उक्ता परमते ब्रह्मशब्दवृत्तेरयुक्तता । अथ जिज्ञास्यताऽप्यस्य नास्तीत्येतत् प्रसाध्यते ॥ ६३ ॥ अनुभूतिस्वरूपं ब्रह्म भवन्मतरीत्या यस्मादविषयः, तत एव न जिज्ञास्यमपि’ इति शङ्कां परिहर्तु यल्लिख्यते, ‘सत्यमिष्टसिद्धयनुरोधात् " ब्रह्म अननुभाव्यम्, अनुभूतित्वात् –अथाप्यज्ञाननिवृत्तये वृत्तिव्याप्यत्वाङ्गीकारान्न दोषः । फलव्याप्यत्वमेव तु न स्वीकुर्मः" इति तत्रोच्यते–— वस्तुत इष्टसिद्ध युक्तमनुमानमसाधकम् । तत्स्वीकारे तु जिज्ञास्यत्वस्यायोग एवेति । कथमिति चेत् — इत्थम् । तत्र किमिदमननुभाव्यत्वम् ? स्वाविषयत्वं वा, वृत्त्यविषयत्वं वा, सामान्यतोऽनुभवाविषयत्वं वा नाद्यः, सिद्धसाधनात् । न हि सुशिक्षितोऽपि नटवटुः स्वस्कन्धमारोहतीति न्यायेन स्वस्मिन् स्वविषयकत्वस्यास्वीकृतत्वात् । स्वयंप्रकाशत्वमपि हि न स्वविषयकत्वम् । किन्तु स्वस्य स्वविषयकत्वाभावेऽपि स्वविषयकज्ञानान्तराभावेऽपि सत्तामात्रेण स्वविषयकव्यवहारानुगुणत्वमेवेति भवदीयग्रन्थेऽप्युक्तम् । नापि वृत्त्यविषयत्वमिति द्वितीयः पक्षः । वृत्तेः सविषयकत्वानङ्गीकारादस्मन्मतेन सिद्धसाधनात् । भवन्मते चरमवृत्तिविषयत्वस्य स्वीकृतत्वेनापसिद्धान्ताच्च । न तृतीयः । प्रत्यक्षानुमितिशाब्दबोधेषु अनुभवत्वव्यवहारस्य लोकप्रसिद्धतया ब्रह्मणो यथायथं तत्तदनुभवविषयतया साध्यस्य बाधितत्वात् । न चानुभवो नाम वृत्तिविशेषावच्छिन्नचतन्यम् । तत्र ब्रह्मणः स्वयमेव चैतन्यतया तद्विषयत्वं कथं ब्रह्मणीति वाच्यम्वृत्त्यवच्छिन्नचैतन्येति साध्यकोटिनिविष्टांशस्यास्माभिरनङ्गीकृतत्वेन काञ्चनम निज्ञासानुपपति-प्रसाधनम् १४७ यवहेरिव अप्रसिद्धधर्मघटितस्य साधनायोगात् । अनुभवो नाम सविषयकः सकर्तृकश्च ज्ञानविशेष इत्येतावदेवानुभविकम् । न तत्र वृत्तिचैतन्यरूपां शद्वय सद्भावेऽनुभवः प्रमाणम् । न वा श्रुतिः । केवलं सांख्यवासनया तदप्रामाणिकमेव सिद्धवदनूद्यतेऽद्वैतिभिः । अनुभवानुरोधेन, “नानात्मानो व्यवस्थातः " इति वैशेषिकोक्तरीत्या चात्मनामनेकत्वात् अस्मदनुभव विषयत्वस्य ब्रह्मण्युपगन्तव्यत्वेन अनुभवविषयत्वं न शक्यं निषेद्धं सांख्यरीत्यवलम्बेsपि । अन्तःकरणवृत्तिरपि चक्षुरादिवृत्तिवत् सन्निकर्षमात्रम् । सन्निकर्षश्च ज्ञानं प्रति करणमेव । अतो ज्ञातुः ज्ञानकरणस्य च भेद एव निरूढ इति न करणव्यापारस्य कर्तृगतगुणरूपत्वम् । हेतुः ; अनुभूतित्वेऽप्यनुभाव्यत्वे बाधकाभावात् । अप्रयोजकश्च अनुभूतेर्भाट्टतार्किका दिवत् जडत्वस्य वेदान्तिभिरनभ्युपगमात् स्वप्रकाशत्वे स्वव्यवहारः स्वविषयकानुभवान्तरमन्तरेणैव भवितुमर्हतीति किलाननुभाव्यत्व साधनीयम् । तत्र लोके परकीयानुभूतेरन्यपुरुषं प्रति स्वप्रकाशत्वाभावेन तं प्रत्यनुभाव्यत्वं हि न ततो वारयितुं शक्यम् । एवं स्वकीयानुभूतेरपि पूर्वापरकालभवायाः वर्तमानकाले स्वयंप्रकाशमानत्वायोगात् स्वकीयानुभवान्तरगोचरत्वमप्येष्टव्यमेव । अन्यथा तद्वयवहारानिष्पत्तेः । च तत् । भवितुमर्हति ? भवन्मतरीत्याऽपि सदाद्याकारेण ज्ञातमात्मस्वरूपमानन्दरूपेणाज्ञातत्वाज्जिज्ञास्यते, ज्ञायते चेत्युक्ततया तत्र सामान्या कारेणानुभवान्तरस्यानपेक्षायामपि विशेषरूपेणानुभवस्यावश्यकत्वे सिद्धे, अनुभवस्य च वृत्त्यवच्छिन्नचैतन्यरूपताया भवदुक्ततया -यदाकारेण स्वयंप्रकाशत्वम्, तदितराकारेण तस्यैव चैतन्यस्य घटादेखि वृत्त्यवच्छिन्नचैतन्यविषयत्वं न खलु दण्डेन वारयितुं शक्यम् । प्रत्यगात्मनः स्वरूपेण सत्यस्यापि किञ्चिदुपहितरूपेण मिथ्यात्वं भवदिष्टम् । मिथ्यात्वप्रयोजकञ्च चिद्भास्यत्वम् । तत्र तस्यैतद्भास्यत्वं कथमिति शङ्कायां चितः भास्यत्वभासकत्व योरुभयोरे काकारेगोपपादनासंभवेऽपि स्वरूपतो भासकत्वम्, उपहितरूपेण भास्यत्वञ्चा-१४८
विरुद्धमित्येव वक्तव्यम् । तथा शुद्धचैतन्यं प्रत्यविषयत्वेऽपि वृत्त्यवच्छिन्नचैतन्यविषयत्वमप्यस्तु । यदि उपहितचतन्यस्य वृत्तिविषयत्वमात्रेणैव मिथ्यात्वम्, न तु चिद्भास्यत्वमप्यपेक्षितमित्युच्यते, तर्हि अखण्डाकारवृत्तिमात्रविषयत्वस्वीकारेऽपि ब्रह्मणोsपि मिथ्यात्वमापत्तिमे । नूनं घटादितुल्यस्यानुभाव्यत्वस्य स्वीकारे घटादिवत् मिथ्यात्वं प्रसजेदिति भिया निर्मूलं भवतामत्र वृत्तिविषयत्वचैतन्याविषयत्वरूप भेदकल्पनम् । एवञ्च जगन्मिथ्या दृश्यत्वादित्यनुमानं ब्रह्मापि कवळीकुर्यादिति चेत् कुर्यादेव । एवमनुभाव्यत्वस्वीकार एव जिज्ञास्यत्वं घटते, न पुनरस्वीकारे । ननु वृत्त्यवच्छिन्नचैतन्यं नाम ब्रह्मात्मकचैतन्यमेव । चैतन्यद्वयस्यासंमतत्वात् । तथा च कथं तस्यैव तद्विषयत्वमिति चेत् उपपादितमेव । यथा हि चैतन्यस्येकत्वेऽपि शुद्धचैतन्यम्, विद्यावच्छिन्नचैतन्यम्, अन्तःकरणावच्छिन्नचैतन्यम् उपहितसाक्षिचैतन्यमित्येवं विशेषणभेदेन विशिष्टभेदकल्पनया जीवेश्वरादिभेदव्यवहारः, तथेहापि भविष्यति । स्वप्रकाशत्वमात्रेणा निर्वाहे विषयविषयिभावस्यावश्यकत्वे वृत्तेश्च जडायाः खतो वस्तुप्रकाशनासामर्थ्य च सति उक्तविभेदस्य कार्यान्तरनिर्वाहकत्ववत् विषयविषयिभावनिर्वाहकत्वस्यापि स्वीकारसंभवात् । एवञ्चानुभाव्यत्वमानुभविकमनलपितं भवति । ईश्वरविषयकजीव साक्षात्कारो नाम अविद्यावच्छिन्नचैतन्यविषयकं प्रमात्रन्तःकरणवृत्त्यवच्छिन्नचैतन्यमिति युक्तम् । ‘घटादेः साक्षात्काराख्यवृत्तिविषयत्वं नाम घटाद्यवच्छिन्नंचतन्यस्य वृत्त्यवच्छिन्नचतन्याभेदः ; चैतन्यस्याखण्डाकारवृत्तिविषयत्वं नामान्यादृश’ मिति वैषम्यं विहाय सर्वत्र विषयात्मकचैतन्यस्य वृत्त्यात्मकचैतन्यविषयत्वमेव च युक्तं स्वीकर्तुम् ॥ यदि शुद्धचैतन्यविशिष्टचैतन्ययोः सत्यपि भेदे स्वरूपैक्यमस्तीति विषयविषयिभावो नेष्यते, तर्हि वृत्तेर्जडाया अपि सविषयकत्वायोगेन वृत्तिविषयत्वमपि ब्रह्मणो दुर्मणमिति जिज्ञास्यत्वायोगस्तदवस्थः । स्वतो वृत्तेजडत्वेन विषयीकारासमर्थत्वेऽपि चैतन्यप्रतिबिम्बवशात् विषयीकरणयोग्यते जिज्ञासानुपपत्ति-प्रसाधनम् १४९ व्यत इति चेत् तर्हि घटादावपि तादृशवृत्तिविषयत्वमेकमेवालमिति किं चिद्भास्यत्वस्याप्यधिकस्य कल्पनयाः तत् सिद्धं घटादेर्ब्रह्मणश्चैकरूपयनुभाव्यत्वमिति दृश्यत्वात् ब्रह्मणोऽपिं मिथ्यात्वमा पतितम् । तदर्थं सर्वथैवानुभाव्यत्वं यदि ब्रह्मणो नेप्यने, जिज्ञास्यत्वानुपपत्तिस्तर्हि तदवस्थैवेति । वृत्तिसंबन्धविचारश्च विशेषतोऽस्मत्कृत परमार्थप्रकाशिकायां द्रष्टव्यः ॥ यत्तु -ब्रह्मण्यज्ञानकल्पितसत्त्ववित्त्वादिविशेषधर्म राहित्येनाखण्ड सच्चिदानन्दस्वरूपावगमार्थं जिज्ञासेति । तत्र सच्चिदानन्दे ब्रह्मणि सत्त्वादीनामज्ञानकल्पितत्वं कथम् ? अखण्डे तस्मिन् तेषां धर्मतया प्रतीतिरज्ञानकल्पितेति चेत् — सत्त्ववित्त्वादीति आदिपदग्राह्यं किम् ? आनन्दत्वमिति चेत् तहिं सर्वं प्राक् ज्ञातमेव । परन्तु धर्मत्वेन ज्ञातमस्ति । अतस्तस्य सर्वस्य स्वरूपाभिन्नत्वमेव संप्रति ज्ञातव्यमिति सिद्ध्यति । तन्न युक्तम् । अनृतजडानानन्दव्यावृत्ततया ब्रह्मज्ञापनं हि श्रुतिकार्यत्वेन भवदिष्टम् । यदि ब्रह्मणि प्रागेव सत्त्वं चित्त्वमानन्दत्वञ्च धर्मतया ज्ञातमभविष्यत् कथमसज्जड दुःखरूपताप्रतीतिप्रसङ्गः । न हि ’ कुण्डलवत्त्वेन ज्ञातो गुरुः, अकुण्डलत्वभ्रान्तिः परं नापैतीति वक्तुं युक्तम् । अथानन्देऽपरिच्छिन्नत्वमधिकमिदानीं ज्ञाप्यत इति चेत् — तदपरिच्छिन्नत्वमपि ब्रह्मव वाऽन्यद्वा ? प्रकाशत्वात् तदपि प्राक् प्रकाशितमेवेति किं वृत्तिज्ञानेन ! ब्रह्मणः स्वयं अन्त्ये, तत् सत्यमसत्यं वा ? आये अद्वैतानिः । अन्त्ये तत्त्वज्ञानस्य मिथ्याविषयकत्वापातः । अपरिच्छिन्नत्वं स्वरूपमेव । परिच्छेदप्रतियोगिकत्वेन रूपेणेदानीं वेद्यत इति चेत् — परिच्छेदस्य तर्हि वृत्तिविषयतया मिथ्याविषयकत्वमक्षतमिति अखण्डाकारत्वहानिरेव । एवं परिच्छेदप्रतियोगि काभावस्थानापन्नस्य कस्यचिद्धर्मस्य परिच्छेद । विषयकस्य परिच्छिन्नत्वभ्रान्तिनिवर्तकस्य भानाभ्युपगमेऽपि दोषः समानः । आनन्दस्वरूपे धर्मत्वकल्पन भ्रान्तिरिति वदता च आनन्दखरूपं न धर्म इति ज्ञानादेव तन्निवृत्तिर्वक्तव्या । तत्र धर्मत्वादि मिथ्याविषयकत्वमक्षतम् । यदि निर्विशेषमिति ज्ञानादेव १५०
तद्धर्मत्वबुद्धिनिवृत्तिरेक हेलयेत्युच्यते, एवमपि विशेषाणां भानात् स एव दोषः । अपरिच्छिन्नसच्चिदानन्दज्ञानं चैवं तर्हि नापेक्षितमिति विशिष्य तदुपदेशः श्रुत्यादौ व्यर्थश्च । एवम्भूते ब्रह्मणि, " सामान्यांशः स्वयंप्रकाशः ; त्रिशेषरूपमानन्दखरूपम् इत्यादिवर्णनमर्थशून्यम् । अंशभेदाभावात् । एकमात्र स्वयंप्रकाश वस्तुवादिमते, अनेकवस्त्वभावात् का नाम स्वयंप्रकाशस्य सामान्यता । प्रकाशमानतैव च लोके ज्ञाता स्यात्, अस्ति भातीति ; न तु स्वयंप्रकाशताऽपीत्यपि ध्येयम् । कथञ्चानन्दत्वं प्रागज्ञातम् । नाहमस्मीति प्रतीत्यभावादहमित्यात्मा यथा स्वयंप्रकाशत इतीष्यते— अन्यथा अप्रकाशमानत्वे प्रतिबन्धकाभावात् नाहमस्मीति विपर्यस्येदपीति । तथा च शाङ्करभाष्यम्, “यदि हि नात्मास्तित्वप्रसिद्धिः स्यात्, सर्वो लोको नाहमस्मीति प्रतीयात् " इति तथा स्वस्मिन् स्वस्य प्रतिकूलत्वबुद्धेः कदाप्यजननात् अनुकूलत्वेनात्मभानमप्येषितव्यम् । इषितञ्च ; स्वस्य परमप्रेमास्पदत्वे कस्याप्यविवादात् । अनुकूलञ्च ज्ञानमानन्द इति आनन्दरूपताऽपि ज्ञातैव । 1 भामत्यामप्युक्तम्’बुद्धेति अपराधीनप्रकाशमानन्दा " इति । अथाप्यपरिच्छिन्नत्वं त्मानं दर्शयति आनन्दप्रकाशयोरभेदात् ’ तत्र न ज्ञातमिति चेत् — तत् किञ्चित्तत्रासीति दुर्निरूपम् ; अभातस्यांशस्याभावादित्युक्तम् । वस्तुतः सत्त्वचित्त्यानन्दत्वादिकं सर्वमभावरूपमेवेति अभावकूटात्मकमेव ब्रह्मेति शून्यवादाद्विशेषो दुर्बच एव । व्यावहारिकं भावत्वं स्वीक्रियते चेत्तदिदं सौगतोक्तं सांवृतिकमेव सत्त्वम् । यत्तूच्यते–स्वरूपात्मकं ज्ञानं नाज्ञाननिवर्तकम् ; किन्तु वृत्त्यात्मकमेव । अतः जिज्ञासा तादृशवृत्तिविषयिण्येवेति तत्र पुनरप्युच्यतेस्वरूपस्य ज्ञानरूपलं कथमवगतम् ? अहमिति स्फुरणात्, नाहमिति विपरीतस्फुरणाभावात इति चेत् तर्हि विपरीतस्फुरण हेत्वज्ञानवारकत्वं स्वरूपस्थ क्लृप्तमेव । अथापि भावरूपान्यादृशाज्ञान निवर्तकत्वं न तस्येति चेत् जिज्ञासानुपपत्ति-प्रसाधनम् १५१ तदज्ञानं स्वरूपविषयकं वा अन्यविषयकं वा, आद्ये नाहमिति विपरीतस्फुरणापतिः । आनन्दत्वादिरूपातिरिक्तविषयकमिति चेत् — नेदं तर्हि ब्रह्मविषय कमज्ञानम् । किश्च जडस्य प्रपञ्चस्याज्ञान कार्यस्याज्ञानविषयलं भवद्भिर्नष्टमिति ब्रह्माज्ञानमेक वक्तव्यम् । एवञ्चाज्ञानस्य वृत्तिज्ञाननिवर्त्यत्वं कुत्र भवद्भिर्दृश्येत । घटाद्यवच्छिन्न चैतन्यस्याज्ञानमस्ति । घटादेस्तत्राज्ञानविषयतावच्छेदकत्व • मिष्यते । एवं घटाद्युपश्लिष्टचैतन्यविषयकवृत्त्या अयं घट इत्याधाकारिकया तदज्ञाननिवृत्तिरिति चेत् –किमेवं लोकानुभवः, किं वा भवत्कल्पनाकौशलमिति सहृदयं भाव्यताम् । घटमात्रस्यैव लोकेऽनुभूयमानत्वात् तदवच्छिन्नभूतचैतन्यांशे वृत्तिविषयत्वस्यानानुभविकत्वात् । अथापि किञ्चिदवच्छिन्नचैतन्यविपयकाज्ञाननिवृत्तौ तदवच्छिन्नचैतन्यविषयकवृत्तिः कारणम् ; अनुपहितचैतन्यं तु स्वाज्ञाननिवृतौ वृत्तिनिरपेक्षमिति यथानुभवं सिद्धया ब्रह्ममात्रविषयकवृत्तिर्नापेक्षणीया स्यात् । अद्वितीयत्वनिर्विशेषत्वादिना ब्रह्म न ज्ञायत इति तादृशब्रह्माज्ञानमिष्यते चेत् — तत्तद्धर्म विशिष्टब्रह्मविषयक वृत्तिरेव तत्रापेक्षिता स्यात् । अतो नानुपहितं जिज्ञास्यं वा, ज्ञेयं वा । निर्विशेषत्वं तादृशधर्मवत्त्वं च मिथो विरुद्धमिति चेत्-वृत्तिविषयत्वमपि विरुद्धमेव । अप्राप्य मनसा सहे" ति श्रुतिविरोधश्च । अतो निषेधानामपि विशेषनिषेधपर्यवसान मित्येव भवद्भिरपि वक्तव्यम्; उच्यते च । अतोऽनुपहितब्रह्मवृत्तिर्न जिज्ञासाफलम् स्वरूपस्य स्वप्रकाशत्वेनाजिज्ञास्यत्वात् । " " ; यत्तु स्वरूपज्ञानस्याज्ञानानिवर्तकत्वं विशिष्टाद्वैति नामपीष्टमिति -तत् किमज्ञानसामान्यानिवर्तकत्वम् उत यत्किञ्चिदज्ञानानिवर्तकत्वम् ? आद्यमसिद्धम् । स्वरूपैकत्वानुकूलत्वबाधकस्याज्ञानस्याभावः आत्मभूतज्ञानप्रयुक्त इत्येवाङ्गीकारात् । अन्त्यं तु वृत्तिज्ञानस्याप्यस्ति । घटज्ञानस्य पटाज्ञानानिवर्तकत्वात् । अथोपहितमनुपहितं वा जिज्ञास्यमिति विचारे भामतीविवरण प्रस्थानमेदोपन्यासेन यदुभयथाऽपि सामञ्जस्यवर्णनम् – तत्रोच्यते । भवदुक्तरीत्या १५२
विवरणमतसारस्तावदयम् –आनन्दो विषयानुभवो नित्यत्वञ्चेति धर्माः "" अपृथक्त्वेऽपि चैतन्यात पृथगिवावभासन्ते इति सिद्धान्तः । अतः सच्चिदानन्दरूपे ब्रह्मणि तदाश्रितानाद्यज्ञानवशात् धर्मधर्मिभावकल्पना । घटोऽस्ति, घटोऽनुभूयत इति सद्रूपेणानुभूतिरूपेण च सामान्यतो ज्ञातमानन्दानक विशेषरूपेणाज्ञातं जिज्ञास्यते । आनन्दो ब्रह्मेति व्यजाना " दित्युक्तं ज्ञानञ्च जिज्ञासाफलम् । तत्फलञ्चाज्ञाननिवृत्तिः । अज्ञाननिवृत्तिक्षणावच्छिन्नं ज्ञानमखण्डार्थम् । तत्त्वमसिवाक्यजन्यज्ञाने चाखण्डार्थत्वं वृत्त्युत्पत्तिक्षणावच्छेदेनापि । वित्तिकर्मत्वञ्च ब्रह्मणो वृत्तिमात्रविषयत्वम् । न तु घटादेखि चिद्भास्यत्वरूपफलव्याप्यत्वमपीति । एवञ्च न जिज्ञासाद्यनुपपत्तिरिति भवन्निर्णयः । अत्रोच्यते—सच्चिदानन्दरूपं ब्रह्म तत्र धर्मधर्मिभावः कल्पित इत्यत्र कल्लिता धर्माः के ? किमानन्दः, चित्, सत् इतीम एव धर्माः कल्पिताः, किं वा आनन्दवं चित्त्वं सत्त्वरूपनित्यत्वञ्चेति धर्माः । आद्ये, ‘सत्’ इति लेखनीये, नित्यत्वमिति