यत् पूर्ववृत्तं सत् अपेक्षित स्यात् तदुत्तरत्वार्थमथेति शब्दम् । वदन्त एवाहुरनीदृशं यत् चतुर्विधं साधनमेतदर्थम् ॥ " अथातो ब्रह्मजिज्ञासा " इत्यत्राथशब्दार्थनन्तर्य प्रतिसंबन्धि साधनचतुष्टयम् — नित्यानित्यवस्तुविवेकः, इहामुत्रफलभोगविरागः, शमदमादिसाधनसंपत्, मुमुक्षुत्वश्चेति । एतस्मिन् सत्येव ब्रह्मविचारभावादिति ब्रह्मजिज्ञासासाधानत्वमेषु चतुर्षु इछन्ति । कथमेषां साधनत्वमिति विचार्यम् । ययुत्तरोतरस्य पूर्वपूर्वो हेतुरित्युच्यते, तर्हि मुमुक्षुत्वमेकमेव अनन्यथासिद्धत्वात् साधनमिति, अन्येषां साधनत्वाभावात् भबद्रीत्या तत्पूर्ववृत्तताया अर्थसिद्धत्वाच साधनचतुष्टयपूवृत्तत्व-भङ्ग प्रसाधनम् १७७ चतुष्टयगणनं व्यर्थम् । नूनमिदमेव मनसिकृत्य पञ्चपादिकायाम् “जिज्ञासायां मुमुक्षा क्रिययोरेकस्याः कारणान्तरसिद्धायाः पूर्ववृत्ततया हेतुत्व” मित्यादिना मुमुक्षामेकामेव गृहीत्वा तस्या एवानन्तर्यप्रतियोगित्वं जिज्ञासायाः कर्तव्यत्वञ्चोतम् । तथा साधनचतुष्टयस्य पूर्ववृत्तत्वविधायकं वाक्यमपि न दृश्यते । " परीक्ष्य लोकान् कर्मचितान् " इति वाक्यं यः कर्मफला नित्यत्वज्ञानेन निर्वेदमाप्नुयात् स गुरुं तत्त्वज्ञानार्थमभिगच्छेदिति निर्विण्णपुरुषापेक्षिततत्त्वज्ञानमुद्दिश्य गुरूपसदनं साधनं विदधाति । अकृतं किञ्चिदस्ति, न वा तल्लाभः कथमिति जिज्ञासयैव गुरूपसत्तिः । न तदा नित्यानित्यविवेकः । " शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा आत्मन्येवात्मानं पश्येत्" इति श्रुतिः दर्शनं प्रत्येव शमदमादिकं साधनत्वेन दर्शयति ; न जिज्ञासां प्रति ; ; नापि साधनचतुष्टयस्य साधनत्वम् । कथश्च साधनत्वम् ? अथ संभवति दृष्टद्वारे अदृष्टकल्पनायोगात् साधनचतुष्टयं दृष्टद्वारैव साधनमिति चेत्-नित्या नित्यवस्तुविवेकस्य कथं साधनत्वम् ? यदि सर्वमनित्यमिति ज्ञाने सति ब्रह्मजिज्ञासायां न प्रवर्तेत ; अनित्यत्वाविशेषे कर्मफलवैराग्यपूर्वकैत जिज्ञासाया अनावश्यकत्वादित्युच्यते तर्हि वैराग्यस्य मुमुक्षुत्वस्य चाभावादेवाप्रवृत्त्युपपत्तिरिति कृतं नित्यानित्यवस्तुविवेकादरणेन । किञ्च सर्वमनित्यमिति जानन्नपि फलान्तरे दुःखमिश्रत्वादि परिशील्य मोक्षे तदभावसंभावनया पुरुषः प्रवर्तेतेति न नित्यत्वनिश्चयस्यात्र कारणत्वम् । एवं सर्वस्यापि फलस्य नित्यत्वनिश्चयेऽपि विनिगमकाभावात् पूर्वाहृष्टपरिपाकवशाच्च कश्चिदन्यत्रैवान्यो मोक्षफलेऽपि प्रवर्तत । तथा नित्यत्वाविशेषेऽपि दुःखमिश्रत्वतदभावरूपवैलक्षण्यस्य ज्ञानादपि ब्रह्म केनचिज्जिज्ञास्येत । तस्मान्न नित्यानित्यवस्तुविवेकस्यावश्यकता । किञ्च कोऽयं नित्यानित्य विवेक इति विवेक्तव्यः । अत्र भामतीकारेण " विपर्ययात्मा (भ्रमरूपः ) नित्यानित्यविवेको न कारणं वस्तुतत्त्वब्रह्मजिज्ञासायाम् । किन्तु अनित्ये नित्यत्वभ्रान्त्या धर्मजिज्ञासायामेव । तथा૨૦૮
- च विरागोऽपि न सिद्ध्येत् । संशयात्मको विवेकश्च तथा । स वेदाध्ययनकालेऽप्यस्ति । ब्रह्मजिज्ञासया प्रवृत्य विदितवेदान्तार्थस्यैव तु वास्तवो नित्यानित्यवस्तुविवेको भवति । स कथं ब्रह्मजिज्ञासापूर्व भावीत्याशङ्कय, नित्यानित्यवस्तुविवेको नाम इदं नित्यमिदमनित्यमिति व्यक्तिविशेषेषु नित्यत्वानित्यत्वनिश्चयरूपो न ; किं तर्हि ? सामान्यतः लोके नित्यमप्यस्ति, अनित्यमध्यस्तीति विवेकमात्रमित्युक्तम् । अथ, “सत्य मिथ्यार्थविवेको नित्यानित्यविवेकः " इति चोक्तम् । तदयुक्तम्यद्ययमिदं नित्यमिदमनित्यमिति न विशिष्य जानीयात् कथमसौ इहामुत्रफलभोगाद्विरज्येत् ? हिरण्यगर्भप्राप्तिपर्यन्त सर्दफलानित्यत्वविवेके सत्येव ब्रह्मजिज्ञासेति पञ्चपादिकायामुक्तत्वादपि नायं विशेषाविवेकरूपः सामान्यविवेकः साधनचतुष्टयान्तर्गतः । सर्वस्य नित्यत्वनिश्चये, सर्वस्यानित्यत्वनिश्चयेऽपि ब्रह्मजिज्ञासा भवितुमर्हतीत्यपि प्रागुपपादितम् । इहामुत्रफलभोगविराग हेतुर्विवेकः अल्पत्वा स्थिरत्वदुःखमूलत्वदुःखमिश्रत्वदुःखोदकत्व विपरीतवासनावर्धकत्व स्वाभाविकानन्दविरुद्धत्वरूपबह्वंश विषयक इति तत्र नित्यानित्यवस्तुविवेकमात्र कथनमप्ययुक्तम् ।
- नित्यमप्यल्पमुज्झित्वा परमानन्दनिर्भरम् । अनित्यमप्याद्रियन्ते श्लाघन्ते च विवेचकाः ॥
- तस्मान्नित्यत्वमात्रमप्रयोजकम् ।
- सत्यत्वमिथ्यात्वविवेक एव नित्यानित्यविवेक इति च सर्वथैवोदक्षरम् । ब्रह्मविचारारम्भात् प्रागेव जगन्मिथ्यात्वनिश्चयोऽपि चेत् — प्रथमाधिकरणे, आरम्भणाधिकरणे च मिथ्यात्वसाधनसंरम्भः कुतः ? फलान्तराणामनिश्चयेनैव सर्वेषु तान्त्रिकेषु विषयवैराग्यं मुमुक्षाञ्च श्रुतिस्मृत्यनुसारेणाप्युपपादयत्सु, सत्यमिध्यात्वविवेके सत्येव वैराग्यमिति कथं नियन्त्रयते ! सर्वस्य मिथ्यात्वे अनुभूयमनस्य दुःखस्य, तदनुभवस्य तन्मूलरोगादेश्च मिथ्यात्वावसायात् परिहरणीयस्या पूर्वार्थस्यादर्शनात् किमिति विषयतो विरज्येत् ? कुतो वा
- साधनचतुष्टयपूर्ववृत्तत्व भङ्ग-प्रसाधनम्
- २७९
- मुमुक्षुरात्मानं मोक्तुमिच्छेत् । भाष्यानुक्तः सत्यमिध्यात्वविवेकः किमिति
- । भामत्यामुक्त इति परिमळ कृदाशंक्य इत्थं परिहरति-नित्यानित्यवस्तुविवेके सति पुमान् प्रथमतो नित्यं प्रेप्सति । तत्प्रेप्सायामनित्ये विरज्यति । अतो नित्यसां प्रागुक्ता फलान्तर वैराग्ये पश्चाद्भाषितव्ये सति यस्मात् भाष्यकारः इहामुत्रफलभोगविरंग प्राङ्गनिर्दिश्य नित्यप्रेप्सादि पश्चादाह, तेन ज्ञायते, सत्य मिथ्यात्वविवेकोऽपि तत्संमत इति । मिथ्यावस्तुनि वैराग्यं तु सत्यकिञ्चि द्वस्तुप्रप्सायां जातायामिति न ; यतः शुक्तिरजते अरजतत्वबुद्धौ जातायाम्, " वास्तवरजतं कुत्र लभ्यत इत्यविचार्यापि शुक्तिरजतं त्यजत्येवेति-तदयुक्तम् । शमदमादिरूपस्य साधनस्य संपत्प्रकर्षः, ततोऽस्य संसारबन्धनान्मुमुक्षेति मुमुक्षां प्रति शमादिसंपदः कारणत्वमुक्त भामत्याम् । पञ्चपादिकायामपि, “ ततो मुमुक्षुत्वं तत्साधनशमदम " इति शमादेमुमुक्षुत्वसाधनत्वसाधनमुक्तम् । शमश्च फलान्तरार्थव्यापारविरतिः । इहामुत्रफलभोगरागे सति दुरुपपादेति वैराग्यं तत्र कारणम् । एवं साधनत्वादेव विरागस्यान्यतः प्राङ्गनिर्देशे उपपन्ने एतद्भाष्यस्य सत्यानृतविवेकतात्पर्यकत्वारोपेण भामतीरक्षणमयुक्तमिति । अतः नित्यानित्ययोः यद्वस्तु = वर्तमानं नित्यत्वानित्यत्व हेयत्वोपादेयत्वरूपम्, तद्विवेक इति वाऽर्थो वर्ण्यताम् । नित्यस्यानित्यस्य च वस्तुनः विवेकः सामान्यतोऽस्तित्व निर्णय इति वा । सर्वथा क्लिष्टमिदं व्याख्यानम् ।
- नित्यात् अनित्यस्य बिवेकः, नित्यस्यानित्यात् विवेकः नित्यस्य चानित्यस्य च मिथों विवेकः यथावस्थितज्ञानम् इदं नित्यमिदम नित्य मितीत्यर्थ एवाक्लिष्ठः । स च वेदान्तविचारात् प्राङ्न भवतीति भामत्यामेव न्यरूपि । अतः पञ्चपादिकाद्यादृतमपीदं न जिज्ञासापूर्वभावि; व्यर्थमिति चोपपादितमेव । भाषितश्च श्रीभाष्ये, “नित्यानित्यवस्तुविवेकादयश्च मीमांसाश्रवणमन्तरेण न संपत्स्यन्त" इति । अतः कर्मनिर्णयेत्येकेन पदेनास्माभिः संगृहीतं भवद्भिश्व चतुर्धा विभज्या संभावितार्थकोडीकारेण निर्दिश्यत इत्येतावदेव स्यात् ; न कर्मावबोधस्य प्राच्यत्वं पराकर्तु शक्यमेतत्स्वीकारे ।
२८०
ननु ब्रह्मजिज्ञासेत्यस्य ब्रह्मप्राप्तीच्छेत्यर्थः । नित्यानित्यवस्तुविवेकाच तदुत्पत्तिर्युक्तेति चेत् — उच्यते अथशब्दार्थानन्तये नित्यानित्यवस्तुविवेकादिसाधनसंपत्तिप्रतियोगिकम् । तस्य ब्रह्मजिज्ञासेत्यत्रान्वयः । तत्र, ‘ब्रह्मजिज्ञासा कर्तव्या’, ‘ब्रह्म जिज्ञासितव्य’ मिति द्वेधा शाङ्करभाष्ये श्रीमाष्ये च निर्देशः समानः । जिज्ञासाशब्दार्थवर्णनावसरे च, ‘अवगतिपर्यन्तं ज्ञानं सन्वाच्येच्छायाः कर्मेत्युक्तम् । ‘ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म’ त्यादिना च, संसारबीजानर्थनिबर्हणत्वात् अवगतिर्ब्रह्मानुभव इष्टः, तत्साधनतया प्रमाणत्वात् ज्ञानमिष्टमित्युपपादनात् अवगतिसाधनं जिज्ञासापदघटकज्ञाधात्वर्थ इति निश्चितम् । जिज्ञासा कर्तव्येत्युक्तत्वात् इच्छायामनुभवे वा कर्तव्यत्वानन्वयात् किं कर्तव्यमिति विचारे लक्षितो विचारः कर्तव्यतया प्रतिज्ञायते इति विवरणादावुक्तम् । कर्तव्यत्वेन शाङ्करभाष्यनिर्दिष्टं ज्ञानं विचारात्मकमिति तु विशिष्टाद्वैत्यनुसारे सिद्धयति । विचारश्च कर्तव्यत्वेन विहितः । " तद्वा व विजिज्ञासितव्यम्", " श्रोतव्य" इत्यादाविति तदङ्गभूतं नित्यानित्यवस्तुविवेकादीति शाङ्करभाष्यप्राचीनव्याख्यानसरणिः । अतोऽवगतिसाधनभूतज्ञानेच्छेव ब्रह्मजिज्ञासेति ब्रह्मप्राप्तीच्छावयास्तदर्थत्वाभावात् न वेदान्ताधीननित्यानित्यवस्तुविवेकस्यात्रान्वयसंभवः । सिद्धन्तसिद्धानोक्तं तु शमितमेवास्मा भिरैकशास्त्र्यप्रसाधनासरे । एवं सूत्रार्थे च सूत्रमिदम्, “अनावृत्तिः शब्दात्" इति शारीरकोपसंहारे पठनीयम् । सविशेषप्राप्तिरूपमोक्षस्य सूत्रकृदुक्तत्वात् तस्य च भवतामनित्यत्वात् । तथा सूत्रपाठे सत्येव सविशेषानुभवपर्यन्त सर्वत्यागेन निर्विशेषप्राप्तिः सूत्रकृदिष्टेति भवत्पक्षस्य कुशकाशावलम्बनं भवेत् । तथा नित्यानित्यवस्तुविवेके च सविशेषजिज्ञासा न प्रतिज्ञातव्या स्यात् । अतः उभयसाधारणी प्रतिज्ञेति भवदुक्तं व्याहन्येत । सूत्रे उपरि सविशेषफलसाधनादिविषयं सर्वम्, शारीरकमेव वा कृत्स्नं न प्रतिज्ञातनिरूपणपरं स्यात् । अपि च नित्यानित्यवस्तुविवेको वेदान्तविचारात् प्रड् न भवतीति भामतीमतमपि कर्मविचारपूर्ववृत्तत्वानङ्गीकारहेतुकं स्यात् । कर्मविचार सादनचतुष्टयपूर्ववृतत्व भङ्ग-प्रसाधनम् 66 २८१ पूर्ववृत्तमास्थाय चेत् तत्र नात्यन्तिकं दुर्भिक्षम् । यद्यपि परवासुदेवाभिधानं परं ब्रह्म, तदीया नित्यविभूतिः, नित्यसूरयः इत्येवं विलक्षणभोग्यभोक्तृभोगस्थानादिसमृद्धं शाश्वतमस्तीति न कर्मविचारतो निश्चीयेत, तथापि कर्मणामनित्यफलखं भोक्तृणामात्मनां नित्यत्वञ्च ततो निश्चीयेतैव । आमुष्मिकफलभोक्तृत्वस्य बहुधा शोधनात् नानाजन्मभाक्तस्य जीवेषु सिद्धया अनादीनां तेषां नित्यत्वस्य सिद्धेः । एवं स्वस्य सार्वदिकत्वनिश्चये सत्येव मुमुक्षावर्णनम पिं घटते । यथा प्रागेवात्मनित्यत्वनिश्चये सत्यपि शारीरके आत्म विषयविचारस्य सर्वस्योपपन्नत्वम्, यथा च पूर्वमीमांसायामधीतिनां कर्मफला नित्यत्वनिश्चयसंभवः, तथा प्रागेव निपुणं न्यरूपि । भवद्भिः, " तद्यथेह कर्मचितों लोकः क्षीयते, एवमेवामुत्र पुण्यचिंतः" इति वाक्यश्रवणमात्रेण कर्मफला नित्यत्वनिश्चयो भवतीत्युच्यते । वयं तु आपातप्रतीतेरध्ययनानन्तरभाविन्याः संशयविपर्यय सहत्वात् न निश्चयत्वमिति ब्रूमः । 