उक्तं विविदिषार्थत्वे यदधृष्यं हि दूषणम् । तद्विसृज्य बहुतया किं न चात्र नियमोऽपि वः ॥ वस्तुतो विविदिषासाधनत्व-भङ्गवादोऽप्यद्वैतिभिरादरणीय एव । तेषु व्यपदिष्टैरेव विविदिषासाधनत्वदूषणेन वेदनसाधनत्वस्यापि खीकरणात् । शतभूषण्यामपि, “ भामतीमते विविदिषाज्ञानोभयसाधनत्वं कर्मणाम् " इति, “ब्रह्मसिद्धिकाराः ज्ञानप्रतिबन्धकपापनिरसनद्वारा कर्मणां ज्ञाने उपयोगमभिप्रयन्ति” इति चोक्तम् । न हि विविदिषाप्रतिबन्धकपापनिरसनद्वारा विविदिषायामुपयोग इत्युक्तम् ; किन्तु ज्ञानप्रतिबन्धकनिरसनद्वारा ज्ञाने इति । " ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः" इति ज्ञानसाधनस्ये पापक्षयद्वारा कर्मणां दर्शयत् वचनमध्यनूदितम् । एवञ्च वेदनसाधनवं यज्ञादेः कथं न श्रुत्यर्थः ! अथ “विविदिषन्ति यज्ञेन दानेन तपसा विविदिवासाधनत्व-भङ्ग प्रसाधनम् २४५ इच्छा इनाशकेन” इति श्रुतौ सचन्तभवणात सनो वैपथ्ये मा भूदिति विविदिषैव फलमिति चेत्–“वजेत वर्गकाम” इत्यादौ कामपदवैयर्थ्य मा भूदिति कामनैव फलं कस्मान्मेष्यते। मनु काममा यागकरणात् प्रागेवास्ति । न च कामपदवैयर्थ्यम्; कामपदोपबन्धादेव स्वर्गस्य काम्यत्वस्य फलत्वस्यावगमादिति चेत् —तुल्यम् । इहापि यज्ञाद्यनुष्ठानं फलकामनाविरहे न भवतीति फलकामना वाच्या । फलञ्च यदि विविदिषा, सा वेदनेच्छा । चेप्यमाणप्रधानेति स्वर्गकामादिनिदर्शनेन परिमळेऽप्युक्तम् । । अतः तस्याः स्वयंप्रयोजनत्वाभावात् इच्छायाः फलं वेदनमित्येव वाच्यम् । एवञ्च लोके फलेच्छां विनोपायेच्छाया अयोगात् वेदनेच्छां प्रति च वेदनस्य फलत्वात् वेदनेच्छा पूर्वम्, ततस्तत्साधनभूतायां वेदनेच्छायामिच्छा, ततस्तत्साधनयज्ञा दिचिकीर्षेति वक्तव्यम् । न चेच्छाविषयकेच्छाविरहे कार्यचिकीर्षा न भवतीति लोकेऽनुभूतमस्तीत्यन्यदेतत् । एवञ्च यज्ञाद्यनुष्ठानात् प्रागेव वेदनेच्छाया जातत्वेन वेदनेच्छाकामो यज्ञादीननुतिष्ठेदिति न वाक्यार्थवर्णनं शक्यमिति शतदूषण्युपपादितमनुसंधीयताम् । अथ तीत्रेच्छालाभार्थमिति चेत्तत्राप्युक्तं तत्रैव, वेदनतीत्रेच्छाभावे वेदनेच्छा विषयकतीत्रेच्छा न भवतीति । यत्तु —— भवदुक्तं वेदनेच्छाप्रतिबन्धकनिवृत्तिरेव विविदिषेति तत्र पूर्वोक्तदोषस्तदनिकश्च । यो हि इच्छाप्रतिबन्धकनिवृत्तिं कामयते स इच्छाविषयमपि पूर्व कामयत एव । एवञ्च वेदनस्यैव फलत्वे संभवति प्रतिबन्धकनिवृत्तिफलत्ववर्णनं किमर्थम् ? तथोक्तौ “विविदिषन्ति” इति श्रुतं वेदनं तदिच्छां चोल्लङ्घया श्रुतस्य प्रतिबन्धका ने निरस्य फलस्य भावनान्वये लक्षणाऽपि दोषः । इतो वेदनप्रतिबन्धकनिवृत्तिलक्षणायां लाघत्रमपि । परिमळे च, ‘पूर्वमेव वेदनेच्छासज्ञानात् कथं वेदनेच्छा काम्यत’ इत्याशङ्कय संसारदुःखेषामचत्वनिभ्रमपूर्वकतज्जिहासामूलक ब्रह्मजिज्ञासा कर्म साध्यतयेध्यत इस्युक्तम् । तदप्येतेन निरस्तम् । एवं हि सति ब्रह्मजिज्ञासायाः प्रागेव सद्भावात् संसारजिद्दासायाः तद्धेतोः दुःखैकमयत्वनिश्चयस्य वा प्राकू अभा ૨૪૬
वात तदर्थे कर्मानुष्ठानमित्येव पर्यवस्यतीति गतं विविदिषासाधनत्वम् । बुभुक्षादृष्टान्तस्तत्रोक्तोऽपि शतदूषण्यामेव शमितः । परिमळकृतैव शिवार्कमणिदीपिकायां भोजनेच्छायां सत्यामपि भोजनविषयोत्कटप्रवृत्तिप्रतिबन्धकरोगनिवृत्तिरेव भेषजसेवनफलमित्युक्ततया तद्वदिह वेदनप्रवृत्तिप्रतिबन्धकपापनिवृतिरेव फलत्वेन वक्तव्या । एवञ्च तन्मध्ये इच्छापदार्थघटनमेव न । ज्ञानस्य कृतिसाध्यत्वं भवदनिष्टं किञ्चिदापद्यत इति विशेषः । अत्रापि ‘विविदिषन्ती’ ति अतो वेदनस्य फलत्वेनान्वयो भाव्यः । श्रुत्युक्तफलत्याग एव । एवञ्च सन्प्रत्ययः कामपदवत् तस्य फलत्वार्हत्वमाविष्करोति । नन्वसिना जिघांसतीत्यादौ हिंसायाः साध्यत्वविवक्षा युक्ता । तत्र हिंसेच्छायाः असिकात्वाभावेन साध्यत्वानर्हत्वात् । नत्सिंह; विविदिषायाः कर्मसाध्यत्वात्वेन प्रत्ययार्थत्यागायोगादितीदमपि शतदूषण्यामेवोद्भाव्य परिहृतमिति न किञ्चिदवशिष्टम् । इदं हि ‘विविदिषन्ती ‘ति वाक्थं न लोकसिद्धार्था नुवादरूपम् ; किंतु पञ्चमलकार स्वीकारात् विनियोजकवाक्यम्, वेदानुवचनयज्ञदानादिना फलं भावयेदिति । तत्र विविदिषाकाम इति वा, वेदनकाम इति वा पदं परिणमनीयमितीदानीं विमर्शः । वेदानुवचनादिकरणकभावनायाः भाव्यापेक्षायां यत् भाव्यत्वेन श्रुतम् तस्य तथाऽन्वयो युक्तः । भाव्यत्वमुद्दे श्यत्वम् । कृत्युद्देश्यत्वं च कृतिजन केच्छाविषयत्वम् । तच्च वेदने श्रुतम् ; । विविदिषायां तु कल्पनीयमिति गौरवम् । किञ्च विविदिषकाम इति न भवति, विविदिषाकामनातः प्रागेव विविदिषायाः सिद्धत्वस्य प्रागेवोपपादितत्वात् । इच्छां प्रति विषयसिद्धेः प्रतिबन्धकत्वात् । तथा च वेदनकाम इत्येव प्रयोक्तव्यमिति वेदनमेव फलमिति । एतेन " वेदानुवचनस्येव यज्ञस्यापीच्छा साधनतया विधान" मिति भामत्युक्तमपि — प्रत्युक्तम् । उपरि च तत्रैव, “ज्ञानमुत्पद्यत इति वाक्यमुपादाय