भगवति पुरुषार्थ शाश्वतं दातुकामे श्रुतिविहितमुपायं साधु सद्भ्यश्चरद्भ्यः । निखिलमिदमतथ्यं हन्त सञ्चिन्त्य केचित् निजगदुरविधेयाः ज्ञानमेवा विधेयम् ॥ सर्व ज्ञानं विधेयमिति वा, अविधेयमिति वा न विशिष्टाद्वैतिनः नाप्यद्वैतिनः स्थापयितुं पारयन्ति । अस्ति किञ्चित् पुरुषतन्त्रम् । अस्ति चान्यत् ; यथा प्रत्यक्षं वस्तुप्रमाणोभयतन्त्रम्, अनुमानादि तु प्रमाणतन्त्रमिति । उक्तं हि शतदूषण्यामेव " यत् पुनः वाक्यतः सिद्धस्यैव ज्ञानस्य विधेयस्वं न संभवतीति, तदस्माकमिष्टमेव " इति । तत्रादृष्टविधया ज्ञानस्य मुक्तिहेतुत्वमातिष्ठमानाः विधेयं ज्ञानमुपायमिच्छन्ति । तत्त्वसाक्षात्कारस्य मिथ्याज्ञाननाशकत्वस्य लोके दर्शनात् तथैव ब्रह्मज्ञानस्य कारणत्वं मन्यमानास्तु अविधेयम् । एवञ्च, " द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इत्यत्र दर्शनं तत्तदभिमतमुक्ति हेतुज्ञानपरम् । अत्र, ‘तव्यप्रत्ययचतुष्टयमप्यनपेक्षितम्, ज्ञानस्याविधेयत्वात् । सर्वमिदं वाक्यमेव वा व्यर्थम् ; तत्त्वमसीति शब्दश्रवणत एव ज्ञानस्य जायमानत्वात् । अतो बहिः प्रवृत्तिविमुखीकरणार्थमिति अद्वैतिनिष्कर्षः । एवञ्च विधेयज्ञानस्य मोक्षहेतुत्वाभावः जगन्मिथ्यात्वसिद्धयधीनः । अविधेयज्ञानस्याहेतुत्वञ्च जगत्सत्यत्वसिद्धयायत्तम् । एवञ्चास्य पृथग्विचार एवानपेक्षितः । तदिदं शतदूषण्यामेव निरदेशि, “सिद्धे विश्वस्य मिथ्यात्वे धीमात्रात् तन्निवर्तनम् । तदेव न घटेतेति यथावदभिधास्यते ॥” इति ॥ एवं स्थिते ज्ञानं विधेयमिति ज्ञप्तये इदमारभ्यते । तत्र द्रष्टव्य इत्यादिप्रत्ययस्वारस्यमपि प्रदश्यते । तत्र यदुच्यते " विष्णुरुपांशुयष्टव्यः " वक्तव्यम् -तत्र “ उपांशुयाजमन्तरा इत्यादाविवाविधित्वं न दोष इति तत्रेदं यजति” इति वाक्यत एव यागस्य विहितत्वात् अत्र विष्णुवाक्यादौ विभि २२०
विषयत्वमनूद्यत इतीष्यते ; न तु बाधितमिति । इह तु प्रमाणपरतन्त्रे ज्ञाने विधिविषयत्वं न भवतीति भवदिष्टत्वात् अन्ययवाध इति वैषम्यम् । वयं तु ज्ञानस्य विधिविषयत्वं संभवतीति ब्रूम इति नान्वयबाधः । परं तु बहुतव्यप्रत्ययश्रवणेऽपि " एकं वृणीते, द्वौ वृणीते, त्रीन् वृणीते " इत्यत्रेव संभवत्येकवाक्यत्वे वाक्भेदस्यान्यायत्वात् एकस्य वा तव्यप्रत्ययस्य विधिपरत्वमावश्यकमिति ब्रूमः । 66 तत्र च निदिध्यासितव्यः’ इति अन्तिमतव्यप्रत्ययो विधायकतद्विधानार्थमन्यत् त्रयमपेक्षितानुवादमात्रम् । अत एव ‘द्रष्टव्य’ इत्यस्यान्तेऽनुक्तिः ॥ यत्तु – ज्ञानस्य वृत्त्युपहितचैतन्यरूपतया वृत्त्युपहितत्वेन रूपेण भाव्यत्वम् । वृत्तेर्भावार्थत्वेऽपि वृत्त्युपहितस्य न भावार्थत्वम् । चैतन्यस्य स्वरूपतः अंशत्रयविशिष्टभावनाननुप्रवेशेऽपि वृत्त्युपहितत्वेन रूपेणानुप्रवेश इति इदं मिथो विरुद्धम् ; भाव्यत्वादिवत् भावार्थत्वस्यापि संभवात् । तदसंभवे तुल्ययुक्तया अन्यस्याप्यसंभवात् । यत्तु श्रवणमनननिदिध्यासनानामपि न विधेयत्वमित्येव भामतीमतम् । विवरणमते तेषां विधेयत्वेऽपि न ज्ञानरूपत्वमिति, तन्न ज्ञानं हि द्विविधम् । पुरुषतन्त्रमपुरुषतन्त्रञ्च । तत्र प्रथमं मानस क्रियात्वेनापि व्यपदिश्यते ; कृतिसाध्यत्वात् । तावता न ज्ञानत्वापलापः । सर्वस्यापि ज्ञानस्य धात्वर्थत्वरूपक्रियात्वसंभवेऽपि पुरुषेच्छाधीनतयां, कर्तुम् अन्यथा कर्तुश्च शक्यतया च क्रियाशब्दव्यपदेश्यं यत् तद्विलक्षणमपुरुषतन्त्रमेव कामं भवद्भिः ज्ञानमिति परिभाष्यताम् । लोकव्युत्पत्तिस्तु नैवम् । बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् " इत्याचार्यो गौतमः, इत्याचार्यो गौतमः, यं खलु प्रमाणयति सूत्रभाष्ये, " दुःखजन्मप्रवृत्ती" ति सूत्रोदाहरणेन, 66 16 तथा चाचार्यप्रणीतं न्यायोपबृंहितं सूत्रम्" इति । सूत्रमिदं जगत्सत्यत्वं कर्मणामकृतप्रायश्चित्तानां भोगेकनाश्यत्वञ्चाभ्युपगतवता प्रणीतं महर्षिहृदयानुसारे नातीवानुकूलमिति मत्वा भामत्यामुक्तम् — “न त्वक्षपादसंमतं तत्त्वज्ञानमिह संमतम्” इति । एवमस्थानेऽपि सूत्रभाष्यगौरवितेन गौतमेन महर्षिणा, बुद्धिर्ज्ञानञ्चकमिति लोकानुभवः प्रदर्श्यमानः कथंकारमुपेक्षितुं सांप्रतम् । सूत्रभाष्ये, “पञ्चाग्नि अविधेयज्ञान-भङ्ग-प्रसाधनम् २२१ विद्यायां योषित्पुरुषादौ अभिबुद्धिर्मानसी पुरुषतन्त्रा, प्रसिद्धेऽमौ अभिबुद्धिर्न चोदनातन्त्रा" इति काचिद्बुद्धिः चोदनातन्त्रत्वात् क्रिया, काचिदतादृशीति बुद्धित्वमुभयत्र कथितम् । ज्ञानत्वमपि ह्येवमेव । एवञ्च संपद्रूपम्, अध्यासरूपं वा, आज्यावेक्षणदेवताध्यानादिरूपं वा ज्ञानमिच्छाकृतिसाध्यं क्रियापदेनापि व्यपदेश्यम् । किञ्चित्तु शुक्तिरूप्यादिज्ञानं वस्तुप्रत्यक्षादिज्ञानं वा पुरुषेच्छानिरपेक्षम् अनिच्छायामपि, माभूदिति मत्यामपि च जायमानमपुरुषतन्त्रमित्येव विभागः । किं बहुना । ब्रह्मज्ञानं क्रिया न भवतीति सूत्रभाष्ये सत्यपि भामत्याम्, ‘ब्रह्मज्ञानं मानसी क्रियापि न विधिगोचरः’ इति तस्यापि क्रियात्वमुक्तम् । अतः क्रियात्वे ज्ञानत्वं न भवतीति न । अतश्च श्रवणमनन निध्यानादेर्ज्ञानत्वे विधेयत्वं न संभवतीति न । सिद्धान्तलेशसंग्रहे श्रवणस्य विधेयत्वपक्षे व्यापाररूपत्ववर्णनेऽपि ज्ञानत्वेऽपि विधेयत्वं भवितुमर्हतीत्युक्तमेतावता । अस्तु तावत् श्रवणमननयोः प्राप्तत्वादविधेयत्वम्; ध्यानस्यात्र विधेयत्वमेव, देवताध्यानादिवत् । यद्यपि श्रवणमनननिध्यासनानां साक्षात्कार हेतुत्वं लोकक्लृप्तमिति न तत्र विधिरपेक्षित इति भवतां विवक्षितम्एवमपि प्रतिनियतगुणस्थानादि विशिष्टब्रह्मध्यानं विधेयमेव । किञ्च ध्यानस्य साक्षात्कारकारणलं कथमिति तावद्विचारणीयम् । 