य” इति द्रव्याभेदं गुणादीनामुपसंहृत्य " एतेन कर्मसामान्यविशेष मवायानां द्रव्यात्मकताव्याख्याता " इत्युक्तम् । यदि द्रव्यस्य गुणादिना साकम भेदोऽत्रानभिमतः स्यात् न वैशेषिकप्रक्रिया वैलक्ष्ण्यं स्वमतस्योक्तं स्यात् । तत्रैव, " उभयथा च दोषात् " इति सूत्रे प्रमाणोपन्यासपूर्वकम्, " गन्धादयः परस्परं संहन्यमानाः पृथिव्यादयः" इति भामत्यामुक्तम् । कल्पतरौ च, “परस्परे गन्धादीनामनुप्रवेशात् द्रव्यसंज्ञां लब्धा, रसादयः पृथिवीभूत्वा गन्धं धारयन्ति, रूपादय आपो भूत्वा रसं धारयन्ती “त्यादि । उपरि च, “पूर्व स्वमते स्थित्वा द्रव्यस्य गुणसंघातमात्रत्वमुक्तम् । इदानीं तु वैशेषिकदृष्ट्या द्रव्यं किञ्चिदभ्युपेत्य द्रव्यसामानाधिकरण्यप्रतीत्या गुणादेः द्रव्यमात्रत्वमुच्यत” इति । तस्मात् गुणगुण्य भेदोऽप्यद्वैतसंमत एवेति, शत निर्विशेषनिर्विकल्प भङ्ग-प्रसाधनम् ३३९ भूषण्यां तत्खण्डननैर्मर्यमयुक्तम् । शतदूषण्यां तु आनेकात्मकत्वे वस्तुनः स्वाभिमतं निर्विकल्पकस्य निर्विशेषाद्वैतविषयकत्वं भज्येतेति द्रव्यस्य जातिगुणाद्यात्मकत्वमनभ्युपगम्यात्र विषये, " व्यवहारे भाट्टनयः " इति प्रवादमनादृत्य प्रत्यक्षस्य परमार्थाद्वैतविषयत्वं स्थापयितुमद्वैती य उदयुक्त, तन्मतोपन्यास इति ॥ एवमुपरितनांशेष्वपि भाव्यम् । एतद्वादान्ते च शतदूषण्याशयः सङ्ग्रहीष्यते ॥ यत्तु — असंप्रज्ञातसमाधौ निर्विशेषात्मभानमिति -तत् योगशास्त्रे कस्मिन् वाक्ये कथितमिति प्रदश्यताम् । संप्रज्ञातासंप्रज्ञातशब्दार्थशोधने यावत् स्वीकव्यमस्ति तावोऽधिकस्य यदि कश्चिदद्वैतवासनया कल्पनमभिमन्येत तावता न तथैव महर्षिहृदयं भविष्यति । योगश्च सविशेषविषयको नैव भवतीति न कश्चित् वक्तुं पारयति । यावन्निर्विशेषं किञ्चिदसिद्धम्, तावत्, तद्विषयकोऽपि योगोऽस्तीति दुर्वचमेव । एतावत्तु योगशास्त्रतोऽवगम्यते, यत्अभ्यासवैराग्याभ्यां प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपवृत्तिनिरोधे समाधिः संपद्यते । समाधिर्नाम अर्थ मात्र निर्मासं खरूपशून्यमिव ध्यानम् । अर्थाविशेषं ज्ञातृज्ञानयोर्भाने सत्यपि तत्स्मरणौपयिक संस्काराधानप्रतिबन्धेन ज्ञेयमात्रै दम्पर्य प्रवृत्तस्मृतिसंतान इति यावत् । स च समाधिर्द्विविधः संप्रज्ञातः असंप्रज्ञातश्च । प्रथमश्चतुर्विधः सवितर्कः सविचारः सानन्दः सास्मितश्चेति । बाह्यस्थूलालम्बनविषयः सवितर्कः । सूक्ष्मतद्विषयः सविचारः । तन्मूलानन्दालम्बनः सानन्दः । अहमित्यभिमन्यमान देहादिविशिष्टतया स्थितस्य स्वस्य ध्यानं सास्मितः । सर्वोऽयं संप्रज्ञातः सालम्बनः सबीजः । असंप्रज्ञातस्तु