ज्ञानसाधकत्वमप्युक्तम् । तदैकार्थ्य विविदिषन्तीत्यस्य परित्यज्य किं बहु साधितमिति च पृच्छामः । विविदिषासाधनत्वे वर्णिते पुंसो जन्मान्त विविदिषासाधनत्व भङ्ग-प्रसाधनम् २४७ ज्ञान रानुष्ठितकर्मवशात् विविदिषायां जातायां तदैव कर्मत्यागो महान् लाभ इति चेत् न -विविदिषन्तीति वाक्यबलात् कर्मानुष्ठानासंभवेऽपि, मुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः” इति वाक्ये साक्षात् ज्ञानप्रतिबन्धकस्य पापस्यापि कर्मक्षपणीयत्वावगमेन तदर्थं कर्मानुष्ठानस्य तज्जन्मनि संभवात् । तत्रापि ज्ञानेच्छोत्पत्तिद्वारा ज्ञानोत्पत्तिरेव पापक्षयाद्विवक्षितेति चेत्-किं कर्मत्यागः कर्तव्य इति मुष्टिग्रहेणैवमर्थवर्णनम्, आहो अयमेव स्वरसार्थ इति सहृदयमुच्यताम् । ज्ञानेच्छाया मध्ये जायमानत्वेऽप्युद्देश्यकोटौ निवेशायोगश्च प्रागेव दर्शित इति असिना जिघांसतीत्येतत्तुल्यमेवेदमपि । (( ज्ञानस्य फलत्ववादिनामस्माकमपि पापक्षयद्वारकत्वमिष्टमेव । परं तु आरादुपकारकत्वं तत्त्वज्ञानोत्पादं प्रति चित्तसत्त्वशुद्धया कर्मणां युक्तम् " इत्युक्तं भामत्याम् । उपासनेन सह कर्माण्यनुष्ठेयानि फलसिद्धये इत्यारादुपकारकत्वं कर्मणां भास्करोक्तम् । तद्वैलक्षण्याय कर्मणां संनिपत्योपकारकत्वमेव युक्तमिति विशिष्टाद्वैतिनः । वैलक्षण्योपपादनं तु ज्ञानसाधनचितशुद्धिसंपादकतया भामत्युक्तप्रकारेणैव । परन्तु न तत्र विविदिषाया उद्देश्यकोटिप्रवेश इति विशेषः । न च वाक्यान्तरं विविदिषाया साधनत्वावबोधि किञ्चिदस्ति । इदं तु अन्यथासिद्धम्, “ अश्वेन जिगमिषती" तिवत् । किञ्च • वेदनेच्छापेक्षया वेदनस्योद्देश्यत्वकल्पनं युक्तम् । अनुष्ठितेषु कर्मसु वेदनेच्छा जन्मान्तरे ब्रह्मणादिवर्णप्रदानेनोत्पाद्य श्रवणादौ भगवता प्रवर्तनीयं विविदिषापक्षे । वेदनपक्षे तु यस्थानादौ संसारे प्राग्जन्मसंपन्न श्रवणं, तस्य जननकाल एव स्वतोजातं वेदनमापादयति भगवान्, यस्य तु न तस्य पूर्वयज्ञादिवंशादेव श्रवणादिमात्र घटयतीति सौकर्यात् । वेदनेच्छायां जातायामपि प्रतिबन्धकवशात् श्रवणादौ प्रवृत्तिः कुण्ठिता चेत्, तदर्थकर्तव्यान्तरप्रवृत्तिविधानादिश्रम पर्यालोचनया वेदनार्थत्ववर्णनं युक्तमिति च सिद्धान्तलेशसमहे उक्तम् । तस्मात् विविदिषायां जातायामपि वेदनार्थ प्रवृत्य૧૪૪
