निध्यायन् गुरुतल्लजं निरुपमं श्रीरङ्गरामानुजं निःसन्देह विपर्ययं निखिलमप्यर्थं विचिन्त्योदितम् । एकस्मिन् विमतेऽपि दूषणशर श्रेणीशतप्रेरण प्रावीण्यं शतदूषणीश्रवणतः संदर्शयिप्ये क्रमात् 1140 11 " ब्रह्मणि शब्द त्यादि प्रथमवाद-परीक्षाप्रवृत्तः शतभूषणीकारः भागस्यास्य, वृत्त्यनुपपत्तिवादपरीक्षे" ति नाम निक्षिप्य तदनुगुणं " तत्त्वमसी " वाक्यार्थविचारे व्याप्रियत । शतदूषणीप्रथमवादस्तावत् ब्रह्मशब्दवृत्त्यनुपपत्तिवादनामा ब्रह्मशब्दमात्रस्य वृत्तिविषये परमतेऽनुपपत्तिं प्रदर्शयति ; “अथातो ब्रह्मजिज्ञासे “ति ब्रह्मशब्दस्यैव प्रथमं प्रस्तुतत्वात् । एवं स्थिते वादस्य नामाप्यविज्ञाय तत्र विचार्यमाणं विषयञ्चाविमृश्य तत्त्वमस्यादिको काहलोऽयमकाण्ड ९६
ताण्डवमेव । अखण्डार्थविचार — शब्दा वेद्यत्ववादादिषु वक्तव्यस्यार्थस्यात्र का प्रसक्तिः ? अस्तु तावदिदम् ; अथ तदुक्तमेव विमृशेम
" तत् त्वमसी” त्यादौ ईश्वरत्व जीवत्वोपलक्षितं चिन्मात्रं पदद्वयप्रतिपाद्यमिति कृत्वा निर्विशेषब्रह्मस्वरूपप्रतिपादनपरत्वं सर्वत्र वेदान्ते स्वीक्रियतेऽद्वैतिभिरित्युक्त प्रथमम् । तेन सर्वस्य वेदान्तस्य निर्विशेषपरत्वनिश्चयः तत्त्वमसिवाक्यार्थनिर्णयाधीन इति सिद्ध्यति । तत्त्वमसिवाक्यस्यार्थ निर्णयश्च सर्वत्र समानाधिकरणवाक्येषु लोकावगतव्युत्पत्तिमूल इत्येव वक्तव्यम् । अन्यथा स्वेच्छया किञ्चिदर्थकल्पने तस्य स्वारसिकत्वाभावेनासिद्धौ तन्मूलस्य सर्ववेदान्तार्थनिर्णयस्याप्यनापत्तेः । लोके च समानाधिकरणवाक्यानां विशिष्टे कार्थपरत्वमेवानुभविकमानुशासनिकञ्चेति तदवसरे वक्ष्यामः । संप्रति तत्र तद्भाव्यमेव प्रमाणयामः । तत्र, " व्याप्तेश्च समञ्जस” मिति सूत्रे, ओमित्येतदक्षरमुद्गीथ मुपासीतेत्यत्र शाङ्करभाष्ये, अक्षरोद्गीथशब्दयोः सामानाधिकरण्ये श्रूयमाणेऽध्यासापवादेकत्वविशेषणपक्षाणां प्रतिभासनात् कतमो न्याय्यः" इति विचारं प्रस्तुत्य " अध्यासो ’ नाम ब्रह्मेत्युपासीते’ त्यादौ नामबुद्धावनुवर्तमानायामेव तद्विरुद्धबुद्धेः स्वीकारात् । यथा प्रतिमायां विष्णुबुद्धिः । अपवादः तत्त्वमसीत्यादौ तत्र यथावस्थितात्मबुद्धया देहेन्द्रियादिसङ्घाते 6 ; आत्मबुद्धेर्निवर्तनात् । एकत्वं द्विजोत्तमो ब्राह्मण’ इत्यादौ । विशेषणं ‘नीलमुत्पलम्’ इत्यादौ" इति विवृतम् । प्रकृते उद्गीथाक्षरस्थले विशेषणपक्ष एवादर्तव्यः, पक्षान्तराणां सावद्यत्वादिति भाषित्वा तत्रतत्रावयञ्चोपपादितम् । अध्यासपक्षे, ‘गौर्वाहीकः ‘, ‘सिंहो माणवकः’ इत्यादाविव लक्षणा स्यात् । फलकल्पना च ) । अपवादपक्षेऽप्यत्र न फलम् । एकत्वपक्षे च समानाधिकरणस्थले एकेनैव पदेन विवक्षितार्थसमर्पणात् पदान्तरं व्यर्थमिति निष्प्रयोजनं शब्दद्वयोच्चारणं स्यात् । अतो विशेषणत्वपक्षः नन्वत्राप्युद्गीथावयवमक्षरमिति लक्षणा श्रेष्ठः, उद्गीथभृतमक्षरमुपासीतेति । ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् स्यात् । स्यात् । पक्षान्तरलक्षणामपेक्ष्य परिग्राहवेयम् । अवयविवाचिनः शब्दस्यावयवे प्रयोगश्च सहजः, ‘पटो दग्धः’, ‘ग्रामो दग्धः’ इत्यादाविति ॥ ; इतो भाष्यादंशद्वयमस्माभिर्ग्राह्यमस्ति एकस्तावत् तत्त्वमसीत्यत्रा पवादे सामानाधिकरण्यमिति अन्यश्च विशेषणपक्षः श्रेष्ठ इति । यदि तत्त्वंपदाभ्यां स्वरूपमात्रं विवक्षणीयमिति भाष्यकृदाशयः स्यात्, तहिं एकत्वपक्षे तत्त्वमसीत्येतन्निवेशयेत् । तदा च तत्पक्षे यो दोषः, “निष्प्रयोजनं शब्दद्वयोंच्चारणं स्यात्, एकेनैव विवक्षितार्थसमर्पणात् " इत्युक्तः, स तत्त्वमस्यादिकमप्यास्कन्देत् । तर्हि, वैश्वदेव्यामिक्षा, पिकः कोकिलः, विज्ञानमानन्दमित्यादौ कथं निर्वाह इत्याशङ्का भामत्यां परिहृता तत्रतत्रामिक्षात्व विश्वदेवदेवताकत्व पिकपदवाच्यत्व कोकिलत्व विज्ञानत्वानन्दत्वरूपप्रवृत्तिनिमित्तभेद प्रदर्शनेन । एतेन सत्यं ज्ञानमित्यादिषु ब्रह्मपरसमानाधिकरणवाक्येषु प्रवृत्तिनिमित्तभेदपरित्यागिनः अखण्डब्रह्मबोधप्रयासिनः परे विज्ञानानन्दवाक्यार्थव्युत्पादिकया अनयैव भामत्या निरस्ताः । कल्पतरुस्त्वर्वाचीनवासनया अन्यथयति । अस्त्वेतत् ; एवमेकत्वपक्षेऽनिवेश्य अपवादपक्षे तत्त्वमसिवाक्योदाहरणात् तदनुगुण एव तदर्थो विमृश्यः । अहंत्वमर्थतया अभिमतो देहेन्द्रियादिसङ्घातो बाध्यते ईश्वररूपात्मप्रतिबोधनेन, रजतमिव शुक्तिप्रतिबोधनेनेति । ननु देहादिसङ्घातावच्छिन्नात्मा त्वमाद्यर्थः । तत्र तच्छब्दार्थेश्वराभेदः प्रत्याय्यत इति चेत् तर्हि सङ्घातावच्छिन्नत्वबलेन तद्भिन्नत्वे आत्मनि प्रागेव ज्ञाते तत्त्वमसीत्यस्य देहेन्द्रियसङ्घाते आत्मबुद्धिनिवर्तकत्वं भाष्योक्तं न घटते । यदि अस्य भाष्यस्य साक्षात् अपवदनतात्पर्य*कत्वं नेष्यते, अर्थादेव विपरीतभ्रमनिवृत्तिरिति, तर्हि विशेषणादिपक्षाविशेषता स्यात् । सर्वथा एतद्भाष्यविरुद्धः ऐक्यपरः स्वरूपलक्षणावादः । नूनमेतद्भाज्यमेव मूलं कृत्वा नैष्कर्म्यसिद्धावुक्तम्, “योऽयं स्थाणुः पुमानेष पुंधिया स्थाणुधीरिव । ब्रह्मास्मीति घियाऽशेषा ह्यहं बुद्धिर्निवर्तते ॥” इति । नेदमभेदे सामानाधिकरण्यम्, किन्तु बाधायाम् अत एव, 13 66 इति९८
66 सिद्धान्तलेशसङ्ग्रहेऽप्युक्तम् ; ईशजीवयोर्विम्बप्रतिबिम्बभावेऽप्यभेद औपचारिक एव । प्रतिबिम्बस्य बिम्बाधीनत्वं वा, वस्तुतः प्रतिबिम्बाभाव एव वा तत्र भवेत् । आत्मत्वोपासनाधिकरणे तु भाषितम्, न हीश्वरस्य संसार्यात्मत्वं प्रतिपाद्यत इत्युपगच्छामः । किं तर्हि ? संसारिप्पः संसारित्वापोहेनेश्वरात्मत्वं प्रतिपिपादयिषितम् " इति । तत्र त्वमर्थसंसार्यात्मोद्देशेनेश्वराभेदः प्रतिपाद्यत इत्यस्य प्रतीयमानत्वेऽपि, संसारित्वरूपत्वंपद प्रवृत्तिनिमित्तबाधस्य स्वीकृतत्वेऽपि, ईश्वरत्वरूपतत्पदप्रवृत्तिनिमित्तबाधोऽपीष्ट इति दुर्वचम् । ईश्वरे संसार्यात्मत्वविधाने ईश्वराभावप्रसङ्ग इति संसारिणीश्वरात्मत्वं प्रतिपाद्यत इति अपहतपाप्मत्वादिगुणता रूपेश्वरत्वविधानात् तत्पदप्रवृत्तिनिमित्तत्यागायोगात् । नन्विदानीममेव जीवस्येश्वरत्वे विधिनिषेधशास्त्रवश्यत्वं न स्यात् । प्रबोधानन्तरमीश्वरभावश्च दुर्वचः । निर्विशेषस्यैकस्यैव तदा भावात् जीववदीश्वरस्यापि बाधितत्वादिति चेत् — तर्हि, “ईश्वरस्यैव संसार्यात्मत्वं नोच्यतेः किन्तु संसारिण ईश्वरात्मत्व” मिति भाष्यमर्थशून्यम् । संसारिणः पश्चात्काले ईश्वरात्मत्वं निर्विशेषैक्यरूपं यदि विवक्षितम्, ईश्वरस्यापि संसार्यात्मत्वं निर्विशेषैक्यरूपं तदेति सुवचमिति को विशेषः ? । यदि चोभयत्र विशेषणत्यागेन स्वरूपमात्रविवक्षा, तर्हि एकतरस्यान्यतरैक्यं नोच्यते, अन्यतरस्य त्वेकतरैक्यमिति किमित्युच्यते । हानिरहा निर्वा पक्षद्वयेऽपि समेति को विशेषः ? तस्मादपवादे वा सामानाधिकरण्यं भवतु, एकत्वे वा; पदद्वयेऽपि विशेषणत्यागेन स्वरूपमात्रविवक्षा न भवद्भाष्यसंमता । विज्ञानानन्दवाक्ये प्रवृत्तिनिमित्तभेदवादिभामतीविरोधश्च । वेत्यन्यदेतत् । विज्ञानत्वादेर्वस्तुतो मिथ्यात्वं न ननु प्रवृत्तिनिमित्तांशे व्यत्तयंशे च यद्येकत्वम्, तर्हि पर्याययोः सह प्रयोगायोगात् एकत्वे सामानाधिकरण्यमेवासंभवि । यदि च प्रवृत्ति निमित्तांशे भेदस्वीकारः, तर्हि विशेषणपक्ष एव पर्यवसानमिति एकत्वपक्षो न युक्त इति चेत् — इदमेव कारणं पुरस्कृत्य एकत्वपक्ष उपेक्षितो भाष्य इत्यस्तु । ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् ९९ वस्तुतो न विशेषणपक्षक्यम्; समानाधिकरणपदोक्तप्रवृत्तिनिमित्तयोर्विवक्षितविशेष्यमात्रवृत्तित्वेन समनैयत्ये एकत्वपक्षः, नीलत्वोत्पलत्वयोः नीलोत्पलातिरिक्तेऽपि प्रत्येकं सद्भाववदतिप्रसक्तत्वे तु प्रवृत्तिनिमित्तयोर्विशेषणत्वपक्ष इति भेदात् । 1 (( उक्तभाष्यग्रन्थे विशेषणपक्षस्य श्रेष्ठताया वर्णनात् यदि तत्त्वमसीत्यादावपि स पक्षः संभवेत्, तर्हि पक्षान्तरग्रहणमनुचितमिति भाष्यकृत् स्वीचकारेति स्पष्टम् । अपवादपक्षेऽप्यध्यासपक्ष इव लक्षणा अवश्यम्भाविनी । अबाधेनोपपत्तौ बाधायोगादपि स पक्षस्त्याज्यः । भवति च, ‘नीलमुत्पल’ मित्यादाविवात्रापि विशेषणत्वम् । तत्रापि नैल्या दित्यागेन व्यक्तिमात्रलक्षणावादस्तु एतद्भाष्यनिरस्त एव । कथमत्र विशेषणत्वमिति चेत् — ओंकार उद्गीथ इत्यत्र कथम् ? अशांशिभावादिति चेत् — तत एव । ननु समुदायवाचिन एकदेशे प्रयोगो नानुचितः ; पटत्वादेः सर्वावयवपर्याप्तत्वेऽपि प्रत्यवयवं स्वरूपसंबन्धसत्त्वात् " पटो दग्धः " इत्यस्य पटत्वाश्रयो दग्धः इत्यर्थ संभवात् । जीवस्तु नेश्वरांशः । संसारित्वरूपविपरीतधर्मावच्छिन्नस्य जीवस्य सर्वज्ञत्वनिरतिशयानन्दत्वादिगुणाकरस्येश्वरस्य च भेद एव सर्वप्रमाणसिद्ध इत्यभेदायोगात् । अतो विशेषणवैलक्षण्यप्रयुक्तत्वाद्विरोधस्य विशेषणत्यागेन स्वरूपलक्षणमैक्यं वक्तव्यमिति चेत् —न । विशेषणयोर्भेदकत्वे स्वरूपलक्षणायामप्यैक्यायोगात् । घटः पट इत्यत्र घटत्वपटत्वरूपविरुद्धधर्मत्यागे कृते किं व्यत्तयोरैक्यं भवितुमर्हतिः भेदस्य नित्यस्य विशेषणयोः शब्दार्थत्वत्यागमात्रेण परिहरणायोगात् । अथ न वयं विशेषणयोरशब्दार्थत्वमात्रं श्रमः ; यत्प्रयुक्तो विरोधः, तयोर्विशेषणयो मिध्यात्वमेवेति नैक्यानुपपत्तिरिति चेत् — किमैक्यबोधानन्तरं तदन्यथानुपपत्त्या विशेषणमिथ्यात्वकल्पना, किं वा प्रागेव मिथ्यात्वसिद्धया विशेषणत्यागेन ऐक्यबोधः ? नाद्यः ; मिथ्यात्वाग्रहणे ऐक्यप्रतीत्ययोगात् । नान्त्यः ; साधकप्रमाणान्तरादर्शनात् । ऐक्यान्यथानुपपत्तिरूपश्रुत्यर्थापत्त्या हि मिथ्यात्वकल्पनेत्युच्यते । किंच आदित्यो १०.
