०६ बाधितानुवृत्ति-भङ्ग-प्रसाधनम्

अबाधितार्थविज्ञानविधानव्यग्रमानसम् । अपरं तुरगास्यं तं वन्दे वेदान्तदेशिकम् ॥ बाधितस्यानुवृत्तिश्चेत् वाधे मानं न सिद्ध्यति । अतत्त्वज्ञानमेतत् स्यात् स्याद्वा सत्यं जगत् समम् ॥ शतभूषणीकारः बाधितानुवृत्ति-भङ्गवादबाधितार्थानुवृत्तिं स्व-परीक्षायामनुवाद-भङ्गया कलयन् बाधितानुवृत्तिं स्थापितां मन्यत इति नात्र वादे वक्तव्यं किञ्चिदस्ति । अथापि मुखान्तरेण शतदूषणयुक्तमेव व्युत्पाद्यते । तत्रादौ विशिष्टाद्वैतिमतेऽपि दर्शनसमानाकारस्मृतिसन्तानेनाविद्यारूपकर्मनिवृत्त्या करचरणाद्यवयवानामपि निवृत्तत्वात् कथमुपदेष्टृत्वमिति प्रतिबन्दी महति विस्मयसागरे विदुषो निमज्जयति । जगतस्तत्करणभूता विद्यायाश्च मिथ्यात्वात् तत्त्वज्ञानेन निवृत्त्या कस्मै केनोपदिश्यत इति प्रश्नः अस्मान् प्रति हि न कथमपि भवितुमर्हति । सर्वस्य स्थितत्वात् कर्मणामेव पुण्यपापरूपाणां शरीरधूननकाले प्रक्षयात् । त्यक्तस्य शरीरस्याप्यवस्थान्तरेण पश्चादपि भावात् उपदेष्टृणामुपदेश्यानाञ्च दाऽप्यबाधात् उपदेश प्रति श्रवणमननयोः साक्षात्कारस्य च यथासंभवं कारणत्वेऽनुपपत्त्यभावात् । तस्मात् स्वमते दोषपरिहारार्थ एव शतभूषण्या प्रयतनीयम् । अन्यथा स्वोपरि गळिष्यद्भिर्जम्बालैर्गगनतलमा लिम्पति शतभूषणीत्येव वक्तव्यम् । तत्र बाधितानुवृत्तिपक्षे शतदूषण्युक्तदूषणान्मुक्तिर्न भविष्यतीति मनसिकृत्य प्रथमं यत् किञ्चिदुक्तमव्यक्तम् — तच्छोभनम् । तस्यायं सारः–न वयं बाधितानुवृत्तिं स्वीकुर्मः । अविद्याया अंशतोऽपि प्रायणात् प्रागबाधात् । तर्हि जीवन्मुक्तिर्न स्यादिति चेत् साऽपि नेष्यत एव । तत्त्वसाक्षाकारे जाते. मिथ्याभूतस्य तत्त्वज्ञाननिवर्त्यत्वात् कथं मध्येऽविद्याद्यनिवृत्तिरिति चेत्-साक्षात्कारः प्रायणकाल एव भवतीति ब्रूमः । “ उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्त । २४०

त्वदर्शिनः" इत्युक्तमुपदेष्टृगतं तत्त्वदर्शनञ्च नापरोक्षम् ; किन्तु तत्तुल्यं परोक्षमेव । इदं परोक्षज्ञानमुद्दिश्यैव निध्यानपर्यन्त विधिरित्यपि केचित् इति । एवमभिप्रयन्नयं यदि निःप्रपञ्चीकरणनियोग-भङ्गवादादिकमिव बाधितानुवृत्ति-भङ्गवादमपि एकदेशिवादखण्डनमिष्टमेवेति विसृष्टवान् स्यात्, शोभनतरं भवेत् । खलु विमर्शे बहवो वादाः सुखमेव त्यक्ताः स्युः । मिथो विरुद्धानेकमताभासस्थापनार्थप्रयत्न एवाद्वैतिनामनर्थकरो भवति । इतः परमद्वैभिः संहतैरेवं संकेतः कार्यः । सिद्धान्तलेशसङ्ग्रहादिदर्शितेषु तत्र तत्र बहुषु पक्षेषु एकतममेव निष्कृष्य स्वीकुर्वन्तोऽन्यान् उपेक्षमाणाः परेषां दूषणात् सर्वतोमुखादात्मानं रक्षेमेति । अस्त्वेतत् । बाधितानुवृत्त्यनङ्गीकारेण एवमेतदुट्टतेऽप्येवं दोषो भाव्यः । यदि ’ द्रष्टव्य’ इत्यत्र दर्शनतुल्यं