जयति जगदशेषं धारयन् निर्विशेषं जनितनिजजनार्थानेकजन्मा य एषः । मधुजितमनघं तं संप्रणम्यार्य सेवी शमयति शतभूषण्याहतं निर्विशेषम् ॥ प्रमाणान्तराभावेऽपि स्वप्रकाशबलादेव निर्विशेषसिद्धिमद्वैतिसंमतां निरसितुं प्रवृत्तं वादं परीक्षमाणेन निर्विशेषप्रकाशश्चेदुपपाद्येत, तर्हि तत् श्रोतव्यं भवेत् । तद्विहाय आदौ किमिदं खप्रकाशत्वमिति विचारस्तावत् व्यर्थविस्तर एव । तत्र जीवात्मपरमात्मतद्धर्मभूतज्ञानात्मकखप्रकाशाने कवस्तुस्वीकार्यस्मन्मते स्वप्रकाशत्वं किं तत्सर्वसाधारणम्, उतासाधारणमिति विकल्प एव न युक्तः । तेषां सर्वेषां स्वप्रकाशत्वस्वीकारिभिः अनुगतस्वप्रकाशत्वनिर्वचनस्यैव कार्यत्वात् । अन्यत्तु स्वस्मै प्रकाशमानत्वम्, स्वाश्रयाय प्रकाशमानत्वमिति वैलक्षण्यं न स्वप्रकाशत्वरूपं भवितुमर्हति । स्वाश्रयायेति लेखितव्ये स्वाश्रयतयेति लेखनमपि अव्युत्पत्तिकौशलं दर्शयति । एवं स्वस्मै प्रकाशमानत्वस्य आत्मनि, स्वाश्रयाय प्रकाशमानत्वस्य च ज्ञाने तार्किकैः आत्म तज्ज्ञानयोर्जडत्ववादिभिरपि स्वीकृतत्वात् स्वयंप्रकाशत्वस्य च तदनिष्टत्वात् इत्थं स्वयंप्रकाशत्वनिर्वचनमप्यसंभावितम् । तथाच निर्विशेषत्वं स्वप्रकाश बलात् न गृह्यत इति शतदूषणयुक्तार्थं साक्षात् दूषयितुमसमर्थस्य स्वप्रकाशत्वदुर्विकल्पनमिदं वृथा विस्तरमात्रम् । एवमेव प्राय एतद्वादे, अथवा एतद्ग्रन्थ एव कृत्स्ने । यत्तु – जीवपरमात्मगतं खप्रकाशत्वं किं स सोऽनुभवति, उतान्यः । धर्मभूतज्ञानगतं च तत् तदेवानुभवति, उतान्य इति विकल्पनम् — तत्रानुभवस्यः३१८
प्रत्यक्षानुमित्याद्यनेकरूपत्वात् यथायथं जीवः परमात्मा च स्वयमप्यनुभवति, परश्चेत्युक्तौ नानुपपत्तिः । धर्मभूतज्ञानस्य च ज्ञानाश्रयत्वाभावात् अनुभवितृत्वविकल्पोऽनुपपन्नः । यदि खयंप्रकाशत्वानुभवितृत्वं स्वयंप्रकाशत्वविषयकत्वरूपम्, तत् धर्मभूतज्ञान एव; न तु कुत्राप्यात्मनि । प्रकृतानुपयोगी चायं विकल्पः । मम निर्विशेषसंवित्प्रकाशत्वमनुभवसिद्धमिति वा, निर्विशेषसंवित् अनुभवसिद्धेति वा यदि कश्चित् ब्रूयात्, तत्रान्यस्य कथं विस्रम्भ इति प्रभे, या प्रतिबन्दिः, ’ भवन्मतेऽपि एकेनाऽऽत्मना स्वस्य स्वप्रकाशत्वानुभवे कथ्यमानेऽन्यस्य न तत्र विस्रम्भेण भाव्यमिति तत्रोच्यते । आत्मनो वा धर्मभूतज्ञानस्य वा स्वप्रकाशत्वमीश्वरस्यैव प्रत्यक्षविषयः । अन्येषां तु प्रमाणान्तरावसेयम् । प्रकाशमानत्वस्यानुभविकत्वेऽपि स्वयंप्रकाशमानत्वस्यातथात्वात् । अत एव तार्किका जडत्वमातिष्ठन्ते । यदि तु कश्चित् परीक्षकः अनुमानेन वा शास्त्रेण वा स्वस्य स्वज्ञानस्य वा स्वयंप्रकाशत्वं निश्चिनुयात्, तथैवान्योऽपि स्वस्वज्ञानस्वयंप्रकाशत्वं सर्वेषामेव वा स्वयंप्रकाशत्वं तादृशेनैव प्रमाणेन निश्चेतुमर्हतीति न विसम्भवैधुर्यावकाशः । एवं स्वस्मै प्रकाशमानत्वं स्वस्य यथा अनुभवसिद्धम्, तथा प्रत्यात्मं तत्तदंशानुभविकत्वमनपलपनीयम् । निर्विशेषसंविदस्तु स्वयं प्रकाशमानता किं निर्विशेषसंविदैवानुभूय प्रतिबोध्यते, उत जीवेन केनापि । आद्यमसिद्धम् । निर्विशेषतया तस्याः अनुभवितृत्वप्रतिबोधयितृत्वयोरयोगात् । नापि द्वितीयः प्रमाणं विना तदनुभवायोगात् । प्रमाणस्वीकारे प्रथमप्रतिज्ञा-भङ्गात् । प्रमाणान्तराभावेऽपि स्वानुभवेनैव निर्विशेषसंवित् स्वप्रकाशेत्युक्तौ, किमात्मनः संवित्स्वरूपं स्वप्रकाशमित्यर्थः, उत, तद्गतनिर्विशेषत्वम् ? आद्ये निर्विशेषत्वासिद्धिः । अन्त्यविषये तु न कस्याप्यनुभवः । ममानुभवोऽस्तीति यदि कश्चित् ब्रूयात्, अनुपपादिते तस्मिन्नर्थे कथमन्यस्य विस्रम्भ इति स्थित एव दोषः ।
यतूक्तम् स्वस्मै प्रकाशमानत्वमात्मनः स्वतश्चेत्, निर्विशेषस्वप्रकाशत्यवाद इव क्रियात्वकर्मत्वकर्तृत्वायोगः समान इति तन्न । भवद्भिः निविशेषखप्रकाश भङ्ग-प्रसाधनम्
३१९
तु संविदतिरिक्तप्रकाशानङ्गीकारात् क्रियात्वकर्तृत्वयोगापत्तिः । अस्माकं आत्मातिरिक्तप्रकाशपदार्थाङ्गीकारात् न प्रकाशरूपक्रियातत्कर्त्री रैक्यम् । कर्तृकर्मत्वसमावेशस्तु, “ चैत्रः स्वं पश्यति " इत्याद्यनुभवसिद्धः । यत्तु अन्यवेद्यत्वे घटादिवत् अचेतनत्वापत्तिरिति तत् किमात्मनः ? उत संविदः ? नाद्यःः अन्यवेद्यत्वे सत्येव चेतनत्वस्वीकारे बाधकाभावात् हेतोः व्याप्यत्वासिद्धत्वात् । नान्त्यः; संविदः जानामीत्यनुभूयमानायाः अचेतनत्वस्येष्टत्वात् । स्ववेद्यत्वेऽपि तत्र ज्ञानान्तरानाश्रयतया अचेतनत्वसंभवेन अन्यवेद्यताया अचेतनत्वप्रयोजकत्वाभावाच्च ॥
