०८ शब्द-जन्य-प्रत्यक्ष-भङ्ग-प्रसाधनम्

साक्षात्कारं मुक्तिहेतुं वदत्सु प्राञ्चस्तस्मिन् कारणं शब्दमूचुः । पक्षे नव्यैः खण्डितेऽप्यात्मनीनैरस्मिन् विभ्रत्याग्रहं किं विमेऽद्य ॥ दर्शनसमानाकारं विधेय ध्यानं मोक्षसाधनमिति प्रागुक्तम् । दर्शनमेवाविधेयं मोक्षसाधनमिति पक्षश्च प्रतिक्षिप्तः । अथ दर्शनं तत् किंकरणकमिति विमर्श तत्त्वमस्यादिशब्दकरणकमेवेति प्राच्यैरुक्तम् । तन्निरसनार्थोऽयं शब्दजन्यप्रत्यक्ष-भङ्गवादः । नवीनैः पुनरत्र स्वागतव्याहार एव समुचितः ; यतः भामत्यादिषु शब्दकरणकत्वं विस्तरेण व्युदस्तमस्ति । तदत्र शतभूषणी अन्यवादमिव इममपि वादमुपेक्षितुमेवार्हति । एवं स्थितेऽपि भामत्याद्यनुकूलः • २५२

८ वादं प्रतिवसुं प्रयतमाना भामत्यादिपरासन एवं प्रयतत इत्यद्वैतिभिरवगन्तव्यम् । तथा हि-भामत्यामथशब्दार्थ विचारघट्टे, " न चैष साक्षात्कारो मीमांसासहितस्य प्रमाणस्य फलम् अपि तु प्रत्यक्षस्य । तस्यैव तत्फलत्वनियमात् । अन्यथा कुटजबीजादपि वटाङ्कुरोत्पत्तिप्रसङ्गात् । तस्मात् निर्विचिकित्सवाक्यार्थभावना परिपाकसहितमन्तः करणं त्वपदार्थस्यापरोक्षस्य ततदुपाध्याकारनिषेधेन तत्पदार्थतामनुभावयतीति युक्तम्" इत्युक्तम् । कल्पतरौ च, " अपरोक्षप्रमाकरणादेव तत्साक्षात्कारः । अन्तःकरगञ्च सोपाधिके आत्मनि जनयत्यहं वृत्तिमिति सिद्धमस्यात्मन्यपरोक्षधी हेतुत्वम् । शब्दस्तु . नापरोक्षप्रमाहेतुः क्लृप्तः । प्रमेयापरोक्ष्ययोग्यत्वेन प्रमायाः साक्षात्कारत्वे देहात्मभेदविषयानुमितेरपि तदापतिः । दशमस्त्वमसी’ त्यत्रापि तत्सचिवातअक्षादेव साक्षाकारः । अन्धादेस्तु परोक्षधीरेव" इति शब्दस्य परोक्षहेतुत्वं न कुत्रापीत्युपपादितम् । परिमळेऽपि, “अपरोक्षार्थविषयकज्ञानत्वं ज्ञानगत मापरोक्ष्यम् । ब्रह्मणश्च साक्षादपरोक्षत्वात् तज्ज्ञानस्य प्रत्यक्षतेति पक्षो न युक्तः । ब्रह्मविषयक श्रवणमननादेरप्यपरोक्षत्वापत्तेः । प्रत्यक्षस्य शब्दकरणकत्वे मनःकरणकत्वपरगीताभाष्यादिविरोधश्च” इत्युक्ता, अपरोक्षार्थविषयकत्वं ज्ञानस्यापरोक्ष्यमिति पक्ष बहुधा विकरूप्य, निराकृत्य, “स्वाविषयविषयकज्ञानाजन्यज्ञानत्वं ज्ञानापरोक्ष्यमिति निर्वचनं कृतम् । अनुमित्यादेः स्वाविषयधूमादिविषयकज्ञानजन्यत्वात् प्रत्यक्षे विशिष्टज्ञाने विशेषणज्ञानस्य कारणत्वेऽपि स्वाविषयविषयकज्ञानाजन्यत्वात् लक्षणं सुस्थम् । तत्त्वमसीति वाक्यज्ञानजन्यमखण्डार्थज्ञानञ्च खाविषयशब्दादिविषयकज्ञानजन्यमिति न तत्र प्रत्यक्षलक्षणमिति तदाशयः । एवं ज्ञानाकरणकं ज्ञानं प्रत्यक्षमिति लक्षणान्तरमपि ग्राह्यम् । शब्दलिङ्गादिस्थले तत्तज्ज्ञानमेव वस्तुतः करणम् ; प्रत्यक्षे तु वस्तुसदेव चक्षुरादि करणमिति विशेषात् । अनुपलब्धिस्थले च, यद्यत्र घटः स्यात्, तर्बुपलभ्येतेति तर्कस्यापि कारणत्वात् अभावज्ञानाविषयविषयकतर्क रूपज्ञानजन्यत्वमस्तीति न प्रत्यक्षमित्यपि तत्रैवोक्तम् । तदेवं भामती शब्दजप्रत्यक्ष-भङ्ग प्रसाधनम् २५३ प्रस्थानानुकूलं शतदूषणीवादमिमं खण्डयन्ती शतभूषणी भामत्यादिग्रन्थान् उपात्तान् कुतो न खण्डयति ? अयमध्येकः श्वश्रभिक्षाप्रतिक्षेप इति मन्यत इव । तदत्राद्वैतिभिरेव कार्य शतभूषणीखण्डनं तत्सौकर्याय वयमेव कुर्मः । तत्रादौ इन्द्रियजन्यं प्रत्यक्षमित्युक्तौ अनिन्द्रियजन्ये प्रत्यक्षेऽव्याप्तिः स्यादिति इन्द्रियमनिन्द्रियं वा प्रत्यक्षप्रमाकरणं सर्व प्रत्यक्षमित्याशय्य प्रत्यक्षप्रमालक्षणं यदुक्तम्, विषयावच्छिन्नचतन्याभिन्नं वृत्त्यवच्छिन्नं चैतन्यमिति तत् उपक्रान्तविषयेऽप्यनन्वयादुपेक्ष्यमेव । न हीदं लक्षण तत्त्वमसिवाक्यजन्यप्रत्यक्ष समन्वेति । तत्र विषयो ब्रह्म । तदवच्छिन्नचैतन्यञ्च न प्रसिद्ध । मिति । वृत्तिः चैतन्यमिति द्वयस्य तयोरवच्छेद्यावच्छेदकभावस्य च लोकपसिद्धत्वाभावादपि नेदमनुभवसिद्धं लक्षणम् ; किन्तु खसङ्केतमात्रमूलम् । अनुपलब्धेः प्रत्यक्ष प्रति करणत्वाभावः परिमळ एव वर्णितः । परमार्थप्रकाशिकायामस्माभिश्चानुपलब्धेः प्रमाणत्वमेव प्रतिक्षिप्तमिति किमनेन ? अनुमानस्य प्रत्यक्षकारणत्वाभावे पर्वतो वह्निमानित्यत्र पक्षांशे प्रत्यक्षं कथमिति चेत् — चक्षुः संनिकर्षादेव । पर्वतो वह्निमानित्यनुमितेः पक्षांशे प्रत्यक्षत्वं तु न युक्तम् । अनुमितित्वप्रत्यक्षत्वयोर्विरुद्वयोरेकत्रासमावेशात् । भवताऽपि पर्वताकारवृत्तिवह्नयाकारवृत्त्युभयावच्छिन्नं चैतन्यमेकमनुमितिरित्युक्तम् । तत्र पर्वतवृत्तिश्चक्षुर्जन्या, वह्निवृत्तिश्चानुमानजन्येति वर्णनसंभवात् नानुमानं करणं पर्वतप्रत्यक्षे । एवं वृत्तिद्वयावच्छिन्नैकज्ञानस्वीकारे कचित् प्रत्यक्षानुमानशब्दा दिबहुप्रमाण सामग्री समावेशप्रयुक्तमेकं ज्ञानमपि जायताम् । तस्य नाम किञ्चिदितस्तर्कणीयं भविष्यति । तस्मात् पर्वतमात्रविषयकप्रत्यक्षापेक्षया वह्निमत्पर्वतरूपभिन्नविषयकानुमितिरपि जायते ; समनन्तरश्च पर्वतप्रत्यक्षमपीति क्षणविवेकविलयादनुमितिप्रत्यक्षयोरेकत्वारोपमात्रम् । एवं दशमस्त्वमसीत्यादावपि भाव्यम् । अन्यथा वह्निमत्त्वेन पर्वतमनुमिनोमीति पर्वतेऽप्यनुमितिवृत्तिविषयत्वानुभवो विरुध्येत । कारणवैचित्र्यवलादेव अनुमिति २५४

शाब्दबोधादिषु परोक्षज्ञानेषु वैजात्यम् । एवं विजातीय प्रति हेतुत्वेन कूलप्तात् प्रत्यक्षं परं कथमुदियात् ? यत्तु — ’ संवित् स्वप्रकाशा’, ‘दशमस्त्वमसी’ त्यादेर्वाक्यस्य प्रत्यक्षजनकत्वात् तत्त्वमस्यादिवाक्यमपि तथेति । तत्र दृष्टान्तासिद्धिरित्थम् । अतीतानागतवर्तमान भेदभिन्नानां सर्वासां संविदां स्वप्रकाशत्वस्यात्राभिधीयमानत्वात् तासां सर्वासां युगपत् प्रत्यक्षविषयत्वं न संभवतीति । किञ्च संविदिति वृत्तिग्रहणं वाचैतन्यग्रहणं वा । आद्ये तस्याः न स्वयंप्रकाशत्वम् । अन्त्ये चैतन्यस्य परकीयानुमेयत्वं शाब्दबोधविषयत्वं च संप्रतिपन्नम् । प्रत्यक्षविषयत्वं तु न तथा । नैयायिकेस्तस्य जडतयाऽनुव्यवसायविषयत्वस्वीकारेऽपि स्वयंप्रकाशत्ववादिभिस्तदस्वीकारात् । अतः, ‘संवित्पदस्वपदप्रकाशपदवाच्यस्य सर्वस्य प्रत्यक्षविषयत्वात् तद्वाक्यं प्रत्यक्षवृत्तिजनक’ मिति न शक्यं वक्तुम् । एतदपेक्षया संविदादिपदार्थस्य स्वयंप्रकाशत्वात् संवित् स्वयंप्रकाशेति वाक्यादपि तत्प्रकाशो न जायत इति यदि भवद्वर्णनम्, भवेत् श्रेयः ।

