१० कथानधिकार-प्रसाधनम्

यदीक्षणोपेक्षणगोचरत्वात् यथार्थ विज्ञानविपर्ययाद्यम् । तदीयहेषायितसाधुवादान् सतः परेषाञ्च हितान् प्रपद्ये ॥ प्रामाणिकपरिग्राह्यायां कथायां प्रपञ्चापलापिनामनधिकार इति प्रकटाविशेषं प्रच्छन्नविषयेऽप्युपपदितं कथानधिकारवादे । स्वकीयानामधिकारस्थापनार्थञ्च चार्वाकमाध्यमिकानामप्यधिकारं स्वीकृत्य खण्डनखण्डखाद्य दिषु यदुक्तम्, तत् खण्डनाय चानादरणीयमिति श्रीभाष्यविवरणव्याजेन आशयमुद्धाट्य प्रस्तुत्य, तत्र यत् तावत् खण्डितम् " इति खण्डनग्रन्थस्यार्थतोऽनुवादारम्भः । संपूर्णमनूद्य तन्निरसनेन स्वमतमण्डनमत्र वादे आचार्यैर्विस्तृतम् । " कथानधिकार-प्रसाधनम् १९५ परन्तु तात्पर्यचन्द्रिकाद्याचार्थग्रन्थान्तरेषु तत्रतत्रेव अत्रापि ग्रन्थपात आपत्तिः । तदद्यत्वे श्रीभगवद्यामुनाचार्यविरचितेश्वरसिद्धिरिव कथानधिकारवादोऽयं पूर्वपक्षांशेऽप्यपूर्ण एवोपलभ्यते । चण्डमारुतादौ तु स्थितमात्रेणापि का निर्वाहार्थं वाक्यार्थवर्णने क्लेश उखते। अस्वरसवेदितयैव नृसिंहराजीये चण्डमारुतानुरोधेन स्वरूपव्याक्रियैव निराक्रियेति पूर्वमुक्ता, “ केचित्तु अत्र सिद्धान्तग्रन्थपातमाहुः " इत्युक्तम् । पूर्वपक्षानुवादोऽप्यन्ते नष्ट इति ज्ञेयम् । तालकोशेषु च केषुचित् उपलभ्यमानपर्यन्त बिलिरून वादान्तरेष्विव, “इति….. .” इति समाप्तिवाक्यमविलिख्य ग्रन्थपातसूचनाय . शतदूषण्यां…. उपलम्भे सति लेखनसौकर्याय च तत्र ताळपत्रे शिष्टं भागमधिकञ्चानक्षरं संरक्ष्य तदुपर्येव स्वप्रकाश-भङ्गवादप्रारम्भः कृतोऽस्तीत्यतो भ्रष्टमन्थालाभं प्राञ्चः प्रदर्शितवन्तः सन्तीति स्वीकर्तव्यम् । तदत्र, “तत्र यत् तावत् खण्डित” मित्यारब्धस्यानुवादस्या समाप्तत्वात्, यदित्यस्य प्रतिसंबन्धितच्छब्द निर्देशपुरस्सरं तत्र दोषोपन्यासस्य कार्यत्वाच्च उपरितनवशभ्रंश संप्रदाय एवं समञ्जसः । अथात्रानूद्यमानखण्डनग्रन्थखण्डनाशयः संगृह्यते–अधिक. रः फलस्वम्यमिति मीमांसकाः । स कथाधिकारस्तस्य भवति, यः कथाजन्यफलभोक्ता भवति । कथाफलञ्च तत्त्वनिणयोत्पादनम् । अन्यस्य वस्तुतस्तदभावान्न तद्धोतृत्वरूपाधिकारः । तत्त्वनिर्णयश्च कथायां प्रमाणतर्काभ्यां साधनोपालम्भयोः करणात् भवतीति वक्तव्यम् । वादिप्रतिवादिभ्यामुपन्यस्तौ पक्षप्रतिपक्षौ न्यायात्मकौ हि कथा नाम । तत्राद्वैतिभिः प्रपञ्चापलापस्य कृतत्वात्, तन्मते प्रमाणानामप्यभावात् केन किं कथं साध्यते ? अत एवोक्तं न्यायभाष्ये, " किसाधनः परमुपालभेत" इति । एतेन यदुक्तं सर्वनिर्वचन खण्डनव्यसनिना खण्डनकारेण, “स्वपक्षसाधनानभिमत्या परपक्षविदळनमात्रया वितण्डया कथाप्रवृत्तौ न दोषः " इति तदपि निरस्तम् । परपक्षविदलनस्य प्रतिज्ञाहेत्वादिरूपेणैवोपन्यसनीयत्वात् प्रपञ्चापला पिभिः पक्षसाध्यसाधनादीनामसिद्धया मूकी भावस्यैवावलम्ब्यत्वात् । अन्यच्चोक्तं न्यायभाष्ये –यो ज्ञापयति, यो जानाति २९६

येन ज्ञाष्यते, यच्च ज्ञाष्यते एतच्चतुष्कं प्रतिपद्यते यदि, तदा वैतण्डिकत्वं जहाति । सर्वापलापी वैतण्डिकः वाचं विस्रष्टुमेव नेष्टे । विदळनप्रवृत्तस्य वैतण्डिकस्य, विदळनं स्वेन परस्मै वाक्यप्रयोगेण तन्मूलकशाब्दबोधेन कार्यमित्येतदपि यदि नाध्यवसीयते, कथं कथाप्रवर्तनम् । यद्यध्यवसीयते, तदा कथं सर्वनास्तित्वमिति । अनध्यवसाये च, " नाव लौकिको न परीक्षक इति उन्मत्तवदुपेक्षणीयः " इत्यप्युक्तं न्यायभाष्ये । वैनयिकीं सांसिद्धिकीं वा शिक्षामप्राप्तः लौकिकः, विचारसमर्थः परीक्षक इति लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यम्” इति न्यायसूत्रभाष्ये द्रष्टव्यम् । कथायां प्रवृत्तः किं निर्णीततत्त्वः उतानिर्णीततत्त्वः ? आद्ये सर्वस्य तहुद्धया बाधितत्वात् प्रतिपाद्यपुरुषादीनामेवाभावात् व्यवहारसामान्यमेव न प्रसज्यते ; कथं कथा ? न च एकस्य जीवस्य तत्त्वनिर्णयेऽपि जीवान्तरस्य स उत्पाद्य इति युक्तम् । जीवान्तरस्यापि स्वकल्पितत्वान्मिथ्यात्वात् । ब्रह्मेतरत् मिथ्येति सङ्गाहकेण जीवान्तरा विद्यादीनामपि बाधितत्वेन तदप्रसक्तेश्च । नान्त्यः, वादिप्रतिवादिनोः स्वस्वविषयनिर्णययिस्यावश्यकत्वात् अन्यथाऽनधिकारत्वात् । अथ स्वपक्षस्य कस्यचिदभावात् वैतण्डिकस्य न तन्निर्णयोऽपेक्षित इति चेन्न । न हि वैतण्डिकस्य पक्ष एव नास्ति । किन्तु स्वपक्षं स्थितमपि न स्थापयतीत्येतावदेव । अत एव सूत्रम् " स्वपक्षस्थापनाहीनो जल्पो वितण्डा " इति । खण्डनकारोऽप्यद्वैतश्रद्धयैव हि प्रववृते । कामं तस्य कश्चित् सिद्धान्तो मा भूत् । वादिसमतस्यार्थस्य विषयेऽनुपपन्नत्वनिश्चयस्तावदस्त्येव । अत एव विदलनारम्भः । स च निर्णयस्तेन सति अवसरे समर्थनीय एव अन्यथा वादी विजयते । यदि चाद्वैतं शून्यं वा स्वपक्षत्वेनास्वीकृत्य कश्चिद्वैण्डिकः तत्तन्म तस्यैकदेशिवत् वाद्युक्तेऽनुपपत्तिमात्रमाविष्करोति, तर्ह्येतावता बौद्धाद्वैतिप्रभृतीनां कथानधिकारं प्रतिपादयतोऽस्मान् प्रति न किञ्चिद्भवता कथाधिकारस्थापनोपयोगि दूषणमुक्तं भवति ॥ ननु प्रतिवादिपक्षे वस्तुतः सर्वस्याभावेऽपि वादिना सर्वास्तित्वस्य स्वीकृततया तत्पक्षरीत्या तत्र दूषणोद्भावने को दोषः इति चेत् — अत्र, कथानधिकार-प्रसाधनम् " सर्वथा सदुपायानां वादमार्गः प्रवर्तते । २९७ अधिकारोऽनुपायत्वात् न वादे शून्यवादिनः " ( श्लोकवार्तिके निरालम्बनवादे १२-१२८) इति वदन् भट्टकुमारिल एवं दूषणं दर्शयति, योऽपि तावत् परासिद्धः स्वयंसिद्धोऽभिधीयते । भवेत् तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रिया ?" इति । उभयमतसिद्ध एव हेतुर्भवति नान्यतर सिद्धः । स्वमतमात्रसिद्धे तूपन्यस्यमाने परेणासिद्धौ शङ्कितायां तत्सत्त्वसमर्थनेन शक्यते तत्त्वनिर्णयः कर्तुम् । स्वस्यैव यत् असिद्धत्वेनाभिमतम्, तदुपन्यासे तु असिद्धिशङ्कायां ओमित्येवोत्तरमिति कथं ततस्तत्त्वनिर्णयः ? यत्तुयत्तु व्यावहारिकं सत्त्वमस्माकमिष्टमिति -तत्रासत्त्वस्यैव व्यावहारिकं सत्त्वम्, सांवृतिकं सत्त्वमिति नामान्तरमिति निरूपयिष्यामः । अन्यदत्र चण्डमारुतोक्तमपि ग्राह्यम् । यथा " प्रातिभासिकमानेन व्यावहारिकबाधने । व्यावहारिकमा नेन तत्त्वं सिद्धयेत् ; न चान्यथा ॥" इति । यदि व्यावहारिकसता हेतुना व्यावारिकसदेव किञ्चित् साध्यते, तदस्तु । सत एव प्रतिवादिसंमतस्य व्यावहारिकमिति विशेषणमात्रस्य भवता दीयमानत्वात् । वादिसंमतेन वादिसंगतस्यैव साधनादसिद्धिदोषाभात् । सिद्धसाधनं तु स्यान्नवेत्यन्यदेतत् । व्यावहारिकविलक्षणं तु पारमार्थिकं व्यावहारिकेण न शक्यं साधयितुम् । तथा सति प्रातिभासिकं शुक्तिरजतस्वाप्नपदार्थादिकं बाध्यमानमपि तादृशबाध्यतारहितव्यावहारिकवस्तुसाधकं भवतु । न हि वास्तवरजतादिसाध्यं सबै शुक्तिरजतादिसाध्य कश्चिदूरीकुर्यात् । शुक्तिरजतप्राप्तिमात्रेण धनिकत्वाङ्गुलीयकवत्त्वादेरसिद्धेः । अत्र, यदि प्रातिभासिकमानं व्यावहारिकसाधनं स्यात्, व्यावहारिकमानं पारमार्थिकसाधनं स्यादिति चण्डमारुता मनवबुद्ध्य यदुक्तम्, 38२९८

" न हि चण्डमारुतोक्तरीत्या भ्रमज्ञानं व्यावहारिकसाधनमित्यद्वैत सिद्धान्तः इति तदेतेन निरस्तम् । तथा अद्वैत सिद्धान्त इति तत्रानुक्तेः । विपर्ययपर्यवसायिना तर्केण तदभावस्यैव तु ज्ञापनात् । यद्यपि प्रातिभासिकस्य व्यावहारिकं तद्विषयकं ज्ञानं प्रति जनकत्वमस्ति अथापि न व्यावहारिकरजतसाध्यस्य सर्वस्य प्रातिभासिकं रजतं साधकम् । एवं स्वामिकराज्यभरणादेः प्रमोदादिजनकत्वेऽपि भाव्यम् । वस्तुतस्तत्र नासतो ज्ञानकारणत्वमपि । अकारणभूतमपि तत् ज्ञाने आलम्बनमात्रमितिं व्यक्तीकरिष्यते । एवमनुमापकत्वविषयेऽपि । उक्तञ्च श्लोकवार्तिके, "" ननु लोकप्रसिद्धेन पूर्वमेतेन हेतुना । साध्यसिद्धिर्ममाप्यासीत् परमार्थोऽस्य नास्तिता ॥ योऽबुना परमार्थेन नास्तीत्येवं प्रतीयते । कथं पूर्वमसावासीत् असंश्चेत् साधनं कथम् ॥ साधनं चेदवश्यञ्च परमार्थोऽस्तिता भवेत् । सिद्धिर्ना परमार्थेन परमार्थस्य युज्यते ॥ न दृष्टा शशश्टङ्गादेः सम्यग्ज्ञानादिहेतुता । बाप्पादिनाऽप्यधूमेन मिथ्या वयादिबोधनम् ॥ तस्मादसत्यहेतोर्या परमार्थे मतिस्तव साऽप्यसत्या न सत्यं हि सत्याभासेन युज्यते " इति ॥ ननु बाप्पादिनाऽपि कचिद्वह्निः साध्यमानो दैवादबाध्य एव यद्यस्ति, तदा व्यावहारिकसाधकत्वं बाध्पधूमस्य सिद्धमिति चेन्न प्रातिभासिकधूमसाधितो वह्निः प्रातिभासिक विलक्षण इत्यत्र प्रमाणाभावात् । प्रमाणान्तरेण तत्र व्यावहारिकवह्निग्रहणेऽपि तेन प्रातिभासिकस्य विरोधाभावात् । तादृशधूमप्रत्यायितस्तादृशवह्निस्तु बाधित एव । अन्यस्तु प्रमाणान्तरवेदितो वह्निरस्तीति भवन्मते वक्तव्यम् । अन्यथा प्रमाणान्तरेण वह्निमविदुषः धूमस्य च प्रतिभासि कथानधिकार प्रसाधनम् २९९ कत्वमध्यवसितवतोऽपि तत्साधितवह्निविषयकनिष्कम्पप्रवृत्त्यापत्तेः । कचित् बाष्पधूमसाधनस्थले वयनुपलम्भान्न निष्कम्पप्रवृत्तिरिति चेत् -तर्हि आभासहेतुनिष्ठायां व्याप्तौ आभासात्मकसाध्यनिरूपितत्वमवर्जनीयम् । क्वचिदनाभासनिरूपितत्वमपि दैवादित्युक्तं भवति । एवञ्च बाधितस्यापारमर्थिकत्वं स्वरसप्राप्तम् । पारमार्थिकलं तु प्रमाणान्तरनिर्णेयमित्युक्तं भवति । तथा च यावत् अनाभासभूतं प्रमाणं किञ्चित् न संपाद्यते तावत् वस्त्वसिद्धिरेवेति ॥ एतदुक्तं भवति—यत्र पुंसः प्रथमतो बाप्पे धूमत्यभ्रमेण धूमवानयमिनि भ्रमः, तदनन्तरञ्च वह्निमानयमित्यनुमितिः, तत्र पश्चात्, ‘बाप्पमेव धूमत्वेनाध्यवसितम्, न तु वस्तुतो धूमोऽस्तीति निश्चये, तदा वह्निव्याप्याभावावांश्चायमिति प्रमोदये च सति वह्निग्राहकमानान्तराभावात् पूर्वजाता वयनुमितिः प्रमेति वक्तु न पाते । तथा च तत्स्थलीयं वाप्पधूमज्ञानजन्यवह्निज्ञानं मिथ्याविषयकमेव । तद्वत् प्रकृते ब्रह्मज्ञानजनकस्य शास्त्रज्ञानस्य भ्रमत्वे निश्चिते ब्रह्मज्ञानजनकप्रमाभूतज्ञानान्तराभावनिश्चये च सति ब्रह्मज्ञाने भ्रम त्वनिश्चयो निराबाधः । स्थादेतत् कचिद्वाष्पवृमज्ञानजन्या वह्नयनुमितिः प्रमापि भवतीति तार्किकोक्तं कथमिति चेत् — श्रूयताम् चाप्यधूमज्ञानं हि धूमवनयमित्याकारकम् । तत्र धूमत्वेन वापस्य विषयत्वात् यद्यपि तदंशे भ्रमत्वमस्ति; अथापि न तद्रत्वमनुमितिभ्रमत्वप्रयोजकम्, किन्तु यद्रूपावच्छिन्नपकारताशा लिज्ञानत्वमनुमितिजनकतावच्छेदकं तद्रूपावच्छिन्नाभाववद्विशेप्यकत्वविशिष्टतदूपावच्छिन्नप्रकारता लिज्ञानत्वमेव परामर्शात्मकस्वनिष्ठ स्वजन्यानुमितौ साध्यमत्वप्रयोजकम् । अन्यथा परामर्शस्योदासीनयत्किञ्चिद्विषयकभ्रमरूपत्वेऽप्यनुमितिप्रमानुदयापत्तेः । अत्र च बाष्पस्येव धूमस्यापि पक्षे सद्भावात् धूमत्वात्मकतद्रूपाच्छिन्नाभाववद्विशेप्यकत्वं तज्ज्ञाने नास्तीति न तज्जन्यानुमिते मत्वम् । न च यत्र धूमो नास्ति, अयोगोलक इव वहिः परम्, तत्र बाप्पे धूमत्वभ्रमात वह्नयनुमितौ कथं प्रमात्वमिति शङ्कयम् । यतो वहिव्याप्यधूमवान्, तद्वयाप्यभस्मवान्, तद्वयाप्यवानिति नानापरामर्शानुगमेन व्या 1 ३००

