अथ शब्दस्य सौत्रस्य प्राच्यार्थ प्रतिपादने । ऐकशास्त्र्यं भाषितं यत् तदप्येवमनाकुलम् ॥ ८० ॥ तथाहि-पूर्वमध्यमो तरमीमांसानां वा पूर्वोत्तरमीमांसयोर्वा कर्मब्रह्मविचारयोर्वा न कश्चिदेकत्वं वक्तुं शक्नोति ; तत्तदंशभेदात् । अतः सर्व संहितमेव मिलितमेवैकं शास्त्रमिति संमन्यते । इदञ्च, ब्रह्मविचारपूर्ववृत्तत्वं कर्मविचारस्य यत् इष्टं प्राचाम्, तदुपपादकमप्यस्तीत्येवैतदुपन्यासः श्रीभाष्यादौ । यद्यप्यथशब्दस्य कर्मविचारानन्तर्यरूपार्थस्वीकारे ऐकशाच्यस्वीकारे चाद्वैतमतहानिरिति वा, तदुभयास्वीकारे विशिष्टाद्वैतमतहानिरिति वा न कथञ्चिदापतिष्यति । अतः ऐकशास्त्रयम्, विविदिषासाधनत्वमित्यादिकमपि मुख्यांशमात्रविचार प्रवृत्तैरुपेक्ष्यमेव । अत एवास्माभिः सिद्धान्तकौस्तुभे एतद्विचार उपैक्षिअथाप्यत्र मा नामाद्वैतिनां नैर्भर्यं भूदिति बोधनार्थमेवेह परमार्थप्रकाशिका यामिव किञ्चित् प्रस्तूयते । अथशब्दस्य कर्मविचारानन्तर्यमर्थ इति, शास्त्रमिति च न श्रीभाष्यकारकल्पितं किञ्चित् ; किन्तु प्राचां पन्था एवायमिति स्पष्टमद्वैतग्रन्थतोऽपि । अत एव सूत्रभाष्ये – “नन्विह कर्मावबोधानन्तर्यं विशेषः " इति प्राचां व्याख्यानं परासितुमनूदितम् । पूर्वोत्तरमीमांसे मिलिते एक (4 तत्र च विवरणे, तथा च वृत्त्यन्तरे वर्णितम्, कर्मणामधिकारपरम्परया शब्दतो वा संस्कारतया वा यथाविभाग तादर्थ्यावगमात् निःश्रेयसप्रयोजनत्वाच्चानन्तर्यवचनोऽथशब्दः अधिगतानन्तरमिति" इति वृत्त्यन्तरमुदाहारि । समनन्तरमन्याऽपि वृत्तिरुदाहृता " तत्राथातरशब्दौ प्रथम एवाध्याये प्रथमसूत्रे वर्णितौ । अथेति, पूर्वप्रकृतां धर्मजिज्ञासामपेक्ष्य अनन्तरं ब्रह्मजिज्ञासाप्रारम्भार्थः । अत इति पूर्वनिर्दिष्टस्यैवार्थस्य हेतुतामाचष्टे एकशास्त्र्य-प्रसाधनम् । ब्रह्मजिज्ञासां प्रतीति" इति । एतत् वृत्तिद्वयमपि श्रीभाष्यादृतमिति स्पष्टमिह । तत्र प्रथमवृत्तौ कर्मविचारस्यानेकप्रकार उपयोगो दर्शितः । अशोधितकर्मस्वरूपाः खलु पुमांसः कदाचित् आपातवाक्यार्थक्षोभितहृदयाः निःश्रेयसे ब्रह्मविचारफले कथं चिदनाश्वासं दध्युः । कर्मणामधिकारपरम्परायां फलस्वाम्यपरम्परायां परिशीलितायां (काम्यकर्मणां फलान्युत्पद्यमानानि क्रमेण कर्तारं कीदृशं कलयिष्यतीति विचारे वर्तित इति यावत्) ब्रह्मविचिचारयिषाप्रतिबन्धकीभूतायाः कर्मविचिचार विषाया अपसृततया ब्रह्मविचारः सुप्रसर इति एवं कर्मविचारप्रयोजनम् । इदञ्च शब्दतो ज्ञातम् । " परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्" इत्यादयश्च शब्दाः श्रीभाष्यकारादिप्रदर्शिता एव । एवं संस्कारतयाऽप्युपयोगः कर्मणाम् । " यस्यैते चत्वारिंशत् संस्काराः, अष्टौ चात्मगुणाः स ब्रह्मणः सायुज्यं गच्छति" इत्यादिवचनात् । एवं यथाविभागमुपयोगो ग्राह्यः । अत्र भामत्युक्तमप्यनुसंधेयम् " अत्र च यज्ञादीनां श्रेयःपरिपन्थिकल्मषनिर्हरणद्वारेणोपयोग इति केचित् । पुरुषसंस्कारेणेत्यन्ये । यज्ञादिसंस्कृतो हि पुरुषः आदरनैरन्तर्यदीर्घकालै सेवमानः अब्रह्मभावनामनाद्यविद्यावासनां समूलकाषं कपती “ति । अत्र प्रथमवृत्तिव्याख्याने कर्मणां तादयैवत् निःश्रेयसप्रयोजनत्वमप्युक्तम् । तेन कर्मणा समसमुच्चिंत ज्ञानमुपाय इत्यपीष्यत इव । अस्तु वा, " सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भत्तंया नित्ययुक्ता उपासते " इत्युक्तरीत्या उपासनरूपोपायकोटिप्रविष्टकरणत्रयसाध्य कीर्तनयजननमस्करणादिकर्माभिप्रायं निःश्रेयसप्रयोजनत्वकथनमिति । एवं द्वितीयवृत्तिव्याख्याने च विवरणदर्शिते कर्मावबोधानन्तर्यस्याथशब्दार्थत्ववत् विंशतिलक्षणमेकमिदं शास्त्रमित्यपि स्पष्टम् ; " प्रथम एवाध्याये” इति, “पूर्वप्रकृतां धर्मजिज्ञासाम्” इति च वचनात् । नूनमत्रापि वृत्तौ, “संहितमेतच्छारीरक जैमिनीयेन षोडशलक्षणेन’’ इति श्रीभाष्योदाहृतमपि वचनं स्यात्; अन्यत्र वा । सर्वथा पूर्वव्याख्यानमेवमिति सुनिश्चितम् । ।
एवं स्थिते, " संकर्षकाण्डानन्तर्यमपि ब्रह्मविचारस्य कुतो न मन्यते " इति भवदाक्षेपः किमनिष्टं कल्पयति ; षोडशलक्षणानन्तर्यस्यैव संमतत्वात् । इदमपि विवरणे द्वितीयवर्णके दर्शितम् — “भवति संकर्षपर्यन्ते वेदार्थविचारावसानमिति " इति । संकर्षेण ब्रह्मविचारसिद्धिर्न भवतीति श्रीभाष्यकृदभिप्रायश्च भवतैवानन्तरमनूद्यते च । द्वादशलक्षणीशेषत्वेन च संकर्षकाण्डः प्रवृत्त इति न तत्र ब्रह्मविषयक विचारस्य प्रसक्तिरपि । एवं पूर्वाचार्यैः कर्माविबोधानन्तर्यरूपेऽथशब्दार्थे, तदर्थमैकशास्त्रये च प्रदर्शिते सति तत्परित्यागेन स्वातन्त्र्येणान्यथावर्णनमयुक्तमनपेक्षितञ्चेत्यास्माकाशयः । ऐकशास्त्रयं कर्मविचारानन्तर्यरूपमर्थं कथं स्थापयेदिति चेदुच्यते-अथशब्दस्य स्वघटितवाक्यप्रकरणादिरूपपदसमुदायपूर्वभाविपदसमुदायप्रतिपाद्यानन्तर्यनिरूढत्वमनुभवसिद्धम् । अतो व्युत्पत्तिसिद्धोऽयमर्थः । यत्रैवमर्थालाभः, तत्रार्थान्तरं वा अपेक्षितबुद्धिस्थयत्किञ्चिदानन्तर्यरूपोऽर्थो वा स्वीक्रियते । यथा, ‘अथशब्दानुशासनम्’, ‘अथातो धर्मजिज्ञासा’ इत्यादौ । अथ प्राचीनोक्तमप्यनुपपन्नत्वादेवैकशास्त्र्यं नेष्यते ; कर्मावबोधानन्तर्य रूपाथशब्दार्थोऽपीति चेत्-ऐकशास्त्रयं तावत् सर्वथा भवदीयैस्त्यक्तमिति न भवता शक्यं वक्तुम्; यतः तत्स्वीकारे गमकं बहु तत्र तत्र लक्ष्यते । तदुच्यते -विवरणे द्वितीयवर्णकोपक्रमे शङ्कितम्सिद्वैव ननु ब्रह्मजिज्ञासा, अथातो धर्मजिज्ञासेति सकलवेदार्थविचारस्यो दितत्वात् " इति । अनेन धर्मजिज्ञासेत्यस्य वेदार्थ जिज्ञासेत्यर्थः प्राच्यवर्णित इति सम्यगवगम्यते । न खलु ब्रह्मजिज्ञासेत्यनेनैव, ‘सर्वे वेदा यत् पदमामनन्तीत्यादिरीत्या सर्ववेदवेद्यब्रह्मनिरूपणेनैव सर्वस्य व्याख्यातत्वात् धर्मजिज्ञासा नारब्धव्येति कश्चित् पूर्वपक्षः, तत्परिहारश्च ‘अथातो ‘धर्मजिज्ञ से ‘त्यत्र दृष्टः । सा च पूर्वमीमांसा, शारीरकमुत्तरमीमांसेति च प्रसिद्धम् । यद्यपि बादरायणो जैमिनिमिव, जैमिनिरपि बादरायणं स्वसूत्रे निर्दिशति, औत्पत्तिकस्तु " इति सूत्रे, “ तत्प्रमाणं बादरायणस्य " इति — अथापि ब्रह्मसूत्रे, ’ तदुक्त’ मित्येवं पूर्वमीमांसानुवादभूम्ना तस्याः पूर्वत्वं निर्विवादम् । 46 " "
ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् १७५ एवमपि तया सहास्याः ऐकशास्त्र्यगमकं किमित्येव प्रश्नः । तत्रेदं ग्राह्यम् प्रथमसूत्रे ‘स्वाध्यायानन्तये तु समानम्’ इत्येतद्भाय्यावतरणसन्दर्भे परिमळे, “धर्मजिज्ञासासूत्रस्य सकलवेदार्थविचारप्रतिज्ञापरत्वमात्रेणास्य शास्त्रस्य गतार्थत्वं नापद्यते । इह व्युत्पादविप्यमाणानां सिद्धब्रह्मपरवाक्यार्थनिर्णायकन्यायानां पूर्वतन्त्र व्युत्पादितेभ्यः कर्मपरवाक्यार्थ निर्णायकन्यायेभ्यो विलक्षणत्वात् । किन्तु शास्त्रारम्भप्रतिज्ञैक्येन वक्तभेदेऽपि एकप्रबन्धतामात्रं तदानीमापद्यते । तदपि सिद्धान्ते— मतान्तरमिष्यत एव । तदाश्रित्य भाव्यटीकयोः, ‘एक आत्मनः शरीरे भावात्’ इत्यधिकरणे – शङ्कोद्घाटनम् — समाधानञ्च करिष्यते" इत्युपवर्ण्य, अथ विरुद्धयोरेकमबन्धत्वायोगमाशङ्कय परिहारः प्रपञ्चेन कृत इति नाद्वैतिनां पूर्वोत्तरमीमांसयोरैकशास्त्रयमनिष्टम् । एवमपशूद्राधिकरणे, ‘शूद्रानधिकारस्य पूर्वतन्त्र एव सिद्धत्वात् पुनः कथमाशङ्केति विचार्य, ‘तत्रानमित्वं मुख्ययुक्तिः । अग्निश्चाग्निसाध्ये कर्मण्येवापेक्षितः; न विद्यायाम् ; अविद्यत्वं तु शूद्रस्य तत्रोक्तं न प्रधानयुक्तिः; किन्त्वभ्युच्चयमात्र ‘मित्येवं परिहारप्रवर्तनादप्यैकशास्त्रयमवसीयते । शास्त्रान्तरत्वे तु एकत्रोक्तस्याप्यन्यत्रोक्तिर्न दोषाय; शाखायामेकस्यां विहितस्याग्निहोत्रादेरन्यत्रापि विधानवत् । धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तिः यदि सूत्रकृदिष्टा स्यात् तं प्रति पूर्वमीमांसोत्तापशूद्राधिकरणस्याकार्यकरत्वात् पृथग्वचनमवश्यमेव हि भवति । एवं तत्र तत्र, “ तदुक्त" मिति पूर्वमीमांसोदाहरणमपि सूत्रकृत् परित्यजेत्, अजिज्ञासितधर्मणो ब्रह्मसूत्रेऽधिकृतस्य मा नाम भूत् क्लेश इति । भवताऽपि एतद्वाद-परीक्षान्तेपरमार्थतस्तु " इत्यारभ्य, इत्यारभ्य, " सर्वेषां विचाराणामैक्येऽपि न हानिः " इत्यूरीकृत मैकशास्त्र्यमप्पय्यदीक्षितोपपादितार्थप्रद्वेषभियेति किमैकशाख्यखण्डनव्यसनेन । एतदनुबन्धि भवदुक्तमै कशा स्त्र्यबाधकोपन्यसनमप्यनुपपन्नमिति प्रसक्तविचारं परिसमाप्य निरूपयेम ॥ तस्मादैकशास्त्रये सत्यपि कर्मावबोधानन्तर्यरूपार्थः परम् अथशब्दस्य नेष्यत इत्येव भवता वक्तव्यम् । उक्तं च तत् परिमळे, “न चैवं कर्मब्रह्मवि १७६
- चारशास्त्रयो रकशास्त्र्याभ्युपगमे ब्रह्मजिज्ञासासूत्रगताथशब्दस्य कर्मविचारानन्तयमर्थः स्यादिति वाच्यम्; भाष्योक्तरीत्या ब्रह्मविचारे कर्मानुष्ठानस्यापेक्षा नियमाभावेन तदप्रसक्तेः । न हि ज्वरादिवाजीकरणान्तचिकित्साप्रतिपादकानां वैद्यकसंहिताग्रन्थानामेकग्रन्थत्वमात्रेण तत्तच्चिकित्साप्रकरणं विचारयिष्यता ज्वरचिकित्सामारभ्य विचारणीयम्’ इति । तत्सिद्धमनेककर्तृकत्वं वा, विभिन्नार्थप्रतिपादकत्वं वा, समुदायप्रतिज्ञाराहित्यं वा न ऐकप्रबन्ध्यपरिग्रह विरोधि संभवति एकानुगमको पधिग्रहणेन तदुपपादने इति सिद्धम् । अत ऐकशास्त्रये वा, तदभावे वा न कर्मविचारानन्तर्यमथशब्दार्थः अनुपपन्नत्वादिति वक्तव्यम् । का तावदियमनुपपत्तिः ? निर्विशेषत्रह्मात्मैक्यसाक्षात्कारस्यैव मिथ्याज्ञाननिवर्तकत्वात् भेदावलम्बिनः कर्मणश्च तदैक्यसाक्षात्काराहेतुत्वात् प्रत्युत बाधकत्वादनपेक्षेति चेत् — अत्रान्वाख्यवादं विनैव आर्जवेन प्रत्युत्तरं तावत्, ऐक्यज्ञानं न शास्त्रार्यः । किन्तु कर्मोपजीवि उपासनमेवेति । एतद्विस्तर एव श्रीभाष्योपक्रमे । अभ्युपगम्याप्यक्यज्ञानमिदमुच्यते — यदि कर्म तत्र विरोधि, भक्तिरप्युच्चनीचपुरुषद्वय सापेक्षत्वात् विरोधिन्येवेति कथं भवन्मते भक्तिसाध्यत्वं ज्ञानस्य ? यदि भक्तिभगवदनुग्रहरूपा अदृष्टविधया कारणम्, तथा कर्माप्यस्तु; भक्तेः कर्माङ्गकत्वाच्च तदर्थे कर्मणामत्याज्यतैव 1 कर्मणां कल्मषनिवईणत्वस्येष्टत्वात् निबर्हित एवं कल्मषे सत्त्वविवृद्धया साक्षात्कारमा वादपि कर्माणि न त्याज्यानि । काम्यानि कर्माणि कथं कल्मषहरणानीति चेत् मा भूवन् काम्यप्रयोगे तानि तथा ; ‘विविदिषन्ति यज्ञेने ‘ति विनियोगबलात्तु भविप्यन्ति । वेदनेच्छाजनकत्वमेव ततः कर्मणामिप्यत इति चेत् — नैष नियमः भवन्मते वेदनसाधनत्वस्यापि कर्मसु संप्रतिपत्तेः सिद्धान्तलेशसङ्ग्रहादावुपपादितत्वात् । वेदनेच्छापक्षेऽपि वेदनं नाम किम् ? किं श्रवणमेव तर्हि, " ब्रह्म वेद ब्रह्मैव भवती “ति श्रवणमात्रे मुक्तिप्रसङ्गः । वेदनं साक्षात्कार इति चेत् तदिच्छायास्तदुत्पत्तिपर्यन्तमनुवर्तनीयत्वात् तदर्थे सिद्धं कर्मानुष्ठानम् । न च सकृल्लब्धवेदनेच्छेन पुनर्वेदनेच्छालब्धये कर्म न कार्यमिति राज्ञ आज्ञा । पौनःपुन्येन फलापेक्षायां
- ऐकशास्त्रय-प्रसाधनम्
- १७७
- कर्मावृत्तेर्वेदलोकसंमतत्वात् । भवदाचारविरोधाच्च । न चोत्पन्नायां सकृद्वे दनेच्छायां स्वत एव तदनुवृत्तिः आसिद्धीति नियमोऽस्ति । कति न सन्ति सत्पथे प्रवृत्य यथायथं कुण्ठितास्तिक्याः प्रबलकर्मप्रतिहतगतयो भ्रष्टनष्टाः प्रारम्भशूराः पुरुषमानिनः । ननु संन्यस्तस्यैव श्रवणेऽधिकारस्य सिद्धान्तसिद्धानोक्तत्वात् प्रथमतो वेदनेच्छायां सन्न्यासे कृते पुनर्वेदनेच्छाप्रतिबन्धे ऽपि न कर्मानुष्ठानप्रसक्तिः संन्यस्तत्वादिति चेन्न तदाश्रमकर्मणां तत्रावश्यकर्तव्यत्वात् । यदि न स पूर्वजन्मानुष्ठितकर्मबलादेवेह जन्मनि खतो जातवेद’नेच्छः, तदा सुतराम् । किञ्च तदा साधनचतुष्टयसंपत्त्यनन्तरमिति किमित्यथशब्दार्थ उच्यते ; संन्यासानन्तरमित्यस्यैव पर्याप्तत्वात् । चतुर्मुखलोकप्राप्त्यादिरूप मुक्तिव्यतिरिक्तफलार्थोऽपि संन्यासोऽस्तीति चेत्-न–अधिकारापादकसंन्यासविशेषस्यैव प्रकृते विवक्षणात् । वेदनेच्छामूलकः संन्यासो ह्यपेक्षितः । किञ्चैवं गृहस्थादीनां वेदान्तश्रवणं न कर्तव्यं स्यात् । तेषामपि संक्षेपशारीरकादावधि कार समर्थनादिष्यत एव गौणाधिकारितेति चेत् —तर्हि ब्रह्मजिज्ञासा नियमेन यदपेक्षते, यद्विना ब्रह्मजिज्ञासा न भवति, तदेव पूर्ववृत्तं वक्तव्यमिति कर्मावयोधं परित्यजतां भवतां संन्याससाधनचतुष्टयसंपत्त्यादिकमपि परित्याज्यमेव भवति ; तदभावेपि जिज्ञासाया भूम्ना लोकेऽनुष्ठीयमानत्वात ब्रह्मजिज्ञासां प्रति तेषामकारणत्वावधारणात् । संन्यासादिमतैव ब्रह्मजिज्ञासाविधानमुचितमिति । उचितविषये तस्य नियमेनापेक्षितत्वमेवेति चेत्-तुल्यं कर्मावबोधेऽपि ; साङ्गवेदाध्यायिनः संपन्नामापातप्रतीति शोधयितुकामस्य मुख्याधिकारिणः कर्मविचारे प्रथमं प्रवृत्त्यौचित्यम् । अथ ब्रह्मविचार इति स्थितेः ।