1 कामिनीध्यानादौ तत्साक्षात्कारो लोकसिद्ध इति चेत् — नैष वास्तवः साक्षात्कारः । वस्त्वभावेऽपि भावात् । दर्शनसमानाकारं ज्ञानं तु द्रष्टव्य इत्यत्र भवता न विवक्षितम् । ध्रुवादिभिर्भगवतो ध्याने भगवानाविरभूदित्यश्रौष्मेति चेत् — तद्ध्यानं विधिविहितं भगवदनुग्रहरूपादृष्टद्वारा साक्षात्कारहेतुरिति तद्रीत्यनुसरणे ध्यानं विधेयमापद्यते । ब्रह्मात्मैकत्वध्यानप्रीणनीयश्चानुग्राहको न कश्चिदस्तीति तद्रीत्यसंभवश्च । रत्नादेः षड्जादिस्वरस्य च ध्याने तत्साक्षास्कारो भवतीति चेत्-न; तत्र ध्यानपदेन सावधानेन्द्रियसन्निधापनस्यैव विवक्षितत्वात् । न ह्यसन्निहिते रत्नादौ ध्यानं तदर्थकरम् । इहापि तावदेव ध्यानमस्त्विति चेत् न – “श्रवणं तात्पर्यावगमः, मननमालोचनम् ; उपासन २२२
प्रत्ययावृत्तिः" इति कल्पतरुतेः । किव प्रत्यक्षायोग्य वस्तु न ध्यानेऽपि प्रत्यक्षितं भवितुमर्हति । ब्रह्म वा ब्रह्मजीवैक्यं वा प्रपञ्चनिवृत्तिर्वा न प्रत्यक्षयितुं शक्यते ; ब्रह्मणः शास्त्रैकसमधिगम्यत्वात् । ध्रुवादिगते प्रत्यक्षेऽपि न ध्यानं कारणम् । तत् अनुग्रहसंपादकमात्रम् । प्रत्यक्षं तु चक्षुरादिप्रतिनियतसामत्रयायत्तम् । प्रपञ्चनिवृत्तिस्तु प्रत्यक्षाप्रत्यक्षानेकपदार्थप्रतियोगिका नैव प्रत्यक्ष्या । योगजधर्मबलात् सर्वप्रत्यक्षमिति चेत् — स्वीकृतस्तर्हि ध्यानस्य चोदनाविषयत्वपक्षः । तज्जन्यो भगवदनुग्रह एव हि योगजधर्मः । अपि च य इत्यत्र दर्शन फलरूपः साक्षात्कारश्चेत् — तव्यप्रत्ययार्थान्वयानुपपत्तिः । एवं श्रवणादीनामपि विधेयत्वायोगे तव्यानुपपत्तिरेव । फलस्यापि सांशभावनान्वयो दृष्ट इति चेत् — सत्यम् । परंतु " यजेत स्वर्गकामः " इत्यादौ प्रवृत्त्यविषयस्यैव स्वर्गस्योद्देश्यत्वम् । " दध्ना जुहोती" त्यादौ होमस्य प्राप्ततयोद्देश्यत्वेऽपि प्रवृत्तिविषयत्वमस्ति । निर्हि कार्यद्वयम् । अज्ञातज्ञ पनमप्रवृत्तप्रवर्तनञ्चेति । तत्र ज्ञाप्यत्वं दघ्नः । प्रवृत्तिविषयत्वं तु तस्य होमादिव्यापारविशिष्टतयैव वक्तव्यमिति प्रवृत्तिविषयत्वं धात्वर्थ एवावतिष्ठते । प्रकृते दर्शनस्य फलस्य पुरुषव्यापारसाध्यत्वा स्वीकारात् तव्यप्रत्ययः र्थान्वयानुपपत्तिरेव । दर्शनसमानाकारध्यानमेव दृश्यर्थ इति मते तु दर्शनसमानाकारत्वाश्रयध्यानव्यक्तेः विधि विषयत्वस्येष्टतया संभवितया च नान्वयबाधः । ‘द्रष्टव्य’ इत्यस्य दर्शनविरोधिप्रवृत्ति मा कर्षीरित्यर्थाङ्गीकारे तु अत्यन्तजघन्यवृत्तिरापद्यते । ‘श्रोतव्य’ इत्यादौ श्रवणादेः प्राप्तत्वेन विधेयत्वत्यागेऽपि प्रवृत्तप्रवर्तनात्मकमैषरूपतव्यप्रत्ययार्थान्वयेऽनुपपत्तिर्नास्ति । एवं परिशील्यैव ध्यानमात्रविधि स्वीकृत्य दर्शनसमाना कारत्वस्य तद्विशेषणतामाकलय्य आर्षेयवरणवाक्य इवात्रैकवाक्यत्वमुक्तं श्रीभाष्यादौ । ‘द्रष्टव्य’ इत्यस्यैव प्रथम श्रुतस्य दर्शनसमानाकारत्वाश्रयध्यानव्यक्तिविधायित्वम्, ‘श्रोतव्य’ इत्यादिना तु तत्स्वरूपप्रदर्शनेन तदुपपादनमिति वाऽस्तु । सर्वथा विधेयत्वस्वीकारात् नानुपपत्तिः । अतो ध्यानस्य वस्तुसाक्षात्कारं वास्तवं प्रति कारणत्वस्य लोके क्लृप्त्यभावात् ध्यानं विधेयमिति, अविधेयज्ञान-भङ्ग-प्रसाधनम् सदुपयोग्यंशानुवादरूपमन्यदिति स्वरसपक्षोपेक्षणम्, द्रष्टव्य २२३ इत्यादेः दर्शनश्रवणमनननिदिध्यासनविरोधिप्रवृत्तीर्मा कार्षीरिति विरोधिप्रवृत्तिविमुखीकरणपरत्वरूपजघन्यवृत्तिस्वीकरणञ्च न युक्तम् । यतु -’ द्रष्टव्य’ इत्यस्य फलपरत्वाभावे फलान्तरकल्पनात् गौरवमिति तन्न । दर्शनस्य फलत्वं स्वत इष्टत्वं हि न सिद्धम् । कुत्रापि दर्शनमात्रस्य फलतायाः अक्लृप्तत्वाच्च । न च फलकल्पना; " आत्मा वाडरे द्रष्टव्यः" इत्यतः पूर्वम्, “येनाहं नामृता स्याम्, किमहं तेन कुर्याम् । यदेव भगवान् वेद तदेव मे ब्रूही" ति अमृतत्वप्राप्तिरूपस्य फलस्य श्रुतत्वात् । तदुपायस्यैव मैत्रेय्या पृष्टत्वेन द्रष्टव्य इत्युपायविधानस्यैव युक्तत्वात् । ‘द्रष्टव्य’ इति स्ववाक्यश्रुतफलग्रहणं युक्तमिति चेत्-दर्शन साक्षात्कारः कस्य फलम् ? विहितस्य हि फलाकाङ्क्षा । न च श्रवणादीनामपि विधेयत्वं भवदिष्टम् । ‘द्रष्टव्य’ इति ‘श्रोतव्य’ इत्यादि च पृथक् तव्यप्रत्ययघटितं पृथग्याक्यमित्येव स्वरसम् । तथा च स्ववाक्यश्रुतं फलमित्यपि न भवति । दर्शनस्य फलरूपतया श्रवणमपि नास्ति, स्वर्गकामः सर्वेभ्यः इतिवत् कामपद चतुर्थ्यादेरभावात् । " यत्तु प्रकरणात् फललाभ इति न सुवचम् । प्रकरणस्य क्रिययोरङ्गाङ्गिभाव एव प्रमाणत्वात् फलकर्मणोरङ्गाङ्गिभावे तदनुपयोगादिति —तन्त्र ; श्रुतिलिङ्गवाक्यप्रकरणेति तृतीयाध्यायेोक्तविनियोजकप्रमाणान्तर्गतस्य प्रकरणस्य इतिकर्तव्यताकाङ्क्षारूपस्य क्रियामात्र विनियोजकत्वेऽपि अन्यत्र प्रकरणशब्द प्रयोगस्यानुचितत्वाभावात् । मीमांसका अपि हि मन्त्राणां प्रकरणादङ्गत्वमिति लिखन्त्येव । उभयाक्राङ्क्षा प्रकरणमित्येतावन्मात्रेण स व्यबहारः । तथाचोभयाकाङ्क्षारूपस्थानप्रमाणं तत्र विवक्षितम् । अन्यतराकाङ्क्षारूपं स्थानप्रमाणमन्यदप्यस्ति । नवीनमीमांसकास्तत् समर्थयन्ते च । वस्तुतः अङ्गाङ्गिविषय एव प्रकरणपदं प्रयोक्तव्यमिति निर्बन्धोऽपि न । श्रुत्यादिशब्दानामपि मीमांसकवर्णितार्थः तत्तत्स्थलमात्रदृष्ट्या ; २२४
