(१) ‘परमते सूत्र-स्वारस्य-भङ्ग’प्रसाधनम्
प्रथमतस् तावद् अयं शतभूषणीकारः एक-शास्त्र्य-समर्थन-वाद-परीक्षायां वक्तव्यम् अंशं सूत्र-स्वारस्य-भङ्ग-वाद-परीक्षायाम् उपपाद्य ग्रन्थं पूरयति । अवश्य-वक्तव्यांशेषु प्रसक्तेषु पुनः; तत्र व्यक्तम्, तत्र परीक्षितम्, तत्र व्यक्तीकृतम् इति विलिख्य वञ्चयति । अत्र ऐकशास्त्र्यन्-विषये यद् वक्तव्यम्, तत् तद्-अवसर एव विवक्षामः । अत्र शतभूषणी-विवक्षितं तावत् - ऐक्य-शास्त्र्य-पक्षे सङ्कर्ष-काण्डान्तिम-सूत्रेणैव सविशेष-ब्रह्म-निरूपणस्य वर्तितत्वात्, “अथातो ब्रह्म-जिज्ञासे”ति पृथक् प्रतिज्ञानं न घटत इति - तावता किम् उक्तं भवति ? यदि सविशेष-ब्रह्म-स्वीकारेण ऐक-शास्त्र्य-वादो वा त्याज्यः; ऐक-शास्त्र्य-स्वीकारेण निर्विशेष-ब्रह्म-प्रतिज्ञेति वा स्वीकर्तव्यम् इति - उभयथापि नाद्वैति-पक्ष-सिद्धिः । ब्रह्मन्-विशेषत्वस्य ऐक-शास्त्र्यस्य च उभयस्य तत्र त्यक्तत्वात् । अथ निर्विशेष-ब्रह्म-स्वीकारे ऐक-शास्त्र्यं स्वत एव त्यक्तं भविष्यतीति चेत् - कुत एतत्? तत्स्वीकारे ऽपि भाष्य-सामत्यादौ ऐक-शास्त्र्यस्यापि स्वीकारात् । सविशेष-ब्रह्म-निरूपक-सङ्कर्ष-काण्ड-विरुद्धत्वात् निर्विशेष-परस्य शारीरकस्य न तदैकार्थ्यम् इति चेत्, तर्हि शारीरक एव, ‘अथातो ब्रह्म-जिज्ञासे’त्य् अत्र अब्रह्म-जिज्ञासेति पदच्छेदेन ब्रह्म-अब्रह्मणोः निर्विशेष-सविशेषयोः विरुद्धयोर् वर्णनं कथम् उपरि क्रियते? कथञ् च धर्माधर्मयोः मिथः प्रत्यनीकयोर् अपि निरूपणम्, “अथातो धर्म-जिज्ञासे”त्य् अत्र? अधर्म-जिज्ञासेति पद-च्छेदो विवक्षित इति हि एकदेशि-कथितम् अनुकूलतयोद्-ध्रियते । एवं तु खलु - शारीरके विरुद्धस्योभयस्य निरूपणे न दोषः । सङ्कर्षे एकस्य निरूपणे त्व् ऐक-शास्त्र्यं न भवतीति साधु व्याहतम् ।
ननु सविशेषस्य ब्रह्मणः सङ्कर्ष एवोक्ततया पुनः सविशेष-प्रतिज्ञा कथं घटते इति चेत् - तद्-विरुद्ध-निर्विशेष-प्रतिज्ञापि न घटत एव । अथ - ‘तं ब्रह्मेत्य् आचक्षत’ इति सूत्रं निर्विशेष-ब्रह्मपरमेव । ‘तत्त्वमसी’ति जीव-ब्रह्मैक्य एवोपपन्ने सति विष्णु-ब्रह्मत्वं निर्विशेष-ब्रह्म-वादे कथं न भविष्यति? नूनम्, ‘परं जैमिनिर् मुख्यत्वाद्’ इति बादरायण-सूत्रे दृश्यमाने जैमिन्य्-अभिमतं मुख्यञ् च यद् ब्रह्म तद् एव संकर्ष-काण्डे ‘ब्रह्मेत्य् आचक्षत’ इत्य् अनेन विवक्षणीयम् । अस्ति च महान् विवादः, सङ्कर्ष-काण्डः काशकृत्स्न-कृतो वा जैमिनि-कृतो वा उदयेन कृतो वेति । तत्र काशकृत्स्नीयत्वे ऽप्य् अस्य सङ्कर्षस्य ‘अवस्थितेर् इति काशकृत्स्नः’ इति बादरायण-प्रशंसितः काशकृत्स्नः स्वामिगतं ब्रह्मैव, ‘तं ब्रह्मैत्यारक्षा’ इति विवक्षितवान् स्यात् । अतो न सङ्कर्ष-विरोधो निर्विशेष-ब्रह्म-मीमांसायाः इति यदि कथयन् निर्विशेष-वादी विरोधं परिजिहीर्षेत्, तदा ‘अथातो धर्म-जिज्ञासे’ति प्रतिज्ञानं तस्य व्यर्थम् एव । उपरि काशकृत्स्नेन सविशेष-ब्रह्म निरूपणस्यैव क्रियमाणतया व्याघातश् च । पूर्वम् ईदृशो दोषो मा स्म भूद् इत्य् एव शतभूषण्याम्, शतदूषण्युद्धृत-रीत्या ‘तं ब्रह्मेत्य् आचक्षते, तं ब्रह्मेत्य् आचक्षते’ इति सङ्कर्षान्तिम-सूत्रं ब्रह्म-पद-घटितम् अपेक्ष्य ‘स-विष्णु-परं हि’ इति तत्-पूर्व-सूत्रम् एवोपसंहार-सूत्रतया, सविशेष-मात्रे विश्रान्ति-प्रदर्शनस्य पतितम् इव । वस्तुतो जैमिनीयेनैव षोडशलक्षणे नैक-शास्त्र्यम् पूर्वैर् एव निर्णीतमिति च , शतदूषण्याशयञ् चैक-शास्त्र्य-वादे व्यक्तीकरिष्यामः । अभ्युपगम्य त्वेयं ब्रूमः ।
अथ निर्विशेषत्व-स्थापनायैव प्रतिज्ञेति चेत्, तन् न । जगत्-कारण-वादिनः प्रति-सूत्रं सविशेषत्वम् एव हि स्थपते । सविशेषमेव ब्रह्मेति सङ्कर्षे उपक्षिप्य तस्य सविशेषस्यैव ब्रह्मत्वं दुर्वचम् इत्य् आक्षेपे ब्रह्म-विज्ञानं शरीरक इति परं किं न स्यात्? एवञ् च सति उत्तर-सर्व-सूत्राणाम् अपि सामञ्जस्यम् । विष्णोः सविशेषस्य ब्रह्मत्व-व्यवस्था न भवतीति च शङ्का बहु-प्रकारा संभाव्यते । निर्विशेषस्य ब्रह्मण एवोपनिषत्तो ऽवगमान् नैवम् इति वा, उपनिषदां कर्म-कर्तृ-जीव-स्वरूप-स्तवनैदम्पर्यात् तत्-परं ब्रह्म-पदं न तद् आराध्यं तद् उपास्यं विष्णुम् आचक्षीतेति वा, अनेकार्थकं ब्रह्म-पदं न तदेक-परम् इति वा । एवं संभावितेषु प्रकारेषु पूर्व-मीमांसायाम् अधीतिना पक्षान्तराणां बल्वजत्वं परिशील्य यादृशः पक्षः प्रवर्तयितुं शक्यः, तम् एवोपक्षिप्य सिद्धान्त-पक्षम् उपवर्ण्य ब्रह्म-जिज्ञासा-प्रतिज्ञानं प्रतिष्ठापितं श्री-भाष्ये । कर्म-शेषतया उपासना-शेषतया वा ब्रह्म प्रतिपाद्यत इत्य् अभ्युपगम्य, ‘प्राधान्येन ब्रह्म-प्रतिपादनम् इच्छन्तो न स्व-पक्ष-स्थापने प्रगल्भेरन्; कार्य-परत्वात् सर्वेषां वाक्यानाम्’ इति सङ्कर्ष-काण्डानन्तर्यानुगुणः किञ्च पूर्वपक्षः श्रीभाष्ये प्रावर्ति । यथाश्रुतम् अप्य् अनवगच्छतां श्रीभाष्य-हृदय-विज्ञानं कथङ्कारं स्यात्? । तस्मादैक-शास्त्र्यं सविशेष-प्रतिपादनात् सूपपन्नम् इति । अनैकशास्त्र्ये ऽपि निर्विशेष-ब्रह्म-प्रतिज्ञानं कुतः? शास्त्र-भेदाद् एकत्र प्रसङ्गाद् उक्तस्यापि अन्यत्र ऐदम्पर्येण निरूपणाय प्रतिज्ञान-सम्भवात् विरुद्ध-निरूपणस्यैवायुक्तत्वात् सविशेष-प्रतिज्ञानम् एव हि सम्यक् घटते ।
किं चैक-शास्त्र्य-पक्षे प्रथम-सूत्र-मात्र-वैयर्थ्यम् आपाद्यते, उत चतुस्सूत्र्याः? अहो शारीरकस्य कृत्स्नस्य? शारीरकव्युत्पाद्यस्य उपनिषद्-वाक्यानां प्रधानाद्य्-अर्थान्तर-परत्व-निर्बाह्य-उपायस्य? प्रकारान्तराबाधत्वस्य विलक्षणोपाय-पुरुषार्थैदम्पर्यस्य च षोडश-लक्षण्या व्युत्पातत्वाभावान् न तावत् कृत्स्नवैयर्थ्यम् । तथा पूर्वपक्षे ब्रह्मणो लक्षणम्, शास्त्रैकवेद्यत्वस्य, स्वयं-पुरुषार्थत्वस्य चासूत्रणात् न त्रिसूत्री-वैयर्ष्यमपि । प्रथम-सूत्रेणेव किम् अर्थम् इति पृच्छ्यते यदि, पूर्व-मीमांसायां ‘अथातो धर्म-जिज्ञासे’ति सूत्रं किम् अर्थम्? ‘चोदना-लक्षणो ऽर्थो धर्म’ इति प्राप्तेर् अपि धर्म-निरुपणम् एवेति ज्ञानत्वाद् इति । सूत्राणां न्याय-निबन्धनात्मकत्वात् पूर्व-पक्ष-विशेष-परिहारार्था तत्-प्रवृत्तिर् इति चेत् — तुल्यम् एतत् । अत्र परिश्रमः पूर्व-पक्ष एव यदि प्राग् एवोद्भाव्य पर्यहरिष्यत्, तदा किल सूत्र-वैयर्थ्यम् आशङ्कियत । तादृशीं संकर्ष-काण्डान्तिमाधिकरण-रचनां यदि शतभूषणी-कारः क्वचिद् द्रक्षयति, तद् इतः परं वा प्रदर्शयतु । यद् उच्यते — ‘पृथक् प्रतिज्ञा न घटते प्रमाण-शेषत्व-युक्ति-क्रमाधिकारातिदेशोह-बाध-प्रसक्तानां ब्रह्मानुबन्धितया निरूपण-प्रसक्त्यभावात्’ इति — तद् अपार्थम् । न हि यत् यत् येन येन शास्त्रेण प्रतिपाद्यते, तत् तत् तेन तेन भेद-शेषत्व-प्रयुक्त्यादि विभागेनैव प्रतिपादनीयम् इति कश्चिन् मन्तुम् अर्हति । अत एव, तथा निरूपणायोगाद् एव पूर्व-मीमांसा न गतार्थतेति पृथक् ब्रह्म-निरूपण-प्रतिज्ञा समन्वयाविरोध-साधन-फलात्मना व्युत्पादनायेति गृह्यताम् ।