यत्तु संविदः स्वयंप्रकाशत्वेऽपि अस्तीति, भातीति, स्वप्रकाशमिति वा न प्रकाशत इति तन्न तथा सति संवित्प्रकाशकालेऽपि संविन्नास्ति, न भातीति विपर्यासापत्तेः । स्वप्रकाशत्वं न ज्ञायत इति तु युक्तम् । अत एव तार्किकादयो जडत्वमातिष्ठन्ते संविदः । किश्च इदं स्वयंप्रकाशत्वम्, स्वजन्यःयवहारविषयत्वं वा स्वेतरनिरपेक्षव्यवहारविषयत्वार्हत्वं वा । व्यवहारादिपदार्थानां प्रत्यक्ष्यत्वनियमाभावात् तद्घटितं स्वप्रकाशत्वमपि न प्रत्यक्षम् । व्यवहारातिरिक्तस्तु प्रकाशः स्वविषयकः स्वजन्यो वा न भवति । तस्य संवित्स्वरूपानतिरेकात् । प्राकट्यानङ्गीकारात् । तत्र एवं दशमस्त्वमसीत्यत्रापि दशमत्वं दशत्वसंख्यापूरकत्वम् । दशत्वसंख्या च दशविषयकापेक्षाबुद्धिजन्या । एतद्वाक्यश्रवणकाले अपेक्षा बुद्धयभावे सा न जातेति अवर्तमानत्वात् कथं प्रत्यक्षा ? अतो ‘वक्त्रपेक्षबुद्धा चधी शब्दजप्रत्यक्ष-भङ्ग प्रसाधनम् २५५ नदशमत्वप्रत्यक्षपूर्वक वाक्यप्रयोगे दशमत्वशब्दबोधे जाते श्रोता स्वयमपेक्षाबुद्धया दशमत्वमुत्पाद्य प्रत्यक्षीकरोति । तथा च चक्षुरादिकमेव करणमिति किमनेन वाक्येन चरितार्थेन ? दशत्वसंख्या पूरकत्वमित्यत्र पूरकत्वं च किम् ? दशत्वान्वग्निवपुरुषविशिष्टत्वमिति चेत् — स्वातिरिक्तपुरुषनवकवृत्तिदशत्वविशिष्टरूपार्थघटकानां नवानामदर्शनकाले वाक्यं न प्रत्यक्षजनकं स्यात् । दर्शनकालेऽपि दशमस्त्वमसीति वाक्यार्थश्रवणजनितगणनव्यापारानन्तरमेव दशमत्वप्रत्यक्षमिति न शब्दात् प्रत्यक्षसंभवः । किञ्च दशमोऽहमस्मीति ज्ञानस्य प्रत्यक्षत्वे किं नियामकम् ? अहमर्थविषयकत्वमिति चेत्अहं पुण्यापुण्यवानित्यस्यापि प्रत्यक्षत्वाप्रसङ्गः । किञ्च, अहमिति आत्मा वा, देहो वा ? आत्मनो न बाह्यप्रत्यक्षविषयत्वमस्ति । मानसप्रत्यक्षं तु भवन्मतेऽपि मनसः पृथक् प्रत्यक्षकरणत्वानङ्गीकारात् दुर्वचम् । सुवचत्वेऽपि नवानामन्येषामात्मनामप्रत्यक्षत्वेन तद्गतदशत्वसंख्याया अप्यप्रत्यक्षत्वात् दशत्व संख्यापूरकत्वरूपं दशमत्वमपि तथा । अहमिति देहग्रहणे अन्धस्य दशमोऽहमिति धीः कीदृशी ? चाक्षुषाभावेऽपि स्पार्शनं परिमळ चिन्तितमस्त्विति चेत् — तत्रापि परेषां नवानां युगपत् त्वगिन्द्रियेणाग्रहणात् तद्गतदशत्वस्य त्वगिन्द्रियाग्राह्यतया दशमत्वांशे स्पार्शनं दुर्वचमेव । अतः कल्पतरूक्तरीत्या परोक्षैव । एवञ्च इन्द्रियसन्निकर्षे सति दशमोऽहमिति प्रत्यक्षम्, न चेनेति सिद्धया अवश्य क्लृप्तमिन्द्रियं विहायान्यथासिद्धस्य शब्दस्य कारणत्वं नैव भवितुमर्हतीति कल्पतरूक्तं सिद्धम् । अधिकमुपरिष्टात् । यत्तु प्रत्यक्षरूपस्य देहात्मभ्रमस्य परोक्षज्ञानान्निवृत्तिर्न भवतीति तत्रोच्यते । प्रत्यक्षादपि न भवितुमर्हति । ऐन्द्रियकप्रत्यक्षात्तन्निवृत्त्यनङ्गीकारात् । ’ तस्य दुष्टत्वात् तथा; शाब्दं तु प्रत्यक्ष अदुष्टहेतुकत्वान् निवर्तक’ मिति चेत् तर्हि अदुष्टहेतुकत्वमात्रं प्रयोजकमस्तु । किं प्रत्यक्षत्वस्य संमेळनेन ? । तथा च दाक्यजन्यं श्रपणमेव निवर्तकं भवतु । श्रुतवेदान्तस्यापि जगन्निवृत्त्यदर्शनात् नैवमिति चेत् — दृष्टब्रह्मात्मैक्यानामपि न भवतीति · २५६ तुल्यम् ।

अत एव भुज्यमानादृष्टाभावविशिष्ट एव साक्षात्कारः, " तस्य तावदेव चिरम्’ इति श्रुत्यनुसारात् निवर्तकत्वेन भवदिष्टः । एवञ्च तदा श्रवणमेवाविद्यानिवर्तकमस्तु किं प्रत्यक्षेण ? अतः साक्षात्कार एव निवर्तक इत्यत्र नियामकाभावात् श्रुतौ च दर्शनश्रवणमनननिदिध्यासनानामुक्तत्वात् अदृष्टविधया मोक्षहेतूपायविशेषविधानपरत्वमेव श्रुतेरुन्नीयते । ; " मनसा तु अपि च प्रत्यक्षं शब्दजन्यमित्यत्र न किञ्चित् प्रमाणम् । लोके वेदे चादृष्टेः । ऐन्द्रियकत्वे दुष्टहेतुकत्वापत्त्या शब्दकरणकत्वमेष्टव्यमिति चेत् । शब्दोऽप्यनाप्तवचसां दर्शनात् दुष्ट एव । वेदस्त्वपौरुषेयः कथं दुष्ट इति चेत् — मनोऽपि कर्मापासना क्षपितकल्मषं रजस्तमसो र्निबर्हितत्वेन शुद्धमदुष्टं भविष्यति । यथा श्रूयते, न चक्षुषा गृह्यते नापि वाचा, विशुद्धेन " इति । अत्र वाचः सर्वात्मना निषेधात् मनसः शुद्धस्य स्वीकारात् अपौरुषेयं वाक्यमपि नोपायभूतं ज्ञानमुत्पादयितुमीष्ट इति स्पष्टम् । अतः शाब्दप्रत्यक्षमेतत् उक्तश्रुतिनिषिद्धमेव । यदि च मनसोऽविद्याख्यदोषजन्यत्वेन दुष्टत्वं मन्यते, तदपौरुषेयत्वेनाभिमते वेदेऽपि तुल्यम् । अन्यथा, वेदस्याविद्यानधीनत्वे सत्यत्वे च द्वैतप्रसङ्गात् । न भवदुपात्तवचनानि च शाब्दप्रत्यक्षस्या साधकानि । तथा हि"वेदान्तविज्ञानसुनिश्चितार्था" इत्यत्र सुनिश्चितपदस्य प्रत्यक्षितपरत्वेऽपि तस्य सुनिश्चयस्य वेदान्तविज्ञानजन्यत्वावसायात् ध्यानजन्यत्वमेव बुद्धयते । तु शब्दजन्यत्वम् । अन्यथा विज्ञान पदवैयर्थ्यञ्च । “खाध्यायश्चक्षुरुत एकमस्य’ इति वचनात् एकेनैव चक्षुषा यदि प्रत्यक्षम्, तर्हि – “योगो द्वितीय भिवीक्षणाय " इति द्वितीयचक्षुर्व्यर्थम् । उभयस्य प्रत्येकमसामर्थ्यं च उभयं मिलितमेव चक्षुरिति प्रत्येकं चक्षुष्टुकथनमयुक्तम् । अतो विशदज्ञानं क्रमेण भवतीत्यत्रैव चक्षुः पदनैर्भर्यम् । यथा, चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना" इत्यादौ । न हि धर्मादिकार्यार्थसाक्षात्कारस्तत्र राज्ञो विवक्षितः । एवं अध्ययनमन नयन इत्य् अपि निरूढम् । अन्यथा एषां वाच्यार्थपरत्वे 6 शब्दजन्यप्रत्यक्ष-भङ्ग प्रसाधनम् २५७ चक्षुष्ट्वादिकमपि तेषां मुख्यमापद्यते । एवं नानाचक्षुःश्रवणाच्च शाब्दमेव प्रत्यक्षमिति सिद्धान्त-भङ्ग एव । मन सहकृतः शब्दः प्रत्यक्ष हेतुरित्यपि वार्तम् । अखण्डब्रह्मवृत्तिजननायावश्यस्वीकर्तव्यस्य मनस एव करणत्वसंभवे श्रवणहेतुतयाऽन्यथासिद्धस्य वाक्यस्य कारणत्वस्यैवाभावे करणत्वकल्पनानुपपत्तेः । मनः सहकृतः शब्दः संविदः स्वप्रकाशत्वं साधयतीत्यप्ययुक्तम् । तत्त्वमसीत्यत्राखण्डात्म प्रत्यक्षहेतुत्वेनाभिमतस्य स्वप्रकाशत्वप्रत्यक्षकारणत्वाभावात् । किमिदं वाक्यं शक्तिस्मरणपदार्थोपस्थित्याकाङ्क्षायोग्यताज्ञानादिसहकृतं सत् प्रत्यक्षजनकम्, स्वतन्त्रं वा ? नाद्यः नाद्यः ; अभेदध्यानानुवृत्तिशीलस्य तत्प्रत्यक्षावसरे अनन्तभेदज्ञानावश्यकत्वकल्पनस्यानुचितत्वात् । अत एव नान्त्यः । अनेकवर्णतदानुपूर्वीरूप भेदात्मकवाक्यज्ञानस्याप्यावश्यकत्वं हि न युक्तं कल्पयितुम् । अर्थोपस्थित्यादेरनपेक्षितत्वे अतदर्थकात् इषेवेत्यादेरप्यदुष्टात् वेदशब्दात् प्रकृतप्रत्यक्षप्रसङ्गात् । यत्तु –त्वं सुखीति वाक्यजन्यम् अहं सुखीति ज्ञानं प्रत्यक्षजन्यमिति परिभाषोक्तमिति तन्न । सुखवर्तमानतादशायां सुखस्य साक्षिभास्यतया शब्दस्य तत्रनपेक्षितत्वेन, शब्दाभावेऽपि जायमानतया च तस्य प्रत्यक्षस्य शाब्दत्वे मानाभावात् । तर्हि शब्दः किं करोतीति चेत् — समाने विषये प्रत्यक्षसामध्याः प्राबल्यात् प्रत्यक्षस्य च स्थितत्वात् मा किञ्चित् करोतु । करोतु वा ; शाब्दत्वप्रकार के च्छा विरह विशिष्टप्रत्यक्षसामग्र्या एव प्रतिबन्धकत्वात् शाब्द ज्ञानं जायतामितीच्छाकाले तदुत्पत्तिसंभवात् । साक्ष्यधीनभानस्य परोक्षान्तःकरणवृत्तेश्चाविरोधात् यौगपद्यं वाऽस्तु । एवं दशमस्त्वमसीत्यत्रापि भाव्यम् ।