यूप इत्यादावप्यैक्यश्रुत्यन्यथानुपपत्त्या विशेषणमिथ्यात्वस्य तत्सिद्धये प्रपञ्चे वर मिथ्यात्वस्य च कल्पनया स्वरूपैक्यबोधः कस्मान्नोत्प्रेक्ष्यते ? कस्मात् गौग्या निर्वाहस्थापनं तत्र तत्सिद्धिपेटिकायाम् ? प्राशस्त्यतात्पर्यग्राहकप्रमाणानुरोधेन यादृशार्थस्वीकारे प्राशस्त्यं सिद्धयेत् तादृशार्थविवक्षा तत्रेति चेत् — इहापि तत्त्वमसीति वेदनाधीनतायाः अथ संपत्स्ये " परज्योतिरुपसंपत्तौ कथनात् परं ज्योतिरुपसन्नस्य चान्यत्र, रममाण " " इति जक्षत् क्रीडन् इति ब्रह्मतुल्यभोगवर्णनात् तदनुरोधेन तत्साधर्म्यविवक्षैवालमिति विशेषणमिथ्यात्वतत्साधकजगन्मिथ्यात्वादिकल्पनाशतं व्यर्थमेव । वस्तुतो लक्षणा लेशमप्यन्तरा विशेषणत्वपक्षसंभवस्तदवसरे दर्शयिष्यते ॥ 6 किञ्च ब्राह्माधिकरणे एवमप्युपन्यासा" दिति सूत्रभाष्ये ब्राह्मस्यापहतपाप्मत्वादि सत्यसङ्कल्पत्वान्तधर्मजातस्य मुक्त सद्भावः सिद्धान्तितः । ताहशधर्मविशिष्टस्य तत्त्वमसीत्यत्र विवक्षयैक्यवर्णनसंभवात् किमिति स्वरूपलक्षणा ? न च निर्विशेषे कथं ते धर्माः स्युरिति वाच्यम् —– तर्हि चितितन्मात्रपक्षस्य औडलोमिसंमतस्यैव सिद्धान्तत्वापत्तेः । व्यावहारिकसत्यत्वं तेषां धर्माणामस्तीति तदुक्तिरिति चेत् — कथं मुक्तौ व्यावहारिकधर्म सद्भावः : मुक्तावभावेऽपि मुक्तिविषयविचारस्य व्यवहारकाल एव क्रियमाणतया ते उक्ता इति चेत् —असंबद्धमेतत् । संबद्धत्वे वा तत्त्वमसिवाक्यार्थ विचारस्यापि व्यवहारदशायामेव क्रियमाणतयाऽत्रापि धर्मविवक्षा न त्यागमर्हति । सिद्धान्तलेशसङ्ग्रहे च, ‘विद्योदये भवन् मोक्षः कीदृश’ इति विचार्य, ‘अपहतपाप्मत्वसत्यकामत्वसत्यसंकल्पत्वादिगुणाष्टकविशिष्टेश्वरभाव एव मोक्षः श्रुतिसूत्रभाय्याद्यनुगुण’ इति निगमितमिति च मुक्तौ गुणाभावकथनमयुक्तम् । एवञ्च तत्क्रतुनयात् विद्यापि गुणविशिष्टविषयिण्येव भवितुमर्हतीति पदद्वये स्वरूपलक्षणाया नैव प्रसक्तिः । गुणविशिष्टेश्वरभावरूपमोक्षपक्षस्तत्र व्याख्यात्रा अच्युतकृष्णानन्दतीर्थेन खण्डित इति चेत् — एवं श्रुतिसूत्रभाष्यतदनुसार्यपरशङ्कराचार्याप्पय्यदीक्षितग्रन्थादिखण्डकः अच्युतकृष्णानन्दः व्याख्यातृतल्लजो • ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् मन्यते, प्रथमाचार्थपरमपुरुषप्रभृतिस्वाचार्यपर्यन्तगुरुपरम्परानिविष्टसर्वाचार्यविषयाधिकगौरववहनपूर्वकं श्रीदेशिकचरणान् प्रतिवादं प्रशस्य शतदूषण्यर्थं सुष्ठु प्रतिष्ठाप्य व्याख्याविधायिनश्चण्डमारुतकाराः महाचार्याः शतदूषणी खण्डकत्बेन मन्यन्त इति अहो! दूषणसंरम्भः ! भवद्भाष्ये, " अनारब्धकार्ये" इति सूत्रे सिद्धावस्थं प्रस्तुत्य, स्थितप्रज्ञलक्षणनिर्देशेनैतदेव निरुच्यते " इत्युक्तम् । ब्रह्मसिद्धिकारस्तु मण्डनमिश्रो नियोगकाण्डे, स्थितप्रज्ञस्तावत् न विगलितनिखिलाविद्यः सिद्धः, किंतु साधक एवावस्थाविशेषं प्राप्तः स्यात्" इतिलिखन् भाष्यं खण्डयति । किमयं मण्डनमिश्रः खण्डको मण्डको वेति भवन्त एव विमृशन्तु । अत्र भामत्याम्, स्थितप्रज्ञस्तु न साधकः तस्योत्तरोत्तरध्यानोत्कर्षेण (( पूर्व प्रत्यया नवस्थितत्वात् । निरतिशयस्तु स्थितप्रज्ञः " इति मण्डनमिश्रः खण्डितः । व्यक्तमिदं कल्पतरौ । एवम्भूत एव भामतीकारः, विद्याञ्चाविद्याञ्चे" ति ईशावास्यमन्त्रार्थमन्यथयति –मन्त्रोऽयम विद्वद्विषयः सगुणोपासकपरो योजित उपनिषद्धाप्ये । भामत्यां तु समन्वयसूत्रेऽन्ते, तत्र मन्त्रे, " अविद्यया मृत्युं तीर्त्वा " इत्यस्य अविद्यया तत्कार्येण वृत्तिरूपज्ञानेन मृत्युम् अविद्यां तीर्त्वा उच्छिद्येति निर्गुणविषय एव योजना कृतेति । भाष्योदाहृतश्रुतीनां व्याख्यानावसरे परिमले, " इह श्रुतिव्याख्यानेषु अस्त्राविरं सिरारहितमिति व्याख्यातम् — ईशावास्योपनिषद्विवरणानुसारेण । तत्र क् तु स्त्राविरम् अविगलितमिति टीकानुसारेण व्याख्यातम् (अनेन भामतीकारोऽपि स्वातन्त्र्येण किमपि वदति, नाचार्यान् अनुसरतीति सिद्धम् ) । एवमन्यत्रापि मतभेदेनाविरोधो द्रष्टव्यः । टीकायां विद्याविद्ययोः कार्यकारणभावं निवर्त्यनिवर्तकभावञ्चोपपाद्य तदर्थविषयत्वेन, विद्याञ्चाविद्याञ्च’ति मन्त्रस्योदाहृतत्वात् तदनुसारेण मन्त्रं योजयति अविद्यामितीति सविमर्श कल्पतरुरवनारितः । प्रस्थानभेदश्च सर्वत्र भवतां प्रसिद्ध एव । श्रुत्यर्थे, सूत्रार्थे १०२
अधिकरणशरीरे च तत्र तत्र तत्तदुप्रेक्षिता विचित्रा विधाः खल्वध्यक्ष गोचरा एवावदधताम् । एवं भवद्भाग्यव्याख्यासंतानेषु पूर्वपूर्वखण्डकत्वमुत्तरोत्तरस्य बहुलं दर्शयेम । कथं तेषां व्याख्यानत्वमिति च विचार्यम् । महाचार्यास्तु चण्डमारुतकाराः शतदूषणीकारपरमदैवता इति तदन्यथाकरण सर्ववेदान्तान्यथाकरणसमर्थैरपि न शक्यमित्यलमनुप्रसक्तेन ॥ किञ्चाखण्डचैतन्यस्वरूपाविर्भावत्मकमोक्षार्था प्रवृत्तिरयुक्ता । यदि दरिद्रः कश्चित् स्वयं धनिकत्वनिबन्धनं भूमानमधिगन्तुमपारयन् असूयुर्धनिकमपि महता प्रयत्नेन दरिद्रयेत तादृगिदं स्यात् । कामं वयं संसारे बंभ्रमीमो युज्यतां नस्तथाविधमुत्तयर्थे प्रयत्नः । न बहुलं दुःखेन बाध्यमाना इति, हि तदा विशेषत आनन्दो भविष्यतीति मुत्तयर्थप्रवृत्तिः, शुद्धखरूपभावात् । स्वरूपस्य च सुखानन्दादि बहुसुखपर्यायशब्दव्यवहार्यत्वेऽपि शोधने दुःखाभावमात्रत्वात् । ईश्वरस्तु अनवधिकातिशयानन्दविभूतिविस्तारः परमानन्दसागरसंप्लवोत्तरङ्गः । " भगवतो रघुनाथाद्यवतारेषु प्रतीयमानो दुःखादिरप्यभिनयमात्र” मित्युक्तं सिद्धान्तलेशसङ्ग्रहेऽपि । एवञ्चाखण्डचैतन्याविर्भावव्यापृतैर्जीवैः सेश्वर सर्वप्रपञ्चविलापनप्रवृत्तैरानन्दसागरान्तमग्नेश्वरविनाश एवं क्रियत इति स्यात् । अतो न युक्तभद्वैतमोक्षमध्यवसातुम् । / "" ईश्वारभावरूपमोक्षवादिनां तु तत्पदार्थविशेषणत्यागस्य नावकाशः; श्रुतिसूत्रभाष्यादिविरोधात् । सर्वज्ञत्वाज्ञत्वादिविरोधपरिहाराय स्यान्नाम एक तरबाधः ; न तूभयवाधः प्रामाणिक इति । किञ्च, सदेव सोम्येदमग्र आसी" दित्युपक्रमे इंदंशब्दार्थप्रपञ्चस्य सत्पदार्थस्य चोपादानोपादेयभावनिबन्धनैवयस्यैव प्रकृतत्वात् उपसंहारे तत्त्वमसीत्यत्रापि तन्निबन्धनमेवैक्यं निगमनीयमिति न स्वरूपलक्षणाप्रसक्तिः । तच्चैक्यं तदर्थविवेचन उपपादयिष्ते ॥ कथञ्च निर्विशेषस्याप्रसिद्धस्य वाक्यार्थत्वविवक्षा । कथमप्रसिद्धत्वमिति चेत् — तत्त्वमसीतिवत् सर्वेषां समानाधिकरणानां व्यधिकरणानां च ब्रह्मशब्दवृत्यनुपपत्ति-प्रसाधनम् १०३ विशिष्टार्थपरत्वत्वाभाव्यादेव । अतएव सर्वत्र निर्विशेषं लक्षणयैव निरूप्यं भवताम् । निषेधाक्यान्यपि यस्मिन्नधिकरणे निषेधन्ति ; तदधिकरण येन रूपेण पदोपस्थापितं तद्रूपविशिष्टं न निषेद्धुमर्हन्तीति तेन रूपेण तेन निषेधेन च विशिष्टमेव प्रत्याययन्तीति न निर्विशेषसिद्धिः । उक्तमेव च यत्तु अप्रसिद्धमपि तत्त्वमसीत्यनेन बोधयितुं शक्यते’ भवतैवाप्रसिद्धत्वम् । । " गन्धवती पृथिवी " इत्यनेन परमाण्वादिवि, इत्यनेनेश्वर इव चेति t नित्यज्ञानाधार ईश्वरः ‘, तदयुक्तम् । गन्धवती पृथिवीत्यत्र परमाण्वादिग्रहण • स्याज्ञातपरमाणुं पुरुषं प्रति दुर्वचत्वात् । अन्यथा परमाण्वनङ्गीकारिमतेऽपि "" अनुमानादिना गृहीतपरमाणुं पुरुषं प्रति च नाप्रसि तद्ग्रहणस्यापत्तेः । द्धत्वम् । प्रतिपादकस्य तज्ज्ञानेऽपि प्रतिपाद्यस्य पुरुषस्य तज्ज्ञानं " सा द्विविधा, नित्याऽनित्या चे " त्याद्यंशप्रतिपादनानन्तरमेव भवितुमर्हति । नित्यज्ञानाधार ईश्वरः " इति तु आप्तवाक्यं मिथः पदार्थान्वयबलेन वाच्यवृत्त्यैवेश्वरं प्रतिपादयतीति न तस्य तत्त्वमसितुल्यता । अत एव स्वर्ग कुण्ठादि लोक-तत्रत्यविशेष प्रतिपादकानामाम्नायानां वाच्यवृत्त्यैव तत्परस्वात् न क्लेशलेशोऽपीति तदुदाहरणमुपरि कथ्यमानमप्यनुपपन्नम् ॥ वाक्यप्रामाण्यनिर्वाहार्थं तात्पर्यानुसारेणाखण्डपरत्वमिति च न । उद्देश्यविधेयभावापन्नार्थबोधनेनैव वाक्यस्य प्रमाणत्वादखण्डपरत्वे प्रामाण्यानिर्वाहात् । प्रत्युत प्रामाण्यहानिरेव । तात्पर्यं च तत्र तत एव दुर्ग्रहम् । यच्चोच्यतेपदानां स्वार्थोपस्थापनमात्रेण पर्यवसानम्, पदाभिहिताः पदार्थों एव वाक्यार्थलक्षका इति तेन किमत्र साधितं भवति । अन्विताभिधानपक्षत्यागेनाभि हितान्वयपक्षाश्रयण एवं स्वमतं रक्षितं भवेदिति चेद् भवदाशयः । तन्निरूप्यन् । अभिहितानां पदार्थानामेवान्वयानुभावकत्वमिति भाट्टमते यदि अखण्डापसानम् । तदन्तिाभिधानवादिप्राभाकरमते परं किं न स्यात् ? । अन्वयप्रत्यायकत्वस्योभयत्राविशेषेण शङ्कापरिहारयोस्तुल्यत्वात् । प्रत्युतार्थ एवानुभावकत्वरूपशक्तेरभिहितान्वयपक्षे स्वीकार्यतया तत्त्वमसीत्यादौ अखण्डस्य १०४
तदादिपदप्रतीतस्य तादृशशक्तिमत्त्वेन सखण्डत्वमेवाऽऽपद्यते । न च तत्त्वंपदे तत्तद्धर्म विशेष विशिष्टार्थोपस्थापके ; तयोश्च विशिष्टार्थयोरखण्डविषयकबोधशक्तिविशिष्टनिष्ठैवेति वाच्यम् येन येन पदेन यो योऽर्थः यथा यथोपस्थापितः, तथाभूततत्तदर्थमिथोऽन्वयानुभावकत्वशक्तेरेवार्थेप्वानुभविकतया विशिष्टार्थस्याखण्डार्थानुभावकत्वायोगात् । तदर्थमखण्डार्थे पदलक्षणास्वीकारे अनुभावकत्वशक्तेस्तत्र संमन्तव्यत्वापातात् सविशेषत्वमेव । Fear वाक्यार्थस्य सर्वत्र लक्ष्यताः पदानामन्वयांशे शक्त्यभावात् " गामानये" त्यादौ गवादिरूपेष्वर्थेषु परमुक्तेषु शक्यसंबन्धः शक्यानामर्थानां मिथः संबन्धः प्रतीयत इति चेत् तर्हि पदार्थ मिथस्संबन्धस्य वाक्यार्थत्वात् लक्षणैव वाक्यार्थः स्यात् । न तु लक्ष्यः । एकार्थान्वितापरार्थो वाक्यार्थ इति चेत्तदापि लक्षणावान् वाक्यार्थो भवति । न तु लक्ष्यः । वस्तुतो लक्षणापदं लक्षकत्वरूपव्यापारात्मकवृत्तिपरम् । शत्तथाख्यवृत्तिवत् यदा शक्यसंबन्धोऽप्यर्थोपस्थापनद्वारा शाब्दबोधनिर्वाहकः, तदैव लक्षणेत्युच्यते । न तु बोधविषयत्वमात्रेण । अथ, " सामान्य पदार्थः विशेषो वाक्यार्थ " इति मीमांसकाद्युक्तिमनुसृत्य वाक्यार्थो लक्ष्य इत्युच्यते तन्न । तदा हीदमुक्तं भवति । गोपदमविशेषेण सर्वगोव्यत्तयुपस्थापकम् । अर्थानां मिथोऽन्वये तेषां परस्परव्यावर्तनखाभाव्यात्, ‘व्यक्तिवचनानां (शब्दानां ) संनिहितगामित्व’ मिति नयेन प्रकृतपरत्वौचित्याच्चाऽऽनयनकर्मीभूतगोव्यक्तिविशेषादिरूपार्थे पर्यवसानमिति । अस्त्वेतत् । अस्य प्रकृते क उपयोगः ? उपस्थापितार्थमध्ये कचित् पर्यवसानमेव भवेत् । न त्वनुपस्थापिते निर्विशेषे अखण्डे पर्यवसानप्रसक्तिः । न खण्डसखण्ड साधारण्येनार्थं ब्रवीति तत्पदं त्वपदं वा । तस्मात् सर्वत्र वाक्यार्थो लक्ष्य इति निरूपणमिहानुपयुक्तम् । अथ वाक्यार्थानुभावकत्वमेव लक्षणेत्यस्माभिः परिभाष्यत इति चेत् किमनया वाचोयुक्तथा अद्वैतसिद्धावप्युक्तमन्वयानुपपत्तिकल्पिता ऽर्थोपस्थितिर्लक्षणेति पक्षदूषणावसरे, " वृत्त्या हि पदार्थोपस्थितिः ; न तु ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् १०५ सैव वृत्तिः । अतो नोक्तरूपा लक्षणा । किन्तु शक्यसंबन्धः । उपस्थितिरूपत्वेऽपि लक्षणायाः तात्पर्यविषयानुकूलो पस्थितिरेव सेति । अतः शक्यसंबन्धज्ञाप्यसंबन्धान्यतररूपवृत्तिव्यतिरिक्तोऽर्थो न लक्षणाशब्दविवक्ष्यः प्रायेण । लक्षकत्वं ज्ञापकत्वमनुभावकत्वमिति योगमात्रेण प्रयोगः काममस्तु । लक्ष्यत्वमिति उद्देश्यत्वमित्यभिप्रायेण च । तदभिप्रायेणैव, “सर्वत्रैव हि वाक्याथों लक्ष्य एवेति प्रयोगश्चेत् — तत्त्वमसीत्यत्र पदलक्षणायास्तन्न गमकम् । इदं तु स्यात् अन्विताभिधानवादाश्रयणे कश्चिदन्वयो वक्तव्यो भवति । अभिहितान्वयवादे तु पदानां स्वार्थबोधकत्वमात्रम् । ततो वाक्यार्थोऽनन्वितोऽन्वितो वा प्रत्याय्यत इति । अत्रोच्यते — अभिहितान्वयेत्यत्रान्वयशब्दत्यागवत् अन्विताभिधानेत्यत्रापि अन्वितेति त्यक्तुं शक्यं भवताम् । यदि च, स्वार्थबोधे समाप्तानामङ्गाङ्गित्वव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ॥ " इति एकप्रकरणगतानां प्रत्येकार्थबोधानन्तरमेक विशिष्टमहावाक्यार्थ निर्धारणवत् पूर्वापरसन्दर्भ संशीलनेन निर्विशेषपर्यवसानं प्रकृतघट्ट इति मन्यते, तर्हि तदेकदेशभूतं तत्त्वमसीतिवाक्यमिदं पृथक् अखण्डार्थशाब्दबोधजनकमिति न सिद्ध्यति । किन्तु तस्य तस्य वाक्स्य यः स्वरसतः प्रतीतोऽर्थः स एव तत्र विवक्षित इत्येव । एवञ्च पदवाच्यत्वमिव पदलक्ष्यत्वमपि निर्विशेषस्य नेत्येवोक्तं भवति । तेन तेनावान्तरवाक्येन तत्तदर्थोक्तौ तात्पर्यगत्या निर्विशेषग्रहणात् । एवञ्च प्रघट्ट एवं महावाक्यम् ; न तु तत्त्वमसीति । भवदुपात्तसुरेश्वराचार्यवचनं तु, सत्यं ज्ञानमनन्तमिति वाक्यविषयकम्, शब्दात् प्रतीयते तावत् सङ्गतिधर्मधर्मिणोः । मानान्तरादपोहस्तु न शाब्दस्तेन संस्मृतः ॥…. स्वार्थार्पणप्रणाड्या च परिशिष्टौ विशेषणम्” 14 १०६
इत्यादिकं शब्दानां विशिष्टार्थबोधकत्वमेव मुक्तकण्ठमाहेति कथम् अखण्डार्थविषयता तस्य ? इक्षुक्षीरमा धुर्यदृष्टान्तश्चानन्तरमेव विवेचयिष्यते । " यत् पुनरुच्यते ‘चिदचिच्छरीरकत्व निरस्तसमस्तदोषत्व सत्यकामत्वपुरुषोत्तमत्वादिकं न ब्रह्मशब्दवाच्यकोटिप्रविष्टम् । अथापि तत्तत्स्वीकारः प्रकरणादिति -तदस्तु ; किं तेन ? न हि ब्रह्मशब्देन यावदुक्तम् तदस्माभिस्त्यज्यते । चित्रीयेते तु ब्रह्मशब्दप्रवृत्तिनिमित्तभूते बृहत्त्वबृंहणत्वे प्रकरणादिह तैर्वाक्यराशिभिः । तेषाञ्च गुणानां तेन तेन रूपेण ब्रह्मशब्देन लक्षणया ग्रहणमावश्यकमित्यपि न ब्रूमः । भवता तु तत्त्वंपदार्थत्याग एव क्रियते । पूर्वपरवाक्यावगताः कल्याणगुणाश्च त्यज्यन्ते । उक्तं सर्वं मिथ्येत्युक्ता अनुक्तं किञ्चिन्निर्विशेषं शिष्यत इत्युच्यते इति महदन्तरमस्माकं युष्माकञ्च । अतः, " यश्वोभयोः समो दोषः " इति स्वदोषमङ्गीकृत्य परत्रापि तदापादने प्रयस्य अस्मन्मतेऽपि ब्रह्मणि शब्दवृत्त्यनुपपत्त्युद्भावनं न सहृदयेन शास्त्रज्ञेन समन्तुमर्हम् । । tt "" इति ‘यावदर्थं वै नामधेयइति खल्वाहुः । यतु"यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह श्रुतिविरोधः ब्रह्मणः शास्त्रप्रतिपाद्यत्व इति मनसिकृत्य, ‘वाच्यत्वनिषेधः तत्र कृतः । लक्ष्यत्वं तु न दोषाये ‘त्युक्तम् — तन्न । शब्दाः । तैरर्थसंप्रत्ययः । अर्थसंप्रत्ययाच्च व्यवहारः यद्यर्थोऽस्ति, तत्र शब्दः परं कथं न भवति । अन्यथा शब्द निषेध-भङ्गया निरुपाख्यतया तुच्छत्वमेव ब्रह्मणः कथितं भवेत् । लक्ष्यत्वमस्तीति परं कथम् । " वाचो निवर्तन्ते " इति सामान्येनोक्तौ वाच्यत्वरूप विशेषपर्यवसानकरणस्यानुचितत्वात् । यदि निषेधस्य विशेषे पर्यवसानं प्रमाणान्तराविरोधाय स्वीकर्तुमुचितम् तर्हि निर्गुणादिवाक्यानां हेयगुणरूपविशेषनिषेधपरत्वं कथं न मृष्यते ? लक्ष्यत्वेऽपि मनसा गृहीतत्वात् मनसो निवृत्तिश्च कथम् ? मननाविषयत्वं विवक्षितमिति चेत् — मन्तव्य इत्युक्ते इदमपि कथम् ? ब्रह्मशब्दायपर ति-प्रसाधनम् " " १०७ श्रुत्यननुसारिमननाविषयत्वमित्येवंरीत्या यत्किञ्चिद्विशेषनिषेध विमर्शे तु, “ वाचो निवर्तन्त" इत्येतदपि नानाश्रुतिगतशब्दवाच्य एव तस्मिन्नन्यादृशवाक्प्रतिपद्यत्वनिषेधपरतया योज्यताम् । किञ्च “ यतो वाच" इति श्रुतिर्यदि निर्गुणब्रह्मपरा, तर्हि " आनन्दं ब्रह्मणो विद्वान् " इति व्यधिकरणविभत्तथा तन्निष्ठस्याऽऽनन्दस्य वेदनमुच्यमानं न घटते । न चेदं वेदनमतत्त्वविषयम् ; न बिभेतीति भयाभावहेतुत्वश्रवण विरोधात् । वस्तुतः प्रकरणानुसारेण आनन्दगुणस्यापरिच्छिन्नत्वपरा श्रुतिरियमिति वक्ष्यते ॥ यच्च, “परं जैमिनिर्मुख्यत्वात्” इत्यत्र ब्रह्म गमयतीत्यत्र नपुंसक ब्रह्मपदस्य यो मुख्योऽर्थः तद्ग्रहणमुचितमिति जैमिनिनोक्ततया ब्रह्मपदस्य निर्विशेषरूढिरस्तीति शङ्कां मनसिकृत्य, ‘तत्र विवक्षितं मुख्यत्वं न मुख्यवृत्त्या वाच्यत्वरूपम्, किन्तु मुख्यतात्पर्यविषयत्वरूप’ मिति वर्णनम् तच्चिन्त्यम् -तत्र शाङ्करभाष्ये, " परं हि ब्रह्म ब्रह्मशब्दस्य मुख्यमालम्बनम्, गौणमपरम्, मुख्यगौणयोश्च मुख्ये संप्रत्ययो भवति " इत्युपपादितमस्ति । तेन मुख्यत्वं शक्यत्वरूपमिति गौणपद समभिव्याहारात् ज्ञायते । अतो भवदुक्तोऽर्थो 46 " किञ्च तत्र, भाष्यविरुद्धः । न च कार्ये प्रत्यभिसन्धिः " इति सूत्रे, नामरूपयो निर्वहिता ते यदन्तरा तद् ब्रह्म ” इति श्रुत्युदाहरणेन नामरूपनिर्वोदृविषयं ब्रह्मपदमिति दर्शितम् । तस्य ब्रह्मणः कार्यविलक्षणत्वं च कण्ठेोक्तम् । " कार्यात्यय " इति सूत्रे च हिरण्यगर्भस्य कार्यत्वमुक्ता ततोऽन्यत्वं विष्णोरुक्तम् । तेन विष्णोरकार्यत्वं जगत्कारणत्वञ्चाभ्युपगतं प्रतीयते । एवञ्च तत्प्राप्तिरर्चिरादिगत्या जैमिन्यभिमता; कार्यस्य हिरण्यगर्भस्य प्राप्तिर्बादर्थभिमता । कारणस्य विष्णुनारायणादिशब्दवाच्यस्य ब्रह्मणः सर्वगताविद्याशबळस्य सर्वगततया तत्प्राप्तयेऽपि गन्तव्यदेशप्रतीक्षाविरहात् चतुर्मुखलोकप्राप्तिरेव युक्तेति भाष्याभिप्रायावगमात् सगुणब्रह्मण एव तत्र विवक्षा स्यात् । देशान्तरगतिं विनाऽत्रैव ब्रह्मसंपत्तिरियं सगुणब्रह्मभावो वा निर्गुणब्रह्मभावो•.