प्रथमवेदनोत्पत्तिक्षणावधि कथञ्चित् व्यवायासादि सोढा सत्कर्मानुष्ठीयताम् । त्यज्यतां वेदनप्राप्तिसमनन्तरमेव सर्वम् । वस्तुतो विविदिषन्ति यज्ञेनेति जनकं प्रति उपदेष्टा याज्ञवल्क्यः गृहस्थो त्रमिष्ठः । न चैप त्रह्मिष्ठोऽपि इदानीमश्रुतवेदान्त इति वा कर्मत्यागीति वा सुवचम् । अतो ज्ञायते श्रवणात् परस्तादपि कर्मानुष्ठानमस्तीति । इषितञ्च वेदनमिदमुपासनरूपमिति च पूर्वापरसन्दर्भादपि सुज्ञानम् । कर्मणामुपासनार्थत्वमिप्यतां मा वा ; कर्मानुष्ठानं तु न शक्यं वर्जयितुम् । ‘विविदिषन्ति यज्ञेन’ इति वाक्येन तद्विनियोगेऽप्युत्पन्नविविदिषस्य तदर्थं तदनुष्ठानमसत्तयभावेऽपि यावज्जीवादिश्रुतिबलादनुष्ठानं क्षतमेव । सम्यग्विमर्शे तु जीवन्मुक्तोऽपि कर्म न त्यक्तुमर्हति । तत्त्वज्ञानस्य जीवनमध्यभाविनः शरीरपातपर्यन्तमारब्धेतराविध्यांशमात्रनिवर्तकतया प्रारब्धान्तर्गतपापक्षयस्य तांदात्त्विकनित्यकर्मानुष्ठानेन संपादयितुमुचितत्वात् । परं तु तत्कर्म तत्तदाश्रमोचितनित्यनैमित्तिकमात्रम् । एवञ्च विविदिषायां सत्यां संन्यास एव कार्य इति निर्बन्धाभावात्, " एतमेव पुरुषधौरेयमधिकृत्य श्रूयते –यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेदिति" इति भामत्युक्तमपि नावश्यकत्वाभिप्रायम् । तथा सति " विविदिषन्ती " त्यस्य संन्यासपर्यन्तवैराग्यो पश्लिष्टविविदिषार्थमित्यर्थः स्यात् । तदा लक्षणा, श्रुतवेदान्तानामपि तादृशवैराग्यो पश्लिष्ट्र विविदिषार्थे यज्ञाद्यनुष्ठानञ्चेति दोषद्वयम् । शाङ्करभाष्ये च, ‘यज्ञादिश्रुतेरश्ववत्’, ‘सहकारित्वेन च’ इति सूत्रद्वयेऽपि वेदनसाधनत्वं कर्मणां क्रियासमभिहारेणोक्तम् । ““विविदिषा संयोगाच्च " इति वाक्यमपि विदिधातूपरि सन् श्रवणात् वेदनस्येषितत्वेन यज्ञादिफलत्वं तस्य दर्शयतीत्यर्थकमेव ; न तु विविदिषासाधनत्वपरमिति वाक्यत एव व्यक्तम् । किश्व सन्प्रयोगे कारकाणां नेच्छान्वयो दृष्टः ; किन्तु क्रियान्वय एव । ‘अयं मनसा पिपठिषति, अयं ज्ञानेन पिपठिषति इत्यादिप्रयोगाभावात् । अन्यथा "” विविदिषासाधनत्वभश-प्रसाधनम् २४९. मनसः इष्टसाधनताज्ञानस्य चेच्छां प्रति कारणत्वात्तथा प्रयोगापत्तेः । एवं ‘धातोः कर्मणः समानकर्तृकादिच्छायां वा” इति सूत्रेण सनोऽर्थे इच्छायां धात्वर्थस्य कर्मत्वेनान्वयात् तमेतं विविदिषन्ति, शास्त्रं पिपठिषतीत्यादौ द्वितीयार्थकर्मत्वं सनप्रकृत्यर्थवेदनपठनादिनिरूपितमिति निर्विवादम् । एवञ्च तुल्यन्यायात् सर्वे कारकं तन्निरूपितमित्येव सिद्धयति । इच्छां प्रति कर्तृत्वं