एवञ् च ब्रह्मणः संकर्षे प्रस्तुतत्वे ऽपि निरूपितत्वाभावात् बहु-ग्रन्थ-निरूप्यतया पूर्वान्तर्भावासंमतेश् च पृथक् प्रतिज्ञानम् । तत्र ब्रह्मणः धर्मानुबन्धित्वे ऽपि अथातो ब्रह्म-जिज्ञासेति प्रतिज्ञा, अथातः शेष-लक्षणम् इति अङ्ग-विषय-तृतीयाध्याय-प्रतिज्ञेव, अथातः क्रत्वर्थ-पुरुषार्थयोर् जिज्ञासेति तुरीयाध्याय-प्रतिज्ञेव च न दुष्यति । अननुबन्धित्वे तु स्वतन्त्रा अपेक्षितैव । भवन्-मते ऽपि, अथातो धर्म-जिज्ञासेत्य् अत्र अधर्म-सङ्ग्रहाय धर्म-पदं वेदार्थ-परं भामत्यादिषु दर्शितम् एव । परन्तु ब्रह्मणो ऽविचारितत्वात् वेदार्थ-लक्षणायाम् अपि ब्रह्म-ग्रहणं नास्तीत्य् एवोच्यते । यदि संकर्षे ब्रह्म विचारितं स्यात्, कथं वेदार्थत्वेन ब्रह्म-ग्रहणं न संमन्येत । सविशेष-ब्रह्म-मात्र-ग्रहणम् इष्टम् इत्य् अपि हि तत्र नोक्तम् । तथा सति च ब्रह्म-मीमांसायां सविशेष-विचारो न कर्तव्यः स्यात् । त्रि-चतुराधिकरण-रचनया शारीरकं समापनीयं भवेत् ।
यत् तु स्वतन्त्र-ब्रह्म-निरूपणत्वाद् एव पृथक् ब्रह्म-लक्षणं प्रमाणं च वर्ण्यत इति, तत्र ब्रूमः । धर्मानुबन्धिनिरूपणे ऽपि प्रतिज्ञातं लक्ष्यते, निरूप्यते च । अत एव हि, शेषः परार्थत्वाद् इति शेषत्व-लक्षण-वचनम् । तत्र श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्या-रूपाणि प्रमाणानि बलाबलादि च चिन्तितानि । तुरीय-पञ्चमादिष्व् अपि क्रत्वर्थत्वादौ क्रमादिषु च गमकं विचारितम् एव । श्रुत्य्-अर्थ-पाठ-स्थान-मुख्य-प्रवृत्तयो हि क्रम-नियामक-प्रमाणानि । एवम् अन्यद् अपि भाव्यम् । ब्रह्म-विषये ऽपि प्रतिज्ञायां कृतायां वेदार्थविचारात्मनि शास्त्रे आनुमानिक-ब्रह्म-निरूपणम् अनवसरम् इति शङ्कायाम् अनुमान-निराकरणाय शास्त्र-योनित्वम् उक्त्वा तद्-असंभव-शंकायां समन्वयः समारम्भीति सुश्लिष्टम् एतत् । अतः स्वतन्त्र-विषय एव लक्षण-प्रमाण-निरूपणम् इति न निर्बन्धः ।
वस्तुतः स्वतन्त्रम् एव ब्रह्म, न धर्म-शेष-भूतम् इत्य् एवास्मद् मतम् । सर्व-वेदार्थ-प्रतिज्ञां विधाय चोदना-लक्षण एव वेदार्थ इति विमृश्य जैमिनाव् उपरते, एवं तर्हि देवता-काण्डे देवतानां निरूपणे कृते ऽपि देवतानां धर्म-शेषत्वे उपासना-विषयतयैव सद्भावे च समन्यमाने ऽपि अविद्यमानस्याप्य् अर्थस्य उपासनालम्बनत्व-सम्भावनया न देवतानां ब्रह्मणश् च याथात्म्यं स्वीकृतं भवेद् इति मत्वा तत्त्व-जिज्ञापयिषया भगवान् बादरायणः स्वातन्त्र्येण ब्रह्म-जिज्ञासां प्रतिजज्ञे । स्थापयिष्यति च देवताधिकरणे तासाम् अपि याथात्म्यम् । एवं निरूप्य परिष्करणीयं परिष्कृत्य स्वान्तेवासि-जैमिनि-कृतेन शरीरकम् एकीचकार । तद् ऐकशास्त्र्ये दर्शयिष्यामः ।
चोदना-लक्षणः, शास्त्र-योनित्वात् इति सौत्र-चोदना-पद-शास्त्र-पदयोर् अर्थ-वैलक्षण्यम् अस्तीति कथनं न भवत्-पक्ष-साधकम् । ब्रह्मणः सिद्ध-पर-वाक्य-गम्यत्वस्यैवास्माभिः स्वीकृतत्वात् । अत एव, ‘न हि ब्रह्मणि चोदनातिरिक्तं प्रमाणं श्री-भाष्य-मते’ इति प्राग् उक्तम् अपि निरस्तम् । भवद्भाष्येऽपि - ‘ब्रह्म-चोदना तु’ इति ब्रह्म-विषयक-शास्त्रस्य चोदना-पदेन व्यवहारात् भवन्-मते ऽपि चोदनातिरिक्त-प्रमाणकत्वाभाव एव । भवत्-प्रयुक्त-चोदना-पदस्य विधि-वाक्य-मात्रार्थकत्वे कथं श्री-भाष्य-मते तद्-एक-प्रमाणकत्वं ब्रह्मणः? । ‘अथातो ब्रह्म-जिज्ञासे’ति पृथक्-प्रतिज्ञा अनुरूपा ज्ञेय-मात्र-सिद्ध-बोधनेनैव शास्त्रत्वं वेदान्तस्य गमयति इति कल्पना ऽपि, ‘सर्व-वेदान्त-प्रत्ययं चोदनाद्यविशेषात्’ इति ब्रह्म-विषय-नानोपासनेदम्-पर-शारीरक-भाग-दूरीकृता । निर्विशेष-सविशेष-द्विविध-ब्रह्म-निरूपण-प्रतिज्ञेति उपरि वदतैवात्र कथम् उच्यते अनुपास्य-ज्ञेय-मात्र-सिद्ध-वस्तु-बोधनेनैव शास्त्रता वेदान्तस्येति । न खलु वेदे वा कर्म-काण्डे, मीमांसायां वा पूर्व-काण्डे, इमा उपासनाः ब्रह्म-विषयिण्य आवेदिताः सन्ति ।
यत् पुनर् उक्तम् ‘वेदार्थस्य ब्रह्मणः उपासना-शेषतयैव प्रामाण्यस्य संकर्षान्तया षोडश-लक्षण्या निर्णीतत्वात्’ - इति तत् विपरीतम् । न हि शारीरके उपासना-शेषतयोपनिषदां ब्रह्मणि प्रामाण्यं स्थाप्यते । विना तच्-छेषत्वं प्राधान्येन ब्रह्मणि प्रामाण्यं स्थापयितुम् एव प्रथमं सूत्रम् । अतो भवद्-उक्तिः शारीरक-प्रतिज्ञानस्यावश्यकत्वम् एव स्थापयेत् । पूर्व-काण्डे उपासना निरूपिता इत्य् अपि दुर्भणम् । न खलु द्वादश-लक्षण्याम् उपासनानाम् औपनिषदानां प्रस्ताव-गन्धः । सङ्कर्ष-काण्डे तु कर्माराध्य-देवता-स्वरूपादि-विवेकार्थे नौपनिषदोपासन-विमर्शः । स्पष्टञ् च ‘प्रदानवद् एव तद् उक्तम्’ इत्यादौ सङ्कर्षे ऽपि देवता-विवेक-मूल-कर्मानुष्ठान-प्रकार-चिन्तैव क्रियत इति । तथा, ‘धर्मं जैमिनिर् अत एव’ इति सूत्रम् अपि देवता-प्राधान्यं विहाय धर्म-प्राधान्य-वादो जैमिनि-कृत इति दर्शयत् उपासना-शेषत्व-भ्रान्त्य्-अपोहनेन ब्रह्मणि प्राधान्यप्रतिष्ठापनार्थम् एव शारीरकारम्भः; अत एव ‘अथातो भक्ति-जिज्ञासे’त्य् अनुक्त्वा ‘अथातो ब्रह्म-जिज्ञासे’ति सूत्रणम् इति व्युत्पादयति ।
एवं सूत्र-स्वारस्य-भङ्ग-वाद-परीक्षायाम् अत्र, प्रथम-सूत्र-वैयर्थ्यम् ऐक-शास्त्र्य-पक्षे इति भवद्-उक्तं समाहितम् । अथ स्वारस्य-परीक्षां विमृशेम । ‘निर्विशेष-ब्रह्मणो निर्देष्टुम् अशक्यत्वात् अत्यन्त-सन्निकृष्ट-सङ्कर्ष-काण्ड-निर्णीत-सविशेष-मुखेन निर्विशेष-जिज्ञासा प्रस्तूयते’ इति भवद्-वाक्यम् । अत्र सङ्कर्षस्यात्यन्त-सन्निकृष्टत्व-कथनम् ऐक-शास्त्र्य-वासनां हृद्-गतां दर्शयति । इदञ् च वाक्यम्, ब्रह्म-पदं सविशेषे एव स्वरसम्, निर्विशेष-वस्तु तथा निर्देश्यत्वाभावे ऽपि कथञ्चिद् ग्राह्यम् इत्य् एव कथयत् निर्विशेष-ब्रह्मणि स्वारस्याभावम् अभ्युपगच्छत् शतदूषणीं भूषयत्य् एव । ‘अस्ति तावत् ब्रह्म नित्य-शुद्ध-मुक्त-स्वभावं सर्वज्ञं सर्व-शक्ति-समन्वितञ् च’ इति चकार-पूरणेन शाङ्कर-भाष्य-पठनम् अपि स्वाभिमत-स्थापन-प्रत्याशा-मूलम् ।