1 अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवती " त्यपि हि श्रूयते । किश्च कर्मफलानित्यत्ववचनं सामान्यभूतं चातुर्मास्यादिविशेषव्यतिरिक्तविषयं भवत्वित्यपि विमृशेदध्येता । अक्षय्यमित्यादेरर्थवादत्वमिति चेत् — अर्थवादोऽयं केवलं प्राशस्त्यपर इति निश्चय एव न मीमांसाश्रवणमन्तरेण संभवति । श्रुतमीमांसस्यापि पुनर्वेदान्तश्रवणावसरे अर्थवादानामप्यचाधितयथाश्रुतार्थत्यागे मानं नास्तीति वेदान्तिनिष्कर्षश्चेत् मनसि लमः स्यात् पुनरपि चातुर्मास्यसुकृताक्षय्यत्वविषये विशयः प्रसरतीति स्थिते का कथा केवलाधीतवेदस्या शिक्षितन्यायमार्गस्य ? निरूपितन्यायमार्गः पुनरधीतमीमांसः अकण्ठोक्तानप्यनेकान् अर्थान् उपदर्शिता ने कन्यायसञ्चारणविवेचनकौशलेन निराबाधं निष्कष्टुं पारयतीति कथमीदृशस्य कर्मफलानित्यत्वसंदेहस्यावसरः । अतः ब्रह्मतत्प्राप्त्यादिरूप नित्यपदार्थाज्ञानेऽपि, आत्मनित्यत्वकर्मफला नित्यत्वरूप नित्यनित्याविवेक एव शाङ्करभाष्येष्ट इति, स विवेको मीमांसायामेवायतते । सांख्यादीनि शास्त्राणि तु अनवसरग्रस्तानीत्यावेदितमेवास्मात्प्राच्यग्रन्थेषु । 36 २८२
इहामुत्रफलभोगविरागो द्वितीयं साधनमुक्तम् । तेन किमुक्तं भवति ? इहामुत्रफलभोगरागो यावदस्ति, तावत् न मुमुक्षेति वा, जाताऽपि न स्थिरेति वा । तदावश्यकोऽयं विरागः कथमुत्पद्यते । यावता त्रिवर्गप्रावण्यातिशयात् “अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम् " इत्यादितः तन्नित्यत्ववेदनाच राग एवानुवर्तते । दुःखमिश्रत्वात् तत्र वैराग्यमित्यत्र च प्रतिविहितं पञ्चपादिकादौ " न हि मृगाः सन्तीति शालयो नोप्यन्ते” इत्यादि निदर्श्य । भामत्युक्तमधुविषसंपृक्तान्नत इव ततो निवृत्तिश्च, प्रवृत्तावात्महानिरिति निश्चयाधीना । स च निश्चयः शुद्धात्मखरूपस्थित्यादि वेदान्तात् यावत् नावबुद्धयते, तावन्न भवितुमर्हति । यत्तु — " अक्षय्यं ह वै चातुर्मास्यम्" इति वाक्यमर्थवाद इत्युक्तम् — तत् अर्थवादत्वात् यथाश्रुतार्थे तात्पर्यं नेत्यपिं मीमांसात एवावसेयमिति समाहितम् । । यत्तु " यदिह वा अध्यनेवंवित् महत् पुण्यं कर्म करोति, तद्धास्यान्ततः क्षीयते" इति श्रुत्या सर्वकर्मफला नित्यत्वनिश्चय इति विवरणोक्तम्तत्रैवं प्रतिब्रूयात् । यथावस्थित कर्त्रात्मस्वरूपज्ञानाभावे हि कर्मक्षयस्तत्रोक्तः । 66 स य आत्मानमेव लोकमुपास्ते, न हास्य कर्म क्षीयते " इति आत्मज्ञानपूर्वकस्य कर्मणः अक्षयत्वस्यानन्तरमेव वचनात् । अत्र हि यत् कर्म क्षयित्वेन गृहीतम्, तदेवात्मज्ञानसंवलितमक्षयिफलमिति स्वरसतोऽवगतम् । यदि तु कथञ्चिदुपासनाख्यस्य कर्मणः अक्षयिफलत्वं विवक्षितमित्युच्यते; अस्तु तावत् । सर्वथा कर्मविलक्षणस्य ज्ञानस्याक्षयिफलत्ववादिनामद्वैतिनामिदं वचनं विरोध्येव । यदि च, अथातो ब्रह्मजिज्ञासेत्यस्य आत्मज्ञानसहितकर्मणामक्षयफलत्वनिश्वयात् आत्मजिज्ञासेत्यर्थः स्यात्, तर्हि कर्माङ्गभूतं किञ्चिदात्मज्ञानं यथावस्थितं संपादयितुमात्मजिज्ञासेत्यपि पर्यालोचनसंभवात् कर्मविचारप्रन्थं पूर्वमधीत्यैव ब्रह्म विचारे यतेतेति कर्मविचारानन्तर्य ब्रह्मविचारस्यावर्जनीयम् । अतश्शब्दस्य कर्मफलक्षयिष्णुत्वनिश्चयादित्यर्थश्च कुतो लभ्यते ? यस्तु भामत्याशयः –ब्रह्मजिज्ञासेत्यत्र ब्रह्मशब्देन वैदोपस्थितौ वेदघटकस्य च साधनचतुष्टय पूर्वदृत्तत्व-भङ्ग प्रसाधनम् २८३ " एवमेवामुत्र पुण्यचितो लोकः क्षीयत " इति वाक्यस्य स्मरणात् क्षयिष्णुस्वावगम इति –तत्रोच्यते । अथशब्दानन्तरप्रयुक्तो ह्यतरशब्दः अथशब्दार्थमानन्तर्य तत्प्रतिसंबन्धि वा हेतुत्वेन यदि निर्दिशेत्, तत् स्वरसम् । तद्विहायः आत्मार्थकतया प्रयुक्तेन ब्रह्मशब्देन वेदोपस्थापनम्, ततः खापेक्षितवाक्यमात्रस्मरणमिति शाखाचङ्क्रमणं कस्मै रोचेत ? भवतु तर्हि नित्यानित्यवस्तुविवेक एवानन्तर्यप्रति संबन्धी अतरशब्देन हेतुतया विवक्ष्यत इति तन्न -भामत्यां नित्यानित्यवस्तुविवेक इत्यस्य विलक्षणार्थवर्णनात् । तावता सामान्यतः किञ्चित् नित्यं किञ्चिदनित्यञ्चेत्यवगमेऽपि तत्कलक्षयिष्णुत्वस्य ततोऽनिर्धारणात् । दूषितश्च स नित्यानित्यविवेकः प्रागेव । किञ्च भवन्मते सगुणोपासनस्याप्यनित्यत्वनिश्चये ततोऽपि विराग आवश्यक इति शारीरकारम्भ एव न भवेदिति, कर्मकाण्डोक्तकर्मफलक्षयिष्णुत्वमात्रमेव ज्ञातम् ; तत्रैव च विराग इत्येव वक्तव्यम् । सर्वमिंद कर्ममीमांसकावसेयमिति । / साधनचतुष्टये निर्दिष्टे एकतमेनान्यतमस्य गतार्थता भवति, न