यत्तु — शब्दजन्यवृत्तिः सन्निकृष्टविषयिणी प्रत्यक्षरूपैवेति-तत्र कोऽयं सन्निकर्षः ? यदि समीपस्थत्वम् तर्हि अन्धादेः घटोऽयमित्यादिवाक्यादपि प्रत्यक्षापत्तिः । इन्द्रियसंबन्ध इति चेत् — केनेन्द्रियेण संबन्धः ? अन्येन्द्रियसंबन्धे अन्येन्द्रियग्राह्यघटादिप्रत्यक्षस्य शब्दात् वारणाय तत्तद्वस्तुग्राहकेन्द्रियसन्निकर्षविवक्षायां ब्रह्मग्राहकस्येन्द्रियस्य भवताऽनङ्गीकारात् मनसः 33२५८

किञ्चित्प्रत्यक्षकरणत्वस्य चानङ्गीकारात् स्वग्राह केन्द्रियसन्निकर्षो ब्रह्मणि दुर्वचः । नित्यविभुनि च ब्रह्मणि मनस्संबन्धस्य सर्वदैव सत्त्वात् श्रवणमननवेळायामेव शाब्दप्रत्यक्षं कुतो नाभूत् ? एवमिन्द्रियाणां शरीरान्तस्स्थपदार्थानाञ्च मनस्सन्निकर्षसत्त्वात् शरीरान्तरवयवानां योग्यत्वस्याप्यनपायात् तद्विषयकशब्दप्रयोगकाले तत्तत्प्रत्यक्षापत्तिः । तत् किं चाक्षुषं स्पार्शनं वेति चेत् — चक्षुरादिवत् पृथक् शब्दस्य करणत्ववादी शाब्दं प्रत्यक्ष चाक्षुषादिरूपं कथं चिन्तयितुमर्हति ? ‘गुरुत्वादेरसन्निकृष्टत्वात् अप्रत्यक्षत्वं युक्त मित्युक्तमप्ययुक्तम् । गुरुत्वादेः सन्निकृष्टत्वेऽप्ययोग्यत्वादप्रत्यक्षत्वमित्येव वक्तव्यत्वात् । इन्द्रियायोग्यत्वे शाब्दप्रत्यक्ष चेन्न भवति, ब्रह्मण्यपि न स्यात् । ‘विषयावच्छिन्न चैतन्या भिन्नवृत्त्यवच्छिन्न चैतन्यरूपप्रत्यक्षत्वं ब्रह्मज्ञाने दुर्वचम्, ब्रह्मणो विषयस्यैव चैतन्यतया विषयावच्छिन्नचैतन्या प्रसिद्धे’ रिति च प्रागेवोक्तम् । ‘शुक्तिरूप्यादौ शुक्तयादिविषये चक्षुर्वृत्तिः, रूप्यादावविद्यावृत्तिः, उभयावच्छिन्नं चैतन्यमेकमिति प्रत्यक्षमेकम् ; न तु तत्र चक्षुर्जन्यत्वं रूप्यप्रत्यक्षे’ इति च न युक्तम् । रूप्याद्यंशे स्मरणरूपत्वेऽपि उभयावच्छिन्नचैतन्यैक्यस्य सुवचतया रूप्याद्यंशे प्रत्यक्षत्वस्वीकारः, अनिर्वचनीयतत्कल्पना च कुतः : रजतं साक्षात्करोमीति प्रत्ययनिर्वाहस्तदैवेति चेत्रजतं चक्षुषा पश्यामीत्यादिनिर्वाहाय तर्हि चाक्षुषवृत्तिरप्येष्टव्या । यदि स्फटिके जपाकुसुम लौहित्यवत् शुक्तिवृत्तिगतं चक्षुर्जन्यत्वं रूप्यवृत्तौ भासत इत्युच्यते, प्रत्यक्षत्वमपि तथैव सुवचमिति व्यर्थ तत्कल्पनमित्यादि परमार्थप्रकाशिकायां प्रतिपादितमेवास्माभिः । सन्निकृष्टविषये सर्वं प्रमाण प्रत्यक्षजनकमिति च सन्निकर्षशोधनेन प्रागेव परास्तम् । प्रत्यक्षसामग्रीसद्भावे प्रत्यक्षवत् तदैव परोक्षज्ञानसामग्र्यां सत्यां परोक्षमपि काममस्तु न पुनः प्रत्यक्षजनकत्वं परोक्षज्ञानसामध्याः कल्पनीयम् । अतः शब्दजन्य प्रत्यक्षभम-प्रसाधनम् २५९ एवमुपपादने क्रियमाणे केनचिदाशङ्कि – प्रत्यक्षे सत्येव विषये यदि परोक्षप्रकाशः स्यात्, तदा शुक्तित्वप्रकाशेऽपि रजतविषयकः परोक्षः प्रकाशः स्यादिति तत्रोत्तरितं शतदूषण्याम्, शुक्तौ इदं रजतमिति ज्ञानं जायमानं किं परोक्षं मन्यसे ? येन तद्विषयपरोक्षोपादानं करो षीति तस्मात् त्वया परोक्षापरोक्षविभागत्यागेन शुक्तित्वप्रत्यक्षकाले ऽपि रजतभ्रान्तिरेवापादनीया । सा च विशेषदर्शनरूपप्रतिबन्धकसद्भावात् सामग्र्यभावान्न भवतीति च । एवं स्थिते शतभूषणी, परोक्षज्ञानेनापरोक्षभ्रमनिवृत्तिरत्र शतदूषण्यामुच्यत इति कृत्वा, तथा सति शुक्तित्वपरोक्षेण शुक्तित्वाज्ञानस्य निवर्तितत्वे रजतभ्रान्तिः प्रत्यक्षरूपा मा भूदित्यापाद्य प्रकृतशत दूषणीग्रन्थं भावानवबोधात् " " इति दूषयति । अत्र शतदूषणीभावानवबोधः शतभूषणीकृत एवेति विपश्चितो निश्चिन्वन्ति । अज्ञानवैविध्यं तु अनन्तरमेव विचारविष्यामः । (C यदि वस्तुनः प्रत्यक्षत्वेऽपि परोक्ष स्यात्, शुक्तित्वप्रकाशेऽपि रजतप्रकाशः स्यादिति यदि कश्चिदद्वैती आपादयेत् तन्न युक्तम्तर्काभासत्वादित्युच्यते उपरि श्रीपुण्डरीकाक्षाचार्यग्रन्थांशोदाहरणेन शतदूषण्याम् । स्वयंप्रकाशतया प्रत्यक्षमेव चैतन्यं श्रवणवेळायां परोक्षज्ञानविषयत्वेनाद्वैति स्वीकृतमिति आपादकस्य स्वानिष्टत्वं न भवति । शुक्तित्वप्रत्यक्षेऽपि इदं रजतमिति वाक्यादिना परोक्षज्ञानस्यापि संभवात् आपाद्यस्यास्मदनिष्टत्वं न भवति । अप्रामाण्यज्ञानास्कन्दितप्रत्यक्षज्ञानं शङ्खः पीत इति यथा विवेकिनोऽपि तथा परोक्षमप्यप्रामाण्यज्ञानास्कन्दितं जायताम् ; का तत्र हानिः । विशेषादर्शनरूपसामग्रीवैकल्यात् रजतप्रकाशायोग इति तार्किकसमाधानमपि प्रागुक्तमेव । यदत्र लिख्यते, “प्रत्यक्षस्य ब्रह्मणः परोक्षत्वं नाद्वैतिस्वीकृतम् । अज्ञानं हि — त्रिविधम्, असत्त्वापादकम्, अनानन्दतापादकम्, अमानापावकञ्चेति २६० परमार्थ भूषणे तत्र श्रवणेन प्रथमाज्ञाननिवृत्तिः । मननेन द्वितीयनिवृत्तिः । निध्यानेऽपि जाते तृतीयनिवृत्तिः । तदा ब्रह्मप्रत्यक्षम् । न च तदानीं ब्रह्मणः परोक्षत्वम्” इति तत्रोच्यते । परिच्छिन्नत्वसप्रपञ्चत्वाद्यापादकानि अज्ञानानि कुतस्त्यज्यन्ते ? श्रवणमनननिद्ध्यानानि समानविषयकाणीति संप्रतिपन्नम् । तत्र श्रवणादेः पृथक् पृथक्कू अज्ञाननिवर्तकत्वं च कथम् ? आनन्दो ब्रह्मेति श्रवणात् अनानन्दतापादकाज्ञानानिवृत्तिश्च कुतः ? अभानापादकाज्ञानमित्यत्र व भानं नाम किम् ? यदि विषयत्वम् ? तर्हि श्रवणतिषयत्वसिद्धयै वा विषयत्वापाद काज्ञाननिवृत्तिरिति किं निध्यानपर्यन्तेन ? वस्तुतोऽविषयभूते ब्रह्मणि विषयत्वापादकमज्ञानमेव वक्तुं युक्तम् ; न त्वविषयत्वापादकमज्ञानमिति च भाव्यताम् । अत एव भानं नाम साक्षात्कारताख्या लौकिकविषयता; तदभावापादकमज्ञानमिति पक्षोऽपि क्षिप्तः । किञ्च निध्यानेन कथं तदज्ञाननिवृत्तिः । प्रत्यक्षोत्पत्त्यनन्तरमेव तदज्ञाननिवृत्तेर्युक्तत्वात् । एवञ्च श्रवणादिकमपि श्रवणाद्यविषयत्वापादकाज्ञानानिवर्तकमित्येकरूपं प्रतिनियतांशवर्णनं युक्तम् । सर्वमपि च ज्ञानमसत्त्वानानन्दत्वापरिच्छिन्नत्वादिसर्व विषयाज्ञाननिवर्तने उपकरिष्यति । साक्षात्कारात् प्रागेव सर्वाज्ञाननिवृत्तौ च साक्षात्कार एवानपेक्षितः स्यात् । साक्षात्कारनिवर्त्यानाद्यज्ञानान्तरसद्भावे चाज्ञानत्रैविध्यवर्णनमयुक्तम् । वस्तुतः एकस्याज्ञानस्यांशभेदा इमे इति युक्तम् । न त्वेवं विभागोऽपि । अपि च अहं नास्मि, अहमननुकूल इति कस्यापि प्रतीत्यनुदयात् आत्मनः असत्त्वाननुकूलत्वयोरापादकमज्ञानं सर्वथैव न भवति । अनुकूलत्वमेव चानन्दत्वम् । अत एव स्वयंप्रकाशत्वादभानापादक ज्ञानञ्च न संभवति । तथा च शाङ्करभाष्यम् " सर्वो ह्यात्मास्तित्वं प्रत्येति, न नाहमस्मीति, अस्मत्प्रत्ययविषयत्वादपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः " इति । अतो देहाद्यतिरिक्तत्वाद्याकारेण सत्त्वाशङ्कायां तन्निवर्तकं श्रवणादीत्येव वाच्यम् । एवञ्चैकरूपेण प्रत्यक्षस्यैव रूपान्तरेण परोक्षज्ञानविषयत्वमिष्टमेव भवतीति । ब्रह्मरूपं धर्मि अनिर्दिश्य तत्र नित्यत्वादिकं श्रुतिः श्रावयितुमर्हति । न हि अतः शब्दजन्यप्रत्यक्ष-भङ्ग-प्रसाधनम् २६१ प्रत्यक्षे सत्येव परोक्षत्वमद्वैतीष्टमेव । एवं घटोऽस्ति, पटोऽस्तीत्यादावपि अस्तीति भातं ब्रह्मेति स्वीकारात् तदेव श्राव्यते श्रुत्यापीति सिद्धं प्रत्यक्षेऽपि परोक्षम् । अत एव अस्ति, भातीति सिद्धत्वादपि निध्यानेनैवाभानापादकाज्ञाननिवृत्तिवचनमयुक्तं भवति । अथ आप्तोपदेशादिभिः शुक्तित्वप्रकाशेऽपि दुष्टेन्द्रियादिना रजतावभासानुवृतेरिष्टत्वात्, सामान्यतः शुक्तित्वप्रकाशे रजतावभासः स्यादित्यापादनमशक्यमिति शतदूषणयुक्तमनूध कृतं दूषणञ्चातिविचित्रम् । ‘सर्वज्ञानयाथार्थ्य वादिविशिष्टाद्वैतिरीत्या नेदं वक्तुं शक्यम् ; तद्दृष्टेः सर्वानुभवविरुद्धत्वात् । नाद्वैतिदृष्ट्या; परोक्षशुक्तिप्रकाशे रजतभ्रमानुदयादिति हि दूषणम् । इदं हि सर्वथैवायुक्तम् । सर्वज्ञानयाथार्थ्य वादिभिर्भ्रमप्रमाव्यवहारस्य निर्वाहः क्रियत एव । सच, ‘यथार्थ सर्व विज्ञान’ मिति निरूपयतः प्राभाकरस्य ग्रन्थादपि सुग्रह इति नात्र सर्वानुभवविरोधः । परोक्षप्रकाशेऽपि विपरीतभ्रमो न भवतीति वादस्तु स्वसिद्ध (न्तसंपूर्ण विस्मरणनिबन्धनः । श्रवणमनन निद्वयानकालेऽपि जगद्रमानुवृत्तेः, " द्रष्टव्य" इत्युक्तदर्शनानन्तरमेव तन्निवृत्तेश्चैव सिद्धान्तिसंमतत्वात् । अन्यथा श्रवणस्यैव पर्याप्तत्वात् । अनुभवविरोधश्च शङ्खश्चैत्यचन्द्रैक्यादिविषयकपरोक्षनिश्चयेऽपि वैयद्वित्वादिप्रत्यक्षदर्शनात दियो हालात चक्राद्युदाहरणमपि । स्मर्यतामिति । यत्ततं जीवन्मुक्तानां न भ्रान्तिकथापीति — तत् व्याहतम् । भवतैव जीवन्मुक्ति-भङ्गवाद-परीक्षायां जीवन्मुक्तानां देहप्रतिभासादेरिष्टत्वात् । तस्य च ब्रह्मातिरिक्तविषयकस्य भ्रान्तित्वावश्यभावात् । तत्र तेषामप्रामाण्यज्ञानमप्यस्तीत्यन्यदेतत् । तावता भ्रान्तिकथैव नेति दुर्वचम् । एवमेतदुपरि, ज्योतिष्टोमादिधर्मो न योगिप्रत्यक्षविषयः चोदनैकप्रमाणकत्वात् । तथा योगिप्रत्यक्षं न प्रमाणम् । अन्यथा तन्मूलकद्वैताद्वैत विशिष्टाद्वैतादिसर्वसिद्धान्तानां प्रामाणिकत्वप्रसङ्गादित्युक्तमप्यभिनिवेशापादितं खसिद्धा २६२