त्वप्रत्ययप्रयोगो न युक्तः । अन्त्ये, आनन्द’ इति त्वप्रत्ययरहितप्रयोगो न युक्तः । यदि च नित्यत्वं तत्र कल्पितम् चित्त्वानन्दत्वयोः कल्पितत्वे चिदानन्दरूपमपि कथम् ? ; कथं तत् स्वभावतः सद्रूपं भवेत् ? एवं " अस्ति भाति प्रियं रूपं नाम चेत्यशपञ्चकम् । आद्यत्रयं ब्रह्मरूपं प्रपञ्चस्य परद्वयम् ॥" इति हि वयते । तत्र घटोऽस्ति भातीति सत्ताप्रकाशयोरिव घटः प्रिय इति प्रियत्वस्यापि मानमस्तीति आनन्दांशाभानञ्च कथम् ? अतोंऽशद्वयज्ञानात् सामान्यज्ञानेऽपि आनन्दांश ज्ञानात् विशेषो जिज्ञासितोऽप्यस्तीति विभागोऽ नुपपन्नः । यत् यत् भाति, तत्तत् प्रियनिति न भातीति चेत्तावता आनन्दो विशेष इत्यस्तु । क्वचिद्धाने सति अभानं कथम् ? एवं लोकत एव ज्ञातत्वे " आनन्दो ब्रह्मे " ति शास्त्रात् तज्ज्ञानमिति, तदर्थ यदि च तच्छास्त्रं ब्रह्मण आनन्दत्वरूपं धर्म जिज्ञासेति चायुक्तमेव । जिज्ञासानुपपत्ति-प्रसाधनम् १५३ ब्रवीति, कथं तर्हि धर्मधर्मिभावस्य कल्पितत्वम् ? तेनाज्ञाने निवृत्ते सह आनन्दत्वरूपधर्मस्यापि निवृत्तत्वात् ब्रह्ममात्रपरिशेष इति चेत् — आनन्दो ब्रह्मेति ज्ञानस्य सप्रपञ्च ब्रह्मेति ज्ञानस्य च को विरोधः, येनाज्ञाननिवृत्तिः ततः स्यात् । प्रत्युत, ’ तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यादिति पृथिव्यादिमत्त्वमात्रेण मानुषानन्दोक्त्या तत्क्रमेण परिपूर्णप्रपञ्चवत्त्वमेव ब्रह्मानन्दप्रयोजकमिति तस्याप्यनुकूलत्वमेव । आनन्दब्रह्मज्ञानेन ब्रह्मानानन्दता भ्रममूलभूताज्ञाननिवृत्तिः परं स्यात् । अतो जगतः, ब्रह्मगतस्यानन्दत्वस्य च निवृत्त्यभावात् आनन्दो ब्रह्मेति ज्ञानस्याज्ञाननिवृत्तिक्षणेऽखण्डार्थत्वकथनमयुक्तम् । घटः प्रिय इत्यादिज्ञानेनानन्दज्ञानेऽपि ब्रह्मण्यानन्दयं न ज्ञातमिति तत् ज्ञाष्यते “आनन्दी ब्रह्मेति वाक्येनेति चेत् — एवं “सत्यं ज्ञानमनन्तं ब्रह्मे “ति वाक्यतः तत्र सत्यत्वज्ञानत्वे अपि ज्ञापनीये एव ; घटोsस्ति भातीत्येतावता ब्रह्मणि तोरज्ञातत्वात् । ब्रह्मणः जगदुपादानत्वे, कार्ने उपादानानुवृत्तिरपेक्षितेति प्रश्न प्राप्ते तत्समाधित्सया संचिद्रूपं च ब्रह्म घटोऽस्ति भातीति गृह्यत एवेत्यनुवृत्तिर्वयैते भवदीयैः । एतदवष्टम्भेन घटादेर्जगतः सति कल्पितत्वमिति जगन्मिथ्यात्वे प्रयत्यते च । सत्त्वानुवृत्तिवत् चित्त्वानुवृत्तेरपि सत्त्वात् चैतन्यरूपं ब्रह्मैव साक्षाज्जगद्रूपेण परिणमत इति भास्करपक्षस्यैव तावता भवद्भिरवसरः कल्पितो भवति । चेतनाचेतनयोर्जड जडयोर्भेदस्य प्रामाणिकत्वात् न चित्त्वानुवृत्तिरिति चेत् -एवं तर्हि ब्रह्मसत्तानुवृत्तिर्घटादौ दुर्घटैव । द्रव्यभेदे च उपादानोपादेय भावासिद्धिरेव । एवं सच्चिद्रूपमात्रत्वे अपुरुषार्थतया मोक्षप्रवृत्तिर्न स्यादिति आनन्दखरूपताऽपि ब्रह्मणः स्वीकृता । एवं स्वीकृत्यैव स्वयमेव निविशेषत्व-भङ्गभीरवः सत्त्वचित्त्वानन्दत्वानि न धर्मा इति च भवन्तो ब्रुवन्ति । एवञ्चेद्धर्मिरूपत्वमेषामेषितव्यम्, तर्हि अस्ति भाति प्रियमित्यनुभूयमानता तस्य सच्चिदानन्दस्य नास्तीति यदि ब्रूयुः, तदर्थश प्रतीयमामानानां सत्त्वादीनां लोकसिद्धं निर्वचनमेव स्वीकुर्युः, तदा कथञ्चिदुपपत्तिः स्यात् । तद्विहाय 20 १५४
निर्विशेषवाण एव सच्चिदानन्दरूपस्य लोकेऽपि भाने इभ्यमाणे तु तत्रासत्त्वाचित्त्वानानन्दत्वशङ्कानवकाशात् शास्त्रमेव तत्र नापेक्षितमिति कुतो जिज्ञासा । कथञ्चानन्दांशज्ञानस्य जिज्ञासाफल्स्वमिति । आनन्दो ब्रह्मेति ज्ञानमज्ञाननिवृत्तिक्षणावच्छेदेनाखण्ड कारम्, तत्त्वमसिवाक्यजज्ञानं तु वृत्त्युत्पत्तिक्षणावच्छेदेनैवाखण्डाकारमिति वैलक्षण्यकल्पनञ्च न युक्तम् । उभयोः समानाधिकरणवाक्यत्वाविशेषात् । ’ व्याप्तेश्च समञ्जस मिति सूत्रेभामत्यां " विज्ञानानन्दयोरपि स्फुटतरः प्रवृत्तिनिमित्तभेदः " इत्युक्तत्वात् प्रवृत्तिनिमित्तं तत्र न त्याज्यमिति चेत् तत् सर्वत्र तुल्यम् । आनन्दत्वरूपकल्पितधर्मबोधने च पुनर्मिथ्याभूतधर्मधर्मिभावपरत्वादतत्त्वज्ञापकत्वमेव वाक्यस्य स्यादिति कथं तस्याज्ञाननिवर्तकता ? । यच्चोक्तम् — वृत्तिज्ञानेनाज्ञाने निवृत्ते ब्रह्म स्वत एव प्रकाशत इति चिद्वेद्यत्वाभावेऽपि वृत्तिविषयत्वसंभवादेव जिज्ञासाद्युपपत्तिरिति -तत्र वित्तिकर्मत्वमित्यत्र लोके वित्तपदार्थे वृत्तिश्चिचेत्यंशद्वयं वटकमस्तीति, तत्र वृत्तिकर्मत्वं साधारणम्, चिद्विषयत्वं तु काचित्कमिति च नानुभविकमित्यादिकं च प्रागेवोक्तम् । एवं विभागानङ्गीकारे अमेयत्वश्रुतेः कथं निर्वाह इति चेत्निर्विशेषपरिशेषदशाभिप्रायेण तदस्तु । वास्तविकश्च निर्वाहः कात्स्न्येनावेद्यत्वरूयः अस्मत्पक्षरीत्याऽस्त्येव । अथ भवता, " जिज्ञासाफलस्य वृत्तिज्ञानरूपत्वेऽपि जिज्ञासाहेतुर्ज्ञानं वृत्तिरूपमेवेति न । स्वरूपप्रकाशोऽनादिरपि तथा भवितुमर्हती” त्युच्यते । तत्र शतदूषणयुक्तात् दूषणादनिस्तार एव । उक्तं हि तत्र –अनादेः प्रकाशस्य च निरपेक्षहेतुत्वे जिज्ञासानादित्वप्रसक्तः, सापेक्षत्वे यथादर्शनं स्वविषयवेदनापेक्षणा " दित्यादि । जीवस्यान्तःकरणधर्म संशोत्पादनद्वारैव हेतुरिति भवत्समाधानमप्यत्र द्वितीयहेतुना निरस्तं खलु । संशयापेक्षायां तं संशयं प्रति निरपेक्षहेतुत्वे पुनर्जिज्ञासादित्वम्, पुनर्वित्तिकर्मत्वापत्तिश्चेति वित्तिकर्मत्वानङ्गीकारपक्षे दूषणस्यैवात्र प्रकृ त्वात् ॥ 66 1 निशासानुपपति-प्रसाधनम् एवं तावत् विवरणाभिमतमनूदितं विमृष्टम् । १५५ अथ भामतीमत भवदुपवर्णितम् । तत्र विवरणमत विवरणावसरोक्ता अंशाः सर्वे न सन्तीति न आनन्दादयो धर्माः अष्टथक्त्वेऽपि पृथगिवावभासन्ते " शक्यं वक्तुम् ।
" न खल्वानन्दनि इत्युक्तं हि भामत्यामपि स्वीकृतमेव । तत्र ह्युक्तम्त्यत्ववित्वादयोऽस्य चिद्रपाद्वस्तुतो भिद्यन्ते येन तद्महे न गृह्येरन् । गृहीता एव तु कल्पितेन भेदेन न विवेचिता इत्यगृहीता इवाऽऽभान्ति " आनन्दादिरूपमेव ब्रह्म । दुःखप्रत्यनीकत्वकालपरिच्छिन्नप्रत्यनी इति । कत्वादिक ब्रह्मैव । अथापि तत् दुःखादिप्रतियोगिकत्वादिरूपेण न परामृष्टम् । तलरामर्शोऽपेक्षित इति एतत्पत्तयर्थः । अतः, " भामतीमते तु अज्ञानोपहितम् " इति भवदुपक्रमानुरोधेन, अनुपहितं शुद्धं जिज्ञास्यं विवरणमते । भामतीमते तु अज्ञानोपहितमिति भेदो वक्तव्यः । तत्रोपहितं जिज्ञास्यमित्यस्य कोऽर्थः । जिज्ञासाका ले वस्तुगत्या तत् उपहितमस्तीति वा, उपहितम् उपाधिविशिष्टम् उपाधिना सह जिज्ञासाविषयी कार्यमिति वा । आद्यं तु विवरणमतेऽपि । जिज्ञासाकाले अज्ञानस्य कथमप्यनपायात् । जिज्ञासाधीन कली भृतज्ञानप्रादुर्भावकालेऽपि नापायः । नतरां जिज्ञासाकाले । अन्त्ये, यत् जिज्ञास्यं तदेव ज्ञेयमिति अज्ञानावच्छिन्नब्रह्मज्ञानसंपत्तये शास्त्रमिति स्यात् । निर्विशेषं न विचा मिति स्यात् । भामतीमतेऽपि फलीभूतवृत्तिज्ञानविषयः अखण्ड ब्रह्मैवेति भवदिष्टतया अज्ञानोपहितं जिज्ञास्यमिति वचोऽर्थहीनमेव भवति ॥ जिज्ञासा फलीभूतं यत् मुक्तिसाधनं ज्ञानम्, तच्चोपहितविषयकं भामत्यामुक्तम् । वृत्त्युपहितचैतन्य विषयकमिति तदर्थः । चैतन्यमात्रं विषयीभवति, न वृत्तिरपीति सर्वैस्तदाशय आविष्क्रियते । एवञ्चात्रापि विवरणपक्षाद विशेष एव । तत्त्वमसीति वाक्यादखण्ड । विषयकवृत्तेः तत्रापि भवतेवोक्तत्वात् । एवञ्चावाधितविषयकत्वरूपं प्रामाण्यं भवदुक्तमस्त्येवेति प्रकारान्त १५६