विवक्षितमिति च समानकर्तृकादिति निर्देशबलात् ज्ञायते । तावता वेदनकर्तृत्वं न त्यज्यते । अत एव कर्मकर्तरि, भूषाकर्म किरादिसनां चान्यत्रात्मनेपदात् " इति वार्तिकानुशिष्टे, चिकीते कटः इति सन्नन्तप्रयोगे इच्छायाः पुरुषनिष्ठत्वेऽपि कटस्य कथं कर्मकर्तृत्वमिति विचारे कृञ्धात्वर्थकर्तृत्वमुक्तैव कर्मस्थक्रियात्वमुपपादनीयमिष्टम् । क्रियमाणस्य कटस्यैव क्रियाकर्तृत्वं विवक्षितम्, न स्त्रिच्छाकर्तृत्वम् । कटश्चिकीयते, ओदनो बुभुक्ष्यने, इत्यादावपि न सन्प्रत्ययार्थेच्छां प्रति साक्षात् कर्मत्वं कटौदनादौ विवक्षितम् ; किन्तु धात्वर्थकर्मत्वद्वारैवेच्छासंबन्धस्तत्र वेदितो व्युत्पत्तिवादे । इच्छाविशेष्यत्वस्य तत्राङ्गीकारे च गृहं तिष्ठासति, गृहं तिष्ठास्यत इति प्रयोगोऽप्यापादितः । अतः समभिव्याहृतकारकाणां धात्वर्थसंबन्धित्वमेव, न तु सन्प्रत्ययार्थसंबन्धित्वम् । अतो यज्ञादेर्वेदन करणत्वमेव । एवं ब्राह्मणाय गां दित्सति, वृक्षात् पण पिपतिषति, स्थास्यामोदनं पिपक्ष्यतीत्यादिसंप्रदानादिप्रयोगश्च प्रकृत्यर्थकारकत्व एव युज्यते । यदि च यज्ञेनेत्यादेः कारकविभक्तित्वं नेष्यते, तर्हि सोऽपि दोषः । यत्तु -“वेदनस्य यज्ञादिफलत्वं मामत्युक्तरीत्याऽसंभवादेव ; ; व तु विरोधात्” इति -तत्रोच्यते । भामत्याम्, उपासनतः फले कर्मणां नोपयोगः, क्रियाकर्तृकरणेतिकर्तव्यताप्रपञ्चमतात्त्विकं निश्चिन्वन् कथमधिकृतो नाम । विदुषो ह्यधिकारः । अभिमानिकर्तृके कर्मणि नानभिमानिनोऽधिकारः इति नोपासना कार्ये कर्मापेक्षा" इत्युक्ता, अत एव नोपासनोत्पत्तावपि " इत्युक्तम् । व्याख्यातञ्च कल्पतरौ " यत एवाक्गतब्रह्मभावो विधिषु नाधिकारी, अत एव ज्ञानानन्तरं कर्मानुष्ठानासंभवात् नोपासनोत्पत्तौ कर्मापेक्षेति" । 31
(6 २५०
भामत्यामेव च, क्तम् । एवं विरोधस्य दर्शितत्वात् स नास्तीत्युपपादनाय शतदूषण्यां संभावित सर्वविकल्पोद्भावनेन दूषणं नानुपपन्नम् । भवत्सिद्धान्तसंमतं निर्विशेषब्रह्मवेदन स्वीकृत्यैवाविरोध उपपादनीय इति तु न सत् । तस्य शशविषाणायमानत्वात् प्रामाणिकस्य वेदनस्य प्रामाणिकानां कर्मणाञ्च विरोधो नास्तीत्येतावदेव श्रुति सामञ्जस्याय प्रदर्शनीयम् । निर्विचिकित्सशाब्दज्ञानोत्पत्युत्तरमनधिकारः कर्मणी"त्यु यदपि, “भक्तिसाधनत्वं कर्मणामदृष्टद्वाराऽपि दुर्वचम् । भक्तेः स्वयंफलत्वाभावात् ; फलसाधतत्वस्य चानवगमात् । भक्तेरपि भत्तया मामभिजानातीति