- 1
- किश्च भवन्मते वेदार्थविचारवैधत्वस्येष्टतया कर्मविचारं ब्रह्मविचारान्ते वा विधायैव स्वातव्यमिति ब्रह्मचारिणामुभयो रावश्यकत्वे, ब्रह्मविचारे च शारीरके कर्मविचारतो बह्वशोदाहरणात्, तत्रत्यप्रमाणाध्यायाद्यर्थापेक्षादर्शनात्, “सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषा” दित्यादौ आदिपदार्थज्ञानस्य तदभावेऽभावात्, विहितत्वाच्च पश्चात् कर्तव्यः कर्मविचारः पूर्वमेव कर्तुमुचित इत्येव धीरुदिया
- 23१७८
- परमाधभूषणे
- दिति न धर्मजिज्ञासायाः प्राक् वेदान्तविचारप्रवृत्ति संभवः । ननु कृते ब्रह्मविचारे ज्ञाते चाद्वैते वधोऽपि कर्मविचारी विरोधात् त्यक्ष्यत इति न पश्चात् तत्करणप्रसक्तिरिति चेत्-विदुषो वेदविधिकिङ्करत्वाभावात् यदि वैधत्यागः, तहिं ब्रह्मविविदिषायामुपनयनादूर्ध्वं प्रागपि वा कस्य चिदन्यजन्मानुष्ठितकर्मवशादुत्पन्नायां कर्मणां वैधानामिवाध्ययनस्यापि वैवस्य त्यागप्रसङ्गः ; उपनयनस्यापि । कथं वेदमनधीत्य ब्रह्मविविदिषेति चेत् — काममस्तूपनिषदध्ययनम् । अथवा निर्विशेषब्रह्मविविदिषोपयोगि महावाक्यमात्राध्ययनमस्तु, निषादस्थपतेर्यागान्यथानुपपत्त्या तदौपयिक भागमात्राध्ययनवत् । वेदान्ताध्ययनात् पश्चादेवापातप्रतीतिबलात् ब्रह्मविविदिषेति चेत् तर्हि साङ्गसमग्र वेदाध्ययनस्यैव शास्त्रार्थत्वात् कर्मविषयेsपि जिज्ञासा स्थास्यत्येव । " पुण्यचितो लोकः क्षीयत " इति वाक्यश्रवणात् कर्मफलास्थिरत्वज्ञानात् सा न स्थास्यतीति चेत् — “ ब्रह्मलोकमभिसंपद्यते । न च पुनरावर्तत” इति विदितत्वात् ब्रह्मविविदिषाऽपि न स्थास्यति । असत्यपि क्षयित्वश्रवणे ब्रह्मज्ञानफलक्षयित्वसंशयात् जिज्ञासानुवृत्तिश्चेत्–“अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवतीति श्रवणे सत्यपि कर्मफलस्थिरत्वसंशयो नानुवर्तत इति कथम् ? एवमपि हितोपदेशिवचनात तत्र तत्त्वनिर्णय इति यदि, तत् ब्रह्मजिज्ञासायामपि तुल्यम् । ततः किम् ? इदं ततः । निर्विशेषब्रह्मनिर्णयस्य सुखमुपदेशतस्त्वरया संपाद्यतया शारीरके मा भूत् प्रवृत्तिरिति । यदि शारीरकमुखेन निर्णये सत्येव श्रद्धापरिकर्मित भवति स्वान्तं विचारकुशलविलक्षणमनीषाणामिति मन्यते, धर्मजिज्ञासायामपि दृष्टिरियं दीयताम् । तत् सिद्धं साधनचतुष्टयाद्यभावेऽपि असंन्यासिभिरपि प्रवचनादीच्छया श्रद्धया च गुरुमुखमेव ब्रह्माजिसायाः क्रियमाणतया न साधनचतुष्टयापेक्षापि नियमेनास्तीति । एवञ्च कर्मविचारापेक्षायामत्र चानियमस्तुल्यः । न हि साधनचतुष्टयाद्यभावेऽपि. ब्रह्मविचारेऽवतीर्य निर्णीततत्त्वस्य पश्वाद्वैराग्यमुमुक्षादिसंपत्तौ संपादितचरो निर्णयो न फलेग्रहिर्भवतीति काचित् राजाज्ञा । अतस्तत्संपत्तिपूर्वकत्वे ब्रह्मविचारस्य हृद्यत्वमित्येव वक्तव्यम् । तथा अधीतसमप्रवेदस्य विचारकुशलस्य
- ऐकशास्त्र्य प्रसाधनम्
- १७९
- अक्षोभ्यनिर्णय लिप्सोरादितः कर्मविचारेण व्यक्तकर्मतत्त्वस्यैव ब्रह्मजिज्ञासावतरणं हृद्यमौत्सर्गिकचेति मन्तव्यम् । अधिकरणसारावळौ चायमर्थः समग्राहि
- श्रावण्यं प्राकू त्रिवर्गे सफलयतनतोपासना ङ्गत्वतोऽपि
- व्याख्यारूपेऽत्र शास्त्रे क्रमनियतिरसौ स्याच्च मुख्यक्रमेण ।
- मानत्वादिविचार्यः पुरत इह तथा वाक्यवेद्यात् पदार्थः
दृष्टान्तश्चोपमेयात् यदि मधु सविधे यातु चाद्रि किमर्थम् ॥” इति । अयमाशयः पूर्वमीमांसा पञ्चमाध्यायोक्तानि क्रमनियामकप्रमाणानि यथायथमत्र लक्ष्यन्ते । तावता क्रमविधिरिति न ब्रूमः ; विचारस्य वैधत्वाभावात् । रागप्राप्तश्च विचारः कृत्स्नविषयक इति तत्रैौचित्यस्थापितोऽयं क्रम इति ह्यन्यत्रोक्तम् । तत्र भवद्भिरधीतवेदान्तस्य ब्रह्मजिज्ञासोच्यते, अन्यस्य वा? अन्त्यमनिष्टम् । " स्वाध्यायानन्तयं तु समान " मिति सूत्रभाष्येऽप्युक्तेः । आद्येsपि किं कृत्स्नाध्यायिनः, किं वा वेदान्तमात्राध्यायिनः । नान्त्यः, न छुपनिषन्मात्राध्ययनं शास्त्रार्थः, “ खाध्यायोऽध्येतव्यः " इति कृत्स्नाध्ययनस्यैव विहितत्वात् । न च तर्हि सर्वशाखाध्ययनापत्तिरिति वाच्यम् ; स्वेति विशेषितत्वात् । ग्रहैकत्वाविकरणन्यायेनोद्देश्य विशेषणमविवक्षितमिति चेन्न —स्वपदवैयर्थ्यपरिहारायैव, ‘यस्योभयं हविरार्तिमाच्छे’ दित्यादौ उभयत्वादेरिव विवक्षणीयत्वात् । किञ्चोद्देश्य विशेषणस्य तत्रेवाविवक्षा, यंत्र परस्परान्वयव्युत्पत्त्यभावात् वाक्यभेदः प्रसज्यते । इह तु स्वस्याध्याय इति पष्ठीतत्पुरुषे वा, स्वश्चासावध्ययश्चेति कर्मधारये वा समासत्वात् विशिष्टार्थव्युत्पतिभावान्न वाक्यभेदप्रसक्तिः " ग्रहं संमाष्टर्टी" त्यत्र च वचनं विना प्रयोगस्यासाधुत्वात् प्रथमातिक्रमे कारणाभावादेकवचनमित्युपपत्तिः । ननु तर्हि एकशाखाध्ययनमात्रात् कथं ब्रह्मविचारः, ब्रह्ममीमांसायां बहुशाखान्तर्गतबहूपनिषद्विचारस्यैव क्रियमाणत्वादिति चेत्यतः स्वाध्यायमात्राध्ययनं विधाय विचारव्यासक्तं प्रति गुर्वभिगमनं विदधाति श्रुतिः, अतः इतरशाखानध्ययनेऽपि विचार मनुमन्यत इति स्वीक्रियताम् । अनेक १८०
शाखावचनपरामर्शप्रभवनिर्णयविषयस्याप्यर्थस्याध्ययनगृहीतस्वकीयाध्यायार्थत्वेन तदनुष्ठानतः फलसिद्धेरक्षतत्वात् । एवमेव, ‘अथातो धर्मजिज्ञासे’ त्यत्र नानाशाखावाक्य विचारात्मकमीमांसायां स्वाध्यायाध्ययनानन्तर्यवर्णनं निर्वाह्यमित्यलं प्रासङ्गिकेन । तथा च कृत्स्नस्वाध्यायसाङ्गाध्ययनसमुदितापात बुद्धेरेव पुंसो ब्रह्मजिज्ञासा वक्तव्या । स कथं सत्यां कर्मजिज्ञासायां कर्मविचारं त्यक्ष्यति । । उपदेशमात्रेण तृप्त्या विचारे न प्रवर्तेतेति तु ब्रह्मविचारेऽपि तुल्यम् । परक्षोभपरिहरणक्षमप्रकृष्टविवेक विवित्सा व्यापृतानाञ्च विशिष्टधिषणानामुपदेशमात्रतृप्तिर्न भवितुमर्हति । यदाहुः
" नो चेत् रोचेत शङ्काकबलितमनसः केवलं कोपदेशः (मी पा27 ) " इति, " आदते ब्रह्मचारी स्वविहितमनयं न स्वयं चिन्तितार्थः तद्वत् कुर्यात् गृहस्थप्रभृतिरपि मुधा तत्र मीमांसनं स्यात् । तन्नाशेषैः परोत्तथा खचरितचरणं श्रद्दधानाभिनन्द्य मूलं जिज्ञासमानैः स्वयमधिगतये निर्विशङ्को विचारः ॥ " ( 38 ) इति च । दीर्घकालादर परिश्रमसाध्येषु स्वयं सुबहु विमृश्यैव प्रवृत्तिरिति च सर्वजनीनमेतत् । श्रुतिरपि गृरुमुखाच्छ्रतेऽपि विषये मननं विदधाति “श्रोतव्यो मन्तव्य " इति, अन्यथा निर्विशङ्कप्रवृत्तिर्न स्यादिति । अन्यथा शास्त्रवश्यानां मध्ये मतिभेदाः मतभेदाश्च कथं प्रसरं लभेरन् ? कचिदेशे दोषसद्भावेऽप्यत्र गुणो भूयानित्ययमेवास्तिकानां पन्थाः । कल्पसूत्रादिना कर्मकलापनिर्णयेऽपि श्रुतिविचारे प्रवृत्तिरावश्यकी । स्मरन्ति हि श्रुतिस्मृत्योर्विरोधे तु श्रुतिरेव बलीयसीति । न च विचारमन्तरा श्रुतिस्मृतिविरोधपरिशीलनं सुकरम् । ब्रह्मयज्ञादौ प्रसिद्धेऽपि श्रौतस्मार्त प्रयोगभेदो दृश्यते । श्रुत्यनुसारायैव खलु कल्पसूत्रादीनामपि पौरुषेयत्वं स्थापितं कल्पसूत्राधिकरणे । अत एकैकोsपि कर्मविचारेऽपि सजेदेव । 1 न केवलं तद्विचारे एव, विचार्य विहातव्येषु काम्येष्वपि सजेदेव । यौवनोदे कामप्रावण्यं सर्वप्राणिसाधारणम् । अर्थप्रावण्यं पुनः अशेषास्वप्यव । ऐकशास्त्रय-प्रसाधनम् १८१ स्थासु मनुजं न जहाति। संन्यासोऽपि ख्यातिलाभपूजाप्रतीक्षां विना परमेण वैराग्येण भवन् संप्रति न लक्ष्यते । बहुमुखपरिशीलितप्रत्यक्षित कर्म फल फल्गुभावानां परमास्तिकानामपि बलवद्दृढं प्रमादि चञ्चलमेव मन इति स्थिते का कथा तत्फलस्थैर्य संभावनाडोलायितखान्तस्य नवशक्तिसक्तिरक्त निर्भरस्य बालिशस्य । नास्तिकः केवलमर्थकामयोरासजेत्; आस्तिकस्तु बालोऽर्थकामावविहाय धर्ममोक्षयोरपि सजेदित्ययमेव विशेषः । ईदृक् च बालः साङ्गाध्ययनसंपन्ना पातबुद्धिरित्थं परिशीलयेत् अल्पकालानुभाव्यस्याप्यैहिकस्य सुखस्यायम भिनन्धस्तावदास्वादः, “घरमद्य काकः वो मयूरा “दिति द्याभाणकः । तत् किमन्येन ? अथ यदीदमेव कर्ममहिम्ना स्थिरं कर्तुं शक्नुयाम, किमन्यस्य गवेषणेन । ’ को हि तद्वेद, यदमुष्मिन् लोकेऽस्ति वा न वेति’ इत्य् अपि श्रूयते । कर्मजन्यं फलं सर्वमप्यस्थिरमिति कोऽयं नियमः । फलं सर्वमस्थिरमिति कस्मान्न भवेत् । जन्यमपि किञ्चित् स्थिरं यदि शास्त्र विधित्सति, कस्तत्र प्रतिबन्धा । तस्मात् रुचिविषयं विसृज्य विलक्षणं नान्वेषणीयम् । यद्येवं कर्मविचारे अवतीर्णानामस्माकं कथमपि तत्फलेषु वैराग्यमेव कदाचिदुदियात्, तदापि न कर्मविचारः क्रियमाणो निफलो भविता । उपासनाङ्गत्वेनोपरिष्टादप्युपादेयत्वादिति । प्रतिपुरुषमेवंरीत्या विमर्शस्य सहजतया कर्मविचिचारविषेये प्रातिबध्नात्येव ब्रह्मविचारम् । इदमेव दर्शयति श्रुतिः “परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेनेति । परीक्षायां कृतायामेवाकृतं कर्म तो दुर्लभमित्यध्यवसायो भवेत्, निर्वेदश्च तदैव भवेदिति तथा निर्विण्णमधिकारिण गुर्वभिगमने प्रेरयति श्रुतिः, “ तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्” इति । अनेन कर्मविचारं कश्चित् कामं स्वयमेव वा करोतु । ब्रह्मविचारस्तु गुर्वधीन एव कर्तव्यः । “अनन्यप्रोक्ते गतिरत्र नास्ति”, “आचार्याद्वैव विद्यां विदिता साधिष्ठं प्रापत्” इत्याद्यनुसंधेयमिति दर्शितमिव । अत्र परीक्ष्येति ल्या कर्मविचारानन्तर्य ब्रह्मविचारे बोध्यत इति श्रौतोऽयं क्रमः । अपरीक्ष्य निर्वेदं नाप्नुयात् । न स स्थिरो भवेत् ; न च वास्तवः । १८२
परीक्ष्य तु निर्वेद्रमायादित्यपि विवक्षितमत्र । उपासनाङ्गत्वस्य कर्मसु सद्भावादार्थः क्रमोऽस्ति । यवागूं पचति प्राक्र; पक्काया यवाग्वा पश्चादग्निहोत्त्रं जुहोति । तथा प्राकू कर्माण्यनुतिष्ठति । ततश्चित्तकल्मषे क्षाळिते सत्त्वादिविवृद्धया ज्ञानमारोहति, वर्धते च । न च काम्यकर्मणां कल्मषहरत्वाभावात् तद्विचारो व्यर्थ इति मन्तव्यम् सर्वस्यापि कर्मणः फलान्तराभिसन्धिपरित्यागेन, ‘विविदिषन्ति यज्ञेने ‘ति विनियोगात् काम्यकर्मविचारस्यापि कार्यकरत्वात् । “सर्वकर्मफलन्यासं प्राहुस्त्यागं विचक्षणाः “, " एतान्यपि तु कर्माणि” इति च भगवानगासीत् । अतः सर्वमुपासनाङ्गम् । कदाचित् कार्यादीनि कामनयापि कर्तव्यानि भवन्ति, यदि भक्तिरन्यथा न सेत्स्यतीति निर्वार्येत । अतः काम्यत्ववेषेणापि विचारः सफलः । एवं ब्रह्मविचारः पूर्व क्रियमाणः कर्मानुष्ठानेऽवश्यमुपयुज्यत इति तु नास्ति । ऐहिककर्म देहात्मान्त्याऽपि खनुष्ठानम् । आगुन्निकं तु देहातिरिक्तात्मबुद्धिमानमपेक्षते ; नाधिकम् । अतस्त्रिवर्गप्रावण्ये किमिति मुधा ब्रह्ममीमांसया कालोऽत्यवायतेति पश्चात् क्लिश्येत च । यदाहुः- " योऽसौ शारीरकांशे निरवधिमहिमा साध्यते विश्वकर्ता यो वा को वा स भावी तदितरसदृशः सोऽपि यष्टव्य इष्टः । निर्धारस्तस्य पधादथ तु परमिहानागतावेक्षणं स्यात् कर्मेवं किं न पश्चात्तनमिति न विभोः शुद्धधीर्नात्र मृग्या (१५) इति ॥ एवं पाठक्रमोऽप्यस्ति । कर्मभागस्य पूर्वत्वात् ब्रह्मभागस्य परत्वात् । विचारभूता च मीमांसा वेदस्येतिकर्तव्यता । यदाहुः – “धर्मे प्रमीयमाणे तु वेदेन करणात्मनः । इतिकर्तव्यताभागं मीमांसा पूरविष्यति” इति । करणत्वाच्च वेदो मीमांसाया अङ्गी । अङ्गिनि कर्मपरस्य प्राथम्यात् अङ्गे विचारेऽपि कर्मविषयकस्य प्राथम्यं युक्तम् ! एवं व्याख्यानस्य व्याख्येयक्रमेण प्रवृत्तिरुचिता । अवश्यञ्च नित्यकर्मणामनुष्ठानस्य यथावत् कार्यतया तदर्थे कर्म विचारे प्रथममवतरितव्यम् । पञ्चपादिकायामप्युक्तम् — अधीतवेदस्यावश्यकरणीयानि नित्यनैमित्तिकानि अकरणे प्रत्यवायजननानि प्रतिपद्यते । ऐकशास्त्रय-प्रसाधनम् १८३ तान्यनन्तरमेवावश्यविचारणीयानीति । अतो विचारकाले प्रथमकालः नित्यकर्मविचारस्थानमासीदिति काम्यादिकर्म विचारोऽपि तदैव क्रियते लाघवात् । नित्यकर्म गतवैलक्षण्यवेदनायापि काम्यकर्म विचारोऽपि तदैव कार्यः । एवञ्च कर्मविचारब्रह्मविचारयोरापातप्रतीतिबलात् सहकरणापत्तौ तस्य कालस्य नित्यकर्मकालत्वात् तद्विचारः पूर्वमिति । एतेन ब्रह्मज्ञानविशेषस्य कर्मसापेक्षत्वेऽपि ब्रह्मविचारस्य कर्मविचारसापेक्षत्वाभावात् कर्मविचारो न पूर्वमिति निरस्तम् । बहुभिर्हेतुभिः कर्मविचारे प्रवृत्तौ प्रथमं जातायामर्थात् कर्मविचारानन्तर्य सिद्धेरप्रत्यूहत्वात् । कर्मविचिचारयिषायाः ब्रह्मविचारप्रतिबन्धकत्वस्य प्रागुक्तत्वात् ब्रह्मविचारस्य प्रतिबन्धकाभावरूपकारण सापेक्षत्वात् प्रतिबन्धका भावसंपादकतया कर्मविचारापेक्षणात् । इच्छाया विषयसिद्धिनिवर्त्यत्वात् कर्मविचिचारयिषारूपस्य प्रतिबन्धकस्य विचाराधीननिर्णयनाश्यतया प्रतिबन्धका भावसंपत्तेः । एवं विचारस्य विचारान्तरापेक्षा प्रकारान्तरेणाप्यस्ति । पूर्वमीमांसायां प्रमाणानां प्रथमाध्याये निरूपणं कस्मात् ? " मानाधीना मेयसिद्धिरिति वक्ष्यमाणस्य सर्वस्य मानापेक्षत्वात् । तच श्रुतिस्मृत्यादिरूपं प्रमाणं यथायथं ब्रह्मविचारे ऽप्यपेक्षितम् । द्वितीयाध्यायोक्तकर्म भेदकप्रमाणानां शारीरकविवक्षितोपासनभेदव्युत्पादनायापेक्षितत्वमस्ति । परविद्यानां वर्णधर्माणां दृष्टिरूपविद्यानां पाशुपतवैश्वानर विद्यादिश्रुतभस्मधारणाप्राणाग्निहोत्रादीनां मध्ये किमङ्गि, किमङ्गमित्यादि निर्णयाथ तृतीयाध्यायोक्ताङ्गताबोधकप्रमाणानि अपेक्षितानि । ‘नास्या ब्रह्मवित् कुले भवतीत्यादिश्रुतफलादीनां प्रयोजकत्वमस्ति न वेति चतुर्थाध्यायमपेक्ष्य निर्णेयम् । एवमाद्यपेक्षा व्यक्तमेवादर्शि शतदूषण्याम् । तथा, ‘विविदिषन्ति यज्ञेने ‘ति श्रुतो यज्ञो नाम कः ? स कतिविधः ? किं मासामिहोत्रवत् विलक्षणोऽयम्, प्रागुक्त एव वा । तत्रापि नित्यनैमित्तिकमात्रम्, अथ वा काम्यमपि इत्यर्थनिर्धारणं तद्वाक्यार्थघटकयज्ञरूप पदार्थविषयक विशदज्ञानाभावे दुष्करम् । सूत्रकारश्च पूर्वमीमांसोपपादितानि बहूनि दृष्टान्तविधयोपन्यस्यति । तद्विज्ञानाभावे कथं सूत्रार्थावधारणं भवति । किञ्चकर्ममात्र फलोपाय १८४