रेण प्रामाण्यनिर्वचनं न प्रकृतोपयोगि । उपहितत्वेनोपहितस्य मिथ्यात्वेऽ प्यन्यादृशप्रामाण्यमस्तीति वर्णनं नपेक्षितम् । उपहितत्वेन तस्य मिथ्यात्वेन स्वरूपेणैव चैतन्यस्य वृत्तिविषयत्वस्य प्राणिष्टतया मिथ्याविषयकत्वस्य बाधितविषयकत्वस्य वा प्रसत्यभावात् । विवरणाचार्यैरपि तत्त्वमसिवाक्यस्य पदार्थप्रतीतिसमयप्रतिपन्नजीवब्रह्म क्यविषयकत्वेनानुवादरूपत्वेऽपि भेदप्रतिभासविरोधितया प्रामाण्यमस्तीत्युक्तमिति परिभाषाव्याख्या । विरोधिविषयभूतमत्रेति सर्वं संप्रतिपन्नम् । तस्मादवाधितं यदि लोके घटादिज्ञाने प्रामायं यत् प्रसिद्धं तत् अबाधितविषयकत्व रूपप्रामाण्यस्वीकारे न घटते; घटादेस्तत्त्वज्ञानबाध्यत्वादिति तदर्थमज्ञानाविषयत्वप्रयोजकविशिष्टत्वमेव प्रामाण्यम् । घटादेरप्यवस्थारूपाज्ञानविषयत्वखी कारात् घटादिवृत्त्या चाज्ञानाविषयत्वं संपाद्यत इति कृत्वा तत्राज्ञानाविषयत्वप्रयोजकवैशिष्ट्यं प्रामाण्यं चतन्यस्येति वक्तव्यम् — तर्ह्यच्यतां कामम् । तथापि न मुक्तिसाधनतत्त्वज्ञानविषये तदेव वक्तव्यमिति नियमः । कत्वस्याक्षतत्वात् । अबाधितविषय वृत्तीनामावरण-भङ्गे उपयोग इतीदमपि न सर्वत्र । प्रातिभासिकविषयेऽपि वृत्त्यङ्गीकारात् । तत्रावरणाभावात् । सुखादिविषयेऽपि वृत्तिरिष्यते । न तत्रावरणम् । यद्धि प्रतीतेः प्रागपिं स्थितगप्रकाशितम्, तत्र ह्यावरणकल्पना । अतः तत्र तत्र अज्ञानाभावादेवाज्ञानाविषयत्वम् । न तु वृत्तिबलात् साक्षिबलाद्वा । किञ्च विषयावरणमञ्जकत्वं तावत् प्रत्यक्षरूपाया एव वृत्तरिष्यते भवद्भिः । अनुमित्यादीनामावरणाभञ्जकत्वात् । अतः आवरणभञ्जकत्वेन प्रामाण्यं न सर्वानुगतम् । एवं विषयस्य चैतन्यस्य च व्यङ्ग्यव्यञ्जकभावरूपसबन्धार्था वृत्तिरिति पक्षे आवरणभञ्जकत्वाभावात् प्रामाण्यं तन्न भवति । किञ्च घटावच्छिन्नचैतन्यावारकस्याज्ञानस्य वृत्त्या निवृत्तिरिति वदतां वृत्तिः सा किं घटमात्रविष जिज्ञासानुपपति-प्रसाधनम् " १५७ यिणी, उत घटावच्छिन्नचैतन्य विषयिणी । नाद्यः, तन्मात्रविषयिण्याः तदवच्छिन्नचैतन्यावारक निरोधित्वायोगात् । न च घटविषयिणी घटांशे अज्ञानं निरुन्धाम् ; चैतन्यं तु स्वप्रकाशत्वादेव स्वावारकमज्ञानं निरोत्स्यतीति वाच्यम् तर्हि स्वप्रकाशतत्रैव चतन्यस्याज्ञाननिरोधित्वे तस्य कद्राऽप्यावरणाअत एव प्रपञ्चोदयप्रसत्तयभावात् घटाद्यावरकाज्ञानस्याप्यनव घटावच्छिन्नचैतन्यपर्यन्तावारकत्वकथनवैयर्थ्याच्च । संभवात् । काशात् । नान्त्यः, चैतन्यमात्रं प्रति आवारकं यत् प्रपञ्च हेतुरज्ञानम्, तस्यापि निवृत्तिप्रसङ्गात् । विशिष्टविषयक ज्ञाननिवर्तिकायाः वृत्तेर्विशेष्यविषयका ज्ञननिवर्तकत्वस्यानुभवसिद्धत्वात् । नीलघटाज्ञाननिवर्तकं हि ज्ञानं घटाज्ञानमपि निवर्तयेदेव । न च विशिष्टं शुद्धादतिरिक्तमिति तद्ज्ञाननिवर्तकस्य न शुद्ध ज्ञाननिवर्तकत्वमिति वाच्यम्-तर्हि वृत्त्यवच्छिन्न चैतन्यरूपविशिष्टस्यापि शुद्धचैतन्यातिरिक्ततया शुद्धे वृत्तिविषयत्ववत् तदवच्छिन्नचैतन्यविषयत्वस्यापि संभवेन घटादिवत् दृश्यत्व मिथ्यात्वादेर्ब्रह्मण्यपि प्रसङ्गात् । चैतन्याभिन्नत्वात् वृत्त्यवच्छिन्न चैतन्यस्य सविषयकत्व स्वीकारे वृत्तेरपि जडायाः सविषयकत्वायोगात् ब्रह्मणो वृत्त्यविषयत्वापातः । कुतश्च घटप्रकाशकत्वमेव वृत्तेरस्वीकृत्य वरणभञ्जकत्वं स्वीक्रियते ? वृत्तेर्जडत्वात् प्रकाशकलं चैतन्यस्यैव वाच्यम् अतो वृत्त्या आवरणे भग्ने चैतन्यं वस्तु प्रकाशयतीति खल्वाशयः । तत्र लोके आलोकेन तमसि व्युदस्ते चक्षुर्घटादि प्रकाशयतीति अनुभवसिद्धम् । चक्षुरभावेऽपि आलोकस्य तद्वयदा सकत्वस्थितेः । अन्युदासे चक्षुषोऽप्रकाशकत्वात् । तथा वृत्त्या निवर्तितेऽप्यज्ञाने कञ्चित्कालं चैतन्याभावात् वस्त्वप्रकाश इति न शक्यं वक्तुम् । न हि अज्ञानं निवृत्तम् ; ज्ञानं तु न जातमिति घटते । । अतश्चैतन्यसंबन्धानन्तरमेवाज्ञाननिवृत्तिरपि वर्णनीयेति वृत्तेश्चैतन्यस्य विषयसंबन्धं प्रति हेतुत्वमेव युक्तम् । न पुनरज्ञान निवर्तकत्वम् । तन्निवृत्तिस्तु चैतन्यसंबन्धादित्येवानुभविकम् । इयांस्तु विशेषः चैतन्यमनित्यमिति वदतां मतेऽन्तः-१५८
करणवृत्तिर्विषयविषयकं चैतन्यं जनयिष्यति; तत् नित्यमिति वदतां तु चैतन्यं सा विषयेण संबन्धयिष्यति । अतो वृत्तेरज्ञानभञ्जकत्वमपि नोपपन्नम् । स्मृतीनामपि प्रामाण्यपक्षे अज्ञानाविषयत्वप्रयोजकत्वं दुर्वचम् ; अनुभवेनैवाज्ञानस्य निरस्तत्वात् । अतः सर्वानुगतमबाधितविषयकत्वमेव । यदि तूप हितविषयकमित्यस्य उपहितत्वेन तद्विषयकमित्यर्थ इप्येत, तदा बाधितस्योपाध्यादेर्विषयत्वादबाधितविषयकत्वरूपं प्रामाण्यं दुर्घटमिति अन्यथा प्रामाण्यस्वरूपं निर्वचनीयं स्यात् । तदर्थस्तु आत्मज्ञानप्राक्कालाबाधितविषयकत्वं प्रामाण्यमिति विवरणपक्षाद्विलक्षणः निरूपितो भवेत् । । / अस्तु तावदिदम् । ज्ञानस्यैवाज्ञाननिवर्तकताया आनुभविकत्वात् वृत्तिमात्रं नाज्ञाननिवर्तकमिति वृत्तिप्रतिफलितंचतन्यमेव निवर्तकं वाच्यम् । घटविषयकवृत्तिप्रतिफलित चैतन्यात् घटाज्ञाननिवृत्तिः । एवं चैतन्यस्य निवर्त नशक्तिमत्त्वादेव शुद्धचैतन्यावारकत्वं नाज्ञानस्य भवितुमर्हति । तस्मादद्वैतमतं यदि कथञ्चिद्विश्वसनीयम्, तर्हि प्रकारान्तरेण परिष्करणीयम् । कथमिति चेत् — श्रूयताम् । निर्विशेषं तत्त्वम्; अन्यत् मिथ्येति मूलमन्त्रस्तथैव जप्यताम् । तच्च तत्त्वं स्वप्रकाशम् ; अन्यथा प्रत्यगात्मनस्तस्या स्वयंप्रकाशत्वे अहमस्मीति विपर्ययसंशययोरपि कदाचिदापत्तेः । अतो यद्यपि तत् चैतन्यस्वरूपं प्रकाशमानमेव, अथापि तत्र स्थितः सद्वितीयत्वप्रत्यनीकाकारः तथा न प्रकाशत इति तदज्ञानवशात् द्वितीयस्य प्रपञ्चात्मकस्य कल्पना । न च तस्याकारस्यान्यस्य कथने अद्वैतहानिरिति वाच्यम् अत एव तस्यापि कल्पितस्वाङ्गीकारात् । सद्वितीयत्वस विशेषत्वादिज्ञानस्य चाद्वितीयत्वनिर्विशेषत्वशुद्धत्वादिप्रकारक चैतन्यविशेष्यकज्ञानादेव निवृत्तिः । चैतन्यस्वरूपप्रकाशश्च नैवम्भूत इति न तस्य निवर्तकता । एवमुपहितविषयक वृत्तिः