पूर्वोक्तालम्बनग्रहणविरामेण शुद्धात्मविषयकप्रत्ययाभ्यासरूपेण तत्संशीलनेन संपाद्यः समाधिः । वृत्तीनामुपरततया संस्कारमात्रमवशिष्यते । तदुक्तम्, “विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः " इति । समाधिपादे च किञ्चिद् विवृतम् -चित्तस्य ध्याने प्रवृत्तस्य स्थूलग्रहणे शब्दज्ञानाभ्यामनुवेधः, तदा सवितर्का समापत्ति । अतनुवेघेनार्थमालनिर्भासे निर्वितर्का। एयं सूक्ष्मविषये तन्मात्रादिप्रकृतिपर्यन्ते तदनुवेधे सविचारा समापतिः । तदनुवेधाभावे निर्विचारा । निर्विचारवैशारधे यथावस्थितस्वरूपग्राहिणी ऋतम्भरा नाम प्रज्ञा । तदधीनसंस्कारस्यापि निरोधे आत्मविषयको निर्बीजः समाधिरिति । तस्मात् बाह्यालम्बनाविषयकत्वादसंप्रज्ञातत्वमिति न निर्विशेषविषयकत्वं तत्रेष्टम् । तत्त्वविषये योगशास्त्रोक्तप्रकारश्च भगवता बादरायणेन, “एतेन योगः प्रत्युक्तः” इति प्रतिक्षिप्त इति चेहानु संधेयम् । अतोऽसदनुवादः शतदूषण्यामित्युक्तं विपरीतमिति । “अहं मनुर भवम्” इत्याद्यनुसन्धानं निर्विशेषमात्रविषयकमिति प्रतिज्ञामात्रेण न सिद्धयेत् । अनुभवापलापस्यात्यन्तस्पष्टत्वात् । अहं पूर्वस्मिन् जन्मनि मनुरासमिति स्वर्थः शङ्कयेत । तत्तु " अहं कक्षीवान् ऋषिरस्मी” ति वर्तमानकालिकप्रत्यक्षबाधितैक्य परवाक्यप्रदर्शनेनाविवक्षितत्वेन ज्ञापितः । अतो मदन्तर्यामी, मन्वन्तर्यामीत्यर्थ वर्णन मद्रूष्यम् ॥ यत्तु शरीरे शरीरितादात्म्यानुसन्धानमदृष्टम् । किन्तु शरीरिणि शरीरतादात्म्यद्यानुसन्धानमेव । अतो वामदेवादीनां परमात्मतादात्म्यानुसंधानबादः कथमिति —– तत्र शास्त्रतः परमात्मनि स्वान्तरात्मतया बुद्धे तदन्तर्यामिकत्वरूप तादात्म्यस्य शरीरभृते वस्तुन्वनुसन्धानं कथं न भवेत् ? अदर्शनं तु लोके परमात्मन एवाज्ञानात् शरीरात्मभावज्ञानस्य सर्वथैवाग्रहणात् । यदि च शरीरे शरीरितादात्म्यग्रहणं नास्ति, कथं देहात्मभ्रम इति व्यवहारः ? देहे आत्मभ्रमः तादात्म्यभ्रम इति खल्वेतदर्थः । " अनात्मन्यात्मबुद्धिर्या" इति च भगवान् पराशरः देह विषयकजीवतादात्म्यभ्रमं दर्शयति । सविकल्पकत्वं भित्यनन्वित " संस्थानरूपत्वाद्यनुवृत्तिधर्म विशिष्टविशेष्यकज्ञानत्वे गोत्वादिधर्मविशिष्ट विशेष्यकज्ञानत्वमात्रत्वं निर्विकल्पकत्व " परिष्कारो बहिष्कार्य एव ॥ यत्तु –संस्थानं विना संस्थानिमात्रप्रतीतीच्छासहकृतेन्द्रियसन्निकर्षः स्वरूपमात्र विषयकप्रत्यक्षं जनयतीति निर्विकल्पकसाधनम् तदपि त्याज्यम् । ज्ञानं न पुरुषतन्त्रम्, किन्तु वस्तुतन्त्रमिति सुप्रसिद्धतमा स्वीकृतं सुतरां प्रत्यक्षविषये दुरप्रहवम् । आह च नि विशेष निर्विकल्प भन्न-प्रसाधनम् ‘Y आचार्योदयनः, “यद्यबुभुत्सिते विषये ज्ञानसामग्रीमेव सा निरूध्यात्, घटायोन्मीलितं चक्षुः पटं नैव दर्शयेत् । न त्वेष बुभुत्साया महिमा, यत् सत्यामपि सामग्र्यां तत्र न ज्ञानम् । किन्तु न तत्र संस्काराधायकः प्रत्ययः " इति । नैयायिकाः निर्विकल्पकम्, “न प्रमा नापि भ्रमः स्यान्निर्विकल्पकम् " इति प्रमाभिन्नं वदन्त एव अनुभवविभाग द्वैविध्यस्य ग्रन्थदर्शितस्य निर्वाहाय विशेष्यावृत्तिप्रकारकत्वाभावः प्रमात्वमित्युपवर्णयन्तीति नेदं प्रामाण्यस्यापेक्षितस्य साधकम् । विशेष्यवृत्तिप्रकारकत्वं प्रामाण्यम्, तदभावोऽप्रामाण्यमित्युक्तवा निर्विकल्पकमपि अप्रमावर्गेऽपि कश्चित् निवेशयेत् । यथावस्थितव्यवहाराननुगुणत्वादप्रमेत्यादि कश्चित् ब्रूयात् । न हि निर्विकल्पमात्रेण कश्चिदूधवहारः शक्यः । अत एव सविकल्पवत् निर्विकल्पस्य तार्किकादिग्रन्थेषु आकारा प्रदर्शनमिति किमनेन निर्वचनमात्रेण ॥ निर्विशेषविषय निर्विकल्प साधन वरेण, “स्वप्रकाशत्वात् केवलं स्वत एव सिद्धयति” इति मध्ये लेखनमसङ्गतम् । तथा ब्रह्मणः स्वतः सिद्धेः श्रुतिगम्यत्वे स्वाधीन सिद्धिकत्वरूपधर्मविशिष्टब्रह्मवोधिकायाः श्रुतेः कथं निर्विशेषबोधकत्वम्? स्वेत प्रकाश्यत्वमेव स्वतस्सिद्धिकत्वम् ; ब्रह्म ब्रह्मेतरा प्रकाश्यमिति तदर्थ इति चेत् — एवंरूपेण श्रुत्या ब्रह्मणि प्रकाश्यमाने ब्रह्मेतराप्रकाश्यत्वं कथम् ? यदीतरेण स्वयंप्रकाशं ब्रह्म प्रकाश्यते, तदा अप्रकाशत्वं बाधितम् । यदि न प्रकाश्यते, तर्हि अप्रकाश्यत्वेन तत् ज्ञातमिति श्रुतिरनुवादमात्रम् । तथा च श्रुतिः न ब्रह्मणि, न वा तत्स्थतस्सिद्धत्वे प्रमाणमिति । इन्द्रियजन्यनिर्विशेषविषयकनिर्विकल्पाभावेऽपि शब्दजन्यनिर्विशेषविषयर्निर्विकल्पप्रत्यक्षाङ्गीकारात् न दोष इत्य् अपि वार्तम् — शब्दजन्यप्रत्यक्षस्य खण्डितत्वात् । शक्तेर्लक्षणाया वा निर्धर्मकवस्तुन्ययोगात् अविषये तात्पर्यविषयत्वायोगाश्च शब्दात् तत्प्रतीतेः रुदयायोगात् । भ्रमज्ञानस्य धर्म्यशे प्रमात्वम्, धर्मांशे भ्रमत्वमित्यस्तु । तावता तस्य ज्ञानद्वयरूपत्वं प्राभाकरादिवत् न भवदिष्टम् । इदमंशे चाक्षुषवृतिः, रजतांशेऽन्तःकरणवृत्तिरिति वृत्तिद्वयस्वीकारेऽपि इदमिति तद्देशतत्कालसंबन्धि ३४२