‘सविशेषांशो वाच्य-मर्यादया, निर्विशेषांशस् तु लक्ष्य-मर्यादया’ इति लेखनं निर्विशेष-ब्रह्मणि ब्रह्म-शब्द-स्थापकं वा नाशकं वा इति भवान् एव विभावयतु । ‘अथातो धर्म-जिज्ञासे’त्य् अत्र अधर्म-जिज्ञासेति पदच्छेदः न सर्व-मीमांसक-सम्मतः । धर्म-प्रत्यनीकतया धर्म-पद-वाच्यार्थानुबन्धिनिरूपणम् एव तत्र प्रायेण । भवता तु ब्रह्म-पद-वाच्यार्थ-भूतस्य सविशेषस्य अब्रह्म-पदेन अ-कार-प्रश्लेष-सम्पादितेन विवक्षितत्वम्, ब्रह्म-पदेन लक्ष्यस्य निर्विशेषस्य विवक्षितत्वञ् च वर्ण्यते । ‘भूतले घटो ऽस्तीति’ वाक्ये प्रयुक्ते घट-पटयोर् उभयोः तत्र सतोः उभय-विवक्षा-स्थापन-प्रवृत्तः कश्चित्, ‘घट-पदेन लक्षणया पट उपस्थाप्यते, अघट इति पद-च्छेदेन घटस्यापि ग्रहणम्; तद् अत्र पट-घटौ घटाघट-पद-दर्शितौ’ इति यद्य् उत्पादयेत्, तादृग् एवेदम् इति केयं कु-सृतिः? यदि नाम उत्तर-सूत्रेण, ‘नेति नेती’ति ब्रह्म लक्षितम् अभविष्यत्, ब्रह्म-शब्देनेह लक्षणया निर्विशेषम् अग्रहीष्यत, सविशेषस्यैव हि तत्र लक्षणम् उच्यते । तत् कथम् अत्र वाच्यार्थतया सविशेषस्याविवक्षितेति ।
यत् तु न्याय-रक्षा-मणि-ग्रहणेन वर्णनम् — निर्विशेष-मात्र-प्रतिज्ञायाम् अपि सविशेषोपासनं नासङ्गतम् — उभयोर् वस्तुत ऐक्यात्, सविशेषोपासनस्य् अपि निर्विशेष-ब्रह्माश्रित्यैव फल-पर्यन्तत्वाद् इति । तत्र निर्विशेष-जिज्ञासामात्र-प्रतिज्ञायाम् अपि सविशेषोपासन-मीमांसा नासङ्गतेत्य् अर्थः वक्त्रभिमत इति भाव्यम् । तत्र - ‘सर्वं खल्व् इदं ब्रह्मे’ति सर्वस्य् अपि ब्रह्मणो भेदाभावात् सर्वं निरूपयितुं शक्यम् इति किम् असङ्गतं स्यात्? सविशेषोपासनस्य निर्विशेष-ब्रह्माश्रयेण फल-पर्यन्ततेत्यस्य च को ऽर्थः? । न ह्य् उपासन-प्रीतं निर्विशेषं सत् ब्रह्मानुग्रहीष्यतीति सुवचम् । अथ उपासने विशेष्योतया विषयत्वमात्रम् इति चेत् — किं निर्विशेषत्वेन तस्य विषयता?, उत वस्तु-मात्रस्य ? - आद्ये व्याहतिः। अन्त्ये, सविशेष-निर्विशेषैक्यात् अधिकं न किञ्चित् । लौकिक-नरेश्वराद्युपासनम् अपि ब्रह्माश्रित्यैव फल-प्रदम् इति तादृशम् अपि वक्तव्यं भवेत् । वस्तुतो ब्रह्म प्राग् एव ज्ञातम् । निर्विशेषत्वम् एव तस्य ज्ञापनीयम् । विवादग्रस्तस्य जिज्ञासितस्य सहेतुकम् उपपादने अप्रवृत्त्य प्रति-सूत्रं सविशेषम् एव दर्शयन् सूत्रकारः कथं निर्विशेष-जिज्ञासा-प्रतिज्ञाकरः स्यात्? एवंरीत्या च सर्व-सूत्रा-स्वारस्यम् एव स्वयम् एव दर्शितं भवति ।
परीक्षिन्-महाराज-प्रश्नस्य प्रतिवचने भगवता शुकेन निर्विशेषं ब्रह्म सविशेष-मुखम् उपदेश्यम् इत्य् उक्तम् इति यद् उक्तम् - तत्र प्रतिवचने निर्विशेषत्व-कथा-लेशतुषो ऽपि न लक्ष्यते । तत् खलु वाक्यं भवद्-उपात्तम् —
बुद्धीन्द्रिय-मनः-प्राणान् जनानाम् असृजत् प्रभुः ।
मात्रार्थं च भवार्थं च आत्मने कल्पनाय च ॥
इतीदम् एव । प्रश्न-श्लोकश् च —
ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुण-वृत्तयः ।
कथं चरन्ति श्रुतयः साक्षात् तु सद्-असततः परे ॥
इति । अत्र प्रत्युत्तरारम्भे जनानाम् इति जीव-बहुत्वम्, प्रभुर् इति भगवतस् ततो भिन्नस्य सृष्ट्यौपयिकं सर्वांशितः सविशेषत्वञ् च स्पष्टम् उक्तम्; न निर्विशेषस्य वाचकं किञ्चिद् अस्ति । उत्तरार्धे, ‘आत्मने’ इति पदेनापि प्रभु-पदोक्त-विशिष्ट-परामर्श एव स्वरसः । न पुनर् अप्रामाणिक-निर्विशेष-ग्रहणम् । ‘आत्मने, कल्पनाय’ इत्य् अत्र, अकल्पनायेत्य् अकार-प्रश्लेषो ऽपि नापेक्षितः । अयम् अत्र विशिष्ट-श्लोकार्थः — स भगवान् जीवात्मनां पुनर्-जन्म-प्राप्तेः प्राक् यः सूक्ष्म-देहो भवति तदर्थम् — तत्र निविश्य स्थित्यर्थम्, तथा स्थूल-देह-प्राप्तौ सांसारिकाभ्युदयाद्यर्थम्, परम-पुरुषार्थ-भूताय स्वस्मै तेषां जीवानां योग्यता-सम्पत्तये च बुद्धीन्द्रिय-मनः-प्राणान् असृजद् इति । तानि खलु जीवैः सह सदा सन्तीति, ‘तद्-अन्तर-प्रतिपत्तौ रंहति सम्परिष्वक्तः’ इति सूत्रे स्पष्टम् । अतो जनार्थम् एव प्रभुणा । तेषां सृष्टत्वात् प्रभुर् अयं सच्-छब्द-वाच्येभ्यो जीवेभ्यो भिन्न एव । असच्-छब्द-वाच्यस्याचेतनस्य चेतन-कार्यार्थं स्थितस्य प्रभौ सत्त्वादि-गुण-कार्यानाधायकत्वात् स तथा निर्गुणश् च । अथापि श्रुतयः कथं तत्र भगवति चरन्तीत्य् एतत् तु एवं मन्तव्यम् इति भगवान् शुकः प्रश्नस्य प्रत्युत्तरं पश्चाद् एव वक्ष्यति प्रश्न-श्लोको ऽपि निर्विशेषस्य ब्रह्मणः कथं श्रुति-बोध्यत्वम् इत्य् एवं-परो न । उत्तरे निर्विशेषत्वानुक्तेः; बहु-विशेष-सद्-भावस्य श्रुति-गीतातो ऽवसीयमानत्वात्; पूर्वं निर्विशेषत्वानुक्त्या तथा ऽनुवादायोगाच् च । तद् अयं प्रश्नार्थः - ब्रह्मणः ब्रह्म-वाचिभिः पदैः निर्देशः, तस्य बहु-विध-गुण-विग्रह-विभूति-वर्णनञ् च एतावत् कृतं श्रुत्याप्य् उपनिषदा प्रतिपाद्यत इति युक्तम् । तावता तस्य सर्व-वेद-वेद्यत्वं कथम्? तस्य चेतनाचेतन-पदानिर्देश्यत्वात्; तेषां सत्त्व-रजस्-तमो-मयतया ततो ऽस्य भेदात् । अतस् तत्-पर-कर्म-काण्डाद्य्-अशेष-वेद्यत्वं कथम् इति । अतो भागवत-प्रधानोक्तस्य भागवतस्य स्वानुकूलतया ग्रहणं भगवत्-कल्याण-गुणाद्यपलापि-कृतम् अयुक्तम् एव ।
अनन्तरञ् च, “साक्षात् ब्रह्मणि शब्द-वृत्त्यनुपपत्ताव् अपि परम्परया, नेति नेतीति निषेध-मुखेन लक्षणया प्रकारान्तरेण च शब्द-वृत्त्युपपत्तिः व्याख्याता” इति लिखन्ती शत-भूषणी व्यक्तम् एव दर्शयति स्वाभिमत-निर्विशेष-ब्रह्म न वेदे सूत्रे वा शब्देन स्वरसतो बोध्यते, किन्तु लक्षणादिना गत्यन्तरेणेति । तत् कथम् अद्वैति-मते सूत्रास्वारस्यम् ? । एवञ् च सूत्रास्वारस्यभङ्ग-वादे ओम् इत्य् उत्तरम् एव शतभूषण्या कृतं भवति । तद् एतत्-कृत्यं च अद्वैत-मत-दूषण-भूषणम् एवेति सार्थं नाम । कथञ् च सूत्रकारः, यथा अद्वैतिनः स्वग्रन्थे निर्विशेषं स्वाभिमतं तथा नेति-नेतीत्यादि-निर्देष्टव्य-क्रमेण न निरदेक्ष्यत्, यदि अद्वैतम् एव मृषा-वादि-मतं स्वयम् अप्य् अमंस्यत । न खलु अद्वैत-ग्रन्थस्य निर्विशेष-ब्रह्म-निरूपणे स्वारस्यं नास्तीति कश्चित् प्रतिपद्यते । तद् एवं सर्वेणापि सूत्रेण सविशेषस्यैव शारीरके निरूपणात् तद्-आनुगुण्येन प्राग्-उक्त-रीत्या संकर्ष-काण्डानन्तरं ब्रह्म-जिज्ञासा-प्रतिज्ञा स्वरसत एव युज्यत इति वस्तुतः पूर्व-भाग-विचारात्मकत्वे संकर्ष-काण्डस्य सम्पत्ति-पन्ने वेदान्तोपबृंहणार्थं तद् इति किं मिथ्या-कल्पना-मूलेन प्रथम-सूत्र-वैयर्थ्यापादनात्मना पिष्ट-पेषणे? ब्रह्म-शब्द-वृत्त्यनुपपत्ति-वाद इति वाद-नामापि यथावद् अगृहीत्वा ‘ब्रह्मणि शब्द-वृत्त्यनुपत्ति-वाद’ इति कृत्वा तत्-परीक्षायां यद् उक्तम्, तत् तत्रैव निरसिष्यामः । साक्षात् शब्द-वृत्त्यनुपपत्तिं स्वीकुर्वता च भवता शब्द-स्वारस्यं सम्यक् त्यक्तम् एवेत्य् अलम् अत्र ।