वेति च चिन्तयितव्यम् । तत्र नित्यानित्यविवेके सत्यपि कस्यचिदनित्येऽप्युत्कटो रागः स्यात् । तदा ब्रह्मविचारे प्रवृत्तिर्न भवतीति इहामुत्रफलभोगविरागो निर्देष्टव्यः । नित्यानित्यवस्तुविवेकस्तु किमर्थम् ? अविवेकेऽप्यन्यत्र वैराग्ये संपन्ने ब्रह्मविचारसंभवात् । एवं वैराग्ये सति तत्तत्कलार्थव्यापारव्यासङ्गमसत्त्यभावात् शमदमादि स्वत एवोक्तं भवतीति तत्पृथनिर्देशश्च व्यर्थः । सिद्धयत्येव शमादिकम् ; अथापि शीतोष्णादिद्वन्द्वसहत्वरूपतितिक्षार्थं तदुक्तमिति चेत् यदि द्वन्द्वं न सहते, तदा तद्वाधानिवृत्तिरूपैहिकफलार्थं प्रवर्तत इति सिद्धया तस्य पूर्वोन्वेषणः कथम् ? अथ शमदमादेः संपदिति संपत्पदे नैर्भयमिति चेत् — तथापि संपत्पदेन पुष्कलः शमादिरेवाभिप्रेयत इति विराग एव पुष्कलः तज्ज्ञापनायालम् । वस्तुतः शमदमादीनि साधनानि आत्मावलोकने ; श्रुतौ तथैव प्रतीतेः ; न तु ब्रह्मविचारे इति प्रागेवोक्तम् । चतुर्णामपि साधकत्वे सति शमदमादौ परं साधनशब्दनिर्देशोऽपि व्यर्थः । एवं संपदित्यपि सर्वत्राविशिष्टम् । मुमुक्षा- ૩૮૪
मात्र पर्याप्तम् ; अन्यत् व्यर्थमिति च प्रागुक्तम् । शमदमादीति निष्फलनित्यकर्मत्यागोऽपि विवक्षित इति चेत् — तथा सति " शमदमद्युपेतः स्यात् " इति सूत्रे यज्ञादिना सह शमादेः समुच्चयवचनं न घटते । एवं खल्ल सति, ‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’ इति पूर्वपक्षसूत्रम्, शमदमादीति च सिद्धान्तसूत्रमित्यापद्येत । किञ्च शमादिकं ब्रह्मविद्याङ्गमिति, ’ तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् " इति सूत्रखण्डे स्पष्टमुक्तम् । अङ्गत्वञ्च परोद्देशप्रवृतकिञ्चित्कारकत्वेन विहितत्वम् । अत एव " आत्मन्यात्मानं पश्येत्" इत्यत्र, " पश्येत्” इति विधिकल्पनमिष्टम् । विधिबलाच्च शमादिकमनुष्ठेयं सूत्रकृदाह. । अतो ब्रह्मविद्याकामेन एवं पर्यालोचनीयम् अहं ब्रह्मविद्या कामोऽस्मि संन्यस्तोऽधिकारी, मया तदर्थे शमाद्यनुष्ठेयम् शास्त्रविहितत्वादिति । एवञ्चेदयं स्ववर्णाश्रमशास्त्रवश्यत्वादि प्रतिसंधत्ते तर्हि, ‘विदुषः तादृशप्रतिसंधानाभावात् नित्यकर्मस्वनधिकारः’ इति कथम् ? । अतः शमादयोऽपि यावज्जीवमनुवर्तन्ते आश्रमकर्मापीर्ति तदविरोधेनैव शमादिशब्दार्थो वाच्यः ; एवं विधिवश्यत्वे स्वीकृते अर्धजरतीयायोगात् । शमदमादिकमर्थसिद्धं चेत् विधिबलात्तदनु ष्ठेयत्वप्रतिपादकसूत्रविरोधः । किञ्च संन्यासिनां मुण्डत्यैकदण्डत्वमिक्षाचरत्व काषायधारित्वादिकं विहितमित्यनुष्ठीयते, उत स्वेच्छया ? अन्त्ये गृहस्थाश्रमे स्थितोऽपि सन्न्यासी गण्यताम् । आये सर्वधर्मत्यागरूपशमदमादि कथम् ? यस्य यत् विहितमवर्जनीयञ्च तद्व्यतिरिक्तविषय एव शमादीति चेत् — तत् सर्व इहामुत्रफलभोगविरागोत्त्यैव सिद्धमिति व्यर्थः शमदमादि पृथनिर्देशः । अपि च केयं मुमुक्षा ? किं निर्गुणब्रह्मभूयं प्राप्तुमिच्छा । किं वा सविशेषत्रह्मप्राप्तीच्छाऽपि । आद्य, ‘शान्तो दान्त’ इत्युक्तशमादीनामसाधनत्वम् । शारीर कोक्तयोगरूपसविशेषब्रह्मोपासननिष्ठविषये कर्मत्यागस्य भवद्भिरस्वीकृत त्वात् । तथा प्रकृतशारीरकारम्भे तादृशमुमुक्षाशाली नाधिकारी स्यात्, सगुणब्रह्मविचारस्यैवात्र आमूला स्थितेः । पञ्चममध्यायं चिरजीवी बादरायणः कदा भवतामाविर्भावयिष्यतीति प्रतीक्ष्यम् । द्वितीये च वैराम्यादिपौष्कल्यासिद्धिः । सर्वथा साधनचतुष्टयनिर्देशो व्यर्थः । साधनचतुष्टयपूर्ण सत्यभश-प्रसाधनम् अपि च साधनचतुष्टयाभावे ब्रह्मविचारारम्भः कथं न घटते ! त् तावत् भामत्या मुक्तम् सर्वापेक्षाधिकरणे, “चतुर्विषं तावत् ज्ञानं भवति, एकमध्ययनज-यम्, यत् श्रवणमित्युच्यते ; द्वितीयं मीमांसासह कृतवाक्यजन्यम् । तृतीयं तदावृत्तिरूपं ध्यानम्, तुरीयं तज्जन्यं प्रत्यक्षम् । तत्रोत्तरोत्तरं पूर्वपूर्वस्मात् कर्मनिरपेक्षादेव भवतीति तत्र कः कर्मोपयोगः इति ईदृशः प्रश्नः प्रकृतेऽप्यवतरति । साधनचतुष्टम संपत्त्यभावे किं ब्रह्मविचारो नोदेतुमर्हति तद्रहितैरपि संप्रति भूम्ना विचारस्य क्रियमाणत्वदर्शनात् विचारं प्रति तस्यैव सामश्रीत्वमित्यस्या सिद्धेः । ( विवरणे गुरूपसत्तिपूर्वक विचारस्य श्रवणस्य च ऐक्यवर्णनात् भामत्यामपि मीमांसापुरस्सरं ज्ञानं मननमिति स्वयं हेतुभिः श्रुतार्थप्रतिष्ठापनं क्रियमाणमेव विवक्षितं स्यादित्यन्यदेतत् । ) यदि च नित्यानित्यवस्तुविवेकादीनामधिकारिविशेषणानामदृष्टविधयोपयोगः, तर्हि एतददृष्टाभावे का हानिरिति विवेक्तव्यम् । एतदभावे साक्षात्कारो न भवतीति स्वीक्रियताम् । गुरूपसत्तिविधैरेवमेवोपयोगस्य वक्तव्यत्वादिति चेत् — तन्न श्रवणमननध्यानानां लोकावगतप्रक्रिययैव प्रत्यक्षकारणत्वस्य भवदिष्टतया तत्रादृष्टस्य कस्याध्यनुपयोगात् । गुरूपसत्तिजन्यादृष्टाभावे श्रवणरूपनिश्चयज्ञानं नोदेतीति कथञ्चिद्गुरूपसतेरुपयोगः स्यात्, न तु साधनचतुष्टयस्य । तदभावेऽपि भवादृशानां भवन्मतनिश्चयदर्शनात् । तत् सिद्धं साधनचतुष्टयं कर्मविचारनिरपेक्षं भवत् ब्रह्मविचारं वर्तयिष्यतीत्यसिद्धमिति ॥ अकृतकर्मविचाराणामपि ब्रह्म अथ भवदुक्तांशनिरासः संगृह्यते । विचारः सुकर इत्यत्र, असंपन्न साधनचतुष्टयानामपि ब्रह्मविचारः संपद्यत इति विस्तरेण प्रतिविहितमेव । यत्तु -कर्मविचारस्य ब्रह्मविचारकाधिकारिविशेषणत्वे वेदाध्ययनस्यापि तत् स्यादित्यापादानम्, तत्रेष्टापत्तिरेव । ‘खाध्यायानन्तर्य तु समानमिति भवद्भाष्येऽप्युक्तेः । ब्रह्मचर्यादेव संन्यस्ताः, अङ्कतकर्म विचाराः, देवाश्चानुपनीताः ब्रह्मविद्यायामधिक्रियन्त इत्येतत् सत्यम् । भन वक्तव्यम्, “औचित्यस्थापितोऽयं क्रम इह न पुनश्चोदना संप्रयुक्तः”, १८६