न तु सर्वानुगतार्थपरिशीलनेन । अतः शतया अर्थप्रतिपादनं श्रुतिरिति रीत्या सर्वमन्यथा परिष्करणीयमिति सर्व एव वेदान्तिनः सम्प्रतिपद्यन्त इति तुल्यं प्रकरणशब्देऽपि । अन्यथा, " प्रकरणाच्च “, " प्रकरणात् " इति ब्रह्मसूत्रादिषु का गतिः ? तस्मात् प्रकरणपदमिह, ‘मिथ आकाङ्क्षामूल इहामृतत्वब्रह्मदर्शनयोः फलकरणभावः इति, न तु कल्पनीयं फल’ मित्येतावत् ज्ञापयेत् । किञ्च इतिकर्तव्यताकाङ्क्षा स्वोपकार्यक्रियाकाङ्क्षाविशिष्दैव प्रकरणमिति मीमांसकपरिष्कारखीकारे यत्र क्रियातिरिक्तमेव " दध्नेन्द्रियकामस्य जुहुयात्” इति गुणफलसंबन्धविधिस्थलीयगुणरूपं दध्यादि, उक्थ्यादिसंस्थादिकञ्च फलसाधनम् अक्रियात्मकम्, तस्यापि प्रकरणान् किञ्चिदङ्गसंबन्ध संभवात् तत्र क्रियाकाङ्क्षाविशिष्टत्वरूपं दलं दुर्लभम् । वस्तुतः प्रकृतम् = प्रस्तुतम्, प्रकृत्य = प्रस्तुत्य इतिवत् प्रकरणपदार्थ ग्राह्यः । एवं “समानप्रकरण” इत्यादौ प्रकरणपदप्रयोग रीतिमनुसृत्याप्यत्र प्राकारणिकसमन्वयो भाव्यः । उपासना साध्यत्वे मोक्षस्यानित्यत्वापत्तिरिति चेत्–भवदीयो मोक्षः साध्यो न वा । आद्ये, पूर्वमेव सिद्धत्वे कृतं वेदान्तप्रवर्तनेन । अन्त्ये, कथमनित्यत्वापत्तिपरिहारः । अविद्यानिवृत्तेर्नित्या भावरूपतया न दोष इति चेत् तुल्यम् । अविद्यानिवृत्तिर्मोक्ष इति सर्वे अभ्युपयन्त्येव । नित्यानित्य विवेके च शास्त्रं प्रमाणम् । तेनापुनरावृत्तौ कथितायाम्, मोक्ष. साध्यश्चेदनित्य इति कुतर्कस्तत्र न पदं निधास्यति । अन्यथा प्रायश्चित्तेन पापनिवृत्तौ साधितायां साध्यस्यानित्यत्वात् पापपुनरुन्मज्जनप्रसङ्गः । स्वरूपाविर्भावरूपत्वाच्च नित्यत्वम् । एवं शतदूषण्यभिहितोपरिं किमप्यनुक्तैव, " उपासना ह्यदृष्टविधयैव मुक्ति साधयती" ति तदनित्यत्वापादनमापाततोऽपि न रमणीयम् । यच्च, " अविद्यानिवृत्तिः कर्मणा उपासनेन वा कुत्तो न भवेत् ; काचकामलादिदोषाणां ज्ञानातिरिक्तेनोपायेन निवृत्तिसंपादनात् ; अविद्याया अपि अविधेयज्ञान-भङ्ग-प्रसाधनम् २२५ दोषत्वाविशेषादिति शतदूषणीमधिकृत्य लिख्यते–’ अविद्यायाः काचकामलादेश्चास्ति वैलक्षण्यम् । अज्ञानं हि स्वसमानाधिकरणसमानविषयकज्ञान कनिवर्त्यम् ; यथा रज्जुत्वाज्ञानम् । काचादिस्तु नेत्रादिगतः न ज्ञानविनाश्य’ इति । तत्रोच्यते-लोके काचादिर्दोष इति प्रसिद्धिः ; न रज्जुत्वाज्ञानं दोष इति । भवद्भिश्च दोपमन्तरा भ्रान्तिर्न भगतीति लोकदृष्ट्या जगहमहेतुर्दोष आवश्यक इति स्वीकृत्य सदोषोऽप्यविधैवेति मन्यते । दोषाज्ञानयोः मिथो वैलक्षण्ये महति जाग्रत्येवाविद्याभवरूपा भवद्भिरिष्यते । एवचाज्ञानत्वाकारेण ज्ञाननिवर्त्यत्वात् अज्ञानं ज्ञानविरोधि, विद्याविरोधीत्यविद्यारूपदीपत्वाकारेण उपायान्तर निवर्त्यत्वमप्यस्तु इत्याशयकृतः शतदूषणीप्रश्नो हि समुचित एव । उपायान्तरेण काचादिनिवृत्तिर्भवन्ती न सर्वात्मना निवृत्तिः । अपित्ववस्थान्तरेण सद्भाव एवेति चेत् काममविद्याऽपि दोषत्वावस्थाप्रहाणेन शाश्वती भवतु । का नो हानिः ? दोषत्वाभावे भ्रान्त्याद्ययोगादिष्टसिद्धेः । तथाच तत्त्वज्ञानमेव नापेक्षितम् । अवस्थान्तरापन्नाविद्यासद्भावनिबन्धनस्य कस्यचिदनिष्टस्याभावात् । न चेदमस्मत्कल्पनामात्रम् । “स्मृतिलम्भे सर्वप्रथीनां विप्रमोक्षः" इत्यादिश्रुति सिद्धत्वात् । अत एवोक्तम्, ‘श्रुते तदभावात्’ इति किञ्च काचादिदोषः किं रज्जुत्वाज्ञानजनकः, उत तज्ज्ञानप्रतिगन्धकः ? नाद्यः । तदोपराहित्यदशायामपि रज्जुत्वाद्यसन्निकर्षाद्वा कारणान्तराद्वा रज्जुत्वाज्ञानसद्भावात् । ज्ञानप्रागभाव एवाज्ञानमिति पक्षे तु नतरां तज्जनकत्वं दोषस्य । अतो ज्ञानप्रतिबन्धकत्वमेव वक्तव्यम् । तथा प्रकृतेऽप्यविद्यारूपो दोषस्तत्त्वज्ञान प्रतिबन्धक एवेति तत्सद्भावे ज्ञानोदयस्यैवायोगादवश्यमुपायान्तरेण काचादिकमिव तां निवर्त्यं ज्ञानं संपादनीयम् । एवञ्च किमनेनाजागळस्तनेन तत्त्वज्ञानेन ? अथाविद्यायाः दोषत्वाकारो नेप्यत इति चेत् — अपसिद्धान्तः । एवञ्च सहकारिकारणविरहादज्ञानं न स्वकार्थं जनयेत् । अन्यथा लोकेऽपि काचादिदोषो मा भूत् । तथा सति रज्जुत्वज्ञानं तत्रापद्यत इति चेत् -अत्रापि ब्रह्मात्मैक्यज्ञानापत्तिरस्त्येव । यथा च काचादिदोषनिवृत्त्यर्थमिवाज्ञान निवृत्त्यर्थमपि कश्चित् प्रयत्नो लोके पृथङ्ग न लक्ष्यते, 29 २२६