वेत्यन्यदेतत् । अर्चिरादिना गत्वा विद्वान् अमानवेन कारणं ब्रह्म गमितः शुद्धब्रह्मभूयं गच्छतीति जैमिनिमतवर्णन एव द्वैतिमते वाक्यार्थसामञ्जस्यम् । अतः तत्र मुख्यत्वं मुख्यवृत्त्या वाच्यत्वरूपं नेति कथनमनपेक्षितम् । अपृष्टञ्च तत् ॥ एवं पूर्व पश्चाच्च निर्विशेषब्रह्मणः शब्दावाच्यत्वमेव सांप्रदायिकमनुरुध्य लिखन्नेव यदाह मध्ये, श्रीविष्णुपुराणवचनमुपरि शतदूषण्युपस्थापितमेव प्रदश्य ब्रह्मशब्दवाच्यत्वमेव तस्यास्तीति पक्षान्तरम्, तत् व्याहतमिति ज्ञापितमेव । अपि च अवाच्यत्ववादिनामद्वैतिनां खल्वयमाशयः सह्मात्मादिशब्दाः सर्वे सविशेषवाचिन एवानुभवसिद्धाः । “बृहत्त्वात् बृंहणत्वाच्च तद्ब्रह्मेत्यभिधीयते " इत्येवं निर्वचनान्यपि सविशेषवाचित्वमेव स्थापयन्ति । व्यक्तिमात्रवाचित्वे च का व्यक्तिरुक्तेत्यपरिज्ञानात् शब्दप्रयोगव्यवस्था न सिद्धयेत् । यदि च निर्विशेषत्वाकारेण काचिद्वयक्तिरुच्यते, तर्हि तदेकं प्रवृत्तिनिमित्तं स्वीकृतमिति नाखण्डस्य वाच्यत्वम् । अत एव, “प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञित” मिति श्रीविष्णुपुराण श्लोकोऽपि नाखण्डस्य वाच्यत्वप्रतिपादनसमर्थः ; प्रत्यस्तमितभेदत्वसत्तामात्रत्व वचो वेद्यताराहित्य स्वयंप्रकाशत्व रूपनानाधर्मनिर्देशस्य ज्ञानत्व दर्शनात् । अथ तेषामुपलक्षणविधया विवक्षेति चेत् — किमिदमुपलक्षणत्वम् ? शक्यार्थकोटौ तेषां धर्माणां प्रवेशाभावेऽपि शक्यार्थव्या वर्तकतया भासमानत्वम्, यथा डित्थादियदृच्छाशब्दानां तद्वाच्यडित्यादिव्यक्तिव्यावर्तकतया भानम्, विनैव वाच्यको टिप्रवेश मिति चेत् — तत्र शब्दानां श्रोत्रगृहीतत्वात् व्यावर्तकतयाऽन्वयो युज्यते ; न त्वत्र तथा प्रत्यस्तमितभेदत्वादीनां नियमेन ब्रह्मशब्द प्रयोगस्थले सर्वथोपस्थापकं प्रमाणमस्ति, येन तत एव तेषां भानात् व्यक्तिमात्रं वाच्यं भवेत् । अथोपलक्षणानां तेषां भानमपि नियमेन नेष्यते । ‘ब्रह्मशब्देन ज्ञानमुच्यते, यत्र वस्तुतः प्रत्यस्तमितभेदत्वादिकमस्तीति ब्रह्मशब्दवत्यनुपपत्ति-प्रसाधनम् तद्वचनार्थः इति चेत् — तर्हि ज्ञानत्वं प्रवृत्तिनिमित्तमिति सिद्ध्यति । तस्य चानेकज्ञानसाधरणत्वात् सर्वेषां ब्रह्मशब्दावाच्यत्वाय व्यावर्तकधर्मविशेषनिवेश आवश्यक एव । अथ ज्ञानव्यक्तिः काचिदेव वाच्या ; ब्रह्मशब्द एव तत्र यदृच्छाशब्दवत् शक्यकोट्यप्रविष्ट एव व्यावर्तकतया तिष्ठतीति ज्ञानत्वमपि न प्रवृत्तिनिमित्तमिति चेत्-एवमपि नानाधर्मस्वीकारान्निर्विशेषत्वं न सिद्ध्यतीति च भाव्यम् । कथं पुनः कूटस्थमारभ्य सर्वैरद्वतिभिरवाच्यत्वं ब्रह्मणः सर्वतः प्रपञ्चितं युज्येत, यद्येवं वाच्यत्वं तैरुररीकृतं स्यात् ? ब्रह्मशब्दे तर शब्दावाच्यत्वा’दिति चेत् — अर्थान्तरमात्रवाचकत्वेनावधृताः शब्दाः ब्रह्म न वदन्तीति नेदं वक्तव्यम् । पदार्थसामान्यं स्वातिरिक्तमात्रवाचकशब्दवाच्यं न भवतीति न कश्चिदिह विशेषः । यदि ब्रह्मशब्दः शुद्धवाचकः, आत्मादिशब्दैः किमपराद्धम् ? प्रमाणविरोधश्च सर्वत्र समानः । " यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह " आत्मादिशब्दानामिव, " इति अत्तृत्वाप्तृत्वादातृत्वादि विशेषपुस्कारेण बृहति बृंहयति तस्मादुच्यते परं ब्रह्मे “ति, बृहत्त्वात् बृंहणत्वाच्च तद्ब्रह्मेत्यभिधीयते " इत्यादिना च बृहत्त्वाद्याकारेण ब्रह्मशब्दस्यापि निरुक्तत्वात् । उक्तं हि प्रथमाधिकरणभाष्य एव, “अस्ति । तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम् । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते ; बृहतेर्धातोरर्थानुगमात् " इति । अतः सर्वज्ञत्वसर्वशक्तित्वादिप्रतीत्यनुगुणोऽर्थः ब्रह्मशब्दस्य भवन्मते ऽपि विवक्षित इतेि निश्चीयते । अत्र भाग्ये, ‘समन्वितं चेति चकारप्रक्षेपणम्, ब्रह्मद्वैधविधानम् एकस्य नित्यशुद्धत्वमन्यस्य सविशेषस्य सर्वज्ञत्वादीति विभजनञ्च यथावस्थितार्थपरव्याख्यादिविरुद्धमपि । भामत्याश्चदम्, ‘वृद्धिकर्मा हि बृहतिरतिशायने वर्तते । तच्चेदमतिशायनमनवच्छिन्नं पदान्तरावगमितं नित्यशुद्धबुद्धत्वादि अस्याभ्यनुजानातीत्यर्थः’ इति व्याख्यातम् । इदमेव शाङ्करभाष्यं मुखान्तरेण श्रीभाष्ये भाषितम्, " ब्रह्मशब्देन स्वभावतो निरस्तनिखिलदोषोऽनवधि कातिशया संख्येयकल्याणगुणगणः पुरुषोत्तमोऽभिधी ११०
यते” इति । उक्तमामत्यर्थोऽपि समनन्तरमेवाभाषि, “बृहत्त्वञ्च स्वरूपेण गुणैश्च यत्रानवाधिकातिशयम्, सोऽस्य मुख्योऽर्थः " इति । भवद्दर्शितोऽर्थो भवन्मतनिष्कर्षप्रतिकूल इति चाभ्यां ग्रन्थाभ्यां प्रत्यबोधि । एवं शाङ्करभाष्याचानुगुण्येन सविशेषरूपमुख्यार्थ श्रीमाप्येण प्रदर्शिते संति स्वपूर्वपुरुषाशयविरुद्धं भवता यत् प्रागुक्तम्ब्रह्मणि सगुणे निर्गुणे वा शब्दानां मुख्यवृत्त्यनुपपत्तिः समाने “त्यादि ; तदौचित्यं भवत्पक्षीया एव विमृशन्तु ॥ "” " अवाच्यत्वो उपपादयति च, निर्विशेषस्य ब्रह्मशब्दवाच्यत्वमस्तीति वदन्नेव भवान्, तिस्तु वाक्यार्थवत् निर्विशेषपरैव " इति समनन्तरमेवाह । निर्विशेषो ह्यस्मिन् पक्षे……. स्वप्रकाश एव " इति । एवञ्च निर्विशेषस्यावाच्यत्वमेव विस्पष्टं वर्णयन् किमिति वाच्यत्वमप्यन्तरे वदति ? ब्रह्मशब्दस्य सङ्केतविशेष " इति कथनमप्ययुक्तम् ; तस्य डित्थादिशब्दवत् संकेतितत्वाभावात् । किं पराशरोऽत्र संकेतकल्पकोऽभिमतः, अन्यो वा । अनादेः शब्दस्यापौरुषेयस्य न कश्चित् संकेतयिताऽस्ति । एवञ्च " संकेत ब्रह्मशब्दवाच्यत्वम् इति (अत्र, 53 पुटे) " संकेतेन 44 विशेषेण मुख्यवृत्तत्वं गम्यते " इति च लेखनम्, आधुनिकेर द्वैतिभिरितः संकेतेन ब्रह्मादिपदं तत्र प्रयुज्यते चेत् तदैव वाच्यत्वं कथञ्चित् स्यात्; अन्यदा पुनरवाच्यमेव तत्’ इत्येतदेव द्रढयति । व्यर्था चेयं सङ्केतकल्पना । विशिष्टे शक्तस्य विशेष्ये लक्षणया प्रयोगस्य भवदुक्तत्वेन तत एव निर्वाहात् । एतद्विष्णुपुराणतत्त्वार्थस्तु श्रीभाष्ये दर्शित एव । शतदूषण्याञ्च एतदुपन्यासपूर्वकमर्थो वर्णयिष्यते । बादि, ब्रह्मणो लक्षणया प्रतिपाद्यत्वस्थापनार्थ पदार्थतत्त्वनिर्णयोक्तं यदन्वइक्ष्वादिमाधुर्यस्य दृष्टान्तीकरण न प्रकृतानुरूपमिति तत्र तत्रैव व्यक्तम् । इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । तथापि न ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् १११ तदाख्यातुं सरस्वत्याऽपि शक्यते " इति दण्डिवचनं हि इक्ष्वादिमाधुर्याणां मिथो विभिन्नतयाऽनुभूयमानानां स्थितं भेदमित्थमिति तत्र रूढेन शब्देन व्युत्पादयितुं न प्रभवाम इत्येव वदति । इक्षुमाधुर्यं क्षीरमाधुर्यमिति पदद्वयादिना योगवशादन्विताभिधानादिविधया वाच्यत्वं नैव निषेधति । निर्विशेषं ब्रह्म तु न पदान्तर समभिव्याहारपूर्वमपि वक्तुं शक्यतया भवदिष्टम् । लक्षणाऽपि माधुर्यपदस्य इक्ष्वादिमाधुर्ये नावश्यापेक्षिता । व्यवक्तिवचनानां सन्निहितगामित्वमिति नयेनैव विनैव लक्षणामभिमतमाधुर्यग्रहणसंभवात् । • क्वचिल्लक्षणाऽपि न दुष्यति ; उक्त विधया प्रत्यक्षाद्यनुभवसिद्धत्वेन तात्पर्यसत्त्वे तत्संभवात् । लक्ष्यतावच्छेदकञ्च इक्षुमाधुर्यत्वतद्वैजात्यादिकमनुभूयमानत्वात् नाप्रसिद्धम् । निर्विशेषे तु न लक्ष्यतावच्छेदकं किञ्चित् नापि मानान्तर सिद्धत्वमिति वैषम्यम् । अथ तु निर्धर्म कोऽपि मानान्तर विषयोऽप्यर्थो लक्षयितुं शक्यत इति उदाहरणं तद्विसृज्यैव वक्तुं यत्यते तत्राप्युच्यते लक्षकपदेन लक्षणया प्रतिपादनात् प्राकू यन्न ज्ञातम् तस्य मानान्तर विषयस्य लक्ष्यत्वं दुरुपपादमेव । अविषये तस्मिन् शक्यसंबन्धरूपलक्षणायाः तात्पर्यादेश्च दुर्ग्रहत्वात् । यत्तु —“ सुखमहमस्वाप्स” मिति अलौकिकानन्दस्य लक्षणया व्यपदेशो दृश्यत इति तत्र तदानन्दलक्षकं पदं किम् ? न हि सुखपदस्यानन्दे लक्षणा । सुखपदस्य सामान्यवचनस्या लौकिकानन्दपरत्वं लक्षणयेति चेत् तन्न घटमानयेत्यादौ घटादिपदस्य विशेषबोधकत्वे लक्षणाया अनिष्टेः । सविशेष सुखपरं पदं निर्विशेषावाचकमपि तत्र लाक्षणिकमिति चेत्कथमिद निश्चीयते ? सुखमहमस्वाप्स" मिति स्वापे सुखाभेदान्वयात् स्वापसुखयोः समानकालिकत्वावसायात स्वापकाले च लौकिकसुखानां तत्तद्विषयानुभवजन्यानामुत्पत्त्यसंभवात् तदातनमन्यत् सुखमिति निश्चये, अहमित्यात्मनस्तदा सद्भावावगमात् तदेव सुखमित्यवधारणे च सति सुखपदस्य तत्परत्वनिश्चय इति चेत् — तावता तत् निर्विशेषं सुखपदावाच्यं लक्ष्यमेवेति कथं निर्णयः ? निर्विशेषं किञ्चिदस्तीति निश्चित्य तल्लक्षकत्वस्वीकारे मानान्तरामेयत्वं
" ११२
" न सिद्ध्यति । स्वयंप्रकाशत्वात्तस्य सुखस्य स्वापकाले न वृत्तिज्ञानरूपमिति विषयत्वमासीदिति चेत् तथापि सुखमहमस्वाप्स" मिति प्रतिसंदधान एव व्यवहरतीति प्रतिसन्धानविषयत्वं प्रागस्त्येव । न हि मितिविषयत्वमेव लक्षणाप्रयोजकम्, न तु स्मृतिविषयत्वमपीति कश्चिद् ब्रूयात् । श्रोता च किं तत् सुखमिति विमृश्य पूर्वोक्तयुक्तया आत्माभिन्नत्वमवसायानुमितिविषयमेव सुखं पदलक्ष्यमाकलयतीति मेयस्यैव लक्ष्यत्वं सुस्थमेव । लक्षणया बोध्ये चामेयत्वमपि कथम् ? व्यक्तिमात्रलक्षकत्वे अहंपदेनापि तद्ग्रहणात् पौनरुत्तथापत्तिश्च । सुखत्वप्रत्यक्तादिरूपधर्मभेदविवक्षायाञ्च न निर्विशेषस्य लक्ष्यत्वम् । आत्मनः सर्वदा अनुकूलत्वेन भासमानत्वात तस्यालौकिकसुखत्वमपि नास्ति । विषयानुभवानायत्त त्वमात्रेणा लौकिकत्वं पुनरस्ति । कथं तत्र व्युत्पत्त्यसंभवः ? भवत्सिद्धान्ते सुखं सर्वे साक्षिभास्यमेवेति नान्यादृशभानाधीनमापरोक्ष्यं कस्यापि । यदपि सविशेषवाचिनां विशेषं विना व्यक्तिमात्रपरत्वं जहदजहल्लक्षणयेत्यत्र प्रकृष्टप्रकाशश्चन्द्रः इत्युदाहरणं दत्तम्तत्र प्रकृष्टप्रकाशत्वादेः कुतो न विवक्षा ! चन्द्रप्रातिपदिकार्थप्रश्नोत्तरत्वादिति चेत् — तन्न ; यतः प्रकृष्टप्रकाश इत्यस्य चन्द्रप्रातिपदिकार्थमात्रपरत्वे चन्द्रश्चन्द्रपदवाच्य " इत्येवोक्तं भवतीति न प्रष्टुराकाङ्क्षा चन्द्रपदवाच्यमजानंश्च कथं आश्रीयमाणे शाम्यति । 66 बोधमप्यनुभवेत् ? । अतः ’ को गत्रय 66 ततः "" चन्द्रश्चन्द्रपदवाच्य इति ’ इति बुभुत्सायाम्, गोसदृशो गवय इति प्रतिबोधने सति गोसादृश्यविशिष्टं पिण्डमवसरे पश्यन् गवयत्वजातिञ्च प्रत्यक्षयन् गोशब्दस्य गोत्वमिव गवयशब्दस्य गवयत्वमेव प्रवृत्तिनिमित्तं भवितुमर्हतीति च निश्चिन्वानः गोसादृश्यं गवयत्वोपलक्षणमध्यवस्येन् गोसादृश्यस्य शक्यतावच्छेदकतां न स्वीकरोति यथा, तथा प्रकृष्टप्रकाशत्वस्य चन्द्रपदशक्यतावच्छेदकत्वं न स्वीकरोतीति काममस्तु । तावता गोसदृशो गवय इति वाक्ये यथा गोसादृश्य शक्यतानवच्छेदकमपि शक्योपसर्जनतया बोधे भानं नातिक्रामति, तथा प्रकृष्टप्रकाशत्वमपीति न तस्य व्यक्तिमात्रार्थकता । ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् "" ११.३ अन्यथा प्रकाशप्रकर्षादेरभाने, एषु ज्योतिष्षु कश्चन्द्र " इति प्रश्ने प्रकृष्ट प्रकाशश्चन्द्र " इतीदमुत्तरमेव न भवेत् ; व्यावर्तकग्रहणेन ज्योतिरन्तरव्यावृत्तेरयोगात् । वह्निमत्पर्वतविषयकानुमितिरस्तीत्यत्र वह्निमत्त्वस्योपलक्षणत्वविवक्षायामनुमितिविषयतावच्छेदकत्वस्य aaraस्वीकारेऽपि तद्वाक्यार्थज्ञाने यथा वह्निमत्त्वस्य पर्वतविशेषणत्वं नापैंति, तथा प्रकृष्टप्रकाशत्वस्य बोधविशेष्यविशेषणत्वं नांपतीति ध्येयम् । एवं पदार्थतत्त्वनिर्णयोक्तांशविमर्शनादेव तत्समानार्थिका न्यायरत्नदीपावलिरपि विसृष्टा वेदितव्या ॥ अत्रेदमवधेयम् शब्दावाच्यस्य शब्दलक्ष्यत्वं न भवतीति न शतदूषण्यामुक्तम् । किंतु शब्दस्य किञ्चिद्वाचकत्वानङ्गीकारे लक्षकत्वमपि दुर्वचम् वाच्यसंबन्धरूपत्वाल्लक्षणाया इत्येव । । यदि निर्विशेषत्वहानिः स्यादिति भिया वाच्यत्वस्यास्वीकारः, तर्हि लक्ष्यत्वमपि न स्वीकर्तुं शक्यमिति च । भवदीयग्रन्थेषु अवाच्यस्य कथं लक्ष्यतेत्यादिः प्रश्नः कृतोस्तु ; इक्षुक्षीरमाधुर्यादिदृष्टान्तपूर्वकं समाधाने यत्नश्च । तत् सर्वमिह नातीव प्रकृतम् । तथापि तस्य तस्यात्र प्रदर्शनं तस्यापि खण्डितत्वायेत्येव पर्यवस्यति ॥ आकृतिशक्तिवादिनो मीमांसकाः व्यक्तिविशेष लक्षणयैव “घटमानये” त्यादाचवगच्छन्तीत्येतदस्तु नाम । व्यक्तिमात्रशक्तिवादिनो नैयायिकाश्च एवमवगच्छन्तीति तु असंबद्धमेव । विशिष्टशक्तिवादिन एव प्रायो नैयायिकाः । स्वीक्रितां पुनः ’ व्यक्तिमात्र शक्तिरपि जात्यवच्छिन्नविषय कशाब्दप्रयोजकतया कैश्विन्नैयायिकैरिष्यत’ इति । अथापि लक्षणया घटमानमिति न कस्यापि नैयायिकस्य मतंम् । अद्वैतसिद्धावुक्तम्“गौर्नित्या, गौरनित्य इत्युभयत्राप्येकदेशान्वयार्थ लक्षणाभ्युपगमेऽपि जातिव्यत्तयोरुभयोरपि तार्किकैगपदार्थत्वाभ्युपगमाच्च " इति । चन्द्रिकायामपि " तार्किकाणां मतेऽपि विशिष्टस्य शक्यत्वात् " इत्यादि । पुनरिक्षुक्षीरेति पठनं तु वृथा विस्तर 15 ११४