क्षेपाक्षमत्वात् कतिचन कृतिनः शीघ्रमन्ते रमन्ते" इत्यादिभिरुपनवार्यपादैः । ब्रह्मविद्याधिकारिणोऽपि देवाः प्रकृतब्रह्मविचारे नियमेन प्रवर्तन्त इति दुर्वचम् । कर्मविषयक निर्णयानन्तर्यमेवास्माकमथशब्दार्थः । स च मीमांसापेक्षिणां कर्मविचारात्; अन्येषामन्यथापीति । किच देवाः ब्रह्मविद्याधिकारिण इति सत्यम् । तावता शारीरकाध्ययनाधिकारित्वमपि नावश्यकम् । तथात्वे तेषां संन्यासवैराग्यशमदमादिदूराणामप्यधिकारवर्णनात् भवता साधनचतुष्टयस्य पूर्ववृत्तत्वमेव भञ्जितं भवति । यत्तु साधनाध्याये " तदन्तरप्रतिपत्तौ “, " शमदमाद्युपेतः स्यात्” इत्यादौ वैराग्यशमदमाद्यौपयिकविचारकरणात् तस्य तस्याधिकारिविशेषणत्वं प्रतीयते, न तु कर्मविचारस्येति –तत् विपरीतसाधकम् । ब्रह्मविचारेऽवतीर्णस्य तृतीयाध्याये एव वैराग्यशमदमादिसंपत्त्यर्थविषयविवेचनात् वैराग्यादेः ब्रह्मविचारारम्भकाले अनावश्यकत्वम्, कर्मविचारविषये तथा किञ्चिदनुक्तेः कर्मविचारस्य प्रागेव सिद्धत्वञ्चावधार्यत इत्यभ्यूहस्यैव समुचितत्वात् ।
यदपि न्यायरक्षामण्युक्तरीत्या सगुणब्रह्मोपासनाफलब्रह्मलोकान्तविरक्तानां ब्रह्मविद्यामात्रपराणामुत्तमाधिकारिणां न कर्मापेक्षेति तत्र तथाविधब्रह्मविद्याभ्युपगमेऽपि न तादृशां प्रकृतब्रह्मजिज्ञासायामधिकारः । अत्र सविशेषनिरूपणस्यैव सामग्र्येण दृष्टेः । अतः अत्रत्योऽथशब्दः कर्मनिर्णयस्यापेक्षितस्यानन्तर्यमभिघातुमर्हतिति मन्तव्यम् । संकर्षकाण्डविचारश्ध प्रागेव कृतः । यत्तु -नित्यनैमित्तिककर्ममात्रकारिणां न कर्मविचारापेक्षेति–तन्नएवं तर्थ विदुषामेव नित्यनैमित्तिकाधिकार इति वैदुष्यमनपेक्षितमित्युक्तं स्यात् । न च जनकादयो नित्यनैमित्तिकमात्रकारिण इत्यत्र प्रमाणमस्ति । " एतान्यपि तु कर्माणि संगं त्यक्तवा" इति वचनानुसारेण काम्यकर्मणामपि फलाभिसन्धिर हितमनुष्ठानस्य सर्वेष्टत्वेन जनकादीनामपि तादृकूत्वात् । विविदिषार्थं वा क्रियमाणानां कर्मणां सर्वाङ्गोपसंहारस्यापेक्षिततया वैदुष्योपेक्षणायोगात् । यस्य जनकस्य याज्ञवल्क्यादप्यतिशयितं कर्मविज्ञानं बृहदारण्यकादितः प्रस्फुटमन ་ 1 साधनचतुष्टयपूर्ववृत्तत्व भङ्ग-प्रसाधनम् २८७ गम्यते, यतः तेनाग्निहोत्रादौ विशेषो रथारूथं राजानममुम् । उपसृत्य ग्राह्य आसीत् ; तस्य राजर्षेः कर्मविचारवैधुर्य कथं नु भवान् फणितुमर्हति ! यत्तु अधिगताल्पास्थिति श्री भाष्यमनूद्याशयवर्णनम् —— तत्र, “कर्मविचारं विना ब्रह्मविद्यायां ( 2 ) नाधिकारः । विरक्तैरधीतकृत्स्त्रवेदार्थविचारः कर्तव्य एव " इति लेखनमयुक्तम् । “शीत्रमन्ते रमन्ते", " औचित्यस्थापितोऽयं क्रम इह न पुनश्चोदना संप्रयुक्तः" इत्यस्माभिरुक्तेः । देवतानां ब्रह्मविद्याधिकारस्थापनमिन्द्रादिभावे मनुष्याणां वैराग्यवर्धनाये " ति लेखनस्य चाशयः कः ? किमर्थात् वैराग्यं वर्धितं भवत्यनेन विचारेणेति ? किं वा देवानां वस्तुतोऽधिकारस्थापनं नाधिकरणार्थ इति । अन्त्यमपसिद्धान्तः । आद्यं तु प्रकृतानुपयुक्तम् । यत्तु वैराग्यमुमुक्षयोरत्र भाष्ये प्रदर्शनात् शतदूषण्यपि साधनचतुष्टयान्तर्गतं साधनद्वयं शिरसा श्लाघत इति किं तेन ! गुणदोषवोः गुणश्लाघनमपि न युक्तमिति न वयं मन्यामहे । तच्छ्राघनमपि तयोर्वैराग्यमुमुक्षयोः कर्मनिर्णयाधीनत्वादुपजीव्यहिंसनं भवद्भिः क्रियमाणमयुक्तमिति ज्ञापनायैव । कर्मफलानित्यत्वनिर्णयः कर्मस्वरूपनिर्णय इत्युभयमपेक्षितं मुमुक्षोः । तत्र कर्मस्वरूपनिर्णयः कर्मविचारमपेक्षते इति संप्रतिपन्नम् । भवन्मते कर्मणो बहिरङ्गत्वात् तदुपेक्षा । यदा तु भवन्मतप्रक्रियायां दौस्थ्यं श्रीभाष्यनिरूपितं स्थास्यति, तदा कर्मापेक्षा श्रीभाष्यवर्णिता न शक्या निषेदुमिति मतस्वरूपविवेचनमेव कार्यमिति किमनेनाथशब्दार्थविचारेण । कर्मफलानित्यत्वनिर्णयोऽपि केषाञ्चिदौपदेशिकः, केषाञ्चित्, “ तद्यथेह कर्मचितो लोक" इति वाक्याध्ययनमात्रात्, निरूपकपरीक्षकाणां तु विचारानन्तरमेवेति नेदं विप्रतिपत्तुमर्हति । * यत्तु भास्कराभिमतस्य कर्मसमुच्चयस्य श्रीभाष्यकृदनभिमतत्वात् कथं कर्मविचारानन्तर्यमथशब्दार्थ इत्यत्र भास्करस्य प्रमाणीकरणमिति तन्न कचिद्विषये विवादेऽपि अन्यत्र तत्प्रामाण्यस्वीकारे दोषाभावात् । " दुःखजन्मप्रवृत्ति दोषे" ति न्यायसूत्रं प्रमाणीकुरुते भवद्भाष्यकारः । न हि तत्र तदृषिप्रोक्त ་*.