न्तविरुद्धमेव । योगर्द्धेश्च सुक्ष्मव्यवहितविप्रकृष्टसर्वविषयक साक्षात्कार हेतुत्वं सर्वतान्त्रिक संगतम् । तत एव भोगेन सर्वकर्मक्षपण सामर्थ्यमात्मविद इति तार्किकादयः । भामत्याञ्च तदधिगमाधिकरणे, “योगद्धचैव वा दिवि भुव्यन्तरिक्षे बहूनि शरीरेन्द्रियाणि निर्माय फलान्युपभुज्य ऋद्धेन योगसामर्थ्येन योगी कर्माणि क्षपयित्वा मोक्षी संपत्स्यत" इति तन्मतमन्ववादि । न च सिद्धान्ते योगजधर्माधीनः सर्वसाक्षात्कारो न्यषेधि । किन्तु, ‘अनादिकालप्रवृत्ताः कर्माशयाः अनियतकालविपाकाः अल्पेन कालेन कर्मान्तराण्यसञ्चिन्वानेन क्षेतुं शक्या इति न निर्धारयितुं सांप्रत ‘मित्येव । जैनसौगतादिधर्मस्यापि धर्मत्वमस्तु, तेषामपि योगित्वादित्यादिकं तु वेदवाद्यनिराकारिणा जैमिनिनंव समाहितम् । न खलु वयं विपरीतयोगप्रवृत्तपुरुषभावनाप्रकर्षाधीनं भ्रान्त्यात्मक साक्षात्कारं वारयामः, न च प्रमाणयाम इति किमनेन ? · तस्मात्, " श्रोतव्यो मन्तव्यो निदिध्यासितव्य" इत्यत्र कुत्रापि न विधिः बहिर्मुखप्रवृत्तिनिरोधार्थमेव तथ्यप्रयोग इति वदद्भिः, योगस्य तर्ह्यविधानात योगजः साक्षात्कारो न भवेदिति द्रष्टव्यशब्दस्याघटमानतां विमृशद्भिः सहसा शब्दस्य प्रत्यक्षप्रमाणत्वमप्रमाणमेव कल्पितमिति भामत्यादिपथ एवं कथञ्चिदुचितः । " तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः इति वचनाच्च सनत्कुमारस्यैव दर्शकत्वं ज्ञायते ; न तु शब्दस्य । " तमसः परस्तात्" इत्यादिवत् " तमसः पारम्" इति स्थलविशेषोऽपि विवक्षितः स्यात् । तस्यानुग्रहचलेन प्रदर्शनमपि संभाव्यते । यथा व्यासेन प्रसन्नेन सञ्जयस्य विश्वरूपभगवत्प्रदर्शनम् । दर्शनमिह विशदज्ञानमात्रमित्युक्तौ तु न काऽपि क्षतिः । " शास्त्रदृविरोधाच्च" इति सूत्रे शास्त्रेण यत् दृष्टं तद्विरोधादित्यर्थपक्षे दर्शनं हि विशदज्ञानमात्रम् ; न तु प्रत्यक्षम् । सूत्रकारश्च, “दर्शनात् स्मृतेश्व” इति अनुभावकमात्रपरतया वेदे दर्शनपदं प्रयुङ्क्ते । परोक्षानुभवेऽप्युपलब्धिपदं न्यायसूत्रभाष्यादिषु सुप्रसिद्धम् । तथेदमपीति निश्वपचमेतत् । “तं त्वौपनिषदं पुरुषं पृच्छामी" ति श्रुतिश्च पुरुषसूक्तादौ जगत्कारण शब्दजन्य प्रत्यक्ष-भङ्ग-प्रसाधनम् २६३ त्वलक्ष्मीपतित्वादिनाऽवगतस्य अद्भुतरूपस्वरूपगुणविभूतिविस्तारस्य शास्त्रकवेद्यत्वमेव ग्राहयेत् ; न तु शब्दजन्यप्रत्यक्षविषयं निर्गुणं किञ्चित् । “यतो वाचो निवर्तन्त” इति श्रुतिर्वेदान्तेतरवागविषयत्वमेव ब्रह्मणो ब्रवीतीति शतभूषयुक्तं तु नाद्वैतिमतं विशिष्टाद्वैतिमतं वाऽनुरुध्य । किन्तु तात्कालिकस्वकपोलकल्पनामात्रादरणेनेति सर्वे विदन्ति । “ब्रह्मविदा मोति परम्” इत्यारभ्य वल्लीद्वयं कुत्राप्युपासिशब्दानान्नानात् उपासनविलक्षण निर्विशेषब्रह्मसाक्षात्कारमात्रविषयमित्युक्तमप्ययुक्तम् ; वल्लीद्वयेतत्र तत्रोपासिश्रवणात् । येऽन्नं ब्रह्मोपासते, ये प्राणं ब्रह्मोपासते इति पृथक् । ‘विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेत् वेद’ इति विद्युपासिद्वयम् । भृगुवलयामपि तत्प्रतिष्ठेत्युपासीतेत्यादि । अतः श्रुतिः उपास्यर्थमेव वेदेत्येतावन्मात्रप्रयोगेऽपि विवक्षतीलैकरूप्यमुचितम् । यदि नैवम्, वेदनमिदं साक्षात्काररूपमित्यत्र किं प्रमाणन् ? श्रवणस्य वा स्वयंजातवेदनस्यापि वाऽत्रेोपायत्वकथनोपपत्तेः । ‘आत्मा वा अरे द्रष्टव्य’ इति बृहदारण्यका ककण्ठ्याय, तथेष्यत इति चेत् -तर्हि, ‘आत्मानमेव लोकमुपासीतेत्याद्यैककण्ठ्याय ब्रह्मविदित्युक्तमुपासनमेवास्तु । कथं भेदसाक्षात्कारः परोक्षज्ञानेन निवर्त्यतेति चेतु यद्यप्रामाण्यज्ञानास्कन्दितः स्यात्, साक्षात्कारोऽप्यनिवर्तक एव । प्रामाण्यदाढर्ये च परोक्षमपि निवर्तकमेव । साक्षात्कारपर्यन्तोत्पत्तावेव यो विस्रम्भं वहति तं प्रति दर्शनोपदेशः, अन्यस्य तु विवेकिनो वेदनसामान्य पर्याप्तमिति कचित् विदिमात्रश्रवणमस्तु चन्द्रैकत्वनिश्चये निष्कम्पप्रामाण्यमनुसन्दधतोऽपि द्विचन्द्रज्ञानानुवृत्तिस्तु तद्धेतोर्दोषस्य च द्वैकत्वज्ञानेनानिवर्तितत्वादिति प्रागेवोक्तम् । न केवलं चन्द्रैकत्वपरोक्षे सति, तदपरोक्षे स्थितेऽप्यङ्गुल्यवष्टम्भादिना द्विचन्द्रप्रत्यक्ष भवत्येव । अतः कारणसत्त्वे कार्य भवत्येव । जातेऽपि तत्राप्रमाण्यग्रहस्तु अपरोक्षे च तुल्यः । इह तु दोषस्यापि मिथ्याभूततया प्रामाण्यदाढर्यसिद्धौ श्रवणमेवाविद्यां निवर्तयिष्यति । २६४ ।