निर्विशेषत्वात्मकधर्मं तत्र गोचरयन्त्यपि प्रपञ्चमिव निर्विशेषत्वरूपं विशेषमपि निवर्तयेदेव; एकबाधकबाध्यत्वस्य स्थितत्वात् । इतरेषां विशेषाणां निरासकत्वादेव तत्प्रतियोगिकतया तद्वदेव मिथ्याभूतं निर्विशेषत्वरूपमभावमपि निवर्त जिज्ञासानुपपति-प्रसाधनम् १५९ यत्येव । नन्वेवं बहवो धर्मास्तस्य स्वीकर्तव्या भवेयुः । नैवम् — चैतन्ये कश्चिद्धर्मोऽस्ति तद्विषय एवाज्ञानम् । स सर्ववस्तुप्रतियोगिकतत्तदभावस्थानापन्नः । स तु धर्मः अयमिति निर्देष्टुं न शक्यते । अस्थूलमनणु अद्वितीयं निर्विशेषमिति तत्तदभावरूपेणैव मन्तव्य ध्यातव्यश्च । एवं ध्यानावृत्तौ साक्षात्कारः । तत्तद्विशेषोपलक्षित-— तत्तद्विशेषांशकल्पनाविरोधितादृशकधर्मवत्तया जीवन्मुत्यादौ साक्षात्कृते ब्रह्मणि न विपरीतप्रपञ्चारोपप्रसक्तिः । स एव धर्मः, सत्य’ मित्यादिभिः अनृतजडपरिच्छिन्नादिप्रतियोगि काभावत्वेन रूपेण विभिन्नतया निर्दिश्यते साक्षात् प्रदर्शयितुमशक्यत्वात्, गोत्वमिव खरतुरगमहिष । दिप्रतियोगिक भेदरूपेण । स चायं धर्मः विशेषधर्मज्ञानस्यैवाज्ञाननिवर्तकत्वदर्शनेन कल्पितः । नन्वस्याकारस्या मिथ्यात्वेन भ्रान्तिरूपमिदं निर्विशेषब्रह्मज्ञानं कथं प्रपञ्चभ्रान्तिनिवर्तकमिति चेत् — भूदलन 6 तिरपि सर्पन्ति निवर्तयत्येव । तथा च कर्मणः कर्मनाशकत्वे भामत्यामुक्तानि (1-1-1) " यथा पयः पयोन्तरं जरयति, स्वयञ्च जीर्यति ; यथा विषं विषान्तरं शमयति, स्वयञ्च शाम्यति यथा वा कतकरजो रजोन्तराविले पाथसि प्रक्षितं रजोन्तराणि भिन्दत् स्वयमपि भिद्यमानमनाविलं पाथः करोती “ति उदाहरणानि भाव्यानि । " अविद्या तु यद्यविद्यामुच्छिन्द्यात्, जनयेद्वा न तत्र काचिदनुपपत्तिः " ( 1-1-4 ) इति भामत्युक्तमप्यत्रानुसन्धानमर्हति । एवमुपहितं जिज्ञास्यं ज्ञेयञ्चेति पक्षसमर्थने सत्येव अनुपहितं जिज्ञास्य ज्ञेयञ्चेति पक्षाद्विशेषः स्यात् । नन्वेवं तत्त्वमसीत्यस्याखण्डाकारज्ञानहेतुत्वं कथमिति चेत् — मा भूत् । तत्पदं असर्वज्ञकिञ्चिदज्ज्ञव्यावृत्तमित्यर्थं त्वंपदं च सर्वज्ञसर्वशक्तव्यावृत्तमित्यर्थञ्च बोधयतु । स्याद्वा अखण्ड धीस्ततः । सा त्वभ्यस्यमाना शुद्धचैतन्यं सुखरूपमास्वादयिष्यतीत्याखादमात्रफला सा । अत एव ब्रह्मणः आनन्दरूपता । सैव शुद्धधर्मिसाक्षात्कारदशा जीवन्मुक्तिदशेत्युच्यते । तस्य साक्षात्कारस्याविद्य, निवर्तकत्वाभावादेव साक्षात्कर्तुर्जीवनाद्यनुवृत्तिः । निर्विशेषत्वादिप्रकार कब्रह्मविशेष्यकज्ञानाभ्यासस्ततोऽपि तेन प्रपञ्चनिवृत्तये क्रियते इति पश्चादेव मोक्ष इति सर्वमन्वधम् ॥ १६०
शाङ्कराद्वैत संरक्षावैयम्येण विचक्षणैः । अवान्तरार्थप्रस्थानान्यनेकान्याहतानि हि । तथाऽस्माभिरयं पन्थाः भामत्यादिविमर्शिभिः । स्वीकृत्य तन्मते मुख्यं स्यादिहोत्प्रेक्षितः परः ॥ शुद्धं वोपहितं वा स्यान्मुत्तये ज्ञेयमितीदृशे । विमर्शे सारभूतं यद्वक्तव्यं तदितीरितम् ॥ एवं परिष्कृतेऽप्यत्र दोषान् संचिन्त्य पश्यताम् ! विशिष्टाद्वैत सिद्धान्तः विशिष्टः स्थास्यति ध्रुवम् ॥ यथा गोत्वस्य स्वरूपतः प्रकाशेऽपि महिषादिव्यावृत्तिगृहीतैवेति महिषादिभ्रमो न जायते, तथा निर्विशेषत्वाद्वितीयत्वानृतजडपरिच्छिन्नव्यावृत्तत्वादीनां ब्रह्मस्वरूपत्वे ब्रह्मणः स्वयंप्रकाशमानतयैव सविशेषत्वादिभ्रमेणापि न भवितव्यमिति भ्रमानुवृत्तिबलात् निर्विशेषत्वादेः तत्स्वरूपत्वं नेष्यते । अतश्च प्रतियोगिवदभावोऽपि मिथ्याभूतत्वात् तत्त्वज्ञानेन निवर्त्यत इति वक्तव्यम् । एवञ्च ब्रह्म कीदृशमिति प्रभे नित्यशुद्धबुद्धमुक्तस्वरूपमित्यपि दुर्वचं स्यात् ; नित्यत्वशुद्धत्वादीनामभावानामपि कालपरिच्छिन्नत्वयास्पदत्वाद्यविशेषात् मुक्तौ स्थातुमर्हत्वात् । मिथ्यात्वञ्च त्रैकालिकात्यन्ताभावप्रतियोगित्वे सति प्रतीयमानत्वम् । तस्यात्यन्ताभावस्य ब्रह्माभेदे ब्रह्मप्रकाश सद्भावात् मिथ्यावस्तुग्रहणमेव न स्यात् । स्वरूपातिरेके च सत्यत्वे द्वैतापातः । । मिध्यात्वे एतत्प्रतियोगि काभावस्यैव त्रैकालिकत्यावश्यंभावात् अयमभावः कथं त्रैकालिकः ? यदि तत्तदभावयोर्न विरोधः, तर्हि शुक्तिरजतभ्रमस्थले मिथ्याभूतरजततदभावयोरविरोधात् रजतप्रतीतिकाले तदभावप्रतीतिरपि स्यात् । नेदं रजतमित्यभावप्रतीतिकालेऽपि रजतबुद्धिर्न निवर्तेत । रजतनिवृत्तेरपि मिथ्याप्रतियोगिकतया मिथ्यात्वे नेदं रजतमितिवत् नेदानीं रजतनिवृत्तिरित्यपि स्यात् । रजतनिवृत्तिकल्पकस्य दोषान्तरस्य कल्पनाप्रसङ्गश्च । अतो मिथ्यावस्तुप्रतियोगिकाभावस्य परमार्थत्वमेव स्वीकर्तव्यम् । तत्र प्रातिभासिकरजता जिज्ञासानुपपति-प्रसाधनम् १६१ भावस्य व्यावहारिकसत्त्वम्, व्यावहारिकवस्तुप्रतियोगि काभावस्य पारमार्थिकसत्त्वमिति विभागः परं स्यात् । एवञ्च ब्रह्मणि नित्यत्वशुद्धत्वादयोऽभावाः गृह्यमाणाः परमार्था एव वाच्या इति तेषां तद्भिन्नत्वे द्वैतापत्तिः, अभिन्नत्वे स्वरूपप्रकाशसद्भावात् तत्प्रतीत्युदयासंभव इत्युभयतः स्पाशा रज्जुः । न च ब्रह्मखरूपा एव नित्यत्वादयः । एवमपृथग्भूता एव पृथगिवावभासन्ते । एवञ्च तत्र पृथक्त्वमत्या तद्ग्रहणाय प्रयत्यते । तदग्रहणं यावच्च संसारानुवृत्तिरिति वाच्यम् धर्म्यनतिरिक्तेषु • तेषु धर्मत्वभ्रान्तेरपि अज्ञानाधीनत्वात् प्रकाशमाने च स्वरूपे अज्ञानविषयत्वस्याप्रसक्तेः । यत् साक्षादपरोक्षात् " इति निरपेक्षमपरोक्षं प्रकाशमानस्य निरंशस्य निर्विशेषस्य न कथमप्यज्ञानावरणसंभवः । यस्मिन् अपरोक्षे सति तत्प्रतियोगिभूत वस्तूपस्थितौ सत्यां तद्वस्तुप्रतियोगिक भेदग्रहणमपरोक्षवस्तुनि नास्ति, तस्य तद्भेदरूपता न भवितुमर्हति । गोत्वे त्वपरोक्षे महिषाद्युपस्थितौ तद्भेदो गवि स्वत एव गृहीत इति भवति गोत्वं महिषभेदः । तस्मात् त्यज्यतां स्वप्रकाशत्वं गृह्यतां वा सधर्मता । केवलाद्वैत सिद्धान्तः केवलं कल्पना तु वः ॥ ६४ 66 एवञ्च ब्रह्मणो निर्धर्मत्वस्वप्रकाशत्वाङ्गीकारात् शतदूषण्याम्सामान्यतो विदिते विशेषतश्च वेदितव्ये तत्प्रवृत्तेः " इति जिज्ञासाया अयोगोपपादनं तदवस्थम् । ब्रह्मणि निर्विशेषे च न सामान्यविशेषरूपांशद्वयमस्ति । आरोह परिणाहादिसामान्यज्ञाने स्थाणुत्वादिविशेषा निर्णये च हिं जिज्ञासा दृष्टा । क्वचिद्विशेषे ज्ञ ते सामान्ये जिज्ञासा, यथा शब्दे शब्दत्वरूपविशेषवत्तया ज्ञाते द्रव्यं गुणः कर्म वेति सामान्यसंशयात् जिज्ञासेत्यप्याहुः । तत्राप्याकारद्वयमवर्जनीयम् । परन्तु तत्रापि सत्तारूपशब्दगत सामान्यधर्मो ज्ञातः, द्रव्यत्वादिविशेषधर्मो न ज्ञात इति शक्यत एव वक्तुम् । वैशेषिकदर्शने – “ सामान्यप्रत्यक्षात् विशेषाप्रत्यक्षात् विशेषस्मृतेश्च संशयः ” 21° "” अत एव ૧૬૨