मोक्षनिष्पत्तिप्रकारो भवदभिमतः । परं तु यादृशं तादृशं भवतु । तत्त्वज्ञान मिथ्याज्ञानमित्युभयमुक्तम् । तावन्मात्र तत्सूत्रोदाहरणमित्येव वक्तव्यम् उक्तञ्च तथैव भामत्यां वैषम्यप्रदर्शनेन । वस्तुतस्तदपेक्षयाऽत्र भास्करप्रमाणीकरणे महौचित्यमस्ति । किञ्च भास्करो न कर्मप्राधान्यवादी । तथा भवलेखनश्चायुक्तम् । प्रयाजादिवत् कर्मणामङ्गत्वस्य तत्संमतत्वात् । कर्मसमुच्चयस्तु सत्यपि किञ्चिद्वैषम्येऽस्माभिरपीष्यत एव । “विद्याञ्चाविद्याञ्चेति मन्त्रस्य श्रीभाष्य एवं यथावद् व्याख्याय दर्शितत्वात् । । यत्तु नित्यानित्यवस्तुविवेकाभावेऽपि इहामुत्रफलभोगविरागो रोगप्रस्तानां परलोक विद्वेषिणाञ्च भवतीति तेन किमुक्तं भवति ? नित्यानित्यविवेकस्य वैराग्यसंपादकतया भवन्मते साधनत्वेन परिगणनमेव भवता खण्डितं भवति । सर्वमन्यदा ऐकशास्त्र्यप्रसाधनावसर एव प्रपञ्चितम् । ब्रह्ममीमांसायामाकाशादि नित्यत्वविचारवत् कर्मफलनित्यत्वानित्यत्वविचाराभावात् अध्ययनमात्रादेव तद्विषये निर्णयो जात इति न सिद्धयेत् । किन्तु ब्रह्मविचारात् प्रागेव सन्निर्णयो जात इत्येतावदेव । तज्जननं च कर्मविचारस्य वृत्ततया बहुविधन्या योहापोह सामर्थ्यसंपत्त्येति ब्रूमः । एतेन, “प्रथमं कर्मणः आपाततो ब्रह्मविचारप्रतिबन्धक निवृत्तिसूचनमनन्त स्थिर फलतया ब्रह्मविचारस्य" इत्यनन्वितबादोऽपिं निरस्तः । आपाततः कर्मणः ब्रह्मविचारप्रतिबन्धकत्वं न शतदूषणीविवक्षितम् । किन्तु कर्मविशेष्यकानन्तस्थिर फलत्वप्रतीतेरेव । तन्निवृत्तिश्व कर्मविचारत इति प्रपञ्चितमेतत् । यत्तु -कर्म विचारे यज्ञादिपदार्थनिर्णयो न कुत्रापि कृत इति तदप्ययुकम् । तत्र द्वितीयप्रथमे, “शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्” इति सूत्रे भपर्यायधातुरूपात् शब्दान्तरात् धात्वर्थमेदात् तदनुबद्धा भावनाऽपि भिन्नत्युक्तम् । तेन यजतिददातिजुहोतीनामपर्यायत्वमाविष्कृतम् । तथा प्रकरणान्तराधिकरणे, कुण्डपायिनामयनामिहोत्रं प्रसिद्धाग्निहोत्रविलक्षण प्रकरणान्तरात्, समिधामंतनूनपाद्यागादिर्मिथोभिन्नः अभ्यासादित्येवं यागावान्तरभेदोऽपि व्यु साधनचतुष्टयपूर्व वृत्तत्वभन्न प्रसाधनम् २८९ त्पादितः । चतुर्थद्वितीये, “यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् " इति सूत्रेण देवतोद्देश्यकद्रव्यत्यागात्मके यागे द्रव्यदेवतात्यागरूपरात्रय सद्भावस्य, अनन्तरे च, “तद्युक्ते श्रवणात् जुहोतिरासेचनाधिकः स्यात् " इति सूत्र होमे देवतेोद्देश्य कद्रव्यत्यागवत् प्रक्षेपस्यापि प्रवेशात् प्रक्षेपनिरुक्तत्यागोभयात्मत्वस्य च वर्णनात् तत्तत्खरूपशोधनस्य सिद्धेः । सूत्रद्वयं किमर्थं प्रवृत्तमित्यत्र शास्त्रदीपिकायामभिप्रायभेदस्य प्रदर्शितत्वेऽपि सूत्राभ्यां वर्ण्यमानं यागहोमस्वरूपवैषम्यमिति निर्बाधम् । एवं दशमषष्ठे, " द्वादशाहस्य सत्रत्वमासनोपायिचोदनेन यजमानबहुत्वेन च सत्रशब्दाभिसंयोगात्”, “यजतिचोदनादहीनत्वं स्व मिनाञ्चास्थितपरिमाणत्वात् " इति सूत्रद्वयेन सत्राहीनखरूपशोधनेन द्वादशाहस्य सत्रत्वमहीनत्वञ्च वर्णितमिति यागावान्तर भेदोऽपि पूर्वमीमांसायां प्रदर्शित एव । एवमिष्टिपशुसोमयागवैलक्षण्यादिकमप्यतिदेशाध्यायतोऽवगम्यते । याज्ञिकप्रसिद्ध्यादिना सामान्यतोऽर्थावगमेऽपि निष्कर्षो मीमांसाधीनः । लोकप्रसिद्धवहिं राज्यप्रोक्षणी निर्मन्थ्यादिशब्दार्था हि, यक्वराहत्रिवृच्चरुपिकादिशब्दार्थाः तृतीय इव प्रथमस्य, चतुर्थे विचार्यैव निर्णेतव्या आसन् । सुतरां यूपाहवनीयादिशब्दार्थाः । अतिप्रसिद्ध ऋग्यजुस्सामादिपदानामप्यन्तरेण मीमांसां वेदपरत्वं मन्त्रपरत्वं वेतिं दुर्विज्ञानम् । तस्मात् पूर्वमीमांसायां पदार्थशोधनं नास्तीति न । परन्तु आस्तिकलोकप्रसिद्धान् शब्दान् प्रसिद्ध एवार्थे पूर्वमीमांसाऽपि व्यवहरतीति आस्तिकैरन्यथाऽपि तत्तदर्थावगमः पूर्वमीमांसाध्ययनादूर्द्धमिव प्रागपि सुलभ इति कथ्येत । तथापि पूर्वमीमांसातः तद्वैशद्यलाभादस्तिशेषः । तेन ‘विविदिषन्ति यज्ञेन दानेन’ इत्यादौ मासामिहोत्रादिवत् अपूर्वयज्ञादिकमेव करणं विहितमस्तीति कश्चिचे दाक्षिपेत्, भेदकप्रमाणप्रसराभावात् अपूर्वग्रहणायोगात् प्रसिद्धसर्वयज्ञविषयकं विनियोगान्तरमेवेदमिति अप्यय्वदीक्षितदेश्यो मीमांसक एव तादृशमाक्षेपं परिहरेदित्यस्त्यत्र मीमांसाया उपयोगः । यस्त्वाक्षेपः 37 " स्वाध्यायोsध्येतव्यः " इति विधेः कर्मब्रह्मविचारं सर्वं २९०