इति कर्मकाण्डादवगम्यते । कर्मज्ञानयोः समुच्चायकं वाक्यं बहु वेदान्तेषु । तत्र, लघुनैव फले सिद्धे किमर्थ गुरुचिन्तनम् । इति शीलयताऽप्यादौ युज्यते कर्मचिन्तनम् ॥ ८१ ॥ तदिदमुक्तम् — “यदि मधु सविधे यातु चाद्रिं किमर्थम्” इति । यदाहुः” अत्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् " इति । अन्यदपि भाव्यम् । वेदस्याध्ययनं विहितम् । विचारो रागप्राप्तः । अधीतो विचारितश्च वेदः कार्येषूपयोक्ष्यते । तत्राध्ययनेन संस्कृतत्वाय येन क्रमेण प्रवृत्तिः कृता, विचारणोपस्कृतत्वाय च तेनैव क्रमेण प्रवृत्तिरुचिता । अतः आदौ कर्मविचारः पश्चात्, ब्रह्मविचार इति । एतदुक्तं भवति — पूर्वमीमांसायां श्रुत्यर्थपटनस्थान मुख्यप्रवृत्त्याख्यानि हि क्रमनियामकप्रमाणानि षटू उपदिष्टानि । तानि सर्वाण्यत्र भवन्ति । तथा हि ——यथा तत्र, वेदं कृत्वा वेदिं करोतीति दर्भमुष्टिविशेष निर्माणानन्तर्य वेदि करणे क्ताश्रुतिबलात् ; तथेहापि " परीक्ष्य लोकान् " इति हि श्रुतिरस्ति । पाठश्च कर्मकाण्डस्य पूर्वम्, ब्रह्मकाण्डस्य पश्चात् । तथा जैमिनिना पूर्वमीमांसा प्रागेव कृता, पश्चादेव शारीरकं बादरायणेन । अतः " समिधो यजति, तनूनपातं यजती"तिवत् पाठक्रमोऽपि । आपातप्रतीतिजन्यकर्म ब्रह्मविचारस्थानभूतः प्रथमकालः नित्यकर्मादिपरस्य कर्मस्थानभूत एव भवतीत्यप्युक्तम् । विचारितब्रह्मापि आ जीवन्मुक्ति कर्म न त्यक्तुमर्हतीति भवत्सिद्धान्तः । अतः कर्मविचारः सर्वसाधारण एव । तथा च " साद्यस्के सह पशूनालभेत " इति वचनात् अमीषोमीयादिपशुयागत्रयस्य सह कर्तव्यत्वे सति स्थानातिक्रमसाम्यादिना सवनीयस्थाने कर्तव्यत्वे सति यथा सवनीयस्यादावनुष्ठानम्, तस्य तत्स्थानत्वात् — तथेह स्थानक्रमोऽपि । अध्ययनक्रमेण विचारक्रमः, यथा उपाकरणक्रमेण नियोजनमिति प्रवृत्तिक्रमोऽपि । अवशिष्टस्तु अर्थक्रमः प्रागत्रोपपादित एव बहुप्रकारम् । अतः " अग्निहोत्रं जुहोति, यवागूं पचतीत्यत्र एकशास्त्र्य-प्रसाधनम् १८५ यवागूंपाकाग्निहोत्रहोमयोवि कर्मब्रह्मविचारयोः साध्यसाधनभावमूलोऽथेक्रमो ऽप्यस्तीति । . एवञ्च यदुक्तं सूत्रभाष्ये, “हृदयस्याग्रेऽवद्यति, अथ जिह्वाया” इतिवत् न श्रतः क्रम इति तन्निरस्तम् । श्रौतक्रमस्य परीक्ष्येति श्रुत्या दर्शितत्वात् । अन्येषां क्रमप्रमाणानां सर्वेषामपि सद्भावाच्च । यत्तु प्रयाजपूर्णमासयोरिव न शेषशेषिभावः, दर्शेऽधिकृतस्य प्रणयनाश्रितगोदोहनादाविवाधिकृताधितकारश्च नास्तीति किं तेन ? कर्मविचारस्य प्रतिबन्धकापनयनमुखेन कारणत्वादेः पूर्वमपेक्षितताया उपपादितत्वात् । प्रकारान्तरेणापि शारीरकार्थज्ञाने कारणत्वञ्च प्रागुक्तम् । विचार्यमाणस्य कर्मणः ब्रह्मज्ञानस्य च शेषशेषिभावोऽप्यस्ति । अधिकृताधिकारो ऽप्यन्यादृशोऽस्ति । नित्यनैमित्तिकाधिकृतस्यैवोपासनेऽप्यधिकारात् । अन्यथा उपासनस्य नैष्फल्यात् । किञ्च " अथातो धर्मजिज्ञासे " त्यत्राथशब्दार्थः वेदाध्ययनानन्तमिति कथमवधारितम् ? तत्र, हृदयस्याग्रेऽवद्यति, अथ जिह्वाया” इतिवत् वाक्यं किमस्ति ? अध्ययनाभावे विचारो दुष्कर इति चेत् — इहापि अध्ययनाभावे स दुष्कर एव । एवञ्च तदानन्त उक्ते सति तस्त्रोभयमीमांसासाधारण्यात् पूर्वमीमांसाच्या वर्तनाय तदानन्तर्य सहिताध्ययनानन्तर्यमथशब्द विवक्षितम् । तत्र कर्मविचारानन्तर्ये कथिते अध्ययनानन्तर्यमप्यर्थसिद्धमिति तावन्मात्रोक्तिरिति स्वरसमेतत् । 66 1 । " यत्क्तं परिमळादौ – शारीरक एव पूर्वमीमांसातोऽधिगन्तव्यं सर्वमधिगमितं बादरायणेनैवेति न पूर्वमीमांसापेक्षा । " अत एव च नित्यत्वम्" इति वेदनित्यत्वस्थापनात् ; तथा " नानाशब्दादिभेदात् " इति भेदकप्रमाणकथसर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् " इति शाखाभेदेन विहितार्थ भेदाभावस्याप्युक्तेः ; “श्रुत्यादिबलीयस्त्वाच्च न बाधः” इति श्रुतिलिङ्गादिकथनाच्चेत्यादि तदिदमहृदयम् । यदि वेदप्रामाण्यस्थापनाभावे ब्रह्मनिरूपणं न श्रद्दध्यादिति तन्निरूपणमत्रेष्टं स्यात्, प्रारम्भ एव वेदनित्यत्वं सूत्रयेत् । नात् ; 24 १८६ }
अत एव च नित्यत्व" मिति सूत्र-भङ्गी तत्सूत्रस्थानञ्च तत्स्थापनस्यान्यादृशीं प्रसक्ति प्रकटयतः । पूर्वमीमांसामूलप्रामाण्यनिश्चयाधीनं वेदान्तविचारं सर्वं बहुदूरं कृतवतैव प्रसङ्गात् देवताविग्रहाद्यङ्गीकारे अनित्यार्थसंयोगादप्रामाण्यं स्यादिति प्रामाण्य-भङ्गमिया पृच्छन् हि समाधीयते ; न तु प्रामाण्यप्रतिषेधी नास्तिकः । एवं ’ शब्दादि ‘, ’ चोदनादि ‘, ’ श्रुत्यादि ’ इति आदिशब्दघटितवाक्यैः सिद्धानुवादिभिरेव तानि तान्युद्दिष्टानि लक्षितानि परीक्षितानि चेति को नाम समन्येत । तस्मात् सर्वमिदं पूर्वमीमांसोपजीवनस्यैव स्थापक मिति सहृदय भाव्यम् । तत् सिद्ध कशाम्यवादे कर्मविचारानन्तर्यरूपार्थस्वीकारे च न काचिदनुपपत्तिरिति । निष्कृष्टञ्च पूर्णशास्त्रप्रमेयमुक्तमधिकरणचिन्तामणौ " प्रथमकाण्डप्रतिपन्नसर्वकर्म समाराधनीय-मध्यमकाण्डप्रतिपन्नस देिवतान्तर्यामिरूपं परं ब्रह्म चरमकाण्डे प्रतिपाद्यते" इति अनयवोपपादनसरण्या शतभूषणयुक्तं सर्व समाहितप्रायम् । अथापि विशिष्याप्यनूय वैशधाय परिहारमार्गः प्रदर्श्यते । अथशब्दस्य प्रथम सूत्रगतस्य सङ्कर्षकाण्डानन्तर्यमर्थः कुतो न भवतीति प्रश्नस्तावन्न युक्तः । तस्यास्माभिरिष्टत्वात् । परन्तु सङ्कर्षकाण्डस्य द्वादशाध्यायीशेपत्वात् साङ्गकर्म विचारानन्तरमित्यर्थवर्णनम् । अत एव संकर्षकाण्डस्य पृथगुपासनापरत्ववर्णनमपि नावश्यमेष्टव्यम् । यद्यपि संकर्षकाण्डे चतुर्ध्वध्यायेषु " खरूपमादौ तद्भेदः तदु । पासनपूर्वकम् । फलञ्च देवताकाण्डे देवतानां तु कथ्यते " इति अधिकरणचिन्तामणौ (5 लोके) देवताकाण्ड ।ध्यायार्थसंग्रहः कृतो लक्ष्यते यद्यपि च, " अन्ते हरौ तद्दर्शनात् तं ब्रह्मेत्याचक्षते " इति संकर्षकाण्डान्तिमांश उदाह्रियते अथापि तत्र न नैर्भयमाचार्याणाम् । अत एव शतदूषण्याम्, " तत्त्वविदां संप्रदायः " इति, तत्त्वटीकायाञ्च " एवं तर्किते कर्मणि संकर्षकाण्डे चतुर्लक्षण्या तत्तत्कर्माराध्यदेवतैव स्वरूप भेदगुणप्रकर्षैर्निर कृप्यत । , 1 ऐकशास्त्रय-प्रसाधनम् १८७ तत्समाप्तौ च ’ अन्ते हरौ तद्दर्शनात् ‘, ’ स विष्णुराह हि तं ब्रह्मेत्याचक्षते’ इति विचारयिप्यमाणमुपचिक्षिपे इति तत्त्वत्वृद्धाः" इति परोक्तानुवादमात्रमकारि । अत्र संकर्षकाण्डस्य कर्मशेषत्वं स्पष्टमुपपादितम् । स्वतन्त्रोपासनपरत्वं परमतानुवादरूपेणापि नादशि । तत्त्वविदमिह माध्वनिर्दिदिक्षया प्रयुक्तमिति चाहुः । तेषु तत्त्वविदिति व्यवहारश्च प्रसिद्धः । तथा, मध्यः काण्डश्च लुप्तस्थितिः" इति तस्य दृष्टिगोचरत्वाभाव एव मीमांसापादुकायां प्रत्यबोधि । साक्षात् ग्रन्थस्यादृत्वा देवाधिकरणसारावळावपि "" “वृत्तिग्रन्थे तु जैमिन्यु परचिततया पोडशाध्याय्युपात्ता संकर्षः काशकृत्स्नप्रभव इति कथं तत्त्वरत्नाकरोक्तिः ?” इत्याशङ्कय आप्तवचनत्वात् उभयमपिं मुख्या मुख्यार्थाश्रयणेन निर्वाह्यमिति सामान्येनोक्तम् । उपलभ्यमाने च सङ्कर्पे पूर्वोदाहृतानि वचनानि न लक्ष्यन्ते । दर्शितानि तु वचनानि दैवमीमांसास्थत्वेन माध्यग्रन्थ एवोदाहृतानि । स कश्चित् संकर्षग्रन्थः काशकृत्स्नकृतः स्वादिति संकर्षनं समन्तुमर्हतीति विमर्शन प्राप्तावसरम् । तत्रोपासनादिकं का प्रमुदितमस्तु । न स जैमिनीयः ; नाप्यत्र शास्त्रे निविष्टः । एवमपि जैमिन्युक्तदेवताविषयवैशद्यविधायित्वात् सोऽपि संकग्रन्थ आस्तिकैराद्रियते । काशकृत्स्नस्य बादरायणप्रमाणीकृतपरमर्षित्वात् । अवस्थितेरिति काशकृत्स्नः इति हि परापेक्षया परिग्राह्यार्थवत्त्वेन स प्रस्तूयते । " जयति मुनिः काशकृत्स्नोऽपी " त्यादौ अपिशब्दः संकर्षकृतं जैमिनिमपि ग्राहयति । अत एव शतदूषण्यामत्रैव वादे, " देवताकाण्डञ्च कर्मकाण्डशेषतया भाष्यकारैः परिगृहीतम् " इति शेषत्वमेव स्वाभिमतमुक्तम् । " । " परिमळोक्तरीत्या चैतत विवरीतुं युक्तम् । तत्र हि देवताकाण्डविषयस्येति शास्त्र कदेशतया काण्डपत्र गृहीतस कर्पस्वरूपं प्रतिपादयतैवमुक्तम्"संकर्षकाण्डो न देवताविचारार्थप्रवर्तितः; किंतु द्वादशलक्षण्यविचारितनाना-૧
विषयन्याय विचारात्मकः इत्यभिधाय —— उपक्रमोपसंहारसूत्राणि निर्दिश्य कर्मशेषभूतार्थप्रकीर्ण विचारपरः संकर्षो न देवताविचारप्रधान इत्याशङ्क्य अथापि संकर्षे उपांशुयाजादिषु देवताऽस्ति न वेति, क्वचित् का देवतेति, कचित् कति देवता इति, ‘यां देवतां वषट्रकरिष्यन् स्यात् तां देवतां मनसा ध्यायेत्’ इत्यादौ किं देवताशब्दध्यानं, तदर्थध्यानं वेति विविधं देवताविचारात् तस्य देवताकाण्ड इत्य् अपि व्यवहारः’ इत्युक्तम् । अतो न जैमिनीयस्य संकर्षस्य देवतास्वतन्त्रोपासनादिपरत्वम् । " प्रदानवदेव तदुक्त" मिति ब्रह्मसूत्रपर्यालोचने च कर्माङ्गदेवतादिविचारकस्यैव संकर्षकाण्डस्य मीमांसान्तर्भावो ज्ञायते ; न तु स्वतन्त्रोपासनपरस्य । एवञ्च, ‘एतच्छास्त्रपूर्वभागात्मकात् संकर्षादेव सर्वसिद्धौ व्यर्था ब्रह्मजिज्ञासा’ इति शतभूषणीशङ्कायाः क्रियासमभिहारेण क्रियमाणायाः न कथमप्यवसरो लक्ष्यते । संकर्षस्य कार्त्स्न्येन साक्षाददृष्टत्वादेव पञ्चपादिकातद्विवरणादिष्वपि संकर्षस्पर्शमात्रं कृतम् ; न तु द्वादशलक्षणीवत् तल्लक्षणार्थाः विशिष्यानूदिताः । संकर्षान्तोपरि ब्रह्ममीमांसारम्भे प्रथमाधिकरणपूर्व पक्षप्रकारोऽपि श्रीभाष्याहतपद्धतितुल्यः प्राच्यवृत्तिकारैस्तथा तथा कृतः पञ्चपादिकायामेवानूदितः । सर्वपरिष्कारेण सैव रीतिः श्रीभाष्ये उपन्यासीति सर्वमास्माकं प्राच्यसमादृतम् ॥ 1 साम्प्रतमुपलभ्यमानसङःकर्षग्रन्थतश्चेदं स्पष्टम् यत् सङ्कर्षकाण्डः न देवता तदुपासनफलविचारात्मकः ; किंतु उपदेश दिभिन्नषट्कद्वयशेषभूतः प्रकीर्णको भाग इति । उपलभ्यमानश्च जैमिनीयः ( सङ्कर्षणकाण्ड इति च ) व्यवह्रियमाणः भास्करभट्टीयचन्द्रिकायुक्तः । प्रत्यधिकरणं तत्र पूर्वपक्षसिद्धान्तौ यथावदुपपादितौ स्तः । परं तु शाबरभाष्यवत् तत्तत्सूत्रपृथग्व्याख्यानरूपत्वाभावात् शाबरभाष्यं सङ्कर्षकाण्डीयं दृष्ट्रा शास्त्रदीपिकाभाट्टदीपिकादिच्छायया अधिकरणरचनापरत्वात् सूत्राणि न सर्वाण्यनूदितानि । तत्तदधिकरणप्रथमसूत्रप्रकमपदं तु प्रतीकरूपेण कृत्वा तत्तदधिकरणसर्वसूत्राधिक्रोडीकरणं कृतम् । तथा हि तत्र प्रथमसूत्रम्, “ अनुयजतीति अनुयजतीति" इत्येताव । 