प्रत्याशयैव । अन्यदिदमाश्चर्यं सर्वैरध्यक्षणीयम् यदेष शतभूषणीकारः शतदूषणीकृदाचार्यविरचिते न्यायपरिशुद्धिप्रन्येऽपि इक्षुक्षीरेति दण्डिश्लोक उपात्तोऽस्तीति केषाञ्चिन्मुखादुपकर्ण्य तत्स्थलं जिज्ञासितवान् । तत्र पूर्वापरसन्दर्भपरिज्ञानवैधुर्यात् लक्षणनिरूपणमिति शीर्षकं लक्षणा निरूपणं मित्यन्यथा गृहीत्वा, लक्षणावृत्तिरत्र निरूप्यत इत्याकलय्य, तत्रत्यं लक्ष्यपदमपि गन्धवत्त्वलक्षणलक्ष्या पृथिवीत्यत्रेवार्थान्तरपरमित्यविज्ञाय शक्यलक्ष्यविचारस्थलीयलक्ष्यपदार्थपरं मत्वा, स्वविवक्षितार्थसाधकत्वाभिमतं वाक्यं तत उद्धरिष्यन्, लक्षणनिरूपणे इत्येतत्स्थाने -“ लक्षणानिरूपणे इति, उक्तं हि तत्त्वरला करे “} इति लेखनीये, “उक्तं च तन्त्रान्तरे " इति च लिखन् अस्मदीयग्रन्थाः तत्रापि न्यायपरिशुद्ध्यादयः स्वेन ज्ञाता इति लोकान् प्रत्याययितुं प्रयतते । न चोदाहृतवाक्यं तत्र ग्रन्थान्तरस्थतयोपात्तमस्ति ? " तत् किमर्थ उक्तं च तन्त्रान्तर इत्युपक्रम्य " इति लेखनम् ? नूनं शतभूषण्याम्, स्वभ्रान्तिप्रख्यापनमेव ततः सिद्धम् । एवमुदाहृतवाक्यार्थोऽपि न प्रकृतो पयोगी । न हि तत्रावाच्यस्य पदलक्ष्यत्वं वा, निर्विशेषस्य व्यक्तिमात्रस्य पदलक्ष्त्वं वा कथितमस्ति । किन्तु लक्षणस्यैव केवलव्यतिरेकितया वस्तुस्थापकत्वमिति मतिनिरासाय लक्षणोति विनापि विवेकसत्त्वप्रदर्शनाय इक्षुक्षीरमाधुर्यविषये दण्डयुक्तं दर्शयिप्यता, ’ तदिदं घटादावपि वक्तुं शक्यम् ; तत्र तत्रानुभवैकगम्यस्य वक्तुमशक्यस्य विशेषस्य सद्भावात्’ इति सामान्येन प्रस्तुत्य स्वयमनिर्वचनमात्रेण पदार्थापलापो न कर्तुं शक्यत इत्येतदेवोपपाद्यते ; तेनानेकविशेषवत्त्वमेव च वस्तुनि स्थाप्यत इति । तत् सिद्धं सर्वोऽयं तस्यासंबद्धविस्तर इति ॥ (( एवं बहुप्रन्थसंवादेन स्वपक्षं स्थापितमभिमत्यानन्तरमेव लिखति’तत्रामुख्यवृत्तत्वेऽपि लक्षकत्वपक्षे ब्रह्मशब्दस्य साधुत्वं व्याकरणाभ्यासजनितसंस्कारव्यङ्गयजातिरूपम् " इत्यादि । अवाचकस्य लक्षकत्वं न • ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् ११५ भवतीति शतदूषण्यामुक्तम् । न हि ब्रह्मावाचकं ब्रह्मलक्षकं न भवतीति तत्रोक्तम् । किन्तु यत्किञ्चिद्विषयेऽपि यत् वाचकं न भवति, तस्य लक्षकत्वं न भवतीत्येव । अन्यावाचकस्य किञ्चिदर्थबोधकत्वे हि शब्दस्य तद्वाचकत्व मेवोक्तं भवतीत्यवधेयमत्र । एवं स्थिते यदत्र मन्यते — यद्यपि ब्रह्मशब्दो Sवाचकः, अथापि लक्षक एव । लक्षकत्वमात्रे स्वीकृते वाचकत्वरूपं शब्दसाधुत्वं मा भूत् — अन्यथान्यथा पूर्वमीमांसायां व्याकरणाधिकरणे निरुक्तं किमपि ब्रह्मशब्दस्य भविष्यतीतितत् कथं युज्यते ? न हि निर्विशेषलक्षकस्य ब्रह्मशब्दस्य सर्वथैवावाचकत्वं भवदिष्टम् । सविशेषवाचकत्वस्य प्रांगेव शाङ्करादिप्रदर्शनेनास्माभिः ग्राहितत्वात् । अतः अवाचकत्वविकल्पो नास्मदिष्ट इत्येतावति भवता वक्तव्ये किमित्यवाचकत्वस्वीकारेण तदात्वेऽसंभावितस्य लक्षकत्वस्य च स्वीकारः ? । न हि अधस्तात् प्रदर्शिताः पदार्थतत्त्वनिर्णय न्यायरत्नदीपावल्यादयः ब्रह्मादिशब्दानां किञ्चिदर्थावाचकत्वं तथापि लक्षकत्वञ्च स्थापयन्ति । अतोऽनुपपन्नोऽयमुपसंहारः ॥ यत्तु — वाचकत्वरूपसाधुत्वत्यागेन निर्वचनान्तरानुधावनम् — तत्रापि पृच्छामः । किं मीमांसायामन्यत्र वा व्याकरणाभ्यासेत्यादिनिर्वचनं कुर्वन्तः साधुशब्दानां वाचकत्वं नेच्छन्ति । एवं तर्हि प्रातिपदिकमपि तन्न भवेत् ; अर्थवदिति प्रातिपदिकलक्षणे निवेशात् । प्रकृतिप्रत्ययविभागमूलश्च व्याकरणेन क्रियमाणः संस्कारः कथमर्थराहित्ये स्यात् । धातूनां प्रत्ययानाञ्च निरर्थकत्वाभावात् । कथं तर्हि वाचकत्वं परित्यज्य लक्षणान्तरकथनं तेषु ग्रन्थेष्विति चेत् — गन्धसमवायिकारणतावच्छेद कजातिमत्त्वमिति परिष्कृतेन ‘गन्धवत्त्व लक्षणेनैव निर्वाहे किमिति नानारूपवत्त्वादिलक्षणम् ? विनिगमनाविरहात् संभावितसर्वलक्षणोपन्यासश्च सर्वविदां संभावित एव । वस्तुतः साधुत्वलक्षणविचारस्तत्रापभ्रंशानां व्यावर्तनाय । } ये तु साधूनामिवापभ्रंशानामपि वाचकत्वं मन्वते, न मृष्यन्ति च भाषासु सर्वत्र वाचकत्वप्रतीतौ बाल्यतः संपादितायां भ्रान्तित्वकल्पनम् — न ह्येतादृशस्थलेषु अपभ्रंशानां साधुशब्दोप ११६ परमार्थ भूषणे स्थापनद्वारा विवक्षितार्थबोधकत्वसंभावनालेशोऽपि येन वाचकत्वस्वीकारं विनैव कार्य सिद्धिराशङ्कयेत — तद्दृष्ट्या वाचकत्वमतिप्रसक्तं न साधुशब्दलक्षणमिति तदुपेक्षया व्याकरणाभ्यासेति साधुत्वनिर्वचनान्तरारम्भः । तावता साधुशब्दानां वाचकत्वापलापस्तु नेति ब्रह्मशब्दस्यावाचकत्वेऽपि साधुत्वकथनगयुक्तमेव । असाधोरपि वाचकत्वमेव तत्रेष्टम् ; न पुनरवाचकस्यापि साधुत्वमिति । " प्रत्यस्तमितभेद” मिति श्री विष्णुपुराण श्लोकस्य शुद्धप्रत्यगात्मपरत्वं वेदान्तरक्षामण्यादौ खण्डितमित्यपि न मन्तव्यम् । तस्य शुद्धप्रत्यगात्मब्रह्मपरत्वान्वारोहेऽपि निर्विशेषत्रह्मपरत्वासंभवेन सविशेषब्रह्म परतायाः, परतायाश्च वेदान्तरक्षामणिखण्डन एव विस्तृतत्वात् ॥ सविशेषवाचिनो ब्रह्मशब्दस्य विशेष्यमात्रे प्रयोग औपचारिको भाक्त इति सिद्धे यत् विशिष्टाद्वैतिमतेऽप्यत्र दोष इत्युद्भावना योच्यते-शरीरवाचकानां शरीरपर्यन्तत्वेऽपि यथा विशेषणविशेष्यांशयोः पृथक् पृथग्बोधस्वीकारावसरे ब्रह्मशब्दस्य परमात्ममात्रबोधकत्वे इयमेव गतिरिति -तत् प्रमादकृतम् । शरीरवाचिनामिति न्यायेन चेतनाचेतनवाचिनां पदानामेव हि परमात्मपर्यन्तत्वं वर्ण्यते ; न तु परमात्मवाचिनां ब्रह्मादिशब्दानामपि विशिष्टवाचित्वं विशेषणपर्यन्तवाचित्वं वा । तत् कथमत्र परमात्ममात्रपरत्वे ब्रह्मशब्दस्य भाक्तत्वप्रसंग इति । यदि तु भाक्तत्वं भवतामपि मा भूदिति ब्रह्मपदस्योपहितपरत्वमेवेष्यते, न तु शुद्धब्रह्मपरत्वम् – तर्हि “ब्रह्मजिज्ञासे” ति तज्ज्ञानमेवेषितं स्यात्, तथा च शारीरकमतत्त्वज्ञानं जनयितुं प्रणीतं स्यात् ॥ यत् पुनरत्र “अविद्यानिवृत्त्यर्थमिह ज्ञातव्यमुपहितं निरुपाधिकं वा “इति शतदूषणीप्रतिविवक्षयेव प्रपञ्चयते विवरणकारमते निर्विशेषस्यैव ब्रह्मपदार्थत्वेन ज्ञानविषयत्वं तस्यैव ; तथां भामतीकारस्य उपहितं ब्रह्म जिज्ञास्यं ब्रुवतः उपहितस्यैव ब्रह्मशब्दवाच्यत्वेऽपि तज्ज्ञानमज्ञान निवर्तकतया श्रुतिविवक्षितमुपहितविषयकत्वेनोच्यमानमपि वस्तुतः शुद्धविषयकमेव । किञ्चिदुप ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् ११७ हितत्वांशस्यापि ब्रह्मणा सह भाने हि अतत्त्वविषयकत्वात् तत्त्वज्ञानतैव न स्यादिति अज्ञानानिवृत्तिः प्रसजेदिति -तत्रोच्यते । शुद्धब्रह्मण उपादानत्वं संक्षेपशारीरकानुसारिखीकृतमन्यैर्नेष्यते शुद्धस्य तस्य जीवेश्वरानुस्यूततया उपादानत्वप्रयुक्तसर्वात्मकत्वस्य जीवव्यावृत्तेश्वर लिङ्गत्वप्रतिपादकान्तरधिकरणभाव्यादिविरोधः स्यादिति । अथ ईश्वरस्य मायाविशिष्टत्वेनाविद्या विशिष्टत्वेन चोपादानत्वस्वीकारे विशेषणीभूतमायादेरप्युपादानत्वप्रसंगः । अतः उपहितं ब्रह्म कारणमिष्यते । तच्च बिम्बभूतमीश्वरचैतन्यम् । अविद्या विषयस्वोपहितं ब्रह्म कारणमिति वदतामपीदमेव विवक्षितमिति तत्र बिम्बभूतस्य तस्य अखण्डचैतन्यरूपत्वं वा तदेकदेशत्वं वा ? नाद्यः; तथा सति शुद्धब्रह्मकारणत्ववादिपक्षोक्तदोषतादवस्थ्यात् । जीवव्यावृत्तः स कश्चिदेकदेश इति तु न संभवति । निरंशे ब्रह्मणि एकदेशरूपांशनिरूपणायोगात् । अतः आकाश निरवयवत्ववादिमते घटाकाश इति घटावच्छिन्नत्वेनाकाशप्रदेशकल्पनवत् अविद्याद्यवच्छिन्नत्वेनैव ब्रह्मणि शुद्धव्यावृत्तिः जीवव्यावृत्तिश्च तत्रोपादानतावच्छेदकत्वमविद्यादेः । उपादानत्वं तु एवंभूतकारणज्ञानादपवर्ग इत्युक्त अविद्याविषयत्वादेरपि संपादनीया । ब्रह्मविशेषणतया कारणतावच्छेदकत्ववत् उपायभूत ज्ञानविषयतावच्छेदकत्व ब्रह्मण एव । मप्यानुभविकम् । उपहितविषयकज्ञानस्योपाधिविषयकत्वाभावे हि उपहित ज्ञानस्य निर्विशेषज्ञानस्य चाविशिष्टत्वादुपहितं जिज्ञास्यमिति, निर्विशेषं जिज्ञास्यमिति पक्षव्यावृत्ततया कथनमयुक्तमेव । अतो भामतीकारोक्तं यद्वा तद्वा भवतु । शतदूषणीकृतां तु विकल्पः विशेषणविशेष्योभयविषयकत्वरूपोपहितविषयकत्वाभिप्रायेणैव । उपाधिशब्द आङुपसृष्टधातुनिप्पन्नः; उपहितशब्दस्तु न तथेति नोपहितपदस्य सोपाधिकपदसमानार्थकत्वनिर्बन्धोऽपि । कचिदेकार्थकत्वविवक्षापि काममस्तु । तदुपहितत्वं नाम तत्कृतोपधानकत्वं तद्विशिष्टत्वम् । तदुपाधिकत्वं नाम परत्र स्वधर्मारोपकत्वम् । अत्र वाक्यान्वयाधिकरणकल्पतरुपरिमळयोरर्थ भेदगतिरपि द्रष्टव्या । " तदुपधानमव्या-११८
पकम्” इत्यादिदीधितिकारादिप्रयोगोऽपि भाव्यताम् । अतः उपहितत्वमिह विशिष्टत्वम् । यदि कारणत्वोपलक्षितव्यक्तिज्ञानादपवर्ग एवात्र विवक्षित इति तत्र उपाधेरभानमित्युच्यते तर्हि, “जिज्ञास्यमुपहितं ब्रह्म” ति किमर्थ भामत्यां वक्तव्यम् ; निर्विशेषमेवेति विवरणपक्षादविशेषात् । ब्रह्मजिज्ञासेति ज्ञाधातुना हि विचारफलभूतमोक्षहेतुज्ञानविवक्षा भवदिष्टा । तच्च ब्रह्ममात्रविषयकमित्युच्यते इति कथमुपहितस्य जिज्ञास्यत्वं प्रतिज्ञेयं भवेत् । यदि मन्यते अखण्डचैतन्यमात्रस्य जिज्ञासितत्वे द्वितीयसूत्रे जीवलक्षणकथनेऽपि तन्मुखेन जीवेश्वरानुस्यूतचैतन्यखरूपज्ञापन संभवेन जगत्कारणत्वलक्षणकथनम्, बहुश्रुत्यर्थ परिशीलनेन तत्प्रपञ्चनञ्चात्र व्यर्थ स्यादिति उपहितविषयकत्वं जिज्ञासाया अवश्यं वाच्यम् । एवञ्च शारीरकसंपाद्यं ज्ञानमुपहितब्रह्मविषयकमपीत्येतावदेव विवक्षितमिति तर्हि ब्रह्मजिज्ञासेत्यत्र ब्रह्मपदस्य न निर्विशेषे लक्षणा वक्तव्या । सविशेषस्यापि विचार्यत्वात् । निर्विशेषब्रह्म तूद्गीथाद्युपासनवत् प्रसङ्गाद्विचार्य भविष्यति, यदि तत्र सूत्रं किञ्चिदस्तीति भवद्भिरुपपादयितुं न पार्यते । ब्रह्मशब्दस्य सविशेषनिर्विशेषोभयपरत्वे, धर्मजिज्ञासेत्यत्र धर्मशब्दस्योभयपरत्वे सिद्धान्तसिद्धानोक्तदोषाद निर्मोक्षश्च स्यात् । नच, ‘सर्वपक्षेऽपि केवलब्रह्मविषयकत्वमेवापेक्षितज्ञानस्ये ‘ति कथितं युक्तम् । वक्ष्यमाणलघुचन्द्रिका स्थल एव, पक्षे " शुद्धब्रह्मणो वृत्त्यविषयत्व इति उपहितविषयकत्वपक्षस्य दर्शितत्वात् । उपरि च विवरणादि मते शुद्धब्रह्मण एव वृत्तिविषयत्वकथनात् मतान्तरे शुद्धस्य वृत्त्यविषयत्वात्ं । अतः उपहितविषयकज्ञानस्यातत्त्वज्ञानत्वमनिवार्यम् । उपहितब्रह्मविषयकं ज्ञानमित्यत्र ब्रह्मणि किमुपहितत्वं विवक्षितम् किं कल्याणगुणा द्यपहितत्वम् ? किं वा अविद्योपहितत्वम् ? उभयथाऽपि तादृशब्रह्मणः तत्त्वातिरिक्तत्वमेव । यत्तु ब्रह्मज्ञानस्य स्वविषयत्वोपहितब्रह्मविषयकत्वमिति —– तदिदं विचार्यम् । , । व्रतवन्तायनुपपत्रिकाधनम् ११९ यदि अस्य ज्ञानस्य वृत्तिविषयत्वांश विना ब्रह्मरूपविशेष्यमात्रविषयकता, तर्हि नायं शुद्धस्य वृत्त्यविषयत्वपक्षः । यदि वृत्तिविषयत्वमपि विषयः, तत्रान्योन्याश्रयः । वृत्तिविषयत्वोत्पत्तेः प्राक् तदुपहितब्रह्मग्रहणायेोगात्, • ब्रह्मवृत्त्यु त्पत्तिं विना च ब्रह्मणि वृत्तिविषयत्वायोगात् । यद्यपि वृत्तीनां साक्षिभास्यत्वात् वृत्त्युत्पत्तिकाले साक्षिणा वृत्तिर्भास्यत इति ब्रह्मणि वृत्तिविषयत्वमपि वृत्त्युत्पत्तिकाले भासेत –अथापि कथं शुद्धब्रह्मणो न ज्ञानविषयत्वमिति वदन्तं प्रति स्वविषयत्वेन तस्य ज्ञानविषयत्वमिति समाधानं हि न सभवति । अतो वृत्तिविषयत प्रयोजककतिपय कारोपहितब्रह्मग्रहणमेव वक्तव्यम् । स चाकारः अविद्या वा सर्वज्ञत्वादिगुणो वेति । एवञ्चाबाधितसंबन्धि यत् वृत्तिविषयत्योपहितं रूपं तज्ज्ञानस्य प्रमात्वमिति पञ्चममिथ्यात्वप्रकरणगत लघुचन्द्रिका वाक्यार्थोऽपि न युक्तः । तस्य रूपस्य शुद्धत्वे ज्ञानाविषयत्वम्, अन्यत्वे मिध्यात्वञ्चेति दोषताद वस्थ्यमिति । शुद्धस्य ज्ञानविषयत्वं न भवतीति वदताञ्चायमाशयः –यत् ब्रह्मणः खप्रकाशत्वात् ज्ञानमन्तरेण तत एव ज्ञानकार्य निर्वाहे व्यर्थस्तन्मात्रविषयकज्ञानस्वीकारः । यदि च तावन्मात्रेण न ज्ञानकार्यसिद्धिः, तर्हि स्वप्रकाशत्वस्वीकारो व्यर्थ इति । अतः स्वयमप्रकाशमानकिञ्चिदाकार विशिष्टत्वेनैव स्वप्रकाशस्य ज्ञानविषयत्वमेषितव्यम् । वृत्तिविषयत्योपहितब्रह्मज्ञानमिति वक्तश्चायमाशयों युक्तः –यत् वृत्त्या पदार्थे घटादौ गृह्यमाणे वृत्तेरपि " घटमहं जानामीत्येवं विषयेण सह भानस्यानुभविकत्वात् तद्रीत्या ब्रह्मज्ञानेऽपि वृत्तिभानं नापलप्यम् । एवञ्च शुद्धब्रह्मज्ञानवादिना वृत्त्युपहित ब्रह्मज्ञानमेव स्वीकार्य मिति कथं शुद्धग्रहणमिति । परंतु वृत्तेः साक्षिभास्यत्वात् ब्रह्मणश्च वृत्तिग्राह्यत्वादद्वैतिमते वृत्तिविशिष्ट ब्रह्म केन वेद्यं स्यात् ? वृत्तिः साक्षी च मिलित्वा विशिष्टं वेदयत इति वा स्यात् । वस्तुतः शुद्धब्रह्मविषयज्ञानाभावपक्षे वृत्यैव ११०.