प्यत्वावच्छिन्नाभाववद्विशेष्यकत्व विशिष्टतादृशप्रकारताशालिज्ञानत्वमेव परामर्शनिष्ठमनुमितौ व्यापकविषयक भ्रमत्वप्रयोजकमितीष्यते । प्रकृते च बाप्पस्य व्याव्यत्वाभावेऽपि वस्तुतो वह्निमति तद्वयाप्यस्य यस्य कस्याप्यावश्यकत्वेन तदभाववद्विशेप्यकत्वाभावान्नानुमितिभ्रमत्वप्रसक्तिः । वह्निव्याप्यस्य कस्याप्यभावे तु वह्नयनुमिते भ्रमत्वमिष्टमेव । अत एवमपरिशील्या सल्लिङ्गकपरामर्शात् श्रमादप्यनुमितिः प्रमेप्यत इति न शङ्कितुमुचितम् । अथ सलिङ्गकपरामर्शादप्यनुमितेश्रमरूपायाः स्वीकृतत्वात् प्रमाणत्वाभिमतशास्त्रजन्यं ज्ञानं ब्रह्मषियकं भवत्पक्षे कथं न भ्रमः स्यात् ? अङ्गीक्रियते हि मणिकारादिभिः, वह्निव्याप्यधूमान् पर्वत इति परामर्शात आद्यक्षणावच्छिन्नः, अथवा शिखरावच्छिन्नः पर्वतो वह्निमानित्यनुमितिः । एवमाद्यक्षणावच्छिन्नघटो गन्धवानित्यादिश्चेति चेन्न तत्रापि परिशीलनीयांशभावात् । यद्विषयकत्वं प्रति सत्परामर्शस्य प्रयोजकत्वं तदंशेऽनुमितेर्न भ्रमत्वमित्येव ह्नि विवक्षितम् । अत्र साध्यविशिष्टपक्षांशे भ्रमत्वस्य न प्रसक्तिः । आद्यक्षणावच्छिन्नत्वादिविषयकत्वे तु नायं परामर्शः प्रयोजकः । अन्यथा कदाचिदाद्यक्षणावच्छिन्नत्वम्, कदाचिच्छिखरावच्छिन्नत्वम्, कदाचिदन्यदित्यव्यवस्थाविरहप्रसङ्गात् । अतस्तन्नियामकमन्यदेव किञ्चिल्लाघवज्ञानादीति न नियामकान्तराधीनतद्विषयकत्वमादायानुषपत्त्युद्भावन प्रसक्तिरित्यलमद्वैत सिद्धिचन्द्रिका युक्तार्थाधिकविमर्शनेन ॥ तत् सिद्धं प्रातिभासिकमानेन व्यावहारिकसिद्धिर्न भवतीति । यत्तु स्वतः प्रामाण्यवादिनां वेदान्तिनां प्रामाण्यग्रहे मानान्तरसंवादस्य कथमुपयोग इति तत्रोच्यते भवतैव प्रमास्थल इव भ्रमस्थलेऽपि स्वतः प्राणान्यग्रहस्य प्रागुक्ततया वास्तवप्रामाण्यनिश्चयाय मानान्तरसंवादापेक्षोपपत्तेः । यतु प्रागुक्तम् ज्ञानेन व्यवहारान्यथानुपपत्त्या यथायथं प्रातिभासिकव्यावहारिकसत्ता सिद्ध्यतीति तन्न—कोऽयं व्यावहारिको नाम ? यदि वाचिकशब्दप्रयोगःः

कथानधिकार-प्रसाधनम् ३०१ तत्र वस्तुज्ञानमेव कारणम्, न तु वस्तु अतीतानागतयोरपि व्यवह्रियमाणत्वादिति न ततः सत्तासिद्धिः । कायिक उपादानादिरूपस्तु व्यवहारः प्रातिभासिंकेष्वसंभावितः । सत्तात्रैविध्यञ्चोपरिष्टान्निराकरिष्यने । यत्तु हेतुत्वं वस्तुसत्तां नोपेक्षते, किन्तु पूर्वकालसंवन्धमात्रमिति खण्डन श्लोक प्रदर्शननोक्तम् — तत् प्राक सूत्रस्वारस्य-भङ्गप्रसाधनावसर एव निरस्तम् । किञ्च ज्ञानं किं सत्तामेव न गृह्णातिं, किं वा गृहीताऽपि सा बाध्यत इति आद्ये सत्ताया एवासिद्धौ प्रातिभासिकव्यावहारिकपारमार्थिकभेदेन त्रैविध्यकल्पना नोपपद्यते । नान्त्यः, किं बाधोऽयं वस्तुबाधः, उत तन्निष्टसत्ताबाधः, आधे स वस्तुबाधः किं बाधज्ञानकाले वस्त्वभावरूपः, उत प्रागपि ? प्रथमे, प्राक्काले वस्तुन इष्टत्वात् न मिथ्यात्वम् । द्वितीये प्रागपि वस्त्वभावे का नाम तस्य प्रातिभासिकी व्यावहारिकी वा सत्ता नाम । अन्त्ये, वस्तुन्यबाधिते सत्ताबाधः कथमित्यास्तां तावत् । अथ खण्डनवादः साक्षान्निरस्यने–कथकाभ्यां प्रमाणादीनां सत्त्वमभ्युपेयमित्येतच्चतुर्धा विकल्प्य स्खण्डितम् । तत्र प्रथमविकल्पः –प्रमाणादिसत्ताभ्युपगमसाहित्यनियतत्वात् व्यहारस्य तदभावे व्यवहारः प्रवर्तवितुं न शक्यत इति । स खण्डितः चार्वाकमाध्यमिकादिभिः सत्तानभ्युयुपगमेऽपि व्यवहारस्य क्रियमाणत्वादिति । अत्रोच्यते—अनुमानमेवानभ्युपगच्छन् चार्वाकः, अनुमानरूपन्यायप्रयोगात्मिकायां कथायां कथमधिकुर्यात् ? अनधीतवेदस्य यागादावनधिकार इति ब्रूमः । तत्र शूद्रः कश्चित् करो तीति प्रदश्य न हि शूद्रानधिकारवादः प्रतिक्षेप्तुं शक्यते । तस्मात् तथा व्यवहरन्नपि सोऽनधिकार्येव । किञ्च प्रमाणादिसत्ताभ्युपगम साहित्यनियनस्य व्यवहारस्येत्यत्र साहित्यपदं व्यर्थम् । एवं सत्ताभ्युपगमस्य व्ववहारव्यापकत्वमिति विकल्पार्थश्चेत्, प्रवर्तयितुमशक्यत्वादित्यधिकलेखनं व्यर्थम् । अभ्युपगमं विना प्रवर्तयितुमशक्यत्वमेव चेत् प्रथमविकल्पार्थः, तर्हि अभ्युपगमस्य व्यवहारकारणत्वमेव व्यतिरेकमुखेनोक्तं भवतीति, " उत व्यव ३०२ परमार्थ भूषणे हारं प्रति तस्य हेतुत्वात् " इति द्वितोयविकल्पादविशेषः । अभ्युपगमव्यवहारयोर्व्याप्यव्यापकभावखण्डनेनैव कार्यकारणभावस्यापि खण्डितत्वात् द्वितीय विकल्पानुत्थानञ्च । एतत्पक्षे द्वितीय विकल्पस्य प्राथम्यम्, प्रथमस्य द्वितीयत्वञ्च युक्तम् । कार्यकारणभावाभावेऽपि व्यवहारो दृश्यत इति यत् समाधानम् — तदुभयपक्षा विशिष्टमेव । यत्तु व्यवहारस्य साधनबाधना क्षमत्वं प्रति प्रमाणाद्यनभ्युपगमो न प्रयोजकः, किन्तु व्यवहारगतमाभासत्वमिति तन्न —आमासत्वस्य तत्रैव पर्यवसानात् । व्यवहारस्याभासत्वं नाम, अपशब्दगर्भत्वं वा, प्रमेयवाध वा आद्ये, निग्रहमात्रम्, न तु प्रमेयदोषः । अन्त्ये तूच्यते व्यवहारी हि प्रतिज्ञाहेत्वादिन्यायप्रयोगः । तत्र पक्षसाध्यहेत्वादीनां सत्तानभ्युपगमे आश्रयासिद्ध्यादयो दोपा जामत्येव । सत्तानभ्युपगमे, पक्षे साध्यमप्ति हेतुरन्ति हेतौ साध्यव्याप्तिरस्ति, दृष्टान्तेऽपि साध्याद्यस्तीत्यादेवक्तुमशक्यत्वात् । यत्तु न वयं प्रमाणादीनि न सन्तीत्युक्त्तवा कथामारभामहे, किन्तु, तत्सत्त्वासत्त्वविचारे उदासीना इति-तन्नपक्षे हेत्वादेः, हेतौ साध्यव्याप्यादेश्च सत्तास्वीकारे औदासीन्याभावात् । अस्वीकारे हेतोराभासत्वापत्तेः । यच्च प्रामाण्याद्यभ्युगरत्र कथां कुर्वतो वादिन एवेयं नियमभरयन्त्रणा; अभ्युपगतत्यागे निग्रहादिप्रसङ्गात् । अभ्युपगममन्तरेण औदासीन्येन प्रवृत्तस्य तु न दूपणमिति तन्न -उदासी कयवहारस्याप्याभासत्वे असाधकत्वस्योक्तत्वात् । यो हिगच्छत एव स्खलतमिति न गच्छति, गमनफलं तु ग्रामप्रान्तिमन्यनिरपेक्षो वाच्छति’ तादृगेषः । न च प्रमाणादिकमङ्गीकृत्य कवा प्रवर्तनीया, उतान्यथाऽपीति विचाररूपा कथा यथा प्रमाणाद्यङ्गीकार निरपेक्षैक प्रवर्तते तथैव सर्वा कथा प्रवर्त्यतामिति वाच्यम् तादृशविचार एव विवेकिभिः लोके अप्रवृत्तेः । प्रवर्तमानो हि प्रमाण विनैव विचारस्य कर्तुं शक्यत्वं स्थापयन् तत्र हेतुमुपाददानः प्रमाणस्वीकार्येव भवति न्याये आगमः, प्रतिज्ञा, हेतुरनुमानम्, प्रतिज्ञा, हेतुरनुमानम्, उदाहरणं प्रत्यक्षम्, उपनय उपमानमिति प्रमाणानां सर्वेषां समवायस्य न्यायभाष्ये दर्शितत्वेन सर्वप्रमाणस्वीकारस्य न्यायं प्रयुञ्जाने आवश्यकत्वात् । व्याहतवादी तु न वास्तवकथकः; किन्तु उच्चैरुद्धुष्य विजिगीषमाण इति किं तेन ? "" कथानधिकार-प्रसाधनम् ३०३ नाभाव उपलब्धेः " इति सूत्रभाष्ये च, " यद्धि प्रत्यक्षादीनामन्यतमेनापि प्रमाणेनोपलभ्यते, तत् संभवति, यत्तु