अथ लिखति शत-भूषणी – जन्मादि-सूत्रं प्रथम-सूत्र-प्रक्रान्तस्य ब्रह्मणः अभिन्न-निमित्तोपादानत्वेन लक्षण-कथनार्थम् इति सम्प्रतिपन्नम् इति । तत्र प्रकान्तं हि निर्विशेषं ब्रह्म । तत्र निमित्तत्वोपादानत्वयोर् एकतरस्याप्य् अभावे का कथा अभिन्न-निमित्तोपादानत्वस्य? सविशेषं लक्ष्यति चेत् – कथं प्रकान्त-ब्रह्म-लक्षणम् एतत्? । प्रथम-सूत्रे ब्रह्म-शब्दस्य निर्विशेषे लक्षणा हि भवद् इष्टा । अत्र यद् उक्तं रत्न-प्रभायाम् –
यथा रजतं शुक्त्येर्लक्षणम्, यत् रजतं सा शुक्तिर् इति, तथा यत् जगत्-कारणं तत् ब्रह्मेति कल्पितं कारणत्वं तटस्थं सदेव ब्रह्मणो लक्षणम् ।
इति - तेन किमुक्तं भवति ? अरजतं शुक्तिरितिवत् अजगत्कारणं ब्रह्मेति विवक्षितमिति । अत्यन्तस्वरस एवं तर्हि सूत्रार्थः । सूत्रं जन्मादिकारणं ब्रह्मेत्येतावदेव गमयति ; न तु जन्मादिकारण सर्वेश्वरत्वेनाध्यस्तं ब्रह्मेति । शुक्तौ रजताध्यासवत् ब्रह्मणि जगदध्यासो भवतीत्यस्येष्टत्वे च जगदित्येव लक्षणं ब्रूयात् । न तु जगत्कारणत्वं ब्रूयात् । लौकिक-परीक्षक-सर्वानुभवात्यन्त-दूरं सर्व-जगन्-मिथ्यात्वं प्रथम-सूत्रे, ‘अथात इत्य् अनेन सुज्ञातम् इति, ब्रह्म-शब्देन निर्गुणं ब्रह्म स्वरसतो वेद्यत इति, जगत्-कारणं ब्रह्मेति कथयता द्वितीय-सूत्रेण रजताध्यासाधिष्ठानं शुक्तिर् इतिवत् जगत्-कारणाध्यासाधिष्ठानं ब्रह्मेत्य् एव स्पष्टं ज्ञायत इत्य् एवम् आदयो वादाः न अनभिनिवेशि-सहृदय-परीक्षक-सन्निधौ प्रस्तोतुम् अर्हाः । वस्तुतो जगद्-अध्यासाधिष्ठानम् इत्य् एव सूत्रेण तन्-मते भाव्यम् । किञ्च रजताध्यासाधिष्ठानं शुक्तिः रजत-कारणत्वेन न व्यवह्रियते । भ्रान्त्य्-अपगमानन्तरं तत्त्व-ज्ञानिना क्रियमाणो ऽपि व्यवहारः रजत-प्रतीतिर् दोष-मूलेति दोषस्यैव कारणत्व-विषयकः । भवन्-मते शुक्ति-रजत-स्थले रजत-कारण-दोषाध्यासाधिष्ठानत्वं च न शुक्ताव् अस्तीत्य् अलम् अद्य ।
तद् एवं निर्विशेष-ब्रह्मणो लक्षणे वक्तव्ये सगुणस्यैव लक्षण-कथनम्, प्रथम-सूत्रे निर्विशेषं न विवक्षितम् इत्य् एव ज्ञापयेद् इत्य् उक्तम् । अथ निमित्तोपादानैक्यं भवन्-मते कथम् इति पृच्छामः । निमित्तत्वं हि कर्तृत्वम् उपादान-गोचरापरोक्ष-ज्ञान-चिकीर्षा-कृतिमत्त्व-रूपम् ईश्वर-निष्ठम् । उपादानत्वं तु यदि जगद्-आकारेण परिणममानत्वम् तर्हि तत् अविद्या-निष्ठम् एवेति न ब्रह्मण उपादानत्वम् । यदि जगद्-अध्यासाधिष्ठानत्वम्, तदापि तद् अधिष्ठानत्वं नेश्वरत्वाकार-विशिष्टे ऽस्ति । एवं जगद्-आकारेण परिणमद्-अविद्याधिष्ठानत्वम् उपादानत्वम् इति पक्षे ऽपि अधिष्ठानत्वस्य ब्रह्म-मात्र-निष्ठत्वात्, कर्तृत्वस्य चेश्वरत्व-विशिष्ट-निष्ठत्वात् अभिन्न-निमित्तोपादानत्वं कथम्? निमित्तत्वोपादानत्व-प्रयोजकाकार-भेदे ऽपि निमित्तत्वोपादानत्वयोर् एक-ब्रह्म-व्यक्ति-गतत्वात् अभिन्न-निमित्तोपादानत्वम् अक्षतम् इति चेत् - एवं विवक्षन् भवान् कथं विशिष्टाद्वैत-मते अभिन्न-निमित्तोपादानत्वं न भवतीत्य् आक्षिपति । उपादानत्वं सूक्ष्म-चिद्-अचिद्-विशिष्ट-निष्ठम् ; निमित्तत्वं ब्रह्म-मात्र-निष्ठम् इति वैषम्ये सत्य् अपि एक-व्यक्ति-गतत्वस्याक्षतत्त्वात् । इयांस् तु विशेषः उपादानत्वम् अध्यासाधिष्ठानत्व-रूपं वा, अविद्याधिष्ठानत्व-रूपं वा लोके क्वाप्य् अप्रसिद्धम् इति तथा निर्वचनं न स्वीकारम् अर्हति । पूर्वावस्थाश्रयत्व-रूपम् अस्मद्-इष्टम् उपादानत्वं पुनर् लोक-क्लृप्तं ब्रह्मण्य् अप्य् अबाधितम् इति । व्युत्पादयिष्यत इदम् उपरिष्टात् ।
यत् तूक्तम् चिद्-अचिद्-विशिष्टत्वं यदि प्राग् एव प्रतिपन्नम् ; व्यर्थं तर्हि इदं लक्षणम् इति - तत् लक्षण-कथन-प्रयोजनं किम् इत्य् अपरामर्श-मूलम् । ‘यतो वा इमानी’त्यादि-वाक्यं हि यच्-छब्द-घटितत्वादिना कारणत्वानुवादेन कारणे निरतिशय-बृहत्त्व-स्थापनार्थं प्रवृत्तम् । कारण-वाक्यानि च ‘सद् एवेदम्’ इत्यादीनि पुरोवाद-रूपाणि । तत्र च ‘ऐतदात्म्यम् इदं सर्वम्’ इति कारणे चिद्-अचिद्-वैशिष्ट्यं प्रतिपन्नम् एव । अतो ब्रह्म-शब्दस्यानेकत्र प्रयोगात् विशयानं प्रति कारणे ब्रह्मत्वम् अत्र ख्याप्यते । श्रोता च, कारणं चिद्-अचिद्-विशिष्टम् एवेति पूर्वम् एव निर्धारितवान् वा, पुनर् विचार्य निर्धारयन् वा तादृशे ब्रह्मत्वं लक्षण-वाक्यात् निश्चेष्यतीति कथं वैयर्थ्य-शङ्का? भूत-मात्रस्य ‘इमानि भूतानी’ति विवक्षायाम् अपि ब्रह्मण उपादानत्वं सु-निरूपम् इत्य् अपि स्वावसरे प्रतिपादयिष्यामः । यत् तु श्री-भाष्य-मतम् अविज्ञायैव, ‘नास्ति श्री-भाष्य-मते विशेष्यांशः साक्षाद् उपादानम्’ इति, ‘अचिद्-अंशस्य प्रकृतेर् एवोपादानत्वं श्री-भाष्य-मते’ इति च लेखनम्, तत् लोक-सिद्धस्योपादानत्वस्य स्व-मते ब्रह्मण्य् अभावात् आपतितां न्यूनतां श्री-भाष्य-मते ऽप्य् आरोप्यात्मानं कृतार्थयितुम्; अस्मन्-मते प्रकृतेर् इव ब्रह्मणो ऽप्य् उपादानत्वात् प्रकृति-गतस्योपादानत्वस्य ब्रह्मण्यारोपस्य कदा ऽप्य् अभावाच् च । “सति चैवं किं ब्रह्मणा? प्रकृत्यैव निर्वाहाद् ।” इत्यादि वचनं च ब्रह्म तर्केण साधयन्तं प्रति शोभते, न शास्त्र-योनि ब्रह्माभ्युपगच्छन्तं प्रति । प्रकृतेर् अचेतनाया अप्य् उपचारान् निमित्तत्वम् अस्तु, किम् इति ब्रह्मणो निमित्तत्वम् इति वदन् भवान् उपचारस्य मुख्य-पूर्वकत्वात् मुख्य-निमित्तत्वाश्रयं चेतनं नापलपितुम् अर्हतीति कथं ब्रह्म-निषेध इति कृतं भवतो वाग्-जालेन । ‘योगिनां मत इव ईश्वरस्योपादानत्वं श्री-भाष्य-मते ऽपि न’ इति च श्रुति-सूत्र-सूक्ति-विरुद्धा केयं कल्पना? अभिन्न-निमित्तोपादानत्वं सम्प्रतिपन्नम् इति च प्राक् भवतैवोक्तम् ।