त्वेन वस्तुग्रहणस्य परिभाषाद्युक्ततया न निर्विशेषग्रहणप्रसक्तिः । शुद्धवस्तुमात्रग्रहणेऽभिमन्यमानेऽपि इदमथस्य शुक्तयादेर्वस्तुतः शुक्तित्वादिविशिष्टतया न निर्विशेषवस्तुग्रहणं तत् । विशेषाग्रहणमात्रेण च न निर्विशेषत्व सिद्धिः ॥ यत्त इदन्त्वादिकं प्रतीतमपि श्रुतिविरुद्धत्वादसत्यमिति तत् शुक्तिरूपधर्मिविषयेऽपि भवन्मते समानमिति प्रत्यक्षविषयः सर्वोऽपि मिथ्यैवेति न प्रत्यक्ष निर्विशेषसत्यकिञ्चिद्विषयकं भवितुमर्हति । सन्मात्रग्राहित्वपक्षश्च समनन्तरवादे विचारयिष्यते । न वयमैन्द्रियकं निर्विकल्पकं निर्विशेषे ब्रूमः ; अपि तु शाब्दमेवेति ऐन्द्रियकप्रत्यक्षस्य सविशेषविषयकत्वव्यवस्था आम्रप्रश्ने कोविदारकथनमेवेति चेत्-व्याहतमेतत् । भवतैवैतद्वादारम्भे, विशिष्टबुद्धिः सर्वा स्वरूपज्ञानपूर्वि केति नैयायिकनिर्विशेषमद्वैतिभिरपि निर्विकल्पकैन्द्रियकप्रत्यक्षस्वीकारकथनात् । ईदृशभवादृशव्याहतवाद व्युदासायैव नैयायिकनिर्विकल्पखण्डनच्छलेन भवदीयान्तरतत्पक्षपातस्यापि निरसनमिति नेदमस्थाने । एवञ्च सन्मात्रग्राहिप्रत्यक्षमनोऽपि कया चिद्विधया कृतो भवतीत्यपीदमावश्यकम् ॥ —patil यत्तु — शाब्दमेव निर्विकल्पकमद्वैतीष्टमिति – तत्र कोऽसौ शब्दः तथा बोधजनकः ? तत्त्वमसीत्यादिरिति चेत् — — सर्वत्र तच्छब्दस्य यादृशं वस्तु प्राक् कथितम् तादृशतत्परामर्शित्वस्वाभाव्यात् जगज्जन्मस्थितिलयकारणत्वतदौपयिक सर्वज्ञत्व सर्वशक्तित्वचिदचिद्वैशिष्ट्यादिपरिकर्मितंब्रह्मपरं तत्पदम्, त्वमिति आभिमुख्य विशिष्टचेतनवाचीति कथं निर्विकल्पकबोधः ? अत एवास्माभिः प्रतीतविशेषणानां परित्यागेन शुद्धस्वरूपमात्रे ‘लक्षणास्वीकारेण निर्विशेषपरत्वमिप्यत इति चेत् — एवं कल्पने किं प्रमाणम् ? न चेदमेव वाक्यं तत्र प्रमाणम् ; आत्माश्रयात् । शब्दातिरिक्तं तु प्रमाणं भवतापीदानीं नेष्टम् । अद्वैतसिद्धान्तं सिद्धं कृत्वा एवं हठात् श्रुतसर्वविशेषणत्यागे च भवन्मत एव भवदुक्तं स्वल्पपरिमाणोष्णीषानुगुणमधिकपरिमाणस्वशिरःकर्तनमापतति । भिन्नभिन्नत्वेन प्रमाणन्तरावसितयोर्वस्तुनोर्विरुद्धधर्मापलापेऽपि न धम्यैक्य भवितुमर्हति । न जातु, ‘घटः पटो भवतीति वाक्यं साधु । घटत्वपटत्वरूपयोधर्मयोस्त्यागेऽपि व्यत्तस्यैक्यस्यायोगात् । अधिक विस्तरश्चाखण्डार्थवादे ॥ निर्विशेषनिर्विकल्प भङ्ग प्रसाधनम् ३४३ न च लोके किञ्चन्निर्विशेषपरं दृष्टम् । सोऽयं देवदत्त इत्यनुभूयत इति चेत् कथम् ? तत्रापि तद्देशतत्कालसम्बन्धी तच्छब्दार्थः, इदमर्थश्च एतद्देशैतत्कालवर्तीति वाक्यस्य विशिष्टपरत्वमेव । ननु तद्देशतत्कालवर्तित्वविशिष्टस्य एतदेशैतत्कालवर्तित्वविशिष्टेन साकमभेदो दुर्घटः, विशिष्टैक्ये विशेषणैक्यस्याप्यावश्यकत्वादिति चेत् —-तर्हि नीलो घट इत्यत्रापि नीलत्वघटत्वयोर्भेदात् नीलत्वविशिष्टघटत्वविशिष्टयोरैक्यं दुर्घटमिति धर्मत्यागः स्यात् । इष्टापत्तिरेव समानाधिकरणवाक्येषु सर्वेन्विति