न केन चिदपि प्रमाणेनोपलभ्यते तन्न संभवति । इह तु यथास्वं सर्वैरेव प्रमाणैः वाह्योऽर्थ उपलभ्यमानः कथं न संभवतीत्युच्येत " इत्यभाषि । तेन प्रमाणले वस्तुसत्ता स्वीकृता । " प्रमेयता च तुलाप्रामाण्यवत् " इति न्यायसूत्रोक्ततया प्रमाणमपि प्रमाणेन साध्यमानं प्रमेयं भवतीति सिद्धा प्रमेयस्येव प्रमाणस्यापि सता । तस्मात् सताभ्युपगमः कथाप्रवृत्तौ नान्तरीयकः । किं बहुना, ‘खण्डनग्रन्थ एव, " नन्वैद्वतश्रुतः वर्णपदविभक्तितदर्थादिभेदान् उपजीव्य अर्थ प्रतिपादयन्त्यः स्वोपजीव्याभिः भेदबुद्धिभिः न कथं वाध्यन्ताम् ? उपजीवकस्योपजीव्यात् दुर्बलत्वात्" इत्याशङ्कय, " मैवम्, न वयं भेदस्य सर्वथैवासत्त्वमभ्युपगच्छामः । किं नाम न पारमार्थिकं सत्त्वम् । अविद्याविद्यमानत्वं तु तदीयभिप्यत एव । तदेव च कार्यकारणभावोपयोगि " इति लिखन् उपक्रमे प्रमाणादिसत्ताभ्युपगमाभावं स्वोक्तं स्वयमेव निरस्यति । अनेन हीदमुक्तं भवति सर्वथा सत्त्वानङ्गीकारे कार्यकारणभावः यः कश्चिदव्यवहारो वा नोपपादयितुं शक्यते । तस्मात् यया सत्तया विना सर्वमिदं दुर्घटम्, सा सत्ता नान्तरीयकतया स्वीकर्तव्येति । ननु सत्यमेतत् सा सत्ता व्यावहारिक्येवेति चेत् — अव्यावहारिकी किमन्या काचित् सत्ताऽस्ति ; व्यवह्रियमाणत्वात् सर्वस्या अपि सत्तायाः । सैव च पारमार्थिकी । यदि यदा कदाऽप्यस्ति, तर्हि सा सत्ता पारमार्थिक्येव । यदि तदापि बाध्यते, तत्कालवृत्त्यभावप्रतियोगित्वेन गृह्यते, तर्हि नास्त्येवेति बाधिते सत्तायाः दुरुपपादत्वात् । ननु सत्तामनभ्युपगम्य विचारः सुकरो न वेति विचारः प्रमाणादिसत्तानभ्युपगमेऽपि भवतीत्युक्तमिति चेत् — विवेकिनस्तथा कथा न भवतीत्यप्युक्तम् । उक्तञ्च वेदार्थसंग्रहतात्पर्यदीपिकायाम्, “शून्यबादिनं प्रति अनुपायत्वात् वादानधिकार इत्युक्ते वादः प्रवृत्त एवेति व्याहतमिदं वादानधिकार कल्पनमिति चेन्न ग्रन्थामिमायाज्ञानकृतमिदं चोद्यम " ३०४

वादो नाम स्वाभिमतार्थसाधकत्वम् । अनुपायस्य स्वाभिमतार्थसिद्धिर्नास्ति, साधकाभावात् । अतो निष्प्रयोजनत्वमुक्तम् ; न तु अनुपायस्य वादानधिकार इति वाक्प्रयोगस्यप्ययोग्यत्वम् । यद्वा अनेन ग्रन्थेन शून्यवादिनो व्याहतिरापाद्यते कथाप्रवृत्तेन त्वया कथाप्रवृत्तिविरुद्धमङ्गीकृतमिति । तस्मान्नात्र चोद्यम्" इति । अस्तु व्याहतिरिति यदि ब्रूयात्, तदा किमिति चेत्’सन्तु वचनाभासाः, हेत्वाभासाः, निग्रहस्थानानि च ; अथापि अहं सदर्थवादी ‘ति यदि ब्रूयात्, तदा किमिति तुल्यम् ? तस्मात् अनधिकारिणा कथायां प्रवृत्तौ क्रियमाणायां कारुणिकाः हितैषिणः कथास्वरूपं प्रतिबोध्य अधिकारं सम्पाद्य प्रवर्ततामिति साधूपदिशन्ति परम् । न पुनः कथां कर्तुं प्रवर्तन्त इत्येव भाव्यम् । इदं कथकाभिमानिना सह साक्षात् सल्लापे । अन्यथा तु शिष्यादीन् प्रति तस्यानधिकारं व्युत्पादयन्ति हितोपदेशरूपेण । ; अत एव यदुक्तम्, " शिष्यादयस्तु तस्य कथानधिकारं ज्ञाप्यन्ते । न तु स साक्षात् कथायामुपवेश्यते । अत एव न्यायभाष्ये, ‘सप्रयोजनमनुयुक्तो यदि प्रतिपद्यते इति प्रथमपुरुषप्रयोग आहतः ; न तु, " प्रतिपद्यसे " इत्युक्तम्" इत्युद्भाव्य " शिष्यादीन् प्रत्यपि, चार्वाकादीनामयं दोषः इत्येवाभिधातव्यम् । कथञ्च तथा स्यात् ? कथायामेव हि निग्रहः " -इति –तदपि निरस्तम् उभाभ्यामपि पक्षप्रतिपक्षपरिग्रहानुगुणन्यायप्रयोगो हि कथा । यदा तु शिष्यः स्वयं न्यायप्रयोगमकुर्वन् केवलं जिज्ञासते, तदा तदुपपादनस्य कथारूपत्वं न भवति । अस्तु नाम कथायामेव पारिभाषिको निग्रहः । अन्यत्र तद्गतदोषख्यापनं तु न न शक्यम् । स तु निग्रहो भवतु, मा वा । एवमेव खण्डनमण्डनग्रन्थानां कथारूपत्वेनास्वीकृतानामपि प्रवृत्तिर्न्यायभाष्यादौ दर्शिता । न्यायभाष्ये प्रतिपद्यसे इति प्रयोगाभावस्योपष्टम्भकत्वमप्ययुक्तम् । तत तथाप्रयोगप्रसञ्जकगत्यभावात् । तद्भाष्यार्थश्च अस्मत्कृते न्यायभाष्यप्रदीपे द्रष्टव्यः ॥ एवं प्रथम विकल्पनिरसनेनैव द्वितीयोऽपि विकल्पो व्युदस्तः । अथान्य कथाrधिकार प्रसाधनम् ३०५ दपि किञ्चिदुच्यते यत् तत्रोक्तम्" तत्त्वावधारणं वा परपराभवं वा अभिलषद्धयां कथकाभ्यां यावता विना तदभिलषितं न पर्यवस्यति, तावदनुरोद्धव्यम् । स च प्रमाणेन तर्केण च व्यवहर्तव्यं वादिना । प्रतिवादिनाऽपि तत्तत् निग्रहस्थानं प्रदर्शनीय’ मित्यादिरूपः समयबन्ध इति तेन तत्त्वनिर्णयजयपराजय तर्कप्रमाणतत्तन्निग्रहस्थानादीनां सत्त्वमभ्युपगतमेव हि भवति । न हि स्वपुष्पशशविषाणादिव्यवहार समयबन्धोऽयम् । अतः सत्त्वशब्दप्रयोगाकरणेऽप्यनक्षरमेव सत्त्वमाविष्कृतं भवति । व्यावहारिकसत्त्वानङ्गीकारे सर्वं दुष्करमिति खण्डनोक्तं प्रागेव स्मारितमन्त्रानुसन्धेयम् । सति प्रमाणादौ निर्णयादिः, असति न स इति सत्त्वस्याप्यवश्येष्टत्वात् । पारमार्थिकसत्तातिरिक्ता व्यावहारिकसत्ता दुर्वचेत्यपि प्रागुक्तम् । कुत्र वा भवतां पारमार्थिकसत्ताः ब्रह्मणीति चेत् तर्हि ब्रह्म, सत्ता चेति द्वैतापत्तिः । साऽपि व्यावहारिकीति चेत् ब्रह्माविशेषं सर्ववस्तुसत्तामेव वयं ब्रूमः । अस्ति तु विशेषः, सार्वकालिकत्व कादाचित्कत्वादिः । तस्मात् सत्तानभ्युपगमे कथाप्रवर्तनस्यायोगात् न तदभ्युपगमस्य नैरर्थक्यम् । एतदुक्तं भवति –प्रमाणादीनां व्यवहारहेतुत्वं माध्यमिकादिष्वपि प्रदर्शयता भवता हेतुत्वादेव तत्सत्त्वमभ्युपगतं भवति । नन्वेवं मयाऽभ्युपगतं भवतीत्यपि भवद्भिः कयाचन नियमस्थित्या प्रवर्तितया कथयैव निरूपणीयमिति सत्त्वाभ्युपगमात् प्रागेव कथाप्रवृत्तिरिति चेन्न — नियमस्थित्या कथाप्रवृत्तिरिति कथयता तत्सत्त्वस्याभ्युपेतत्वात् । समयबन्धमात्रेण कथाप्रवृत्तिरित्युक्तावपि समयबन्धसत्त्वमभ्युपगतमेव । समयबन्धपूर्वं कथाप्रवृत्तिरित्यत्र च को हेतुः ? निर्णय विजयमूलत्वेन लोकसिद्ध एव व्यवहारनियमः उभाभ्यां हेतुमन्तरेणैवाद्रियत इति चेत् — लोकपदेन पामरलोकग्रहणम्, परी क्षक्लोकस्य वेति तृतीयपक्षे भवत्करिष्यमाणस्य विकल्पस्यात्तावतारमवधेहि । 39 ૨૦૧