यत् पुनः ‘अद्वैत-मते तु निमित्तत्वम् उपादानत्वं च साक्षाद् एव स्वरसम् उपेयत’ इति तत्र वक्तव्यं प्राग् एवोक्तम् । किञ्चेदं विवर्त-विधयोपादानत्वम्? यत इति पञ्चमी विवर्तोपादानम् एव ब्रह्म, न तु परिणाम्य्-उपादानम् इति किं स्वरसतो ज्ञापयति? प्रकृत्यधिकरणे भवद्-उपात्ते, ‘परिणामात्’ इति सूत्रञ् च न प्रस्मर्तव्यम् । तद् धि विवर्तोपादानत्वं व्यक्तम् एव व्यासेधति । तथा च कथं स्वारस्यम् ? । सापि विवर्त-विधा अध्यासाधिष्ठानत्व-रूपा न हि मृदादौ घटादिकं प्रति प्रत्यक्षिताऽ स्ति, येन भवन्-मते दृष्टान्तानुपरोधः स्यात् । न च प्रतिज्ञानुपरोधो ऽपि; शुक्ति-ज्ञानेन रजत-ज्ञाततायाः लोके अदर्शनात् । रजत-बाधितताया एव दर्शनात् । अध्यासाधिष्ठानत्वम् उपादानत्वम् इति च लोके न कुत्रापि संप्रतिपद्यते । शुक्तौ रजतम् उत्पन्नम् इति, तत्र शुक्तिर् विवर्तोपादानम् इति, तद्-अज्ञानं परिणाम्य्-उपादानम् इति च कथम् अप्य् अननुभवात् । एवं सर्वं स्व-बुद्ध्या परिकल्प्य स्वरस-सिद्धम् इदम् इति वादो गुरु-विस्रम्भ-गृहीत-विपरीतार्थ-वासना-वासितान्तःकरण-मात्र-साक्षिकः । अत्र - प्रपञ्चात्मना परिणममान-मायाश्रयत्वेन निमित्त-कारणत्वञ् चेति निमित्त-कारणत्वं भवता विवृतम्; परिभाषादौ तु परिणममान-मायाधिष्ठानत्वम् उपादानत्वम् इत्य् उक्तम् । तद् अत्रोपादानत्वम् एव निमित्तत्वं मन्यत इत्य् आयाति । न ह्य् आश्रयत्वम् अधिष्ठानत्वञ् चात्र विभिन्नम् । तद् एवम् अभिन्न-निमित्तोपादानं विवक्षता निमित्तत्वोपादानत्वयोर् अप्य् अभेदो मन्यत इव । अपि च मायाश्रयत्वं कथम्? मायाया मिथ्यात्वेन तद्-आश्रयत्वं परमार्थ इति न युक्तम् । अथ मायाश्रयत्वं मायाध्यासाधिष्ठानत्वम् एव चेत् तर्हि ब्रह्मणि मायोपादानत्वम् उक्तं स्यात् । अध्यासस्याज्ञान-मूलकत्वात् मायाध्यास-मूल-भूताज्ञानान्तर-स्वीकारापातश् च । मायानादित्वादि-भङ्गश् च । अथ न मायाध्यासः; किन्तु मायाश्रयत्वाध्यास इति चेत् - तर्हि मायाश्रयत्वाभावात् तद्-रूपं निमित्तत्वम् उपादानत्वं वा नास्तीत्य् एवोक्तं भवति ।
मायाश्रयत्वं मिथ्या चेत् विवर्तित्वं तथा कुतः ।
परिणामत्वम् एवास्तु ब्रह्मणो भास्करीयवत् ॥परिणामस्य मिथ्यात्वान् न हेयास्पदता भवेत् ।
मिथ्या व्यावर्तमानत्वात् प्रपञ्चो ऽयं घटादिवत् ॥इतीव वदतां श्रौतीं बाध-बुद्धिञ् च पश्यताम् ।
दोषं विना ऽपि मिथ्यात्वं स्याद् अतो न विवर्तिता ॥
कार्याधिकरणान्तगतेन च, “मृदादि-दृष्टान्तैर् हि सतो ब्रह्मण एकस्य सत्यत्वं विकारस्य च अनृतत्वं प्रतिपादयच् छास्त्रं नोत्पत्त्यादि-परं भवितुम् अर्हति” इति शाङ्कर-भाष्येण गल-हस्तितम् एव स्वार्थ-तात्पर्यं कारण-श्रुति-निकरस्येति जगज्-जन्माद्यपलापाद् गतम् एव जन्मादि-सूत्रेण । एवं जन्मादि-सूत्र-स्वारस्य-भङ्गात् कृत्स्न-ब्रह्म-मीमांसा-शास्त्र-स्वारस्य-भङ्गश् चाद्वैत-मते ऽस्मिन् स्पष्टः ।
यत् तु — ‘शास्त्र-योनित्वाद् इति सूत्रं तत्त्व-ज्ञान-मात्रात् मोक्ष इत्य् अद्वैत-मते स्वरसम्; न तूपासनान् मोक्ष इति श्री-भाष्य-मते’ इति तन् न । इदं हि शास्त्र-पदं तत्त्व-पर-वाक्य-परम्, चोदना-पदं विधायक-वाक्य-परम् इति वैलक्षण्य-परामर्श-मूलकम् । शासनाच् छास्त्रम् इति शास्त्र-पदम् अपि विधि-परं प्रयुज्यत एव । उपपद्यते च तत् । तथा च वार्तिकम् -
प्रवृत्तिर् वा निवृत्तिर् वा नित्येन कृतकेन वा ।
पुंसां येनोपदिश्येत तच् छास्त्रं तूपपद्यते ॥
इति । शाङ्कर-भाष्ये च ब्रह्म-चोदनेति चोदना-पदेनापि सिद्ध-पर-वाक्य-निर्देशः कृतः । आस्तां तावद् इदम् । शांकर-प्रथम-योजनायाम् अत्राधिकरणे सर्वस्यापि वेदस्य ब्रह्म कारणम् इति वक्तव्यम् इति न शास्त्र-पदं सिद्ध-पर-वाक्य-मात्र-परम् । शास्त्रस्य ब्रह्म योनिर् इति प्रथमं पक्षं परित्यज्य शास्त्र-गम्यत्वं ब्रह्मण इति पक्षे शास्त्र-पदेन तत्त्व-पर-वाक्य-मात्र-ग्रहणे ऽपि न श्री-भाष्य-मते स्वारस्य-भङ्ग-लेशः । न हि ब्रह्मणः विधि-वाक्यैकगम्यत्वं वा विधि-वाक्यैकवाक्यतापन्न-वाक्य-मात्र-गम्यत्वं वा श्री-भाष्यम् आह । किन्तु स्वतन्त्र-सिद्ध-पर-वाक्य-गम्यत्वम् । अतः कथं सूत्रास्वारस्यम्? मोक्ष-साधनत्वं तु वाक्यार्थ-ज्ञानस्य वा विधि-विधेयस्योपासनस्य वेत्य् अन्यद् एतत् । नैतत् प्रकृत-सूत्र-संबन्धि । अद्वैत-मत एव तु स्वारस्य-भङ्गः । निर्विशेष-ब्रह्मणः तत्त्व-पर-वाक्य-वेद्यत्वस्यापि वस्तुतो ऽभावात् । अन्यथा निर्विशेषत्व-हानेः । सगुण-ब्रह्मणस् तु उपासना-विषयत्वम् अद्वैतिनो ऽपि सम्मतम् इति श्री-भाष्य-मताद् अविशेष एव । जन्मादि-कारणत्वं पूर्व-सूत्र-कथितं निरतिशय-सार्वज्ञ्य-स्थापनेन दृढीकुर्वद् इदं शास्त्र-योनित्वाधिकरणं निर्विशेष-पक्षे स्वरसम् इति को नाम ब्रूयात्? नैयायिको ऽपि हि न ब्रह्मोपासनम् आनुमानिकम् आह; किन्तु ब्रह्मापर-पर्यायम् ईश्वरम् । उपासनं वेद-वेद्यम् इत्य् उच्यते । परं ब्रह्मापि वेदैक-वेद्यम् इति वेदान्ति-मतम् । तत्र न सूत्र-स्वारस्य-भङ्ग-लेशो ऽपि । प्रत्युताद्वैति-मते ब्रह्मणः, ‘घटो ऽस्ति, भाती’त्यादि-प्रत्यक्ष-गम्यत्व-स्वीकारात् शास्त्र-योनित्व-सूत्रं तन्-मत एवास्वरसम् । ‘सर्व-वेदान्त-प्रत्ययं चोदनाद्यविशेषात्’ इति उपासनम् एव मोक्ष-साधनम् आचक्षाणो भगवान् बादरायणः, वाक्यार्थ-ज्ञान-मात्रात् मोक्षम् अध्यवस्यतीति च कथङ्कारं कथ्येत?
एवं शास्त्र-योनित्वाधिकरण-स्वारस्ये स्थिते उपरि समन्वयधिकरण-स्वारस्यं स्व-मते दर्शयितुं यद् उच्यते - समन्वय-सूत्रं हि उपास्यम् अपि ब्रह्म पुरुषार्थत्वात् सत्यम् इति बोधयितुम् इति श्री-भाष्यम् इति तद् विचारणीयम् । एतद्-वाक्य-दर्शने हि समन्वयाधिकरणे, ब्रह्म न सत्यम् उपास्यत्वाद् इति पूर्वः पक्षः, ब्रह्मणः उपास्यत्वे ऽपि पुरुषार्थत्वात् सत्यत्वम् इति सिद्धान्त इति बुध्यते । न खल्व् एवं श्री-भाष्ये वर्णितम् अस्ति । उपासनाद्यन्वयं विना ब्रह्मणः प्राधान्येन प्रतिपादने प्रवृत्ति-निवृत्त्यन्वय-विरहात् वाक्यं प्रयोजन-पर्यवसायि न भवेद् इति ब्रह्म-विचाराक्षेपः पूर्व-पक्षि-कृतः । ब्रह्मणः साक्षात् पुरुषार्थत्वात् सुतरां सिद्ध-ब्रह्म-परम् अपि वाक्यं प्रयोजन-पर्यवसायीति सिद्धान्तः । भवद्-उक्तं तु ‘विध्यर्थत्वे ऽप्य् अबाधात् पर-विषय-वचः स्वार्थ-मानं भवेद्’ इत्य् अन्वारुह्योक्ति-रूपं (सूत्रकार-संमतम् अपि) न समन्वय-सूत्रार्थतयाभिमतम् इत्य् अवधेयम् ।
यद् अप्य् उच्यते समन्वय-पदं पुरुषार्थत्वेनान्वय-परं न कुत्रापि दृष्ट-चरम् इति तत् किं समन्वय-पदं प्रत्यक्षानुमानागमादि-प्रमाणान्तर-विरुद्धार्थ-बोधकत्व-रूपार्थे परं स्वरसं प्रयुज्यमानम् अस्ति? उपक्रमोपसंहाराद्यवगत-तात्पर्य-विषय-भूते ऽन्वयः समन्वयः । सो ऽर्थात् प्रमाणान्तर-विरुद्धो ऽपि ग्राह्य इति चेत् तादृश-तात्पर्य-विषय एव पुरुषार्थ-भूते ऽन्वयः परं समन्वयः कथं न भवति? सर्व-प्रमाण-विरुद्धे ऽर्थे तात्पर्यम् अपेक्ष्य सर्व-तद्-अविरोध-भाजि तात्पर्येणान्वय-करणम् एव हि श्रेयः । अपुरुषार्थ-भूत-प्रवृत्ति-निवृत्त्यादि-परं वाक्यं परम्परया पुरुषार्थ-पर्यवसानाद् अन्वितम् । साक्षात् पुरुषार्थ-बोधकं पुनः पारम्पर्यानक्षेपणात् समन्वितम् इति खलु श्री-भाष्यम् आह । सङ्कर्षम् आदाय पिष्ट-पेषणं तु प्राग् एव संघर्ष-पदम् इति किं वृथा विस्तरेण?