इति । असाधारणधर्मज्ञानमपि संशयहेतुरित्युक्तं न्यायदर्शनादौ । वैशेषिके तु सर्वः संशयः साधारणधर्मज्ञानादेवेति वेदितम् । विशेषादर्शन मिति च न सर्वविधविशेषधर्माणामदर्शनं विवक्षितम् । किन्तु संशयविषयको टिविरुद्ध कोटिरूपविशेषादर्शनमात्रम् । तत् सर्वत्र सामान्यतो विदितस्त्वं विशेषेणाविदितत्वं चाक्षतम् । विस्तरोऽस्मत्कृते वैशेषिकरसायने । न्यायप्रदीपे चास्मत्कृते न्यायभाष्याशयो द्रष्टव्य इत्यलं प्रसक्तानुप्रसक्तेन । प्रकृते च धर्मिमात्रे ब्रह्मणि अगृहीतो विशेषो न कश्चिदिति कथं जिज्ञासेति । एवञ्च जिज्ञासाफलं वैशद्यमित्यपि प्रत्युक्तम् । वैशद्यं ह्यनावरणमित्युच्यते । अप्रकाशितांशस्य दुर्निरूपत्वे सति आवरणं न केनापि भविष्यति । सच्चिदानन्दे तत्र सत् चित् आनन्द इति धर्मभेदः अज्ञानवशात् कल्पितः । तन्निवृत्तिः जिज्ञासाफलमिति चेत् — किं सच्चिदानन्दनिवृत्तिः, किं वा तेषु धर्मेषु मिथः, ब्रह्मणश्च भेदस्य निवृत्तिः, आहो भेदकल्पनायाः ? नाद्यः, ब्रह्मण एव निवृत्त्यापत्तेः । न द्वितीय, पूर्वमेव भेदस्याभावेन तन्निवृत्तेदुवचत्वात् । न तृतीयः, ब्रह्मणि सच्चिदानन्दरूपधर्मत्रयमस्तीति हि न लोकतो ज्ञातुं शक्यम् । शास्त्रेणैव तज्ज्ञापने च तत्कल्पनानिवृत्त्यर्थ शास्त्रमिति दुर्वचम् । प्रत्यगात्मनश्च सच्चिदानन्दत्वस्यापरोक्षतया ब्रह्मणस्तदभेदे तस्यापि तथात्वं सिद्धमिति श्रुतौ ब्रह्मणि तद्वर्णनं व्यर्थञ्च । अभेदश्रुतीनामन्यादृशतात्पयमभिसन्धाय जीवब्रह्मभेदमातिष्ठमानानामपि ब्रह्मणि सच्चिदानन्दत्वप्रत्ययसंपादनार्थं श्रुतौ तद्वर्णनमिति चेत् — तर्हि स्वजातीयादिभेदसत्त्वेन सविशेषे ब्रह्मणि सच्चिदानन्दत्वानि आदायापि सविशेषत्वमेवास्तु । किं तद्भेदापलापप्रयासेन । किञ्चाज्ञानतिरोहित कि स्वातिरिक्तं ब्रह्म, स्वात्मकं वा नाद्यः भवन्मते तदभावात् । ननु जगत्कारणीभूतं ब्रह्मकमपूर्वतया ज्ञापयित्वा तदभेदः सच्चिदानन्दभूते स्वात्मनि ज्ञाष्यते श्रुत्येति चेत् —– स्वातिरिक्तं जगदस्तीति ज्ञानवन्तं प्रति तस्य जगतः कारणं किश्चिदस्तीति श्रुत्या ज्ञापनीयम् । तेन जिज्ञासानुपपति-प्रसाधनम् १६३ तत्र ब्रह्मातिरिक्तं जगन्नास्तीति तन्निषेधः कृतो भवति । अथ ब्रह्मणः स्वस्य चाभेदे ज्ञापिते ब्रह्मापि निषिद्धं भवतीति स्वमात्रपरिशेष इति हि भवदाकूतम् । स्वातिरिक्त जगदस्तीति ज्ञानमिदं भ्रमात्मकं कीदृगज्ञानप्रयुक्तम् । भ्रमो हि तत्त्वाज्ञानदेव भवति । तत्त्वञ्च सच्चिदानन्दस्वात्मकं निर्विशेषं प्रकाशमानमेवेति न तत्राज्ञानप्रसक्तिः । अथाज्ञानं विनैव पूर्वपूर्वभ्रमवासनायत्ताः पश्चात्तनभ्रमा इति मन्यते, सोऽयमविद्यायास्तद्यनपेक्षितत्वादपसिद्धान्तः । तादृशभ्रमनिवृत्तिरपि स्वयंप्रकाशस्वरूपातिरिक्तस्य कस्यचित् जगद्ब्रह्मा भेदस्य धर्मस्य ज्ञानरूपात् तत्त्वज्ञानादेव वक्तव्या । स्वरूपस्वयंप्रकाशे सत्यपि भ्रमाणां जाततया तन्मात्रज्ञानेन तन्निवृत्त्ययोगात् । अतो न निर्विशेषपरिशेषः । किं कुर्मः । श्रुतौ एकत्वाज्ञानावृतत्वरुक्तत्वात्तथैव स्वीकार्यमिति चेत् —तर्हि सविशेषज्ञानादपि प्रपञ्चनिवृत्तिः, अर्चिरादिगत्यैव मुक्तिरित्याद्यपि श्रुतिबला देष्टव्यम् । एतेन निरंशेऽपि ब्रह्मणि सर्वप्रपञ्चोपादानत्वश्रुत्युपपत्त्यर्थं अनाद्यज्ञानवशात् सदादिस्वरूप भेद कल्पनमिति निरस्तम्; ब्रह्मणः प्रपञ्चोपाद नत्वं नाम शुक्तेः प्रातिभासिकरजतोपादानत्व तुल्यम् । तत्र शुक्तेरज्ञानं रजतप्रतिभासश्च यथा, तथा ब्रह्माज्ञानं प्रपञ्चाध्यासश्च । अत्र सदादिस्वरूपभेद कल्पना कुत्रोपयुज्यते । ब्रह्मापेक्षया सच्चिदानन्दत्वधर्माः अन्ये इति कल्पनायां सत्यामेव प्रपञ्चाध्यासप्रसक्तिरिति हि दुरुपपादम् । अस्ति भाति प्रियमिति प्रपञ्चे सच्चिदानन्दत्वं विदुषः सच्चिदानन्दात् सच्चिदानन्दप्रपञ्चोत्पत्तिरिति कार्यकारणभावौचित्यसंपादकमेवच ब्रह्मणि सच्चिदानन्दा भेदज्ञानमिति ; अभेदज्ञानस्यैव प्रपञ्चकल्पनाप्रयोजकत्वात् । अतः प्रपञ्चोपादानत्वान्यथानुपपत्या अनादिकर्मप्रवाहो जीवानामेषितव्य इत्येतावदेव स्यात् । स च प्रवाहः सत्त्वचित्त्वानन्दत्वादिपरश्शतगुणयोगिपरमपुरुषयाथात्म्याज्ञान इति काममस्तु । तस्मात् भेदाज्ञानकृतमेव सर्वमिति ॥ यत्तु माध्यमिकमतं वैलक्षण्यवर्णनमद्वैतमते तत्रेदमुच्यते । " भामतीमते अविद्या निवृत्तिपरं शास्त्रम् । न तु शुद्धविषय” मिति, “ भामतीमते प्रत्यनौ १६४ परमार्थ भूषणे क्यं जीवत्वेश्वरत्वोपलक्षितं शुद्धं चिन्मात्रं न शास्त्रतात्पर्यविषयः " इति च भवतोक्तम् । एवञ्च ब्रह्मज्ञानं न शास्त्रकार्यम् ; किन्तु भेदप्रपञ्चमिथ्यात्वज्ञानमेवेत्युच्यते चेत् —— माध्यमिकमतेऽपि तद्भावेन तेन सह भवतां कुतो विवाद इति शतदूषणीप्रश्नस्य किं समाधानमत्रः माध्यमिकेनापि मिथ्यात्वमेव व्युत्पाद्यते, तदेव तथैव श्रुत्यापीति अस्याप्यागमस्य तदागमादविशेषः किल स्यात् । न खलु, ‘भावरूपं ब्रह्म किञ्चिदिह प्रतिबोध्यते’ इतीदानीं भवान् वक्तुमर्हति शुद्धस्य शास्त्राविषयत्वपक्षाश्रयणात् । उपहितब्रह्मविषयकत्व मस्ति शास्त्रस्येति चेत् —तदुपधानं केन ? वृत्त्या वा अन्येन वेति प्रागेव व्यचीचराम । उपहितत्वाकारेण तदपि मिथ्यैवेति तन्मिथ्यात्वमपि हि शास्त्रवेद्यमिति कथं तस्य शास्त्रतात्पर्यविषयता ? अस्तु शास्त्रकार्यमविशिष्टम्, अस्मन्मते ब्रह्म सद्रूपम् ; माध्यमिकमते तु न सत्, नासत्, न सदसत् न चाप्यनुभयात्मकमिति सदादिचतुष्कोटिविनिर्मुक्तमिति भेदोऽस्तीति चेत्किं तेन प्रकृते? ब्रह्म न ज्ञेयम्; भेदमिथ्यात्वज्ञानमात्रसिद्धिः पर्याप्तेति स्वीकृतत्वात् तादृशत्रह्मसाधनेन बाधनेन वा कर्तव्यस्य कस्यचिदभावात् । किञ्च ब्रह्म सद्रूपमिति वदता भक्ता किं ब्रह्मणि सत्त्वमिति कश्चित् धर्मः स्वीक्रियते, उत धर्मिमात्रम् । आद्ये, अपसिद्धान्तः । अन्त्ये, शून्यं तत्त्वमिति अभावरूपतत्त्ववादापेक्षया अत्र किं वैलक्षण्यम् ? निर्धर्मव्यक्तिस्वीकारस्याविशिष्टत्वात् । शब्द एव हि भेदः ; नार्थे । माध्यमिकप्रयुक्तः शब्दो भवताऽपि स्वीकर्तव्यश्च । “ असदेवेदमग्र आसीत् इति श्रुतिदर्शनात् । अस्माकं तु मते ब्रह्मणि सत्त्वमिवासत्त्वमपि सूक्ष्मावस्थारूपधर्मात्मकं किञ्चिदस्तीति माध्यमिकमताद्विशेषः तच्छुत्यर्थवर्णनेऽप्यस्ति । भवदीयमुपसंहारवाक्यमपि माध्यमिकैक्यमेव भवतः स्थापयति, यदुच्यते “ तथा च कल्पिताकार भेदशून्यत्वज्ञानार्थ ब्रह्मजिज्ञासेति सूपपन्नम् " इति । शून्यत्वज्ञानार्थं शून्यजिज्ञासैव कार्या, कथं ब्रह्मजिज्ञासाः ब्रह्मेति पदेन कल्पिताकार मेदशून्यमेव विवक्षितं चेत्बौद्धकृता शूरजिज्ञासैवेयं स्यात् । "” / निज्ञासानुपपत्ति-प्रसाधनम् १६५ यच्च " अशुद्धं ब्रह्म जिज्ञास्यमित्यस्य अज्ञानोपहितं ब्रह्म