66 एकशास्त्रय-प्रसाधनम् १८९ देवादर्शि । परिमळे तुअनुयजतीत्यनुवषट्कारश्वोद्यते " इति पूर्ण सूत्र व्यलेखि । काण्डावसानाधिकरणे तु अधिकरणारम्भसूत्रे पूर्वपक्षविषयं नोपात्तम् । किन्तु तत्समापनसूत्रम्, “ विद्यते वाऽन्यकालत्वात् यथा याज्या संप्रेषः यथा याज्यासंप्रेषः" इति । पूर्वपक्षसूत्रं तु, " पशावुत्तमे प्रयाजे स्रुगादापनो न विद्यते संप्रेषितत्वात् " इतीदमिति परिमळात् ज्ञायते । एवं प्रदानाधिकरणे बादरायणाभिमते सङ्कर्षाधिकरणेऽपि, “नाना वा” इत्येतावत् प्रतीकरूपेण धृतमस्ति । समस्तं तु सूत्रम्, नाना वा देवता पृथग्ज्ञानात् " इति शाङ्करभाष्ये उदाहारि । अत्र ज्ञानादित्यस्य व्याख्यानं कैरपि न कृतम् । शाङ्करभाष्य एव पूर्व देवता पृथक्त्वादित्येव भाषितत्वात् उपलभ्यमानसंकर्षव्याख्यानेऽपि पृथकत्वादित्येव लेखनात् श्रीभाष्ये, ‘नाना वा देवतापृथकृत्वा ‘दिति प्रदर्शितः पाठ एवोचितः स्यात् पृथग्ज्ञानादिति लेखकप्रमाद इत्यध्यवसीयते इत्यन्यदेतत् ; एवं प्रत्यधिकरणं सिद्धान्तादिषु गुणसूत्राण्यपि सन्तीति अत्रत्यपरिमळा देवावसीयते । न. ना वे’त्यधिकरणस्थतया, अन्यार्थ ( प्र ) दर्शनाचेति गुणसूत्रस्योपादानात् । एतत् नानात्वधिकरण पूर्वाधिकरण सूत्रमपि " तेषां पृथक्" इत्येतावदुपात्तं भाट्टचन्द्रिकायाम् । पूर्ण तु परिमळे, " तेषां पृथक् " कृतानां निरवदानं यथाऽन्येषाम् हविः पृथकत्वात् " इति पूर्वपक्षसूत्रम् । अथ च सिद्धान्तसूत्रम्, “वचनात् सर्वेषां सहावदीयते " इति । न केवलमेतावत्, कचित् सूत्रतया मुद्रितं सूत्रनिविष्टमपि नेत्यवसीयते तथा हि-चतुर्दशचतुर्थे, “ स्थितादुत्तरम् " ( 26 ) इत्येनं सूत्रतया दर्शितम् । तदयुक्तम् । यत्रारब्धस्याधिकरणस्यासमाप्तौ मध्येचिन्तारूपाण्यधिकरणान्तराणि भवन्ति, तत्रान्तर ळिकाधिकरणावसाने आरब्धपूर्वाधिकरणशेषविवरणप्रवृत्तैर्व्याख्यातृभिः स्थितादुत्तरमित्यारभ्यत इति परिपाटी । सेयं पूर्वमीमांसाभक्षपेटिकादौ शारीरके प्रमिताधिकरण श्रीमान्ये च द्रष्टव्या । चन्द्रिकाकारः स्थितादुत्तरमिति लिलेख । सूत्रं त्वन्यदिति । तदेवमुपलभ्यमाने सङ्कर्षकाण्डग्रन्थे यथावत् सूत्रग्रहणायोगेsपि अधिकरणरचना, प्रतिपाद्यविषयेदन्ता च सुज्ञानैव । / एवमस्य देवताविचाररूपत्वाभावे कल्पतरौ देवताकाण्डेति अस्य १९०
व्यवहारः किंकृत इति विमृश्य परिमळे कथञ्चित् समर्थितम् । तदिदं तत्र तत्र विशिष्टाद्वनिकृते देवताकाण्डमिति व्यवहारेऽपि तुल्यमिति न काऽपि दूषणप्रसक्तिः । काशकृत्स्नग्रन्थस्तु वस्तुतो देवतास्वरूपादिविचाररूपः देवताकण्डशब्दव्यवहार्यः स्यात् दैवमीपांसेति च । उभयोः सङ्कर्ष प्रसिद्ध्या ग्रन्थालाभाच्च तत्र कृतो देवताकाण्डव्यवहारोऽस्यापि कल्पतरुकारेणानीतः । भामतीकारस्यापि संकर्मग्रन्थों न दृष्टिगोचर इति ज्ञायने । यो मीमांसाविषयप्रस्ताव महाकुतूहली स तत्र तंत्रवात्र नानात्वाधिकरणे विस्तरेण व्यक्तीकार्ये प्रायः शाङ्करभाष्यवाक्यानुपटनम त्रेणोपरराम । याज्यानुवाक्याव्यत्यासविधानादिकञ्च न व्यवृणुत, नापि सूत्रं प्रादर्शयत् । परिमलकृतु ग्रन्थलाभात् भवस्वामिव्याख्यानलाभाच्च यथावत् व्यवृणोत् । शाङ्करभाष्योको व्यत्यासच प्रथमद्वितीययागसंबन्धिन्योयज्ययोः द्वितीयतृतीयागपुरोनुवाक्यात्वम् प्रथमयागपुरोनुवाक्यायाः तृतीययागया ज्यात्वमित्येवंरूपो न कल्पतस्यन्थादपि सुखमवगन्तुं शक्यते । एवमत्र व्यत्यासवचनञ्च वस्तुस्थितिकथनम् । तन्निबन्धनयाज्यानुवाक्याभेदादपि प्रयोगभेद इति वक्तव्यमिह । । एवं सङ्कर्षकाण्डारम्भे पृथक देवतानिरूपणप्रतिज्ञाऽपि नास्ति । प्रकीर्णकविचारावत् अवान्तरप्रतिज्ञापि तत्र तत्र द्वादशाध्याय्यामिवेह नादृता । क्वचित् कचित्तु पादे प्राय एकविषयत्वमा कलस्य यूपपाद, इष्टकापादः, अवदानपादः, प्रेमपाद, होमपादः, कालपादः, अग्निपादः, ग्रहपादः, वरणपादः, सामिधेनीपादः, निगदादः, वषट्कारवादः इत्येवं विशेषनिर्देशोऽप्यस्ति । सर्वथा न सङ्कर्षोऽयं देवताविचारात्मा । इदमप्यवधेयन्जैमिनीयद्वादशाध्यायीसमाप्तौ शास्त्रसमाप्तिद्योतकोऽभ्यासः कोऽपि न लक्ष्यते । षोडशाध्यायावसाने तु सूत्रादिमभागः, 66 यथा याज्यासंप्रपः यथा याज्या संमैषः " इत्यभ्यस्तोऽस्ति । तेन तावत्पर्यन्त एको ग्रन्थः । तत्र बादरायणकृतरीत्या अध्यायसमाप्तिद्योतकपदाभ्यासात् शास्त्रपरिसमाप्तिद्योतकात् कृत्स्नसूत्राभ्यासाच्च वैलक्षण्येन एकभागस्याभ्यसनात् ऐकशास्त्रय-प्रसाधनम् १९१ अध्यायसमाप्तितः शास्त्रसमाप्तितश्च विलक्षणः पूर्वभागसमाप्तिरूपशो हृद्वत इति ज्ञायते । तत् सिद्धं जैमिनीयेनानेन षोडशलक्षणेन संहितं शारीरकमेकं शास्त्रमिति । " यत्तच्यते ब्रह्मविचारस्य जमिन्यभिमतत्वे संकर्ष एव तद्विचारः कृतः स्यादिति तन्न — अचार्येणाभगवता बादरायणेन चिकीत इत्यप्रवर्तितत्वात् । शेषत्वात् पुरुषार्थवाद " इति सूत्रत एव ज्ञाते जैमिनिः सत्यब्रह्मसद्भावं नेच्छतीत्युक्तिरपि न युक्ता, अन्यार्थं तु जैमिनिः’, “साक्षादप्यविरोध जैमिनि " परं जैमिनिर्मुख्यत्वात्” इति ब्रह्माङ्गीकारस्य स्पष्टं प्रतिपन्नत्वात् । न चोपासनार्थं ब्रह्मकल्पनामात्रं तदिष्टमिति सुवचम् ; उपासनप्राप्य फलभूतत्वस्य ब्रह्मणि कथितत्वात् " परं जैमिनि “रिति । न हि प्राध्यस्य तस्यासत्यता । तर्हि, “शेषत्वात् पुत्रषार्थवाद " इति कथं जैमिनिमतमिति चेत्–नात्र ब्रह्मापलापः प्रतीयते ; कर्म ब्रह्मज्ञानयोर्मध्ये अङ्गित्वं कतरस्येत्येव विचारावगमात् । तत्र जीवब्रह्मणोरैक्ये ब्रह्मज्ञानं जीवात्मज्ञानमेवेति कर्त्रात्मपरत्वं पुरुषार्थवादभूतोपनिषदाम् भेदे तु ब्रह्मजन्यत्वतच्छेपत्वतन्नियम्यत्वादिज्ञानपूर्व कर्मानुष्ठानं काम्यमकाभ्यं वा श्रेय इति सर्वथा कर्मप्राधान्यं जैमिनिशङ्कित मितिमन्तमित्यलम् । यत्तु -त्रह्मचर्यादेव संन्यस्तानां ब्रह्मजिज्ञासायां कथं कर्मविचारप्रसक्तिरिति—असंन्यस्तानामिहामुत्रफलभोगविराग विकलानाममुमुक्षूणां ब्रह्मचारिणां गृहस्थानामनन्तानां ब्रह्मविचारे साधनचतुष्टयस्य न प्रसक्तिरिति तुल्यम् । ब्रह्मविचारे प्रवर्तमानेन अनुष्ठितसर्वकर्मणा तत उपरतेनैव भाव्यमिति न नियमः । ब्रह्मचारिणा द्वितीयमाश्रमं प्रविवक्षताऽपि कर्मविचारेण कर्मफल्गुत्वावधारणसमयोपनत नित्यफलेच्छा मूलकोपायान्तरजिज्ञासेन, तस्यापि तदानीमवधारणे कृते सति पश्चात् तदुचितकाले उपयोगः स्यादिति मन्वानेन ब्रह्मविचारकरणसंभवात् । " इदमेव सञ्जातमोक्षाभिलाषस्ये ‘ति श्रीभाष्येऽप्यभिहितम् । एवं १९२
ब्रह्मचर्यात् संन्यस्तेनापि कर्मविचारः पूर्वं कर्तुं शक्यते । कर्मणस्तेनाननुष्ठास्यमानतया किमर्थं तद्विचार इति चेत् -तदनुष्ठेयकर्म कला पेयत्तावधारणार्थमेव । इहामुत्रफलभोगविरागेण मुमुक्षया ब्रह्मजिज्ञासायामवतीर्ण प्रति वैराग्यपादः कथं ब्रह्मसूत्रे प्रवर्तितः : उत्पन्नवैराग्यद्रढिम्ने इति चेत् — कर्म विचारोऽपि काम्यकर्माद्यनुष्ठान निवृत्तिदाढ्यायैव भविष्यति । मठाधिपतीनां तु महासंन्यासिनां उपसन्न शिष्यजनविपरीत बुद्धि विनिवर्तनपूर्वको चितोपदेशसिद्धयेऽपि भविव्यति । अन्यथा आदिशङ्कराचार्यादिभिः कर्मविचारः किमिति कृत इत्य् अपि विचार्यम् । न चाविचारितकर्माणस्ते इति तद्ग्रन्थेष्वधीतिभिरा क्षेतुं शक्यम् । 1 वस्तुतो धर्मविचारस्येव ब्रह्मविचारस्यापि अध्ययनानन्तयें आवश्यके सिद्धे तदा बादरायणः औपनिषद ब्रह्मविचिचारयिषया प्रवृत्तः, ‘धर्मब्रह्मसर्वप्रतिबुबोधयिषया भारतादि प्रणीतवानयं परमर्षिः कुतो नु धर्मपरवेदभागविचारं विहायैतन्मात्र चिकीर्षतीति कश्चिन्मा शङ्किष्टेति मन्यमानः, ‘जैमिनिमुखेन कर्मविचारस्य कारितत्वात् तदनन्तरं परिशिष्टब्रह्मजिज्ञासैव प्राप्ते’ त्युपदिशतीत्यतोऽपि हेतोः कर्मविचारनन्तर्यमर्थ इति । ननु विचारस्य वैधत्वानङ्गीकारात् न कर्मविचारस्य पूर्ववृत्तत्वमावश्यकमिति चेत् — वैधत्ववादिनां भवतां कथं तदनावश्यकम् । कर्माननुष्ठानेऽपि तद्विचारावश्यकताया उपपादितत्वात् । वैधत्वादेव चावश्यकत्वात् । एतेनदेवानां कर्मविचारानधिकारिणां ब्रह्मविचारे प्रवृत्त्या न कर्मविचारानन्तर्य नियतमित्यदिनिरस्तम्; वैधत्वादेव तैरपि तत्करणसंभवात् । अध्ययनेऽनधिकारात् ते न कर्मविचारेऽधिक्रियन्त इति चेत् ब्रह्मविचारेऽपि तत एव नाधिक्रियेरन् । अध्ययनस्य करणेऽपि प्राक्तन जन्माधीतवेदान्ताविस्मरणात् न दोष इति चेत्अत एव कर्म विचारोऽप्यस्तु । अविचार्यैव ते निर्णीतकर्माण इति चेत्-निणींतब्रह्मणोऽपि भवेयुः । इन्द्रविरोचनादयः ब्रह्मजिज्ञासया प्रजापतिमुपसन्नाइछान्दोग्यादौ दृष्टा इति चेत्-ते देहात्मभ्रान्तिमन्तोऽपि तत एव दृष्टा इति कथं तेषां ऐकशास्त्र य-प्रसाधनम् १९३ पूर्णो निर्णयः । अज्ञानम्, विस्मरणम्, बृहस्पत्यादिमुखेन कर्तव्यावधारणमित्यादि तेषामपि लक्ष्यत एव । जिज्ञासमाना अपि जैमिनीयं किमपेक्षन्ते ते इति चेत् -बादरायणीयमपि भौमं ते किमपेक्षन्त इति समानम् । विचारो रागप्राप्त इत्यस्माकं मतम् ; वैध इति भवन्मतमित्युच्यते । वस्तुतो वैधवनिर्बन्धो न भावत्कानामपि । तथा हि"स्वाध्यायो ऽध्येतव्य” इत्यध्ययनविधिरथंज्ञा देशकावेबारे तिकर्तव्यताकाध्ययनविधिपर इति पक्षे विचारे वैधत्वम् । तदा " अधीत्य स्नायात् " इति विहितं समावर्तनं विचारात् पश्चादेव कार्यं स्यात् । न च " वाजपेयेनेष्ट्रा बृहस्पतिसवेन यजेते” त्यत्र तृतीयाश्रवणात् फलभावना करणत्वनिर्वाहाय पूर्णप्रयोगानन्तर्यलाभेऽपि, इह फलभावनापर्यन्ताध्ययननिवृत्तेरलाभ इति परिमलोक्तं युक्तम् — इहापि अध्ययनस्य करणत्वेनैव भावनायामन्वयात् स्वाध्यायोऽध्येतव्य इत्यत्रेव फलभावना करणत्वप्रतीतेरक्षतत्वात् विचारेतिकर्तव्यताकाध्ययनानन्तर्यस्यैव स्नाने वक्तव्यत्वात् । यस्य भावनायां कर्मत्वेनाधिकरणत्वेन वाऽन्वयः, तत्र साङ्गस्य तस्य ग्रहणं नेत्येव मीमांसको क्तेः । अत्र तु अध्ययनं करणत्वेनान्वेतीति । अन्यथा कर्मविचारोऽपि समावर्तनात् प्राङ् न कर्तव्यः स्यात् । यदि समावृत्य गृहस्थभूतेन कर्मणां कर्तव्यत्वात् विचारं विना तदसंभव इति प्रागेव तद्विचारमपि कुरुत इति, एवमर्थसिद्धत्वे विचारस्य वैधवं त्यक्तमेव स्यात् । भवेच्च ब्रह्मचारिकर्तृकसंध्योपासनादिवत् गृहस्थधर्माणामप्युपदेशमात्रेण कियन्तमपि कालम नुष्ठानम् । अतो विचारवैधत्ववादिनां कर्मविचारस्य प्राक् कर्तव्यत्वे तुल्यगत्या. ब्रह्मविचारस्यापि वैधत्वमापततीति साधनचतुष्टयसंपत्त्यनन्तरमेव ब्रह्मविचार इति नैव सिद्धयेत् । अतः सूत्रभाष्ये साधनचतुष्टयापेक्षत्वस्य ब्रह्मविचारे कथनात्, कर्मविचारं विनापि ब्रह्मविचारकरण संभवस्य भाषणाच विचारस्य वैधत्वं न भाष्यसंमतमिति प्रतीयते । न च ब्रह्मविचारं कृत्वा पश्चात् कर्मविचारकरणात् न विचारवैधत्वहानिरिति वाच्यम् ब्रह्मविचारे प्रवृत्तस्य त्यक्तसर्वकर्म तया 25 १९४