“} पामरलोकसिद्धस्याकिञ्चित्करत्वेनानुपादेयत्वात् । परीक्षक लोक सिद्धस्य च कथाप्रवर्तनेन परीक्ष्यैव निर्णेयतया ततः प्राक् ग्रहणायोगात् । " हेतुमन्तरेण इत्युक्तमप्ययुक्तम् । हेतोरभावे कार्यस्य जन्मनः कादाचित्कत्वस्य च असिद्धिप्रसङ्गात् । स्थितोऽपि हेतुर्न निरूप्यत इति चेत् यद्येवम निरूपितहेतुकस्यापि व्यवहारनियमस्य प्रसिद्धिमात्रेणादरणीयत्वम्, प्रामाणिकत्वञ्च, तर्हि कथं प्रतिवादिकोटेः परं निरूपणं विना न स्वीकारः ? तस्मात् प्रमाणसत्त्वविषये विवादाभावादेव तत्तद्वस्तुस्वीकार इति । प्रमाणमूलकत्वाभावेऽपि पदार्थेप्टौ तु विचारतत्फलविप्लव एव । " अनादिपारम्पर्यागते तत्र स्वतश्शुद्धिरस्ति । लोकसंवादित्वात् असम्भवान्यथाभावौ च न स्तः " इति चेत्–अनया भङ्गया तस्य तस्य सत्त्वमेवेष्टं भवतीति । अत्र खण्डनखण्डखाद्ये, " अविद्यमानादिपारम्पर्यायातस्य लोकव्युत्पत्तिगृहीत संवादस्य च तस्यान्यथाभावा संभाव्यतालक्षणस्वतस्सिद्धिपरिशुद्धत्वात् " इति पङ्क्तिर्दृश्यते । तत्रानादीति प्रयोक्तव्ये अविद्यमानादीति लेखनं ग्रन्थकर्तुः वक्रकारित्वस्वाभाव्यात् इति व्याख्यात्रैव तद्गुणविशेषोऽनुभूत आविष्कृतः । इदं शब्द इवार्थेऽपि भाव्यम् । ईदृशक्लिष्टसरण्युपेक्षणेन च शतदूषण्यामत्र वादे तद्ग्रन्थस्य सरसमर्थतोऽनुवादः कृतोऽस्तीत्यास्तामिदम् । अन्यथाभावेत्यादिवाक्यांशं क्लिष्टं अनेकधा व्याख्यातुं प्रयस्यन्ति । आचार्योपलब्धस्त्वत्र खण्डनपाठः शुद्धः, “असंभवान्यथाभावाभावलक्षणस्वतश्शुद्धि सिद्धत्वात् " इत्येतदर्थकः कश्चिदिति विभाव्यम् । तस्मात् सतिं विवादे कथा प्रवर्तनीयेति यथा वादिप्रतिवाद्युभयाभ्युपे तम्, तथा प्रमाणतर्कसत्त्व एव तत्त्वनिर्णय इत्यप्युभयाभ्युपेयमेव । अनभ्युपेता कथाप्रवृत्तस्त्वन्यतरेण हितोपदेशसरण्या शिक्षितः कथायामुपवेश्यः, न चेदुन्मत्त इत्युपेक्षणीय इति तत्त्वम् । अत एव व्यवहारनियमव्यतिरेके कथाप्रवृतिर्न भवति, विप्रलम्भकस्येवेति भवदीयोक्तम् । न च व्यवहारनियम इष्यते, प्रमाणादिसत्ता तु नेप्यत इति वक्तुं शक्यम् । व्यवहारनियमस्य लोकलिद्धत्वस्य भवदुक्ततया तस्य प्रमाणादिसत्तागर्भतयैव सिद्धत्वात् ॥ कथानधिकार-प्रसाधनम् 1 ३०७ अथ तृतीयविकल्पश्चिन्त्यते । प्रमाणादिसत्ताभ्युपगमः लाकव्यवहार सिद्धत्वादिति कल्पो विकल्ष्यते खण्डनकारेण, प्रामाणिकलोकसिद्धत्वाद्वा पामरलोक सिद्धत्वाद्वेति तत्र यत् आद्यपक्षदूषणम् प्रमाणिकव्यवहारसिद्धत्वं विचारमन्तरेण दुर्निरूपमिति तन्न -शास्त्र संस्कारवन्तो हि प्रामाणिकाः । ते च तत्तत्सिद्धान्तग्रन्थाध्ययनेन व्यवहारनियमे व्युत्पन्ना एवेति किमिति कथापवृत्तिकाले तद्विचारः । पूर्वं तु अध्ययनकाले विचारो निप्पन्न एवास्ति । अवेदमपि वक्तव्यम् वादिप्रतिवादिनोर्द्वयोरपि प्रमाणिक लोकसंमतव्यवहारनियम एवादरणपदम्, परन्तु अन्यतरसंमतकोटिसाधकयुक्तेराभासत्वावश्यम्भावात् वस्तुतः प्रमाणत्वमुभयत्र दुर्वचम् । अत एव, “प्रमाणतर्कसाधनोपालम्भ” इत्यत्र प्रमाणतर्कत्वाभिमताभ्यां साधनोपालम्भौ तत्त्वनिर्णयार्थे भवतः इति तात्पर्यटीकायामुक्तम् । अस्तु तावत् विचारमन्तरेण दुर्निरूपत्वम्-तथापि प्रामाणिक लोकव्यवहार एवानुसर्तव्य इत्यत्र तावन्न विवादः । किं तर्हि ? अयमंशः प्रामाणिकयवहारसिद्धो न वेति क्वचित् स्यात् । यदि तावत् प्रामाणिकव्यवहाराभावे को दोष इति शक्यते, तत्र वक्तव्यं पामरव्यवहार रूप विकल्प दूषणमुखेन भवदुक्तमेव भविष्यतीति किं तेन ? यश्चायं द्वितीय विकल्पः पामरव्यवहारो वेति, तत्र यदूषणमुक्तं शरीरात्मत्वादेरपि परिग्रहः स्यादिति–तत्रोच्यते-यदि वादी क्वचित् शरीरात्मतापक्षस्थापनार्थमुद्युञ्जीत, तदा तदपि गृह्णीयादेव । किञ्च परमव्यवहारोऽपि कदाचिदादरणीयो भवति, यदि प्रामाणिकत्वेन विकत्थमानोऽपि लोकानुभव सर्वात्मना अपहृत्य कुतर्केण स्वाभिमतार्थे मुष्टिं बध्नीयात् । न खलु पामरानुभव इति हेतुना सर्वं प्रत्यक्षमपलपितुं साम्प्रतम् । तर्हि तृप्त्यर्थभोजनादेरपि पामरपरिगृहीततया निषेधप्रसङ्गात् । अथोच्येत अबाधितलोकव्यवहार सिद्धमादर्तव्यमिति तर्हि प्रमाणादीनां पश्चात्बाधो भविष्यतीति किं भवता मन्यते ? उत न भविष्यतीति ! अन्त्ये सत्ताभ्युपगमः । अस्माभिस्तु बाधो नेत्येव कथायां प्रवृत्यते । अद्यत्वे बाधाभावेऽफि देशान्तरे कालान्तरे वा बाधो न भवितेति कथं निश्चितमिति चेत्–निर्हेतुक शङ्काया उपेक्ष्यत्वात् । बाघनियामकामहे बाधशङ्काया अयोगात् । देशकालान्तरसद्भावनिश्चये हि बाधशक्का स्यात्, देशान्तरं कालान्तरं वाऽस्तीत्यत्र किं प्रमाणमिति तत्रैव शङ्कायाम्, बाधो भविष्यतीति न शक्यं मन्तुम् । उपनिषद्भिर्बाधप्रदर्शनात् प्रमाणादीनां बाध्यत्वमवसीयत इति चेत् — उपनिषदो यदि प्रामाण्यम्, तदा न सर्वप्रमाणबाधः । शब्दप्रत्यक्षव्युत्पत्तिग्रहत दौपयिकानुमानयोग्यतादिपरिशीलनादिसापेक्षतया शब्दप्रामाण्यमेव प्रत्यक्षानुमानप्रामाण्यमपि स्थापयतीत्यतोऽपि न सर्वप्रमाणबाधः । यदि च उपनिषदो न प्रामाण्यम्, तदा तन्मूलस्य बाध्यत्वस्यैव बाध्यतेति । ननु बाधाभावात् प्रमाणादिसत्त्वाभ्युपगमेऽपि लोकव्यवहारात् प्रमाणादिसत्त्वं न सिद्ध्यतीति चेत्–अबाधितलोकव्यवहारादित्युक्त्तया तत्सिद्धेः । अस्तु तावदबाध्यत्वादेव तत्सिद्धिः । सर्वथा प्रमाणादिसत्ता स्वीकृतेति सिद्धं नः समीहितम् । बाधाभावः कथं निश्चित इति चेत् -बाधकप्रमाणानुपलम्भादेव । ननु प्रमाणादिसत्त्वाभ्युपगमं प्रति अबाध्यत्वं प्रयोजकम् ; अबाध्यत्वं प्रति विचारः प्रयोजकः ; विचारश्च कथया इति कथाप्रवृत्तिः प्रमाणसत्त्वाभ्युपगमं विनापीति चेन्न – कथायाः प्रमाणादिघटितमूर्तितया प्रमाणाद्यनभ्युपगमे कथाप्रवर्तनायोगात् । प्रमाणाद्यभ्युपगमः प्रमाणादिसत्त्वाभ्युपगम एवेति प्रागेवोक्तम् । अतश्च कथाप्रवर्तनमूलं प्रमाणाद्यभ्युपगमव्युत्पादनमधिकरणसिद्धान्तनयमूलार्थसिद्धि प्रदर्शनमात्रम् । यो हि कश्चित्, “दर्शनस्पर्शनाभ्यामेकार्थग्रहणा” दिति वदन्नेवाविवेकात् इन्द्रियभेदं गुणगुणिभेदञ्च न स्वीकारोमीति रंभसादाह, यो वा, “सहोपलम्भनियमादभेदो नीलतद्धियोः " इति वदन्नेव नीलतद्धियोरैक्यमविवेकादाद्रियते तं तं प्रति तदुक्तिशोधनमात्रेणापि अधिकरणसिद्धान्तनीत्यैव नानेन्द्रिय सद्भावगुणद्रव्य भेदयोः विषयतज्ज्ञानभेदस्य च सिद्धेः कथमेवमिति यथा व्युत्पादनम् तादृगिदम्, यत् –प्रमाणादिसत्त्वानभ्युपगमेन कथायां प्रवृत्तं प्रति, कथाप्रवृत्तिरेव प्रमाणादिसत्त्वाभ्युपगमं ते दर्शयतीति व्युत्पादनमिति ध्येयम् ॥ कथानाधिकार-प्रसाधनम् ३०९ एवं चतुर्थकल्पखण्डनमपि खण्डयम् । प्रमाणादिसत्तानभ्ययुपगमे कथाफलातिप्रसङ्गो न भवति । सत्ताभ्युपगन्तृतुल्यं व्यवहारनियमस्य तदनभ्युपगन्त्राऽप्यवलम्बनादिति हि खण्डनम् । तदयुक्तम् — वहिसाधकस्य धूमरूपप्रमाणस्य हृदे असद्भावेऽपि पर्वतो वह्निमान् धूमादितिवत् हृदो वह्निमान् धूमादिति व्यवहारस्य करणेन साध्येष्टौ हि कथाफलातिप्रसङ्ग एव । अथानाभासव्यवहार एव साधक इति चेत् — तर्हि पक्षे हेतुरूपप्रमाणसत्त्वमिष्टमिति सत्तानभ्युपगमेन वा सत्ताविषये औदासीन्येन वा व्यवहार इति कथम् ? पक्षसाध्यहेतुदृष्टान्तादिनिर्देशाः तत्तत्सत्त्वनिर्देशा एवेति, " तत्तदभ्युपगमेऽपि न तत्तत्सत्ताभ्युपगमः " इति वचनमर्थहीनमेव । योऽयं पर्वतोऽस्ति, आसीत्, भविष्यति वा, तत्र वह्निरस्ति, आसीत्, भविष्यति वा, यतोऽत्र धूमोऽस्ति, आसीत्, भविष्यति वेत्येवमेव तदर्थ इति न सर्वथा सत्तापलापः । केयं सत्ता ? या सत्ताशब्दप्रयोगाभावेऽपि उक्तप्राया भवतीति चेत् — या खलु लोकप्रतीता भवद्भिरपल पितुमशक्या च सती, ‘अस्तु सा व्यावहाहिकी ‘ति व्यावहारिकत्व विशेषणेन विशेष्यते, सैवेति किं तद्व्युत्पादनेन ? सत्त्वस्य अनुभूयमानत्वादेव हि तस्य पारमार्थिकत्वव्यावृत्तये व्यावहारिकत्वविशेषणदानम् । यदि च वस्तुनो बाध्यत्वम्, तत् त्रैकालिकाभावप्रतियोगित्वमेवेति सत्त्वप्रसक्तेरेवाभावात् कुत्र वा व्यावहारिकत्वं विशेषणं दीयेत ? तत् सिद्धमनाभासानामनाभासतया, आभासानामभासतया च अस्तित्वमिति न सत्तापलाप इति ॥ एवं चतुर्धा विकल्प्य प्रमाणादिसत्ताभ्युपगमं खण्डयतैव खण्डनकारेण तदुपरि व्यवहारनियमे समयबन्धे वा सर्वत्र सत्तानुप्रवेशोऽस्तीति पुनराक्षेप प्रवत्र्त्य, एतदप्यसद्वादिनं प्रति कथाप्रवर्तनेनैव साधनीयमिति अस्त्येव कथाधिकारोऽसद्वादिन इति समाधाय तदुपरि, नात्र कथाप्रवर्तनम्, असद्वाद्युक्तः सत्ताभ्युपगमपर्यवसानव्युत्पादनमेवेति पुनरप्याक्षेपमुद्भाव्य परिहृतम्, “व्यवहारं प्रति सचाज्ञानमेव कारणम् ; न सत्ता । ज्ञानं तु अविद्यमानस्यापि मरुमरीचि कादौ भवति । अबाधितमेव ज्ञानं वस्तुसाधकम् । वादिप्रतिवाद्यादिगतं ज्ञानं ३१०

कालान्तरे देशान्तरे पुरुषान्तरेऽप्यबाधितमिति तावन्निश्चेतुमशक्यम् । केवलं तदातनबाधाभावमात्रेण सद्व्यवहारः क्रियते । तावता सत्तेयं व्यावहारिकसत्तैव भवति, न पारमार्थिकी इत्यादि । अत्रोच्यते एवं संशयालोरनुमानप्रामाण्यमेव न सेत्स्यति । इष्टमेवेदं खण्डनकारस्येति चेन्न शब्दप्रामाण्यस्यापि विलयप्रसङ्गात्, अनुमानाधीनव्युत्पत्तिग्रह अर्थौचित्य विमर्शाद्यायत्तत्वात् शाब्दबोधस्य । अन्यथा तत्त्वमसीत्यादौ निर्माणवक इतिवद्रा, नीलो घट इतिवद्वा, स्थाणुः पुरुष इतिवद्वा सामानाधिकरण्यम्, तदित्येतत् तस्मादित्यर्थकं वा, अतदिति पदच्छेद एव वेत्यादिविचा रवैया कुली परिहारपूर्वकयथावस्थितार्थनिश्चयायोगात् । किंबहुना, पूर्वोत्तरमीमांसाधिकरणानि सर्वाण्यपि तर्कानुमानदूषकस्याश्रद्धेयानि भवेयुः । उच्चावचतर्ककरम्बितः स्वग्रन्थ एव चासमञ्जसः तेन मन्तव्यः स्यात् । बाधशङ्कया व्याप्याद्यनिश्चयेऽनुमानदौःस्थ्ये सर्वप्रमाण-भङ्गात् । तर्हि सर्वप्रमाणभने प्रमेयस्याप्यसिद्धेः शून्यमेव तत्त्वमिति खण्डनग्रन्थप्रथमोपक्षिप्तसिद्धिरेवेति चेत्-नशून्यमिति किमभाव उच्यते, अभाववद्वा ? आद्ये, अभावस्य प्रतियोग्यनुयोगिसापेक्षत्वात् तयोरसिद्धौ तस्याप्यसिद्धिरेव । अन्त्ये, अभाववतस्तस्य कस्यचित् सिद्धौ कथं प्रेमयासिद्धिः कथञ्च प्रमाणाभावे तस्य परं सिद्धिः ? न हि सिद्धिः साधकाद्यभावे भवितुं प्रभवति । यत्तु खण्डने, असतोऽपि कारण त्वादिकं भवितुमर्हतीत्युक्तम्-तत् सर्वं प्राक् प्रथम एव प्रसाधने पराकृतम् । असतः कारणत्वे च, “आशामोदकतृप्ता ये ये चोपार्जितमोदकाः । रसवीर्थविपाकादि तेषां तुल्यं प्रसज्यते " इति शङ्का दुरुतरा । आशामोदकादपि रसवीर्यविपाकादिजननञ्चाशामोदकमात्रम् ; अदर्शनात् । खप्ने दृश्यते इति चेत्-तदा रसवीर्यादिकमपि स्वामिकं स्वामिकमोदक देव भवतीति न कश्चिद्विशेषः । द्वे सत्त्वे समुपादाय बुद्धानां धर्मदेशनाः । लोके संवृत्तिसत्त्वं च सत्त्वं च परमार्थतः " इति प्रच्छन्नाभिमतस्य बौद्धमतस्य प्रकटीकरणमप्येवं बहिष्कारायैव भवति । लौकिकस्य सत्त्वस्यापारमार्थिकत्वस्य साधयितुमशक्यत्वात् । तदतिरिक्तपारमार्थिकसत्तायां प्रमाणाभावाच्च । सतो विरहे सत्ताया दुर्वचत्वात् । तस्यापि स्वीकारे शून्यस्य अद्वैतस्य वा सिद्धययोगात् । 