तथा ब्रह्मात्मैक्याज्ञाननिवृत्त्यर्थविज्ञानार्थप्रयत्नोऽपि नापेक्षितः । दोषनिवर्तन स्यैव पर्याप्तत्वात् । अपि च रज्जुत्वाज्ञानं नाम किञ्चिद्वस्तु अनिर्वचनीयसर्पाद्युत्पत्तिहेतुरस्तीति स्वयं कल्पयित्वा तन्न्यायेन जगत् अनिर्वचनीयं भावरूपाज्ञानकल्पितमित्यध्यवसाय, तन्निवृत्तये तत्त्वज्ञानमावश्यकमित्युच्यते भवद्भिः । तन्न ; अज्ञानस्य स्वविषयविरोधिवस्तूत्पादकत्वस्य लोकाननुभूतत्वात् अस्याप्रामाणिकत्वात् । अविद्या नाम, " अविद्या कर्मसंज्ञाऽन्या" इति श्रीविष्णुपुराणोक्तं पुण्यपापात्मकं कर्मैव । तन्निवृत्तिश्च कर्मभिरुपासनेन वेति सुष्ठुक्तं शतदूपण्याम् । यदि च दोषस्य ज्ञानेन नाशः, अद्वैतसाक्षात्कारशालिभिः किमिति दोषशान्तये हरीतकी खाद्यते । मिथ्यात्वाध्यवसायमहाभेषजेन दोषस्य निवर्तितत्वात् । जीवन्मुक्तानामप्यविद्या यदि न निवृत्ता, तर्हि कथं ते मुक्तपदव्यपदेश्याः । मूलाविद्यानाशेऽपि शारीरदोषो न निवृत्त इति चेत् — मूले नष्टे कथमङ्कुरादि । एवं तर्हि अविद्यायां नष्टायामपि सञ्चितपुण्यपापादिनिवृत्तौ कारणाभावात् तन्निवृत्तये कर्म वोपासनं वाऽनुवर्त्यताम् । एवमविद्याशब्दस्य भावरूपाज्ञानातिरिक्तत्वज्ञानेतरनिवर्तनीयत्वादिकमपि श्लोकोदाहरणव्याजेन शातदूषण्यां दर्शितमेव, यथा हरीतकीखादः क्रियते दोपशान्तये । तद्वत् दुरितशान्त्यर्थं क्रियतां हरिकीर्तनम् ॥” इति । " एतेन ब्रह्मव्यतिरिक्त सर्वं मिथ्येति ज्ञानवतः वर्णाश्रमादिमत्त्वज्ञानाभावात् स्वकर्मादौ प्रवृत्तिर्दुर्वचेति निरस्तम् । देहित्वाद्यभिमानाभावात् हरीतकीखादेऽपि प्रवृत्त्ययोगात् । तथा क्षुत्पिपासादिमत्त्वप्रयुक्तभोजनादिप्रवृत्तिरपि दुर्घटा । एवञ्च काचकामलादिवैषम्यस्याज्ञाने उपपादनमात्मसिद्धान्ते अवद्य प्रदर्शन एव पर्यवसितमिति । एवं ज्ञानेतर निवर्त्यत्वे अविद्यायाः सत्यत्वापत्तिरिति चेत् — ततः किम् ? तत्कार्यत्वात् जगतोऽपि सत्यत्वं स्यादिति चेत् तर्हि काचकामला अविधेयज्ञान-भङ्ग प्रसाधनम् २२७ दिदोषकार्यस्य रज्जुसर्पादेः काचादिवत् व्यावहारिकसत्त्वापत्तिः, प्रातिभासि कत्वानापत्तिः । अविद्यायाः दोषविधयैव कारणत्वम् ; न तु परिणाम्युपादानत्वमिति वाचस्पतिमतस्य भवतैवोक्ततया च दोषं निदर्श्यास्मत्कृतमापादनमुचि. ततरम् । उपादानत्वस्वीकारिविवरणमतेऽपि प्रातिभा सिकरज्जुसर्पाद्युपादानं किम् ? रज्जुत्वाज्ञानमेव । तच्च तूलाविद्यारूपं न प्रातिभासिकमिति तत्कार्यस्य रज्जुसर्पादेः कथं तत्सालक्षण्यविरहः । तथा च तद्वदेव सत्यभृताविद्याकार्यस्यापि जगतः तादृशसत्ताश्रयत्वे को दोषः ? ब्रह्मण एव च विवर्तोपादानत्वस्य सर्वभवदीयसंमतत्वात् तत्र कारणवैलक्षण्यं निराबाधम् । नन्वविद्यायाः सत्यत्वे कथमद्वैतसिद्धिरिति चेत् — मा भूत् । वस्तुतस्तस्याः उपासनादिनिवर्त्यतया नित्यवस्त्वद्वैतस्य शास्त्रार्थतया स्वीकारान्नानुपपत्तिरिति वा निर्वहत । अपि च ब्रह्मात्मैकत्वविषयकवृत्तिज्ञानोत्पत्त्या अज्ञाने निवृत्ते पश्चात् ब्रह्म तत् ब्रह्मात्मैकत्वं जानाति न वा । आद्ये वृत्तिज्ञानस्य नित्यतया अद्वैतहानिः । अन्त्ये ब्रह्मणः पुनरपि तत्त्वविषयका ज्ञानप्रसंग इति अनिर्मोक्षः स्यादित्यलं सुदुरं गत्वा । यत्तु — ज्ञानेतरबाध्यत्वं काचादिवदविद्यायाः, अविद्यावत् ज्ञानबाध्यत्वं वा तस्येति विमर्श लाघवात् ज्ञानबाध्यत्वमुभयत्र युक्तमिति तदिदं मिथ्यात्वाध्यवसाय महाभेषजस्य सद्भावात् किमिति साक्षात्कृताद्वैताः दोषशान्तये हरीत कीवादनादौ घटन्त इति पृष्टचरस्यार्थस्य पुनरापादने त्वरयति । काचादिदोषं परिजिहीर्षुश्चाद्वैताचार्यमाश्रित्यार्थव्ययमन्तरा निर्दोषः स्यात् । अतः प्रत्यक्षविरुद्धं लाघवमनुपयुक्तम् । प्रत्युताविद्यायाः ज्ञानेतरनिवर्त्यत्वमेव ज्यायः । ज्ञाननिवत्यत्ववादिना ह्यनादिभेद वासनानिरसनार्थमभेद वासनाभ्यासेन आत्मा क्लेशयितव्यः । उपायान्तरं तु अभ्यस्त भेदवासनस्यापि सुकरम् ; ज्ञानयोगापेक्षयेव कर्मयोगः । वस्तुतो न लाघवगौरवविमर्शावसरः; श्रुत्यैवाविद्यामन्थिनिवर्तकतयोपासनोपदेशात् निर्विशेषचैतन्याश्रिताज्ञाननिवर्तकं ज्ञानेतरत् कुत्र श्रुतमिति२२८
चेत् — निर्विशेषस्य कस्यचिदभावात् तथा श्रवणविरहेऽपि अविद्यानिवृत्तिकरं ज्ञानेतरत् श्रुतमेव । " विद्वान् नामरूपाद्विमुक्तः " इत्यत्र विद्वत्पदं नोपासकपरमित्युक्तमपि न । यः सर्वज्ञः सर्ववित्" इति पूर्वं सगुणब्रह्मण एव भूतयोनेः प्रक्रमात् । " "" (( आत्मन आकाशः आनन्दमयत्वरूपमानन्द परात् परं पुरुषमुपैति दिव्यम् " इति, " कर्तारमीशं पुरुषं ब्रह्मयोनिम्" इति च द्युलोकस्थपुरुषविशेषप्राप्तिरूपफलश्रवणाच्च विद्वच्छन्दः उपासकपरः । " ब्रह्मविदाप्नोति परम् " इत्यत्राप्यानोतीति श्रवणात् सगुणमेव विवक्षणीयमिति प्रागेवोक्तम् । सत्यं ज्ञानमित्यत्र ज्ञानपदमन्तोदात्तत्वात् अर्श आद्यजन्तं सत् ज्ञानगुणकमित्यर्थकम् । विपश्चितेति च श्रुतम् । संभूतः" इति नियन्तृत्वमात्मशब्दादवगम्यते । प्राचुर्यञ्च । एतत् साम गायन् आस्ते " इति गानकर्तृत्वादि चावसाने फलप्राप्तौ श्रूयते । अतः सगुणमेव ब्रह्म तत्रापि विवक्षितम् । एवञ्च ब्रह्मविदानोतीत्यत्रापि सविशेषस्यैव वेद्यत्वे वेदनमुपासनमित्यत्र कः सन्देहः ? विद्युपास्योर्व्यतिकरस्थले उपासनापरत्वेऽपि सर्वत्रकार्थ्य मा भूदित्युच्यते भवता । एवमपि " द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य " इत्यत्र विद्युपास्त्योर्व्यतिकरस्थल इवोपास्तिविवक्षा स्पष्टा । द्रष्टव्य इत्यस्य फलरूपदर्शनपरत्वेष्टावपि ध्यानोपदेशात् तत्सिद्धेः । ब्रह्मविदाप्नोतीत्यत्र च शाङ्करोपनिपद्वाप्ये, विदित्यत्र श्रवणमननध्यानपर्यन्तविवक्षा, “ श्रोतव्यो मन्तव्यो निदिध्यासितव्य" इति श्रुत्युदाहरणेन दर्शिता । सगुणस्थले उपासनं पुरुषतन्त्रं विवक्षितं यथाश्रुति । निर्गुणस्थले तु