चेत् तर्हि किमिति सोऽयं देवदत्त इत्युदाहरणान्वेषणम् ? परसंमतत्वादिति चेत् — न कश्चिदद्वैतवासनावासितान्तःकरणादन्यः सोऽयमित्यत्र धर्मत्यागवादी परोऽस्ति । किञ्च घटे नैल्यमिति वाक्यमिव नीलो घट इति वाक्यमपि घटविशेप्यकनैल्यप्रकार कसंशयनिवर्तकं न वा । आद्ये, कथं नीलत्वघटत्वत्यागेन धर्मिमात्रमानम् ? अन्त्यस्तु पक्षोsनुभवविरुद्धः । षटे नैल्यमिति व्यधिकरणवाक्येऽप्यनुपपत्तिर्भवत्प्रक्रियया समस्त्येव । घटत्वविशिष्टनिरूपिताधेयतायाः नैल्ये दुर्घटत्वात् । विशिष्टनिरूपिताधेयता हि तत्रैवोचिता, यत्र विशेषणनिरूपितापि सा भवितुमर्हति । न च घटत्वनिरूपिता स्यात् नैल्ये आधेयता, अतः सर्वत्र विशेषणत्याग एव । एवं नैल्यत्वरूपधर्मविशिष्टे घटवृत्तित्ववैशिष्ट्यस्य दुर्घटत्वात्, अन्यथा नैल्यत्वेऽपि घटवृत्तित्वापातात् सर्वविशेषणत्याग एवेति कुत्रापि नान्विताभिधानम् अभिहितान्वयो वा । ततश्च वाक्यसामान्यं धर्मिमात्रोपस्थापकमिति विवक्षिता बोधकत्वादप्रमाणमेव भवेत् । तस्मात् सोऽयं देवदत्त इति वाक्यमपि न विशेषणरहितधर्मिमात्रबोधकम् । अन्यथा तद्देशतत्कालवर्ती एतस्मादन्य इति विपर्ययनिवर्तकत्वाभाव प्रसङ्गात् । कथं तर्हि तद्देशविशिष्टे एतद्देशविशिष्टत्वमिति चेत् — किमेककालावच्छेदेनोभयदेशसंबन्धो न भवतीति शङ्कयते, किंवा एकदेशावच्छेदेन नानाकालसंबन्धो न भवतीति, किंवा एतद्देशस्यापि तद्देशसंबधित्वाभावे तन्न भवतीति । नाद्यः ; देशवत् कालस्यापि पृथग्भूतस्य तत्रैव भानात् तत्कालावच्छेदेन तद्देशसंबन्धी, एतत्कालावच्छेदेनैतद्देश संबन्धी ૪૪
त्येव तदर्थात् कालभेदेन विरोधपरिहारात् । न द्वितीयः, विरोधलेशस्याप्यप्रसक्तेः । एकस्यैव वस्तुनः एकत्रैव देशे चिरकालस्थितेरानुभविकत्वात् । न तृतीयः ; विशिष्टक्ये कथ्यमाने विशेषणयोरप्यैक्यम्, आधाराधेयभावो वा कथ्यत इति नियमाभावात् । अतः प्रागनुभूतदेशकाल तत्संबन्धदेवदत्तानामत्र प्रतीतौ अविशेषेण स्फुरणात् त्याज्यस्य कस्याप्यभावात् न लक्षणालेशोऽपि इत्यदाहरणाभावादपि तत्त्वमसीति वाक्यं विशिष्टार्थविषयकमेवेति न शब्दतोऽपि निर्विकल्पकसिद्धिरित्यलमत्र । इदमत्रवधेयम् = शतदूपण्यां निर्विकल्पकमङ्गवादे प्रथममद्वैतिना निर्विकल्पप्रत्यक्षस्य सर्वाङ्गीकृतत्वात् तेन निर्विशेषब्रह्मसिद्धिरिति खपक्ष उपक्षिप्तः । अथ वैयाकरणमते सर्वत्र शब्दानुवेधाङ्गीकारात् कथमविशिष्टविषयापरोक्षज्ञानमिति शङ्कायां शब्दानुवेधपक्षः तेनैवाद्वैतिना दूषितः । अतो निर्विकल्पकं स्वरूपमात्रविषयकमिति चोक्तम् । अथ भट्ट भास्करादिभेदाभेदवादिमतरीत्या शङ्का – अयं घटः, अयं शुक्ल