कृत्या, अधीत्य स्नायादिति समावर्तनं कर्तव्यं स्यात् । अधीत्येत्यस्य कर्मकाण्डविचारानन्तरमित्यर्थवर्णने च तदनन्तरं स्नानं केनचित् क्रियते, केनचित् ब्रह्मविचार इत्यव्यवस्थेत्येवरूपः -स नैव भवति । अध्ययनस्याक्षरराशिग्रहणमात्रार्थताया अस्माभिरुक्ततया, " अधीत्य स्वायात्” इत्यस्य अक्षरराशिधारणानन्तरं समावर्तनं कार्यमित्येतदर्धकतया कर्मविचारस्यापि ततः पश्चात् संभवेन ब्रह्मविचारे कर्म विचारानन्तर्यस्याक्षतत्वात् । अतः पुरुषप्रवृत्तिभेदेन न शास्त्रर्थविप्लवः । अथातो ब्रह्मजिज्ञासेति रागप्राप्तो विचार एवोच्यते, न तु विधिरिति च प्रागेवोक्तम् । संपन्नकर्मनिर्णयस्य ब्रह्मविचारे औचित्यं सौकर्यञ्चास्तीत्येतावदेव ब्रूमः । " उपनिषदमावर्तयेत् " इति वाक्यं तु नोपनिषन्मात्र प्राथमिकाध्ययनविधायकम् । किन्तु अधीतोपनिषदावर्तनयत्वपरमिति प्रागेवोक्तम् । यत्तु -कर्मविचारस्य शारीरकतृतीयचतुर्थपादेन कर्मरूपेतिकर्तव्यतापरेणैव संगतत्वात् ब्रह्मविचारात् पूर्वं कथं कर्मविचार इति तन्न कर्मनिर्णयो हि द्वेधोपयुज्यते ब्रह्मविचारप्रतिबन्धक निवर्तने, ब्रह्मविद्येतिकर्तव्यताभूतकर्मविवेके च । तत्र प्रतिबन्धकसद्भावात् ब्रह्मविचारेऽनवतीर्थ कर्मविचारे कृते, प्रतिबन्धके निवर्तिते ब्रह्मविचारो भवतीति न ब्रह्मविचारपाश्चात्यता कर्मविचारस्य । एवं कृतस्य विचारस्य पुनः कर्तव्यत्वप्रसत्त्यभावात् तृतीयचतुर्थारम्भे पुनर्विचारो नं व्यधायि । तृतीयचतुर्थपाद एव शारीरके प्रथमं निबध्यतामिति चेत्-तदपि नंकर्मणां परब्रह्माराधनत्ववेषेणैवोपासनां प्रति इतिकर्तव्यताभावात् ब्रह्मनिरूप्य, "” फलभत उपपत्तेः " इति ब्रह्मणः कर्माराध्यत्वमपि व्युत्पाद्य तदुपासनरूपमङ्गि च प्रतिबोध्य पश्चादेव तदितिकर्तव्यतात्वस्य प्रागुक्तेषु कर्मसु ज्ञापनीयत्वात् । अतः श्रुतप्रकाशिकाभिप्रायमगृहीत्वा न संरब्धव्यम् । कर्मब्रह्मविचार विषययोः shar: कः संबन्धः ? साध्यत्वोपकार्यत्वादेरभावादिति चेन्न -आराध्याराधनभावरूपस्य संबन्धस्य जागरूकत्वात् । ब्रह्मविचारस्य कर्मविचारानन्तर्यं निरुयन्त्यां शतदूषण्यां निरीश्वरमीमांस कैरित्यादिना तेषामप्यस्याङ्गीकृतप्रायत्वंमस्तीति वर्ण्यते । तदेवमेतदाशयः — निरीश्वरमीमांसकत्वादीश्वरं विचार्य G साधनचतुष्टयपूर्ववृत्तत्व भङ्ग प्रसाधनम् २९१ , स्थापयितुमनिच्छन्तः जैमिनीयव्याख्यातारोऽर्वाञ्चः, " अथातो धर्मजिज्ञासे" त्यस्य कृत्स्नवेदाध्ययनानन्तरं कृत्स्नवेदार्थविचार इत्यर्थं वर्णयन्ति । परं द्वादशाध्यायीव्याख्यानमात्रे विरमन्ति । न हि तावतैव कृत्स्नो वेदार्थो विचारित इति तैर्वक्तुं शक्यम् । ‘जैमिनीयं षोडशलक्षण’ मित्यस्य द्वादशोपरि सङ्कर्षभागसत्त्वस्य शबरखाम्यादिग्रन्थत एव संप्रतिपन्नत्वात् । एवश्व कृत्स्नवेदार्थप्रतिज्ञां विधाय क्वचिद्विरमन्तः शेषमपि निरूप्यैव प्रतिज्ञापूर्ति कर्तव्यां मन्यन्त इति स्वीकर्तव्यम् । एवञ्च तैः अनुक्तोऽप्यनभ्युपगतोऽपि ब्रह्मविचारः शिरोभूतोऽभ्युपगन्तव्यो भवति । तत्र विचारितानामुपनिषदामधीतवेदान्तर्गतानां षोडशलक्षणे विचारितत्वाभावेन तद्विचारं विना कृत्स्नवेदार्थप्रतिज्ञापूर्त्यभावात् । यदि ब्रह्म नाभ्युपेयते, तर्हि यदर्थपरत्वमुपनिषदामिष्टम्, तदर्थवर्णनार्थं वा कश्चित् पोडशलक्षणोपरितनो भागः स्वीकर्तव्यः । तत्र ब्रह्मास्तीति वा निरूप्यताम्, नास्तीति वेति । भवदीयैरपि कैश्चित् शारीरकस्य शास्त्रान्तरत्वादुपनिषद्भागचिन्तेति वदद्भिः पूर्वशास्त्रे उपनिषदां विचारो न वृत्त इति ज्ञाष्यते । तद्विचारार्थं कश्चिद्भागः एष्टव्य एव भवति । न चेत् कृत्स्नवेदार्थविचारप्रतिज्ञा निरीश्वरमीमांसककृता न घटते इति । अत्र’ त्वदीयैः कैश्चित्" इत्यत्र “कैश्चित्" इत्यनेन भवदीयाः प्रायः ऐकशास्त्र्यादिन एव ; शारीरकस्य शास्त्रान्तरत्वमिति भवदीयेषु एकदेशिमतमेवेति शतदूषण्या प्रतिबोध्यत इति ध्येयम् । एवं प्रकृतानुसारिंशतदृषण्यर्थापरिशीलनेन तत्सूक्तिदूषणसंरम्भः कोलाहलमात्रम् । सर्वमिदम्, “ शास्त्रान्तरत्वादुपनिषद्भाग चिन्तेति पक्षस्य च त्वदीयैः कैश्चित् परिग्रहात् " इति शतदूषणीवाक्यमिति मुद्रितग्रन्थस्थितिमनुसृत्योक्तम् । वस्तुतोऽत्र शुद्धताळकोशपाठोऽन्यः । “शाखातल दुपनिशद्भागचिन्तेति पक्षस्य तदीयैः कैश्चित् परिग्रहणात्" इत्याकारकः । तदर्थश्च शाबरानुयायिभिः पूर्वमीमांसकैरेव शारीरकस्य शास्त्रान्तत्वमेकशास्त्र-: चरमकाण्डत्वम्, अत एव वेदचरमभागोपनिषद्विचारात्मकत्वञ्चाभ्युपगतमिति । १९२