परोक्षज्ञानं विवक्षितम्, तर्हि विशिष्टाद्वैतिभिः पूर्वपादे उक्तस्य दर्शनप्रकारस्य किमिति खण्डनम् । परोक्षदर्शने ध्यानस्य कथं जनकत्वम् । तदतिरिक्तस्य साक्षात्कारस्यैवा विद्यानिवर्तकत्वे का श्रुतिः प्रमाणम् । सर्वत्र दर्शनस्येदृशपरोक्षरूपत्वात् । साक्षात्कारं विना परोक्षस्यैव निवर्तकत्वे काऽनुपपतिः । द्विचन्द्रदिङ्मोहालातचक्र चलवृक्षादौ च दोषस्य तत्त्वज्ञानानाश्यत्वात् भ्रमानुवृत्तिः ; अत्र तु दोषस्याविद्यायाः मिथ्यात्वात् कथं तदनिवृत्तिः । भ्रान्तिः स्थिताऽप्यप्रमाण्यज्ञानास्कन्दितैव स्यादिति अमाधीनं कार्य न भवितुमर्हति । एवञ्च तत्त्वदर्शी भ्रान्तोऽपि न किञ्चित् कुर्यात् । भ्रान्तेरप्रामाण्यज्ञानास्कन्दितत्वात् । एवं द्विचन्द्रवैषम्यात् साक्षात्कार एव निवर्तक इत्यत्र मानाभावात् आप्तोपादेशादितोऽपि प्रत्ययितात् भ्रमनिवृत्त्युपलम्भात् श्रवणकाल एवाविद्यानिवृत्त्या भवितव्यम् । तथा च बाधितानुवृत्तिरवर्जनीया । मिथ्यात्वं वा जगतस्त्याज्यम् । अतोऽयमपि पक्षोऽद्वैतिनामनुपपन्न एव । अथ बाधितानुवृत्तिपक्ष ब्रह्मसिद्धीष्टसिद्ध यद्वैत सिद्ध्यादिषूपपादितं स्वीकृत्य दूषणपरिहारे प्रयतमानः अशक्तथा प्राच्योक्तमेव मुखान्तरेणानूध 1 बाधितानुवृत्ति-भङ्ग प्रसाधनम् २४१ तृप्यति । तत्राविद्यायाः अनिवृत्तिर्वा अंशतो निवृत्तिर्वा तन्निवृत्तावपि तद्वासनानुवृत्तिर्वा भवदिष्टा । आद्यो न बाधितानुवृत्तिपक्षः । न द्वितीयः । तत्रैकांशपरिशेषः कथम् ; तस्य मिथ्यात्वेन निवर्त्यत्वात् । न तृतीयः ; वासनाया अपि तत्कार्यतया मिथ्यात्वादविशेषात् । यदि तत्त्वज्ञानस्याविद्यानिवर्तकत्वमात्रम् तहिं सञ्चितकर्माण्यपि न निवर्तेरन् । श्रुतिसूत्रादिषु प्रारब्धपरिशेष उक्त इति चेत् — अत एव मिथ्यात्वं नेष्टमिति निर्णीयताम् । तत्त्वज्ञानं हि मिथ्यानिवृत्तये न कारणान्तरमपेक्षते । यदि विलम्बेनैव संस्कारादिनिवर्तकता, तर्हि समर्थस्य क्षेपायोगात् कालादिकारणान्तरापेक्षेति मिथ्यात्वहानिरेव । अवशिष्टस्य वासनादेर्भगवत् कल्पान्नाश इत्युक्तावपि सत्यत्वमेव सिद्धयेत् । एवं ‘वासनाया मिथ्यात्वं तु देहपाते विनाश एव’ इत्युक्तमयुक्तम् । मिथ्याभूतस्य हि निवृत्तिरेव ; न तु नाशः । एवमविद्यैव निवर्तते, न तु मैदप्रतिभासाहीत्यप्ययुक्तम् । मिथ्यात्वाविशेषात् सर्वनिवृत्तेरेव वक्तव्यत्वात् वृत्त्या वस्तुविनाश इत्युक्त योगात् । किञ्च उपटेष्टुर्वासुदेवस्य भगवतः सत्त्वविषये परोक्षज्ञानमात्रस्वीकारे सर्वसाक्षात्कर्तृत्वरूपसर्वज्ञत्वानङ्गीकारादपसिद्धातः । सर्वसाक्षात्कर्तृत्वादेव सर्वंनिवृत्त्यात्मक ब्रह्मसाक्षात्कारः ईश्वरस्य नास्तीति वेत्पञ्चात् भविष्यति, न वा । आधे कदा ? कथम् ? श्रवणमननादिनिरपेक्ष चेत्-इदानीमपि भवितुमर्हति । जीवानां तादृशब्रह्मसाक्षात्कारेऽपि कारणदुर्भिक्षे तस्य किं कारणं भविष्यति ? निदिध्यासनान्तकारणकलापस्य विशद परोक्षरूपदर्शन हेतुत्वस्यात्र भवदुक्तत्वात् । अलं तावदेवेति चेत्अस्तु ईश्वरस्य तु तत् कथम् ? अन्त्ये, ’ स एव सर्वदा बद्धो जीवाः स्युर्मोक्षभागिनः । जीवानामीश्वरीभावो मुक्तिश्चेत् तत्त्वविप्लवः ॥ " ‘तस्याभिध्यानात् योजनात् तत्त्वभावात् भूयश्चान्ते विश्वमायानिवृत्तिः” इति श्रुत्या श्रवणमनननिद्ध्यानाधीना विच्छिन्नात्मसाक्षात्कारवचनेन अन्तेऽविद्यालेशसंस्कारनिवृत्तिर्ज्ञायत इति च न युक्तम् । सकृत् साक्षात्कारस्यैव मिथ्या 31 ૪૨

• ज्ञाननिवर्तकतया अविच्छिन्नसाक्षात्कारापेक्षणायोगात् । साक्षात्कारं विनैव प्रायेणाविद्यानिवृत्तिः, साक्षात्कारातु अविद्यालेशनिवृत्तिरिति च नोपपत्तिमत् । कुतश्च साक्षात्कारः प्राङ्नासीत् ? पूर्वज्ञानस्यापि तत्समानविषयकत्वे पूर्वस्यानिवर्तकत्वे उत्तरमप्यविशेषादनिवर्तकमेव स्यात् । सहकार्यपेक्षस्य निवर्तकत्वे मिथ्यात्वं न भवेत् । भोगेन सर्वस्य क्षयाच्च साक्षात्कारनिवर्सः कश्चिदविद्याभागोऽपि न परिशिष्यते । " भोगेन वितरे क्षपयित्वे “: त्येव सूत्रमपि । “भूयश्चान्ते विश्वमायानिवृत्तिरित्येतदर्थश्चास्मदीये परिष्कारे द्रष्टव्यः । ‘मायां तु प्रकृतिं विद्या’ दित्युक्ता प्रकृतिश्चेत् मायापदार्थः, तस्याः निवृत्तिर्नाम न नाशो बाधो वा, किन्तु “रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात् । पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः” इत्युक्ता निवृत्तिरेव । अत्रैव श्वेताश्वतरे समनन्तरमन्त्रे निवृत्तमायस्य विश्वैश्वर्यरूपफलकीर्तनात् मायानिवृत्तिपूर्वक नित्यविभूतिप्राप्त्यवगमात् न निर्विशेषाद्वैतप्रसक्तिः । “न ह्यागमाः सहस्रं घटं पटयितुमीशते " इति न्यायेन श्रुतिरेव निवर्तकतत्त्वज्ञाने सत्येव मिथ्याभूतस्य कश्चित्कालमनिवृत्तिं कथं ब्रूताम् ? सर्वमिदं मिथ्यात्वनिरासार्थमेवोपयुज्यते । न्यायरत्नावळि निर्वचनञ्च प्रागेव निराकारि । यत्तु ज्ञाननिवर्त्यत्वरूपमिथ्यात्वं परिष्कुर्वता लघुचन्द्रिकायामुक्तम्ज्ञानप्रयुक्तनाशप्रतियोग्यज्ञानतत्संस्कारान्यतरत्वं मिथ्यात्वमित्युक्तमित्यादि — तन्न । तत्र संस्कारस्यापि ज्ञाननाश्यत्वस्येष्टत्वे ज्ञानप्रयुक्तनाशप्रति योगित्वमित्यस्यैव पर्याप्ततया संस्कारादिघटनस्य व्यर्थत्वात् । अज्ञानत्वतत्प्रयुकत्वेतिशब्दप्राग्भाविनः ज्ञानप्रयुक्तनाशप्रतियोगीति पदस्य तत्प्रयुक्तत्वेत्यत्रान्वयायोगेन ज्ञाननाश्यः संस्कार इत्यत्र भवल्लिखितवाक्यस्य प्रमाणत्वायोगाच्च । ज्ञाननाश्ये संस्कारे मिथ्यात्वस्यासिद्धिप्रसङ्गात् । वासनानाशे वासनाया एव कारणत्वमिति स्वयंहेतुकत्वे उत्पन्नविनष्टैव भवेदिति वासना कल्पनैव व्यर्था । ज्ञानानाश्यत्वेऽपि