शतदूषण्याम्, ‘शारीरक-पञ्चमाध्याये निर्गुणं पारिभाषिकं ब्रह्म प्रतिपाद्यताम्’ इति शारीरक-पद-घटिते वाक्ये सुव्यक्ते स्वयं शारीरक-पदं विसृज्य ‘पञ्चमाध्याय-विषयत्वम् एव निर्विशेषस्य स्यात्’ इति सामान्येन शतदूषण्याम् उक्तम् इति कृत्वा, ‘पूर्व-मीमांसा-पञ्चमाध्यायस्य क्रम-निरूपिकत्वात् न ब्रह्म-निरूपण-प्रसक्तिः । अतः सप्तदशाध्याय-विषयो वा, एकविंशाध्याय-विषयो वा स्याद् इत्य् आपाद्यताम्’ इति यत् दूषणम् उक्तम् — तत् किं शतदूषणीस्थ-शारीरक-पदं प्रस्मृत्य, किं वा प्रकारान्तरेण दूषणम् अशक्यं मत्वा विप्रलिप्सया ऽन्यथा ऽनूद्य प्रत्युत्तर-प्रपञ्चनम् इति पृच्छामः । मीमांसा-पञ्चमाध्याय-मात्रं किम् इति गृह्यते । पाणिनि-कणाद-गौतमादीनां दर्शनादीनि अध्याय-कदम्बात्मकानि गृहीत्वा तत्-तत्-पञ्चमाध्याय-विषयत्वं निर्विशेषस्य न भवितुम् अर्हति अन्यार्थकत्वाद् इत्य् अपि कस्मात् न प्रपञ्च्यते ? अतः शारीरके चतुर्णाम् अध्यायानां सविशेष-ब्रह्म-परत्वं समर्थ्य निर्विशेषं न शारीरके उच्यते इति कथनार्थम्, शारीरक-पञ्चमाध्यायत एव निर्गुणं ग्राह्यम् — यदि शारीरक-पञ्चमाध्यायो ऽभविष्यत्, निर्गुणं ब्रह्म निरूपितम् अभविष्यद् इति सुष्ठूक्तं शतदूषण्याम् इति अलम् अशिक्ष्य-शिक्षण-प्रयासेन ।
अथ ईक्षत्यधिकरणं विशिष्टाद्वैत-मते न स्वरसम् इति विवक्षुर् भवान् सांख्य-मतं सुबहूपन्यस्य योगादि-मतान्य् अप्य् उपदर्श्य लिखति – विशिष्टाद्वैत-मते निमित्त-कारणम् एवेश्वरः अपृथक्-सिद्धि-वशाद् उपादानम् इव भवतीति; वस्तुतो निमित्त-कारणत्व-मात्रम् एवैतन्-मते स्वीकृतम् इति च । विशिष्टाद्वैति-सम्मतम् उपादानत्वं निरुच्य तस्य ईश्वरे असंभवं यावद् भवान् नोपपादयितुम् ईष्टे, तावत् किम् इति तन्-मते उपादानत्वं वस्तुतो नास्तीति, सांख्याद् अविशेष इति च ब्रूताम् । अद्वैत-मते निमित्तत्वम् उपादानत्वञ् च घटत इति वदंश् चाह - सप्तविंशः पुरुषश् चिन्-मात्रम् अपरं तत्त्वं मायाश्रय-विषयतया गीयमानं माया-तत्-परिणामाध्यासाधिष्ठानतया विवर्तोपादानं भवतीत्य् अद्वैत-मतम् इति । तत्र पञ्चविंश-षड्विंशोपरि सप्तविंशत्वेन पुरुषस्य गणने ऽपि वस्तुतः आत्मैक्यम् एव अद्वैतीष्टम् । माया-तत्-परिणामाध्यासाधिष्ठानत्वं विवर्तोपादानत्वम् इति लिख्यते । एवं तर्हि मायाध्यासाधिष्ठानत्व-रूपं मायोपादानत्वम् अपि ब्रह्मण्यापतेत् । अध्यासाधिष्ठानत्वम् उपादानत्वम् इति न लोके ऽपि क्वापि संप्रतिपन्नम् । शुक्ति-रजतम् इति किञ्चिद् उपादेयम् अपि नानुभविकम्, नतराञ् च शुक्तेर् उपादानत्वम् इति निरूपयिष्यामः । अतः अद्वैति-मत एवास्वारस्यम् । सत्य् एवं प्रकृति-मात्रोपादानत्वम् एव श्री-भाष्यानुयायिनो ऽपि साक्षात् स्वीकुर्वन्तीत्य् अन्यथैव क्रिया-समभिहारेण कथनं सर्वथैवोपादान-तत्त्वाविवेक-मूलम् एव ।
ईक्षत्यधिकरणं प्रधान-परिणामि-कारणता-निरास-परतया श्री-भाष्य-कारा व्याचक्षत इति यत्, इदम् अपि संभ्रम-विलसितम् । न हीक्षत्यधिकरणं तन्-निरासार्थम् । न च श्री-भाष्य-मते प्रधानस्य शक्य-विषये परिणामित्वं नास्ति । किं तर्हीक्षत्यधिकरण-कृत्यम्? सद्-विद्या-वाक्यं न प्रधान-परम् ; किन्तु चेतन-ब्रह्म-परम् इति प्रतिबोधनम् एव । वैलक्षण्याद् ब्रह्मण उपादानत्वासंभवेन प्रधान-मात्रोपादानत्व-शङ्का ‘न विलक्षणत्वाद्’ इत्य् अत्र परिहरिष्यते । अद्वैति-मते ऽपि माया प्रकृतिः परिणाम्य्-उपादानम् एवेति कथं तन्-निरास इह । तन्-मात्र-कारणता-निरास-परत्वं तु श्री-भाष्य-मते ऽप्य् अविशिष्टम् । समन्वयाध्याये कुत्रापि न सर्वथा प्रकृतेः कारणत्वं निषिध्यते । किन्तु सांख्य-संमतं कारण-भूतं प्रकृति-तत्त्वं तत्र तत्र न श्रुति-विवक्षितम्, किन्तु तद्-अतिरिक्तं ब्रह्मेत्य् एतावद् एव स्थाप्यते इति स्थिते मत-द्वय-प्रक्रिया-परित्यजनं सर्वत्रापार्थ-कल्पनञ् चायुक्तम् ॥
‘ईक्षतेर् नाशब्दम्’ इति प्रथम-सूत्रम् ईक्षण-रूपं गुण-विशेषं ब्रह्मणि ब्रुवत् कथं निर्विशेष-साधकम्? न्याय-निरूपणात्मके ऽधिकरणे हेतु-साध्य-रूप-धर्म-द्वयान्वय एव प्रति-सूत्रं विवक्षित इति निर्विशेष-ब्रह्म-साधकं न किम् अपि सूत्रं भवितुम् अर्हति । भवन्-मत एवेक्षत्य् अधिकरणं सर्वथैवास्वरसम् इति श्री-भाष्य एव कण्ठोक्तम् अपि ।
अपि च पृच्छामः - किम् इदम् ईक्षणं निर्विशेषे ब्रह्मणि स्वरसम् उत सविशेषे? आद्यस् तु न भवताम् अपीष्टः । अन्त्यस् तु दुरुपपादः । तथा हि - किम् इदम् ईक्षणं नाम? ज्ञान-विशेषः । ‘अहं जानामी’त्य् आदाव् आत्मनि ज्ञातृत्वं भ्रान्ति-सिद्धम् ; ज्ञान-क्रिया-कर्तृत्वस्य निर्विकारे आत्मन्य् असंभवाद् इति वदद्भिः तत् अहङ्कार-ग्रन्थि-स्थम् अङ्गीकृतं लोके । अन्तःकरण-वृत्ति-रूपा च ज्ञान-क्रिया अन्तःकरणैक-निष्ठेति निरूपयताम् ईश्वर-गतत्वेन श्रुतं ज्ञातृत्वम् अपि जीवोपाध्यन्तःकरण-तुल्यम् ईश्वरोपाधितया स्वीकृता-विद्या-वृत्ति-रूपम् अविद्या-वृत्तिः । अविद्या प्रकृतिर् मायेति पर्यायाः । एवञ् चेक्षितृत्वं मुख्यं प्रकृति-निष्ठम् एव भवतीति कथं प्रधानापर-पर्याय-प्रकृति-परत्व-निरसनम् ईक्षतिना भवितुम् अर्हति । यदि मन्येत - ‘ईक्षणम् आत्म-गुण एव; नाविद्यान्तःकरणादि-गतम्’ इत्य् एव सूत्र-काराशय इतो ऽवसीयत इति, तर्हि भवत्-पक्षो निरस्त एव । अथाविद्या-वृत्ति-प्रतिफलितं चैतन्यं मुख्यैक्षण-पदार्थ इति चेत्, तदा तद्-आश्रयत्वं न कस्यापि मुख्यम् अस्तीति सूत्रस्यासामञ्जस्यम् एव । गौणं तु चैतन्याश्रयत्वम् अविद्यायाम् अपि संभवेत् ; व्यङ्ग्यं चैतन्यं व्यञ्जकाहङ्कार-निष्ठं प्रतीयत इति भवद्-उक्तेः । अतः सच्-छब्द-वाच्यं न प्रधानम् इति न शक्यते साधयितुम् । कथञ्चित् चैतन्य-प्रतिफलनं वृत्तौ सांख्यैः सूपपादम् ; नाद्वैतिभिः । मिथ्या-भूते परमार्थ-संबन्धस्य प्रतिफलनादि-रूपस्यायोगात् । मत-द्वये ऽपि प्रतिफलनासंभव एव; नीरूपत्वात् वृत्ति-चैतन्ययोः । एवं चैतन्य-गतो वृत्ति-विशेष-संबन्ध ईक्षणम् इति पक्षो ऽपि व्युदस्यः । संबन्धस्य वस्तुतो ऽभावे ऽपि तद्-अभिमान एवेक्षितृत्वम् इति चेत् — अभिमानो ऽपि वृत्ति-विशेषः कथं तन्-निष्ठ इति विचारे पुनर् दुरुपपादत्वम् एव । अतो यावन् मुख्यं ज्ञातृत्वम् आत्मनि नेष्यते, तावद् ईक्षत्यधिकरण-स्वारस्यं न शक्यं रक्षितुम् ॥