यदपि धर्मिभूतस्य ज्ञानस्यापि ज्ञानत्वात् सविषयकत्वसङ्कोचविकासवत्त्वानित्यत्वाद्यापत्तिरिति तदपि न । विषयत्वं नाम विषयत्वाभिमतेन साकं ज्ञानप्रसरसम्बन्धविशेषः । धर्मिणि सङ्कोच विकासानिष्ट्या तन्न भवति । नापि सङ्कोचाद्यापत्तिः ईश्वरनित्यमुक्तज्ञानेषु ज्ञानत्वे सत्यपि तदभावात् व्यभिचारात् । नाप्यनित्यत्वम् । तत् किं कस्मिंश्चित् काले सर्वदेशावच्छेदेन वस्त्वभावः उत पूर्वावस्थाविरुद्धोत्तरोत्तरावस्थावत्वम् । नाद्यः, धर्मभूतज्ञानेऽपि नित्ये तदसंप्रतिपत्तेः ॥ सत्कार्यवादिवेदान्तिमते सर्वस्य द्रव्यस्य नित्यत्वात् । नान्त्यः, ईश्वरज्ञानादौ सोचाभावेन तादृशानित्यत्वनिरूपितव्याप्त्यभावस्योक्तत्वात् । धर्मिग्राहकप्रमाणेन ईश्वरादिदिव्यमङ्गळ विग्रहादीनां सावयवत्वेऽपि नित्यत्वसिद्धया सावयवत्वादेरप्यनित्यत्वापादकत्वायोगे सति ज्ञानत्वादेस्तदापादकत्वस्याप्रसक्तेश्च । अतः आगमविरुद्धार्थारोपेण आर्हतुमतप्रवेशापादनमास्तिकः कर्तुं नार्हति । कथञ्च धर्मभूतज्ञानस्य सङ्कोच विकासशालिनोऽपि नित्यत्वं श्रीभाष्यदर्शितमिति भूमिकाशेषे लिखता अत्र ज्ञानत्वात् धर्मभूतज्ञानवत् आत्मनोऽप्यनित्यत्वमपाद्यते ?. अथ जैनमत इवास्मन्मतेऽपि ज्ञानस्यानित्यत्वं दुर्वार मित्येतत्खण्डनमध्यत्र नः प्राप्तकालम् । सावयवत्वसविकारत्वादिकमसति शब्दप्रमाणबाधे ३२० " कथानधिकार-प्रसाधनम् वस्तुनि अनित्यत्वसाधकमिति आनुभविकम् । आत्मनां चास्मन्मते नित्यत्वं शास्त्र सिद्धम् । जैनानामपि तदागमसिद्धमिति चेत् — आगमस्य कस्य प्रामाण्यं युक्तमिति विचार्य तन्निवार्यम् । यत्क्तं परस्परागमप्रामाण्याप्रामाण्यवादः परस्परस्य समान इति तदिदं वेदप्रामाण्यमन्याप्रामाण्यं च स्थापयतां जैमिनिबादरायणादिपरमर्षीणां भावमनुवर्तमानेन वैदिकेन वक्तुमसाम्प्रतम् । यच्चन च पर्यायाद्यविरोधी विकारादिभ्यः " इति सूत्र श्रीभाष्यानुक्तं धर्मभूतज्ञानस्य नित्यात्मस्वभाविकधर्मतया नित्यत्वं कथं तत्र टीकायामुक्तमिति -तत्र को दोषः ? न हि मूलोक्तादन्यत् टीकायां न वक्तव्यमिति नियमः । विरुद्धं तु नूनं नोच्यते । न चात्र विरोधः । श्रीभाष्ये धर्मभूतज्ञानप्रस्तावरयाकृतत्वात् तावदनुक्तिः । टीकार्थोऽप्यवधानेन ग्राह्यः । धर्मभूतज्ञानस्त्रोत्पत्तिविनाशरूप नानावस्थाभाक्तस्य जिज्ञासाधिकरणे विशदमेवोक्ततया तद्विरोधि नित्यत्वं तावदिह टीका न मन्तुमर्हति । अतः तार्किकेरागन्तुकत्वस्य ज्ञाने इष्टत्वात् तद्व्यावृत्तेः खमते प्रदर्शनाय किञ्चिद्रूपेणानित्यस्यापि धर्मभूतज्ञानस्य नित्यवस्तुनिरुपाधिकधर्मत्वरूपं नित्यत्वं ब्रूम इत्युक्तम् । तथा च धर्मभूतज्ञानस्यावस्थानामागमापायित्वेऽपि सर्वकालसंबन्धित्वरूपं नित्यत्वमस्तीत्युक्त भवति । तर्हि तद्वदेव जैनमतेऽपि सङ्कोचविकासरूपावस्थाशालिन एवात्मनः सर्वकालसंबन्धरूपं नित्यत्वमस्तिवति चेत् — अस्तु । आपादितमनित्यत्वं तु तद्गतस्य पर्यायस्य तस्य तस्य यत्किञ्चिदुत्तरकाला संबन्धित्वरूपं परिमितकालसंबन्धित्वमेव । तेन मोक्षेऽप्येकरूपपर्यायायोगात् मोक्षा नित्यत्वमित्याशयः । एतदुपरि यत् जैनशङ्कितम्, तन्निरस्यते तदनन्तरेण सूत्रेण । किञ्च, “ न च पर्यायादपी " ति सूत्रे पर्यायशब्दस्य सङ्कोच विकासरूपावस्थारूपार्थभाषणेऽपि श्रीभाष्ये शाङ्करभाष्योक्तः " अवयवापगमोपगमाभ्याम् " इत्यार्थोपि अपि शब्देन ग्राह्यत्वेनाभिमतः । तदपेक्षया सङ्कोचादिना निर्वाहस्य समीचीनत्वात्तु पर्यायशब्देन तस्य कण्डोक्तिः । तथा अवयवापगमादिकल्पने, तदपेक्षया युक्ततरमिति सङ्कोचादिकल्पने च विकारादिदोष इति सूत्रार्थः । तत्रापि " निर्विशेषस्व प्रकाश भङ्ग प्रसाधनम् ३११ शब्दसूचितार्थे प्राप्तः अनित्यत्वादिदोषः आदिपदेन गृह्यते इति च मनसि कृत्य श्रीभाष्ये अनित्यत्वाद्यापादनम् । टीकायामनित्यत्वपदस्य परिमितकालवर्तिस्वरूपमर्थं पूर्वमुक्ता अनित्यत्वं विनाश इति व्याख्यानान्तरं विधाय विकारपदं तदतिरिक्तजन्मादिपरं दर्शितम् । एवं विकारशब्द प्रयुञ्जानः सूत्रकारः श्रुत्यनुरोधेन निर्विकारत्वनिरवयवत्वादिकमात्मन्यङ्गीकुर्वाणः युक्तिबलेन पदार्थान् गणयतां पक्षे सविकारत्वसावयवत्वादि आपादयन् ततः पराक्ताचेतनत्वादिकमव्यापादनीयं दृष्टानुरोधेन मन्यत इति भाव्यम् । यथा श्रुतित्यज स्तर्कशरणान् प्रति पत्यधिकरणे, ‘करणवच्चेन्न भोगादिभ्यः’, ‘अन्तवत्त्वमसर्वज्ञता वा’ इत्युक्तानि दूषणानि न श्रुत्युपजीविनां भवन्ति, तथैव प्रकृतेऽपीति सहृदय विमृश्यम् । यत्तु धर्मभूतज्ञानस्य सन्निकृष्ट विप्रकृष्टदेश संयोग रूपसंकोच विकासमात्रेणोत्पत्तिविनाशव्यपदेशो न युक्तः, नलिनस्य सङ्कोचविकाससत्त्वेऽपि तदभावादिति तत्र वक्तव्यं भवतैव चिन्त्यम्, यत उच्यते, " दीपप्रभादिस्थले प्रभोत्पन्ना, नष्टेत्यनुभवात् सङ्कोचविकासावप्युत्पत्तिविनाशाविति लोकसिद्धम् " इति । वस्तुतो नलिन विकासावसरे नलिनदलेषु परिमाणस्यान्यादृशस्यादर्शनात् नोत्पत्यादिव्यपदेशः, यत्र तत्तदंशे परिमाणतारतम्यम्, तत्र तद्व्यपदेश इति धर्मभूतज्ञाने तद्वयवहारों युक्त एवं ॥ यत्तु परिणामित्वे अनित्यत्वमवश्यं स्वीकार्यमिति, जैनमते आत्मन इव, धर्मभूतज्ञानस्य विशिष्टाद्वैतिमते दुर्वारमनित्यत्वमिति तत् श्रुतिविरुद्ध तु परिणामित्वहेतुकम नित्यत्वानुमानम् " इति भवदुक्तिव्याहृतम् । अद्वैतमते परिणामि सर्वमनित्यमित्यपि न ; परिणामिन्या अविद्यायाः सर्वकालसबन्धित्वरूपनित्यत्वस्यैव स्थितेः । तत्त्वज्ञानेन बाधोऽस्तीति चेत्-बाध्यत्वमनित्यत्वं च भिन्नम् । यदि कालसत्त्वेऽपि वस्त्वभावः, तदा खल्वनित्यत्वम् । अविद्यावाधे तु कालाद्यपि अविशेषात् बाध्यत एव । अतो न नित्यत्वहानिः । यत्तु 41
" मीमांसकमते आत्मनो ज्ञानात्मना परिणामित्वम् ’ ३२२
इति तदपि चिन्त्यम् । न हि मृत्पिण्डस्य घटरूपेणेव आत्मनो ज्ञानात्मना परिणामः ; ज्ञानस्याद्रव्यत्वात् । धर्मधर्मिणोर्भेदाभेदस्वीकारेऽपि गुणत्वद्रव्यत्वयोः तत्र तत्र व्यवस्थितत्वात् । शास्त्रदीपिकायां च आत्मवत् ज्ञानमानन्दश्च नित्ये इति कश्चित् पक्ष उपन्यस्तः, " नित्यं यत्त्वात्म चैतन्यमानन्दश्चेष्यते तु यः । 66 यच्च नित्यविभुत्वादि तैरात्मा नैव मुच्यते ॥" इति वार्तिकप्रामाण्येन । अथ च परमतोपन्यासनिविष्टं तदिति कृत्वा ज्ञानाभावेऽपि ज्ञानशक्तिरात्मन्यस्तीति वार्तिकमतमाशय्य, " न विज्ञातुर्विज्ञातेर्विपरिलोपों विद्यते " इत्यादिश्रुति निर्वाहः कृतः । अत्र पक्षद्वयेऽपि विशिष्टाद्वैतमता दूरविप्रकर्षो भाव्यः । न विज्ञातुः " इत्यादिश्रुतेः विज्ञात्रभिन्नार्थ विज्ञातेर्विपरिलोपो नास्तीत्यर्थवर्णनं तु हठकृतम् । स्वरसगृहीतलिङ्गभेदवचनग तिवैघट्यात् । धर्मधयुभयप्रद्वेषाद्धि एवं कल्पना । एवमपि ’ विज्ञातुः ’ इति तृजन्तेनैव ज्ञानतदाश्रययोर्भेदस्य प्रतिपन्नत्वात् तदपलापो न संभवति । विज्ञानभिन्नविज्ञातिः विपरिलो परहिता अविनाशित्वादित्युक्तौ हेतुसाध्यैक्यापत्तिश्च । विज्ञातिर्विपरिलो परहिता विज्ञातुरविनाशित्वादित्युक्तौ तु सामञ्जस्यम् । अत एव, " अविनाशी वा अरे अयमात्मा इत्यात्मनः अविनाशित्वमुक्ता अत एव ’ अनुच्छित्तिधर्मे ‘ति धर्मभूतज्ञानस्याप्यनुच्छिद्यमानत्वं श्रुतिः श्रावयति । कथं धर्म्यनाशे धर्मानाश इति चेत् — धर्मस्य स्वाभाविकत्वाभिप्रायेणेति मन्तव्यम् । अयमेव श्रुत्यर्थो जैनाधिकरणटीकायामुपक्षिप्त इति न तस्य तत्कपोलकल्पितत्वम् । अत्र विवक्षितञ्च नित्यत्वमुत्पत्तिविनाशरूपावस्थाद्वया । श्रयस्यापि ज्ञानद्रव्यस्य सर्वकालावच्छेदेन सत्त्वमेव । " किं नित्ये धर्मधर्मिणी अपृथसिद्धे दृष्टचरे श्रुतचरे वा श्रीभाष्यसिद्धान्तादन्यत्र " इति प्रश्नस्तु सर्वथै वानुपयुक्तः 1 एकमतप्रतितन्त्रसिद्धान्तस्य अन्यत्र दृष्टत्वश्रुतत्वयोः प्रायेणायोगात् । निर्विशेषाद्वैतं दृष्टचरं श्रुतचरं वा शाङ्करादन्यत्र " इति किश्चिदालोच्यताम् । ( अत्र धर्मधर्मिण्यपृथकूसिद्धे इति सन्धिकल्पनं 66 }} निर्विशेषस्वप्रकाश-भङ्ग-प्रसाधनम् ३२३ प्रमादः) । किञ्च दृष्टचरे एव धर्मधर्मिणी अपृथक सिद्धे, यथा जातिव्यक्ती, गुणगुणिनौ, कर्मतदाश्रयौ, प्रभाप्रभावन्तौ च श्रुतचरे च यथा देहात्मानौ, अचेतनेश्वरौ, चेतनेश्वरौ चेत्यन्यत्र व्यक्तम् ; श्रुतिप्रामाण्यात् । यत्तु ज्ञानस्योत्पन्नत्वविनष्टत्वयोः सर्वलोकसाक्षिकयोः तद्विरोधेन नित्यत्ववर्णनं साहसमिति तदिदमुत्यत्तिविनाशपदार्थशोधने सति न स्थास्यति । तथा हि—घट उत्पद्यते, घटो नश्यतीत्यादिव्यवहारगोचरीभूतः उत्पादो विनाशश्यावस्थाविशेषः, न त्वन्यः । द्रव्यान्तरारम्भस्य भावातिरिक्ताभावस्य चानङ्गीकारात् अवस्थाभेदमादायैव सर्वनिर्वाहो लाघवादित्यारम्भणाधिकरणे स्थितम् । यत्र तु गुणादौ अवस्थाया असंभवः, तत्रोत्पत्तिव्यवहारः उत्पत्तौ उत्पत्तिव्यवहारवत् गौणः । न ह्युत्पत्तौ काचिदुत्पत्तिरन्याऽस्ति; अनवस्थाप्रसङ्गात् । एवञ्च ‘घट उत्पन्नः ’ इत्यत्र धर्मिणि समाहृतपदार्थतावच्छेदकीभूतघटत्वरूपावस्थालाभस्य, ‘घटो नष्ट’ इत्यत्र धर्मिणि तादृशघटत्वावस्थोतरावस्थालाभस्य च प्रतीतिरिति तदनुसारेण, प्रत्यक्षं जातम्, नष्टमित्यादौ विभिन्नावस्थालाभग्रहणं सति संभवे मुख्यमुचितमिति अनेकावस्थाविशिष्टमेक वस्तु आत्मनिष्ठम् ; तत्तदवस्था भेदानाञ्च तत्तज्ज्ञानत्वव्यवहारः, मृदीव घटशरावादित्यव्यवहार इति । एवमङ्गीकारे चानुभवानुगुण्यमेव नानुभवविरोधः । नन्वेवं सति ज्ञानस्यावस्थाभाक्तेन द्रव्यत्वापत्तिरिति कथं तस्यात्मनिष्ठत्वमिति चेत् तत्र परमात्मापृथसिद्धद्रव्ये प्रकृत्यादाववस्थावत्त्वतन्निबन्धनद्रव्यत्वसद्भावात् द्रव्ये द्रव्यसद्भावेऽनुपपत्तिर्न काचिदिति विमृश्यम् । प्रादर्शि च प्रत्यक्ष एव दृष्टान्तः -यथा तेजोद्रव्यं प्रदीपाख्यं, प्रभाख्य तेजोद्रव्यविशिष्टं भवति यथा चाश्रयस्य तेजोद्रव्यस्यैकरूपत्वेऽपि आश्रितस्य प्रभाद्रव्यस्य सङ्कोचविकासाभ्यां नानारूपत्वम्, तद्वदात्मद्रव्यं ज्ञानद्रव्यविशिष्टम्, आत्मन्येकरूपे च ज्ञानं नानारूपमवतिष्ठत इति । समालोचनग्रन्थे, ‘प्रदीपस्य प्रभु परिणामः तथा ज्ञानमात्मपरिणामःस्यात् । आत्मनस्ततोऽनित्यत्वम्, जैनमतसाम्यञ्च स्यात्’ इत्युक्तमप्यत एवं ३२४
दत्तोत्तरम् । न खलु प्रदीपः पूर्वमुत्पद्य पश्चात् प्रभारूपेण परिणमति । किन्तु प्रदीपस्तदा तदा समुत्पद्यमानः स्वसामग्रीबलात् प्रभाविशिष्ट एवोत्पद्यते । आत्मनि नित्यं स्थितं ज्ञानं परिणमतीति किलास्माकः सिद्धान्तः । न पुनरात्मा परिणमतीति । प्रदीपव्यक्तेरेकैकस्याः भिन्नभिन्नप्रभाश्रयत्ववत् आत्मनोऽपि विभिन्नज्ञानवत्त्वापत्तिरित्यपि न वाच्यम्; प्रदीपेऽपि कालमेदेन भिन्नभिन्नप्रभोत्पत्त्यनङ्गीकारात् । किन्तु तदा तदा तत्तत्प्रभा विशिष्टः तत्तद्दीप उत्पद्यत इत्येवेति । एकस्मिन् प्रदीपे एककालावच्छेदेनानेकप्रभासत्त्वात् आत्मन्यपि तथा अस्त्विति चेत् -स्यादप्येवम्, यद्येकज्ञानेनानिर्वाहः । न च दृष्टान्तदृष्ट सर्वमपि दान्तिकेऽप्येव्यमिति निर्बन्धः । एवं तर्हि दृष्टान्तजातीयतया दान्तिकत्व-भङ्ग एव स्यात् । एतेनानित्ये प्रदीपे अनित्यप्रभास्वीकारेऽपि नित्ये आत्मनि नित्यज्ञानस्वीकारो न युक्त इत्याक्षेपोऽप्यसंगतः क्षिप्तः । अनित्ये नित्यद्रव्यस्वीकार एव ह्यनुपपन्नः । प्रदीपापेक्षया च तत्प्रभायाः द्रव्यान्तरत्वं निर्विवादमिति न तस्याः तत्परिणामत्वमपि । शाङ्करभाष्य एव ( २ ३ २९), “प्रदीपप्रभायाश्च । द्रव्यान्तरत्वं व्याख्यातम् " इत्युक्तम् । तद्वदेव ज्ञानस्य द्रव्यत्वं नानुपपन्नमिति निरूपयामः । किञ्च दृष्टान्तबलेनैव सर्वत्र वस्तुसिद्धिरित्यपि न नियमः । अनुमानेन साधने तु दृष्टन्तान्वेषणमावश्यकम् । अन्यत्र तु संभावितत्वद्रढिने बुद्धधारोहाय च दृष्टान्तोपन्यासः । अतो दृष्टान्तक्षोभेऽपि न प्रकृतप्रमेयस्यासिद्धिः । तत् सिद्धं ब्रह्मण्यपृथसिद्ध चिदचिह्नव्यसिद्धिवत् आत्मनि ज्ञानद्रव्यसिद्धिरिति । अन्यच्च धर्मभूतज्ञानमधिकृत्य वक्तव्यमवसरे वक्ष्यामः । प्रासङ्गिकपरोक्तीनां परिहारच्छ्लादिमे । नित्यात्मधर्मविज्ञान परमार्थाः प्रदर्शिताः ॥ एवं धर्मभूतज्ञानस्य स्वप्रकाशात्वं नाम स्वाश्रयतया प्रकाशमानत्वम्, तव आत्माश्रिततया प्रकाशमानत्वमित्यबद्ध कृत्वा, तर्हि अद्वैतिमते साक्ष्याश्रिततया प्रकाशमानस्य शुक्तिरूप्यसुखान्तः करणज्ञानादेखि धर्मभूतज्ञानस्यापि जडत्वं किं नेति कुचोद्यकरणमपि हेयम् । को हि नाम जडत्वापादकविधया निर्विशेषकका प्रसाधनम् ३२५ स्वप्रकाशत्वं परिष्कुर्यात् । न चात्र स्वपदं स्वरसतो ज्ञानाश्रयात्मवाचि । न च शुक्तिरुष्यं साक्ष्याधितम् । नाविक तातितया प्रतीतिश्चेत्, भ्रान्तियाप्रतिः । सुखस्य च स्वयंप्रकाशत्वमुकमिष्टमेव । अज्ञानञ्च भवरूपं निरविष्यते; शुक्तिरूप्यादि च । अद्वैतिमात्रसिद्धमहणेन विशिष्टाद्वैतिमते अष्टस्वापादनका दुष्करम् । आत्मगताणुत्वानित्यत्वनिरवयवत्वा चने को भय संमत वस्तुमहणेन जबत्वापादने सुकरे किमित्येतावान् प्रयासः । क्रिं विस्तरेण । जडत्वव्यावृस्पर्शमिष्टस्य स्वप्रकाशत्वस्य स्वयमन्यथा निर्वचनेन जडत्वापादनं यथावस्थितस्वप्रकाशत्वाज्ञानमूलकमेव । प्रदीपसंकोच विकासौ विना, प्रभासङ्कोच विकासौ न स्त इत्येतदप्यनुभवविरुद्धम् । तिरस्करिण्यादिना आवरणेऽपि प्रभासोत्रदर्षानात् । धर्मभूतज्ञानसङ्कोचविकासौ कर्मायताविति पक्षो लोकानुभवविरुद्ध इति कथम् ? कर्मानायत्तौ ताबिति लोकतो