पश्चात् कर्मविचारप्रसत्त्यभावात् । यदि च गृहस्थी भविष्यत्कर्तृकाध्ययन एव विचारस्याङ्गत्वम्, तर्हि ब्रह्मविचारोऽपि तत्कर्तृक एव स्यात् । स्वाध्यायोऽध्येतब्य इति विहिताध्ययनव्यक्तिषु सर्वत्र विचारस्याङ्गत्वानङ्गीकारे च न तत्र भावनायां विचारस्येतिकर्तव्यतात्वेनान्वयसंभवः । अथ विचारस्यार्थज्ञानार्थत्वात् यावदर्थज्ञानं यस्य कार्यकरम्, तावद्विचारमात्रमेव तं प्रति विहितं भवतीति चेत् -तर्हि अध्ययनमपि तावन्मात्रविश्रान्तमिति पूर्णाध्ययनावश्यकत्वसंप्रदाय-भङ्गः । एकवर्णगतस्य एकाश्रमनिष्ठस्य वर्णाश्रमान्तरनिष्ठपुरुषप्रतिबोधनरूपकार्यसंभवेन ब्रह्मचारिणाsपि ब्रह्मविचारस्य करणमुपपद्यते । अतो विचारस्य रागप्राप्तत्वमेव भाष्याद्यनुकूलम् । एवम्, "" अध्ययनमात्रवत " इति सूत्रमपि तदनुकूलम् । ‘अधीत्याभिसमावृत्ये ‘ति अध्ययनानन्तर्यमेवोच्यते आचार्यकुलात् स्वगृहं प्रति समावर्तने; न तु विचारानन्तर्यमपीति तदर्थात् । तत्रत्यशाङ्करभाष्यमपि नाध्ययनविधेरर्थज्ञानार्थत्वं दर्शयति । एतावत्तु तत्रोक्तम् — यत् — अधीत्येत्यध्ययनमात्रोक्तौ अर्थज्ञानस्यासिद्धया कर्मस्वनधिकारः स्यात् । न स्यात् । न विद्वान् अधिकृतोऽस्ती ‘ति न्यायात् अर्थज्ञानस्यानुष्ठानार्थतायाः लोक सिद्धत्वात् कर्मविधिरर्थज्ञानवत्येव प्रवर्तते । अध्ययने च विहिते अध्य्यन मूलकापातप्रतीतिजनितजिज्ञासाधीनार्थेनिर्णयशालिनि लब्धे कर्मविधिरथंज्ञानं कस्यचित् स्वयं नाक्षिपति । तत्र यदर्थज्ञानं यत्रोपयुक्तम्, तदन्यस्यार्थज्ञानस्य न तत्रापेक्षा । मथा क्रत्वन्तरज्ञानमन्यस्य ऋतोरनुष्ठाने नोपयुज्यते, तथोपनिषदर्थज्ञानमपि न कर्मानुष्ठाने उपयुज्यत इति । अत्र भामत्यां तु किमर्थज्ञानेन ? अध्ययनमपि अन्यभागविषयकम् अन्यभागार्थानुष्ठानं प्रति नोपयुज्यत इति विशेष उक्तः । सौत्रस्य मात्रपदस्य अर्थज्ञानं कर्मानङ्गमिति बोधनपरत्वं नास्तीत्येतावत्परत्वमेव भाष्याद्युक्तम् । सूत्रस्वरसार्थश्च — अध्ययने निष्पन्नेऽभिसमावर्तनदेवान्ततो श्रुतिविवक्षितम् । समावर्तमानस्तु शास्त्राविहितमपि विचारं सौकर्याय स्वयं करोति यथायथम् इत्येतावानेव । अत्र भामत्याम्, अर्थज्ञानो ऐकशास्त्रय-प्रसाधनम् * १९५ देशेनाध्ययनविधिपक्षेऽपि सूत्र निर्वोढुं प्रयत्नः कृतः, उपनिषदध्ययनापेक्ष मात्रग्रहणम्, नार्थबोधापेक्षम् " इति । अयमस्यार्थः अर्थावबोधपर्यन्ततत्तत्कर्मभागाध्ययनमात्रवतः तत्तदनुष्ठातृत्वमिति सूत्रार्थः । अन्यभागाध्ययनमर्थज्ञानञ्च न तत्रोपयुज्यत इति तद्भावः । श्रीभाष्ये तु, ‘अध्ययनविधेरक्षर ग्रहणमात्रार्थत्वात् मात्रप देनार्थज्ञानस्य विध्यन्वयव्यवच्छेदः । अर्थज्ञानपर्यन्ताध्ययन विधिश्रद्धायां तु मात्रपदं तादृशश्रवण, धिकोपासनरूप विलक्षण ज्ञानस्य कर्माङ्गत्वासं भवदर्शकम्’ इत्यभाषि । एवमक्लेशेनोभयत्र सूत्रनिर्वाहेऽपि अर्थज्ञानार्थमध्ययनविधानं सूत्रकृतो नेष्टमित्येव तत्तद्भाष्यकृदिष्टम् । न हि तद्भागमात्राध्ययनवत इति वा, अर्थश्रवणमात्रवत इति वा सूत्रमस्ति । किन्तु, ‘अध्ययनमात्रवत’ इति । भवद्वार्तिककारश्च नारायणसरस्वती विस्तरेणाध्ययनविधेरक्षरग्रहणमात्रार्थतां विचारस्य रागतः प्राप्तिश्च प्रत्यपीपददिति नास्मामिरिदमपूर्वतया प्रतिबोधनीयम् । अतः एतत्पक्षखण्डननैर्भर्थं न युक्तमद्वैतिनाम् । " फल जिज्ञास्यभेदाच्चे" ति भवद्वाप्ये फलभेद उक्तो भवद्भिरेव न सामस्त्येनेष्टः । विविदिषाद्वारा कर्मणां ब्रह्मविचारसंबन्धात् अभ्युदय एव फलमित्यस्याभावात् । जिज्ञास्यभेदस्तु विचारणीयः । तत्र धर्मजिज्ञासेत्यत्र ब्रह्मापि जिज्ञास्यतयोक्तमिति कश्चित् पक्षः । तेन जिज्ञास्य भेदरूपहेत्वसिद्धिः । जिज्ञास्यभेदेऽपि शास्त्रक्थं प्रकारान्तरेण भवतीति पक्षे च व्याप्यत्वासिद्धिः । धर्मपदस्य ब्रह्मपरत्वं बहुधोपपाद्यते । धर्मजिज्ञासे त्यत्र धर्मपदस्य वेदार्थपरत्वात् ब्रह्मापि वेदार्थत्वेन गृहीतमेवेत्येकः पक्षः । धर्मशब्दस्य वेदार्थपरत्वं प्राभाकरैरप्युक्तमिति व्यक्तं पञ्चपादिकादौ । वेदाध्ययनानन्तरं वेदस्य विवक्षितार्थकत्वाद्धेतोः वेदार्थविचारः क्रियत इति तदभिमतः सूत्रार्थः । कृत्स्नवेदाध्ययनानन्तरं जायमानाजिज्ञासा हि न धर्ममात्रे भवितुमर्हति । एवं धर्मजिज्ञासापि धर्मस्य वेदार्थत्वज्ञानप्रयुक्तैवेति वेदार्थविचार एव पुरुषस्येष्टः । अत एवाधर्मोऽपि 1 + १९६
विचार्यमाणः संगृहीतो भवतीति तदाशयः । परंतु धर्माधर्मातिरिक्तो ब्रह्मरूपो वेदार्थः कश्चिदस्तीति न प्राभाकरो मन्यते ; मन्यते तु वेदान्तीति विशेषः । 66 66 पञ्चपादिकाकारस्तु — " तत्रापि न निखिलवेदार्थविचारप्रतीतिः " इत्यादिना धर्मजिज्ञासेत्यस्य वेदार्थविचार इत्यर्थेऽपि पूर्वमीमांसायां यावद्विचारितम् तावद्वेदार्थप्रतिज्ञैव ग्राह्मा । अतः ब्रह्मविषयप्रतिज्ञा तत्र न कृतेति, अथातो ब्रह्मजिज्ञासेति प्रतिज्ञायां न पौनरुत्तयमित्याशेते । एवं धर्मशब्दस्य वेदार्थपरत्वं भामत्यामप्यादृतम् । " स्वाध्यायानन्तर्य तु समानम् " इति भाष्यव्याख्यानावसरे, “धर्मशब्दस्य वेदार्थमात्रोपलक्षणतया धर्मवत् ब्रह्मणोsपि वेदार्थत्वाविशेषेण वेदाध्ययनानन्तर्योपदेशसाम्यादित्यर्थः" इति । यत्त्वत्र परिमले उक्तम् नत्र टीकायां धर्मशब्दस्य वेदार्थलक्षकत्वमिष्टम् ; किन्तु अतः शब्दस्य वेदार्थसामान्यपरत्वाभिप्रायमिति व्यक्तीभविष्यति प्रथमसूत्रार्थव्यख्यानावसरे" इति -तत् सर्वथैवोदक्षरमिति स्पष्टम् । सूत्रार्थवर्णनस्थलेऽपि भामत्याम्, फलवदर्थावबोध परतां स्वाध्यायाध्ययनविधेः सूत्रयता, ’ अथातो धर्मजिज्ञासे’ त्यनेनैव प्रवर्तितत्वात्, धर्मग्रहणस्य च वेदार्थोपलक्षणत्वेनाधर्मवत् ब्रह्मणोऽपि उपलक्षणाश्च यद्यपि धर्ममीमांसावत् ब्रह्ममीमांसाऽप्याक्षेसुं शक्यते, तथापि प्राच्या मीमांसया न तत् व्युत्पाद्यते ; नापि ब्रह्ममीमांसाया अध्ययनमात्रानन्तर्यमिति ब्रह्ममीमांसारम्भाय नित्यानित्यविकेक, द्यानन्तर्यप्रदर्शनाय चेदं सूत्रमारम्भणीयमित्यपौनरुक्तयम्" इत्यानुपूर्वी । अत्र, ‘अतशब्देन सर्वस्यापि वेदस्य विवक्षितार्थकत्वमेवाभिमतम् । धर्मजिज्ञासापदघटकं धर्मपदं वेदार्थलक्षकमिति न टीकाशयः’ इति परिमळोक्त तु दुरुक्तमेव । वेदार्थमीमांसेति प्रतिज्ञा । तत्र सामान्यकोडीकृतत्वात् विशेषभूतधर्ममीमांसाऽप्याक्षिष्यते । ब्रह्ममीमांसाऽप्याक्षेतुं शक्यत" इति हि स्पष्टमुक्तम् । धर्मजिज्ञासापदस्य धर्ममीनांसामात्रार्थकत्वे तस्या आक्षेपलभ्यत्वकथनं कथम् । ‘धर्मग्रहणस्य च वेदार्थोपलक्षणत्वेने ‘ति च धर्मशब्दस्यैव जहदजहल्लक्षणावृत्तत्वं 1 एकशाख्य-प्रसाधनम् १९७ स्पष्टमुक्तम् । अतश्शब्दस्य वेदभाग सामान्यस्य विवक्षितार्थकत्वपरत्वं सर्वसम तम् । तत्र " धर्मग्रहणं वेदार्थोपलक्षण" मिति कथमन्वियात् । प्रत्युत धर्मशब्दः धर्मरूपार्थस्यैव वेदविवक्षितत्वात् धर्ममात्रजिज्ञासेति अतरशब्दार्थसङ्कोचकः कदाचिद्भवेत् । तथाऽर्थवर्णनं तु मीमांसकेन वा शारीरकपार्थक्यवादिना वा न केनापि कृतम् । अतोऽत्र भामतीकारोऽपि पञ्चपादिकाकृदिव वेदार्थलक्षकत्वं धर्मपदे स्वीकृत्य तावता ब्रह्मजिज्ञासासूत्रस्य न पुनरुक्ततेत्येवाह । कथं पौनरुतयपरिहार इति चेत् — तत्र वेदार्थजिज्ञासेति प्रतिज्ञा धर्मस्येवाधर्मस्यापि सङ्ग्रहार्था परं स्यात् ; न तु ब्रह्मसंग्रहार्थं । ब्रह्मणस्तत्रा विचारितत्वादित्येको निर्वाहः । निर्वाहान्तरं तु स्यान्नाम ब्रह्मणोऽपि जिज्ञास्यत्वं प्रतिज्ञातम् । अथापि ब्रह्मजिज्ञासायाः साधनचतुष्टयसम्पत्त्यानन्तर्य वक्तुमिदं सूत्रम् । तेन धर्मविचार वत् ब्रह्मविचारः नाध्येतृसामान्याधिकारिक इत्युक्तं भवतीति । सर्वमिद मुपात्त भामती वाक्यस्थमेन । अत्र प्रथम निर्वाहे ऐकशास्त्र्यं नावगम्यते । द्वितीये तु तदप्यवगम्यत इति विशेषः । एवमद्वैतप्रस्थानद्वयेऽपि धर्मजिज्ञासापदस्य वेदार्थमीमांसेत्यर्थस्य प्राभाकरपक्ष इव दर्शनात् विशिष्टाद्वैतिभिरपि वेदार्थत्वाविशेषात् ब्रह्मविचारः प्रतिज्ञातः प्रागेवेत्येवोच्यते । तत्र सामान्यप्रतिज्ञानन्तरम्, ‘चोदनालक्षणोऽर्थो धर्म" इति विशेषलक्षणक्रथनःत् विशेषप्रतिज्ञा अर्थ सिद्धा । तदनुबन्धिविशेषप्रतिज्ञा च तत्र तत्र कृताऽस्ति । अथातः शेषलक्षणम्’, ’ अथातः क्रत्वर्थ पुरुषार्थ यो जिज्ञासे’ त्येवम् । एवं सपरिकरे धर्मे निरूपिते देवताकाण्डेऽपि कर्मशेष निरूपणस्यैव कृतत्वात् ब्रह्मणः सिद्धवस्तुनः प्राधान्यासंभवे च षोडशलक्षणीश्राविणा समालो चिते–‘अध्ययनकालापातप्रतीतस्य ब्रह्मणोऽपि विचारः कर्तुमर्ह एव; तदेकमेव ’ शिष्यत इति प्रतिबोधनाय विशिष्य तद्विवारप्रतिज्ञेति न पुनः प्रतिज्ञावययमिति विशिष्टाद्वैति निर्वाह इति । एवं वेदार्थ लक्षकत्वपक्षो दर्शितः । विनैव लक्षणामपि निर्वाहः क्रियते, धर्मशब्दस्य सिद्धासाध्योभयविधधर्म वा चित्वात् ब्रह्मणोऽपि ग्रहण मिति-१९८
तावता तत्र यत् सिद्धान्तसिद्धाञ्जनानुवादेन दूषणमुक्तम्, तत्रेदं सारभूतं समाधानम् । " श्रेयस्साधनता ह्येषां नित्यं वेदात् प्रतीयते" इति वार्तिकोक्त वेदावगतश्रेयस्साधनताकत्वरूपं धर्मलक्षणं तावत् ब्रह्मणोऽप्यविशिष्टम् । " द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिप्ते " इति द्रव्यगुणादीनां सिद्धानामपि धर्मत्वं तदुक्तमेव । यद्यपि व्यापारानाविष्टस्य दध्यादेः, “दध्नेन्द्रियकामस्य जुहुयात् " इत्यादौ साधनत्वायोगेन कथञ्चित् व्यापारविषयत्वं सिद्धस्यापीष्टम् तथापि व्यापारानाविष्टत्वे धर्मलक्षणं न भवतीति न मन्तव्यम् । शास्त्रतः साधनत्वं यस्यावगम्यम्, तस्य धर्मत्वस्य संप्रतिपन्नत्वात् । अत एव क्रियादिर्वा धर्मः, तार्किक रीत्या अदृष्टविशेषो वेति विमृश्य क्रियादिषु धर्मशब्दप्रयोगं प्रदर्श्यभाट्टरहस्ये अदृष्टस्याप्यविशेषेण धर्मशब्दवाच्यत्वं खण्डदेवेन स्थापितम् । कर्तृकालादीनामपि धर्मत्वापत्तिरिति तु न । तेषां फलसाधनोपसर्जनतया, साधनत्वस्य मुख्यस्य तत्राभावात् । अत एव प्रयाजादिषु धर्मशब्द प्रयोगोऽपि न मुख्यः। ’ दध्नेन्द्रिय कामस्य जुहुयात्’, ‘यदि कामयेत वर्षुकः पर्जन्यः स्यादिति नीचैः सदो मिनुयात्’, ‘पञ्चमे ब्रह्मवर्चसकामस्य’ इत्यादिफलार्थद्रव्यगुणकालादिष्वेव धर्मत्वोदाहरणात् । एवमपि अदृष्टस्य धर्मत्वमिष्यते । तद्द्वारैव क्रियादीनां फलहेतुत्वात् कर्तृकालदेशादेरिव क्रियोपसर्जनत्वाभावात् । अतोऽनन्यथासिद्धं कारणं क्रियादि, अदृष्टश्च । अदृष्टञ्च वेदान्तसिद्धान्ते भगवत्सङ्कल्पादनतिरिक्तमिति सिद्धं संकल्पस्य धर्मत्वम् । न चादृष्टस्य साधारणकारणत्वमेवेति वाच्यम् —— अदृष्टत्वेन कार्यसामान्यकारणत्वेपि तत्तदष्टत्वेन तत्तद्विषय विशेषितसल्परूपेण तत्तत्कार्यनिरूपिता साधारणकारणत्वस्याप्यक्षतत्वात् । ईदृशः सङ्कल्पश्च सर्वकर्मसमाराध्ये सर्वस्वतन्त्रे प्रतिनियतदेशकालादिसाक्षात्कारिणि भगवत्यायत्त इति सोऽपि धर्मः 1 रसोऽहमप्सु कौन्तेय !" इत्यादिप्रयोग पश्यतां स्पष्टमिदं यत् धर्मपदं निष्कर्षकमपि परमात्मानं बोधयतुमीष्टे इति । 4 " एकशास्त्रय-प्रसाधनम् १९९ एवं धर्मशब्द मुख्यार्थत्वे संभवति, " कृष्ण धर्मं सनातन" मित्यादीनां लाक्षणिकत्वकल्पनमयुक्तम् । तदेवं धर्मशब्दमुख्यार्थजिज्ञासान्तर्भूतैव ब्रह्मजिज्ञासाऽपि । सा प्रथमं निबद्धाऽपि षोडशलक्षणी विचारानन्तरं प्रसक्तक्षोभा पुनः प्रतिज्ञया पर्यवस्थाष्यते । तदिदं पञ्चपादिकादिप्रदर्शनेन प्रागेव प्रत्यबोधि । एतेन धर्मशब्दस्य मुख्य गौणार्थद्वयपरत्वं न युक्तम् । युगपदवृत्तिद्वयविरोधात् । अन्यथा मन्त्राणां गौणेऽर्थेऽपि विनियोगापत्तेः । अर्थद्वयप्रतिपादनाय सूत्रस्यावृत्त्यङ्गीकारे च स एव दोषः — इत्यादि निरस्तम् । अर्थद्वयस्याप्यनुगमेन • मुख्यत्वात् । अपि चेदं सिद्धान्त सिद्धाञ्जनं भवन्मतमेवास्कन्दति, यो हि सूत्रस्वारस्यविचारे एवमाह स्म ‘ब्रह्मशब्दः सविशेषनिर्विशेषसाधारणः तन्त्रेण प्रयुक्तः, सविशेषांशो वाच्यमर्यादया, निर्विशेषांशस्तु लक्ष्यमर्यादया । सूत्रे प्वेकस्य पदस्यानेकार्थत्वं भूषणम्.. . वाक्यभेदेनाssवृत्त्या योजनमपि भूषणम् " इति । अथ पक्षान्तरम् । धर्मजिज्ञसेति विधेयमात्रस्य प्रतिज्ञा; न ब्रह्मणः । अतः पृथक् ब्रह्मजिज्ञासा प्रतिज्ञायते । उभयसमाहारेण साधारणप्रतिज्ञायाः उन्नयनसंभवात् नैकशास्त्र्यहानिरिति । अत्रेदमैकशस्त्र्यरहस्यं प्रतिबोधयामः । आदौ जैमिनिः कृत्स्नधर्मजिज्ञासां प्रतिजज्ञे । धर्मश्व यागदानहोमादिवत् उपासनारूपश्च । वेदपूर्वभागविहितानां यागादीनां निरूपणं षोडशलक्षण्या सिद्धम् । समन्वयसूत्रभाष्ये चोपासनानामपि कर्तव्यतया धर्मपद वाच्यत्वं स्पष्टमुक्तं प्रतिपत्तिविधिपक्षनिराकरणावसरेऽपि । अथोपासनात्मके धर्मे निरूपणीये भगवान् बादरायणो जैमिनिमेवमाह — कर्माणि तावत् आराध्यदेवतास्वरूपतत्प्रीत्यादिविवेकविकले भ्योऽपि फलं ददतीति स्यान्नाम तेषां प्राधान्यम् । ब्रह्मोपासनानि तु ब्रह्मणः प्राधान्ये, (" प्रसत्त्यै तस्योक्ते प्रपदननिदिध्यासनगती" इति रीत्या ) तत्प्रीणनार्थविहितत्वे चाविज्ञायमाने न फलिष्यन्ति । फल स्यास्य मुख्यत्वात् अनुभवितव्यशाश्वतापरिमितफलरूपमोक्षानुरूपत्वादुपासनस्य ; ‘यमेवैष वृणुते तेन लभ्यः’, नान्यः पन्था अयनाय विद्यते" इत्यादिश्रुतेश्च । अतो / २००