जिज्ञास्यमित्यर्थकल्पनया यदि दूषणम्, तर्हि अनुक्तोपालम्भः " इति तच्च न । (61) पुटे, " भामतीमते त्वज्ञानोपहितं नाजिज्ञास्यतामईति " इति भवतैवोक्ततया तदुक्तेश्च भवत्पूर्वपुरुषोक्तिमूलकतया अनुक्तोपालम्भप्रसत्तयभावात् । विकरूप्य दूषणं तु न्यूनतापरिहारार्थमनुक्तार्थविषयेऽपि भवितुमर्हति । वृत्त्युपहितत्वं तु व्युदस्तमेव । + एतेन, “भूरन्ध्रभ्रमात् रज्जुदर्वीकरभ्रमनिवृत्तिवत्" इत्यादिः शतदूषणी निरूढा । यत्तु — शुद्धब्रह्मणि वृत्त्यवच्छिन्नचैतन्यविषयत्वस्य घटादाविवासंभवे ऽपि वृत्तिमात्रविषयत्वमस्तीति — तत् प्रागेव विचारितम् । वृतेर्जडायाः विषयीकरणाशक्तत्वात् । अन्यथा तत्र चैतन्यप्रतिफलनस्य घटादिग्रहणार्थमप्यनपेक्षितत्वात् । वृत्त्यवच्छिन्नचतन्यविषयत्वस्यापि संभवात् । वृत्तिचैतन्यरूपार्थद्वय कल्पक प्रमाणाभावाच्चेति । यदि च वृत्तिमात्रविषयता, तर्हि जिज्ञास्यम्, ज्ञेयमित्यादिशब्द प्रयोगायोग एव । वृत्तिप्रतिफलित चैतन्यस्यैव ज्ञानपदार्थत्वस्य भवदभिमतत्वात् । अतः सुष्ठुक्तम्" शुद्धमपि ते न जिज्ञास्यम् ; ज्ञप्त्या तत्स्वरूपस्पर्शानभ्युपगमात् " इति । यत्तु — ब्रह्मणो नित्यशुद्धत्वे आकरवचनमुपात्तम्-" तत्रैवं सति यत्र यदध्यासः तत्कृतेन दोषेण गुणेन वाऽणुमात्रेणापि स न संबध्यत " इति तन्न । साधकम् उपोद्धातभाष्यस्थस्य तस्य तत्त्वज्ञानानन्तरं पुनर्दोषा संस्पर्शपर तयैव भामत्यां व्याख्यातत्वात् । ’ एवं सती ‘ति पदे वाक्यनैर्भयम् । ततः पूर्वं तु दोषादिमत्त्वमेव ॥ । शुद्धेर्ब्रह्मणो नित्यत्वे च जिज्ञासा किमर्था ? अशुद्धि निरासार्थत्वायोगे ऽपि अशुद्धिभ्रमनिरासार्थेति चेत् — अशुद्धि श्रमोऽप्यशुद्धिरेव । स भ्रमो जीवस्यैवेति न ब्रह्मण्यशुद्धिरिति चेत् — कोऽसौ जीवः ? अन्तःकरणं बा, अन्तःकरणगतप्रतिबिम्बो वा, अन्तः करणावच्छिन्नचैतन्यं वा । आद्ये ¿ १६६
जीवब्रह्मैक्यं त्यक्तं स्यात् । जड जडयोस्तदयोगांत । रमपि । अत एव न पक्षान्त प्रतिबिम्बम्यच वस्तुतो विम्बानातिरेक एव भवदीयेष्ट इति तस्य भ्रान्तत्वे ब्रह्मणोऽपि भ्रान्तत्वमेव । अत एव न तृतीयोऽपि । शुद्धाद्विशिष्टमतिरिक्तमिति चेत् तर्हि न तस्य ब्रह्मैक्यम् । अन्तःकरणावच्छिन्नत्वादित्यागेनैवैक्य ब्रूम इति चेत् विशिष्टस्यातिरिक्तत्वे विशेषणत्यागेऽपि घटपटयो रिवैक्यमसंभावितमेव ॥ यच्चाविद्यावत्त्वमात्रेण न भ्रान्तत्वं शुद्धस्य ब्रह्मण इति तदपि न ; यो हि दोषाश्रयः स एव लोके भ्रान्तः । अविद्या चेह दोषः । तदाश्रयत्वस्य ब्रह्मणीष्टत्वे कथं न भ्रान्तत्वम् । काचकामलादिदोषवत्त्वदशायां लोके पुंसां भ्रान्तत्वमस्ति । तत्र शुद्धपुरुषापेक्षया काचकामलादिमान् अन्य इति कृत्वा पुंसां भ्रान्तत्वचनमयुक्तमिति को ब्रूयात् । यः पुमान् स एव काचादिमान्यदा यः काचादिमान् तदा स एव भ्रान्त इति व्यक्तम् । तथा ब्रह्म यदा भवत्यविद्याश्रयः, तदा भ्रान्तमपि तदेवेति नाविद्याश्रयत्वाकारेण तस्य ईश्वर इति नामान्तरकल्पनमात्रेण भ्रान्तत्वनिवर्तनेति । यत् पुनरुपरि कथ्यते, ईश्वरोऽपि न भ्रान्तः; तदीयज्ञानस्य तद्विषयस्य च व्यवहारकाले अबाध्यत्वात् । व्यवहारकालबाध्यस्थल एव शुक्तिरजतादिविषये भ्रान्तिव्यवहारारादिति । तन्न । भ्रमलक्षणस्याक्षतत्वात् । नाध्यज्ञानत्वं हि भ्रमलक्षणं सर्वसंमतम् । न तत्र व्यवहारकालीनत्वरूपं बाधविशेषणं लोकसंमतमस्ति । अन्यथा शुक्तिरजतज्ञानवानपि मदीयज्ञानस्य मदीयं तद्व्यवहारं यावदबाधात् प्रमात्वमेवासीदिति कलहायेत । किञ्चान्यथाख्यातिपक्षे तदभाववति तत्त्रकारकत्वं भ्रमलक्षणम्, भवन्मते अनिर्वचनीयविषयकत्वं तत्, तच्च सर्वज्ञज्ञानेऽप्यक्षतम् । ब्रह्मणि कल्पितस्य प्रपञ्चस्य विषयीकरणात् । स्पष्टमिदमध्यासभाष्ये । आलज्ञानमाकालावाध्यज्ञानं प्रमा, तत्कालबाध्यज्ञानं भ्रमः इति लक्षणं तु केवलाद्वैतगोष्ठीविश्रान्तं न सर्वलोकप्रसिद्धप्रमाभ्रमशब्दार्थतामर्हति । बाधकस्यात्मज्ञानस्थ लोके अनङ्गीकारात् । जिज्ञासानुपपत्ति-प्रसाधनम् १६७ किञ्च भगवान् जीवान् प्रति तत्त्वज्ञानमुपदिशन् -शुद्धब्रह्मज्ञानं तत्त्वज्ञानम्, अन्यत् मिथ्याज्ञानमित्येवोपदिशति । जगद्रूपमयोगिनः " इति च भगवान् पराशरः । 66 " भ्रान्तिज्ञानेन पश्यन्ति द्वैतिनो ऽतथ्यदर्शिनः " एवञ्चेश्वरः सर्वज्ञश्चेत्, इति च । अतो मिथ्याविषयकं ज्ञानं भ्रान्तिरेव । भ्रान्त एव ; सर्वस्य मिथ्यात्वात् । सर्वज्ञत्वादेव सर्वमिदं मिथ्येत्येतदपि जानाति चेत् — जानातु । पीतशङ्खभ्रान्तिमान् पित्तदोषं यावत् अनुवृत्तभ्रान्तिरेव लक्ष्यते । जानाति च तंदव, ज्ञानमिदं दोषायत्तं भ्रम इति । तावता भ्रान्तत्वं प्रतिष्ठितमेव भवति । तथेहापि । तस्मादद्वैतिदृष्टा ऽत्रेष्टापत्तिरेव युक्ता । न पुनरीश्वरद्वेषीति लोकनिन्दापरिहारार्थमभ्रान्तत्वनिर्वाहाय काशकुशावलम्बनं युक्तम् ।
यच्च विवेचनम् काचकामलादीनां लोके दोषत्वम् शुक्त्तचाद्यज्ञानस्य च रजताद्युपादानत्वम् । ब्रह्माश्रिता विद्यायास्तूपादानत्वमपि, दोषत्वमपीति तेन किमुक्तं भवति ? अथ भवदाशयमेवं निष्क्रष्टुमिच्छामः ईश्वरो भ्रान्तः, अविद्यापरिणामविषयकज्ञानवत्त्वात् शुक्तिरजतभ्रान्तिमत्पुरुषवदित्यनुमानं चेत् प्रयुज्यते तत्र दोषानात्मकाविद्यापरिणाम विषयकज्ञानवत्त्वमुपाधिरिति तत्र दूषणं च दद्मः । संभवति सामान्यस्य प्रयोजकत्वे विशेषप्रयोजकत्वकल्पने मानाभावात् अप्रयोजक उपाधिरिति । दोषाधीनज्ञानत्वमेव भ्रान्तित्वे प्रयोजकम् । न तु अयं दोषः, स दोष इति विशेषाधीनत्वम् । अन्यथा काचाधीनस्य भ्रमत्वम्, न तु कामलाधीनस्येत्यपि स्यात् । तथा दोषभिन्नस्यैव कस्यचिदनिर्वचनीयोपादानत्वस्य लोके दर्शनात् दर्शनानुगुणं कल्प्यमानमुपादानमविद्याख्य दोष एव न भवेदिति अन्यकल्पनापत्तिश्च । दोषानात्मकाविद्याजन्यस्यैव मिथ्यात्वदर्शनात् दोषात्मका विद्यापरिणामस्य प्रपञ्चस्य मिथ्यात्वानापत्तिश्च । ईश्वरसमवेतस्य सर्वविषयकज्ञानस्य तत्त्वज्ञानत्वापत्तिश्च । मिथ्यात्रिषयकज्ञानस्यैव बाध्यत्वदर्शनात् प्रपञ्चज्ञानस्य तद्विषयस्य च बाध्यत्वायोगश्च । तस्मादप्रयोंजकमविद्ययोः दोषात्मकत्व तदनात्मकत्वरूपं वैलक्षण्यम् । अतोऽन्तःकरण VISVA BHARATI**