"" अत्रेदमपि बोध्यम् – “अथातो ब्रह्मजिज्ञासे “त्यत्र अथशब्दस्याध्ययनानन्तर्यरूपार्थः कस्मादुपेक्ष्यते ; अध्ययनाभावे वेदान्त विचारायोगेन तस्यावश्यकत्वात् । यदि, " स्वाध्यायानन्तर्य तु समान " मिति तत्त्यागः, तर्हि पूर्वममांसायामपि सोऽर्थो गळहस्तित एव भवेत् ; " अथारो धर्मजिज्ञासे त्यत्रापि अथशब्दस्य ब्रह्मविचारसाधारणस्य अध्ययनानन्तर्यस्यार्थत्वायोगात् । अत्र इहामुत्रफलभोगविरागोऽधिकारिविशेषणञ्चेत्, तत्र बुभुक्षुत्वमधिकरिविशेषणं युक्तमिति तदानन्तर्यमेवाथशब्दार्थ इति वक्तव्यम् । तथाऽनुक्ता बुभुक्षमुमुक्षुसाधारणस्याध्ययनानन्तर्यस्य तत्रार्थत्वकथनात् बुभुक्षं मुमुक्षुञ्चाधिकृत्य विचार्य सर्वं प्रतिज्ञायते तत्रेति विज्ञायते । न च भवदीयेषु कैरपि पूर्वर्मामांसाघटकस्याथशब्दस्यार्थो मीमांसकवर्णितो दूषितोऽस्ति । प्रत्युत परिगृहीत एव भाव्यभामत्यादिषु । अपि च वेदवाक्यार्थविचारे वृत्ते यत्र यादृशार्थो निर्णीतो भवति, तादृशार्थानुरोधेन पुरुषार्थप्रवृत्तिः पुंसां भवेत् । कर्मविचारे प्रवृत्तैः यदि स्वर्गादिकं षष्ठाध्यायोपपादितरीत्या साध्याभावमनुभवितुमीष्ट इति निश्चयः, तदैव खर्गादिबुभुक्षा यथावद्भवन्ती तदर्थेषु कर्मसु पुरुषं प्रयोजयति । तथा यदा शारीरकेण ब्रह्मविचाररूपेण ब्रह्मस्वरूपं यथावत् शोधितम्, तत्प्राप्त्यपुनरावृत्तिरूपत्वादि च अवधारितम् तदैव स्वर्गाद्यपेक्षयाऽतिशयस्य सुगृहीतत्वात् आत्मस्वरूपानुरूपत्वस्यावसितत्वाच्च भवति मोक्षाख्ये फले समुत्कटो रागः । एतावदवधार्यापि भूम्ना त्रिवर्गप्रावणा एव पुमांसो भ्रमन्तीति स्थिते एतदवधारणात् प्रागेव मुमुक्षा यथावदुदिताऽस्तीति सर्वथा दुर्वचम् । वेदविचारप्रवृत्तस्य परीक्षणनैपुण्यप्राप्तिक्रमेण मुमुक्षापि तरतमभावापन्ना क्रमेण वर्धमाना भवतीति तु कामं स्यात् । अतः ब्रह्मविचारनिष्पत्तेः प्राक् पुष्कलमुमुक्षायाः दुर्वचत्वात्, आपातरूपायाश्चाधीतवेदवेदान्तस्यादौ बुभुक्षया सहैव सत्त्वात् प्रबलया बुभुक्षया तस्याः प्रतिबद्धत्वात फलान्तरवैराग्यविशिष्टमुमुक्षायाश्च फलान्तरखरूपशोधनमन्तरेणासंभवात् वेदमात्रप्रामाण्यस्वीकारिणश्च शास्त्रान्तरोपेक्षया वेदवाक्यतस्तन्निर्णयस्यापेक्षितत्वेन तदर्थे वेदविचार एव प्रवृत्तेः पूर्वममांसयैव सर्वविधाक्षेपप्रतिक्षेपपूर्वकं तत्तत्फलख उपनिर्धारण संपाद्यमिति कर्मनिर्णयानन्तर्यमप्रतिषेध्यम् । परन्तु साधनचतुष्टयः वृत्तत्व-भङ्ग प्रसाधनम् २९३ इदमपि वैराग्यं यावन्मोक्षस्वरूपनिर्णयो न भवति तावत्पर्यन्तं न पुष्कलम् । यदि मोक्षोऽपि नित्यत्वेन शास्त्रतो निर्धार्यो न स्यात्, यदि पुरुषस्यानादिसञ्चितानन्तकर्मक्षयः कथमप्यसंभावितः स्यात्, यदि च मोक्षे आनन्दानुभवप्रसत्तत्यभावेना पुरुषार्थतैव (भवन्मत इव) स्यात्, तर्हि, ‘अन्धत्वात् वरं काणत्वम्’ इति अल्पास्थिरभोगव्यावृत्या महादुःखममतानिवर्तनमेव न्याय्यमिति भोग एव सजेत् पुरुषः । अतो वैराग्यमुमुक्षुत्वे त्यक्तकर्मविचारस्य ब्रह्मविचारात् प्राक् यथावद्दुरुपपादे । नित्यानित्यवस्तुविवेकशब्दार्थस्तु भवद्भिरेवासंभवचिन्तयाऽ न्यथितः । शमदमादिसाधनसंपच्च, न प्राथमिक श्रवणोपयोगिनीति साधनचतुष्टयपूर्ववृत्तत्वं दुःस्थमेव । प्राचीनादृतकर्मनिर्णयपूर्ववृत्तत्वदूषणञ्च संरम्भकृतमेवेति । 1 ; अतो ब्रह्मत्यागिनिरीश्वरमीमांसकोपरि प्रवृत्तस्य कोपस्य विलसितमेतत् यत्, कर्मत्यागेन ब्रह्मैवादृत्यमिति मुष्टिबन्धनम् तदर्थं तत्क्रियमाणस्य कर्मविचारस्य स्वयमुपेक्षणे नैर्भर्यमरणञ्चेति । एवम्भूतान् द्विविधान् अधिकारिण एव कबन्धमीमांसकान् राहुमीमांसकांश्चाधिकृत्य सूक्तमीशोपनिषदि " अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥ " इति । कर्ममात्रपरापेक्षया कर्मत्यागिनां विद्वदाभासानां क्लेशमधिकं दर्शयन्ती श्रुतिरत्यर्थमनुक्रोशते सैवान्धतमस निवर्तनेनामृतप्रापणायालमिति मा भूत् कर्मोपेक्षणमिति । अतो ब्रह्म विचिचारयिषुणा विरक्तेन मुमुक्षुणा वैरा ग्यवृद्धये मोक्षविषयोत्कटेच्छासंपत्तये मोक्षोपायनिष्पत्तये, अन्यथा प्रत्यवेमेति मिया कर्मानुष्ठानाय च कर्मविचारमावश्यकं विधाय " वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्थाः नान्यः तत्तोषकारकः " इति प्राप्तेन कर्मणा भगवन्तं भक्तिपूर्वमाराधयता, तद्विचारे प्रवृत्य तत्त्वनिर्णयः संपाद्यः । अत एवाद्यत्वे ये " कालक्षेपाक्षमत्वात् कतिचन कृतिनः शीघ्रमन्ते रमन्ते “, तेषामाह्निकमात्र वा यथावदुपदिश्य ब्रह्मजिज्ञासायां प्रवृत्त्याधानमाचार्यैर्विधीयते ॥ नित्यानित्यविवेको नारकदुःखेऽप्यनित्यताधृत्या । इह फलभोगविरागो बहुशिष्यस्तोमवन्द्यभावाय ॥ २९४
आमुष्मिकवैराग्यं त्वायासार्थव्ययाद्य सहनेन । शमदमसंपत् शाश्वतधर्मानुष्ठानयत्लवैधुर्यात् ॥ भवति मुमुक्षा चाद्य प्रतिमोक्तव्यस्य मोचनोपगमात् । साधनचतुष्टयमिदं त्वद्यत्वे ब्रह्मकाभिनयताम् ॥ नित्यं फलं यदि, विरज्य फलान्तरेभ्यः तत्साधनेषु विविधेष्वपि चाप्रवृत्य । तत् प्राप्नुयामिति खलदयते मुमुक्षा तस्मान्न साधनचतुष्टयमिष्टमस्ति ॥ विचार्य श्रुत्यन्तान् विदितपरमार्थस्तु पुरुषो महानन्तानन्दाधिगगहतनानाभिलषितः । अवर्ज्य सत्कर्म श्रुतमथ चरन् शान्तिजलधिः मुमुक्षामभ्यां भजति महिते रज्यति हिते ॥ ; श्रीः