अत एव देहातिरिक्तस्वात्मनि शास्त्रजो निश्चयः परोक्षः देहात्मभ्रान्ति निवर्तयत्येव । यत्तु तत्र स्थूलदेहात्मभ्रान्तिनिवृत्तावपि सूक्ष्मदेहात्मभ्रान्तिर्न निवर्तत इति तदयुक्तम् । स्थूलसूक्ष्मरूपदेहद्वयसद्भावस्य लोकानुभवदूरत्वेन सूक्ष्मदेहात्मभ्रान्तेरननुभवात् स्थूलदेहकाले सूक्ष्मदेह स्थितौ प्रमाणाभावाच्च । सत्यपि विवेके देहात्मभ्रान्त्यनुवृत्तिर्दृश्यत इति चेत् अस्तु तत्र तद्धेतोर्दोषस्य द्विचन्द्रस्थल इव परोक्षज्ञानेनानिवर्तितत्वादेव सा भवितुमर्हति । स तु दोषो वास्तवयोगबलेनैव निवर्त्यते । " प्रयत्नात् यतमानस्तु योगी संशुद्धकिल्विषः " इत्यादिप्रामाण्यात् । तथा च यत्र विशेषादर्शनमात्रात् भ्रमः, तत्र सति विशेषदर्शने जायमानानां ज्ञानानां भ्रान्तिविषयार्थविषयकत्वाभावात् विषयापहार एव भ्रान्तिनिवृत्तिरित्युच्यते ; न जातायाः भ्रान्तेर्निवृत्तिर्विशेषदर्शनेन । तस्याः क्षणिकतया स्वयमेव निवृत्तेः । यत्र तु दोषविशेषो आन्तौ प्रधानकारणम्, तत्र दोषसमुच्छेदं यावत् भ्रम उत्पद्येत । अथापि तद्विषयस्य सत्यत्वाध्यवसायराहित्यमेव तादृशस्थले भ्रान्तिनिवृत्तिर्नाम । इदञ्चापरोक्ष इव परोक्षेऽपि तत्त्वज्ञाने भवितुमर्हतीति श्रुतौ निध्यानदर्शनपर्यन्तापेक्षितत्वकथनं जगन्मिथ्यात्वपक्षेऽनपेक्षितमेव । अतो दोषोच्छेदकं विलक्षणशक्तिकमुपायं विधातुमेव तदिति वक्तव्यम् । शतदूषण्यां निवृत्तिविषयके विकल्पे क्रियमाणे उक्तम् भ्रान्तिज्ञानस्य निवृत्तिर्नाम नाशः । स च उत्तरोत्पन्नेन तत्त्वज्ञानेन जन्यत इत्यङ्गीकारे पूर्वपूर्वज्ञानस्य उत्तरोत्तरज्ञाननाश्यत्वस्य यत्किञ्चिज्ज्ञानसद्भावेऽपि सुवचत्वादुत्तरेण तत्त्वज्ञानेनैव भाव्यमिति न नियम इत्येवम् । तत्र यदुक्तम् अधिष्ठानज्ञानस्यैव भ्रान्तिज्ञाननिवर्तकत्वस्वीकारात् अधिष्ठानज्ञाननिवर्त्य मिथ्येत्युच्यते इति तावता शोध्यमाननिवृत्तिपदार्थतत्त्वं कीदृशमिदं कथितं भवति । अधिष्ठानज्ञाननाश्यत्वं मिथ्यात्वमित्युकौ भ्रमनिवृत्तिर्नोपपादिता भवति । यत्किञ्चिदुत्तरज्ञानेनापि तन्नाशदर्शनेनाधिष्ठानज्ञानत्वेन कारणत्वासिद्धेः । शुक्तिरूप्यादेः पदार्थस्य नाश्यत्वमपि दुर्वचम् । प्रातिभासिकपदार्थोत्पत्तावेव मानाभावस्य शब्दजन्य प्रत्यक्षभम-प्रसाधनम् २६५ वक्ष्यमाणतया नाश्यत्वपर्यन्तकथाया अप्रसक्तेः । मिथ्याभूतस्य निवृत्तिर्नाशपदेन व्यवहारं नार्हति । तत्त्वज्ञानत्र्यतिरिक्तो पायाधीनाभावस्थल एव नाशपदव्यवहारात् । अत एव प्रातिभासिकस्य नाश इत्य् अपि न स्वरसम् । एतेन खरूपप्रच्युतिरेव ध्वंस इति मिथ्यार्थव्यतिरिक्तस्थले कुत्र दृष्टमिति प्रश्नोऽपि गळहस्तितः । भवद्विरेव ध्वंसस्य निवृत्तेश्च वैलक्षण्यस्य तत्र तत्र प्रदर्शितत्वात् । मुद्गराद्यभिघाताधीनो घटनाशो हि नाम मृत्स्वरूपप्रच्युतिरेव । स्वरूपप्रच्युतिर्नाम धर्मिणि पूर्वस्थित विरोध्यवस्थाप्राप्तिः । सा कथं मिध्यार्थे तत्त्वज्ञाननिवर्तिते स्यात्, धर्म्यभावादिति शतदूषण्या प्रतिबोधितोपरि, " वयं तु पश्यामः, मिध्यार्थस्यैव प्रच्युतिः, शुक्तिरूप्यादौ दर्शनात् । न तु वस्तुस्वरूपस्ये" ति लेखनं ग्रन्थार्थापरिज्ञानविलसितम् । यत्तु -जगन्मिथ्यात्वसाधकस्य दृश्यत्वरूप हेतोः न ब्रह्मणि व्यभिचारः । वृत्तिविषयत्वरूपस्य दृश्यत्वस्य धर्म्यन्यूनंसत्ताकस्यैव हेतुत्वादिति तन्न फलव्याप्यत्वरूपं दृश्यत्वं मिथ्यात्वसाधकमिति भवतोक्तम् ; वक्ष्यते च । अत्र तत्र दृश्यत्वं प्रत्यक्ष तु वृत्तिव्याप्यत्वमेव परिष्कृत्य व्यभिचारवारणे यत्यते । विषयत्वरूपं अनुभवविषयत्वरूपं वा चैतन्यविषयत्वरूपं वा विवक्षित चेत्हेतुप्रसिद्धिः स्यात् । ब्रह्माख्यचैतन्यविषयत्वं वा वृत्तिविषयत्वं वा दृश्यत्वं प्रतिवादिभिरन्तःकरणवृत्तिरूपसविषयकपदार्थानङ्गीकारादुभयसंम तस्यैव हेतुत्वसंभवादहेतुरेव । एवं विशेष्यस्यैवासिद्धौ तत्र धर्म्यन्यून सत्ताकत्वमिति विशेषणस्य का प्रसक्तिः ? तदप्यव्यावर्तकम् । मिथ्यात्वसाधकानुमानं किलेदम् । सत्तायां त्रैविध्यञ्च मिध्यार्थसिद्धयनन्तरग्राह्यम् । ततः प्राक् तु सत्ता सर्वत्र एकरूपैव गृहीताऽस्तीति धर्म्यन्यून सत्ताकत्वं ब्रह्मगतदृश्यत्वेऽप्य. स्त्येव । दृष्टान्तासिद्धिश्च; शुक्तिरूप्यमिति कस्यचिदनिर्वचनीयस्यानङ्गीकारात् । सर्वमिदं परस्तात् प्रपञ्चयिष्यते । यत्तु विनश्यतोऽपि मिथ्यार्थज्ञानस्य तत्कारणभूताज्ञाननिवृत्त्या बाध्यस्वमपीष्यत इति तन्न नाशबाधयो वैलक्षण्यात् । यदि मिध्यार्थस्य प्रति 34 २६६

पन्नोपाधौ नास्तीतिग्रहवत् जातस्य मिथ्यार्थज्ञानस्यापि विषये स्यात् बाधज्ञानम्, न मे शुक्तिरूप्यज्ञानमासीदिति तदैव तद्वाधप्रसक्तिरिति । यदपि -प्रत्यक्षेण भ्रान्तिनिवृत्तिरित्यस्यार्थ विकल्पे भ्रान्तिनिवृत्तिर्नाम भ्रान्तिज्ञानकारणोच्छेद इत्यर्थस्वीकारे शतदूषणीदत्तं यद् दूषणं भ्रान्तिज्ञानकारणानुच्छेदे यथावस्थितप्रत्यक्षज्ञानानुदयादिति — तत्र भवद्दू षणम् अधिष्ठानज्ञानेनैवाविद्यानाशः क्लृप्तः । एवञ्च निवृत्तेः पूर्वत्वमधिष्ठानज्ञानस्य च परत्वमित्यपूर्वेयं कल्पना शतदूषणीकाराणामिति अत्रापूर्वं कल्पनं किं लोकानुभवानुसारिणां शतदूषणीकाराणाम्, उताद्वैतिनां भवतामिति सहृदयं चिन्तनीयम् । यावत्तिमिरादिदोषस्थिति चन्द्रैकत्वप्रत्यक्षं नोदेति ; यावत् पित्तस्थितिं श्वेतः शङ्ख इति नाघ्यक्षम् । भ्रान्तिकारणस्य तस्य भेषजादिना समुच्छेदे च तत्तत्प्रत्यक्षमिति सर्वजनीनमेतत् । एतद्विरोधेनाद्वैत्तिभिर्वण्यते ब्रह्मणि जगद्रान्तिकारणभूतो दोषः अधिष्ठानसाक्षाकारेण निवत्र्यत इति । दोषनिवृत्तेः पूर्वत्वं प्रत्यक्षस्य परत्वं चानुभविकमुपेक्ष्यापूर्वेयं कल्पना खल्वद्वैतिनामेव । एतत्साधनाय च शुक्तितत्त्वप्रत्यक्षेण शुक्तिरूप्यभ्रमकारणनिवृत्तिरित्यत्यन्ताप्रसिद्धमुदाह्रियते । शुक्तिरूप्यमनिर्वचनीयमप्रसिद्धम् । अप्रसिद्धतरं तदुपादानभूतं किञ्चित्, यत् शुक्तिसाक्षात्कारेण निवर्त्यं स्यात् । अज्ञानस्वरूपायथाग्रहणमूलकं तत्रोपादानत्वकल्पनया समापतितोऽयमनर्थः । “} अत्राधिष्ठानज्ञानात् संसारनिवृत्तिरित्यत्र केयं निवृत्तिरिति विचारे. यदि संसारनिवृत्तिर्नाम संसारभ्रान्तिकारणसमुच्छेदः, तर्हि स नाधिष्ठानज्ञानजन्यः ; तस्यैव तज्जनकत्वादित्युक्तस्य दूषणावसरे " निमित्तकारणनाशस्य कार्यनाशप्रयोजकत्वं न कुत्रापि दृष्टम् इति वचनमनवसरम् । नाशयोः कार्यकारणभावस्याप्रस्तुतत्वात् । निमित्तकारणनाशोऽपि क्वचित् कार्यंनाशप्रयोजक इष्यते । यथा अपेक्षाबुद्धिनाशात् द्वित्वादिसंख्यानाशः । एवं देहादिनाशस्य सुखादिनाशः हेतुत्वमपि केचिदिच्छन्ति । एवं " दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः " इति भवद्भाष्यपरिगृहीतन्यायसूत्रोक्तमपि द्रष्टव्यम् । किञ्च शब्दजन्यप्रत्यक्ष-भङ्ग प्रसाधनम् २६७ भामतीपंक्षे जगत् प्रति अविद्या निमित्तमात्रम् । ब्रह्म विवर्तोपादानमिति प्रागुक्तम् । जगन्निवृत्तिश्वा विद्यानिवृत्त्यैव खीकृता ; एवञ्च निमित्तकारणनाशादेव भवतां संसारनाशः । न तु ब्रह्मनिवृत्त्या । एतेनोपादानकारणोच्छेदादेव कार्यनाश इति निरस्तम् । उक्तस्थले वैपरीत्यात् । अपि च यो हि तार्किकोऽसत्कार्यवादी उपादानसमवेतं द्रव्यान्तरमुपादेयं कार्यमिच्छति, तस्य युज्यते उपदानोच्छेदात् कार्योच्छेद इति । सोऽपि परमाणूच्छेदं विनैव धणुको उदसत्त्वात् उपादानोच्छेदं कारणत्वेन न मन्यत इत्यन्यदेतत् । वेदान्ती तु सत्कार्यवादी द्रव्यस्य सर्वदा सत्ताम्, अवस्थानामेवा पूर्वत्वमातिष्ठते । एतन्मते उपादानकारणोच्छेदो नाम कः ? किं द्रव्योच्छेदः ? उत कारणतावच्छेदकपूर्वावस्थोच्छेदः ? आद्यस्त्वसिद्धः । उत्तरत्र कारणत्वावच्छेदकपिण्डत्वावस्था महाणस्य घटत्वावस्थारूपतया घटत्वाचस्थापनकार्यस्योच्छेदं प्रति तस्य हेतुत्वं कथम् ? प्रत्युत कार्यलयोत्तरमप्युपादानस्य यथायथमवस्थितेरेव प्रामाणिकत्वात् नोपादानोच्छेदादुपादेयोच्छेदः । क्वचिदेव त्विदं सुवचं स्यात् । यथा पटोच्छेदे पटकार्याच्छादनाच्छेद इति । यत्तु निमित्तकारणोच्छेदस्य मिथ्यार्थनिवृत्तिरूपत्वं नाङ्गीक्रियत इति किं तेन ? संसारनिवृत्तेः कारणोच्छेदरूपत्वरूपविकल्पकोटिरयुक्तेति चेत् तन्न न हि संसारनिवृत्तिः संसारनिमित्तकारणभूत किञ्चिन्निवृत्तिरूपा तत्रोक्ता । किन्तु संसारविषयकप्राप्ति प्रति यत् कारणं तदुच्छेद्ररूपेति किल विकल्पः कृतोऽस्ति । न च भ्रान्तिकारणपदेन भ्रान्त्युपादानं स्वीकर्तुं शक्यते । तद्धि आत्मा वा स्यात, अन्तःकरणं वा । नाद्यः, आत्मनोऽनुच्छेद्यत्वात् । अन्त्यस्तु शुक्तितत्त्वज्ञानेनान्तःकरणनाश । दर्शनादनुपपन्नः । अतो भ्रान्तिकारणपदेन भ्रान्तिनिमित्तकारणमेव ग्राह्यमिति शतदूषण्युपपादितमेव साधीयः । अथ संसार निवृत्तिर्नाम संसारोपादानकारण। विद्यासमुच्छेद इति पक्षः कस्मानो-: द्भावित इति चेत् — प्रतिभासमानमिध्यार्थप्रध्वंस नभिप्रेत्येति प्रथमपक्ष एव सोऽन्तर्गत इति । कचिदपि मिध्यार्थस्य प्रध्वंसाभावादिति तत्पक्षे कृतं दूषण -२६८