ज्ञानसाधनत्वावगमे तत्फलभूतस्य वेद नस्यैव ग्रहणसंभवात्” इति तन्न तथा सति भक्तिवत् कर्मणामपि तज्जन्यसाक्षात्कारात्मकवेदनसाधनत्वस्यैव युक्तत्वात् । भक्तिवत् इच्छायाः स्वयंफलत्वाभावात् कर्मसाध्यत्वेनान्वयायोगात् । एवञ्च विविदिषन्तीत्यत्र वेदनमेव भाव्यमिति । भत्तयपेक्षया ज्ञानं पुरुषार्थ इति तदा स्यात्, यदा चिदचिदीश्वरभेदो मिथ्या, निर्विशेषमेकमेव तत्त्वमिति निर्धार्येत । अन्यथा ज्ञानं चिद्विषयकं जीवमात्रज्ञानं भविष्यति । तदपेक्षया च भतंयादिक प्रकृष्टतत्त्वविषयकत्वात् परमः पुरुषार्थ एवेति । “C अथ भवान् पृष्टो व्याचष्टाम् किं भवन्मते ब्रह्मविषयकवृत्तिज्ञानं पुरुषार्थः, उत ब्रह्मैव । नाद्यः ; तस्य निवर्त्यकोटिनिविष्टत्वेन पुरुषार्थत्वायोगात् । निवर्त्य भवदपि अविद्या निवृत्तिहेतुत्वात् पुरुषार्थ इति चेत्-न तर्हि मुख्यं पुरुषार्थत्वम् । भक्तेरिव फलान्तरहेतुत्वात् । नान्त्यः ; साक्षात्कारे जननीये” इति जन्यफलत्वोत्तययोगात् । भत्तयपेक्षयाऽपि साध्यत्वात् तदपेक्षयाप्यतिशयिंत पुरुषार्थत्वमनिवार्यम् । वस्तुतो वेदनस्य तदा पुरुषाभावेन न पुरुषार्थत्वम् । एवं ब्रह्मणोऽपि आनन्दादिपदव्यपदिष्टस्य वस्तुतो दुःखाभावमात्रत्वात् तत्परिशेषेऽपि पुरुषापेक्ष्यमाणत्वाभावात् पुरुषार्थत्वमत्यन्तं गौणमेव । भक्तिरेवोत्कृष्टनिकृष्टाद्विविधात्मसमकालिकत्वात् निरतिशयभोग्यभूमसुखविषयकत्वाच्च मुख्यः पुरुषार्थ इति । विविदिषावादेऽपि । शब्दजप्रत्यक्ष-भङ्ग-प्रसाधनम् २५१ “ब्रह्म वेद” इत्यादौ साक्षात्काररूपवेदन वादिभिः विविदिषन्तीत्यत्रापि साक्षात्कारेच्चैव वक्तव्येति च तस्याः श्रवणमननध्यानपर्यन्तकालानुवृत्तये यज्ञाद्यनुष्ठानमवर्जनीयम् । अत उपक्रम एव कर्मत्यागरूपभवदभीष्टासिद्धिरेव आरुरुक्षोर्मुनेर्योग कर्म कारणमुच्यते ।" इत्यत्र च गीताभाष्ये (6 3) ध्यानयोगे अवस्थातुमसमर्थस्य कर्म कारणमित्युक्तया निष्नयोगस्यैव कर्मत्यागः प्रतीयते ; न तु श्रवणेच्छा वेळायामेव । अतो विविदिषोद्देश्श्त्वपक्षस्थापनसाध्यं न किञ्चिदस्ति । साक्षात्काररूपवेदनोद्देश्यकत्वपक्ष एव भवन्मतेऽपि सांप्रतमिति । व्युत्पत्तिस्वरसोज्झनात् विविदिषावाञ्छाक्षतेर्गौरवात् मुख्यार्थत्यजनात् वचोन्तरहतेः भाष्यादिभूयो बलात् । प्राज्ञानुष्ठिति संप्रदाय विहतेः साक्षात्कृतीच्छया कर्माप्त्येष्टहृतेश्च वो विविदिषासाध्यत्वपक्षः क्षतः ॥ शुभमस्तु । ~:0: श्रीः