श्रवणमनननिध्यासनविधिदर्शनेऽपि बहिविषयप्रवृत्तिवैमुख्यार्थमेव तावदुच्यते, न तु तत् सर्वं विधीयत" इति वैषम्यं समन्वयसूत्रभाष्यमूलकममूलमेव कल्ष्यते भवद्भिः, भर्तृप्रपञ्चादिमतमुपासना विधिपरत्वं परास्यते च । एवं स्थिते श्रवणमननयोरपि पुरुषतन्त्रक्रियारूपत्वे ध्यानवत् विधिरेव युक्तः, नानूद्यमानतेति भवदुक्तं विवरणसंमतमित्यभिमन्यमानमपि भाष्यभामत्यादिविरोधात् न वस्तुतो भवदिष्टम् । अविधेयज्ञानभज-प्रसाधनम् २२९ किन्तु केवलं परमते दोषापादनमात्रदृष्टिकृतम् । आपादनञ्चायुक्तम् । न हि पुरुषतत्रक्रियात्वे विधिरेवेति नियमः ; अप्राप्तस्यैव विधातुमर्हत्वात् । (( " स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्ष " इति वाक्यं सगुणोपासनविषयमिति भवतोच्यते । एवञ्च भूमविद्या सगुणब्रह्मविद्येति भवतेष्यते । एष्टव्यञ्च । सवा एष एवं पश्यन् एवं मन्वान एवं विजानन्”, “ भूमावेव विजिज्ञासितव्यः" इति ध्यानादिविधेः, “ सर्वेषु लोकेषु कामचारो भवति", “स एकधा भवति त्रिधा भवति " " इत्यादिसगुणफलश्रवणाच्च । परन्तु इदं " तरति शोकमात्मवित्”, "" तन्मा भगवान् "" ; भूमाधिकरणमाप्यविरुद्धम् । शोकस्य पारं तारयतु," तमसः पारं दर्शयति भगवान् सनत्कुमारः इत्याद्यनुरोधेन निर्गुणपरत्वस्य तदनुरोधे वक्तव्यत्वात् । एवञ्च " स्मृतिलम्भे " इत्यनन्वितं भवतः । वयं तु सगुणोपासनमेव तमः पारगमकं शोकनिवर्तकमातिष्ठामह इति सर्वसामञ्जस्यम् । प्रतिप्रकरणं पदे पदे भवद्भिः -इदं सगुणविषयम्; इदं निर्गुणविषयम्; अस्य प्रकरणादुत्कर्षो बहिष्कारनामा अस्यान्यार्थकल्पना इति परमः क्लेशोऽनुभूयते सगुणनिर्गुणविभागमुष्टिग्रहेण । ‘यत्र नान्यत् पश्यति नान्यत् शृणोति’ इति भूमविद्यावाक्यं भवद्भाष्ये, ‘धर्मोपपत्तेश्च’ इति सूत्रे गृहीतम्, भूमगतधर्मप्रतिपादकवाक्यान्तरग्रहणे भून्नः स्वविशेषब्रह्मतापत्तिभिया । गृहीतमपि वाक्यं भूमानं पश्यन् अन्यत् न पश्यतीत्येवार्थं प्रतिपादयति । तेन भूमद्रष्टा कश्चिदस्ति, अन्यदप्यस्ति ; परन्तु तन्न पश्यतीत्येव सिद्धयेत् । न तु सर्वाभावः । क्षुद्रपुरुषार्थवैमुख्यमेव ततोऽवसीयेत । ‘सर्व ह पश्यः पश्यतीति प्राकरणिकवाक्यान्तरानुसारेण सर्वमपि अन्यत्वेन न पश्यति, परमात्मानुभवान्तर्भूतमेव पश्यतीत्यर्थान्तरं वा वण्यताम् । द्रष्ट्राद्यपलापस्तु ततो न सेत्स्यतीत्यलमत्र । " क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे " इति वाक्यं द्रष्टव्यवाक्याभिप्रायमिति यदुक्तम् — तदपि न । द्रष्टव्यवाक्ये दर्शनरूपफलकथनं २३० परमार्थ भूषणे हि भवदिष्टम् । इदं तु कर्मक्षयोपायभूतं दर्शनमाह । “स्मृतिपदगृहीतम् इदं चैकमिति ग्रन्थिविमोक्षस्योभयत्र कथनादवगम्यते । अत एव दर्शनसमानाकारा स्मृतिरित्यैकरस्यं ब्रूमो वयम् । यत्तु पृथक् फलसाधनत्वात् न विकल्पावसर इति, तन्न गुणोपसंहारपादे, गुणोपसंहारपाढे, " विकल्पोऽविशिष्टफलत्वात्" इति सर्व विद्याविकल्पमेवाह । निर्गुणविद्यां फलान्तरपरां नैव दर्शयति । अतः तत्त्वहित पुरुषार्थास्ते सर्वथैवासिद्धा इति तत्कल्पनया विकल्पजालविनिर्मोकोद्योगो न कल्पते । " नाना शब्दादिभेदात् " इति सूत्रं विधेयविद्याभेदपरमिति सर्वभाष्यनिर्धारितम् । " स्मृतिलम्भे " इति सगुणविषयम्, दर्शनं निर्गुणविषयमिति व्यवस्थापि भाष्यभामत्यादिविरुद्धा । “विकल्पोऽविशिष्ट फलत्वात्" इति सूत्रे ‘सगुणोपासनानां ईश्वरसाक्षात्कारद्वारा फलसाधनत्वात् विकल्पः ; “काम्यास्तु” इति सूत्रे नामब्रह्मोपासनादीनामदृष्टद्वारा फलसाधनत्वात् यथाकामं समुच्चय’ इति कथनात् सगुणोपासनस्थले साक्षात्कारस्यावश्यकत्वसिद्धेः ।
अपि च, ( द्रष्टव्यः " इत्यनेन अविधेयं ज्ञानमुच्यते इति वदतामाशयः कः ? किं दर्शनस्याविधेयत्वं कृत्यसाध्यत्वात् किं वा फलत्वात् ? नाद्यः ; घटाद्यर्थ कुलालकुविन्दादिव्यापारवत् तत्त्वज्ञानार्थप्रवृत्तेः शतशो दर्शनेन ज्ञानस्य प्रयत्नसाध्यत्वस्यापि सत्त्वात् । यत्र पुरुषप्रवृत्त्यभावेऽपि, ज्ञाने द्वेषसद्भावेऽपि प्रमाणसमावेशबलात् ज्ञानं जायते, तत्र कामं प्रयत्नसाध्यत्वं मा सैत्सीत् । यदि ज्ञानानुकूलमनः प्रणिधानश्रोत्रसंविधानाद्यर्थैव प्रवृत्तिः ; न तु साक्षात् ज्ञानार्थमित्युच्यते ; तर्हि कुलालादिकृतिरपि कारकव्यापारनिष्पादनार्थेति व्यवधानात् घटादिरपि कृत्यसाध्यः स्यात् । अतः तत्तत्कार्यकारणसमवेत क्रियोत्पादककृतिमत्त्वेनैव पुरुषस्य तत्तत्कर्तृत्वम् । तत् यत्र घटायोन्मीलित चक्षुः घटं पटं च दर्शयति, तत्र घटज्ञानं कृतिसाध्यम्; पटज्ञानं स्वत इत्येवं विवेचनीयम् । ननूभयोः शिष्ययोः अवहितमनसोरेकस्य ज्ञानं जायते, अन्यस्य न जायते ; अतो न कृतिसाध्यत्वं ज्ञानस्येति चेत् — न ; अविधेयज्ञान-भङ्ग-प्रसाधनम् २३१ कालदृष्टादिवत् कारणान्तरपौष्कल्यवतः पुंसः ज्ञानं कृतिसाध्यमित्येव स्वीकारेणादोषात् । अथ व्यापार एव लोके विधिविषयः, व्यापारावेशवशाच्च सिद्धवस्त्वपि क्वचित् । न तु कृत्युद्देश्यस्य विधिविषयत्वम् । घटपटादेः कृतिसाध्यत्वेऽपि विधेयत्वं न लक्ष्यते । तथा ज्ञानमपि । तथा च फलत्वान्न विधेयत्वमिति द्वितीयः पक्ष एवास्त्विति चेत् — व्यापाराणामपि यागादीनां द्रव्यार्जनादितदर्थ व्यापारान्तरफलत्वेऽपि विधेयत्वसत्त्वात् न फलत्वमात्रमविधेयत्वे प्रयोजकम् । किन्तु भावनायां तदा फलत्वेनान्वयः । एवञ्च पातकानां प्रणाशार्थं पश्य सेतुमनुत्तमम् । आपीठात् मौळिपर्यन्तं पश्य वा पुरुषोत्तमम् ॥’ इत्येवं फलान्तरोद्देशेन दर्शनादिविधिरुपपन्नः । एवमाज्यवेक्षण दिविधिरपि यागादौ स्पष्टः । तत्र कृतिसाध्यत्वविधेयत्वयोः स्वीकार एवोचितः । अस्त्वेवम्, अथाप्यत्र, “द्रष्टव्यः" इत्यत्र दर्शनं फलत्वेनैवान्वेति भावनायामिति चेत्न विधेयान्तराश्रवणात् । विधौ विधेयान्वयो मुख्यः ; फलं तु उपात्तं चेत्, अन्वेति ; नो चेत्, कल्प्यत इत्येव सर्वत्र स्थितिः । श्रवणमनननिदिध्यासनविषये तु पृथक् विधिश्रवणात् न तत्रान्यतमस्यात्र विधेयत्वेनान्वयसंभवः । अपि च दर्शनशब्दार्थस्य तत्त्वसाक्षात्कारस्य किं फलान्तरमस्ति ; किंवा परमं फलमिदमेव । आद्ये तत्राविद्यानिवृत्त्यादावस्य साधनत्वात् करणत्वेन भावनान्वयो न विरुध्यते । अन्त्यस्तु न । सुखदुःखनिवृत्त्युभयविलक्षणस्य दर्शनस्य परमफलत्वायोगात् । तत्त्वसाक्षात्कारस्यैवाविद्यानिवृत्तिरूपत्वस्येष्टतया परमफलत्वमिति चेत् तस्य साक्षात्कारस्य निदिध्यासनानन्तरभावित्वात ध्यानजन्यत्वमेव मोक्षस्य स्वीकृतं स्यादित्यस्मिन्नंशे अस्मत्पक्षाद विशेषः स्यात् । तथा च ‘ध्यानान्मोक्ष’ इत्येतन्न दूष्यम् । किञ्च दर्शनमिदं वृत्तिरूपं वा २३२
ब्रह्मैव वा । आद्ये वृत्तेरविद्यापरिणामत्वात् नाविद्यानिवृत्तिरूपता । अन्त्ये फलत्वेनापि न भावनान्वयः ; असाध्यत्वात् । यत्तु वाक्यस्यापरोक्षज्ञानजनकत्वे आदावेव कथं तदनुत्पत्तिरित्यत्र लिखितम् —‘मननादिना भेदवासनायां निरस्तायामेव साक्षात्कारः ; विपरीतवासनायाः ज्ञानोत्पत्तिप्रतिबन्धकत्वात् । अपरोक्षमेदवासना ह्यपरोक्षसाक्षात्कारेणैव निवर्तते इति तदतीव स्थवीयः । विपरीतवासनायाः ज्ञानसामान्योत्पत्तिप्रतिबन्धकत्वे श्रवणस्यैवानुत्पन्नत्वात् कथं मननादि ? भेद वासनानिरासानन्तरं साक्षात्कार इति प्राक् विलिख्य, साक्षात्कारेण भेदवासनानिवृत्तिरिति लेखनञ्च व्याहतम् । अपरोक्षसाक्षात्कारेणेति आम्रेडनञ्च दोषः । एवं लिखितस्य व्याहतत्वेऽपि भवत्पूर्वोक्तमेव प्रकृते विवेक्तव्यम् । भदवासनासद्भावेऽपि वाक्यात् प्रत्यक्ष कुतो न जायते ? मैत्र इति भेद्रवासनायां दृढायामपि चक्षुस्सन्निकर्षबलात् चैत्र इति प्रत्यक्षस्यानुभविकत्वात् । यद्यत्र प्रत्यक्षं न भवति, ततो वाक्यं न प्रत्यक्ष कारणमित्येवावसातव्यम् । पश्चात् मेदवासनाविरहादियत्सहकारेण वाक्यस्य प्रत्यक्षजनकत्वमिष्यते, तस्यैव कारणत्वमस्तु । किमन्यथासिद्धेन वाक्येन । तस्य प्रत्यक्षकरणत्वं न क्लृप्तमिति चेत् —तुल्यं वाक्येऽपि । एवं भदवासनांनिरासः किंजन्यः ? अभेदनिध्यानजन्य इति चेत्–तत एव सर्वनिवृत्तिरस्तु । किमपरोक्षेण । अपरोक्षो भेदभ्रमः अपरोक्षेणैव निवर्तनीय इति चेत् तर्हि अपरोक्षभ्रमस्य वासना हेतुत्वमपि नापरोक्षव्यतिरितेन निवर्त्यत । ‘प्राचीन भेद वासनानामभेद निध्यानबलान्निवृत्तिः । तादात्त्विकभेद भ्रमाधीनवासनास्तु भ्रमनिवृत्तौ निवर्तन्त’ इति चेत् — जातो भ्रमः स्वयमेव क्षणिकत्वात् निवर्तते । सजातीयभ्रमानुत्पादस्तु अपरोक्षज्ञानाधीनः । उत्पन्नानां वासनानां तु निवृत्तिः कथम् ? स्याद्वा सर्वासामप्यपरोक्षज्ञानाद्वा, अपरोक्षज्ञानाधीना भदवासनातो वा निवृत्तिः अपरोक्षभेदभ्रमवासनानाम् । न तु परोक्षध्यानाधीना भेद वासनातः । परोक्षस्यापरोक्षत्रम निवर्तकत्वस्य भवदनिष्टत्वात् तुल्यन्यायात् । अस्तु तथैवेति चेत् तर्हि भेद वासनासद्भावेऽप्यपरोक्षज्ञानोत्पत्तेरभ्युपगतत्वात् प्रथमत एव वाक्यादपरोक्षज्ञानमुत्पद्यताम् । अविधेयज्ञान-भङ्ग प्रसाधनम् २३३ तस्माल्लोकानुभवविरुद्धमिदम्, यद्वाक्यस्यापरोक्षज्ञानजनकत्ववर्णनम्, मेदवासनायाः अपरोक्षप्रतिबन्धकत्ववर्णनञ्च । तस्मात् पद्धतिमेनां परित्यज्येस्थे गम्यताम् । मनस इन्द्रियाणाञ्च बहिर्विषयमावण्यात् प्रत्यगाभिमुख्यं मनसः संपादयितुं चित्तवृत्तिनिरोधो ध्यानं विधीयते ; न तु भेद वासनानिरसनार्थम् । ततो ब्रह्मापरोक्षे सविलासादिद्यानिवृतौ भेदवासना अपि मिथ्यत्वाविशेषात् सहैव निवर्तन्त इति । एवञ्च योगो मनो वा दर्शनक रणं स्यात् ; न वाक्यम् । अस्तु तर्हि भामती मतो मनः करणकत्वपक्ष इति चेत् अस्तु । तथापि अविद्यानिवृत्तये दर्शनमुपायतया पूर्व विधीयते, तदर्थे पश्चात् ध्यानमित्युपपादनसंभवात् नाविधेयज्ञानवादः । प्रसिद्धश्च गीतासु योगविधिः । न च सर्वं तत् सिद्धानुवादरूपं वा स्यात्, अतत्परं वेति । यदा तु सगुणमेव ब्रह्म जीवातिरिक्तं स्थानगुणदिव्यमङ्गळविग्रहविशिष्टं भक्तियोगगोचर इति सिद्धान्तः, तदा विग्रहादेः सर्वत्रासंनिधानात्, “वृक्षे वृक्षे च पश्यामि “, " रुक्माभं स्वमधीगम्यम्” इत्याद्यनुरोधेन दर्शनसमानाकारत्वमेव ध्यानस्य सर्वत्रानुगतम् ; न तु ध्यानजन्यप्रत्यक्षम् । वस्तुतो यत्र तद्विप्रहादि विलसति, तत्स्थतया तदनुपलम्भात्; योगकाले पुरतो दृश्यमानत्वात् ; परितोऽपि दृश्यमानत्वादिति योगविज्ञेयमेतदिति यदि विभाव्यते, तदा " द्रष्टव्यो निदिध्यासितव्य” इत्युभयमेकविशिष्टार्थविधायकं सदेकं वाक्यमिति सेत्स्यति । अन्यथा फलभूतसाक्षात्कारस्य स्वतो भवतो विवक्षितत्वे, ‘द्रष्टव्य’ इति तव्यप्रत्ययायोगादिकमनि प्रागुपपादितमेव । वस्तुतः अपरोक्ष विनापि भ्रमनिवृत्तिर्भवति । दिङ्मोहालातचक्रचलवृक्षमरीचिका जलादिभ्रमानुवृत्तिरपि पीतशङ्खादाविव दोषानिवृत्तेरेव । इह तु अविद्यादोषो मिथ्या । « यत्तु " ब्रह्म वेद ब्रह्मैव भवती " त्यत्र वेदनं न भक्तिः ; भक्तचा मामभिजानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते 30 २३४