सदसद्विलक्षणत्वरूपं मिथ्यात्वमस्तीति चायुक्तम् । सदसद्वि बाधितानुवृत्ति-भङ्ग-प्रसाधनम् ૪૩ लक्षणस्वस्यापि ’ प्रतीयमानत्वादसद्विलक्षणम्, बाध्यमानत्वात् सद्विलक्षणम् ’ इत्येवोपपाद्यतया नाश्यत्वं विना तदयोगात् । किं बहुना । अंशो यः कश्चिदस्तु । सर्वथा तस्य मिथ्यात्वात् अवश्यमेव तेन तदैव निवृत्तेन भाव्यम् । वस्तुतो जीवन्मुक्तविषये बाधितापेक्षया स्थितस्यैवाधिक्यं सर्वप्रपञ्चपरिदर्शन बलादेष्टव्यमिति अविद्यालेशानुवृत्तिरित्यप्ययुक्तम् । अथेदमपि विचारयामः -तत्त्वज्ञानेनाविया बाध्यते, तथापि तदंशोऽनुवर्तत’ इत्यत्र कोऽयमंशो नाम ? भामतीकारेणा विद्याया निमित्तकारणत्वमात्रस्वीकारात् विक्षेपशक्त्यभावात् आवरणशक्तिमात्रमेवास्ति, तस्या एव कश्चिदशोऽवशिष्टोऽस्तीति चेत्तर्हि तया शतया ब्रह्मणः किञ्चिदावृतत्वमपि स्वीकार्यमिति न तदा पूर्णब्रह्मसाक्षात्कारः । निरवयवे निर्धर्मणि च ब्रह्मणि आवृतानावृतांशविवेचनश्च दुष्करम् । अतः तत्त्वज्ञानस्य चाविद्यालेशस्य च यौगपद्यं दुर्घटम् । विवरणकारस्तु प्रथमसाक्षात्कारेणैवाविद्यागताया आवरणशक्तेर्निवर्तितत्वात् विक्षेपशक्तावेकदेश एवं शिष्ट इत्याह । अयमपि पक्षो न युक्तः । प्रपञ्चनिवर्तकं तत्त्वज्ञानं शिष्यमाणशतयंशातिरिक्तसर्वप्रपञ्चमात्रनास्तित्वविषयकम्, उतैतद्विषयकमपि । नाद्यः ; तावन्मात्रमिथ्यात्वग्राह क्रप्रमाणाभावात् । नान्त्यः ; सर्वविषयकत्वे कतिपयपरिशेषायोगात् । भगवदिच्छया सर्व संभाव्यत इति चेत्-न; भगवतोऽपि निर्विशेषतत्वज्ञाननिवर्तनीयत्वेन सङ्कल्पयितुरेवाभावात् तत्परिशेषायोगात् । न च शुक्तितत्त्वज्ञानेऽपि भगवत्संङ्कल्पवशात् रजतबुद्धिर्न निवर्तत इति क्वचिदनुभूतमस्ति । अपि च केयं बाधितानुवृत्तिर्नाम ? न तावत् बाधितस्यानुवृत्तिः । बाधितत्वानुवर्तमानत्वयोर्विरोधात् । ननु बातितत्वं वस्तुतो नास्तीति गृहीतत्वम् एवं गृहीताप्यनुवृत्तिर्भवितुमर्हति इति चेत् — श्रवणकाल एव सर्वनास्तित्वग्रहणस्य संपन्नत्वेन तदाप्रभृत्येव बाधितानुवृत्तिः सुवचेति किमिति जीवमुक्तमात्रविषये तदुक्तिः ? अथ बाधितसजातीयस्यानुवृत्तिः ; द्विचन्द्र , ૨૪૪

पीतशङ्खादौ तथा भावादिति चेत् — तदेव दुर्वचम्, दोषस्यापि बाधितत्वादित्युक्तम् । यदा च जीवन्मुक्तः स्वेन कदाऽप्यपरिचितमचिम्तितचरं विज्ञानिभिरुत्पादितमन्यद्वा पश्यति, अश्रुतं वा शास्त्रार्थे मतान्तरं वा शृणोति, तत्र कथं बाधितानुवृत्तिः ? न चेत्, स न जीवन्मुक्तः । बाधितस्यानुवृत्तिर्हि जीवन्मुक्तेषु वर्णिता । जीवन्मुक्तिनिरासेऽपि निरस्तैषा भविष्यति ॥ प्राच्यं नव्यं बहुविधमपि ग्रन्थकं दर्शयन्तो ऽप्यस्मद्भाये यदिह भणितं नेशते तन्निषेद्धुम् । व्यक्तं वक्तुं तदुपरि लसत्यस्मदाचार्यसूक्तिः भाव्या नेतः कथमपि बुधैर्बाधितस्यानुवृत्तिः ॥ श्रीः