ऽनवगमात् । अवगमे च तत्सङ्कोचविकासधर्मिप्रसिद्धधा भवता तदपळापस्य कृतस्यायुक्तत्वाच्च । वस्तुतः शास्त्रवेदितमेतत् । यथा न क्रियते ज्योत्स्ना मलप्रक्षाळनाम्मणः । तथा हेयगुणध्वंसादवबोधादयो गुणाः प्रकाशयन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥, " " अविद्या कर्मसंज्ञाऽन्या, " " तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता सर्वभूतेषु भूपाल तारतम्येन वर्तते” इत्यादीनि निर्विकारात्मधर्मस्य ज्ञानस्य नित्यत्वसङ्कोचायत्ततारतम्यपराणि वचनान्यनुसन्धेयानि । " / यत्तु — अन्तःकरणसङ्कोच विकासाभ्यां सांख्यमत इवान्तःकरणवृत्ति द्वारैव सर्वव्यवहार निर्वाहे धर्मभूतज्ञानस्वीकारः किमर्थ इति -तत् विपरीतम् । व्यवहारं प्रति ज्ञानं कारणमिति सर्वलोकसंप्रतिपन्नम् । तत्संकोच विकासाभ्यामेव सर्वनिर्वाहे अन्तःकरणानिर्गमवृत्त्यादिकल्पनैव निष्यमाणा अनुभवविरुद्धा च । तत्र भगवादरायणनिरस्त सांख्यमतम क्रियावलम्बनात् अद्वैतस्याश्रद्धेयत्वमेव स्यात् । " सांख्यानक्रियामनुसृत्य " इत्यस्य “जीवत्वेश्वरत्वो पलक्षित संविन्मात्रम काश मूरीकुर्वती " त्यतैवान्वो वाच्यः । न च जी श्वरैक्यमविद्या निवृत्त्यादि च सांख्यमतमिति वाक्यमम ॥ ३२६
" सविशेषानुभवानां तु निर्विशेषाविषयकत्वान्न निर्विशेषविषयता " इति भवदुक्तया लोकप्रसिद्धानामनुभवानां निर्विशेषासाधकत्वं स्पष्टम् । निर्विशेषा संवित् काचिदलौकिकी नैव स्फुरतीति सर्वथा तदसिद्धिरेव । अत्र वाक्ये साध्यहेत्वोरभेद इति च पश्यतु भवान् । एवमसिद्धे निर्विशेषानुभवे केन कस्य विरोधः, येन परस्परविरोधे अपच्छेदन्यायादिभिः सविशेषत्वबाधः स्यात् । श्रुत्यादिना निर्विशेषत्वव्यवस्थापनमिति चेत् — नायं प्रकृतवाद विषयः । स्वप्रकाशतया निर्विशेषत्वसमर्थनस्यैवात्र विचार्यमाणत्वात् । ‘अप्रत्यक्षेsपि ह्याकाशे बालाः तलमलिनतादि अध्यस्यन्ति’ इति शाङ्करभाष्यस्येह ग्रहणमप्यनुपपन्नम् । तद्वाक्यं प्रौढिवादः आकाशवत् आत्मनः अप्रकाशाभावादिति भामत्यां व्यक्तम् । आकाशवत् अप्रकाशत्वस्वीकारेण तद्भाष्यादरणे च निर्विशेषसंवित्स्वयंप्रकाशत्वोपपादनस्य प्रकृते कर्तव्यस्य विरुद्धमेव तत् स्यात् । कवितार्किकचक्रवर्तिनृसिंह भट्टोपाध्यायादिभिरधिष्ठानज्ञानं पृथक्तया भ्रमकारणत्वेन न स्वीकृतमिति तावत् सिद्धान्तलेशसंग्रहोक्तम् । तावता संवित्प्रकाशः सविशेषत्वभ्रमात् पूर्वं नापेक्षित इति प्रकृते स्यात् । एवञ्च निर्विशेषत्वं स्वयंप्रकाशम् इति प्रकृतस्थापनीयस्य, अस्य च कः सम्बन्धः ? पूर्वं निर्विशेषत्वविशिष्टस्वप्रकाशोऽस्तीति चेत्-नेदमानुभविकम् । तदस्तित्वे तदनन्तरं सविशेषत्वानुभवायोगश्च । निर्विशेषत्वांशमात्राकाशे च खप्रकाशत्वविधया तत्समर्थन प्रत्याशैव नास्तीति ॥ यत्तु” निर्विशेषता तु संविदूपा, न तु संविद्धर्मः " इतितेन किमुक्तं भवति ? निर्विशेषत्वस्य पृथगनुभवाभावेऽपि संविदनुभव एव निर्विशेषत्वानुभवतया स्वीकर्तव्य इति चेत् —तर्हि संविदो नानाविशेषविशिष्टतयैव लोकेऽनुभूयमानत्वात् तत्र विशेषाभावरूपनिर्विशेषत्वस्य दुर्वचत्वेऽपि संविद एव निर्विशेषत्वमिति नामान्तरं पारिभाषिकं कल्प्यत इत्युक्तं भवति । अभावस्याधिकरणात्मकत्वाभिप्रायेण तदुक्तिरिति चेत् अभावप्रतीतौ सत्यां किल, स किमतिरिक्तः, अधिकरणमेव वेति विचार्यम् । न तद्विरुद्धे सविशेषत्वेऽनुभूयमानेऽप्रतीतमभावमधिकृत्य विचारप्रसक्तिः । निर्विशेषस्वप्रकाश-भङ्ग-प्रसाधनम् ३२७ यत्तु — सुषुप्तौ निर्विशेषप्रकाशोऽस्तीति तत्र किं प्रमाणम् ? आश्रयस्याहमर्थस्य विषयाणाञ्च तदा लीनत्वादिति चेत् — एकस्य सुषुप्तत्वेऽपि अन्यैर्बहुभिः सविशेषानुभवानां क्रियमाणतया विषयादिलय इत्यस्यैवासिद्धः ॥ विडालो मीलयेनेत्रे न लोकोऽस्तमियात् ततः । अहमर्थलये च स्यात् सुषुप्तादन्य उत्थितः ॥ सुषुप्तिर्नामाप्रबोधः -ज्ञानाभाव इति यावत् । तेन सर्वस्य सद्भावेऽपि ज्ञानं नास्तीत्येव सिद्धयेत् । सर्व लीनम्, ज्ञानं परमस्तीति सुषुप्तिवर्णनं तु सर्वलोक परिहास्यम् । एवञ्च सुषुप्तौ ज्ञानाभावोऽपीष्यते चेत् अप्रबोध इति व्युत्पत्तिः रक्षिता स्यात् । नन्वेवं सुषुप्तौ न किञ्चित् प्रकाशते चेत, सुखमहमखा समिति प्रबोधकालिकस्य परामर्शस्य कथं निर्वाह इति चेत् एतत्परामर्शविचारश्चावसरे करिष्यते । अत्र पुनरथं संवित्प्रकाशस्य तदातनस्य स्थापकः कथमिति पृच्छामः । अत्र हि, सुखम्, अहमर्थः, खापः इति वस्तुत्रयमुल्लेख विषयः ; चतुर्थः कालोऽपि वा । तत्र संविदः कुत्रान्तर्भावः, येन तत्स्फुरणं सेत्स्यति । सुखप्रकाश एव संवित्प्रकाश इति चेत् सुखं खल्वन्तः करणवृत्तिविशेषः, तत् कथं तदा ? तदतिरिक्तमा नन्दभूतमात्मखरूपं सुखपद ग्राह्यमिति चेत् किं तस्य सुखत्वेन प्रकाशः, उत स्वरूपमात्रेण ? आद्ये कथं निर्विशेषप्रकाशः ? अन्त्ये सुखमिति पदप्रयोगो न युक्तः । सुखत्वाविवक्षयेव दुःखत्वाविवक्षथा दुःखमहमस्वाप्तमित्यपि परामृशेत् । सदहम खाप्सम् ज्ञानमहमखाप्यम्, संविदहमखाप्सम् ब्रह्माहमखाप्स वित्येवमपि परामृशन्तु । अधिकमुपरिष्टात् ॥ मुक्तौ संवित् प्रकाशते इति च न युक्तम् । निर्विशेषानुभव स्वप्रकाशरूपमुपपादयितुं प्रवृत्तेन लोक एव तस्य प्रदर्शनीयतया मुक्तौ भविष्यतीत्युक्तौ विस्रस्भायोगात् । किं भवता मुक्तावनुभूय पुनरागत्योपन्यस्यते, किं वा मुक्तौ भविष्यतीति श्रुत्यादितोऽवगम्य ? आधमसिद्धम् । अन्त्ये निर्विशेषश्रुतिसम घिगम्यं तत् स्यात्, न स्वप्रकाशसिद्धम् । तत्रापि विशेषाभावविशिष्टतया संबित्३१०
प्रकाशते चेत्-विशेषाणां प्रतियोगिभूतानां तदभावस्य च सह प्रकाशनात् न संविन्नात्रप्रकाशः । विशेषाणां प्रकाशं विना संविन्मातप्रकाश एव विवक्षित इति चेत् तदापि किं संवित् तदा केवलमस्ति, उत प्रकाशतेऽपि ? अस्ति च, प्रकाशते चेति चेत्-अस्तित्वप्रकाशमानस्वरूपांशद्वयविशिष्टायाः संविदः कथं निर्विशेषता ? अंशयोर्धर्मिणा सह सर्वथैवैक्ये, अस्तीत्यतः प्रकाशते इत्यनेन किमधिकमुक्त स्यात् । अस्ति, न तु प्रकाशते इति प्रकाशाभाव एव तदेन्युक्तौ को दोषः ? संवित्प्रकाशयोरैक्यमनुभवसिद्धम्, अतो न तस्या अप्रकाशरूपस्वमिति चेत्-उपपाद्यताम् । घटमहं संवेद्मीत्युक्तौ घटो मे प्रकाशते इति स्वत्वर्थः । अतः संविदः प्रकाशस्य च ऐक्यमिति चेत् सत्यं सविशेषसंविधैक्यं सविशेषप्रकाशस्य । तावता निर्विशेषस्य संवित्त्वं प्रकाशत्वं च न सथतिः । विषयग्रहणकाल एंव संवित्प्रकाशस्यानुभूयमानतया निर्विशेषतादशाया विषयाग्रहणादस्फूर्तिरेव स्यात् । किश्च संवित् प्रकाशते स्वयंप्रकाशा इत्यादिव्यवहारे प्रकाशांश्रयत्वमेव संविदः प्रतीयते न तु प्रकाशरूपत्वम् । एवञ्च संविन्निष्ठः प्रकाशो नाम कश्चिद्धर्मः स्वीकार्यः । स च प्राकट्यं वा व्यवहारानुगुण्यं वा किमप्यस्तु । तस्य च सर्वकुक्षिम्भरौ मोंक्षे दुर्भिक्षमेवेति कथ मुक्तौं संवितः प्रकाशत इति वाघो युक्तिः । सविशेषानुभवरूपायां तु मुक्तौ सर्वमिद घटते । तथा च संविदः प्रकाशश्चेत्, सविशेषत्वमेव । निर्विशेपस्थे चाप्रकाश एवेति ॥ 1 तत्त्वमसीत्यखण्डवाक्यार्थस्फूर्ती संविन्मात्रप्रकाश इति च विचारितम्; विचारयिष्यते च । पदार्थद्वयान्वयमनिच्छतां तत्त्वमसिवाक्ये कथमन्विताभिधानवादः, अभिहिताश्वयवादो वा । मीमांसकपरिभाषितस्य अन्विताभिधानस्वामिहितान्वयस्य च तदभिमतार्थानङ्गीकारेण तात्पर्यविषयामिधायकत्वतदनुभावकत्वरूपार्थवर्णनमपेक्ष्य, नास्माभिः मीमांसकसरणिः समानाधिकरणवयेषु; विशिष्य ब्रह्मपरेषु वैष्यत इति यद्यद्वैतिनो वदेयुः तत् युक्ततरम् । जिज्ञासानुपपचित्रसाधनावसरे प्रादि किञ्चिद्विचारितम् । शेषमुपरिष्टात् । एवमखण्डार्थपर / निर्विशेषस्वप्रकाश भङ्ग प्रसाधनम् ३२९ त्वस्य वाक्येऽङ्गीकारे, ‘प्रमाणान्तरं नास्ति, स्वयंप्रकाशत्वमेव निर्विशेषस्ये’ ति च कथम् निर्विशेषपदं विशेषाभावत्वोपलक्षितस्वरूपपर मित्ययुक्तम् ; विशेषाभाववत् इत्येव तदर्थात् विशेषाभाववत्त्वोपलक्षितेति तु स्यात् ; न तु विशेषाभावत्वोपलक्षितेति । निर्विशेषमित्यस्य विशेषाणामभाव इत्यर्थे अव्ययीभावत्वे निर्विशेषा संविदिति प्रयोगानुपपत्तिः । अस्तु तावदुपलक्षणमभावत्वं वा अभावो वा । सर्वथा निर्विशेषपदस्य पदद्वयात्मकस्य विशेषतदभावतदुपलक्षित संविदेतावत्परत्वेन अखण्डपरत्वं दुर्वचम् । जहल्लक्षणया तत्परत्वं तु सविशेषपदेऽपि भवितुमर्हतीति कोल विशेषः । तस्मान्निर्विशेषमित्युक्तौ अभावस्याधिकरणात्मकत्वखीकारे घर्मधयुभयं विना धर्निमात्रेण निर्वाह इत्यालोच्य निर्विशेषमित्युक्तावपि अभावरूपे तस्मिन् अभाक्त्व विशेषप्रतियोगकत्व पदतात्पर्य विषययत्वाद्यनेकविशेष सद्भावात् सर्वविशेषाभाववत्त्वं दुर्घटमेवेति विशेषपदस्यार्थसङ्कोचः सर्वत्रैवावर्जनीयः । ते विशेषा अपारमार्थिका इति चेत्तर्हि पारमार्थिक विशेष राहित्यं निर्विशेषत्वमिति विशेषपदस्य विशेषपर्यवसानमेव । घटपटादीनां समानञ्चेदं पारमार्थिक विशेष राहित्यम् । धर्मिसमानसत्ताकधिशेषराहित्यं निर्विशेषत्वमिति चेत्-विशेषपदसङ्कोचस्तदवस्थ एव । एवमावश्यके च सङ्कोचे प्रत्यक्षानुमानश्रुत्यन्तराद्यनुरोधेन जगदनपवेन समुचि तविशेषसंकोचकल्पनेन वाक्यार्थवर्णनं श्रेयः ॥ यश्चोपरि निष्कर्षः-सोऽप्य निष्कर्षमेव दर्शयति । हम्रपत्वं स्वप्रकाशत्वमिति हि निष्कृष्टम् । संविदः स्वयंप्रकाशत्वं तार्किकादिवैलक्षण्याय साधयद्भि किं नाम स्वयंप्रकाशत्वमिति प्रश्ने संवित्त्वं स्वयंप्रकाशत्वमि त्युक्तिर्यादृशी, तादृश्येवेयमपि । दृक्सं वित्पदयोः समानार्थकत्वात् । अविवादविषयस्य संवित्त्वरूपदृक्त्वस्य विवादविषयस्य स्वयम्प्रकाशत्वस्य चैक्यायोगात् । उपरि, सविशेषस्य ये विशेषाः, ते स्वप्रकाशाः, परप्रकाशा वेति विकल्प्य आद्ये ते विशेषाः ह्यूपा वा दृश्या वेति विकल्पनमप्यरम्यम् विशेषाणां स्वयंप्रकाशत्वपक्षे दृकत्वस्वयंप्रकाशत्ययो विपस्य भवदुक्ततया दृश्यत्व-: 42 ३३० परार्थभूषणे कोटिक विकल्पायोगात् । उपरि कृत विकल्पानां यथाक्रमं समाधिरपि नाकारि । एवं संवित्प्रकाश्यत्वमन्यप्रका इत्यत्वं वेति विकल्पोऽप्ययुक्तः । संविदतिरिक्तस्याप्रकाशकत्वात् । श्रीभाष्यमते प्रकृतितद्धर्माणां स्वप्रकाशत्वमिति पक्षोद्भावनमप्यसंभावितम् । " तमेव भान्तनुभाति सर्वम्” इति श्रुतिश्च भगवत्प्रकाशाधीनप्रकाशाश्रयत्वं सूर्यादेर्दर्शयति । सूर्यादीनां यादृशं भानं प्रभाश्रयत्वम् तत् भगवद्गततादृशभानाधीनमिति किल स्वरसम् । तेन भगवद्दिव्यविग्रह प्रकाशाधीनत्वं ज्ञायते । “चक्षोः सूर्यो अजायत “, " सूर्यस्य तपतो लोकान् अग्नेश्चन्द्रस्य चाप्युत । अंशवो ये प्रकाशन्ते ममैते केशसंज्ञिताः । सर्वज्ञाः केशवं तस्मात् मामाहुर्द्विजसत्तमाः” इत्यादिकमत्र भाव्यम् ॥ , उपरि शतदूषण्यनुवादे निर्विशेषस्वयंप्रकाशत्वं किं संविदेव वदति, उतान्य एवेत्यर्थानुवादे, " तटस्थस्तामुपलभ्ये” ति अनुवदनीयस्य, अशुद्धमुद्रणग्रन्थावलोकनेन अर्थे सर्वथैवानवधानं वहता, ‘तटस्थतामुपलभ्ये ‘त्यनुवादः, अथ, " स तमुपलभमानः ततोऽन्यया वा तथैव वा स्यात्" इत्यनुवादे कर्तव्ये, “अन्यथा वा, “तथैव वे” त्यनुवादश्चान्यथाग्रहणमनुवदितुरतिस्पष्टं दर्शयति । " नाहं प्रकाशः सर्वस्य योगमायासमावृतः” इति ( ७ २५) इति गीतया -‘योगमायासमावृतत्वात् मदीयं यथावस्थितं स्वरूपं सर्वेषां न प्रकाशमानमस्ति । ते मूढाः । मन्मायायाः मां प्रत्यावारकत्वाभावात् न मे ज्ञानप्रतिबन्धः’ इत्यर्थे शाङ्करभाष्यतो मूलतश्च विस्पष्टे तद्विपरीतं यत् लिखितम् “भगवान् स्वस्य मायिक रूपमेवावृतमप्रकाशश्चाह । पारमार्थिक स्वरूपं तु न कस्याप्यप्रकाशम् " इति तदीदृशविपरीतार्थवर्णनं विना स्वमतासिद्धि स्वान्तर्गतामाविष्करोति ॥ यत्तु –योगस्य कस्यापि भ्रान्तित्वं विषयबाधेन वा, स्वरूप मिथ्यात्वेन वेति विकल्प्य आद्यं बाधितम्, अन्त्यमपि (विषयासत्यत्वेऽपि ) ज्ञानसत्यत्वं स्थापयतामाशयविरुद्धमिति दूषणम् —तदपि स्थवीयः । योगस्य कुत्रापि भ्रान्तित्वं न भवतीति न हि युक्तम् । भ्रमात्मकानुभावाधीनस्य संस्कारपाटवाधिक्या यत्तदर्शनसमानाकारत जुषोऽपि स्मृतिसन्तानस्य योगस्य भ्रान्तित्वाव निर्विशेषस्व प्रकाशत्व भङ्ग प्रसाधनम् ३३१ इयम्भावात् । भावनाप्रकर्षजन्मनो योगिप्रत्यक्षस्य पुरः स्थितत्वेन दूरस्थ विषयग्राहित्वमपि भ्रमत्वापादकमित्यन्यत्र व्यक्तम् । कपिला दियोगिनां यदि सांख्यादिशास्त्रदर्शितरीत्यैव तत्त्वसाक्षात्कारः, स तर्हि भ्रम इति च स्थितं स्मृत्यधिकरणे । भवतैव शब्दजन्यप्रत्यक्षविचारावसरे योगिप्रत्यक्षस्य परस्परविरुद्धतत्तत्सिद्धान्तावलम्बिसर्वाचार्यनिष्ठत्वं जैनादीनाञ्च योगित्वमुक्त मिह स्मर्तव्यम् । यच्च ज्ञानस्य स्वरूपमिथ्यात्वेन भ्रान्तिशब्दवाच्यत्वमिति विकल्पनम् -तत् अनुक्तमनुल्लेख्यम संभावितञ्चेति किं तत्र विस्तरेण ? यत्तु ज्ञानत्व विशिष्टस्य न स्वयंप्रकाशत्वम्, किन्तु ज्ञानत्वोपलक्षितस्येति निर्विशेषस्वयंप्रकाशत्वप्रत्याशयोक्तम् — तदप्यनुभवदूरम् । घटमहं जानामीति ज्ञानस्य ज्ञानत्वमुखेनैव प्रकाशात् = विशिष्टस्य स्वयंप्रकाशत्वस्यावश्यकत्वात् । धर्मिमात्रप्रकाशग्राहकस्यानुभवस्य लेशतोऽप्यभावात् । एवं प्रत्यक्षानुमितित्वादिविशेषधर्म विशिष्टतयाऽपि ज्ञानस्य प्रकाशमानत्वमा नुभविकम् । तथास्वयंप्रकाशत्वे बाधकाभावात् लाघवाच्च न धर्मविषये ज्ञानान्तरापेक्षा । अन्यथा धर्मग्रहणार्थापेक्षितज्ञानत एव धर्मिणोऽपि भानसंभवे