मेवाविद्योच्छेदपक्षनिरासकं भवितुमर्हति ; शुक्तितत्त्वज्ञानेन शुक्तिरूप्यतत्कारणाविद्यो भयोच्छेदस्यैव भवद्भिरुक्तत्वात् । भ्रान्तिकारणपदेन भ्रान्तिविषयशुक्तिरूप्यादिवस्तूपादानकारणभूतस्याज्ञानस्य ग्रहणं तु क्लिष्टम् । अज्ञानस्यानिर्वचनीयविषयोत्पादन एवोपक्षीणत्वात् । विषयद्वारैवाज्ञानस्य भ्रान्तिकारणताया वक्तव्यत्वात् विषयोच्छेदविषयकेण प्रथमेन विकल्पेनैव तत्कारणभूताज्ञानोच्छेदस्यापि कबळीकृततया पृथक् दूषण वसतयभावाच्च । एवमद्वैतिसर्वस्वं पक्ष प्रथमत उद्भाव्य निरस्य, अथ जगत्सत्यत्वावादिभिरपि संमतान् पक्षान् विकल्प्य निवृत्तिस्वरूपविवेचनेन परमार्थो व्युत्पादितः शतदूषण्यामित्यध्यव सेयम् । अतोऽन्यथा गृहीत्वा, ‘अपूर्वे कल्पने’ति दूषणं संरम्भकृतमेव । एवाविद्यानिवृत्तिरिति दोषोच्छेद शतदूषणयुक्तमित्यप्ययुक्तम् । चन्द्रद्वित्वादिहेत्वविद्यानिवृत्तिर्दोषोच्छेदश्चैक इति शतदूवण्यामभाषणात् । यत्र दोषाविद्ययोरैक्यम्, तत्र दोषोच्छेद एवाविद्यानिवृत्तिरित्यस्य भवद्भिरपलपितुमशक्यत्वात् । दोषः सदसदनिर्वचनीयानाद्यविद्यैवेति हि भवन्मतम् । एवञ्च, दोषस्य तस्योच्छेदं विना अधिष्ठानतत्त्वसाक्षात्कारो न भवितुमर्हति । तथैव चन्द्रै 1 कत्वादिसाक्षात्कारे दर्शनादित्युक्तिर्ह्यमोदनीयैव । इतः परं भवद्भिः ‘अविद्याया दोषत्वं नेष्यते ; किन्तु, भेदवासनाया एव । सा चाभेदभावनाबलेन प्रथमं निरस्यते, ततः साक्षात्कारः, ततोऽविद्यानिवृत्तिरिति वक्तव्यम् । एवं तर्हि पूर्वपूर्व भेद वासन्यैवोत्तरोत्तरकल्पनोपपत्तौ भावरूपाविद्यायामेव न प्रमाणम् । भदवासना सन्ततिरेव चेत् अविद्यापदेन विवक्ष्यते, दोषाज्ञानयोरैक्य निवन्धनो दोषस्तदवस्थ एव । भेदवासनायां निरस्तायां स्थिताऽप्यविद्या न संसृतिकल्पिकेति तन्निरसनमपि व्यर्थम् । भेदवासनाविरह विशिष्टस्य परोक्षस्यैव तन्निवर्तकत्वसंभवादपरोक्षकल्पनवैयर्थ्यश्चेत्यादि द्रष्टव्यमित्यलम् । भ्रान्तिविषयसत्यत्याध्यवसायशैथिल्यमपरोक्षज्ञानत इव परोक्षज्ञानतोऽपि भवत्येव । अन्यथा श्रवणमननानन्तरं ध्यानादावप्रवृत्तिप्रसंगात् । देहात्मश्रमविषय सत्यत्वाध्यसा यशैथिस्याभावे पारलौकिकप्रवृत्तीनामघटमानत्वाच्च । मिथ्यार्थः कश्चित् ज्ञाननिवर्त्य शब्दजन्यप्रत्यक्षभाग-प्रसाधनम् २३९ इतीदं सर्वदैवासंभावितमिति प्रथमविकल्पत एव दूषितत्वात् तत्सिद्धवत्कारेण तदर्थे साक्षात्कारपर्यन्तधावनमपि मुधैव । एवञ्च मिथ्यार्थनिवृत्तेरेवानभ्युपगमात् तस्याः ब्रह्मरूपत्वं वा पञ्चमप्रकारत्वं वेत्यादिः काकदन्तपरीक्षैव । साऽपि समये क्रियताम् ; किमत्र; तावताऽपि, ‘साक्षात्कार एव तद्धेतुः, स च शब्दजन्य एवेत्यत्रान्वयव्यतिरे को पपादनायोगस्य ग्रन्थ एव दर्शितत्वात् । शब्दस्य सूक्ष्मव्यवहितविप्रकृष्टार्थबोधकत्वं सर्वसंमतमेव । तद्विषयकप्रत्यक्षजनकत्वं तु न शबरप्रभृतिभिरपीष्टम् । ब्रह्म तु “न चक्षुषा गृह्यते । नाऽपि वाचा” इति वागवेद्यतया, “मनसा तु विशुद्धेन " इति मनोवेद्यतया चोक्तम् । न च वाग्वे तत्र वागवेद्यत्वं भवितुमर्हति । तेन ब्रह्मविषयकप्रत्यक्षजनकत्वं यथा चक्षुषो नास्ति, तथा वाचः ब्रह्मप्रतिपादिकाया अपि प्रत्यक्षजनकत्वं नास्ति । मन एव तु शुद्ध तत्प्रत्यक्षजनक मिति श्रुतिरियमुपदिशतीति, शब्दजन्यप्रत्यक्षसद्भावपक्षे ज्ञायेत । अत. श्रुत्यापि शब्दजन्यप्रत्यक्ष-भङ्ग एव । यत्त— इन्द्रियजन्यप्रत्यक्षाविषयत्वादेव मनोजन्यप्रत्यक्षविषयत्वस्यायोगः, मनसोऽपीन्द्रियत्वादित्यभिप्रायेण, ‘मनसः इन्द्रियस्ये’ तिं लेखनम् -तत खसिद्धान्तविरुद्धम् ; भवतां मनसोऽनिन्द्रियत्वात् ॥ यत्तु · ज्वालैक्यप्रत्यक्ष ज्याला भेदप्रत्यक्षेणैव बाध्यते, न त्वनुमानादिना; दीपादिसन्निकर्षे कमबाधाभावादिति — तत्रोच्यते । पूर्वं प्रत्यक्षितज्वालैक्यस्य पुंसः पश्चात् ज्वालाभेदप्रत्यक्षं कथं जायते ? अविशेषात् पुनरपि ज्वालैक्यप्रत्यक्ष वा कुंतो न जनिष्यते ? तस्मादेवं वक्तव्यम्ज्वालायां प्रतिक्षणं सामग्रीभेदमपरिशीलितवतः एकसामग्रीजन्यत्व (सामग्र्यैकत्व) भ्रान्तिरूपदोषवशात् घटादाविवैक्यभ्रमः प्राप्तः । स च सामग्रीभेद निश्चयेन दोषे अपसारिते न जायते । ज्वालाभेदप्रत्यक्षमेव सति सन्निकर्षे भक्तीति । तावता पुनर्ज्यालैक्यप्रत्यक्षानुत्पत्तिरुक्ता भवति । तथापि ज्वालाभेदानुमाने सति ज्वालैक्यप्रत्यक्षस्य पूर्वस्य न बाघ इति कथम् ? अद्वैत सिद्धावेव प्रत्य २७०