6 कथानधिकार-प्रसाधनम् ३११ सवमनिर्वचनीय भावयतः पारमार्थिकसप्ताऽपि व्यवहारपथमतीता नूनमनिर्वच नीयैव । तदसिद्धं तदपारमार्थिकत्वम् । किं बहुना, सत्ताप्रतीतिस्तावत् प्रतिपुरुषमनुभवसिद्धा नापह्नवमर्हति । बाधकप्रमाणञ्च लौकिकं न किञ्चिदुपलभ्यते । तर्कश्चाप्रतिष्ठितः खण्डनकारदूषितश्च । बौद्धागमश्च वैदिकानां न प्रमाणम्, अमूलत्वात् । श्रुतौ च न बौद्धानां श्रद्धा । वैदिकाश्च सत्ताबाधनस्य श्रुत्यर्थतां नाभ्युपगच्छन्ति । अतः प्रतीतस्यापलापायोगात् सर्वस्य सत्त्वं सुस्थन् । अन्यथा प्रदञ्चाधिष्ठानमप्यसदेव हेतुरित्यद्वैता सिद्धिरेव । अपि च असदपि कारणमित्यत्र असत्पदेन कियान् अर्थो विवक्ष्यते ; असत्पदघटकं सत्पदं किमर्थकमिति च विचार्यम् । किमर्थक्रियाकारित्वं सत्त्वम्, किं वा वर्तमानकालसंबन्धः, उत कालसंबन्धमात्रम्, आहो प्रमाविषयत्वम् । अथवा असत्त्वं बाधितत्वम् ? अन्योन्याभावप्रतियोगित्वम्, प्रागभावप्रतियोगित्वम्, ध्वंसप्रतियोगित्वम्, अत्यन्ताभावप्रतियोगित्वं वा, तुच्छत्वमेव वा ? आधे असत् अर्थक्रियाकारिभिन्नं कारणमित्युक्त्या व्याघातः । अर्थक्रियाकारित्वं हि कारणत्वमेव । न द्वितीयः, सिद्धसाधनात् । वर्तमानकालिकभिन्नं वर्तमानकारणत्वाश्रय इति तु व्याहतमेव । अत एव न तृतीयः, कारणत्वस्य प्राक्कालवृत्तित्वरूपतया कालासंबन्धिनि असति कारणत्ववचनस्य व्याहतत्वात् । प्रमाविषयत्वरहिते कारणत्वादर्शनात् न चतुर्थोऽपि । शुक्तिरजतव्यवहारे च इदं रजतमित्याकारके न रजतस्य कारणत्वम्; किन्तु रजतज्ञानस्य । तत् ज्ञानं प्रत्यपि न रजतं कारणम् ; असतोऽपि ज्ञाने भानस्य अतीतानागतग्रहणकाले आनुभविकत्वात् । ज्ञानसामान्ये तु विषयस्य न कारणत्वम् । असतोऽपि कारणत्वेष्टौ च अविद्यमानेनैव चान्नेन तृप्त्याद्युत्पत्तौ कारण निप्पादनक्लेशो न कदापि सोढव्यः स्यात् । कारणत्वस्य प्रमाणत एव साधनीयतया तदाश्रयस्य प्रमाविषयत्वाभावे तत्र कारणत्वं दुःसाधञ्च । न च पञ्चमः । बाधितात् रज्जुसर्पादेरपि भयाद्यापत्तेः । अन्योन्याभावप्रतियोगित्वादिकं तु न सर्वात्मना वस्तुनः सत्त्वनिषेधकम् । त्रैकालिकात्यन्ताभावादिस्वीकारे च पुनः कारणत्वव्याहृतिरेव । ३१२ परार्थभूषणे अन्यथा खपुष्पादिनापि किञ्चित् वास्येत, अलक्रियेत । लोके च कार्यात् कारणानुमानमप्रत्यक्षविषयस्थले प्रतिपन्नम् । तदनुमानं हि नाम तत्सत्त्वानुमानमेव । न तु तदसत्त्वानुमानम् । अन्यथा धूमेन वह भावोऽप्यनुमेयः स्यात् । असतोऽप्यग्नेः धूमसंभवात् । असत्त्वानिष्टौ च सत्त्वं सिद्धमेव तुच्छत्ववचनमपि तुच्छमित्यलम् ॥ अत एव यत्तु बौद्धैः सांवृतसत्यत्वमेकमेवेष्यते, अद्वैतिमते तु पारमार्थिकव्यावहारिकप्रातिभासिकरूपसत्तात्रयमिति उभयोर्वैलक्षण्यमिति इदमपि दुर्वचमित्येव तत्त्वविदः । आस्तामीषद्भेदः । प्रमाणादिविषये उभयोरपि सत्त्वमेकरूपमेव अविद्यासवृतिशब्द भेदमात्रेण वैलक्षण्या सिद्धेः । किञ्च तथागतानामपि कथाधिकारं साधयतां खण्डनकारानुकारिणां मतद्रयवैषम्यप्रदर्शनमस्थाने ॥ यत्तु —” कथामविधाय स्वगोष्ठ्यां मतान्तरनिरसनेन जयपताकासमारोपणमेव भवेदिति गेहेनदनमेव स्यात् । तथा च सूत्रकाराणां सौगतादि निरसनम सांप्रतमेव स्यादिति — तत्रोच्यते । न वयमनधिकारिणोऽ प्यधिकारयितव्या इति मन्महे । तत्त्वबुभुत्सून् प्रति तेषामनधिकारं स्थितमाविष्कुर्मः । तथा व्युत्पादिताश्च सहृदयाः निःश्रेयसं प्रतिपद्यन्त इति न नैष्फल्यम् । भगवान् बादरायणश्च अधीतवेदान्तान् मुमुक्षूनधिकृत्य ब्रह्मजिज्ञासां प्रवर्तयन् तान् प्रत्येव बोद्धादिनिरसनप्रकारमुपदिशतीति तथाविधजयपताकासमारोपणं न भवद्दूषणीयतामसादयितुं सांप्रतम् । यदि च बौद्धा अपि केचिदसत्त्वपक्षमनागृह्य विजिगीषुतां विसृज्य वादपथे स्थित्वा वैदिकन्यायप्रयोगश्रवणेन तत्त्वं निर्णिनीषन्ति, तर्हि तान् प्रत्यभ्यस्तिककृत उपदेशः फलेग्रहिरेव । अथ वा यथा विजिगीषुतया जल्पकथाप्रवृत्ता अपि इदमिदं निग्रहस्थानं नोद्भावनीयम् । एष परं हेत्वाभासविशेषो नोद्भावनीयः । अन्यमात्रोद्भावनेनैव जये यतनीय’ मिति ससमयविशेषबन्धं प्रौढ्या प्रवृत्ताः तदंशत्यागेन कथां प्रवर्तयन्ति तथा तथागता अपि अस्मदिष्टमसत्त्वमनुद्भाव्य सत्तावलस्बिन एवास्मान् कृत्वा विधान्तरेण अस्मत्पक्षदूषणान्युपन्यसितुं कथा प्रवर्त्यतामिति यदि समयबन्धेन कथकीबुभूषन्ति, तर्हि कामं भवतु तैः साकमपि कथानधिकार प्रसाधनम् ३१३ कथाप्रवर्तनम् । एवं कृत्वाचिन्तायामपि ते अंशान्तरेण पराजिताश्चेत्, स्वयमेवापसरिष्यन्ति । अन्यदापि कृत्वाचिन्तोद्वाटनेन प्रमाणासिद्धया प्रमेयासिद्धिः तन्मते प्रतिष्ठाप्या । सर्वत्र कृत्वाचिन्तास्थले कृत्वाचिन्तोद्घाटने प्रकृतविषये निर्णीतप्रमेयपरित्याग एव हि प्रस्पष्ट भीमांसादौ । यथा भक्षपेटिकायाम्, निवीताधिकरणादौ च ॥ सांख्यवैशेषिकादीनां कथानविकारस्यारमाभिरनुक्त्या तेषामपि सौगताविशेष सङ्कलनेन दूषणोपन्यासनमयुक्तम् । यत्तु वेदप्रमाण्वावलम्बनेन कथाधिकार एव वेदान्तिनां कथाधिकार इति स्थितेऽपि सौगतैः साकं कथाप्रवर्तनवत् अद्वैतिभिः साकं प्रवर्तनमपि युक्तमिति तन्न । उभयसंमतप्रमाणपुरस्कारेण कथायामधिकार एव ह्युभयोः कथकरिष्यते । यदि सौगतः किमपि प्रमाण वेदान्तिसंमतं स्वीकरोति, तदैव तेन कथा । न चेत् तस्यानधिकार एवेति तथैवाद्वैतिविषयेऽपि । इदमेव हि स्पष्टमुपक्रान्तमत्र शतदूषणीवादे । अद्वैतिभिर्ब्रह्मण एकस्यावाधितता स्वीकारमात्रेण कथाप्रवृत्तिर्नघटते । कथाङ्गभूतानां सर्वेषां स किल कथा भवेत् ; न ब्रह्मसत्त्वमात्रेण । सत्य यदुक्तम्, अप्रमाणम् प्रमाणमित्यभिमानमात्रे प्रमाणं न भवतीतिमेतत । कथां प्रति प्रमाणत्वाभिमान एव प्रवर्तकः । अप्रमाणे प्रमाणत्वाभिमानोऽयमिति यावत् प्रतिवादी न प्रत्यवतिष्ठते, तावत् स्वपक्षसिद्धयभिमानो वादिनो नापैति । प्रमाणमप्यप्रमाणत्वेनाभिमन्यमानस्तु बौद्धः तदितरो वा कथां प्रवर्तयितुमेव न प्रभवतीति । यत्तु — निर्विशेषवाक्यानां प्रामाण्यमद्वैतिभिरेव स्वीक्रियत इति तेषामेव तद्विचाराधिकार इति —— तन्न । तेषां वाक्यानां सविशेषवाक्यबाधितनिर्विशेषत्वरूपार्थवर्णने अप्रामाण्यं भवतीति सदर्थवर्णनेन प्रामाण्यमेव हि अद्वैतीतरेरिष्यते । अतो विषयबाधात् अद्वैतपरत्वे तानि वाक्यान्यप्रमाणानि स्युः; तथा दोषमूलत्वादप्यप्रमाणानीति अद्वैतिनामेव अनधिकारः । अन्येषां तु कृत्स्नस्यैव. वेदस्य तद्वाक्यानामपि प्रामाण्यं न कथमप्यपैतीति ॥ ३१४