} ब्रह्मणः प्राधान्यं प्रतिबोध्य तच्छेषतयैव तदुपासनानि व्युत्पादनीयानि । तदहं प्रथमं प्रतिबोध्यमुपदिश्य पश्चादुपासनं प्रस्तोष्यामीति । जैमिनिःश्च शिष्यः तदधीनवृत्तिरुपरराम । अथ बादरायणः अत एव अधात उपासनप्रतिज्ञे त्यनुक्ता अथातो ब्रह्मजिज्ञासेति ब्रह्मप्राधान्यं प्रदर्श्याध्यायद्वयेन तत्स्वरूप स्वभावादिकमवस्थाप्य अथ जैमिनिविवक्षितमुपासनादि तृतीयतृतीये प्रस्तोप्यन्, यदर्थमिदमध्यायद्वयं सपादद्वयं मध्ये न्यबन्धि, तत् मुक्तकण्ठमुज्जगार । फलमत उपपत्तेः’, श्रुतत्वाच्च ’ परमात्मैव फलप्रदः प्रधानभूतः । एवं स्थिते ‘धर्म जैमिनिरत एव यदाह फलप्रदम् तन्न युक्तम् । अत इदं मन्तव्यम्, “ पूर्वं तु बादरायणो हेतुव्यपदेशात्’ इति । अतः तत्त्वविदां साधारणधर्मस्थलेऽपि परमपुरुष एव देवतान्तरद्वारा साक्षाद्वा फलप्रद इति स्थिते किमुत ब्रह्मोपासनेष्वित्येवं । ब्रह्मप्राधान्यं प्रतिज्ञापूर्वकमुपपाद्याथ, अथातो धर्मजिज्ञासेति प्रतिज्ञातेषु धर्मेषु यदवशिष्टम्, तन्निरूपयामास तृतीयतृतीय इति । एवं खलु पूर्वापरयोरैकग्रन्थ्ये समञ्जसे संलक्ष्यमाणे ऐकशा स्त्र्यखण्डनसंरम्भः, खाभिमतनिर्विशेषब्रह्मवादो मा नाम उपदित्यभिनिवेशेनेत्येवावधेयम् । विधेयात् धर्मभूतात् ज्ञानादन्यत् न मोक्षसाधनमिति समनन्तरवाद एव दर्शयिष्यते । यत्तु — सिद्धफलं ब्रह्मज्ञानमनुष्ठानानपेक्षमिति -तत् केवलं स्वमतसिद्धवत्कारेण । ब्रह्मज्ञानस्यापि ध्यानरूपस्यानुष्ठानसापेक्षस्यैवास्माभिरङ्गीरात् । अतो हेत्वसिद्धिः । एकव्याख्येयाव्याख्यानत्वेन ऐकशास्त्रये सर्वेषामङ्गानां सर्वेषां विद्यास्थानानां सर्वेषां वेदभायणाश्चैकप्रन्थत्वापत्तिरिति यदूषणम्, ईदृशं सर्व शतदूषण्यामेवाशङ्कय शमितम् । क्रमविशेषनियामकसङ्गतिवि शेषविशिष्टाविरुद्धावान्तरार्थशास्त्रान्तरव्यावृत्तासाधारणोपकारार्ह सप्रकारार्थत्वमिति शुक्तं तत्र; “न चैवं वेदार्थानुबन्धित्वाविशेषात् विद्यास्थान भेदविलयप्रसङ्ग इति वाच्यम् — उपकारभेदेन तद्भेदव्यवस्थापनात् " इति च । न हो कमङ्गमेकं विद्यास्थानं वा यादृशोपकारोद्देशेन प्रवर्तितम् तादृश एवो पकारः परस्यास्ति । न चैकस्यान्यस्य च मिथः क्रमनियामकसङ्गतिरस्ति । अतोऽधिकरण एकशास्त्र्य-प्रसाधनम् २०१ सरण्या वेदवाक्यार्थ निर्णयात्मकतया वैलक्षण्येन मीमांसापदव्यपदेश्यं पूर्वपूर्वसङ्गतिमूल प्रवर्तितसर्वांशमिदमाराधनाराध्योभयोपसर्जन कब्रह्मरूप प्रधानैकार्थमेकं शास्त्रमिति । एष विशिष्टोऽर्थश्चैवमुपनिषद्येवो दघोषि “इष्टापूर्त बहुधा जातं जायमानं विश्वं विभर्ति भुवनस्य नाभिः । तदेवाभिस्तद्वायुः तदु सूर्यः तदु चन्द्रमाः” इति । यत्तु पूर्वोत्तरमीमांसयोर्विरुद्धार्थत्वात् विभिन्नकर्तृकत्वाच्च न संहतत्वमिति तत् सर्वं परिमल एव परिहृतमस्तीति किं वृथा शङ्कनेन ? यत्तु शबरस्वामि कुमारिलभट्टादिपूर्वमीमांसाव्याख्यात्र संमतमिदमै कशात्र्यम् ; अतो न पूर्वोत्तरमीमांसयेोरेकत्वम् । गोशृङ्गशशशृङ्ग-योरिव" इति — तत्रोच्यते । यदि व्यवहारे भानय इति वादिनां भवतां कौमारिलाशयानुसरणमावश्यकम्, यदि उत्तरमीमांसा तद्दृष्ट्या शशशृङ्गम्, तर्हि भवद्भिरुतरमीमांसा तुच्छत्वेन त्याज्या स्यात् । यदि तद्बुद्धया शशशृङ्गमप्यास्तिकबुद्धया सा सत्या, तर्हि अपव्याख्यातृपरिहार कास्मद्बुद्ध्या तद्वदेवैकशास्त्र्यमपि सत्यमेव । वस्तुतस्ते वेदान्तमैशाख्यञ्चाद्रियन्त एव । " दृढत्वमेतद्विषयस्तु बोधः प्रयाति वेदान्तनिषेवणेन" इत्युक्तेरित्यलम् । ‘भगवदुपवर्षाचार्याः ब्रह्मपरिणमज्ञानकर्मसमुच्चयवादिनः अस्मत्त्रतिकूलाः ’ इति यदुक्तम् — तत्रास्मदिष्टो यादृशः परिणामः, यादृशश्च ज्ञानकर्मसमुच्चयः, तद्विपरीतवादिनस्ते इत्यत्र न किञ्चिद्भवता प्रमाणमुपन्यस्यम् । न च पूर्वमीमांसाव्याख्यानान्यर्वाञ्चि सर्वाण्यविशेषेण प्राह्माणीति वयं ब्रूमः । एतावता प्राच्यव्याख्याप्रातिकूल्यं भवतामेव भवता दर्शितं भवति । यदपि उपवर्ष भास्करादयः शास्त्रैक्यवादस्य पितरः । तन्मतज्ञानकर्मसमुच्चयादिखण्डनात् शास्त्रैक्यवादस्वीकाराच्च पितृहत्यया पैतृकधनजीवनमस्माभिः क्रियत इति —— तत्र शास्त्रैक्यवादस्य चेत् ते पितरः -तावता कथमस्माकं पितृहत्यादोष इत्युच्यते । न हास्माकं ते पितरः ; किंतु शास्त्रक्यवादस्य । अन्यथा भवद्भिरपि तत्खण्डनात् भवतामपि पितृहत्या निराबाधा । 26 २०२
वस्तुतो ज्ञानकर्मसमुच्चयाद्यामयनिरसनेन शास्त्रैक्यादितच्छरीरपोषणादस्माभिस्ते पितरः परिरक्ष्यन्त इत्येव मन्तव्यम् । यत्तु – स्वाध्यायोऽध्येतव्य इत्यध्ययनस्य स्वशाखामात्रविषयकत्वात् पूर्वोत्तरमीमांसयोश्चाधीतानधीत सर्वशाखोपनिषद्विचारात्मकत्वात् न स्वाध्यायाध्ययन विधिसिद्धवेदव्याख्यानता विचारयोरिति–तेन किं सिद्धं भवति । अध्ययनविधौ मीमांसाया इतिकर्तव्यतात्वेनान्वयो न युक्तः, अथातो धर्मजिज्ञासेत्यत्राथशब्दस्य स्वाध्यायाध्ययनानन्तर्यमित्यर्थश्च न युक्त इत्येव । तेन पूर्वमीमांसकरूपज्येष्ठभ्रातृहत्या, विचारवैधत्ववाद्यात्महत्या, मीमांसयोरेकव्याख्येयव्याख्यानात्मत्वाभिधाय्याकरम् न्यविधायिस्वपितृहत्या चैव सिद्धयति । अथवा तत्त्वज्ञानच्छद्मना सर्वहत्याव्यसनिनां क्रियदिदम् । एवं प्रतिदूषणप्रसक्तिमपरामृश्य किमिति पितृहत्या दोषापादनसंरंभः ? ऐकशास्त्र्यविरोधि यदन्यदुपन्यस्तम् –तत् सर्वं परिमळ एव प्रत्युत्तरितम् ; प्रागस्माभिश्च । शतदूषणीव्याख्यातारश्चण्डमारुतकारा महाचार्याः मूलग्रन्थकर्तृष्वाचार्येषु महत् गौरवं विभ्रतः तत्र तत्र, ‘" तैरुक्त’ मिति वक्तव्ये, " तैरनुगृहीत" मिति लिखन्ति । तत्राभ्यसूयुना चानुग्रहोपन्यासा इमे निग्रहो पन्यासा एवेति दूष्यते । यत्यतां कामम् । अनुग्रहो न कथमपि निग्रहो भविष्यति । भागद्वयमेकमिति न ब्रूमः ; किन्तु भागद्वयमेकं शास्त्रमिति । अन्यथा वर्णा अनेके कथमेकं पदं स्यात् ; पदानि वा वाक्यमेकम् ; अवान्तवाक्यानि वा महावाक्यमेकम् । महावाक्यानि च प्रबन्ध एक इति । कथञ्च शतभूषणीयं बहुकर्तृका एककर्तृका वा बहुभागात्मिका भवत्येकः प्रबन्ध इति विमृश्यताम् । कृत्स्नोऽपि वेदो महान् एको वृक्ष इति महर्षिवर्णितम् । तत्र शाखाः नाना । मन्त्रब्राह्मणात्मना भिन्नानेक वाक्यराशिसंस्यैव कैकशाखात्वेन व्यवहारश्च दर्शितः । ‘सर्वे वेदा यत्पदमामनन्ती’ त्यादिना सपरिकर ब्रह्मरूपैकार्थप्रतिपादकत्वमपि प्रसिद्धम् । एवं व्याख्येयस्यैकत्वात् तत्र पूर्वोत्तरभागसंबन्धिनामेकरूपव्याख्याभागानामैक्यं कथं नामापलपितुं शक्यते ? व्याख्येयानामनकालेऽपि तत्सर्वानुबन्धिविचारात्मा भवितुमर्हत्येकः प्रबन्धः, यथा कवि ! ऐकशारत्र्य प्रसाधनम् २०३ काव्य शास्त्रतदवान्तरप्रस्थानचरित्रविमर्शादिः । अतः किञ्चिद्रूपेणैक्यमुपन्यस्यमानं विशिष्य ग्रन्थकर्तृहृदयारूढं न शक्यं प्रत्याख्यातुम् । एवमपि जैमिनिर्देदार्थ जिज्ञासेति वक्तव्ये धर्मजिज्ञासेति धर्मशब्द प्रयुञ्जानः सूचयति, धर्माणां यागदानादीनां वस्तुतो ब्रह्मसनाराधनत्वेनैव कार्यकरत्वेऽपि तत्तत्त्वमविदुषामपि धर्माः न नाम न फलन्ती इत्यादि । सूचनाद्धि सूत्रमित्याहुः । । यत्तु वेदार्थविचारस्य रागप्राप्तत्वे कृत्स्नस्य वेदस्य विचारः कर्तव्य इति कथं सिद्धयेदिति तत्रोच्यते । विचारः कर्तव्य इति मा सैत्सीत् । किं तेन । लोके च विध्यधीनप्रवृत्तिस्थलापेक्षया च रागप्राप्तप्रवृत्तिस्थले प्रवृत्तिबाहुळयमेव लोकसिद्धम् । ‘स्वाध्यायोऽध्येतव्य’ इत्यक्षरराशिग्रहणस्य सङ्गविषयकस्य सर्वेष्टत्वाच्च तत्र विध्यधीनं प्रवृत्तानां रागप्राप्तविचारप्रवृत्तिः स्वयमेव सेत्स्यति । " ब्राह्मणेन निष्कारणेन षडङ्गो वेदोऽध्येतव्यो ज्ञेयश्च " इति विधिसद्भावात् कथं विचारस्यावैधत्वमिति चेन्न तेनैव वाक्येन अध्ययनविधेविचार विधिपरत्वाभावस्य ज्ञायमानत्वात् । यद्यध्ययन विधिरेवार्थज्ञानपर्यन्तसर्व विचारमपि विदध्यात् तर्हि ज्ञेयश्चेति व्यर्थमेव भवेत् । अङ्गविषये अक्षरराशिग्रहणमात्र न पर्याप्तमिति बोधयितुमपि ज्ञेयश्चेत्युक्तं स्यात् । वस्तुतो यत् विधिप्राप्तं षडङ्गवेदाध्ययनम् यश्च रागप्राप्तः विचारः, तत् सर्व निष्कारण परिशीलनं कार्य । ब्राह्मणस्य, प्रवचनप्रधानत्वात् । अतः खानुष्ठानोपयुक्तमात्र स्वविचार्थमिति धियं विसृज्य परोपकारधिया कृत्स्नविचारः कर्तुमुचित इत्येतावदेवात्र विवक्षितम् । तथा च शङ्खः " एतानि ब्राह्मणोऽधिकुरुते स च वृत्तिं दर्शयतीतरेषाम् " इति । मनुश्च “विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः । शिष्येभ्यश्च प्रवक्तव्यं सम्यक् ॥ " इति । एकग्रन्थत्वापत्तिरिति तत्र १ 醪 । यदपि –षडङ्ग सर्ववेदार्थविचारस्यापि किञ्चित् तादृगपीष्टमेव । केनचित् सर्वाण्यङ्गानि सर्वश्च वेदमधिकृत्य कस्यचिदेकस्य ग्रन्थस्य कर्तुं शक्यत्वात् । यथा सर्वदर्शनसङ्ग्रहः, सर्वमत- २०४
सङ्ग्रहः इत्यादि । अलङ्कारमन्थाश्चैवम्भूता लक्ष्यन्त एव । यद्यपि वेदे अर्थ विशेषनिर्णयो व्याकरणाधीनोऽपि अथापि व्याकरणमात्राधीनत्वमन्तरा व्याकरणविचाराधीनत्वे साऽपि मीमांसैव; न्यायमूलं निरूपणात् । यथा 66 अहीनशब्दस्य, न हीनः इति व्युत्पत्त्या, अह्नः खः क्रतौ” इति वृत्त्यन्तरेण चेत्येवम् । उक्तं हि " रूढिश्धेयं द्विरात्रादौ सा च योगात् बलीयसी । तत्रापि यौगिकत्वं चेत् न सत्रेष्वप्रयोगतः ॥ मध्योदात्तं पदं चेदं अतः खप्रत्ययान्ता (3-38) " इति । परंतु कचित् जैमिनीयादिकण्ठोत्तया, कचिन्न्यायातिदेशेन, कचित् स्वतन्त्रविचारेण च स निर्णयो भवेत । सर्वथा स विचारस्तु न व्याकरणम् । किश्च वाक्यार्थनिर्णयः वाक्यरूपमीमांसाशास्त्राधीनः । व्याकरणादिनाऽपि । पदार्थनिर्णयस्तु यत्तु — “अर्थैकत्वादेकं वाक्यं साकाङ्क्ष चेद्रिभागे स्यात् " इत्युक्तं वाक्यैकत्वं न जैमिनीयधर्ममीमांसाबादरायणीयब्रह्ममीमांसयोरिति -तत्र किं देवस्य त्वा सवितुः प्रसवे " इत्यादाविव परस्परान्वित पदसमुदायत्वरूपं वाक्यैकत्वं न भवतीत्युच्यते, किं वा, (( पेक्षया । वाक्यैकवाक्यतारूपमहावाक्यत्वं वाक्यैकवाक्यतारूप महावाक्यत्वं नास्तीति । वाक्यानामेकवाक्यत्वं पुनः “स्वार्थबोधे समाप्तानामङ्गाङ्गित्वव्य संहत्य जायते " इत्युक्तविधया आद्यमस्माकमपीष्टम् । अन्त्यं । तु दुर्वचम् । ब्रह्मणः कर्म समाराध्यत्वात् ब्रह्मज्ञानस्य कर्माधीनत्वादङ्गाङ्गिबलादेकवाक्यतास्वीकारात् । नहिं जैमिनिः स्वतन्त्रफलसाधनत्वमेव मीमांसायामाहेति मन्तव्यम् । श्रुत्यादिप्रमाणानां विनियोजकत्वे व्युत्पादिते तद्बलेन यत्र यस्य विनियोगः तस्य तदर्थतायास्तदिष्टत्वस्य दुरपह्नवत्वात् । न हि मीमांसान्यायः, यत् उदाहृतम्, तन्मात्रविषयक इति कश्चित् मन्येत । एक ऐकशास्त्रय-प्रसाधनम् २०५ मादर्शयतस्तादृशां सर्वेषामेवाभिसंहितत्वात् । न च जैमिनिर्विघ्नवशात् ब्रह्ममीमांसां न चकारेति ब्रूमः ; बादरायणे तु गुरावायत्तत्वादेवेति । यत्तु — द्वयोर्भीमांसाकारयोर्गुरुशिष्यभावं भारतोक्तं स्वीकृत्यापि मध्यमाघिकारिविषयं शिष्यकृतं शास्त्रम् ; उत्तमाधिकारिविषयं गुरुकृतमिति भेदकल्पनम् तेन मध्यमाधिकारिणमप्युत्तमाधिकारिणं कारयितुमेव गुरुः शिष्यं निबन्धने न्ययूयुजत्। सोऽपि क्षुद्रफलाद्युपदेशेन वैराग्यमभिवर्ध्य ब्रह्मविचारे प्रेरयदित्येकवाक्यत्वमेव । अन्नमयप्राणमयादिस्थलेऽप्येकवाक्यताऽस्त्येव । एवं भूमविद्यायामपि, “श्रुतं ह्येव मे भगवदृशेभ्यः” इत्याद्युपक्रमानुसारेणैकवाक्यताऽप्यस्त्येव । भवताऽपि, स्वशिष्यजैमिन्युपदिष्टमार्ग एव विश्रान्तान् पुनरपि तापत्रयातुरान् कर्मफलानित्यत्वदर्शनेन तत्र विरागेण नित्यफलान्वेषिण उद्दिश्य ब्रह्ममीमांसा प्रवर्तिता" इति स्वाभिमतोपपादकेनैव वाक्येनैकशास्त्र्यमप्युपपादितमेव कर्मविचारानन्तर्यम्येष्टत्वात् । ; " "" सूत्रकारश्च गृहस्थस्येव यत्यादेरपि यथायथं कर्मापेक्षां दर्शयति, “ विहितत्वाच्चाश्रम कर्मापि “, " अत एव चाग्नीन्धनाद्यनपेक्षा”, यज्ञादिश्रुतेरश्ववत् " इत्येवम् । यज्ञादीत्यादिपदम्, “ तपसाऽनाशकेने ‘त्येतदपि गृह्णाति । विधुरादीनामप्यधिकारं स्थापयन् सर्वत्रेतिकर्तव्यतां यथार्ह दर्शयत्येव । एवं तृतीयस्य तृतीये विद्याम्, चतुर्थे कर्म च निरूपयन् तदन्ते, “ऐहिक " मिति सूत्रे कर्मतो विद्योत्पत्तिकालं च निरूपयन् कर्मणां विद्याङ्गत्वमेव मन्यते । न हि भवद्भाष्येऽपि ऐहिकसूत्रे कर्मजन्या विविदिषा ऐहिकी वाsन्यथा वेतिं विचारितम् । अतः उक्तसर्वाश्रमकर्मसाध्या विद्येति स्पष्टम् ॥ यत्तु पृच्छयते कर्मफलानित्यत्वं जैमिनितदनुयायिभिः कुत्र व्युत्पादितमिति तत्र ब्रूमः । ‘कर्मफलमेव नित्यम्, तस्मात् ब्रह्मेति किञ्चिदस्तीति न मन्तव्यम्’ इति तावत् जैमिनिर्नोपदिदेश । अतो विरुद्धत्वं न संभवति । एवञ्च “यन्न दुःखेन संभिन्नं न च प्रस्तमनन्तरम् । अभिलाषोपनीतश्च तत् सुख स्वः २०६