क्षस्य लिङ्गायबाध्यत्वे बाधकस्योपन्यस्तत्वात् । लैङ्गिकज्ञानेन प्रत्यक्षस्य परिभव (अप्रामाण्यज्ञानास्कन्दितत्वादि) एव हि शतदूषण्यामुक्तः । " दीपासंनिकर्षे ज्वालाभेदानुमानेन तदैक्यश्रमबाधाभावादित्यस्य च कोऽर्थः ? किं तदा तदैक्यप्रत्यक्षरूपभ्रमो भवतीति, स्मृतिरूपभ्रम इति, अनुमित्यादि रूपभ्रम इति, आन्ताचप्रामाण्यज्ञानमपि न जायत इति । नाद्यः, दीपस्यासन्नि कृष्टत्वकथनात् धर्मिण एवाप्रत्यक्षे कथं तदैक्यप्रत्यक्षमिति । न द्वितीयः ; भेदानुमितिकाले पूर्वं मे ऐक्यप्रत्यक्षमासीदित्यैक्यप्रत्यक्षस्मृतौ बाधकाभावात् ऐक्यमात्र स्मृतिर्न भवतीत्यत्र नियामकाभावात् । अनुमितिरूपपरोक्षज्ञानस्य परोक्षभ्रमप्रतिबन्धकत्वसंभवेन स्मृतिर्न भवतीति सुवचत्वाच्च । अत एव न तृतीयः । न च तुरीयः । द्विचन्द्रप्रत्यक्षेऽपि चन्द्रैक्यपरोक्षज्ञानबलादप्रमाण्यज्ञानोत्पत्तेरद्वैत सिद्ध्यादिसर्वसंमतत्वेन परोक्षज्ञानोत्पत्तिस्वीकारेऽप्यप्रामाण्यज्ञानानुत्पत्तौ कारणाभावात् । तस्मात् तदा तदैक्यभ्रमबाधाभावकथनमयुक्तम् । यत्तु – ज्वालाभेदानुमानतोऽपि भेदप्रत्यक्ष भवितुमर्हति पर्वतो वह्निमानित्यानुमानिकप्रत्यक्षवदिति तदयुक्तम् — पर्वतो वह्निमानित्यत्र पर्वतांशे प्रत्यक्षत्वे विवादेऽपि वह्नयशेऽनुमितिरित्यत्राविवादात् । इह ज्वालाप्रत्यक्षविषये विवादाभावेन भेदविषय एव तद्विचारात् तत्र प्रत्यक्षत्वस्य तद्दृष्टान्तेन साधनायोगात् । यत्र वयशेऽपि सन्निकर्षः, तत्स्थलीयानुमानिकप्रत्ययो दृष्टान्त इति चेत् — तत्रानुमानतः प्रत्यक्षं भवतीति न खल्वभ्युपगमप्रसक्तिः । सन्नि कर्षादेव तदुत्पत्तेः । अनुमितौ सिद्धेः प्रतिबन्धकतया अनुमितिसामग्र्यभावाच्च । अनुमित्सारूपोत्तेजकसत्त्वे चानुमितेरेवावश्यम्भावात् । प्रत्यक्षानुमितिरूपकार्यद्वयस्योत्पत्तावप्यविरोधेन तत्वानुमितिसामन्याः स्वीकारास्याऽऽवश्यकत्वाभावाच्च । प्रत्यक्षजनकत्व यत्तु इन्द्रियस्य दुष्टत्वसंभावनया ब्रह्मसाक्षात्कारस्यैन्द्रियकत्वे तेन भेदसाक्षत्कारस्याभिभवो न भवतीति — तदयुक्तम् — तत्त्वमस्यादिवाक्यजन्यस्य श्रवणस्य परोक्षस्या पौरुषेयवाक्यजन्यतया प्रामाण्ये सुस्थे तन्मूलभावनाधीनस्य शब्दजन्य प्रत्यक्षभज-प्रसाधनम् २७१ तत्समानविषयकस्य प्रत्यक्षस्यापि तद्वदेव प्रामाण्यस्य सुस्थतया एतद्विषये इन्द्रियस्य निर्दुष्टत्वानुमान संभवेन इन्द्रियस्य संभाव्यमानदोषत्वायोगात् । निर्मूलशङ्का तु शब्दजप्रत्यक्षेऽपि प्रत्यक्षत्वाविशेषमात्र पुरस्कारेण भवितुमर्हति । यच्च आगमबाधोद्धारे अद्वैत सिद्ध्यादौ असंभाव्यमानदोषत्वेन परत्वेन चाद्वैतवाक्यप्रामाण्यस्य स्थापितत्वात् शब्दजप्रत्यक्ष नाप्रामाण्यशङ्कास्पदमिति तदप्येतेन निरस्तम् । किञ्च शब्दस्यापौरुषेयतया निर्दुष्टत्वेऽपि शब्दज्ञानस्य आकाङ्क्षासन्निधियोग्यता तात्पर्यज्ञानशक्तिलक्षणा दिज्ञान सहकारेणैव ज्ञानजनकतया तेषां ज्ञानानां पुंगतानां दोषमूलभ्रमत्वसंभावनया निर्विशेषविषयकश्रवणादेरप्यसंभाव्यमानदोषत्वानिश्चय एव । यतु वेदस्यापीन्द्रियवत् अविद्यारूप दोषमूलत्वेऽपि अविद्यायाः काचकामलादिवत् आगन्तुकत्वाभावात् अप्रामाण्याप्रयोजकत्वमिति – तन्न – आगन्तुकस्यैवाप्रामाण्यप्रयोजकत्वे अनादेस्तत्प्रयोजकत्वं किंपुनर्न्याय सिद्धमित्येवोचितम् । यथा सांसिद्धिकदोषवतः तैमिरिकजनस्य द्विचन्द्रज्ञानमप्रमैव तथेति । तत्र चन्द्रेकत्वमाहि पुरुषान्तरसंवादविरोधात् तथेति चेत् — इहापि तत्त्वमस्यादिवाक्यस्यार्थान्तरनिरूपकनिपुणपुरुषसंवादविरहस्तुल्यः । " यत्तु –दर्शनसमाना कारध्यानजन्यो मोक्ष इति खसिद्धान्तविरुद्धं शतदूषण्यामपरोक्षज्ञानस्य मोक्षसाधनत्वकथनमिति –तदिदम् तावन्मात्राभ्युपगमेऽपि न नः काचित् क्षतिः” इति सूक्तावपिशब्द स्वारस्यापरिशीलन विजृम्भितम् । एवं मूलत एव स्पष्ट सिद्धान्तसमतेऽर्थे ज्ञापिते सति किमल चण्डमारुतेन ज्ञापनीयमस्ति ? येन तस्यात्र जोषम्भावो दोषः स्यात् । प्रत्यक्षस्य शब्दजन्यत्वं न साधयितुं शक्यमित्येतावदत्र वादे विवक्षितम् । न तु प्रत्यक्ष मोक्षहेतुः, उत प्रत्यक्षसमानाकारं ज्ञानमिति विचिचारयिषितम् । तद्विचारस्तु प्राक् अविधेयज्ञान-भङ्गवाद एवं प्रस्तुत आसीदिति क्षत्र शतदूषणी तात्पर्यम् । यदि च भामतीमनुरुरुत्सतो भवतोऽपि निर्विशेषसाक्षात्कारस्यानैन्द्रियकत्वे नास्त्याग्रहः, तर्हि कस्मादयं शब्दजन्य प्रत्यक्ष मङ्गवादो नोपेक्षितः ! २०२

दृश्यत्वानुमानस्य ब्रह्ममिथ्यात्वापादकत्वादि प्रागेवोक्तम् । ; पृथक् वक्ष्यते चेत्यलमत्र । ज्ञानाकरणकं ज्ञानं प्रत्यक्षमिति लक्षणं परोक्षव्यावृत्तम् अपरोक्षसर्वानुगतं योगिप्रत्यक्षादिसाधारणमिति, “ अस्तु वा कथञ्चिदापरोक्ष्यपरिशेषः” इति शतदूपणीसूतया ज्ञापितमेव ॥ अथानुमानविचारःविगीतं ज्ञानं साक्षत्कारि, तत्त्वमस्यादिवाक्यजन्यज्ञानत्वात् तत्स्वरूपगोचरश्रावणज्ञानवदिति प्रयोगः । वाक्यविषयकश्रावणप्रत्यक्षस्य वाक्यार्थज्ञानस्य च वाक्यजन्यत्वसत्त्वात् शब्दसाक्षत्कारदृष्टान्तेन शब्दार्थज्ञानस्यापरोक्षत्वसाधनमत्रेष्टम् । तत्र श्रोतव्य इत्युक्तश्रवणव्यभिचारः शतदूषण्यामापादितः । तत् परिजिहीर्षता च भवता मनननिदिध्यासन सहकृतवाक्यजन्यज्ञानत्वादिति हेतुः परिष्क्रियते । एवञ्च दृष्टान्तः साधनविकलः । शब्दप्रत्यक्षे वाक्यमात्रस्य कारणत्वात् मनननिदिध्यासनयोः सहकारिकारणत्वाभावात् । अथ निद्ध्यानानन्तरत्वे सति वाक्यजन्यज्ञानत्वादित्यस्तु – न; एकदिनध्यानानन्तरत्वंस्यान्यदिनवाक्यजन्यध्यानेऽपि सत्त्वेन व्यभिचारात् । ध्यानातिरिक्तत्वे सतीति विशेषणे चासिद्धिः । दर्शनसमानाकारत्वस्यास्माभिरुक्ततया तन्निराकरणायैव भवता साक्षत्कारित्वसाधनात् । न च ध्यानस्य वाक्यजन्यत्वाभावात् हेत्वभावादेव न व्यभिचार इति वाच्यम्–पक्षेऽपि वाक्यजन्यत्वस्य सन्दिग्धत्वात् । वाक्यजन्यश्रवणमूलतया परम्परया वाक्यजन्यत्वं तु ध्यानेऽप्यक्षतम् । पुनरपि वाक्यजन्यत्वासिद्धिः सुवचा ; अर्थज्ञानस्य वाक्यज्ञानजन्यत्वेऽपि वाक्यजन्यत्वाभावात् । वाक्यज्ञानजन्यत्वनिवेशे च दृष्टान्तस्य साधनवैकल्यम् । किञ्च वाक्यं नाम पदसमुदायः, तत्र वर्णानामनित्यत्वे नित्यत्वे ऽपि वा युगपत् प्रत्यक्षं तु न भवति । प्रत्येकवर्णप्रत्यक्ष च न वाक्यजन्यम् । पूर्वपूर्व वर्ण प्रत्यक्षाधीनता वत्स्मृतिघटितान्तिमवर्णमात्रप्रत्यक्षस्य च न वाक्यजन्य त्वम् । नतरां सर्वांशे स्मृतिरूपस्य । एवं वाक्यजन्यज्ञानत्वस्य फलभूतार्थज्ञान इव व्यापारभूतपदार्थस्मरणयोग्यताज्ञानादावपि सत्त्वात् व्यभिचारश्च । निर्व्यापारत्वे करणत्वासंभवात् । व्यापारस्य वाक्याजन्यत्वे फलस्यापि तदयो शब्दजन्यप्रत्यक्षभावसाधनम् १७३ गात् । वाक्यस्याकारणत्वं वाक्यज्ञानस्यैव कारणत्वमिति चोभयत्र तुल्यम् । एवं तत्त्वमसिवाक्येन हेतुना यदि किञ्चिदनुमीयेत, तदा ज्ञायमानं लिङ्गमनुमितिकरणमिति पक्षे वाक्यजन्यज्ञानत्वमनुमितावपीति तत्र साध्याभावात् व्यभिचारः । तथा निर्विशेषब्रह्मज्ञानस्य पक्षत्वे आश्रयासिद्धिः । तत्त्वमसि वाक्यार्थज्ञानस्य पक्षत्वे परोक्ततत्त्वमसिवाक्यार्थज्ञानस्यापि प्रत्यक्षत्वापत्तिः । ‘सत्यं ज्ञान’ मिति वाक्यस्यापि संगतार्थकतया सत्यज्ञानादिजन्यज्ञानेऽपि तत्त्वमसिवाक्यार्थ ज्ञानत्वसत्त्वात् तत्र तत्त्मम सिवाक्यजन्यत्वाभावात् भागासिद्धिः । तत्त्वमसि वाक्यजन्यज्ञानत्वेन पक्षत्वे श्रवणरूपवाक्यार्थज्ञानस्यापि पक्षतया पुनर्भागासिद्धिरेव । श्रवणातिरिक्तत्वानिर्धारणात् पक्षासिद्धिः । श्रवणं हि शाब्दबोधः । वाक्यजन्यवाक्यार्थज्ञानं सर्वं शाब्दबोधात्मकमेव नः संमतमिति । विवादविषयीभूतव्यक्तिमात्रस्य पक्षत्वेऽपि तत् ज्ञानं न साक्षात्कारि, तत्त्वमसि वाक्यजन्यवाक्यार्थज्ञानत्वात् श्रवणवदिति सत्प्रतिपक्षश्च । I अप्रयोजकश्च हेतुः । अन्यथा ज्योतिष्टोमादिवाक्यार्थज्ञानं प्रत्यक्षं, ज्योतिष्टोमवाक्यजन्यज्ञानत्वादिति सर्वत्र प्रत्यक्षापत्तिः । श्रवणत्वेनाभिमतं तत्त्वमसि वाक्यर्थज्ञानं प्रत्यक्षं तत्त्वमसिवाक्यजन्यज्ञानत्वादिति प्रथमज्ञानस्यापि प्रत्यक्षत्वप्रसङ्गः । एवञ्च शाब्दबोधसामान्यस्य प्रत्यक्षत्वे शब्दस्य प्रत्यक्षातिरिक्तप्रमाणत्वानापत्तिश्च । सन्निकर्षसहकृतस्यैव शब्दस्य प्रत्यक्षजनकता, न त्वसन्निकृष्टविषयेऽपीति चेत् — कोऽयं सन्निकर्षः ? हन्त तर्हि तत एव प्रत्यक्षसंभवे शब्दादिप्रमाणजन्यत्वखीकारस्तत्र व्यर्थ इति श्रवणनिद्ध्यानानन्तरभाविनि ज्ञाने तत्त्वमसिवाक्यजन्यत्वरूप हेत्वसिद्धिः । एवं ज्ञानाकरणकज्ञानत्वमुपाधिः । ऐन्द्रियके योगिप्रत्यक्षादौ सर्वत्र ज्ञानाकरणकज्ञानत्वसत्त्वेन साध्ये साक्षात्कारित्वं प्रति तस्य व्यापकत्वात् पक्षे साधनाव्यापकत्वाच्च । अथ साध्यभूतं साक्षात्कारित्वमपि तदेव । अतः साध्योपाध्योरैक्यान्न स उपाधिरिति चेन्न –ज्ञानाकरणकज्ञानत्वस्य साध्यत्वे ज्ञानकरणकत्वस्यात्रेष्टत्वेन हेतोर्बाधितस्यापतेः । “औपनिषदं पुरुषं पृच्छामी” ति बा, “तस्मिन् दृष्टे परावरे” 35 २७४