ब्रह्म किञ्चिद्धर्मविशिष्टत्वेनैव वेद्यत इत्येव स्वीकर्तव्यमिति नायं पक्षः विवरणक. रसंमतत्वेनोक्त निर्विशेषज्ञानपक्षादविशिष्टः । "" अद्वैतसिद्धिकारो ऽप्यखण्डार्थग्रहण साधनव्यापृतः, " सत्यं ज्ञान मनन्तं ब्रह्मे " त्यत्र सत्यादिपदानां शुद्धब्रह्मलाक्षणिकत्वे नदीशब्दस्य नदीतीरे लक्षणावादिना तीरे अनदीत्वस्वी कारवत् ब्रह्मण्यसत्यत्वस्वीकारापत्तिरित्याशङ्कयैवं परिहरति—" यदि हि तीरादौ नदीत्वादिवत् ब्रह्मण्यपि सत्यत्वादिकमभिधाबलान्न प्रतीयेत, तदैवं स्यात् । न त्वेवमस्ति । नद्यादौ नदीत्वादिवत् सत्यत्वादेर्ब्रह्मण्येव प्रतीतेः । न चैव निर्धर्मकत्वव्याकोपः ; व्यावहारिकस्य धर्मस्य सत्त्वेऽपि स्वसमानसत्ताकधर्मविरहेण तदुपपत्तेः । वाचकानामपि लक्षकत्वमन्यानुपरक्तस्वरूपभानायेत्यन्यत् " इति । एवञ्चान्यानुपर कस्वरूपभानस्यापेक्षितस्य सिद्धये तात्पर्यानुपपत्त्या लक्षणास्वीकारेऽपि प्रथमतः शक्यार्थभूततत्तद्विशेषणविशिष्टविषयकोधखीकारे न किञ्चिद्वाधकम्, औदुम्बरो यूपो भवतीत्यादौ बोध्यसंबन्धरूपलक्षणामुखेन विधिपर वाक्यार्थो पयोगितया यथाश्रुतार्थविषयक बोधस्यापि स्वीकारवदिति सोऽपि मन्तुमर्हति । एवं प्राथमिको जाने शुद्धब्रह्मयोगिन्याः तात्पर्यानुपपत्तेः प्रामाणिकत्वएव शुद्धविषयकज्ञानकल्पनावकाशः स्यात् । तदभावे तु पूर्वनिप्पन्न एव सुस्थ इत्यन्यदेतत् । एवमतात्त्विकधर्ममुखेनापि निर्धर्मब्रह्मबोधनं यदि शास्त्रममंस्यत, ’ अनृतं जडं परिच्छिन्नं ब्रह्म’ इत्य् अपि तत् अलक्षयिष्यत् । निर्गुण’’ मित्यादिवाक्यथा विणां " सत्यं ज्ञानमनन्त " मिति श्रुतसत्यत्वदिवाधवत् अनृतत्वादिबाधस्यापि संभवेन शुद्धब्रह्मग्रहणपर्यवसानस्याविशिष्टत्वात्। तथा च येन येन वादिना यथा यथा ब्रह्मेष्यते, तत् तथैव तेन वर्ण्यताम् । सर्वधर्मबाधेन शुद्धस्थापनं तु निर्गुणवाक्यं करिष्यतीति किमिति असत्यत्वादेब्रह्मण्यापादितस्य मिथ्याभूतस्याद्वैतिभिरस्वीकारः ! अतः सत्यत्वादिविशिष्टमेव ज्ञानेन गृह्यतेः तच्च सत्यत्वादि ब्रह्ममात्रनिष्ठं सत्यम् । न त्वनृतत्वादिकमेवम् । एवंविधविशिष्टज्ञानमेवाविद्यानिवर्तकमित्यगत्या स्वीकार्यम् । तर्हि अद्वैतहानिरिति " ब्रह्मशब्दस्पति-प्रसाधनम् " १२१ चेत् — सोढव्यमेतावत् । यथा च सत्यत्वादेरभावरूपधर्मत्वस्वीकारेणाभावरूपधर्मस्वीकारेऽपि भावाद्वैतमिष्टं न हीयते — इत्यप्यद्वैतिष्वेकदेशिनः एवं सधर्मकाद्वैतस्वीकारेण धर्मैक्यरूपमद्वैत मिप्यत इति वक्तव्यम् । एवमपि गुणगुणिनोरं भेदात् गुणविशिष्टविषयकं ज्ञानमपि निर्गुणविषयक मेवेति चेत्तन्न गुणगुणिनोरभेदे गुणिज्ञानेनैव गुणस्यापि ज्ञातत्वसिद्धया सत्यं ज्ञानमित्यनेक गुणवा चिपदवैयर्थ्यात् । व्यावहारिकपदार्थेषु गुणगुणिनोर्भेदस्यैव भवत्स्वीकृतत्वेन तत्र तद्वेदसाधकयुक्तीनामत्रापि तत्साधकत्वस्य तुल्यत्वात् । ‘अभेदस्वीकारेऽपि गुणाभिन्नत्वेन गुणिप्रतीत्यभावात् धर्मधर्मिभावेनैव प्रतीत्या विशिष्टज्ञानस्यास्य पुनरप्यतत्त्वज्ञानत्वमेव समापतितम् । भेदाभेदस्वीकारेण निर्वाहस्त्वसिद्धान्तः । भेदमिवाभेदमपि व्यासेधाम " इति ह्यत्र भवन्तो वदन्ति । यत्तु — नलवेषधारिणि नलशब्दप्रयोगे स्वरूपमात्राबाधवदित्युक्तम् — तदपि न युक्तम् । नलवेषधारिणि पुरुषे धारक पुरुषस्वरूपम्, तद्वृत्तिः, स्वाभाविकः वेषालङ्कारादिरूपो धर्मश्चेति सर्वमेव न बाध्यते नलत्वं नलवृत्तिधर्मान्तरं नलदेहः, नलजीव इति सर्वं बाध्यत एव । अद्वैतदृष्ट्याऽपि व्यावहारिकदृष्टान्ते जीवभेदावश्यम्भावात् । आहार्य एव तत्र स्वरूपयोरभेद इति कोऽयं स्वरूपमात्राबाध इति । "
अथ भामत्युक्तमुपहितसाक्षात्कारप्रकारमपि शोधयामः तत्र हि प्राच्यादृतकर्मावबोधानन्तर्यरूपाथशब्दार्थखण्डन सन्दर्भे अद्वैत्येकदेशिकथित शाब्दापरोक्षखण्डनपूर्वकं ब्रह्मसाक्षात्कारस्य मनः करणकत्वमुपपाद्य, न चायमनुभवो ब्रह्मखभावः, येन न जन्येत । अपि तु अन्तःकरणस्यैव वृत्तिभेदः । न चैतावता ब्रह्मणोऽपराधीनप्रकाशता सर्वोपाधिरहितं हि स्वयंज्योतिरिति गीयते ; न तूपहितमपि । न चान्तःकरणवृत्त । वप्यस्य साक्षात्कारे सर्वोपाधिविनिर्मोकः । तस्यैव तदुपाधेर्विनश्यदव स्थस्य स्वपरोपाधिविरोधिनो विद्यमानत्वात् । ब्रह्मरूपस्योपाधिकलुषितस्य प्रागप्यपरोक्षत्वात् । न हि शुद्धबुद्धत्वादयो वस्तुतस्ततो ऽतिरिच्यन्ते । न च तत्तदुपाधिविरहोऽपि ततोऽतिरिच्यते " इत्युक्तम् । अत्रेदमुक्तं प्रथमम् ब्रह्मणः उपाधिविनिर्मोके 16 १२२
स्वयंप्रकाशत्वेऽपि उपाधिसत्तादशायां वृत्तिविषयत्वमप्यस्ति । ब्रह्मसाक्षात्कार-वृत्तिकाले च नोपाधिशून्यत्वं ब्रह्मणः । अन्ततः वृत्तिरूपोपाधेरेव वर्तमानत्वात् । कृत्यवाच्छन्न चैतन्यं वृत्तिप्रतिबिम्बितचतन्यं हि साक्षात्कारो नाम । अतो वृत्त्युपहितत्वमक्षतमिति । वृत्तिरूपोपाधिकथनमात्रेणोपाध्यन्तरविरहो नै मन्तव्यः, वृत्तित्राध्यानाम विद्यान्तःकरणदेहेन्द्रियादीनां सर्वेषामपि वृत्तिकाले सद्भावात् । न चाहं ब्रह्मेति वृत्तेः अद्वैतं ब्रह्मेति ज्ञानानन्तरमेव जायमानतया तेनाद्वैतज्ञानेनाविद्यानिवृत्तेर्ना विद्यासद्भाव इति वाच्यम् तर्हि तेन ब्रह्मव्यतिरिक्तसर्वनिवृत्तिसंभवेन अहं ब्रह्मेति वृत्तेरनुदयप्रसङ्गात् । तत्त्वज्ञानमेव मिथ्याभूतसर्वनाशः ’ इति वदताम् अद्वैतं ब्रह्मेति ज्ञानसमनन्तरं ब्रह्मातिरिक्तसद्भाववर्णनस्याशक्यत्वात् वृतेरनपेक्षितत्वाच्च । मुक्तेस्तत एव सिद्धत्वात् । न च जीवन्मुक्तिरेवः तात्रता, मुख्यमुक्तिस्तु अहं ब्रह्मेति ज्ञानादिति वाच्यम् — प्रारब्धकर्मावसानानन्तरभाविन्याः मुख्यमुक्तेरहं ब्रह्मतीदानीन्तनवृत्त्याप्यनुदयात् । अतो वृत्त्युपहितत्ववादिना तत्कारणान्तःकरणादितन्मूला विद्यादिसर्वोपहितत्वमप्यनपलपनीयम् । एवञ्च ब्रह्मण उपहितत्वात् वृत्तिविषयत्वं भवितुमहीति । अत्र वृत्त्युपहितं ब्रह्मेत्यनेन ब्रह्मणि वृत्त्युपहितत्वमपगतवृत्तिकत्वरूपोपलक्षितत्वरूपमपि न विवक्षितम् ; ब्रह्मवत् वृत्तेरपि साक्षात्कारविषयत्वप्रयुक्तं वृत्तिविशिष्टत्वरूपमपि न विवक्षितम् ; अपि त्वविद्यान्तःकरणाद्यविशेषं वृत्तेर्ब्रह्मसाक्षात्कारकाले सत्त्वप्रयुक्त वृत्त्युपहितत्वमेवेति तावदस्तु । अत्र यावत्कार्थमवस्थित उपाधिरित्यपाधिलक्षणं कल्पतरूक्तं परिमळकृन्न स्वीकरोतीत्यन्यदेतत् । एवमपि ब्रह्मसाक्षात्कारः ब्रह्मव्यक्तिमात्रविषयको वा किञ्चिद्धर्मविषयकोऽपि वेति विमर्शे पूर्वम्, " त्वम्पदार्थस्य तत्पदार्थत्वेन साक्षात्कार एषितव्यः " इत्येवमुक्तया, कल्पतरौ, “निरुपाधि ब्रह्मेति विषयीकुर्वाणा वृत्तिरिति लेखनात्, परिमळे, वास्तव निरुपाधिकत्वाकारसाक्षात्कारोदय " इति विवरणात्, भामत्यामेव, समनन्तरम्, ’ जीव एव तु तत्तदुपाधिरहितः शुद्धबुद्धादिखभावो ब्रह्मेति गीयते " इति तत्तदुपाधिराहित्यशुद्धत्व बुद्धत्वादेर्वृत्तिविषयत्वस्याभिमतत्वाविष्करणात् मोक्षहेतुः साक्षात्कारः न ब्रह्मव्यक्तिमात्रविषयकः । किन्तु किञ्चिद्धर्म ब्रह्मशब्दवृत्त्यनुपपति-प्रसाधनम् १२३ ‘विषयको ऽपीत्येवावधार्यते । परन्तु ते धर्माः धर्मतया प्रतीयमाना अपि वस्तुतो ब्रह्मखरूपाभिन्ना इत्येव तन्मतम् ; न तु धर्माणामविषयत्वमिति । एवञ्च निरुपाधित्वनिर्विशेषत्वनिष्प्रपञ्चत्वाद्वितीयत्वादिकिञ्चिद्रूपेण ब्रह्मणः ताहराजीवैक्यसाक्षात्कारः मुक्तिहेतुरिति सिद्धयति । एवञ्च वृत्त्युपहितब्रह्मसाक्षात्कारपरम्य, " तस्यैव तदुपाधेः" इति भामतीग्रन्थस्यापि वृत्तिस्वयंप्रकाशत्वादिभिः वृत्त्या ब्रह्मणि विषयीक्रियमाणे वृत्तिविषयत्वं तत्र ग्राह्यं भवतीत्यवश्यं वाच्यमित्याशयः स्यात् । अयञ्च पक्षः शतदूषण्याम्, " अविद्यानिवृत्त्यर्थमिह ज्ञातव्यमुपहितं निरुपाधिकं वे “त्यत्र नोपहितविकल्पेऽन्तर्भवति किन्तु द्वितीये । अस्त्वेतत् । अत्र भामत्युक्तं शोधनीयम् निरुपाधिकत्वरूपतत्तदुपाधिविरहस्य ब्रह्मरूपत्वे ब्रह्मजीवयोरैक्यात् जीवे अहमिति सर्वदा प्रत्यक्ष्यमाणे ब्रह्म प्रत्यक्षितमेवेति तत्तदुपाधिविरहस्यापि प्रत्यक्षितत्वमावश्यकमिति उपाधिविशिष्टतया ब्रह्मभानं संसृतौ स्वीकृतं नोपपद्येत । अद्वैतसिद्धौ, “ अनृतजडपरिच्छिन्नव्यावृत्तीनां ब्रह्मणश्चैकत्वेऽपि अतादृशब्यावृत्त्याकारेण ज्ञानार्थ सत्यादिपदानी “त्यु क्तम् । तद्रीत्या तत्तदुपाधिविरहाकारेण ज्ञाने सत्येव तत्तदुपाधिमत्त्वभ्रमानुदयः इति तु न वक्तुं शक्यम् । न हि ‘शुक्तित्वं स्वरूपतः प्रत्यक्ष्यमाणं रजतत्वभ्रान्तिविरोधि न भवति, किं तु रजतभेदरूपेण गृह्यमाणमेवेति युज्यते । ब्रह्मप्रत्यक्षमात्रेण सोपाधिकत्वप्रतीतिनिरोधाभावात् तथा वर्ण्यत इति चेत्अत एव निरुपाधिकत्वादेर्ब्रह्मव्यत्तयतिरिक्तत्वमेषितव्यम् । यथोर्ध्ववस्तुव्यक्तिदर्शनमात्रेण पुरुषत्वभ्रान्त्यनिरोधात् पुरुषत्वाभावस्य व्यक्तयतिरिक्तस्थाणुत्वादि’धर्मरूपत्वम् । अन्योन्याभावो न घट” इत्यत्र भेदाधिकरणकभेदोऽतिरिक्तो नेष्यते किलेति कल्पतरूक्तमपि न ; भावातिरिक्तत्वमभावे मन्यमानस्य भेदग्रहणे घटसंशयाभावात् तथा स्यात् । यदि तु भेदग्रहणेऽपि घटसंशयाद्यनिवृत्तिः, तर्हि तत्र नञर्थस्य धर्मिखरूपता नेष्यत एवास्माभिरिति । अतोऽतिरिक्त एवायं धर्मः । अन्यथा स्वयंप्रकाशत्वं वा स्वात्मनस्त्याज्य २४
। स्यात् । नाहमिति विपर्ययस्य, अस्मि न वाऽहमिति संशयस्य चानुदयात् प्रमाणजन्यज्ञाननिरपेक्षमेवाहमर्थे आत्मनि निःसंशयविपर्ययत्वं स्वयंप्रकाशत्वमन्तरा नोपपातेति हि तदिषितम् । एवञ्च संशयविपर्ययप्रसक्तिरहितोंऽशः स्वयंप्रकाशः; अन्यांशः वृत्तिग्राह्य इत्येव समन्तव्यम् । अत एव वृत्तिज्ञानस्यैवाविद्यानिवर्तक्रत्वम् ; न तु स्वरूपभूतज्ञानस्येति अद्वैततत्त्वविदामाशयतत्त्वम् । तदिदमविद्वांसोऽर्वाञ्चः, ‘ब्रह्म स्वरूपतो नाविद्यानिवर्तकम् ; वृतिरेव तु निवर्तिका । वृत्तिविषयस्य स्वयंप्रकाशस्य चाविशिष्टत्वेऽपि वृत्तेरय महिमा’ इति नियुक्तिकमागृह्णन्ति । वयं पुनर्धर्म विशेषविशिष्टतया ब्रह्मसाक्षात्कारोऽविद्यानिवर्तक इत्यद्वैतिपक्षमेवोपपन्नं वदन्तोऽपि, तस्य धर्मस्य धर्म्यभेदो न संभावना है’ इति ब्रूमः । गान्धर्वशास्त्राभ्यासात् षड्जादिस्वरभेदप्रत्यक्षवत् महावाक्यार्थाभ्यासवशात् निरुपाधि ब्रह्मसाक्षात्कार इति तावदस्तु ; तथापि तत्र स्वरेषु मिथो भेदकाकारस्य धर्म्यतिरिक्तस्य सद्भाव एवेष्ट इतीहापि तथैव । परिमळेऽप्युक्तम् " गान्धर्वशास्त्राभ्यासरहितैरपि सूक्ष्ममतिभिः श्रूयमाणाः स्वराः किञ्चित् परस्परवैलक्षण्येनानुभूयन्ते” इति । किञ्चोपाधिरहितत्वाद्याकारेण ज्ञानमुपाधिविषयकं न वा । न चेत्, प्रतियोग्यग्रहणात् न भेदग्रहणं स्यात् । तद्विषयकत्वे च कथं वृत्तेर्ब्रह्ममात्रविषयकत्वम् ? ब्रह्ममात्रविषयकत्वे च तत् कथमुपाधिविरहाकारेण ज्ञानरूपमित्यलमत्र बहुना । तत् सिद्धमुपहितं ज्ञातव्यमिति पक्षो निर्विशेषब्रह्मज्ञानवादिपक्षान्नाविशिष्ट इति । अथ परब्रह्मवाचिनः पुरुषोत्तमशब्दस्य स्वपक्षे आनुकूल्यं प्रदिदर्शविषुणा लिख्यते पुरुषोत्तमशब्दः क्षराक्षरातीतं परमात्मानं बोधयतीति समानमुभयत्रेति । नूनं शब्दतः समानमेव सर्वम् । क्षरशब्दाक्षरशब्द परामात्मशब्द पुरुषोतम शब्दानां मतद्वये महानू अर्थभेदः । नूनं पुरुषोत्तम ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् " १२५ शब्दस्य, " पुरुषेभ्य उत्कृष्टं पुरुषातिशयिंत निर्गुणवस्तु" इत्यपार्थकल्पनाप्रसङ्गपरिहारायैव भगवता उत्तमः पुरुष " इति कर्मधारयतुल्यार्थप्रदर्शनेन पुरुषोत्तमस्यापि पुरुषत्वमुपक्षिप्तम् । एवञ्च क्षरः पुरुषः, अक्षरः पुरुषः, तदन्यश्च कश्चित् पुरुष इति पुरुषत्रयानुगतं पुरुषत्वं किंरूपमिति विवेचनीयम् । यदिदमस्मिन्नन्तः पुरुषे " न तावत्, स वा एष पुरुषोऽन्नरसमयः “, ज्योतिः” इत्यादिस्थलेपिवव शरीरत्वं पुरुषत्वम् । तस्य भवदभिमते कूटस्थे, परमात्मनि चाभावात् । भवन्मते क्षरपदविवक्षिते देहसंघाते परं तत् स्यात् । . कूटस्थपदगृहीते अव्यक्ते मायापरपर्याये पुरुषपदप्रयोगः सर्वथैवाप्रसिद्धः । भवदुपाते, " प्रकृतिर्या" तत्र श्लोके, LL इति लोकेऽपि प्रकृत्यपेक्षयाऽन्य एव पुरुषशब्द मया ख्याता’ इत्यस्य स्थाने " प्रभाख्याना " " आत्मभावेन लीयत" इति च निर्दिएः । इतिं, " उभावेतौ लीयेते" इत्येतत्स्थाने, 6 प्रामादिकोsपपाठः । तच्छ्रो कदर्शितश्चिदचितोर्लयः परमात्मनि नास्मन्मते संभवतीत्युक्तमपि न सम्यक् । प्रकृतावपि अव्यक्ताक्षरतमोरूपावस्थासत्त्वेन पूर्वावस्थापन्नप्रकृतिविशिष्टब्रह्मणः उत्तरावस्थापन्नसूक्ष्माचिद्विशिष्टब्रह्मणि ल्यस्यास्मत्पक्षे सुघटत्वात् । एवं पुरुषशब्दार्थजीवविषयेऽपि द्रष्टव्यम् । यदा तु प्रकृतिपुरुषपदे अत्यन्तसूक्ष्म चिदचित्परे, तदा लयः, तमः परे देव एकीभवती”ति श्रुत्यन्तरोक्तं यदैक्यम्, तद्रूप इति इत्यैकरस्यमेवास्माकम् । भवत्पक्ष एव तु नोपपद्यते । प्रकृतेरविद्यायाः प्रलयकाले परमात्मनि लयायेगात् । मुक्तिकाल एव तस्य वक्तव्यत्वात् । सोऽपि लयस्तदा निवृत्तिरूपः परमात्मनिष्ठो भवतीति कथम् ? अविद्यायाः परमात्मन्यध्यासाभावात् । तदिष्टौ च्यविद्यायाः अनादित्व-भङ्गप्रसङ्गात् । एवं पुरुषलयोऽपि न । जीवत्रह्मणोरैक्यात् । जीवविशेषणीभूतास्त्वंशाः प्राकृताः प्रकृतावेव लीयन्त इति प्रकृतिलीयत इत्यनेनैव तत् गतार्थम् । एवं स्वपक्ष एवानुपपन्नं श्लोकं स्वयं प्रसङ्गादयथावदनुद्यास्मत्पक्षे तत्रानुपपत्तिप्रदर्शनमनुपपन्नमित्युक्तम् । तदत्र पुरुषपदं क्षराक्षरपरमात्मत्रितयानुगतमर्थं कीदृशं वक्तुमर्हतीति विचारे पुरुषशब्दस्यात्म १२६