इत्यादिसविकल्पे स्वरूपे जातिगुणाद्यात्मकत्वं सामानाधिकरण्यबलात् विषयीभवति । एवं जातिगुणाद्यात्मकमेव सदपि स्वरूपं निर्विकल्पके न तथा तत्तदभिन्नतया गृह्यते । अथापि अनेकात्मकमेव तत् स्वरूपतो गृहीतमिति नाद्वैतविषयक निर्विकल्पकम्, किन्तु अनेकविषयकमिति । तत्र -सामानाधिकरण्यबलादभेदे, आत्मा मनुष्यो जात इत्यादिसमानाधिकरण्यबलात् शरीरात्मनोरप्यभेदापत्त्या स्वरूपस्य जात्यादितो भेद एब प्रामाणिक इति न निर्विकल्पकभातं स्वरूपं जात्याद्यात्मकम् अपि तु निर्विशेषमेकमेवेत्युक्तम् । अथ नैयायिकेन जात्यादीनां सर्वेषामेव विशेषणविशेष्यभावं विना भाने आशङ्किते निर्विकल्पसविकल्पवैलक्षण्यं न स्यादिति तदपि खण्डितम् । अथ जात्याद्यविषयक स्वरूपमात्रविषयक निर्विकल्पकखीकारे नीलपीतादिनिर्विकल्पक ज्ञानभेदे भासमानानां स्वरूपाणां भिन्नत्वात् सर्व निर्विकल्पमेका निर्विशेषनिर्विकल्प भङ्ग प्रसाधनम् ३४५ द्वितीयस्वरूपविषयकमिति न सिद्ध्यतीति पुनराशक्यम् एकस्यैव स्वरूपस्य सर्वनिर्विकल्पकविषयत्वेऽपि नीलपीतादिनाना विकल्पोत्पत्तेः तत्तद्वासनाप्रादुर्भावरूप सहकारिवैलक्षण्यादेव सिद्धया वासनायाश्च पूर्वपूर्वविकल्पाधीनतया न निर्विकल्पज्ञानभेदेन विषयभेदस्यावश्यकता । बाह्यविषयापलापिना बौद्धेनापि विषयाभावेऽपि वासनावशादेव विकल्पवैचित्र्य स्वीकृतमस्ति । अतो निर्विकल्पभेदेन विषयभेदो नापेक्षित इति परिहृत्य सर्ववादिसंमतस्य निर्विकल्पकस्याद्वैतिसमतनिर्विशेषवस्तुविषयकत्वमन्तरा न निर्वाह इति अद्वैतिमतमुपसंहृतम् । एवं प्रवृत्तपक्षखण्डनपरतया च पराभिमतनिर्विकल्पकनिरासपर श्रीभाष्यग्रन्थोSTतारित व्याख्यातश्च । एवञ्च श्रीभाष्यग्रन्थः नैयायिकनिर्विकल्पकनिरासक मिवाद्वैतानुयाय्युत्प्रेक्षितनिर्विकल्पनिरासपरश्च । अतः सन्मात्रग्राहिप्रत्यक्षोपन्यासप्रकार इवायमपि कश्चिदद्वैतानुयाय्युपन्यस्तः निर्विकल्परूपब्रह्मविषयकैन्द्रियकप्रत्यक्षोपन्यासप्रकारः । अद्वैत परिशेषौपत्रिकाः सर्वेऽपि तत्तदुत्प्रेक्षा प्रकाराः परस्परविरुद्धा अपि हि सिद्धान्तश्रद्धया सामोदं परिगृह्यन्ते । एवं शतदूषणी गतिमविदुषा, ‘आम्रान् पृष्टः कोविदारान् आचष्टे’ इति न्यायमनुसरति शाब्दनिर्विकल्पवादिनामद्वैतिनां पुरस्तात् ऐन्द्रियकनिर्विकल्पकव्यवस्थेति व्याहतवादसंरम्भः शतभूषण्या क्रियत इति शतदूषण्युक्तं सुस्थम् ॥ निर्विकल्पमुररीकृतं बुधैरन्यथा न सविकल्पधीरिति । निर्विशेषविषयं न चेदिदं का नु हानिरिति किञ्चिदुच्यताम् ॥ निर्विशेषशशश्टङ्गभूषणं निर्विकल्पकसरोजमास्थितः । . आनुरूप्यघटनात् परोभवेदद्भुतार्थनिपुणः परो विधिः ॥ 44 श्रीः