इति वा श्रुतिः शब्दजन्यज्ञानं प्रत्यक्षमिति वा साक्षात्कारः शब्दजन्य इति वा न साधयितुमीष्टे । अतः साक्षात्कारित्वसाधकहेतोरागमसंवादाभावादप्रयोजकत्वमक्षतम् । सन्निकृष्टार्थविषयकस्य च वाक्यस्यापरोक्षं प्रति कारणत्वे ‘श्रोतव्य’ इत्युक्तश्रवणादेरपि प्रत्यक्षत्वापत्तिः । सन्निकर्षश्च दुर्वच इति प्रागेवोक्तम् । तत्त्वमस्यादिवाक्यं प्रतिपाद्यविषयक साक्षात्कारजनकं खप्रकाशार्थो पदेशरूपत्वादित्यद्वैतिप्रयोगः खण्डितः शतदूषण्याम् । भवता तु प्रयोगमविज्ञाय, विगीतं ज्ञानं साक्षात्कारीति प्रतिज्ञां विधाय तत्र ज्ञानपक्षकानुमाने खप्रकाशार्थोपदेशरूपत्वं हेतुरुच्यते खरूपासिद्ध्यादिकमप्यविमृश्यं । अत्र वाक्यार्थज्ञानं पक्ष इति लिखित्वा, अयमेव मुख्योपदेश इति लेखनमपि विचित्रम् । तदुपरि ‘खप्रकाशार्थोपदेशरूपस्य श्रवणजनितवाक्येऽपि सत्त्वा’ दिति, ‘केवलश्रवणस्य च परोक्षज्ञानजनकत्वेऽपीति च लेखनमतिविचित्रम् । अनन्वितव्यस्त समस्तवि विधपदगुम्भनेनैव ग्रन्थान् पूरयन्त ईदृशा हन्तानुमानप्रयोगेऽप्येवमेव प्रवर्तन्ते । तदिदं साहसमपाकर्तुं दूषणान्युद्भावयतां दिङ्मात्र प्रदर्शनायापि न पर्याप्तः कालः । अहो बत वृथा कालः सर्व एवातिवाद्यते । इत्यस्माभिरिहेदृक्षं दोषोद्भावनमुज्झयते ॥ अथान्यदनुमानम् विगीतं ज्ञानं साक्षात्कारि प्रत्यक्षार्थविषयत्वादिति । अत्र श्रवणादौ व्यभिचारस्तदवस्थः । अत्र यलेखनम् " मननजनितवाक्यार्थज्ञानेऽपि स्वतः प्रत्यक्षार्थविषयत्वेन हेतुसत्त्वेन …… . मननजन्यस्यापरोक्षत्वाभावान्न बाधः " — इति तदपि एवमनन्वितमेव । साक्षात्कारित्वमपरोक्षत्वम् तस्याभावश्चेदस्ति, तर्हि बाघ एवेति कथं “न बाध” इत्युच्यते ? विगीतं ज्ञानमिति पक्षनिर्देशात् अपेक्षितव्यक्तिमात्रग्रहणसंभवे, “ केवलमननजन्यज्ञानस्यापक्षत्वात् " इति वा किमर्थमुच्यते ? ब्रह्मसाक्षात्कारस्य निदिध्यासनमननसंह कृतश्रवणविषयवाक्यजन्यत्वेनैव प्रत्यक्षत्वमिति यदुक्तम् -तत्र निदिध्यासन सहकृतं श्रवणं किं शाब्दबोधः, उत श्रोत्रजन्यशब्द शब्दजन्यप्रत्यक्षभम-प्रसाधनम् २.७५ प्रत्यक्षम् ? आधे तद्विषयत्वं वाक्यस्य कथम् ? अन्त्ये निदिध्यासनानन्तरमस्य योगिनः तद्वाक्यश्रावयिता कश्चिदावश्यक इत्यापतति । यत्तु श्रीघ्रमेव श्रवणादिना साक्षात्कारजनने योगिनां विषये योग उपकरोतीति तत्र पृच्छयते दशमोऽहमस्मीति प्रत्यक्षोत्पत्तौ योगाभावात् कियान् विलम्ब आपतितः ? आत्मतद्गतदशमत्वोभयप्रत्यक्षकालेऽप्यनपेक्षितो योगः अखण्डाकारात्ममात्रप्रत्यक्षशीघ्रोत्पत्तये कथमपेक्षितः स्यात् । एवं योगस्य विहितत्वे च निदिध्यासितव्य इतीदं न विधिपरमिति कथम् ? योग विना प्रत्यक्षजननापेक्षया योगात् प्रत्यक्षजनन एव तु विलम्बो दशनोऽहमिति प्रत्यक्षं मन्यमानैरनपलप्यः । इदं पुनरद्वैतिभिर्वक्तुं युक्तम् नादृष्टार्थो ध्यानविधिः निदिध्यासितव्य इति । चित्तवृत्तिनिरोधमन्तरेणैकाग्रयायोगात् दुर्ब्रहवस्तुग्रहणे च ऐकाम्यस्यापेक्षितत्वात् सुसूक्ष्मब्रह्मग्रहणे च संपूर्णश्चित्तवृत्तिनिरोधोऽप्यपेक्षित इति स एव लोकप्रक्रिया ऋमसिद्ध उपायो योग इत्युच्यते । एवं युक्तिसि द्वांशप्रतिबोधनरूपमिदं तव्यप्रत्ययघटितं वाक्यं वस्तुतोऽनुवादरूपमेव । तेन च अवधानेन संनिकृष्टमात्मवस्तु प्रत्यक्ष्यत इति तावताऽपि शब्दस्य तज्जनकत्वमसिद्धमेव । अवधाननिहितस्य चित्तस्यैव तत्र साधनत्वसंभवात् । वृत्तिजनकत्वेन क्लृप्तस्य तस्यैव प्रत्यक्षरूपवृत्तिकरणत्वोपपत्तेः । यदा पुनरद्वैतप्रमेयमनुपपन्नमिति परमात्मध्यानमेवात्र विधीयत इत्यवधार्यते, तदा विशिष्टाद्वैतसरणिरेव समादर्तव्येति । यत्तु —— भगवत्सङ्कल्पत एव बन्धनिवृत्तिस्वीकारे कर्मयोगत एव भगवत्संकल्पानुगृहीतात् बन्धनिवृत्तिसंभवादुपासनं व्यर्थमिति तदिदं वक्तु भगवदभिन्न एवात्मा प्रभवति । बन्ध निवृत्तिसाधनं साक्षात् कर्मयोग एवेति कथं विना शास्वमस्माभिरवधार्येत । अयमयम् अस्मिन् अस्मिन् फले साक्षाद् परम्परया वोपाय इति भगवदुपदिष्टात् शास्त्रादेवावधारणीयम् । अन्यथा भोजनादपि भगवत्सङ्कल्पानुगृहीतात् बन्धनिवृत्तिः स्यादित्यपि कल्पयित्वा कर्मयोगादितोऽप्युपरम्येत । तत्सिद्धं परज्ञानपरमभक्तिफलकः परभक्तिरूपो योगो दर्शनसमानाकार एव श्रवणमननक्रमंभावी भगवदनुग्रहद्वारा भगवत्पादारविन्द परिचरण དཔ་ या विच्छेदेन परिपाल्यमान”

रूपपरमनिःश्रेयसहेतुरिति । शतभूषणी तु शब्दजन्यप्रत्यक्षसाधनव्याजेन, “तत्त्वमस्यादिवाक्यापरोक्षसाधनत्वसिद्धान्तः प्रामाणिकः प्राचीनेराचार्यैः संप्रदाइत्युपसंहरन्ती, “तत्प्रतिकूलवादाश्च केषाञ्चन आस्तिकानां मुमुक्षूणाश्च सर्वेषां प्रमोहनमात्र केवलमनर्थाये” ति निगमनमुखेन विशिष्टाद्वैतिमभृतीनिव शाब्दापरोक्षदूषणपरायणान् भामती कल्पतरुपरिमळकारादीनपि पराकृतान् मन्यत इति नवीनप्रस्थाननिष्णातैरद्यतनै रद्वैतिभिरवधेयम् । यत् साक्षादपरोक्षम्, अत्र महसि प्रत्यक्षवृत्तिः कुतः ? प्रत्यक्षात् परमप्यनुस्रुतभवाः जीवद्विमुक्ताः स्थिताः । प्रामाण्ये चले परोक्षमपि नः शक्तं परं बाधितुं शाब्दत्वं नतरामिहोपकुरुते किं तेन चित्ते स्थिते ॥ शुभमस्तु श्रीः