वाचितायाः सर्वसंमतत्वात् पुरुषत्वमात्मत्वमेव । अत एव क्षरपदमक्षरपंदञ्च बद्धात्ममुक्तात्मपरं चेत् — अर्थसामञ्जस्यम् । भूतपदञ्च, “यतो वा इमानिभूतानि”, " भूतानां प्राणिनः श्रेष्ठाः " " तस्यैतस्य महतो भूतस्य" इत्यादौ अचेतन विशिष्टचेतनप्रसिद्धम् । अक्षरपदञ्च, “ये चाप्यक्षरमव्यक्तम् " इत्यादौ शुद्ध आत्मनि प्रसिद्धम् । तथा कूटस्थपदमपि । एवश्च बद्धमुक्तोभयविधात्मविलक्षणः पुरुषोत्तमः परामात्मेति अस्मत्पक्षे सर्वेषां सामञ्जस्यं सम्यगवधारयतु भवान् । " यच्चान्यत् प्रासङ्गिकमुक्तम् – “ सर्वत्रासौ समस्तञ्चे” ति श्रीविष्णुपुराणनिरुक्तं वासुदेवत्वं परमात्मनः योगव्युत्पत्त्या । वसुदेवात्मजस्तु कुष्णो न परमात्मा । नापि वासुदेवपदनिरुक्तार्थता तस्येति अहो अनन्तकृष्णोऽयं श्रीकृष्णायाभ्यसूयति ! द्वेधाऽपि वासुदेवत्वं श्रीकृष्णे सुष्ठु संगतम् ॥ 51 ॥ 6 श्रीकृष्ण परमात्मा सर्वत्र किं न वसति ? सर्वं वा किं तस्मिन् न वसति ? ईदृश व्यामोहं स एव शमयति, " अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो ममाव्ययमनुत्तमम्", मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ! । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥" इत्येवम् । यत्तु “वसु देवात्मजस्य तेनैव रूपेण पुरुषोत्तमत्वे, “उत्तमः पुरुषस्त्वन्यः “, यस्मात् क्षरमतीतोऽहम्” इति वचनद्वयं वितथम् इति तर्हि किमयं तेन रूपेणेदानीं पुरुषाधम इति भवान् मन्यते ? वचनद्वयं वितथमिति किं वचनयोरुभयोरपि “वैतथ्यमभिप्रेत्य उतान्यतरस्यः प्रसक्तिः । वैयर्थ्यमपि न । पूर्ववचनं परमात्मेति समाख्यां प्रदश्ये व्युत्पादयति । उत्तरं पुरुषोत्तमशब्दं निर्वक्ति । एवमुभयमिंद वसुदेवात्मजे समन्वितं क्रियत इति । शाङ्करभाष्येऽपीयमेव वर्णनसरणिः । अर्थस्य सुसङ्गततया वैतथ्यस्य न कथमपि न तु वचनयोर्विभिन्नव्यक्तिविषयत्वं तत्रापि भाषितम् । उत्तर श्लोके, " अह " मिति ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् "” १२७ निर्देशात् " एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः इति वचनप्रामाण्यात् ‘नारायणोऽहमिति श्रीकृष्णः कथयत्येव । पूर्व श्लोकमन्यपदेश्वरपद 1 घटितत्वादपार्थकल्पनव्यसनी शिवपरं मा शक्तिष्टेति मनसिकृत्येव शाङ्करभाष्ये वैष्णवाप्रेसरतया व्यक्तमुक्तम्, " अन्यपदं पूर्व प्रस्तुतक्षराक्षरान्यपरम् । "" अव्यय ईश्वरः । नास्य व्ययो विद्यत इति अव्ययः । कः ईश्वरः ? सर्वज्ञः नारायणाख्यः ईशनशीलः " इति । सव्ययः शिवोऽत्र न ग्राह्यः ; किन्तु अव्यय ईश्वरो नारायण इति वचनद्वयमेक विषयमिति च तावदितः स्पष्टम् । क्षराक्षरशब्दाभ्यां देहप्रकृत्योर्ग्रहणेन तदतिरिक्तमात्मस्वरूपं परमात्मशब्देन पुरुषोत्तमशब्देन च विवक्षितमिति पुनरत्र शाङ्करदर्शितोऽर्थः सर्वथैवास्वरस इत्युपपादितमेव । एवं क्षराक्षरान्यस्य परमात्मत्वप्रतिपादने मतद्वयसंमते श्रीकृष्णादन्यस्य परमात्मत्वं प्रतिपाद्यत इति स्वयं कृत्वा, यल्लिखितम् " अन्यस्य परमात्मत्वामिधान विरोधोऽपीति — तत् सयूथ्या अपि न संमन्तुमर्हन्ति । न च शुद्धस्य परमात्मत्ववर्णनमत्र लोके क्रियत इति भावत्का अपि ब्रवीयुः । उत्तरार्धोका वेशभरणादेः शुद्धे दुरुपपादत्वात् । आत्मशब्दशक्यार्थश्च न शुद्धः । तदुक्तं सिद्धान्तलेशसङ्ग्रहे " आत्मन आकाशः संभूतः इत्यादिकारणवाक्येषु शबलवाचिनामात्मादिशब्दानां शुद्धे लक्षणैव " इति । योगवासिष्ठ वचनं तु नावश्यमादरणीयम् अथापि तदप्यविरुद्धम् । " इदं चाहमिदचाहमिति यत् प्रवदाम्यहम् । तदेतदात्मतत्त्वं तु तुभ्यं छुपदिशाम्यहम् ॥" इति श्लोको हि, ‘इदमर्थस्य मच्छरीरभूतस्य मदभेदप्रदर्शनार्थमेवं नोपदिशामि; किन्तु तत्तदन्तर्वर्तितत्तन्नियन्तृ आत्मस्वरूपं यत् तत् विविच्योपदिशामी’ त्यर्थक इति नात्र शुद्धग्रहणप्रसक्तिः । अस्य प्रतर्दनाधिकरणसिद्धान्तानुसारित्वमत्रोच्यते । प्रतर्दनाधिकरणे शुद्धपरतया सूत्रव्याख्यां प्रथमतो विधाय, शाङ्करभाष्ये विशिष्टोपासनपरतयैव पश्चाद्वयाख्यानमकारि । द्वितीयमेव च व्याख्यानम्, एष एव साधु कर्म कारयति एष लोकाधिपतिरेष लोकेशः " इत्युपसंहारवाक्यानामप्यनुगुणमिति प्रागेवावोचाम ॥ 66१२८
यत्तु अर्थवादानामवाचकत्वेऽपि लक्षकत्ववत् सत्यादिपदानां लक्षकत्वं संभवतीति, नासाधुत्वमवाचकत्वमिति च तन्न अर्थवादे हि पदसमुदायं प्रति वाच्यस्य कस्यचिदर्थम्याभावेन शक्यसंबन्धरूपलक्षणाया दुर्निरूपत्वेऽपि बोध्यसंबन्धरूपा लक्षणा भवितुमर्हति । बोध्यत्वञ्च स्वघटकपदशक्त्यधीनस्वप्रयोज्यत्रोधविषयत्वम् । यथायथं तत्तद्विभत्तयन्तपदार्थे वाक्यार्थे च समन्वेतीत्युक्तम् । अत्र यदि सत्यादिपदानां किञ्चिद्वाचकत्वमेव न स्वीक्रियते, तदा कथं निरुक्तस्य बोध्यत्वस्य तत्र प्रसक्तिः : अखण्डार्थानुभावकत्वद्युपा तु लक्षणा काचिदद्भुतसिद्ध्याद्युक्ता स्वरूपसती हेतुः, न तु लक्षणावृत्तिवत् ज्ञायमानतयेति न तत्रार्थवाददृष्टान्तीकरणप्रसक्तिरस्ति ॥ । यत्तु -“शब्दानां साधुत्वस्य मिथ्यात्वस्वीकारे साध्वसाधुविभागो न स्यात् । तथा च कृतं साङ्गोपाङ्गैर्वेदैः” इति शतदूषणयुक्त विषयसमाधित्सया लिख्यते -शब्दानामित्र साधुत्वस्य मिथ्यामूतस्यापि यावद्वाधमर्थक्रियाकारित्वान्न हानिरित्यादि —तन्त्र सङ्गच्छते । शणदूषणी हि शब्दाः सत्याः तद्गतं साधुत्वं मिथ्येति स्वीकारे दूषणं दर्शयति । न तु प्रपञ्चबाधकाले साधुत्वबाधस्वीकारपक्षे । न हि शब्दमिथ्यात्वं तत्र प्रदर्शितम् । किन्तु शब्दानां यत् साधुवं तन्मात्रमिथ्यात्वम् । तथा च शतदूषणी, " हन्त तर्हि सर्वशब्दासाधुत्वम् " इति । अतश्चाद्वैती स्वपक्षे सर्वस्य मिथ्यात्व मित्येतद्वासनोत्थापितः, ब्रह्मशब्दस्य साधुत्वं न स्यादित्यत्र समुचितं परिहारं वक्तुमपारयन् स्वसिद्धान्तभूतमिथ्यात्वं ब्रह्मशब्दगतसाधुत्वविषये प्रदश्य स्वात्मरक्षाय प्रयतेत, तदैतदूदूषणदानं शतदूषण्याम् । अतो व्यावहारिकदशाभाविमिथ्यात्वं शब्दसद्भावसमकालिकं दूष्यत इति विषयस्य भिन्नत्वात् न भवदुक्तसमाधानस्यात्र संभव इति । साङ्गवेदप्रामाण्यं आत्मनिश्चयोत्पत्तेः प्रागबाधितत्वादक्षतमित्युक्तिश्च न युक्ता । ब्रह्मशब्दस्य किञ्चिदवाचकत्वे असाधुत्वम्; असाधुत्वे च सर्वस्याप्रामाण्यमिति किलोक्तं शतदूषण्याम् । तत्र ब्रह्मशब्दस्य किञ्चिदवाचकत्वमात्मनिश्चयात् परं स्वीक्रियते चेत् — एष ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् १२९ दोष इति तावत् न शतदुषण्यर्थः । किन्तु ब्रह्मशब्द सत्ताकाले तस्यावाचकत्वस्वीकारे, व्यवहारकाले एवासाधुत्वाप्रामाण्यादिकमायातीति । एवं शतदूषणयुक्तार्थे स्थिते पश्चादप्रामाण्यमिति भवद्वर्णनस्य चास्य च कः संबन्धः ? अतोऽसंगतमिदमुपपादनम् ॥ आत्मनिश्चयपर्यन्तं प्रामाण्यं सुस्थमिति, ‘देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्मनिश्चयात् ॥ " इति संप्रदायवाक्यप्रदर्शनपूर्वकमुक्तमप्यनुपपन्नम् । , तद्वाक्यार्थस्यैवानुपपन्न त्वात् । देह आत्मेति प्रत्ययोऽपि ज्ञानानां स्वतः प्रामाण्यात् प्रमाणत्वेन कामं गृह्यते । परं तु कियदवधि ? यावच्छास्त्रतो देहात्मविवेको नोदेति । अथ पुनरप्रमाणत्वनिश्चय एव । तथा तत्त्वमसिवाक्यार्थसाक्षात्काराधीनजग द्वाधप्राप्तेः प्रागपि तद्वाक्यार्थश्रवणत एव लौकिकप्रमाणसमान्यस्याप्रामाण्यं गृहीतमेव । एवञ्चाप्रामाण्यज्ञानानास्कन्दितज्ञानरूपकारणाभावात् उपदेशादौ प्रवृत्तिर्दुर्घटैव । प्रमाणत्वं नामाबाध्यार्थविषयकत्वमित्येव हि वक्तव्यम् । तत्तु प्रत्यक्षादिप्रमाणेप्वद्वैतिभिर्दुवचम् । बाधकत्वेन यन्निश्चितम् तज्ज्ञानातिरिक्तज्ञाना वाध्यार्थविषयकत्वेन ज्ञानप्रामाण्यस्वीकारे शुक्तिरजतज्ञानमपि प्रमाणं स्यात् ; शुक्तिज्ञानातिरिक्तज्ञाना बाध्यार्थविषयकत्वात् । बाधज्ञानोत्पत्तावपि अनिवृत्तार्थविषयकत्वमस्तीत्येतावता तु प्रामाण्यस्वीकारे “श्वेतः शङ्खः” इति ज्ञाननिश्चयानन्तरमपि “पीतः शङ्ख” इति जायमानं ज्ञानं प्रमाणमिति व्यवह्नियेत । अध्यार्थविषयकत्वं हि प्रामाण्यं बाधस्य कदाचिंदिष्टत्वे कथं भवितुमर्हति ? देहातिरिक्तात्मनिश्चयोत्पत्तेः प्राकू प्रामाण्यकल्पनाऽस्तीति लोकोक्तं तु सत्यम् । वेदान्तश्रवणरूपनिश्चयानन्तरं तु प्रामाण्यकल्पना नैवोदेतुमर्हति ॥ समन्वयाधिकरणभाष्यान्तोदाहृते तद्गाथाव्याख्यानावसरे च भामत्यामुक्तम्—" देहादिष्वात्माभिमानस्य मिथ्यात्वेऽपि वास्तवलोकयात्रावाहित्व 17 १३०
16 यथा, तथैवाप्रमाणादद्वैतसाक्षात्कारो भविष्यती ‘ति । स्यादेतत्अप्रमाणात् कथं पारमार्थिकाद्वैतानुभवोत्पत्तिः "" इत्यवतरणग्रन्थाच्चाप्रमाणत्व संमतिर्ज्ञायते । इदञ्चाप्रमाणत्वं कदा ? न तावत् जगद्वाधानन्तरम् । तदा धर्मिण एवाभावेन तत्राप्रमाणत्ववर्णनायोगात् । न च प्रमाणत्वाप्रमाणत्वे भावाभावौ गोत्वतदभावाविव विरुद्धौ एकत्र कालभेदेनापि समावेशमर्हतः । अतः धर्मिसत्ता समसामयिकमेवाप्रमाणत्वं विवक्षितं वक्तव्यम् । गाधायाञ्च, " प्रमाणत्वेन कल्पितः " इति कल्पितपदं वस्तुतः प्रमाणत्वाभावं दर्शयत्येव । अतः साङ्गवेदप्रामाण्यवर्णनं गाधातद्र्याख्यानविरुद्धमेव । अत्र भामत्याम्, देहादिष्वात्माभिमानस्य मिथ्यात्वेऽपि लोकयात्रावाहित्वं यथेति कथनमपि विचार्यम् । आत्माभिमानस्य मिथ्यार्थविषयकत्वेऽपि न मिथ्यात्वं स्वरूपतः । तत्र सर्पभ्रान्तेर्भयादिकं प्रतीव लोकयात्रां प्रति कारणत्वे काऽनुपपत्तिः ? देहे अहंमानाधीनः देहानुबन्धिषु ममकारोऽपि तद्वदमिथ्यैव । देहं प्रत्यनुकूलताज्ञानात् यथार्थादेव च वास्तवान्नार्जनादिरूपा लोकयात्रेति । अलमत्राधिकेन ॥ । अथ वाचकत्वपक्षे वास्तवमवलम्ब्य " ब्रह्मशब्दो विशिष्टवाचक एक सन् तात्पर्यवशात् विशेष्यमात्र ग्राह्यति, उक्तं हि मणौ, विशिष्टशक्तेनापि पदेन तात्पर्थवशान्निर्विकल्पकाकाशस्मरणमिति । तद्वत् विशेप्यब्रह्मज्ञानं भवती" ति यदुक्तम् — तत्र वक्तव्यं शतदूषण्यां व्यक्तमेव । " मुमुक्षुभिर्जिज्ञास्यं निर्विशेषमित्यस्यैव निर्मूलत्वात् " इति । अन्यच्च ब्रूमः । मणौ विशिष्टशक्त पदाधीनं विशेष्यमात्रज्ञानं तावत् निर्विकल्पकरूपं स्मरणरूपञ्चोक्तम् । तद्वदत्र ब्रह्मज्ञानस्य निर्विकल्पकत्वे निष्प्रकारकत्वात् निर्धर्मितावच्छेदककत्वाश्च प्रतिबन्धकत्वमेव न स्यात् । तथा च कथं ब्रह्मज्ञानाज्जगद्बाधः । स्मरणमपि समभिव्याहृतपदार्थान्वयानुभावकत्वानङ्गीकारे निष्प्रयोजनमेव । अङ्गीकारे चान्वयविशिष्टब्रह्मग्रहणमेव संमतं भवेत् । समानाधिकरणपदसंघातोऽपि यद्येकतरपदोपात्तकिञ्चिद्धर्मविशिष्टेऽन्यतरपदोपात्तधर्मान्वयं नानुभावयेत् न तर्हि प्रमाणभावमनुभवेदित्येव मणितत्पूर्वोत्तर सर्वतान्त्रिकग्रन्थ / तथा ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् १३१ निष्कृष्टम् । संज्ञाशब्दस्थले च संज्ञवान्ततः प्रवृत्तिनिमित्तं भविष्यति " नामन्त्रित " इति पाणिनिसूत्रार्थ विचारः, शेखराद्यद्वैतश्रद्धा ग्रन्थार्थदूषणस्मत्कृतायां परमार्थप्रकाशिकायां द्रष्टव्यम् । साङ्केतिकत्वप्रसक्तयन ब्रह्मपदं स्वयं साङ्केतिकमभिमन्यमानेन यदुच्यते, “शतदूषण्यपि साङ्केतिकत्वमनुमन्यते, ’ न च साङ्केतिकोऽयमपभ्रंशो वा’ इत्युक्ता तदनन्तरमपभ्रंशत्वनिषेधमात्रे युक्तिप्रदर्शना" दिति -तदपि स्वाभिमानमूलमेव । अपभ्रंशपक्षदूषणमात्रे तात्पर्य चेत् -" न च साङ्केतिक" इति लेखनस्य कथं प्रसक्तिः ? अपभ्रंशत्वपक्ष इव साङ्केतिकत्वपक्षे उपरि विचारो न कृत इत्येतावता, ‘पूर्वपक्षी साङ्केतिकत्वनिषेधं निर्विवादं जग्राह । अपभ्रंशपक्ष एव किमपि विवदते ’ इत्येवमेव ह्यभ्यूहितुमवसरः स्यात् । न तु स्वयं निषिद्धः साङ्केतिकत्वपक्षः स्वयमेवानुमन्यत इति । अपभ्रंशपक्षे परमधिक विवादप्रसक्तिः कथमिति चेत्उच्यते । प्रथमतस्तावत्; ब्रह्मशब्दोऽयं न साङ्केतिकः न चापभ्रंश इत्युक्तम् । वेदश्रुतब्रह्मशब्दार्थजिज्ञासां प्रतिजानानेन भगवता बादरायणेन प्रयुक्तोऽयं ब्रह्मशब्दः वैदिक इत्यस्य निर्विवादतया साङ्केतिकत्वापभ्रंशत्वे तस्य न शक्यशङ्क ; अपौरुषेये शब्दे पुरुषसङ्केतस्य पुरुषप्रमादाधीनत्वस्य च दुर्वचत्वादिति पूर्वपक्षिणाऽपि सुग्रहमिति कृत्वा अयमिति हेतुगर्भं प्रयुक्तम् । तदुपरि पूर्वपक्षी किञ्चिदचिन्तयत्’ मा भूत् साङ्केतिकत्वम्, अपभ्रंशत्वं तु वैदिकेऽपि संभाव्यते, " तेऽसुरा हेऽलयो हेऽलय इति कुर्वन्तः पराबभूवुः " इति ’ अध्य इत्येतत्स्थाने अलय’ इत्यपभ्रंशानुवाददर्शनादिति । इदञ्च, अयमिति पदस्याभिप्रेतं पूर्णमर्थमगृहीत्वा । परोत्तयनुवादानिविष्टवैदिकशब्द इति अयम्पदविवक्षितार्थः । इममर्थमविदुषः शङ्कामपि दुःस्थां दर्शयितुमुपर्युक्तम्, अपभ्रंशत्वशङ्किना मूलभूतस्यानपभ्रंशस्य कस्यचिद्वक्तव्यत्वात् तस्मिन् ‘शब्दे वाचकत्वमिष्टं न वेति विचारोऽवकाशमद्भुत एवेति । तस्मात् पोरुषेयानुवादरूपत्वात् ’ अलय’ इत्यस्य, अपौरुषेयः शब्दो न साङ्केतिको न चापभ्रंश इति उपपादननिरपेक्षमेव सुग्रहमिति शतदूषण्याशयमविज्ञाय साङ्केतिकत्वपक्षासंभव स्वयमप्यविमृश्य पौनःपुन्येन तदुपन्यसनमयुक्तमिति ॥ १३२