आनन्दमयाधिकरणम् अद्वैत-मतास्थाकृत-शाङ्कर-योजनायाम् अत्यन्तास्वरसम् इति सर्व-परीक्षक-विदितम् एतत् । प्रपञ्चितञ् चेहाधिकरणे आ शाङ्कराद् आ चेदानीन्तनाद् उपनिषत्-सूत्रार्थोपन्यासः सर्वथैवानुपपन्न इति पर-पक्ष-निराकृताव् अस्मद्-आचार्यैः । शतभूषण्युक्तमपि विमृशामः - ‘आनन्दमयो ऽभ्यासात्’ इति सूत्रे आनन्दमय-पदम् आनन्दमय-पर्याय-परम् इत्याह । इदम् एवास्वरसम् । उपरि ब्रह्मेति साध्यांशे जिज्ञासादि-सूत्रानुसारेण सिद्धे तद् विहाय, ‘ब्रह्म-पद-घटित-पुच्छ-वाक्येन ब्रह्म-परत्वं साध्यम् । तेन आनन्दमय-पद-घटितावयवि-वाक्येन ब्रह्म-परत्वाभाव-सिद्धिर्’ इति पूरयति । एतद् अपेक्षया आनन्दमय-पद-घटित-वाक्येन ब्रह्म-परत्वम्, न तु पुच्छ-वाक्येनेत्य् उक्तौ किञ्चिद् इव स्वारस्यं रक्षितं भवेत् । आनन्दमयो ब्रह्म, न त्व् अन्य इत्य् अर्थस् तु अत्यन्त-स्वरसः । अभ्यासाद् इत्य् अपि यदि आनन्दमयस्य वा तद्-विशेषस्य वा ऽऽनन्दस्याभ्यासं ब्रूयात् तदैव स्वारस्यम् ; न तु अश्रूयमाण-ब्रह्म-पदाभ्यास-वचने । पुच्छ-ब्रह्म-वादे सति आनन्दमय-पद-स्थाने पुच्छ-पदेनैव प्रयुक्तेन भाव्यम् । एतद्-अधिकरण-स्वीकृतम् अस्वारस्यं संरक्षितुम् आकाशाद्यधिकरणेष्व् अपि आकाशादि-वाक्यम् एवाकाशादि-सौत्र-पदार्थ इत्य् अपार्थो न कल्प्यः । कथञ् च सूत्रकारः वाक्य-घटकेषु बहुषु पदेषु आनन्दमयाकाश-प्राणादि-शब्दान् एव सूत्रेषु निरदेक्ष्यत्, यदि तेषां ब्रह्म-परत्वं नामंस्यत । भूम-विद्यायां प्रक्रान्तोपदेश-पद्धति-विरहे ऽपि व्यत्यन्तर-बोधनं चिकीर्षितम् इति यथा, ‘एष तु वा अतिवदती’ति तु-शब्देनावधारितम्, तथा ‘ब्रह्म पुच्छम्’ इति व्यक्त्यन्तर-परम् इति कथम् अवगम्यते? प्रत्युत व्यक्त्यन्तर-भ्रान्ति-प्रसक्ति-लेशस्याप्य् अयोगम् एवानन्दमय-पद-घटनेन सूत्र-कृद् आविष्करोति । ‘तस्यैष एव शारीर आत्मा, यः पूर्वस्ये’त्य् अस्यानन्दमय-पर्यायान्तस्थस्यार्थः पर-पक्ष-निराकृतौ प्रपञ्चितो द्रष्टव्यः । अस्माभिश् च तैत्तिरीयोपनिषद्भाष्यपरिष्कारे सामञ्जस्यं सम्यग् व्याख्याय दर्शितम् एव । ‘विकार-शब्दान् नेति चेन् न प्राचुर्याद्’ इति सूत्रे, ‘विकार-शब्दस्य मयटः श्रवणात् आनन्दमयो न ब्रह्म, किन्तु पुच्छम् एव । अथैवं नेति कया ऽपि युक्त्या कथ्यते चेत्; तन् न; मयटो विकारार्थं एव प्रयोग-प्राचुर्य-दर्शनात्’ इत्यादि-रीत्या, अतिक्लिष्टात् सूत्र-भाष्य-दर्शित-प्रकारात् अन्येना ऽपि प्रकारेण भवत्-सिद्धान्तानुरोधिनम् अर्थं वयम् अपि दर्शयेम । परं तु स्वारस्यं सर्वात्मना त्यक्तम् इति वाक्यज्ञो नैव न जानीयात् । किं बहुना - भवत्-सूत्र-भाष्य-व्याख्यास्व् एव व्यक्तम् इदम्, यत् श्रुति-सूत्र-विरोधे, ‘गुणे त्व् अन्याय्य-कल्पने’ति न्यायात् श्रुत्य्-अनुरोधेन उपसर्जन-भूतस्य सूत्रस्य क्लिष्टो ऽर्थः कल्पनीय इति । सत्य् एवं कथं सूत्र-स्वारस्यं स्व-मते विवक्षतीति । एवम् आनन्दमयाधिकरण-पर्यन्त-प्रस्तावेन शत-भूषणी, आनन्दमयाधिकरणस्य यथा, तथैव पूर्वापराधिकरण-सूत्राणाम् अप्य् अद्वैति-मते अस्वारस्यम् एव भङ्ग्यन्तरेण दर्शयतीति तद्-वाचका विवेकिनो विदाङ्कुर्वन्तु ॥
एवं स्व-मत-स्थितम् अस्वारस्यं स्वयं प्रदर्शयन्त्य् एव शत-भूषणी लिखति — “स्व-मते स्वारस्यं शतदूषण्य् अभिमन्यते, तद्-अभिमान-भञ्जनार्थम् एवैतावत् प्रपञ्चितम्” इति । भञ्जनं प्रपञ्चितम् इत्य् अनुक्त्वा, भञ्जनार्थं प्रपञ्चितम् इति यद् उक्तम्, तावति संतुष्यामः । एतत्-प्रपञ्चनवैयर्थ्यमेवैतावद् उपापीपदाम ॥
‘चिन्-मात्रस्य स्व-प्रकाशत्वेन ज्ञानाविषयतया जिज्ञास्यत्वायोगात्’ इति शत-दूषणीम् अनूद्य यल् लिखितम्, ‘जिज्ञासा-पद-घटकं ज्ञानं तु, “अवगति-पर्यन्तं ज्ञानं सन्-वाच्याया इच्छायाः कर्म” इति भाष्यात् प्रमाण-जन्यम् एव; न चिन्-मात्रम्’ इति - तद् असंबद्धम् । ज्ञानस्य प्रमाण-जन्यस्य पद-घटकत्वं कथम्? फल-भूतावगत्यात्मकं ज्ञानं जिज्ञासा-पद-घटकज्ञाधात्वर्थ इति वेष्यताम्, अवगति-पर्यन्तम् इति भाष्याक्षर-स्वारस्यात् फल-भूतावगत्युपधायक-विचारात्मक-ज्ञानम् एव वा । तद्-विषयत्वं स्व-प्रकाश-चिन्-मात्रे दुरुपपादम् इति खलु शतदूषण्याशयः । यत् तद् उपर्युच्यते — ‘प्रमाण-जन्य-वृत्ति-व्याप्यत्वात् आवरण-निवृत्ति-मात्रेण प्रमाण-वेद्यम् इव’ इति - तत्र व्याप्यत्वम् एव दुर्वचम् इति वक्ष्यामः । वेद्यम् इवेति लेखनात् स्वयम् अपि वेद्यत्वाभाव एव स्वीकृत इति किं वृथाप्रयासेन । निर्विशेष-ब्रह्मणः सुतरां प्रमाणाविषयत्वम् एव । सविशेष-ब्रह्मण्य् अपि विशेषणांशे एव प्रमा-विषयत्वम्, न तु विशेष्यांशे इति विवेचन-प्रवृत्तेन च ब्रह्मणो जिज्ञास्यत्वायोग एव भङ्ग्यन्तरेण दर्शितो भवति । श्री-भाष्यानुसारे तु विशेषाणाम् इव ब्रह्मणो ऽपि कदाचिद् अप्य् अबाध्यत्वात् प्रमा-विषयत्वाच् च जिज्ञास्यत्वं सु-प्रतिष्ठितं भवतीति महद् अन्तरं मतयोः । यावद्-विषय-सत्त्वं मिथ्यात्वेनानिश्चीयमानार्थ-विषयकत्व-रूपं प्रामाण्यम् अव्याहतं व्यावहारिक-प्रामाण्ये ऽपीति यद् उक्तम्, तद् अपि न । शास्त्रार्थ-श्रवण-दशायाम् एव सर्वस्य मिथ्यात्वेन निश्चितत्वात् वाक्यार्थापरोक्षानन्तरम् एव सर्वस्य बाधिष्यमाणत्वात् बाधात् प्राग् एव मिथ्यात्वेन निश्चीयमानत्वम् अस्तीति कथं तादृशम् अपि प्रामाण्यं घटते इति ।
शक्यार्थम् इव लक्ष्यार्थम् अप्य् आदाय वाक्यस्य प्रामाण्य-वर्णनं सर्व-संमतम् इत्य् एतत् सत्यम् । अथापि ब्रह्म-पदादौ स्वरसार्थ-त्यागेन लक्ष्यार्थम् आदाय कथञ्चिद् उपपादन-प्रयासे स्वारस्य-भङ्ग एवेतीदं दुरपलपम् । एवञ् च सूत्र-स्वारस्य-भङ्ग-वादस्य न मात्रया ऽपि परिहारः कृतो भवति; प्रत्युत भङ्ग एव स्वीकृतो भवतीति परिपश्यतु भवान् । अत्राभिहितान्वय-वाद-प्रस्तावो ऽपि वृथा विस्तार-मात्रम् । अधिकम् अन्तर्-वादे ।
एवं ब्रह्मणः शब्दावाच्यत्वं स्वयम् एव सम्यक् संमत्याथ तद्-विरुद्धं यल् लिखितम् —