स्वयंप्रकाशत्वमेव न सेत्स्यति । " स्वप्रकाशं निर्विशेषं व्यवहारदशायामस्वप्रकाश वर्तते " इति लेखनात् संसृतौ तदप्रकाशः सिद्धः । पूर्वं ( ४५ ) " स्वप्रकाशत्वश्चेदं स्वातिरिक्तप्रकाशापेक्षप्रकाशाभाव एव " इति लेखनात्, “स्वयं सिद्धिरूपत्वमेव, न तु प्रकाशमानत्वम् " इति लेखनाच्च ज्ञानत्वस्वयंप्रकाशत्वयोरविशेषः, मुक्तावपि तदप्रकाशश्चैवोक्तो भवतीति, संविदः अप्रमेयभूतायाः स्वयंप्रकाशत्वस्याप्यभाव एव भङ्गयन्तरेणोक्तो भवतीति साधु स्वयंप्रकाशत्व-भङ्गपरीक्षणम् । अतश्च समुचितमेव भवत्कृतमेतन्नाम, " निर्विशेषस्वयं प्रकाशवाद-परीक्षा " इति । तत्परीक्षेत्यस्य तत्रानुपपत्त्युद्घाटन मित्यर्थः किल भवदभिसंहितः । अत्र च स्वयंप्रकाशत्व एवानुपपत्तिरुच्यत इति नाम स्वयं समुचितं संपन्नम् । मामन्यश्च न जानामीति प्रतीतौ यदि संवित्स्वरूपमज्ञानाश्रयतया प्रकाशते, कथं तर्हि निर्विशेषस्य ततो वेद्यत्वम् ? श्रुतिबला । i १३२
निर्विशेषस्वीकारश्चेत् स्वयंप्रकाशबलात् सिद्धिरिति प्रमाणान्तरागोचरस्वाभिधानपूर्वकं तत्सिद्धिः किमित्युच्यते ! अत्रेदं बोध्यम् — प्रकाशो नाम ज्ञानविषयत्वं वा, प्राकटयाख्यधर्मों वा, व्यवहारानुगुण्यं वा यथायथमद्वैत्यतिरिक्तमते उपपादयितुं शक्यम् । मोक्षेऽपि कर्माधीनव्यवहारवादिनां तत् सुवचम् । निर्विशेषत्वमा तिष्ठमानानां तु संविदि कथमेतत्संभवः ? दृश्यत्वादिविशेषाङ्गीकारे मिथ्यात्वं स्यादिति मिथ्याभिया तस्य सर्वस्यासंमतेः । संमतावपि यदा जागर्यादौ ज्ञानविषयत्वादीनामुक्तानां संभव, तदा निर्विशेषा संविन्न प्रकाशते । सुषुप्त्यादौं तु प्रकाशत इत्युच्यते । कथमेतत् ? सुषुप्तौ ज्ञानव्यवहारयोरभावात् । मुक्तौ कस्याप्यभावाच्च । अतस्तदा तदा प्रकाशते संविदिति विप्रलम्भमात्रम् । यदि प्रकाशो नाम संविदेव, सा च तदाऽस्तीति संवित् स्वयंप्रकाशत इत्युच्यते, तर्हि जागर्यादावपि संविदस्त्येवेति कुतो न सा प्रकाशते तदा । एवञ्च सद्भावातिरिक्तप्रकाशाभावात् प्रमाणाभावे घटाद्यस्तित्वासिद्धिवत् संविदस्तित्वासिद्धिरेव स्यात् । संविज्जडेपि तार्किकपक्षश्च न निराकृतः स्यात् । स्वयंप्रकाशत्वमन्यानधीनप्रकाशत्वञ्चेत् तादृशप्रकाशानङ्गीकारादसिद्धिः । किञ्चिदधीनप्रकाशाभाव एव स्वयंप्रकाशत्वञ्चेत् शशविषाणमपि स्वयं प्रकाश स्यात् । अथ खभिन्नकिञ्चिदधीनप्रकाशाभाव एव स्वयंप्रकाशत्वम् । शशविषाणस्थले च खपदार्थाप्रसिद्धया न तस्य स्वयंप्रकाशत्वापत्तिरिति चेत् संविदः प्रकाशान्तरेण सिद्ध्यभावे शशविषाणवदिहापि तत्समन्वयदौर्घटयमेव । अप्रसिद्धत्वाविशेषात् । अन्यतः सिद्धौ अन्याधीनप्रकाशाभाव-भङ्गः । न चान्या काचित् स्वतस्सिद्धिरस्ति । किं बहुना अद्वैतमतं सच्चिदानन्दखरूपं ब्रह्म; तत्र चिदानन्दरूपत्वाविर्भावो मुक्ताविति मोक्षः पुरुषार्थ इत्यदिवचनमकृतबुद्धिसंमोहनमात्रम् । सत्त्वचित्त्वानन्दत्वानामभावात् । मुक्तौ धर्मिसद्भावातिरिक्तस्य स्फुरणस्याभावेन आनुकूल्याद्यभानाच्च मोक्षस्यनुमवरूपत्वं न भवति । एवञ्च पाषाण कल्पमोक्षवादितार्किकपक्षात् तदंशे स्यादेवाविशेषः । तैर्भावातिरि A 20 1 निर्विशेषम-प्रसाधनम् २३३ काभावाङ्गीकारात् सर्वात्म विशेषगुणध्वंसरूप दुःखनिवृत्तिः साध्या भवति । अद्वैति भिस्तद निष्ट्या अविद्यानिवृत्त्याः साध्यत्वमपि दुर्वचम् । तस्याः श्रह्मातिरिक्तत्वस्य नित्यत्वस्य च स्वीकारे द्वैतापत्तिः । ब्रह्मरूपाधिकरणाभेदे च तस्य संसृतावपि सद्भावादद्यापि मोक्षोऽस्तीत्येव स्यात् । अस्त्येव, सर्वस्य प्रपञ्चस्य असत्यत्वात्, नित्यमुक्तत्वात् ब्रह्मण इति चेत् — तर्हि किमर्था वेदान्तचिन्ता ? एवमस्तीति ज्ञानार्थमेवेति चेत् — ज्ञानाभावे क उपप्लवः ? संसारबन्ध इति चेत् — ननु स मिथ्यैवेत्युक्तम् । मिथ्येत्यमत्वा मुधा श्राम्यन्तीति तत्परिजिहीर्षया तच्चिन्तेति चेत् — श्रमोऽपि मिथ्यैवेति का तत्परिजिहीर्षेत्यलमधिकेनास्मिन् वादे । विनैव प्रमाणान्तरं संवित् निर्विशेषैव सिद्धयति स्वयमेवेति प्रतिज्ञामनुपपाद्य पुनः पुनः प्रतिज्ञ मात्रकरणेन स्वयंसिद्धिं परित्यज्याप्रसक्तप्रमाणान्तरोपन्यासप्रयासेन च ग्रन्थविस्तरणं वृथामिनिवेशकृतमेव । निर्विशेषश्रुतिरूपप्रमाणन्तरं च तदवसरे शोधयिष्यते ॥ स्वतः स्फुरति निगुण किमपि निर्विशेष सदे त्युपन्यसनवञ्चितो भवतु नाम कश्चिद्भुवि । वद स्फुरणमीरितं किमिदमस्थ, कस्मै स्फुर त्विदं तदिति पृच्छको भवति नैव तद्वञ्चितः ॥ * श्रीः