एवमेव, " ननु ब्रह्मशब्दस्यार्थ महिमा " इति शतदूषण्यर्थोऽपि सर्वथैव न ज्ञातो भवता । न हि पदार्थतत्त्व निर्णयादिग्रन्थे, ‘यत्किञ्चिदर्थावाचकोऽपि शब्दो लक्षको भवितुमर्हती’ युक्तम् । अत्रापि शतदूषणीवाक्ये, ब्रह्मशब्दस्य मुख्यार्थे यः कश्चिदपि न स्वीक्रियते चेत्, तल्लक्ष्यार्थोऽपि दुर्वच इत्येतावदेवोच्यते । न तु भवदुदाहृतग्रन्थाद्युक्तरीत्या यत्किञ्चित्पदा वाच्यत्वात् यत्किञ्चित्प्रमाणावेद्यत्वात् निर्विशेषब्रह्मणः ब्रह्मशब्दलक्ष्यत्वमपि न भवतीत्याशङ्का क्रियते । अतः, “अवाच्यत्वेऽपि लक्षणया प्रतीतिर्न विरुध्यत” इति भवदुक्तः प्रकृतशतदूषणीसूक्तेश्च न कश्चित् संबन्धः । ब्रह्मशब्दस्य वाच्यार्थ विनापि किञ्चिदर्थलक्षकत्वस्वीकारे सर्वेष्वपि पदेषु शक्यार्थत्यागेन लक्ष्यार्थपरत्वमेव महामीमांसकस्वीकर्तव्यं भवेदिति शतदूषण्यां सामान्येनोक्तमजानता, ‘सर्वपदानां ब्रह्मलक्षकत्वमेवापाद्यते’ इति गृहीत्वा भवता, साङ्केतिकत्वस्य स्वीकृतत्वादिति मनसिकृत्य, ब्रह्मशब्दस्य मुख्यार्थशून्यत्वं नास्तीत्युच्यत इत्य त्यन्तासङ्गतमेतत् । सविशेषवाचकत्वमुभयसंमतमेवेति चेत् तर्हि किञ्चिदर्थावाचकत्वविकल्पोऽस्मान् प्रति मा भूदित्येव भवता वक्तव्यं भवेत् । सविशेषवाचकत्वस्वीकारे निर्विशेषे लक्षणाया एव स्वीकार्यत्वात् शक्यलक्ष्यार्थयोर्मध्ये शक्यार्थग्रहणमेव ज्याय इति प्रत्यवस्थायेतेति भिया ब्रह्मशब्दस्य शक्यार्थ एव न स्वीकार्य इति योऽमनुत, तं प्रति, ‘ब्रह्मशब्दस्य कचिन्मुख्यवृत्तत्वं नास्ति चेत् —– साधुत्वं न स्यात्; लक्षकत्वं न स्यात्यत्किञ्चिदर्थावाचकत्वेऽपि लक्षकत्वमिति महिमाऽयं ब्रह्मशब्दस्येत्यपि दुर्मण’ मित्यादिकमुच्यत इति प्रतिपद्यताम् । मुख्यार्थशून्येन ब्रह्म लक्ष्यत इति भवता वादः मुखान्तरेण तस्य संवृतिमुखे निक्षेप एवे" ति शतदूषण्यापादितं च परिजिहीयते " मुख्यार्थशून्येने" त्यादिना । यः शब्दो मुख्यार्थशून्यः, स न लक्षकः । ब्रह्म च लक्षणां विना विधान्तरेण वेदेन न वेद्यते । तथा च वेदस्य लक्षकत्वासंभवात् लक्ष्यब्रह्मासिद्धिरेव । सौषुसानन्दादीनामिवेति चात्रानन्वितम् । सौषुप्तिकानन्दश्च कथमस्तित्वेन ब्रह्मशब्दवृत्त्यनुपपतिप्रसा धनम् १३३ गृहीतः ? " सुखमहमवाप्स" मिति व्यवहारादिति चेत् — व्यवयाहारः परस्मै प्रतिबोधयितुम् ; न तु स्वयमवगन्तुम् । सुषुप्तौ स्वयं प्रकाशितमानन्दं जाग्रत् स्मृत्वा परस्मै प्रतिबोधयतीति वक्तव्यम् । एवञ्च तत्र प्रकाशितत्वस्मृतिविषयत्वादिसद्भावान्न मिथ्यात्वप्रसक्तिः । इह तु ब्रह्मणि लक्षणयैव ज्ञेये लक्षकपदाभावेन लक्षणाविरहे ब्रह्मणः कथं ग्राह्यता ? सौषुप्ति कानन्दस्य ब्रह्मणश्चैकत्वात् आनन्दे ज्ञाते ब्रह्मापि ज्ञातमेवेति चेत् —तर्हि ब्रह्मजिज्ञासा नारब्धव्या स्यात् । ब्रह्मणः आनन्दत्वांशाज्ञानात् तत्प्रतिबोधनाय वेदान्तारम्भ इति भवतां मतम् । सौषुप्तिकानन्द एव चेत् ब्रह्म, आनन्दत्वांशोऽपि ज्ञात एवेति ॥ “ यतो वाचो निवर्तन्त " इति अवाच्यवादः ब्रह्मलक्ष्यतापक्षेणेति यदुक्तम्-तत्र ब्रूमः भवद्भिस्तत्र तत्र मिथो विरुद्धं वर्ण्यमानं कथं जावटीतीति परैः प्रश्ने कृते कथञ्चिद्बन्धादात्मानं मोचयितुं इदं विवरणपक्षेणोक्तम् ‘, ’ तत् भामतीपक्षेणोक्त’ मिति सर्वत्राव्यवस्थया यथा व्यवहियते, तथा वेदेनापीति भवान् मन्यत इव ‘लक्ष्य तापक्षेण, “ यतो वाचो निवर्तन्त " इति वदति ; वाच्यत्व संभवपक्षेण, " तज्ज्ञानं ब्रह्मसंज्ञित " मिति वदति’ इत्यादि । यदि वाच्यत्वं नास्तीति वेद आह-तर्हि तद्विरुद्धं वाच्यत्वपक्षं वेदोक्ततया न पराशरः प्रत्यक्षयितुमर्हतीति ब्रह्मशब्दवाच्यत्वं स न स्मरेत् । " यतो वाच इति श्रुतेर्वा सोऽर्थान्तरं विवक्षेत् । लक्षणया वाग्वेद्यत्वं नास्तीति तच्छ्रुत्यर्थं वदन् भवान् उभयसामरस्थं संपादयितुं प्रवर्तते चेत् वरमेतत् । अतो वस्तुनि विकल्प/योगात् विरुद्धांशद्वयस्याव्यवस्थित चित्ताधुनिकवाक्य इव वेदवाक्येऽपि संमतिकथनमनुपपन्नमेव । सर्वथा शतदूषणीपंतयर्थमगृहीत्यैव, स्वानुपपत्तीरपरामृश्यैव च ब्रह्मणि शब्दवृत्त्यविरोधानुपपादनेनैव तदुपसंहरणमयुक्तमिति सिद्धम् । उपहितानुपहितब्रह्मज्ञानमोक्षसाधनत्वानुपपत्तिरधस्तादेव प्रत्यबोधि । यच्च" निरस्त निखिलदोषत्वमात्रस्य ब्रह्मशब्दार्थत्वमिष्टम् । अनवधिकातिशयकल्याणगुणवत्त्वं तु अपदार्थः" इत्युक्तम् — तदप्ययुक्तम् । । १३४ परमार्थ भूषणे नित्यशुद्धत्वादिवत् सर्वज्ञत्त्वसर्वशक्तिसमन्वितत्वे अपि ब्रह्मशब्दार्थतया भाषित्वा तदुपपादके " वृतेर्धातोरर्थानुगमात् ’ इति शाङ्करे जाग्रति कथमपदार्थता कल्याणगुणवत्त्वस्य ? । “विशेषणद्वयेन च ब्रह्मपुरुषोत्तमशब्दयोर्निरुक्तिरपि व्यज्यत " इति शतदूषणीवाक्यं ब्रह्मशब्दस्य निरुक्तिरखिलहेयप्रत्यनीकत्वम्, पुरुषोत्तमशब्दनिरुक्ति र खिलगुणवत्त्वं च व्यनक्तीत्यर्थकमिति न मन्तव्यम् । किन्तु उभयमुभयनिरुक्तितो व्यज्यत इत्येवेति । विस्पष्टस्मृतिवचनविरुद्धश्चेदं गुणवत्त्वस्यापदार्थत्वकथनम्—" वेदे भूरिप्रयोगाच्च गुणयोगाच्च शार्ङ्गिणि । तस्मिन्नेव ब्रह्मशब्द मुख्यवृत्तो महामुने !", " यस्मिन् प्रयुज्यमाने तु गुणयोगः सुपुष्कलः । तत्रैव मुख्यवृत्तोऽयमन्यत्र छुपचारतः ॥" इति । एतेन “निरवधिक समस्तदोषवत्त्वनिरवधिकनिरतिशयगुणवत्त्वोभयभाक्त्वमेव पुरुषोत्तमशब्दार्थोऽस्तु" इति प्रसञ्जनमपि प्रत्याख्यातं वेदितव्यम् । गुणपौ कल्यस्यैव शास्त्रप्रदर्शितत्वात् । पश्यत " वृद्धिकर्मा हि वृहतिरतिशायने वर्तत" इति विलिख्य भामतीकारो नित्यशुद्धबुद्धत्वादिकमतिशयरूपं मन्यमानो हन्त ! शतभूषण्युल्लिखितरीत्या दोपातिशयं धात्वर्थतया ग्रहीतुमसमर्थ आसीत् । भाग्य भामत्यादिकं सर्वमपरामर्शमूल प्रवृत्तमित्युत्प्रेक्षत इयम् । अतिशयः, एवं उत्कर्षः, महत्त्वमित्यादिकं गुण इव दोषेऽपि संभवतीति तथा झटिति लौकर ग्रहणमनवधानकृतमित्यभिसंघत्त इव । महात्मा, महामहोपाध्याय इत्यादावीदृशं महत्त्वमितः परं व्युत्पादनीयमिव । निरवधिक निरतिशयगुणदोषवत्त्वयोः सामानाधिकरण्यं संभवतीति सिद्धवत्कृत्य व्यवहरत्ययम् । संभवति चेत् — कथं " तत्त्वमसी “त्यत्र विशेषणानां त्यागः, मिध्यात्वकल्पनञ्च ।” ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैगुणादिभिः" इति हेयप्रत्यनीकत्वविशिष्टकल्याणगुणनिधित्वं भगवत उक्तम् । अयं तु, ‘सावधिकगुणदोषभाजः संसारिणः सर्वे । निरवधिकगुणदोषोभयास्पदं तु किञ्चित् संभवतीति तदेव ब्रह्मशब्दमुख्यवाच्यम् । अतिशयस्य कात्स्र्त्स्न्येन संभवादिति धर्मसृष्टिपूर्वकं ब्रह्मशब्दमुख्यवृत्तिं रिरक्षतीव । नूनं • ब्रह्मशब्दवृत्त्यनुपपति-प्रसाधनम् १३५ निर्विशेषं निष्यमाणं कल्पयतामीदृशवस्तुकल्पनमपि नाशक्यमित्यलमसंबद्धवाग्जालार्थविशोधनेन ॥ श्रीभाऱ्यानुयायिनः परिणामवादं नाङ्गीकुर्वन्ति । विवर्तवादोऽपि तैर्नष्यते चेत्, उपादानत्वं कथामात्रं तेषामिति यदुक्तम्-तत्तु प्रागेव प्रत्युक्तम् । स्वमतेऽनुपपादितानामनुभवदूराणाञ्चार्थानां सिद्धवत्कारेण तदुचितवाक्यार्थवर्णनपरिपाटी भवदीयगता प्रत्यक्षसिद्धा । भवतस्तु परमते संमतानामपि नास्ति · त्वसिद्धवत्क रेण पौनःपुन्येन दूषणवर्णनमधिकमिति विशेषः । अस्मन्मते परिणामवादोऽस्त्येव । विवर्तवादोऽप्यस्ति यत्र भवति । परं विवर्तलक्षण भवदिष्टमनुभव दूरम संभावितमिति तादृशविवर्तवादः केनाऽप्यङ्गीकर्तुं न शक्यते । असंभावितविवर्तभाववर्णनमुपादानत्वापलाप एव । नविलक्षणत्वाधिकरणे विलक्षणस्य कार्यत्वं भवतीति वदद्भिरेव तत्र असदिति सूत्रे, ‘कारणात्मनैवास्ति कार्यम् । न तु कार्यात्मना कदापी ’ त्युच्यते । इदमेव तदनन्यत्वं कार्यस्य यत् तस्याभाव इति च । एवं वदतां किमुपादेयमिति किञ्चिदस्ति? यत् प्रति ब्रह्मण उपादानत्वमुपपाद्यम् । अज्ञानस्योपादानत्वं भामती नेच्छति । ब्रह्मण उपादानत्वञ्च उक्तरीत्या वाङ्मात्रम् । एवं स्थिते स्वमत एवोपादानत्वं सुष्ठु प्रतिष्ठितीति किमयं व्यामोहो विमलम्भो वेति विविच्यताम् । ब्रह्मशब्दस्य शक्तिः स्वीक्रियमाणा विचारविषयादन्यस्मिन् प्रकृत्यादौ न युक्ता ; अनेकशक्तिकल्पनाद्यापत्तेः } यत् साक्षादपरोक्षात् ब्रह्म" इति विचारविषय एव मुख्यत्वश्रवणाच्चेति शतदूषणी । तत्र यल्लिखितम् ““श्रुतिरियं ब्रह्मणो मुख्यत्वं न ब्रवीति” इति तावता विचारविषयादन्यस्मिन् प्रकृत्यादौ ब्रह्मशब्दस्य मुख्यत्वं स्वीक्रियते इति न भवताऽपि सुवचम् । प्रथमाधिकरणशाङ्करभाष्यविरोधात् । अस्वीकारे च श्रुतेरस्याः ब्रह्मशब्दस्य साक्षाद्वाच्यः परमात्मैवेत्यर्थोऽपि काममस्तु । तत्र कुतः प्रद्वेषः ? एतदुक्तं भवति । यत् साक्षादपरोक्षाद्ब्रह्म” इति वाक्यस्य भवन्मतेऽयमर्थःआत्मा ज्ञानस्वरूपः । तदतिरिक्तं सर्वं साक्षादपरोक्ष न भवति । सर्वस्यापि १३६
वृत्तिवेद्यत्वात् । ब्रह्म तु स्वयंप्रकाशत्वात् साक्षादपरोक्षमिति । इदञ्च नास्मन्मते ऽनन्वितम् । जडप्रपञ्चस्य ज्ञानैकग्राह्यत्वात् ब्रह्मणः स्वयंप्रकाशत्वात् । भवन्मते वृत्त्यन्तरानधीनप्रत्यक्षत्वं वृत्तावप्यस्तीति कथं तद्वारणम् । वृत्तिः साक्षिभास्या । ब्रह्म तु स्वयंप्रकाशमिति चेत् तर्हि वृत्तिकर्मतयाऽन्यस्य सर्वस्यापरोक्षत्वमिति इदं त्यक्तमेव । वयं तु ब्रह्मातिरिक्तानां जीवानां तदतिरिक्तानां धर्मभूतज्ञानानाञ्च बहुप्रमाणप्रतिपन्नतां स्वयंप्रकाशताञ्च पर्यालोच्य निरपेक्षप्रकाशत्वस्य ब्रह्ममात्रनिष्ठत्वाभावात् तदौचित्याय श्रुतेरस्या . अर्थान्तरं स्वीकुर्मः । यत् साक्षात् ब्रह्म अपरोक्षञ्चेति । साक्षाद् ब्रहात्वश्च ब्रह्मपदेन साक्षात् प्रतिपाद्यत्वम् । अपरोक्षत्वञ्च प्रत्यक्षविषयत्वार्हत्वं वा तत्प्रयोजकसर्व देश सर्वकालसन्निहितत्वरूपं वा किमपि भवतु । तेन ब्रह्मण्यदृश्यत्वादिकमाचक्षाणानां मतव्युदासः । तेन याज्ञवल्क्येनोपवर्णयिप्यमाणोपासनातन्मूलसाक्षात्कारादिविपयत्वस्य वास्तवत्वसिद्धिरित्यन्यदेतत् । नैतन्नः प्रकृतम् । एवं ब्रह्मशब्द साक्षादर्थत्वरूपार्थवर्णने, " तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने !" इति स्मृतिं प्रति मूलत्वं चास्य सिद्धयति । एवमाकलय्य प्रकृत्यादेः ब्रह्मशब्दवाच्यत्वं न भवतीत्यत्र श्रुतिरियं प्रमाणतयोदाहारि । अत्रार्थान्तरमाशयानानां मनत्समाधानाय चोपरि स्पष्टार्था स्मृतिरप्युदाहारि । सर्वथा विचारविषयातिरिक्तवाचकत्वं ब्रह्मशब्दस्य नेति प्रकृतार्थः सुस्थ इति किमन्यविमर्श येण ॥॥ अथ यदुक्तम्, -विवर्तवादाङ्गीकारे मुक्तेरेव मुक्तिः स्यादिति शतदूषणी त्यादि तदपि विवक्षितार्थं परित्यज्य यथेच्छविस्तरणमेव । अत्र हि शुद्धस्य ब्रह्मशब्दवाच्यत्वपक्षे दूषणं प्रकृतम् । तत्र बृहति बृंहयतीति वचनविरोधो दर्शितः । अथ शुद्धस्याधिष्ठानत्वात् बृहत्त्वमस्ति, सर्वविवर्तप्रपञ्चनकरत्वात् बृंहणत्वमप्यस्तीति पुनः शङ्कायाम्, ’ शुद्धे कथमिदं धर्मद्वयम् ? यदि धर्मस्वरूपानतिरिक्ततया तयोः शुद्धे स्वीकारः : तर्हि मुक्तिकालेऽपि अधिष्ठानत्वविवर्तकरत्वयोरावश्यकत्वेन मुक्तेरेव मुक्तिः स्यात्’ इति शतदूषणीदीयमानं दूषणम् । तत्र ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् १३७ भवता यदुच्यते -विवर्तवादाङ्गीकारे विशिष्टाद्वैत संमतमुक्तिमुक्तावपि अद्वैतिसमतमुक्तिर्न मुच्यते, मुक्तेर्ब्रह्मानतिरेका दित्यादि तदसङ्गतमेव । भवता विवर्तवादाङ्गीकारमात्रेण शास्त्रसिद्धास्मत्समतमुक्तिमुक्तिः कथम् ? अस्मत्संमतमुक्तः क्रममुक्तिरूपतया भवन्मतेऽपि सत्त्वात् कथं तन्मुक्तिः ? विवर्तकरत्वं बन्धकाकारः । तस्य मुक्तेश्वोभयोः कथं ब्रह्मस्वरूपता ? । कथञ्च विरुद्धयोस्तयोरेककालिकत्वम् ? एवञ्च मुक्तेरद्वैत सिद्ध्याद्युक्तप्रकारत्वं वाऽन्यत्वं वाऽस्तु ; विवर्तकरत्वस्य तस्याश्च कथं यौगपद्यम् ? तस्मादपरिहृतमेव भवत्यनेन दूषणमिति । उपलक्षणत्वव्यावहारिकत्वादिविचारस्तु शतदूषण्यामेवोपरि क्रियत इति नापूर्वं भवतोपक्षिप्यमाणमस्ति ॥ / यच्चाह उपहितजिज्ञासापक्षेऽपि न सर्वज्ञत्वाद्युपहित विवक्षितम् । किन्तु वृत्तिमात्रोपहितमिति प्रागेवोक्तमिति तच्छोधनं प्राक् विस्तरेण विहितमेव । किं जिज्ञासाकाल एव तत् अखण्डाकारवृत्त्युपहितम् उत जिज्ञासाधीननिर्णयात्तानवर भावनाप्रभवसाक्षात्कारकाले ? आद्ये जिज्ञासेव न भवति । इच्छां प्रति स्वविषयसिद्धेविरोधित्वात् । अन्त्ये कथमियमुपहित जिज्ञासा ? वृत्त्युपहितब्रह्मसाक्षात्कार इत्यस्य वृत्त्यविषयकोऽपि वृत्तिसमकालिकः ब्रह्मसाक्षात्कार इति परिमळायुक्तोऽर्थ इह स्मर्यताम् । तथोपहितत्वं च जिज्ञासादिक्रमेण साक्षात्कारे सति स्वयमेव भवतीति न जिज्ञासायां कश्चिद्विशेषोऽस्ति । किञ्चात्र, ब्रह्मशब्देन •लक्षणया ब्रह्म ज्ञात्वा तद्विषये जिज्ञासालक्षणशोधनादि करोतीति स्वीकारे तानि व्यर्था नि ; ज्ञातत्वात् ब्रह्मणः’ इत्येवोच्यते । न पुनः, पदजन्योपस्थितिमात्रेण मोक्षो भवत्विति । अतः, “ब्रह्मशब्दमात्रेण ब्रह्मज्ञानेन मोक्षापादनं न क्षोदक्षमम् " इति दूषणमनवसरम् । ब्रह्मविचारादेरदृष्टार्थ । त्वाभावाद्धि जिज्ञासा व्यथैव । वृत्तिमात्रोपहितत्वमित्येतदप्ययुक्तम् । वृत्तिजननकाले सर्वस्यापि प्रपञ्चस्य सत्त्वेन प्रपञ्चोपहितत्वाविद्योपहितत्वप्रपञ्चादिविषयज्ञानरूपसर्वर खोपातला देरप्यक्षतत्वात् । अत एव स्वस्वेतरोपाधीति वृत्तितदितरोपाधिसद्भाव उक्तः कल्पतरौ । परिमळेऽपि, " अन्योपाध्यभावो 18 1१३८
न ग्रन्थाभिमतः; किन्तु साक्षात्कारस्य वृत्तिप्रतिबिम्बितचैतन्यरूपतया वृत्त्युपधानमवर्जनीयमित्याशयेन तदुक्ति” रित्युक्तम् । वृत्तिकाले अविद्यादिकं नास्तीत्युक्तिश्च प्रागेव विचारिता । वृत्तिरेवाविद्यादिनाशः’ इत्युपगच्छद्भिरपि जीवन्मुक्तिनिर्वाहाय कतिपयाविनाशः स्वीकृत एव । मिथ्यात्वे तन्नाशोऽप्यावश्यक एव । अमिथ्यात्वे अविद्याऽपि न नश्यति । एवञ्च यदि वृत्त्यु पहितम्, तर्हि सर्वज्ञत्वाद्युपहितमेवेति । परं तु सर्वज्ञत्वाद्युपहित विषयकज्ञानमविद्या निवर्तकत्वेन नेष्टमद्वैतिभिरित्यस्तु । तावता तन्न जिज्ञास्यमिति वक्तुं न शक्यते । सगुणब्रह्मणोऽपि जिज्ञास्यतायाः भवतैव प्रागुक्तत्वात् । यत्तु –अखण्डाकारवृत्तिरेव मोक्षसाधनम् । न पदजन्योपस्थितिमात्रमिति तच्छोधनमितोऽधिकमखण्डार्थवादादौ युक्तमितीह न प्रपञ्चयते । इदं तु पृच्छयते–कस्मादुपस्थितिमात्रं नाज्ञाननिवर्तकम्, साक्षात्कारत्वाभावाद्वा, विषयवैलक्षण्याद्वा, सहकारिकारणविरहाद्वा । आद्ये उपस्थितिनिवर्तिका मा भूत् । तद्विषयो ब्रह्मैव तथा भवतु । तस्य स्वयंप्रकाशतया साक्षात्कारत्वात् । वृत्तिरूप एव साक्षात्कारः प्रतिबन्धक इति चेत् तर्हि अहमित्यस्य स्वयंप्रकाशता न स्यात् । नाहमित्यादिज्ञानविरोधित्वायोगात् । न द्वितीयः, व्यक्तिमात्रसाक्षात्कारवादिना भवता तस्य दुर्वचत्वात् । न तृतीयः,. ज्ञानातिरिक्तकारणापेक्षायाम्, ज्ञानमात्रान्मोक्ष इत्यस्यासिद्धेः । कर्मणोऽपि कारणत्वापत्तेः । जगन्मिथ्यात्वस्याप्यसिद्धिप्रसङ्गाच्च । ज्ञानमात्राधीन निवृत्तिस्थल एव मिथ्यात्वस्वीकारात् । विशिष्टाद्वैतमते तु वेदनोपासनध्यानसाक्षात्कारस्मरणादिमोक्षसाधन विधीनामै करस्यसंपादनात् परभक्तेर्मोक्षसाधनत्वं सिद्धयति भगवदनुग्रहद्वारा । न तथा मिथ्याज्ञाननिवर्तनमात्रेण तत्त्वज्ञानस्य मोक्षसाधनत्ववाद्यद्वैतिमते इति महदन्तरम् । यत्तु -वृत्तिर्न केवला मोक्षसाध नम् । किन्तु अप्रामाण्यज्ञानानास्कन्दिता, भुज्यमानादृष्टाभावसधीचीना च सतीति न्यायरत्नावळिग्रन्थे मनसि निधायोक्तम्-तत्रोच्यते । स्वतः- ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् १३९ प्रामाण्यग्रहपक्षे वृत्तिर्जाता प्रामाण्यनिश्चयविशिष्टैवास्तीति कृतमप्रामाण्यशङ्कानास्कन्दितत्वदन । एवमपि कथञ्चिदप्रामाण्यशङ्का भवतीति तथाप्रतिसंधीयमानत्वाभावोपपादनायाप्रामाण्यज्ञानानास्कन्दितत्वं निवेश्यमिति चेत् अस्त्विदं लीकदृष्टत्वात् । कम स्ति, शरीरवियोगस्य तद्धेत्वदृष्टादिविरहस्य वा सहकारिकारणत्वं न युक्तम् । न हि तत्त्वज्ञाने जाते तत्राप्रामाण्यज्ञानानास्कन्दिते च सति मिथ्याज्ञाननिवृत्तयेऽन्यदपेक्ष्यते । यदि प्रतिबन्धज्ञानमेव नोदियात् । प्रतिबन्धकं ह्यदृष्टं कार्य सामग्री’विघटकम् । तदुक्तं न्यायकुसुमाञ्जलौ " यत्रादृष्टस्य दृष्टकारणोपसंहारेणोपयोगः, तत्र तत्पूर्णतायां कार्यमुत्पद्यत एव । अन्यथा अन्त्यतन्तुसंयोगेभ्योऽपि कदाचित् पटो न जायेत । जातोऽपि वा कदाचिन्निर्गुणः स्यात् । बलवना कुलालेन दृढदण्डनुन्नमपि चक्रं न भ्राम्येत" इति । “ दृष्टकारणनिरपेक्षं यत्रादृष्टवशात् कार्यम् तत्र परमदृष्टवैगुण्यात् कार्यानुदयः’ इति चोक्तम् । एवञ्च तत्त्वज्ञानकारणत्वेन कुलसे उत्पन्नेऽपि यदि न सर्व मिथ्याभूतविनाशः, तर्हि तत्र मिथ्यात्वं नास्तीत्येव प्रतिपत्तव्यम् । एवञ्च यत् अद्वैतसिद्धावुक्तम् — “ तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ संपत्स्ये, ’ भोगेन वितरे क्षपयित्वा ’ इति कतिपयवस्त्वविनाशवचनात् भुज्यमानादृष्टान्यादृष्टानामेव नाशरूपं वृत्तिज्ञानमिति वृत्त्यनन्तरमपि देहादीनां संभवः " इति — तदपि निरस्तम् । मिथ्याभूतस्य परिशेषणायोगात् । भवदुक्तरीत्या भुज्यमानादृष्टाभावविशिष्टज्ञानस्य मोक्षहेतुत्वे निवर्तकत्वं तदैवेति अविद्याद्यपि पूर्व न विलीयेतेत्यपि ध्येयम् । ज्ञातविषयेऽपि पुनर्जिज्ञासादिविधिरिति न शक्यते वक्तुमित्यभिप्रायां शतदूषणीसूक्तिं गृहीत्वा किमपि प्रपञ्चनमप्येवमेवानवसरं वेदितव्यम् । ब्रह्मपदस्योपहिते शक्ति निश्चित्य, निरुपाधिके वृत्तिमविदुषः प्रतिबोधनार्थ जिज्ञासादीति पक्षे, मुख्यवृत्तिमविदुषः प्रतिबोधनायेत्यङ्गीकारे प्रस्तुतव्याघातः • स्यादिति तदुपरितनशतदूषणीवाक्यस्यार्थः । अभिधानाङ्गीकारे वा (C ૧૪