तदनन्तरम् ॥” इति भक्तेर्वेदनसाधनत्वेनैवोपदेशात् इति — तत्रोच्यते । उपातः श्लोको भवन्मतप्रतिकूलः । तथा हि-तत्र भवद्भाष्ये, यावान् यश्चास्मीत्युक्तसर्वविभूतिगुणविशिष्टपरमात्मविषयिणी तदधीन जीवगता भक्तिर्नोक्ता ; किन्तु, ‘यावान् यश्चास्मि, तादृशस्य मम सर्वविशेषणत्यागेन जीवेनैक्यज्ञानरूपा भक्ति’ रित्युक्तम् । इत्थमेव भक्तिः, " चतुर्विधा भजन्ते माम्" इत्यत्र चतुर्थी ऐक्यज्ञानरूपा वर्णिता । ऐक्यज्ञानं भक्तिरिति विचित्रेयमद्वैतिपरिभाषा न लोकशास्त्रव्युत्पत्त्यनुसारिणी । एतादृशभक्तेः ज्ञानस्य चैकत्वात्, ‘ततो मां तत्त्वतों ज्ञात्वा’ इति भत्त्यानन्तर्य ज्ञाने गीतमनन्वितम् । अनेन ज्ञानेन सगुणब्रह्मलोकगमनतत्प्रवेशादेरभावात् भवद्भिरस्वीकाराच्च ज्ञानप्रवेशयोरैक्यात्, “विशते तदनन्तरम्" इतीदमप्यनन्वितम् । भक्तिज्ञानप्रवेशानामैक्यं मा भवादृशा उल्लेखिषुरिति विमृश्यैव भगवान्, ‘ततः’ ‘तदनन्तरम्’ इत्येवमधिकमगासीदिति ज्ञायते । भगवद्भत्तथा ज्ञानमुदेतीति भवत्संप्रदायव्यवहारमात्रम् ; लोकप्रलोभनपर्यवसायि च । आन्तरस्तु भवन्मतेष्टो भक्तिशब्दार्थो भक्तिभत्तथर्थोऽतिविलक्षणः । कथञ्चित् स्वाभिमतभक्तिज्ञानादिभेदकल्पनदन्धनं तु न कृतार्थतामावक्ष्यति । ईदृशं दौःस्थ्यं सर्वमविमृश्य किमित्यस्मन्मते मुधा श्लोकार्थानुपपत्तिराविष्क्रियते । अस्माभिर्हि परभक्तिः, तदनन्तरं परज्ञान साक्षात्कारात्मकम्, ततः परमभक्तिः, ततोऽचिरादिना भगवत्पदारविन्दप्रवेशश्च यथावदङ्गीक्रियते । तच्च परज्ञानं अस्मत्प्रयत्ननिरपेक्षम्, भगवदनुग्रहकृतमिति अविधेयं स्वतो भावि । अतः परभक्त्युपरितनस्य सर्वस्य फलकोटिप्रवेशात् मोक्षार्थमस्माभिः कर्तव्यं भक्तियोगमात्रमिति तदेवोपायत्वेनेष्यते । योगी च निष्पन्नध्यानः भगवत्स्वरूपसाक्षात्कारे तेन करुणया कारिते परभत्तथा तत्प्राप्तौ त्वरमाणः, “ध योगिनः प्राणवियोगकाले यत्नेन चित्ते विनिवेशयन्ती “त्युक्तमन्तमप्रत्ययं विधिवशः प्रयत्नेन निष्पादयति । अन्यश्वावधेयम् — अत्र श्लोके “भत्तया मामभिजानातीत्युक्तमेवादरादनूद्यते, " मां तत्त्वत्तो ज्ञात्वे “ति । पूर्वार्ध एव ज्ञानस्य भक्तिजन्यत्वं स्पष्टम् । ज्ञानानन्तर्ये प्रवेशस्य क्त्वाप्रत्ययोक्तं अविधेयज्ञान-भङ्ग-प्रसाधनम् २३५ तदनन्तरमिति भवन्मतखण्डनाय पृथगध्यनूदितम् । एवं च तत इति पदं व्यर्थ मा भूदिति विशते इत्यत्रान्वयमर्हति । तत इति भक्तित इत्यर्थकम् । एवञ्च मोक्षोपायत्वं भक्तेः कण्ठोक्तम्, “भत्तया त्वनन्यया शक्यः ।” इति वाक्य इव । “ यावान् यश्चास्मि तत्त्वतः "” इति उभयविभूतिवैशिष्टये तात्त्विकत्वेन कथ्यमाने सर्वमिदं प्रतीयमानमुपेक्ष्य ऐक्यज्ञानं विवक्षितमिति कथनं गीतायाः व्याख्यानं वा प्रत्याख्यानं वेति परामृशत । मामिति भगवान् सकलकल्याणगुणविशिष्टं स्वं यदि नाविवक्षिप्यत्, ऐक्यं चेद्विवक्षितम्, ‘भत्तथा त्वामभि जानाति यावान् यश्चासि तत्त्वतः । ततस्त्वां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्’, " त्वयि चानन्ययोगेन भक्तिरव्यभिचारिणी" इत्यप्यगास्यत् । एवमपि वा " भत्तया त्वामभिजानीयां यावान् यश्चासि तत्त्वतः । ततस्त्वां तत्त्वतो ज्ञात्वा विशेयं तदनन्तरम् " इति । एतेन “ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी " इति वचनमपि व्याख्यातम् । यत्तु -ज्ञानयोगसाध्यत्वे भक्तियोगस्य समते कथं भक्तिसाध्यत्वं ज्ञानस्योच्यत इति तत्र भक्तिप्रकाराणामनेकत्वस्य लोकसिद्धत्वात् " नायमात्मा प्रवचनेने " ति श्रुतौ तत्तदुपयोगिभत्तयनेकत्वस्याभिमतत्वात्, “भत्तया शास्त्राद्वेद्मी " त्यादौ प्राथमिकश्रवणेऽपि भक्तेरपेक्षितत्वात् भक्तियोगरूपमुत्तयुपायविलक्षण विविधभक्तिग्रहणेन निर्वाहो ग्रन्थेषु दर्शित एवेति कृतं विस्तरेण । " उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्’ इत्यत्र भगवतो मुक्तात्माधीनस्थितिकत्वविवक्षा खसिद्धान्तविरुद्धेति च उक्तकृत्स्त्रार्थग्रहणेनानुभाव्यं स्वारस्यमननुभूय किमप्युद्गळितम् । भक्तपराधीनत्वं भगवतः परः सहस्रप्रमाणविदितम् । “ इमौ स्म मुनिशार्दूल किङ्करौ समुपस्थितौ” इति च किङ्करत्वं भगवान् किञ्चित्प्रकारेणाभिनन्दति । एवम्, “अननन्याधीनः सन् भवति परतन्त्रः प्रणमताम्" इत्ययं विषयः इह, ‘ज्ञानी त्वात्मैवे ‘ति भगवता ज्ञाष्यते । । २३६