पदास्पदम्’ इति स्वर्गस्य नित्यत्वश्रवणात्’अक्षय्यं हवै चातुर्मास्ययाजिनः सुकृतं भवती ‘ति वाक्यतः चातुर्मास्ययागे कृते सर्वस्यापि सुकृतस्य नित्यफलकत्वसंभावनया च कर्मफलनित्यत्वप्रत्याशया प्रवृत्तस्य तत्स्वीकारेण प्ररोचनस्यादिधानादेव, ‘पुण्यचितो लोकः क्षीयने’ इत्येव तदभिसन्धिरिति विज्ञायेत व्युदपादि च तदनित्यत्वमपि तद्यथा " फलस्य कर्मनिष्पत्तेः तेषां लोकवत् परिमाणतः फलविशेषः स्यात” ( 1 2 17 ) इति सूत्रे कर्मफलं यथायथं भवत् परिमितमित्युक्तम् । , " 9000 एवं ‘स्वर्गेऽपि पातभीतस्य क्षयिष्गोर्नास्ति निर्वृतिः,’ ‘ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशान्ती " ति क्षयिष्णुतया प्रतीयमा नात् स्वर्गात् अतिशयितं मोक्षं कर्मणः साक्षात् फलं नैच्छत् जैमिनिः । यतश्चतुर्थतृतीये कर्मणामनुभूयमानफलानां सर्वफलजनकत्वं स्यादित्याशङ्कय, ‘एकं वा चोदनैकत्वादित्येकमेव फलमित्यभिधाय तदपि फलम्, स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात् " इति सूत्रेण स्वर्ग एवेत्याह । तेन ज्ञायते कर्मजन्येषु फलेषु स्वर्ग एवातिशक्ति इति । अत एव नित्यफलसिद्धिः कर्मतो नास्ति, अल्पास्थिरफलकं कर्मेति व्युत्पादितं भवति । एवं कर्मणां साक्षात् निकलानुपयेोगेऽपि किञ्चिद्दारा भवत्युपयोग इति “विविदिषन्ति यज्ञेने “त्यादि प्रदर्श्य व्युदपादि बादरायणेन । एवं तत्र योगसिद्धयधिकरणे प्रतिफलं कर्म पृथक् प्रयोक्तव्यमिति बोधनात् स्वर्गातिरिक्तफलार्थं विहितस्य स्वर्गार्थत्वं न भवतीति बोधनाश्च पुरुष एवं शिक्षितो भवति येनोपायेनानुष्ठीयमानेन यस्य फलस्य लाभे सर्वमन्यत् समुद्रे गोष्पदमिव तत्रान्तर्भवेत्, तदेव फलं तेनोपायेन संपाद्यम् । किमेभिरसकृदावर्त्यमानैः कर्मभिरिति । पञ्चमे च, 1 (3 32), “न वाऽसंबन्धात् " ( 33 ) इत्यत्र, किन्तु यस्य यत्काम्यकर्मजन्यफलकामना यदा ፡፡ अङ्गवत् ऋतूनामानुपूर्व्यम्” ‘यथापाठं न काम्यानुष्ठानम् तेन तस्य तदाऽनुष्ठानमित्येवं काम्यकर्मानुष्ठानानियमोऽपि दर्शितः । तत्रैव, “स्याद्विद्यार्थत्वात् इति पाठ • क्रमस्य विद्यायां (अक्षरराशिग्रहणे ) उपयोग उक्तः । ऐकशास्त्र्य प्रसाधनम् २०७ षष्ठे च 66 कर्तुर्वा श्रुतिसंयोगात् विधिः कार्त्स्न्येन गम्यते " ( 1 5 ) , A इत्यत्र तिर्यगादीनामनधिकारे शवरस्वामी अभाषिष्ट, “न देवानां देवतान्तराभावात न ऋषीणाम् आर्षेयाभावात् " इति । देवानां विग्रहाद्यभावादनधिकारो नोक्तः ; किन्तु देवतान्तराभावात् । इमं जैमिन्यभिप्रायमेव मधुविद्यायामतिदिश्य बादरायणः, मध्वादिष्वसंभवादनधिकारं जैमिनिः “इति पूर्वपक्ष प्रवत्य 66 "” } येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेव कौन्तेय ! यजन्त्यविधिपूर्वकम् ॥ अहं हि सर्वयज्ञानां भोक्ता च * प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥” इति (9) गीतोक्तरीत्या सर्वत्रान्तर्यामिपर्यन्तयजनस्यैव विध्यर्थत्वात् देवाः स्वान्तर्यामिण माराधयितुमर्हन्ति । यथा हिरण्यगर्भः इन्द्रादिदेवत्यमश्वमेधयज्ञमनुतस्थौ । किञ्च वसुत्वेन स्थितस्यापि पुंसो रुद्रादिभोगस्येदानीमभावात् मधुविद्यायाः तस्यापि फलस्य भावात् अस्ति वसूनामप्यधिकारः । अपि च न केवलं वस्वादिप्राप्त्यर्था मधुविद्या । उदयास्तमयराहित्येन एकरूपस्थितिरूपमोक्षफलस्याप्यत्रोपक्षिसत्वात् । अत एव चेयमुपासना न कदापि वस्वादिमात्रविषयिणी भवितुमर्हति । देवतान्तरमात्रोपासने मोक्षायोगात् ; " नान्यः पन्थाः " इति श्रुतेः । एवञ्च मधुविद्यावाक्यनिविष्टं ब्रह्मविद्यापदं वेदविद्या मित्यर्थपरं वाऽस्तु, वस्तुतो ब्रह्मविषयकत्वात् तद्विद्येत्यर्थपरं वा । सर्वथा देवताधिकारः सिद्धयत्येवेत्यभिसन्धाय तेषामप्यधिकारोऽस्तीति सिद्धान्तयामास । अतो जैमिनेः देवताविग्रहाद्यपलापो नेष्टः । देवताधिकरणे च ( 8 1 9) व्याख्यातृभिः देवताविग्रहादौ निषिध्यमानेऽपि न जैमिनिस्तथा लक्ष्यते । अतिथिवत् देवतायाः प्राधान्यं परं निषेधति । लोके आतिथ्ये अतिथिः प्रधानम् । तत्प्रीतिमुद्दिश्य क्रियमाणमातिथ्यं तदिच्छानुरोधेनोच्चावचं तदिष्टभक्ष्यभोज्यादिसंग्रहणेन स्यात् । यागे तु, तत्काले देवता कामयत इति कृत्वा श्रुतिविहितं द्रव्यं यागप्रकारं च परिहृत्य 1૨૦૮
न द्रव्यान्तरेणान्यथा यष्टुं शक्यम् । यागहोमादि यत् यथा विहितम्, तत् तथैव कार्यमिति देवताया उपसर्जनत्वमेव । देवतायाः संप्रदानत्वेन देयद्रव्यभाक्तेनाभिप्रेयमाणतया प्राधान्यसद्भावेऽपि फलस्यैव मुख्यप्रयोजनतया भाव्यत्वेन भावनायामन्वितत्वात् देवता गुणतयैवान्वेति विधिवाक्ये इत्येव चाह । एकादशे च (11-1-29 ) ’ क्रतुवच्चानुमानेनाभ्यासे फलभूमा स्यात् ’ इत्यत्र काम्यकर्मणामावृत्तौ फलभूमवत् अङ्गावृत्तौ फलभूमानमाशङ्कय परिहृत्य क्रतुफलान्यत्वादावृत्तिर्युक्तेत्युक्तम् । किञ्च महोत्रादे नित्यमनुष्ठीयमानादेव स्वर्गार्थं सङ्कल्प्य तत्प्राप्तौ शक्यायां स्वर्गार्थनानाकाम्यविधानं ज्ञापयतिएकविधस्वर्गप्राप्ताविव स्वर्गान्तरेपीच्छा संभवतीति । एवं प्रकृतिकतुनैव साप्ये स्वर्गेविकृतिक्रतुविधानतोऽपिफलवैषम्यादि ज्ञापितं द्रष्टव्यम् । बहुकर्मनिष्पाद्यानि बहुविधानि फलानि युगपदनुभवितुमशक्यानि क्रमेणैवमोक्तन्यानोति सिद्धमेव कर्मफलानित्वमिति । यत्तच्यते कर्मविचारेण कर्मणामल्यास्थिरफलत्वे निश्थिते ब्रह्मविचिचारयिषेति चण्डमारुतोक्तमनुपपन्नम् । " यथेह कर्मचितो लोकः क्षीयते " इति प्रत्यक्षदृष्टान्तानुगृहीतानुमानबलेनैव तदनित्यत्वसिद्धेरिति तन्न । श्रुत्या नित्यत्वे नावगतस्य दृष्टान्तबलेनानित्यत्वानुमानायोगात् विचार्यैव तस्य निर्णेय त्वात् । व्यक्तमिदमादावेव श्रीभाष्ये । “धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः " इति भवद्भाष्यम्, अध्ययनस्य वैधत्वेऽपि विचारस्य वैधत्वाभावात् कर्मविचारं विना ब्रह्मविचारकरणेऽपि न प्रत्यवाय इत्येतावत् ज्ञापयेत् । तथा धर्मविचारेछभा विरह विशिष्टब्रह्मविचारेच्छा ब्रह्मविचार कारणम् । तत्र धर्मविचारेच्छाविरहः धर्मविचारस्य निष्पन्नत्वाद्ववा स्यात, विचारफलस्य कर्मफला नित्यत्वनिर्णयस्य प्रकारान्तरेण संपन्नत्वाद्वेति तदाशयः । ’ ब्रह्मज्ञाने कर्मणामनुपयोग’ इति सिद्धान्तस्यैवा सिद्धेः, कर्मफला नित्यत्वनिर्णयायेव तदनुष्ठानार्थमपि तद्विचारस्य कार्यतया विचार निप्पन्नताप्रयुक्तं एव विचारे एकशास्त्रसाधन १२९ च्छाविरह इति विचारानन्तर्ये प्राचीनव्याख्याहृतं समीचीनमिति श्रीभाष्यहृदयम् । किश्च अथातो धर्मजिज्ञासेत्यत्र अथेति वेदाध्ययनानन्तर्यमुच्यते । तत्राध्ययनानन्तरमेव कर्मविचार इति सूत्रतात्पर्यम्, उत अध्ययनानन्तरं कर्मविचार एवेति । आद्ये अध्ययनं विना न कर्मविचार इत्येव सिद्धया न, अधीत्य स्नायादित्युक्तस्नानबाधावश्यकता । अन्त्ये धर्मजिज्ञासायाः प्राक् ब्रह्मविचारे तद्विरोध इति । यत्तु ….” चण्डमारुत (?) मपि शारीरके पूर्वमीमांसोपजीवित्वाभावस्य साधिका युक्तीः परीमळोक्ताः हृदयेन आद्रियते” इति तदिदं विप्रलम्भमात्रम् । पूर्वमीमांसोपजीवित्वं प्रायेण शारीरकसूत्रे प्रत्यक्षमीक्ष्यमाणं भवद्भिः नेत्रे पांसुभिरवकीर्यैव निषेधनीयमिति किं पिष्टपेषेण । शतदूषण्यां कर्ममात्रे विचारं सङ्कोचयतः कबन्धमीमांसकस्य दूषणावसरे, " कर्मशेषभूतस्यात्मनः शास्त्रान्तराद्विचार इति वदताऽपि शारीरकं शास्त्रैकदेश इति स्वीकर्तव्यम्” इत्युक्तं दूषयितुं यदुपन्यस्यते —— कर्ममीमांसाप्रतिपाद्य आत्मा अहमर्थः कर्तृत्वादिविशिष्टः, ब्रह्ममीमांसावसेयं तु चिन्मात्रमकर्तृ अभोक्तृ चेति, तथा देहाति रिक्तत्वज्ञानमात्रमात्मनः प्रत्यक्षानुमानादिगम्यम्, न वेदान्तविचाराधीनमिति च-तत्रोच्यते ब्रह्ममीमांसायां चिन्मात्रमकर्तृ अभोक्तृ चेति आत्मस्वरूपं कुत्र प्रतिपादितमस्ति ? प्रत्युत, ज्ञोऽत एव " इति सूत्रेण ज्ञातृत्वम्, " कर्ता शास्त्रवित्त्वात् " इति कर्तृत्वम्, तथा, तत एव, " भोगमात्रसाम्यलिङ्गाच” इत्यादिना च भोक्तृत्वश्चैवात्मनो मुक्तकण्ठं स्थाष्यते । एक आत्मनः शरीरे भावात् " इत्यधिकरणं मनसिकृत्य शतदूषण्यामेवमुक्तमित्याशयवर्णनमपि विचार्यम् । भवत्संमत व्याख्यादरणे ह्येतदधिकरण मनसि कृतं स्यात् । श्रीमाप्यवर्णितव्याख्याप्रकारसमादरणे तु नेदमधिकरणं हृतं भवितुमर्हति । अस्मन्मते देहातिरिक्तात्मस्थापनार्थमेतदधिकरणप्रवृत्त्यभावात् । परमात्मवत् नीवात्मनोऽप्युपास्यतया, तत्स्वरूपं कीदृशमनुसन्धेयमिति विचार्य अपहतपाप्मत्वादिप्रजापतिवाक्योक्ताकार विशिष्टतच्छुद्धस्वरूपोपासननि 27 " .१३०
र्णयार्थत्वादस्य । तर्हि वयम कर्तृत्वाभो कृत्वादि विशिष्ट चिन्मात्रात्मशोधनार्थमिति ब्रूम इति चेत् -” आनन्दादयः प्रधानस्य " इति ब्रह्मस्वरूपानुसन्धानस्य शिक्षिततया जीवब्रह्मैक्यात् जीवस्वरूपानुसन्धानप्रकारः पुनरपि न वर्णनीय इत्यधिकरणवैयर्थ्यापातात् । भवद्वाप्यादावपि देहातिरिक्तात्मस्थापनार्थमेवैतदधिकरणं स्वीकृतम् । अतः यदुकं भवता, प्रत्यक्षानुमानावगम्यः देहातिरेकः न वेदान्तविचार्य इति, तेन भवद्भाव्यदूषणमेव कृतं भवति । देहातिरेकस्थापनार्थताया एव तदिष्टेः । उतं हि “इह चेदं चोदनालक्षणेषूपासनेषु विचार्यमाणेष्वात्मास्तित्वं विचार्यते कृत्स्नशास्त्रशेषत्वप्रदर्शनाय " इति । अत्र कृत्स्नशास्त्रेति पूर्वोत्तरमीमांसैकशास्त्र्यं विवक्षितमिति समनन्तरमेव निरूपदिष्यते । अत्र क्रियमाणो विचारः पूर्वमीमांसोत्तकर्मकलापानुष्ठानोपयोगीति स्पष्टं ब्रुवता हि कर्तृत्वभोक्तृत्वविशिष्टाहमर्थ स्थापनमेवात्र क्रियत इति वक्तव्यम् । उपासनेष्वपि तादृशस्यैवाधिकाराच्च । सर्वथा देहातिरेकस्थापनार्थत्वं मुक्तकण्ठं भाष्याभिहितमेवेति तस्यांशस्य प्रत्यक्षानुमानगम्यत्ववादिना भाष्यमिदं प्रत्याख्यातमेव भवति । पूर्वमीमांसातः प्रागेवात्मनो देहातिरेके असंदिहानस्य द्वितीयाध्यायतृतीयपाद तृतीयाध्यायप्रथमपादाद्यर्थावगत्यनन्तरमप्ययं महान् संदेहः समापतित इति विचित्रमेतत् । तर्हि शतदूषण्यां केनाशयेन शारीरकं कबन्धमीमांसकदूषणावसरे प्रस्तावमनायीति चेत् — अस्तु तत् भवद्वाप्यदृष्ट्या । वस्तुतो, " नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः, " ज्ञोऽत एव " " कर्ता शास्त्रार्थवत्त्वात् " इत्यादीनि सूत्राणि तत्राभिसंहितानीति प्रतिपद्यताम् । अत एव, C " इत्याह नास्तिक्यनिराकरिष्णुः आत्मास्तितां भाष्यकृदत्र युक्तया । हृढत्वमेतद्विषयश्च बोधः प्रयाति वेदान्तनिषेवणेन ॥" इति कुमारिलवचनं तन्मूलभूतं शबरोपवर्षादिवचनमपि ततत्सुत्राभिप्रायेणेति वेदितव्यम् । " ब्रह्मसूत्रपदैश्चैव " इति गीताभाष्ये च, “नात्मा । ऐकशास्त्रय-प्रसाधनम् १३१ श्रुते” रित्यादि ब्रह्मसूत्राभिप्रायेण लोकप्रवृत्तिः स्पष्टमुक्तेति, " प्रयाति वेदान्तनिषेवणेने “त्येतदपि तद्विषयमेवास्मत्पक्षे । 7 भवता चात्र शरीरेभावाधिकरणं प्रस्तुवता तत्र भवद्भाष्ये कण्ठरवेणोकमैकशास्त्र्यं प्रतिक्षिप्यत इति कुतोऽयं विप्रलम्भः । तथा च भाष्यम् " ननु शस्त्रप्रमुखे एव प्रथमे पादे शास्त्रफलोपभोगयोग्यस्य देहव्यतिरिक्तस्यात्मनोऽस्तित्वमुक्तम् । सत्यमुक्तं भाष्यकृता । न तु तत्रात्मास्तित्वे सूत्रमस्ति । इह तु स्वयमेव सूत्रकृता तदस्तित्वमाक्षेपपुरःसरं प्रतिष्ठापितम् ; अत एव चाssयाचार्येण शक्रखामिना प्रमाणलक्षणे वर्णितम् । अत एव च भगवतोपवर्षेण प्रथमे तन्त्रे आत्मास्तित्वाभिधानप्रसक्तौ, शारीरके वक्ष्याम इत्युद्धारः कृतः । इह चेदं चोदनालक्षणेषूपासनेषु विचार्यमाणेष्वात्मास्तित्वं विचार्यते कृत्स्नशास्त्रशेषत्वप्रदर्शनाय " इति । अत्र भाष्यकृतेति पूर्वं निर्दिश्य पृथक शवरस्वामिप्रस्तावात् शाबरभाष्यातिरिक्तं प्राचीनं किञ्चिद्वाप्यमासीदित्यपि स्वरसतो गम्यत इत्यन्यदेतत् । कर्मफलोपभोगयोग्यदेहातिरिक्तात्मस्वरूपस्थापनं पूर्वोत्तरतन्त्रशेषमत्र क्रियत इति स्पष्टम् । पश्यत जैमिनिबादरायणयोः परमं सङ्केतम् -‘शरीराधीन कर्म तदनुबन्धिदेवताविचारः प्रथमेन कार्यः; तत्कर्तृजीवात्मतदाराध्यपरदेवतारूपशारीरद्वयविचारः शारीरके द्वितीयेन कार्य’ इति । एवं मिथः सापेक्षत्वात् सुदृढमैकशास्त्र्यमिति भवद्भाष्यमेव दर्शयति । अर्वाचीनाः परस्सहस्रयुक्तिप्रदर्शनेन यथामनोरथं नृत्यन्तु । सर्वं शङ्करभाष्ास्पष्टविरुद्धमिति सर्वथोपेक्षणीयमेव । कर्मविचारानन्तर्यमथशब्दार्थ इति शाङ्करभाष्ये न स्वीक्रियत इति सत्यम् । ऐकशास्त्र्यं स्वीकृत्यैव तन्नेप्यत इत्येतदेव हृद्यम् । अतः ऐकशास्त्र्यसमर्थनवादोऽपि भवता वादान्तरद्वयवत् न परीक्षणीय इत्यलमेतावत् । अथापि शेषमपि भवदुक्तं मात्रया विमृश्यते । " सविन्मात्रमज्ञातृ आत्मस्वरूपं तु कर्मविचारे अनुपयुक्तमिति कृत्वा आत्मतत्वविचारस्तवः न कृत” इति भवतोच्यते । यदुपर्युक्तं स्वरूपं देहातिरि स्वमित्यत्वादिरूपम्, तदवि तत्र न विचारितम् । भवदिष्टमात्मस्वरूपं बाद १३२.