परिणामरूपवृत्तेरेव भ्रमत्वमित्युक्तौ तद्वृत्तिविशेषस्यैव प्रमात्वमपीति अविद्यापरिणामभूताया वृत्तेर्ज्ञानित्वमेव न स्यादिति सर्वज्ञत्वमेव भगवतो दुर्घटं भवेत् । नन्वेवं रज्जुसर्पादिवत् घटादेरपि दोषजन्यत्वाविद्या परिणामत्वाविशेषे प्रतीतिसमानसत्ताकत्वमपिं स्यात् । यावान् घटपटादिराध्यासिकः, तावानपि सर्वथा भासमानः स्यात् । ततश्च किञ्चित् कदाचित् ज्ञानकर्मेति प्रतिनियतकर्मन्यवस्थारूपा प्रतिकर्मव्यवस्था हीयेतेति चेत् — हीयेतैव । अत एव वैलक्षण्यात् जगतो मित्रात्वबुद्धिस्त्यज्यतामिति ब्रूमः । अद्वैत सिद्धयुक्तं वा भवद्भिरनुसर्तव्यम् । अन्तःकरणं यदा वृत्त्यात्मना परिणमते, तदैव तद्ग्रहणमिति । एतदुक्तं भवति -रज्जुसर्पादिकं जीवदोषसहकृतरज्वाद्यज्ञानरूपतूलाविद्याकल्पितं प्रतीतिसमसत्ताकम् । घटादिकं तु जगत् ब्रह्माज्ञानरूपमूलाविद्यामूलमीश्वरसृष्टं घटोऽयमित्येवं यावद्विषयसत्त्वं अविद्यावृत्त्या तेन गृह्यमाणं तदीयतादृशप्रतीतिसमसत्ताकं भवितुमर्हति । सोऽयं घट इत्यादिप्रत्यभिज्ञाबलाच्च न जीवप्रतीतिकालमात्रस्थता घटादेः । तादृशे च वस्तुनि जीवज्ञानकर्मत्वमन्तःकरणवृत्तिसामग्रीसमवधानकाल एव । तत्र चक्षुरादिद्वारा निर्गतान्तःकरणवृत्त्यवच्छिन्नचैतन्यस्य विषयावच्छिन्न चैतन्याभेदे प्रत्यक्षता; अनिर्गमे परोक्षतेति । इदमेव वृत्तिसापेक्ष भासकत्वं चन्द्रिकायामेवं संगृहीतम् “बिम्बप्रतिबिम्बचितोरीशजीवत्वपक्षे शुद्धचिदेव तदुभयानुगता साक्षिणी जगदुपादानन; अविद्या प्रतिबिम्बमनः प्रतिबिम्बयोरीशजीवत्वे तु अविद्याविम्बत्वोपहिता चित् तथा । अविद्यामनोगतचिदाभास गेरीशजीवत्वे त्वीश एव तथा । तत्राद्यः पक्षो विवरणकृतः ; द्वितीयः संक्षेपशारीरककृतः ; तृतीयो वार्तिककृतः । वाचस्पतिमते तु जीव एव तथा । तस्यैवाविद्या विषयसोपहिते ईशे तादात्म्येनानुगतत्वात् ईश प्रति दृश्यमात्रस्यानावृतत्वात् तं प्रति जीवस्य भासकत्वं न वृत्तिसापेक्षम्’ इति । सर्वमिदं हग्दृश्यसंबन्धानुपपत्तिवादे चिन्तनीयमित्यलमत्र । निज्ञासानुपपरित्साधनम् १६९ तस्मादीश्वरस्य भ्रान्तत्वं भवन्मतेऽनपलपनीयम् । शुद्धब्रह्मणोऽपि वस्तुतो जीवेश्वराभ्यामभिन्नतया तयोर्भ्रान्तत्वे भ्रान्तत्वमपरिहार्य मित्यप्युक्तमेव । न हि शुद्धत्वादिविशेषणमात्रेण व्यक्तिभेदप्रसक्तिः । तस्मादीशस्य सर्वज्ञत्वमध्यङ्गीकर्तव्यम्, अभ्रान्तत्वमपीत्याशा चेत् — जगत्सत्यत्वं जीवेश्वरभेदश्च स्वीकर्तव्ये । अन्यथा नित्यशुद्धत्वश्रुतिविरोधो भवन्मत एव । सगुणब्रह्मणोऽपि नित्यशुद्धत्वं भवदिष्टमिति भवद्वर्णनं दुरुपपादमिति एतावतैव व्यक्तम् । गुणानामेव सर्वज्ञत्ववात्सल्यादीनां मिथ्याभूतप्रपञ्चविषयकत्वेन भ्रान्ति • रूपतया भ्रान्तसार्वभौमतया भवत्स्वीकर्तव्यस्य तस्य नित्यशुद्धेवर्णयितुमशक्यत्वात् । एवमपि तस्य दुःखानुभवाभावान्नित्यशुद्धत्वमिति चेत् तर्हि तमुपसंपद्य तत्परमसाम्यमुपेतानामपि नित्यशुद्धत्वमेव, सुखानुभवश्चानवाधिकातिशय इति सगुणब्रह्मप्राप्तिरूपः स एव मोक्षो महनीय इति किं निर्विशेषत्रह्मभावरूपेण सुखानुभवसुदूरेण दुःखाभावमात्रात्मना मनोरथकल्पितेन मोक्षान्तरेण ॥ यतूक्तम् — मुण्डकोपनिषदि " यत्तददेश्य " मित्यादिना निर्विशेषमजगत्कारणं प्रक्रम्य, ‘भूतयोनि’ मिति जगत्कारणत्वोपसंहारात् अजगत्कारणमेव जगत्कारणमित्युपनिषदोच्यत इति सिद्ध्यति । तस्मादध्यारोपापवादन्यायेन सर्वबाधे श्रुतितात्पर्यमिति तत्रादेश्यमित्यादिना कतिपय विशेष राहित्यकथनेऽपि निर्विशेषत्वम् सर्वविशेषाभावः कुतोऽवगम्यते ? अजगत्कारणत्वबोधकं तु नैकमपि पदमस्ति । सूत्रकारश्च मुण्डकमिदं विचारयन्, " अदृश्यत्वादिगुणको धर्मोक्तेः " इति सूत्रयन् अदृश्यत्वादीनामभावानां भावरूपत्वं गुणत्वमन्येषां धर्माणामत्र सद्भावं च मुक्तकण्ठमुपदिशन् निर्विशेषब्रह्मवाद निराचष्ट इति -स्पष्टमिति ॥ यदत्र सिद्धान्तसिद्धाञ्जन उक्तम् " ब्रह्मजिज्ञासेत्यत्र इष्यमाणं ज्ञानं न विचारस्तदधीननिर्णयो वा, सुखात् दुःखाभावाच्च विलक्षणतया तयो 29. १७.
रिष्यमाणत्वायोगात् ; अनुकूल वेदनीयापरोक्षस्यैव प्रयोजनत्वात् । अतोऽपरो / क्षस्वरूपावगतिरूपं ब्रह्मज्ञानमिष्यमाण” मिति तन्न अथातो धर्मजिज्ञासेत्यादावगतेः । न ह्यपरोक्षधर्मज्ञानं तत्र फलं भविष्यति । अन्यत्तु सुखादिविलक्षणत्वात् अनिष्यमाणमुच्यते इहेति तत्र जिज्ञासैव न स्यात् । अतो तत्रापि संभवत् लोके यत्रयत्र जिज्ञासापदप्रयोगः स्थाणुपुरुषादि संशयस्थलेषु, किञ्चिदिप्यमाणं ग्राह्यम् । तच्च निर्णयात्मकं विचारात्मकं वा । उभयमपि फलसाधनत्वात् पुत्रपश्वादिवत् फलमेव । तत्र विचारात्मकज्ञानग्रहणे कर्तव्यत्वप्रतिज्ञा कण्ठोक्ता भवति । अन्यथा तु जिज्ञासा निर्णय विषय केच्छारूपा, ‘कोऽसौ ’ इति प्रश्नवाक्यादाविव विचारमन्तरेणाप्तोपदेशेनापि कदाचिदुपशाम्यतीति जिज्ञासाशब्दप्रयोगान्यथानुपपत्त्या विचारो दुर्लभश्च स्यात् । अतो ब्रह्मप्रश्न इत्येतद्वैलक्षण्यस्य प्रकृते ज्ञप्तये विचिचारयिषारूपजिज्ञासास्वीकार उचितः । वाक्यार्थनिर्णयो जिज्ञासाघटकं ज्ञानमिति स्वपूर्वसमतमर्थम्, ‘अवगतिपर्यन्तं ज्ञानम्’ इति शाङ्करभाष्याविरुद्धमेव विचारात्मकं ज्ञानं तदित्यस्मदिष्टमर्थञ्चोपेक्ष्य ब्रह्मप्राप्तिरूपपरमफलमत्र ज्ञानमिति वदतोऽस्य मतं चेत् सूत्रकृदिष्टं स्यात्, ‘अथातो ब्रह्मप्रपित्सा’ इति सूत्रार्थः पर्यवस्येत् । ब्रह्मप्रपित्सा च मुमुक्षैव । एवञ्च साधनचतुष्टयान्तर्गतमुमुक्षानन्तरं मुमुक्षेति सूत्रार्थो वर्णितो भवतीति सुशोभनमेतत् । एवं धर्मजिज्ञासाञ्च खर्गादिफलप्राप्तीच्छारूपां किं विवक्षतु भवानिति विचित्रमेतत् । सनुप्रयोगस्तु रागप्राप्तत्वस्य विचारे ख्यापनायेति वक्ष्यते । अतोऽपि ज्ञानमिह तर्करूपमेव युक्तम् ॥ ज्ञानं यत् ब्रह्मजिज्ञासाशब्दार्थघटक मतम् । चिद्वा तत् वृत्त्यवच्छिन्नचिद्वा स्यात् वृत्तिरेव वा ॥ ६९ ॥ नायो न ब्रह्म यस्मात् तद्विषयस्तदभेदतः । सनोऽर्थस्य च नैतत् स्यात् साध्यं नित्यत्वसंमतेः ॥ ७० ॥ न द्वितीयः चिदंशेऽत्र पूर्वदोषानपायतः । न तृतीयो नाजडं हि जडस्य विषयो भवेत् ॥ ७१ ॥ जिज्ञासानुपपति-प्रसाधनम् यदि वोपहितं ब्रह्म विषयस्तत्र कल्ष्यते । विशेषणं स्याद्विषयो न तु ब्रह्म स्वभासि यत् किं तद्विशेषणं यस्य वृत्तौ विषयतेष्यते । धर्मिणो ग्रहणाभावे केवलं धर्मधीः कथम् अद्वितीयत्वादिरूपमभावात्म विशेषणम् । प्रतियोग्यनुयोग्यंशसध्रीचीनग्रहास्पदम् तत्रानुयोगि तु ब्रह्म स्वतो भातं न गोचरः । प्रतियोग्यनुयोग्यर्थश्लिष्टेऽभावे च गोचरे अखण्ड ब्रह्मवृत्तित्वं कथं स्यादुपपादितम् ? शुद्धस्य वृत्तिव्याप्यत्वे जिज्ञासोपहिते कथम् १७१ ॥ ७२ ॥ ॥ ७३ ॥ ॥ 98 ॥ ७४ ॥ 1104 11 ॥ ७६ ॥ वृत्त्यवच्छिन्न चैतन्यविषयत्वं चितो यदि । दृश्यत्वात् स्याच्च मिथ्यात्वं मिश्रधीस्तु न तत्त्वधीः जिज्ञासानुपपत्तिमित्थमुदितामालक्ष्य जिज्ञासितुं ज्ञातुं लक्षयितुं परीक्षितुमपि ब्रह्माहमाहत्य च । मिथ्या कल्पनजालनिर्गमनिराबाधप्रचाराःः स्फुरत् 1100 11 सत्पक्षाः सुखलभ्यवैष्णवपदाः सन्तो लसन्ति क्षितौ ॥ ७८ ॥ सविशेषमेव तापत्रयातुरैर्ब्रह्म भवति जिज्ञास्यम् । शुद्धं तु न जिज्ञास्थं न च तापहमित्यभाषिष्ट शुभमस्तु ॥ ७९ ॥ श्रीः