7 ‘ज्ञानी स्वास्मैवे’ त्यस्य ज्ञानी मत्स्वरूपमेव अहमेव इति नार्थः । सर्वेषामपि जीवानां तत्स्वरूपत्वस्याविशिष्टत्वात् विशिष्य कथनायोगात् । अत एव ज्ञानिनं मदभिन्नतया जानामीत्यर्थोऽप्ययुक्तः । सर्वानपि हि भगवान् स्वाभिन्नत्वेन पश्यति सर्वज्ञत्वादिति । ज्ञानी मदभिन्नत्वेन स्वज्ञानवानित्यर्थवर्णनमप्ययुक्तम् । ज्ञानीत्यस्य ब्रह्मात्मैक्यज्ञानीत्येवार्थात् घटो घट इतिवत् बोधायोगात् । ’ मे मत’ मित्यस्य वैयर्थ्याच्च । अत " आत्मानं मानुषं मन्ये" इतिवत्, ‘मे मत’ मित्यस्य भगवद्वताहार्य ज्ञाननिशेषपरत्वम् । तच्च निकृष्टे उत्कृष्टारोपात्मकमभिनन्द्यं श्रोतृचमत्कारि चेति विमृश्य, आत्मशब्दस्वारस्यञ्चानुसृत्य, ‘मदधीन " स्वरूप स्थितिप्रवृत्तिकमपि ज्ञानिनं मदन्तर्यामिणं मन्ये; अन्तर्यामिणि नियम्यस्य, शेषस्य यावान् भाव उचितः, तावन्तं भावं निक्षिप मी ‘ति परमेण वात्सल्येन वदति भगवानित्यास्माकभाष्यादिगतिः । अन्यथा मे मतमिति व्यर्थम् । न केवलमंत्रैव मे मतमित्येतत् ; उदाराः सर्व एवैते " इत्येतत्प्रभृति अन्वेति । न हि भगवत्तः ऐहिकामुष्मिकप्रतिग्राहिणः भगवन्तं प्रति उदाराः वदान्याः भवन्ति । एवमपि भगवान् प्रतिगृहीतून् वदान्यान् मन्ये इत्याह । तद्वदेव स्वात्मनि मदधीनत्वज्ञानिनः अहं मदध्यक्षत्वेन मन्ये इत्याह । तन्नूनं स्वारस्यानुभवसमर्थाः भक्ताः सहृदयाः इतिहासपुराणप्रबन्धपरायणाः एतस्यार्थस्य स्वागतभाषिणः ; नान्ये । । भाष्यकारा अन्ये चाचार्या न्यायविशेषोहापोहाभ्यां वेदान्तशास्त्र परीक्षकाः स्थितप्रज्ञा एवेति भवानाह । एवमप्रामाण्यज्ञानानां कन्दिततत्त्वज्ञानोदयत एव निवृत्ताविद्याः कथमेवं भेददर्शिनः । अविद्या केनाप्यंशेनास्तीति चेत् —तर्हि अविद्या न मिध्या । प्रारब्धावसानमपि अविद्या निवृत्तौ कारणं चेत् ज्ञाननिवर्त्यत्वरूपं मिथ्यात्वं न हि सेत्स्यति । अस्मन्मते तु ईश्वरस्य जीवस्य च भिन्नत्वात सर्वज्ञत्वाज्ञत्वादिभेद काकारसत्त्वाच्च उपदेष्टृत्वउपदेश्यत्वञ्च निराबाधन् । तत्र, " कथं सर्वशरीरकत्वमात्मन्यनुसन्दधानों भगवान् खाविनाभूतमर्जुनं विनाभूतमिव मत्योपदिशती" ति भवत्प्रश्नः अर्थशून्यः प्रतिबन्धा किमपि प्रष्टव्यमिति प्रवर्तितः । विनाभूत इव किमर्थमर्जुनस्तेन अविधेयशान-भङ्ग-प्रसाधनम् २३७ मन्तव्यः ; अन्यथा किमुपदेशो न घटेत ? अद्वैतीतरेषां द्वैततत्त्वाज्ञाने अद्वैतिन एवापराध्यन्तीति न शतदूषण्यामुक्तम् । अतो नानपराधित्वोपपादने यतितव्यम् । अद्वैतिवाक्यश्रवणेना द्वैतिसंमतमिदमिति तदीयतत्त्वज्ञानस्थितेरद्वैतीतरैरप्यधिगततया अत एव तदूषणकरणाच्चाद्वैतिनामपि तज्ज्ञानमावश्यकम् ; अर्थं बुद्धा शब्दरचनेति न्यायादिति नाद्वैतिनामुपदेशकानां तत्त्वज्ञानाभावः सुवचः । तथा च तत एव विशदज्ञानादविद्या प्रथमत एव निवर्तेत ॥ ‘अपरोक्षज्ञानादेव निवृत्ति’ रित्यप्यनियतम् । आप्तोपदेशादिजन्यशाब्दादितत्त्वज्ञानादप्यज्ञाननिवृत्तेरनुभवसिद्धत्वादित्येवोच्यते । एवञ्च, ‘विशदज्ञानमेव परोक्षस्यानिवर्तकत्वे निवर्तकम् । वैशद्य तु आपरोक्ष्यरूपमिति निरस्तम् । मानाभावात् । येषां तु अदृष्टद्वारा ज्ञानस्य मोक्षसाधनत्वम्, तेषां वचन बलात् दर्शनरूपज्ञानमेव निर्वाकमिति वचनं युज्यते । दृष्टरीत्यैव तत्त्वज्ञानस्य निवर्तकत्ववादिनां तु भवतां परोक्षज्ञानस्याप्यज्ञाननिवर्तकतया लोकेऽनुभवात् अपरोक्षनियमो निष्प्रमाणकः । यत्तु विधेयस्योपासनादेर्मोक्षसाधनत्वस्वीकारे, ‘अथातो धर्मजिज्ञसे ‘ति धर्मविचारेणैव गतार्थत्वात् ब्रह्मजिज्ञासाप्रतिज्ञानं व्यर्थम् । अतो ब्रह्मज्ञानमविधेयं बोधयितुं शास्त्रमिदमिति –तत्र शारीरकतृतीयतृतीये उपासनविचारः सर्वोऽप्यनुपपन्नः स्यात् । उपासनानां धर्मताया भवदिष्टत्वेत धर्मजिज्ञास्यैव गतार्थत्वात् । तत्र तानि न विचारितानीति चेत् —तर्हि यथाप्रतिज्ञं विचारस्याविधानात् जैमिनेन्यूनता स्यात् । अतो यो धर्मः आराध्यस्य फलप्रदत्यविषयविशदज्ञानाभावेऽपि स्वयं फलसाधनत्वेनावगतोऽनुष्ठीयमानोऽपि फलायालम् । तादृशधर्मजिज्ञासा प्राकू जैमिनिचिकीर्षिता । यस्तु धर्मः आराध्यदेवताज्ञानपूर्वमनुष्ठित एव फलं दद्यात्, तद्विचारो बादरायणस्यादरणपदमासीत् । अत एव ब्रह्मणः प्राधान्यं दर्शयितुं ब्रह्मजिज्ञासैव प्रतिज्ञाता, सर्वमिदमैकशाख्यवादे व्युपादि ।२३८
- इदमप्यत्र भाव्यम् । मुक्तिसाधनतया वा भवतु साक्षात्कार साधनतया वा, यदि ध्यानं विधेयमिष्यते मुमुक्षूणाम्, तर्हि नाविधेयज्ञानवादः । यदि तु ध्यानमपि न विधेयम्, बहिर्विषयप्रवृत्तिवैमुख्यमात्रपरो ध्यानविधिः । अतः सावधानस्य स्वयमेव साक्षात्कारो भवतीति न किञ्चिद्विधेयम्, असंभवादित्युच्यते, तदेव मुख्यं द्रूप्यम् । ध्येयं वस्तु कीदृशमिति विचारस्त्वन्यः । इदञ्च बोध्यम् । ध्यानरूपत्वाभावेऽपि विधेयमेव ज्ञानं मुक्तिहेतुरिति ज्ञायते । यतो भगवता बादरायणेन तृतीयतृतीये विद्यागुणोपसंहारविचारः कृतः । सा किमसकृत्, आप्रायणाच्चावर्तिता इति तु तुरीयप्रथमे विचारयिष्यते । तृतीयचतुर्थे च आवृत्त्यादिविचारात्प्रागेव विद्यायाः श्रवणाधिकत्वं " अधिकोपदे
- शातु
- " इत्युच्यते । एवमावृत्तत्वादिनिर्णयात्प्रागेव विद्यायाः चोदनाद्यविशेषात् भेदं साधयता, " विकल्पोऽविशिष्टफलत्वात्" इत्यादिना विद्याविधि फलार्थं दर्शयता विधिविषयः सङ्कल्पपूर्वकमनुष्ठित एव विद्याविशेषः फलसाधनमिति व्युत्पाद्यते । तत्र सकृत्त्वमपर्याप्तमिति चतुर्थे विशदयिष्यते इति ।
उदितविविदिषत्वादुज्झिताः कर्मभेदाः उपनिषदुपदिष्टोपास्तयश्चाप्यपास्ताः । वचनजनिततत्त्वाभासविज्ञानमात्रा दमृतमभिनयद्भिर्वैदिकोऽर्थो व्यलोपि ॥ अजनि विविदिषेति प्राक् परित्यज्य धर्मान् श्रवणविषयवाक्यात वस्तु दृष्टं वदन्तः । विजहति च विधेयं ध्यानमास्तां तदेतत् श्रवणमपि यथार्थ नाद्रियन्ते बतैते ॥ शुभमस्तु -10% श्रीः