1 रायणेनापि न विचारितमिति प्रागेवोक्तम् । भवदिष्टात्मस्वरूपपरत्वाभावाच्छारीरकस्य पूर्वतन्त्रेणैकशास्त्र्यं सुत्थम् । बृहत्यां तु यद्वाक्यम्, “विज्ञानरूपता. तु विज्ञातुरनाशङ्कनीया अनाशाक्तत्वा, युक्तश्चानाशङ्कित" मित्यादि, तत्र प्रथमवाक्यं तावत, ‘आत्मा न ज्ञानरूपः तथाशङ्काया अप्यनवकाशा’ दिति वेदान्तिपक्षमुपमर्थ, युक्तश्चेत्यादिना अङ्गीकृत्यापि समाधानमुच्यते । सर्व वाक्यमेकपक्षपरमेवेति स्वीकारेऽपि विज्ञातृत्वेन सहित ज्ञानरूपत्वमेव तेनोच्यत इति अस्मन्मतानुकूलमेव तद्वाक्यम् । " विशनरूपता तु विज्ञातुः " इति किल वाक्यमुदाहृतम् । तत्र विज्ञातृत्वमिष्टमिति स्पष्टम् । वस्तुतः इमे गुरवः प्रभाकाराः अद्वैतवादं खण्डयन्त्येव । जगन्मिथ्यात्वनिर्विशेषसत्यत्वयोः तदाष्टत्वा । यदिमे, " यत्तु ब्रह्मवादिनामेष निश्चयः, यदुपलभ्यते, न तत् तथ्यम्; यनोपलभ्यते तत् तथ्यम् इति । नमस्तेभ्यः ; विदुषां नोत्तरं वाच्यम्" इत्यद्वैतिलोकं परिहसन्ति । । पूर्वोत्तरमीमांसयो मिथ उपजीव्योपजीवकभावः उक्तरीत्या नापह्नवमर्हति । धर्ममीमांसायाः पूर्वत्वश्च सर्वसंमतम् । वक्ष्यमाणमुपजीव्य पूर्वं किञ्चिद्विचार्यत इत्येतत् पूर्वतन्त्रे शारीरके च बहुळं प्रसिद्धम् । कर्मविचारमन्तरा तत्फलारूपत्वादिनिर्णयो न भवतीति, ‘अत्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेदिति च प्रागेोक्तम् । भवताऽपि संन्यस्तव्यतिरिक्तानाम् आजीवन्मुक्ति यज्ञादिकर्मानुष्ठानावश्यकत्वस्वीकरणात् सांप्रतिकानाञ्च विचारकाणां प्रायेणासंन्यस्तत्वात् ते कर्मविचात् पूर्वमेव ब्रह्मविचारे प्रवर्तितुमर्हन्ति । संन्यस्ता अपि शिष्यगृहस्थादिशिष्यशिक्षाकौशलसंपत्तिकामास्तथैवेति सिद्धं भूयसांन्यायात् कर्म बिचारानन्तर्ये ब्रह्मविचारे अथशब्द विवक्ष्यं भवतीति । क्वाचित्कव्यतिरेकमात्रेण तदस्वीकरणे.! साधनचतुष्टयसंपत्तिरप्यद्यतनेषु विचारकेषु व्यतिरेकादुपेक्ष्येति चोक्तमेव, श्रुतिलिङ्गादिबलाबलादिकं ब्रह्मतर्कसिद्धं लोकसिद्धश्चेति न चण्डमारुतेऽपि जूते यदुच्यते — तत्र ब्रूमः । यत् स्वत एव दूरे पतितम्, न तत् चण्डमारुतेनापि प्रक्षेप्यम् । ब्रह्मतर्कः शशशृंगायमाणः । लोकोतयण श्रुतिलिङ्गादिषु न व्युत्पत्तिलवमप्यभुवानो दृश्यते । अपि ● एकशा स्त्र्य-प्रसाधनम् १३२. न हि जैमिनिरपि श्रुतिलिङ्गादेर्बलाबलमविद्यमानं प्रभावतः साधयतीति कश्चिन्मन्वीत । स्थितस्य व्युत्पादनं तु तत्कृत्यम् । जैमिनीयपारे पथरहितलोकमूलं तदद्यत्वे नानाशास्त्रनिष्णातानामपि न ज्ञातं भवतीत्यानुभवि कमेतत् । सर्वेऽपि ग्रन्थकाराः पाश्चात्यानामनभिज्ञानां ज्ञानसंपत्त्यर्थमेव ग्रन्थान् प्रश्नन्ति । एवमेव बादरायणोऽपि । ‘किमनेन बादरायणेन, अस्माभिस्स्वबुद्धयै वाध्ययनसमय एवाबधारितत्वात्’ इति यदि कश्चिन्मन्यते तावता बादरायणकृत्यं न निष्फलं भविष्यति । अन्यथा श्रवणमात्रेण साक्षात्कृत ब्रह्मजीवैक्यानां मननादि व्यर्थमिति कृत्वा, “ मन्तव्यो निदिध्यासितव्य " इत्यादिश्रुतयोऽपि नाद्रियेरन् । उपकारमेदात् विद्यास्थानपार्थक्यमिति प्रागेवोक्तत्वात्, “पुराणन्यायमी मांसा धर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश " इति विद्यास्थानानां चतुर्दशत्वगणना निर्चाधा । अत्र मीमांसेति संग्रहणात् मीमांसाशास्त्रमेकमिति न वयं ब्रूमः । प्रमाणान्तर सिद्धानामेकानेक भूतानां विद्यास्थानानामुपकार भेदात् चतुर्दशभूतानां परिगणनपरत्वाद्वाक्यस्य । उपकारमेदश्च पुराणानां सेतिहासानां वेदार्थोपबृंहकत्वम्, न्यायस्य तर्कानुमानस्वरूपशोधकत्वम्, मीमांसायाः वेदवाक्यार्थनिर्णायकतर्क समर्पकत्वम्, धर्मशास्त्राणां धर्मसारसाहकत्वम्, अङ्गानां वर्णपदतदर्थ निर्णयहेतुत्वम्, वेदानां हौत्राध्वर्यवताच्चाप्रधर्म विशिष्टपुरुषार्थ साधनावबोधित्वमित्येवंरूपः । " मीमांसा वेदवाक्यविचाररूपे “ति च मिताक्षरा । अतो नेद मीमांसा पदम् अभेदस्य भेदस्य वा साधकम् । तदिदं शतदूषण्यामेवोक्तम्, " न च धर्मशालस्यवाद महर्षिभिः पृथक् परिसंख्यानम्” इति । प्रत्युतैक्यमेव वृत्तिकारादिभिः उपवर्णितमिति किमित्यकाण्डे तन्निषेधसंरम्भोऽर्वाचामिति च श्रीभाष्यादितोऽपि सिद्धमेव । यत्तु — अत्र श्लोके धर्मपदविद्यापदयोः श्रवणात् धर्ममीमांसा विद्यामीमांसा च विभिन्नेत्येव ज्ञाप्यत इति तन्न तथा सति पश्चदशत्वप्रसङ्गात् । विद्यानामिति, स्थानानीति च बहुवचनात् पुराणा १३४
न्वयात् विद्यास्थानानि पुराणादीनि चतुर्दश, धर्मस्थानानि तदन्यानि चतुर्द" उपकार मेदात प्रस्था शेति अष्टाविंशतित्वप्रसंगो वा । एवं स्थिते, नभेदं वदन्तः शतदूषणीकाराः खदन्तैः खाङ्गुलिं दशन्ती’ “ति भवद्दूषण मलमम् । धर्मविद्यान्यतरस्थानत्वमनुगतधर्म इति चेत् तर्हि वेदे कर्मब्रह्मभागभिन्नेऽप्येकत्वमिव, निर्बाध मीमांसैकत्वम् । अतः सर्वस्यापि शब्दराशेः तत्त्वज्ञानजननमुखेनैवानुष्ठानोपयोगात् सर्वाण्यपि विद्यास्थानानि च धर्मस्थानानि चेत्येव श्लोकार्थः । तावता च शारीरकस्यापि धर्मस्थानत्वस्यावश्यकत्वात् अविधेयज्ञानदम्पर्यमस्य भवत्संमतमनेन याज्ञवल्क्यवचनेन व्युदस्तं भवति तेन बृहदारण्यके याज्ञवल्क्योपदेशाः सर्वे धर्मभूतोपासनेदम्परा इति च ज्ञापितं भवति । यत्तु पुराणानां सात्त्विकराजसतामसविभागः न सत्त्वरजस्तमोमूलत्वकृतः ; किन्तु सत्त्वाद्यधिष्ठातृदेवतापरत्वकृत इति -तत्खण्डनं भावप्रकाशिकायां जिज्ञासाधिकरणे स्थितम् । तथा स्वीकारेऽपि सात्त्विकानुसारिणामेव योगसंसिद्धया मोक्षवर्णनात् अन्यपुराणानामुपेक्ष्यत्वं स्पष्टम् । पुराणानामष्टादशत्वनिर्देशवत् मीमांसा त्रित्वद्वित्वविषयप्रमाणाभावात् प्राक्तनोक्तमैक्यं निर्बाधम् । तस्य यत्तु सङ्कर्षोदाहरणेन जैमिनेः सेश्वरत्वस्थापनमयुक्तम् । काशकृत्स्नकृतत्वादित्यादि तत्रेदमवधेयम् । ’ हरौ प्रतिष्ठा’ मिति, ‘हरौ प्रतिष्ठेति वा सङ्कर्षवाक्यं नाचायैरुदाहारि । " अन्ते हरौ तदर्शनात् " इत्यादि पुनरुदाहारि । अस्तु तावदयं संकर्षः काशकृत्स्त्रकृत इति — अथापि जैमिनीयसङ्कर्षान्तर प्रवचनपरेण काशकृत्स्नेन तद्वैशद्यायैतत्करणात् काशकृस्नोक्तिबलादेव जैमिनेरपि सेश्वरत्व सिद्धिः । अस्यैव जैमिनिकृतत्वे तु सुतराम् । काशकृत्स्नकृतस्य जैमिनिकृतं प्रवचनमिति पक्षेऽप्येवम् । अत्राधिकरणसारावल्यादिश्लोकोदाहरणपूर्वकं वक्तव्यं सर्वमुक्तमधस्तात् । एकशासनि १३५ यत्तु ब्रह्ममीमांसायाः पाशुपतप्राश्चरात्राभ्यामिव धर्ममीमांसयाऽपि नैक्यम्, सिद्धान्तार्थविरोधादिति — तत्राविरोधे सर्वत्र ग्रन्यैक्यमिति न कश्चित् ब्रवीति । पाञ्चरात्रब्रह्ममीमांसयोः सिद्धान्तविरोधो नास्तीति भवदीयकृतं कल्पतरुमादायैव प्राक् स्थापितम् । तत् तस्य पाशुपतेन सह घटनं पूर्वाचार्यचहिष्कृतपाशुपतपक्षपातस्य हृतस्य प्रदर्शकमात्रम् । " शारीरके कचित्, ’ तदुक्त’ मित्येतावन्मात्रमुच्यते । ‘अल्पश्रुतेरिति चेत् — तदुक्तम् ’ इति अन्यत्र च दृष्टान्तोपन्यासपूर्वम्, ’ प्रदानवदेव तदुक्तम्’ इति । एतद्वैषम्यदर्शनात् ज्ञायते केवलं तदुक्तमिति प्रयोगः एकशास्त्रान्तर्गतविषयविवक्षायाम् । दृष्टान्तपुरस्सरं प्रयोगः भिन्नशास्त्रविषया भिमप्रायेणेति यदुक्तम् — तदनुपपन्नमेव, पृष्टस्य विषयस्यैव प्रागुक्तत्वे, “तदुक्त” मित्येतावन्मात्रप्रयोगः । प्रष्टस्य समाधाने विषयान्तरस्थितन्यायातिदेशेन वयमाने तद्विषयनिरूपणप्रकारं स्मारयितुं दृष्टान्तोपन्यासपूर्वं तदुक्त मिति च प्रयोग इति वैषम्य हेतौ स्पष्टे अस्य शास्त्रभेदसाधकत्वकथनस्यासंबद्धत्वात् । न केवलं ’ तदुक्त ‘मित्येव अन्यथाऽपि पूर्वमीमांसां गृह्णाति ; “न चाधिकारिकमपि पतनानुमानात् तदयोगात्” इत्यत्र आधिकारिकपदेन मीमांसाषष्ठाध्यायरूप।धिकारलक्षणोक्तप्रायश्चित्तग्रहणात् । ग्रन्थान्तरं तु “समाचारे " इति नाम्ना निर्दिशति सर्ववेदान्तप्रत्ययाधिकरणे । एवं ग्रन्थनामनिर्देशं विना स्थलमात्रनिर्देशात् अस्य तस्य च भागस्य एकग्रन्थनिवेशोऽभिमत इति स्वरसमवसीयते । ; यतुयत्तु -धर्ममीमांसको जैमिनिः विरुद्धार्थवादी अन्यः । अविरुद्धवादी शारीरको को जैमिनिरन्यः । अत एव जैमिनिना कश्चिदन्यो जैमिनिः, “प्रयोगवचनैकत्वात् सर्वेषामुपदेशः स्यात्”, इति सूत्रे निर्दिष्टः इति तत्रो च्यते तर्हि " जैमिनीयेन षोडशलक्षणेने “ति वृत्तिकारेण गृहीतो जैमिनिः अविरुद्धार्थवादी जैमिनिरेवास्तु । तेन कर्मविचारः शारीरकानुकूलमेव शारीरकात् पूर्वं कृतोऽस्तु । सद्ग्रन्थमूल कर्म विचारानन्तर्यमेव प्राच्यैरस्माभिधोच्यत इत्यस्तु । तत्र कर्मफलानित्यत्वादिकं सुबहु वर्णितं स्यात् । एवंस्थिते १३६
निरीश्वरमीमांसक जैमिनिकृतकर्म विचारमेव षोडश लक्षणीविलक्षणं द्वादशलक्षण्यात्मकं प्रपञ्चयन्तो निरीश्वरवादिनो व्याख्यातारः स्वग्रन्थप्रचारणेन महनीयग्रन्थप्रचारलोपमापादयामासुः, शाङ्करभाष्यप्रचारबलेन पूर्वाचार्य विहिताने कव्याख्याविलोपमिवेति मन्यताम् । तत् सुप्रतिष्ठितं विंशतिलक्षणमेकं शास्त्रमिति । कथमप्रसिद्धतमार्थोपन्यास एवमिति चेत् — जैमिनिद्वयविषयेऽपि तुल्यमेतत् । षष्ठे प्रयुक्त जैमिनिपदविषयेऽप्युच्यते । तत्र ‘कर्मभेदे तु जैमिनि …. ’ ( 6-34 ) इति न सूत्राकारः; किंतु कर्माभेदं तु जैमिनिः इति । यद्यपि आकरे सूत्रस्यास्य पूर्वपक्षविषयत्वमभिसंधाय प्रयोगविधिनैकेनाङ्गप्रधानत्वाभिमतसर्वकर्मग्रहरणात प्रयोगविधौ कालयोगः सर्वेषामविशिष्ट इति दर्शपदेन पूर्णमासपदेन च सर्वग्रहणात् कर्मस्वविशेष इति सर्वोपसंहारशक्तस्यैवाधिकार इति व्याख्यानात् तस्य सिद्धान्तिजैमिनिपक्षत्वायोगात् अन्योऽसौ जैमिनिरिति विभावनीयमस्ति -अथापि वस्तुतः सर्वं सिद्धान्तविषयतयै वसुयोजम् । तथा हि-” अपि वा " इति सूत्रेण प्रधानमात्रानुष्ठानेऽपि प्रत्यवायपरिहाररूपार्थनिवृत्त्या तावत्तु अवश्यकम्, अन्यदुपसर्जनमित्युक्तन् । तथापि, शक्तस्याङ्गानाचरणे दोषोऽस्तीति तत्प्रयुक्तोऽपि विशेषो ग्राह्यः, अङ्गानां प्रधानसंबन्धं विनाऽनुपयोगादिति, “तदकर्मणि च” इति सूत्रेण व्युत्पादितम् । तर्हि, एकेन एकमङ्गमनुष्ठीयते, अन्येन द्वे, अपरेण त्रीणीत्यव्यवस्थया अनेकप्रयोगवचनकल्पनापत्तिः ; पुरुषभेदेन समयभेदेन चानेकप्रयोगवचनकल्पनमशक्यश्चेत्याशङ्कायाम् — कर्माभेदन्त्विति सिद्धान्तोपपादकं सूत्रं प्रवृत्तम् । अङ्गसंबन्ध भेदप्रयुक्तविशेषसद्भावात् प्रयोगवचनभेदमपि केचिन्मन्यन्ते । जैमिनिस्तु नैवम् । कर्मणः तदनुष्ठेयवर्गस्य अमेदं कोडीकारमेवाह जैमिनिः । कथममेदः, तत्तच्छक्तिमेदेन भेदादिति चेन्न — प्रयोगबचनेनैकेनैव सर्वेषामुपदेशात् । “ यथाशक्तयंङ्गसहिताभ्यां दर्शपूर्णमासाभ्यां यावज्जीवं यजेत " इति यथाशक्तिपदनिवेशात् यथायथं सर्वसंग्रहः । शक्तस्याङ्गत्यागे प्रत्यवायश्च तत एव । इदमेव प्रकारान्तरेणोक्तं पार्थसारथिमिश्रः, यदा यावन्ति शक्नोत्युपसंहर्तुमिति । सोमनाथीये च, तदा तावद्भिरङ्गैरुपेतं 66 ऐकशात्र्य प्रसाधनम् २१७ प्रधानंमेनः क्षपयति” इति । यथाशक्तीत्युपत्रन्धे कि नियामकमिति चेत्यावज्जीवं दर्शपूर्णमासाभ्यामिति वक्ये उत्पत्तिवाक्यश्रुतकालसंबन्धितया दर्शपूर्णमासपदवाच्ययागपट्रकमात्रे जीवननिमित्तकत्वावगमात् तदवश्यकर्तव्यत्वे सिद्धे, निफले प्रवृत्त्ययोगात् पापक्षयार्थतया दर्शपूर्णमासविनियोगे पश्चात् क्रियमाणे करणस्येतिकर्तव्यतापेक्षायां तदीयसर्वाङ्गान्वयप्रसक्तौ प्रथमश्रतनिमित्त संबन्धज्ञापितावश्यकर्तव्यत्वाविरोधेनाङ्गान्वयस्य स्वीकार्यत्वे सति यथाशक्तीति सर्वानुगमकोपबन्धसिद्धिः । अतः प्रत्यवाय निवृत्तिरेकस्याङ्गस्यानुष्ठानेऽपि सिद्धयति । यथा त्वन्तरेषु सर्वस्वदक्षिणादौ विधीयमाने तत्तद्धनस्येयत्तायां तारतम्ये सत्यपि सर्वस्वपदं यथा तत्तदधिकारिदीयमानं धनं युगपदेव ब्रूयात्, तथेह शक्यसर्वाङ्गविशिष्टेन प्रधानेन कुर्यादिति अनुगमय्य श्रुतिर्वक्तीति न शक्यत्यागप्रसक्तिः । इदमुपरि, " अर्थस्ये " त्यादिसूत्रेणोच्यते । शाबरत्यागेन वार्तिक कौस्तुभादौ सूत्राणामर्थान्तरवर्णन बहुत्र द्रष्टव्यम्; सेश्वरमीमांसायामपि । तथेहाप्यस्तु । अयमस्मद्वर्णितश्च सूत्रार्थः अधिगतभाट्टदीपिकागमनिकानां सुग्रह एव । शावर भाष्य नात्यापि एक एव जैमिनिः पूर्वपक्षे स्वनाम निर्दिशतीत्युक्ता वपि नातीव नोऽनुपपत्तिः । प्रायः परोद्भावितानां पूर्वपक्षाणां परिहाराय न्यायं निबध्नन्ति । तत्र सिद्धान्तस्य बहुमुनिगृहीतत्वे तदुक्तिमात्रम् । अन्याना लोचितस्यातिशयितस्य स्वनिर्णीतस्य सिद्धान्तस्य कथने सिद्धान्ते स्वनाम निबध्नन्ति । यत्र तु पूर्वपक्ष एव स्वयमेव सयुक्तिकमुपपाद्यते, निर्णयश्च सुखं न लब्धः, तत्र खोद्भावितोऽयं पूर्वपक्ष इति ज्ञापनाय स्वनाम पूर्वपक्षेऽपि निवध्येत । अतोऽपीदं न जैमिनिद्वित्वे प्रमाणं भवितुमर्हति । जैमिनिद्वयत्रयादिसद्भावेऽपि न काऽपि हानिः । " संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेन” इति प्राचीनपरिगृहीतजैमिनिग्रन्थेनैवैकशास्त्र्यस्यास्माभिर्वर्णनात् । प्रसिद्धजैमिनेरेव प्रसिद्धवादरायणशिष्यभावौचित्यात् । सूत्रमिदं सिद्धान्ते संभाविताशङ्कापरिहारार्थं सिद्धान्तिनैव जैमिनिना स्वनामनिर्देशपूर्वमेवोक्तमिति निर्वाहः संभवतीति चोपपादितम् । सर्वथा नैतावन्मात्र पुरस्कृत्य जैमिनिद्वयकल्पनं युक्तिमत् ॥ 28२१८
तत्त्वटीकायामुपवर्ष बोधायनयोरैक्यं तु नोक्तम् । प्रक्षिप्तवाक्यं कतिपय ग्रन्थमुद्रितं विलोक्य तथैव गृहीत्वा दूषणं न कार्यम् । उपवर्षवाक्यान्यपि न श्रीभाष्यविरोधीनीत्यलं बहुना ॥ वृत्तिग्रन्थे शाबरे चौपवर्षे भाट्टे भामत्यादि के शांकरे च । स्पष्टं यत् खल्वैकशाख्यम्, भवन्तो नो चेदेतत् रोचयन्ते ततः किम् ॥ सूत्र भाष्यं पूर्वतन्त्रं निरदिक्षत् कचित् कचित् । पदे पदे भामती तु, कथं तस्यानपेक्ष्यता ॥ सूत्रताप्यतद्वयाख्याः सर्वास्त्यक्ता पृथग् यदि । निर्विशेषब्रह्मचिन्ता सा मा भूदेकशास्त्रगा ॥ एवं साधनचतुष्टयसंपत्तिः कर्मचिन्तनं न विना । तद्वक्ष्यते वरं तत् स्वीकरणं प्राच्यवर्णितार्थस्य ॥ वादावसाने परमार्थभूतं समादृतं यद्भवतकशास्त्र्यम् । सुदूरमा गृह्य कथं पुरस्ताददूषि तत् हन्त वृथा विचारः ॥ ईशः कारुण्यतन्त्रस्तनुकरणमुखं भव्यदृक् संप्रदिश्य प्रापध्याध्यायम हैर्नि खिलहितविमर्शार्थितामातनोति । जीवो ज्ञाताऽपि विनैर्बहुभिरुपहतो वर्धयन् मुक्तिवान्छां कर्मोपलिष्टविद्यारत इह शनकैः कल्पते सत्फलाय ॥ शुभमस्तु श्रीः