यत्तु — इष्टसिद्धिकारवचनत्वेन बहनूदितम् -तत्र खण्डनानुवादिशतदूषणीवाक्यमेवाधिकम् । इष्टसिद्धिवचनं तु, " सत्यमस्ति प्रसिद्धिः, किन्तु नास्याः मूलं पश्यामः " इत्येतावदेव । तदपि चितः चेत्यस्य च मिथो भेदप्रसिद्धिविपयमिति तत्रैव व्यक्तम् । यच्चोच्यते-यावत्पर्यन्तमन्येषां दृष्ट्या प्रमाणादीनां सत्त्वम्, तात्पर्यन्तमद्वैतियापि प्रमाणादीनां सत्त्वमस्तीति न कथाप्रवर्तनानुपपत्तिरिति तन्न — अद्वैती प्रमाणादीनां वस्तुतो बाघिष्यमाणत्वमवगच्छति, न वा ? न चेत्-न सोऽद्वैती । अवगच्छति चेत् तदृष्ट्या प्रमाणादीनां त्रैकालिकात्यन्ताभाव एवेति कथं तत्सत्त्वमिति ।

श्री माप्ये, ‘महासिद्धान्तावसरे अद्वैतानभ्युपेतप्रक्रियाविशेषावलम्बनं कृतमिति वचनं तु पूर्णाद्वैतप्रक्रियापरिज्ञानविरहमूलकम् । सर्वस्यापि श्रीभाष्यकारदर्शितस्याद्वैतमतानुवादस्य तत्र तत्रोपलभ्यमानत्वात् । अद्वैतिनः पुनरव्यवस्थितानेकपक्षप्रवर्तकाः कदाचिदेकपक्षविषये दूषणे उपन्यस्यमाने, पक्षान्तरपरिग्रहेण तं पक्षमालपन्ति । सुप्रसिद्धश्च विवरणभामतीप्रस्थानभेदः । सिद्धान्तलेशसंग्रहग्रन्थश्चाव्यवस्थितानेक पक्षाद्भुतदर्पणः । श्रीभाष्यकारकालादत्यन्तार्वाचीने च तत्र, प्राचीनग्रन्थाः यावन्त उपलब्धाः श्रुता वा कथमपि, तावन्मूलावगतार्थसंकलनमात्रमकारि । न ह्यद्वैतिन इयन्त एव एतावदेशवादिन एवेति कश्चित् प्रतिज्ञातुं प्रभविष्णुः । ग्रन्थेष्वनिबद्धा अपि केचिद्विषयाः स्वयं वादाहवविधा नावसरे परैः प्रत्युत्थापिताः प्रत्यस्त्रप्रयोगेण प्रशमनीया भवन्ति । कचित् पूर्वोत्तरमीमांसाधिकरणरचनान्यायेन स्वयमेव परमतानुकूलतया संभावितसर्वप्रकार विलोडनेनापि दूषणं विधेयमित्येष प्राज्ञमणिपरिगृहीतः पन्थाः । सूत्रभाष्ये कामाद्यधिकरणे, सूत्रविरोधमपि सोढा दहरविद्या छान्दोग्यस्था सगुणविषया, बृहदारण्यकस्था निर्गुणविषयेत्युक्तम् । अद्वैतात्यन्तश्रद्धया सूत्रभाष्यमप्यतिलंध्य उभयत्रापि निर्गुणविषयत्वस्थापने कश्चिचेत् बद्धपरिकरः, सोऽपि निरस्यः स्वीकृतः श्रीभाष्ये, सर्वथाप्यद्वैतासिद्धिस्थापनाय । आस्तामेतत् । तस्मात् कूपमण्डूक।यमानैरगृहीतोपपादनप्रक्रियास्वारस्यैरेवं कल्पनं सर्वथैवायुक्तम् । कथानधिकार-प्रसाधनम् ३१५ः ● प्रमाणादिसत्त्वं कृत्वाचिन्तया कथाप्रवृत्तिः कृत्वा चिन्तोद्घाटने सति प्रमेयसाधिका न भवतीति प्रागेवावाचि । उपक्रमादितात्पर्य लिङ्ग परीक्षापूर्व वाक्यार्थपरीक्षणमर्थक्रियाकारीति तदैव स्यात्, यदि वाक्यमुपक्रमादीनि लिङ्गानि च वास्तवानि भवेयुः । यत्तु पृच्छयते अद्वैतिनां कथानधिकारे किमिति शतदूषण्यादयो ग्रन्थाः क्रियन्त इति -तत्र आदित आरभ्य एवावदुक्तमेव पुनरनुसंधातव्यम् । अनधिकारी कथां प्रवर्तयन् कथाफलं न लब्धुमर्हतीत्येव ब्रूमः; अन्तेवासिनः शिक्षयितुमनेके ईदृशाः ग्रन्था इति च ; कथां विनैव हितैषितया अनधिकारं प्रतिबोध्याथ बौद्धादिष्वङ्गीकाराभिनयेन संहतेषु तन्मतसारदूषणाय प्रवृत्तिरित्येवम् अभ्युपगमय्य कथाप्रवर्तन स्यादिति च; अनधिकारिणां अधिकार भ्रान्तेः सत्त्वात् तां भ्रान्तिमादौ अपनुद्य अधिकारमारोप्य उपवेश्य तन्मतदूषणान्युपवर्ष तेषु सहदयानां तत्र संमति संपाद्य तदनन्तरं वास्तवं तेषां कथानधिकारमपि हितैषितया व्युत्पादयाम इति च । यत् पुनर्निमीलितनेत्रस्य वाक्पारुय्यम् " सर्वज्ञानयाथार्थ्य वादिभिः (प्राभाकरैर्विशिष्टाद्वैतिभिरन्यैश्च) मातरि भार्यात्वभ्रममातिष्ठमाना अपि सप्रशंसं प्रवर्तिता भवेयुः” इति तत्र सर्वज्ञानयाथार्थ्य स्वरूप –प्रमाश्रमव्यवहार निर्वाहादेर्महदुपपादितस्य विषयलेशतोऽपि परिचयवैकल्यकलितमिदमिति निर्णीय, ‘आत्मदहममर्यादंसुतरामनुकम्पेत’ इत्यनुशोचनमेव साधीय इत्यास्तिका आशेरते । श्रीमाध्याद्यनुयायिनोऽप्यद्वैत सिद्धान्तमेव वस्तुगत्या प्रच्छन्नमनुसरन्तीति लेखनमपि न विस्मयमावहति । मृषावादिवितन्यमानेषु मृषावादेष्वयमपि कश्चिदिति हि स्वध्यवसानम् । “अद्वैतिन एव वैदिक सिद्धान्तं सर्वेषामुद्बोधयन्तः अन्तः बहिः सर्वत्र एकरूपं व्यवहरन्तः सर्वलोकतारकाः, न प्रतारकाः” इति लेखनमप्यद्वैतिलोकतृप्यर्थं कामं क्रियमाणं समस्तु । नैतावता विवेकिजनप्रतारणं शक्यम् । अतः प्रतारणार्थमिदं लेखनं विवेकिनामप्रतारकं स्वेषामतारकञ्च । इदं तु इह पृच्छामः । भवन्मतसिद्धं ब्रह्म तावत्, “यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह " इति वाङ्मनसांगोचरम् । तत्र, “गुरोस्तु ३१६ परमार्थ भूषणे मौनं व्याख्यानं शिष्यास्तु च्छिन्नतसंशयाः " इति गुरूणां तूप्णीम्भाव एव श्रेयान् । ईदृशानां स्वमतसाधनाय वाचमेकामपि विस्रष्टुमक्षमाणां कथं नु कथायां सर्वविधप्रमाणपरिशीलन-साधनोपालम्भसंभृतायां प्रवृत्तेः प्राभवस्य वा प्रसक्तिः । किमर्थञ्च परस्सहस्राणां ग्रन्थानां निर्माणम् । एवमवाच्यस्य सिद्धान्तस्य किमिदं सर्वेभ्य उद्बोधनं नाम ? अव्यवहार्यस्य विषये कोऽयमन्तर्बहिश्च एकरूपो व्यवहारः ? ईदृशस्य संपूर्णाद्वैतसाक्षात्कारे सत्यपि स्वयमनुत्तीर्णस्य कथं नु सर्वलोकता रणप्रावीण्यम् ? स्वयमुत्तीर्णत्वे च स्वाभिन्नतया सर्वोऽप्युत्तीर्ण एवेति उत्तारणीयः कोऽपि नास्तीति कस्मा उपदेशः । अद्वैताज्ञानेऽपि सर्वोऽप्युत्तीर्ण एव; संसारस्य मिथ्यात्वात् । भ्रान्तिरमोहनीयेति चेत्-ननु साऽपि मिथ्यैवेति न किञ्चिदपोहनीयम् । एतावत् विद्वानपि यदि खसिद्धान्तमाग्रहेण स्थापयितुं यतते स कथं न प्रतारक इत्यलमाग्रह कृतानामाक्षेपवचसामुत्तरणेन ॥ , प्रत्यक्षादिप्रमाणाद्यं सर्वं धार्यादनुवन् । प्रतारकत्वमप्येवमपहोतु ततोऽपि किम् ? ॥ न शक्यं निर्वक्तं किमपिं जगतीति प्रतिवदन् न शक्तो निर्वक्तुं तदपि परमं ब्रह्म निपुणम् । वितण्डा गुण्डालमतिकथकवेतण्डदमनः समिन्धे सिंहोऽयं स्फुरणविहितारण्यकमुखः ॥ ॥ शुभमस्तु ॥

श्रीः