कि सार्वश्यादिविशिष्टपरब्रह्माभिधानप्रद्वेषेण” इति सूत्तयाश्चायमर्थः शुद्धब्रह्मणो लक्ष्यत्वमेवाद्वैतसिद्धान्तः । अपसिद्धान्तमेव सोढा तत्र शक्तिस्वीकार प्रयत्ने तु वरं तदपेक्षया अविद्योपहितब्रह्मणि शक्तित्यागेन यथाशास्त्र सर्वज्ञत्वादिग्राहक बृहत्त्व विशिष्टाभिधानस्वीकरणम् । ब्रह्मणो वाच्यत्वस्वीकारे, “यतो वाचो निवर्तन्त” इति वाक्यविरोध इति लक्ष्यत्वं स्वीकृतं भवदीयः । यदि तस्यान्यथा नयनं मनसिकृत्य वाच्यत्वस्वीकारः ? तर्हि सर्वज्ञत्वादीन् गुणानपि ब्रह्मणि स्वीकृत्य विशिष्टवाचित्वमेव स्वीकृत्य सा श्रुतिरस्मद्रीत्या वा अन्यथा वा वताम् ; किं बहुश्रुतिबाधेनेति । अद्वैतमते निर्विशेषमपि. ब्रह्मशब्दार्थः, सविशेषमपीत्युच्यते भवता । किमिदमर्थद्वयं शक्तया, उत कचिल्लक्षणया । आधे, अनेकशक्तिकल्पनागौरवम् । भवदुदाहृतश्रीविष्णुपुराणवाक्यं तु भवदीतैरेव निर्विशेपब्रह्मशक्तिस्थापकत्वेन नादृतम् । द्वितीये, लक्ष्यार्था अन्येऽपि प्रकृतिशरीरादयस्तत्र तत्र यथायथं सन्तीति किं तेनः शक्या जिज्ञासचैव सर्वसिद्धौ को लक्ष्यार्थं गृह्णीयात् । प्रथमं प्रतिज्ञायामेव जिज्ञास्यवस्तुविषयकशक्तिमत्पदं न प्रयुङ्क्ते परमर्षिरित्यशाक्तिरेव तस्य भवद्भिरापादिता स्यात् । 11 भृगुवल्लयाम्, ब्रह्माधीहि " इति प्रार्थना लक्ष्यार्थजिज्ञासेवेति कथमुच्यते । न हि का पृथिवी, को गवय इत्यादयः प्रश्नाः स्वरसतो लक्ष्यार्थविषये लोकेऽवतरन्ति । अतो गन्धवती पृथिवी, गोसदृशो गवय इत्यादिवाक्यश्रुतगन्धवत्त्वगोसादृश्याद्युपलक्षणमुखेन तत्र तत्र तत्तच्छब्दशत्तयवधारणवत् ब्रह्मशब्दशक्त्यवधारणमेव व्यक्तिविशेषे भृगुवल्ल्या मित्येव वक्तव्यम् । स च वृत्तिविशेषः, आनन्दो ब्रह्मेति वाक्यनिर्दिष्ट आनन्द एव । ‘आनन्दायेव खल्विमानि भूतानि जायन्त’ इति जन्मलयहेतुत्वस्य तत्र कण्ठोत्तया तस्य न निर्धर्मकत्वमपि । आनन्दश्चायं पूर्ववल्लीप्रस्तुत आनन्दमय एव । आनन्दमयश्चान· दपदेन प्रागपि निर्दिष्टः, " को ह्येवान्यात् कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्, एष ह्येवानन्दयाति" इति 1 तथा, “रसो वै स " इति च । उपकोसलविद्यायामपि, “कं ब्रह्म” इत्यत्र ब्रह्मशब्दस्यनुपपत्ति-प्रसाधनम् ૪૧ कशब्दं शुद्धानन्दपरं न सहते सूत्रकारः । यतः, " सुखविशिष्टाभिधाना देव च " इति विशिष्टपदं प्रयुङ्क्ते । तत्र का कथा आनन्दमीमांसोप निविष्टस्यानन्दशब्दस्य । सर्वथा भृगुवल्ली सत्यज्ञानादिपरेति व्याहतमेव । अत्र सत्यज्ञानप्रस्तावाभावाच्च । एवञ्च परश्शतदूपणदूषितपुच्छब्रह्मग्रहणेन, पञ्चकोशान्तरत्वावाङ्मनसगोचरत्वादीनां सिद्धवत्कारेण कथनमप्युपेक्ष्यमेव । सविशेषविवक्षायां " स यश्चायं पुरुषे यश्चासावादित्ये स एकः विरोध इति शतभूषणीवर्णनमद्भुतम् । "” "" इति वाक्य आदित्ये पुरुषः किल, हिरण्यश्मश्रुर्हिरण्यकेश आ प्रणखात् सर्व एव सुवर्णः " इत्यादिना दिव्यमङ्गळ विग्रहविशिष्टोऽपि प्रसिद्धः । स कथं निर्विशेषः स्यात् । अर्वाचीनदेवताविषये " "" विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेदर्शनादिति युगपदनेक शरीरपरिग्रहेण स्थितिः सर्वैरङ्गयकारि । किमुत परस्मिन् पुरुषे । अतः का निर्विशेषनिरूपणप्रसक्तिरिह । उपरि च आनन्दमयमात्मानमुपसंक्रम्य " इत्यादिनिर्विशेषब्रह्मवादिवर्णितमोक्षविरुद्धो विशिष्टाद्वैतिसंमतमोक्षप्रकारः प्रपञ्च्यत इति कथमत्र वाक्ये निर्विशेषप्रसक्तिः । अतः शतदूषण्यप्रदर्शितमपि खविरुद्धमंशं स्वयं ज्ञापयति शतभूषणीति मन्तव्यम् । “ब्रह्मविदाप्नोति पर” मिति प्रथमवाक्ये ब्रह्मपदस्य निर्विशेषपरत्वे लक्षणेत्यद्वैतिपक्षे दोषः सिद्धः, निरुक्तादिविरोधेन शुद्धे शक्तेर्वस्तुतस्तरस्वीकारात् । ‘विदेर्लक्षणा स्यादुपासनपरत्वे’ इति यदुच्यते, तत्र — ‘भवन्मते श्रवणमनननिदिध्यासनाभ्यासानन्तरभाविसाक्षात्काररूपार्थविशेषपरत्वे परं कथं न. लक्षणा ? न हि ब्रह्मवेदनं संशयविपर्ययादिसर्वरूपं यतः कुतश्चिद्भवदपि मोक्षकारणं भवदिष्टमिति पृच्छामः । यदि तस्य साक्षात्कारस्य वेदनविशेषत्वात् न लक्षणाप्रसक्तिः, तुल्यमस्मन्मतेऽपीति । अन्यदपि दृश्यताम् भवन्मते आप्नोतिपदमप्यनुभवार्थलाक्षणिकम् । ब्रह्मणो जीवस्य चैक्यात् अप्राप्तत्वाभावात् । अस्मन्मते तु सत्यपि पूर्णे भुवि ब्रह्मानुभवे, आमोति परमित्येतत् परवासुदेवं प्राप्नोतीत्यर्थकं सत् योयुज्यते । एवञ्च परशब्दप्रयोग १४२
स्वारस्यपि । किञ्च भवन्मतेऽनुभवतीत्यर्थोऽपि बाधितः । ब्रह्मविदित्यत्र वेदनं हिं शाब्दं मानसं वा किञ्चिदपरोक्षज्ञानं वृत्त्यात्मक्तम् । तज्जन्यं ब्रह्मानुभवाख्यं द्वितीयं ज्ञानं मोक्षरूपं किमन्यदस्ति, येन तत् संगंस्यते । अविद्यानिवृत्तिरेव हि साक्षात्कारजन्मा, न ब्रह्मानुभवो नाम कश्चित् । एवञ्च “ब्रह्म भवतीति प्रयोक्तव्ये " आप्नोति पर " मिति प्रयुक्तं लाक्षणिकमेव । ब्रह्म भवतीत्यपि न युक्तम् । पूर्वमेव ब्रह्मभावादित्यास्तामेतत् । एवं स्थिते ब्रह्मशब्देऽन्यत्र च प्राचीनाद्वैतिघण्टापथं निर्विशेषलाक्षणिकत्वं विस्रमपारयता, ब्रह्मशब्दस्य निर्विशेषे शक्तिस्वीकारे सत्येव वादः कियदपि सुकर इति तदा तदा ब्रह्मशब्दस्य तत्र शक्तत्वमपि व्याहरता, श्रीविष्णुपुराणवाक्य-मर्थान्तरपरं पुनः पुनरुदाहरता न किञ्चित् साधयितुं शक्यम् । यतस्तस्य, ““प्रत्यस्तमितभेदं यत् सत्तामात्रम गोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥” इति श्लोकस्य, ‘निर्विशेषत्वात् वागगोचरं किञ्चिच्छब्दावाच्यमेव तत् ब्रह्मशब्देन संज्ञायते— समित्येकीकारे— अविद्यमानेन केनचिद्विशेषेण विशिष्टतया तेन शब्देन ज्ञाष्यते । विशिष्टवाचित्वात् ब्रह्मशब्दोऽपि न निर्विशेषवाचक’ इत्यर्थ एव भवदीयसंमतः । अत एव शतदूषण्यां शब्दावेद्यत्व-भङ्गवादे, ‘सङ्केत्यतां व्यवहाराय तथाविधः शब्दोऽपि ’ इति आदिष्टम् । तदिदमनुवृत्तं भवता ब्रह्मशब्दस्यैव साङ्केतिकत्वकल्पनया वैदिके सङ्केतासंभवापरिशीलनेन । सङ्केतं विनैव वाचकत्वमितः परं कामं स्वीक्रियताम् ; एवं तर्हि, “यतो वाचो निवर्तन्त” इति वाक्यमुपेक्षितमेव स्यादिति प्रागेव प्रत्यपादि । " शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते । मैत्रेय ! भगवच्छब्दः सर्वकारणकारणे एवमेव महाशब्दो परमब्रह्मभूतस्य वासुदेवस्य नान्यगः” इति वाक्यं सविशेषविषयम्, ‘प्रत्यस्तमितभेद’ मिति ‘निर्विशेषविषयमिति व्यवस्था न युक्ता । भगवच्छब्दवाच्यब्रह्मापेक्षया निर्विशेष · मन्यद्वा यद्यभविष्यत्, ‘भगवच्छब्दः शुद्धे परे ब्रह्मणि शब्द्यते’, ‘परमब्रह्मभूतस्यायं भगवच्छब्दः’ इति तत्र शुद्धत्वपरत्वपरमत्वरूपाणि विशेषणानि न प्रायोक्ष्यत् । अतः प्रत्यस्तमितेति श्लोकोऽन्यविषय एव । ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् १४३ “अवाच्यमिति वाच्यं चेत् ब्रह्म वाच्यत्वमृच्छति” इति शतदूषण्युक्ते यद्भवतोच्यते । " एवं वाच्यत्वेऽप्यवाच्यत्वमप्यस्ति । यथा प्रपञ्च मिथ्यात्वेन सह मिथ्यात्वस्य मिथ्यात्वमपि । एकबाधकबाध्यत्वात् — इति —तत्र ब्रूमः । मिथ्यात्वमिध्यात्वविचारः स्वावसर आस्ताम् । तत्र ब्रह्मव्यतिरिक्तं सर्व नेति बाधकज्ञानेनैकेन प्रपञ्चस्य बाध्यत्वात् प्रपञ्चे मिथ्यात्वं भवदिष्टम् । तदुपर्याशङ्का —-प्रपञ्चगस्य मिथ्यात्वस्य ब्रह्मातिरिक्ततया प्रपञ्चवन्मिथ्यात्वमङ्गीकरणीयम् । एवं मिथ्यात्वरूपस्य धर्मस्य बाधितत्वे प्रपञ्चस्य सत्यत्वमायातीति । तत्र परिहारस्तावत् येन बाधकज्ञानेन प्रपञ्चो बाध्मानः सन् मिथ्या भवति, तेनव बाधकज्ञानेन मिथ्यात्वस्य बाध्यता नान्येन । तेन प्रपञ्चोऽपि मिथ्यात्ववत् बाध्यत एवेति कथं प्रपञ्चसत्यत्वमिति । सा रीतिः कथमत्र ? भवन्मते ब्रह्मण्यवाच्यत्वं व्यावहारिकसत्यम् । वाच्यत्वं तु तस्य व्यवहारदशायामेव निषिध्यते, ब्रह्म अवाच्यं निर्विशेषत्वादिति युत्तयेति प्रातिभासिकम् । प्रातिभासिकस्य च वाच्यत्वस्य व्यावहारिकावाच्यत्वज्ञानेन बाधः । अवाच्यत्वस्य तु व्यावहारिकस्य प्रपञ्चवाधकतत्त्वज्ञानेन बाघ इति नात्रै कबाधककत्वम् । अथोच्येत अवाच्यलं यथा व्यावहारिकम्; तथा अवाच्यपदवाच्यत्वमपि । तयोर्द्वयोरेकतत्त्वज्ञानबाध्यत्वमिति — तन्न —कथमवाच्यत्वस्य व्यावहारिकत्व सिद्धिरिति । ब्रह्मावाच्यं निर्विशेषत्वादित्यनुमानादिति चेत् — हेतुरप्रयोजकः । ब्रह्म वाच्यं वस्तुत्वादिति सत्प्रतिपक्षश्च । केन पदेन वाच्यत्वमिति चेत् — ब्रह्मेति पक्षवाचिपदेनैवास्तु अन्येन वा केनचित् । ब्रह्मपदं लक्षणयैव निर्विशेषपरमिति चेत् — तदेव न तत्र 66 यतः " इति सर्वनाम्ना निर्विशेषं वाच्यमासीदिति तंत्र वाच्यत्वनिषेधायोगादन्यादृशविशेषनिषेधपरत्वस्यैव तत्र वक्तव्यत्वात् । एवञ्चावाच्यत्वमसिद्धं यदि कल्ष्यते, तर्हि तत् प्रातिभासिकम् । तत्प्रत्यनीकत्वाच्च वाच्यत्वं व्यावहारिकमिति नोभयोरेकबाधक बाध्यत्वम् ; नाप्यवाच्यत्वं ब्रह्मणः । यदि निर्विशेषं ब्रह्म प्रामाणिकम् । कथञ्च भवान् प्रत्यस्तमितभेदमिति श्लोकेन । ; ૧૪૪
ब्रह्मशब्दस्य निर्विशेषवाचकत्वं प्रतिपादयन्नेव तस्यावाच्यत्वं वक्तुमर्हति । सन्तु तावदन्यानि पदानि । अवाच्यमिति पदमप्यलम् । तेनावाच्यत्वविशिष्टरूपेऽर्थे विवक्षिते, ‘कथमुच्यमाने स्यादवाच्यत्व’ मित्ययोग्यतापर्यालोचनया वाच्यत्वविशेषाभाववत् अवाच्यपदवाच्यमित्येव वाच्यमिति सिद्धं वाच्यत्वमिति । यत् पुनः अवाच्यपदवोध्यत्वमेव ब्रह्मणः, न तु वाच्यत्वमिति — तत्र नञ्पदवाच्यपदद्वयरूपतया अभिहितान्वयपक्षे बोध्यत्वस्यैव सत्त्वेऽपि अन्विताभिधानपक्षे वाच्यत्वमस्त्येव । तत्पक्षे एकार्थान्वितापरार्थे शक्तिखीकारात् । तथा समासे शक्तिस्वीकारिवैयाकरणमतेऽपि वाच्यत्वमस्ति । पक्षान्तरेऽपि पाचकपदादिवत् समासे योगशक्तिः सुवचा । अभिहितान्वयपक्षेऽपीह । नञोऽभावविशिष्टार्थकत्वात् निर्विशेषपदेन यत् ब्रह्म विशेषाभाववत् बोध्यते, तत् इह उक्तमस्तीति न वाच्यत्व-भङ्गः । अधिकं शब्दा वेद्यत्व-भङ्गप्रसाधने द्रष्टव्यम् । एवं ब्रह्म वाच्य वस्तुत्वादित्यनुमाने वाच्यत्वं साध्यं ब्रह्मणि काल्पनिकमिति पक्षे दोषोऽपि तत्र कथितो द्रष्टव्यः । सत्येन हेतुना प्रातिभासिकसाधनायोगात् व्यावहारिकवाच्यत्वमेव काल्पनिकमित्युक्तमिति चेत् तर्हि अवाच्यत्वमेव प्रातिभासिकमापतितमित्यपि द्रष्टव्यम् । तदेवं वाच्यत्वे सिद्धे, “यतो वाचो निवर्तन्ते " इत्यस्य लक्ष्यत्वा निषेधकत्ववत् वाच्यत्वसामान्या निषेधकत्वमप्यौ चित्यादस्तु । अस्त्वेतत् । वाचकशब्दान्वेषणायां व्यक्तिमात्रविषयकस्य साङ्केतिकतुल्यस्य कस्यचिच्छब्दस्यादर्शनेन, सह्मादिशब्दानाश्च शास्त्रेषु निर्वचनात् सप्रवृत्तिनिमित्तत्वस्यैवावगमेन सविशेषब्रह्ममात्रसद्भावावगमात् न निर्विशेषे ब्रह्मशब्दस्य शक्तिप्रसक्तिः । नापि लक्ष्यत्वम् । जिज्ञास्यत्वस्य लक्षणशोधनादेश्च शारीरके क्रियमाणस्य, श्रुत्यन्तप्रतिपाद्यमानानां विशेषाणाञ्च तत्राघटमानत्वात् । नाप्यविद्यादिदुष्टे ब्रह्मशब्दयता । निर्दोषमङ्गळगुणास्पदे वृत्तेर्निखिलश्रुतिस्मृतिनिरूढत्वात् तात्यर्थग्राहकाभावाच्चेति सिद्धा परमब्रह्मणि वृत्त्यनुपपत्तिरिति ॥ ब्रह्मशब्दवृत्त्यनुपपत्ति-प्रसाधनम् न निर्विशेषं नाविद्यालीढं वा वेदवेदितम् । तस्मान्न ब्रह्मशब्दस्य वृत्तिस्तत्रोपपद्यते वाच्यत्वं निर्विशेषत्वात् यदि तत्र निषिध्यते । लक्ष्यत्वमपि तत्तुल्ययोगक्षेमं विभाव्यताम् मिथ्याभूतस्य सत्येन संबन्धो दुर्वचो यतः । शकेर्वा लक्षणाया वा न संबन्धोऽत्र संभवी निर्दोषमङ्गलाढ्यं यत् ब्रह्मशब्धं परं बृहत् । कीदृशः शक्यसंबन्धो निर्विशेषस्य तस्य च तद्वतानां विशेषाणां ततो हानेरभावतः । न तस्य निर्विशेषेण तादात्म्यमपि संभवि विशिष्टार्थस्यैकदेश विहायात्र विशेषणम् । विवक्षति विशेष्यं यो भङ्गस्तस्य पदेपदे विशेषणवि-भङ्गश्च कुत्र वाक्ये चिकीयते । १४५ ॥ ५२ ॥ ॥ ५३ ॥ ॥ ५४ ॥ 11 44 11 ॥ ५६ ॥ ॥ ५७ ॥ न समानाधिकरणे वाक्यलक्षणवर्जनात् ॥ ५८ ॥ उद्देश्योपादेयभावो विभागे काङ्क्षणञ्च चेत् । एकवाक्यत्वमिष्येत पर्यायत्वे कथत्विदम् ॥ ५९ ॥ न वैयधिकरण्येऽपि विशेषणविवर्जनम् । निर्विशेषे कथं किञ्चिदन्वयानर्ह वस्तुनि जिज्ञासादिसहोच्चार्यपदार्थान्वयसंभवः ? -अन्वये निर्विशेषस्य बुद्धयारोहो हि दुर्भणः न हि ब्रह्मशब्दयं भवेन्निर्विशेषं तथा नैव तत् स्यादविद्यादिदुष्टम् । स्वरूपेण यत् स्यात् बृहत् सद्गुणैश्च श्रुतिस्मृत्यभीष्टं परं ब्रह्म तन्नः 10 ॥ ६० ॥ ॥ ६१ ॥ ॥ ६२ ॥ " श्रीः