प्रत्यस्तमित-भेदं यत् सत्ता-मात्रम् अगोचरम् ।
वचसाम् आत्म-संवेद्यं तज्-ज्ञानं ब्रह्म-संज्ञितम् ॥
इति श्री-विष्णु-पुराण-वचनात् निर्विशेषं ब्रह्म ब्रह्म-शब्द-वाच्यम् इति तत्र निर्विशेषत्व-वाग्-अगोचरत्वात्मैक-वेद्यत्वैः सह ब्रह्म-शब्द-वाच्यत्वं व्याहतं कथं भवन्-मते ऽनुमन्यत इति भवान् एव विभावयतु । अनादि-वेद-घटके ब्रह्म-शब्दे, सांकेतिक-निरूढि-रूप-निर्विशेष-वाचकत्व-वचनञ् चासंबद्ध-प्रलापः । श्री-विष्णु-पुराण-वाक्यम् इदं श्री-भाष्य एव सविशेष-जीवात्म-विषयं सम्यग् उपपादितम् इति स्वावसरे दर्शयिष्यते ।
अथ जन्मादि-सूत्रोक्तं लक्षणं सविशेषस्यैवेति स्वीकुर्मः, सत्य-ज्ञानादि-वाक्याभिप्रेतं तु निर्विशेष-लक्षणम् इति यत् लिखितम् — तावता सूत्रस्यास्य सविशेष-विषयत्व-स्वारस्यम् एव संमतं भवति । एवञ् च सविशेष-जिज्ञासा-प्रतिज्ञैव प्राक् कृतेति तद्-आनुगुण्येन सङ्कर्ष-सामञ्जस्ये समालोचनीये निर्विशेष-प्रतिज्ञानं स्व-वाक्य-पूर्वापर-सन्दर्भादि-सर्व-विरुद्धं किम् इति कथ्यते? ब्रह्मणः सविशेषत्वं कल्पितम् इति कल्पना-कल्पकं न किञ्चिद् अस्तीति भवतैव क्षान्ति-पूर्णेन मनसा साधु चिन्त्यताम् ।
सत्य-ज्ञानादि-वाक्यं स्वरूप-लक्षण-परम् इति कथयित्वा तद्-उपपादन-प्रवृत्तेन भवता तत्र सत्यत्व-ज्ञानत्वादि-विशेषणानां व्यक्तं कथ्यमानत्वे ऽपि अनृत-जड-परिच्छिन्न-व्यावृत्तीनाम् उपस्थापनात् लक्षणया स्वरूप-परत्वम् अस्तीति इष्ट-सिद्ध्य्-उद्धार-पूर्वं यल् लिख्यते - तावता ऽपि भवद्-इष्टासिद्धिर् एव । सविशेष-ब्रह्म-लक्षण-परत्व एव सत्य-ज्ञान-वाक्यस्यापि स्वारस्यम् इत्य् एव हि तावता कथितं भवति ।
अनृत-जड-परिच्छिन्न-व्यावृत्तयो ऽपि विशेषा एवेति कथं सविशेषत्व-त्यागः? तासां ब्रह्म-स्वरूपाभेद इति समाधानं परित्यज्य उपलक्षणतयैव व्यावृत्तीनां भानात् न सविशेषत्वम् इत्य् उच्यते भवता । तर्हि सत्यत्वादीनाम् एवोपलक्षणतया भानम् इष्यताम् । किम् इति व्यावृत्ति-पर्यन्त-धावनम्?
शास्त्र-योनित्वाधिकरणस्य सम्यग् उपपत्तिः प्राग् एव प्रपञ्चिता । शाङ्कर-योजना-द्वये शास्त्रं प्रति योनित्वात् कर्तृत्वात् ब्रह्मणः सर्वज्ञत्वम् इति प्रथम-योजनायां जगत्-कारणत्वौपयिक-सर्वज्ञत्वाविष्करणात् सर्व-प्रकार-सविशेषत्वम् एव हि स्थापितं भवति । द्वितीय-योजनायां च यत् शास्त्र-गम्यत्वार्हं तस्यैव परीक्ष्यत्वागमनेन निर्विशेषस्यावाच्यस्यामेयस्यापरीक्ष्यत्वम् एव प्रतिष्ठापितं भवति । शास्त्र-गम्यत्वे च मिथ्यात्वं भवद्-दृष्ट्या आपाद्यमानं भवता दुष्परिहरम् ।
यत् तु प्रमाणस्य व्यावहारिकत्वम् इत्यादि अनन्वित-लेखनम् — तद्-आशयः कः? ‘भ्रम-विषयस्य प्रातिभासिकत्वे ऽपि भ्रमाभिलापक-वाक्यस्य व्यावहारिकत्ववत् प्रकृते ऽपी’त्य् अनेन किं विवक्षितम्? व्यावहारिक-प्रमाण-भावशास्त्र-वेद्यस्य ब्रह्मणो ऽपि प्रातिभासिकत्वं चेत् — अपसिद्धान्तः । भ्रम-विषयस्यापरमार्थत्वे ऽपि भ्रमस्य व्यावहारिकत्वाद् एव भ्रमाभिलापक-वाक्यस्यापि व्यावहारिकता । इहापि ब्रह्म-ज्ञानस्य व्यावहारिकत्वम्, शास्त्रस्य च तथात्वं कामम् उच्यताम्; ब्रह्मणः परमार्थत्वसिद्धिः कथम्? अथायम् आशयः - ब्रह्मणः परमार्थत्व-निबन्धनं ब्रह्म-प्रतिपादक-शास्त्रस्य पारमार्थिकत्वम् इति — तत्र पारमार्थिकत्वं नाम किं परमार्थ-प्रतिपादकत्वम्, उत स्वस्यापि परमार्थत्वम्? नाद्यः, हेतु-साध्ययोर् अविशेषात् । नान्त्यः, अपसिद्धान्तात् । न हि शास्त्रं भवन्-मते परमार्थ-भूतम् । प्रमाण-पारमार्थ्यम् अन्तरा प्रमेय-पारमार्थ्यं न भवतीति तस्य पारमार्थ्ये तत्-कारणस्याविद्यादेश् च पारमार्थ्ये तुल्य-नयात् जगत एव पारमार्थ्यम् इति अद्वैत-हानिर् एव । अथ सर्वम् अस्मद्-दृष्ट्या परमार्थ-भूतम् एव; जीवन्-मुक्त-दृष्ट्यैव मिथ्या-भूतम् इति चेत् - किं परमार्थत्व-मिथ्यात्वयोः एकत्र समावेशो भवतेष्यते, उत मिथ्या-भूते वस्तुनि परमार्थत्व-भ्रान्तिर् बद्धानाम् इत्य् उच्यते । आद्ये व्याहतिः । अन्त्ये शास्त्रस्यापारमार्थ्यम् एवोक्तं भवति । जीवन्-मुक्ताश् च यदि मिथ्येति पश्यन्ति, न तर्हि विहाराहार-व्याहारादौ प्रवर्तेरन् । यदि तथा न पश्यन्ति, तद्-दृष्ट्या ऽपि न मिथ्यात्वम् । अथ मिथ्यात्वालोचन-मात्रं तेषाम् इति चेत् - तत् बद्ध-भवादृशा-जीवन्-मुक्त-दृष्ट्या ऽपि अस्तीति को जीवन्-मुक्तेषु विशेषः? खण्डन-खण्ड-खाद्यकारस् तु वैतण्डिको न शास्त्र-प्रामाण्यं नापि ब्रह्म-सिद्धिं वक्तुम् अलम् इति प्रपञ्चयिष्यामः । वेदान्त-शास्त्रस्यापि तर्कात्मकत्वाद् इति शतदूषण्यां वेदान्त-शास्त्र-पद-विवक्षितम् इदम् इत्य् अविज्ञाय बहु प्रपञ्चनम् अपि भवतः प्रयास-मात्र-फलम् । तद् अयं सङ्ग्रहः —
मानाधीना मेय-सिद्धिः माने दुष्टे कथं मितिः? प्रातिभासिक-सत्ता ऽपि मानेनैव हि सिद्ध्यति ॥
अबाधितार्थ-बोधित्वं मानत्वं यदि मन्यते । शून्य-वादे ऽप्य् अबाध्यार्थ-बोधित्वं किं न मन्यते ॥
ईश्वरस्यैव मिथ्यात्वात् युक्त्या सिद्धेश् च हानितः । ईश्वरोक्ततया शास्त्र-प्रामाण्यञ् च सुदुर्भणम् ॥
तर्कस्य खण्डने शास्त्रं न मानं स्यात् तद्-अङ्गकम् । शास्त्र-योनित्व-सूत्रं तत् भग्नं मिथ्यात्व-वादिनाम् ॥
समन्वय-सूत्रं तु ब्रह्मणि प्रमेयत्व-पौष्कल्यं दर्शयत् अत्यन्ताप्रमेयस्य निर्विशेषस्य निरासकम् एव । यत् पुनर् अत्रोच्यते समन्वयः तात्पर्य-ज्ञान-विषयत्वं निर्विशेष-ब्रह्मणो ऽपि यावद्-वृत्ति-ज्ञान-सत्त्वम् अस्तीति - तन् न । वृत्ति-ज्ञान-विषयत्व-स्वीकारे मिथ्यात्वस्यापादितत्वात् । निर्विशेषत्व-वृत्ति-ज्ञान-विषयत्वयोर् मिथो विरोधेन तथा तद्-ग्रहणायोगाच् च । अतः पारमार्थिकं निर्विशेषत्वं मिथ्या-भूतं तात्पर्य-ज्ञान-विषयत्वं च न मिथो विरुद्धम् इत्य् एव वक्तव्यम् । एवं तात्पर्य-ज्ञानस्य मिथ्यात्वे साधकस्य मिथ्यात्वात् साध्यं निर्विशेषत्वम् अपि न सिद्ध्यति । किञ्च समन्वयाध्यायस् तावत् वेदान्त-वाक्यानां ब्रह्मणि समन्वयं दर्शयति । ईक्षत्यधिकरणादिषु सर्वज्ञ-सर्व-शक्ति-ब्रह्म-समन्वितत्वम् एव वाक्यस्य वर्ण्यत इति कथं निर्विशेषे समन्वयः सिध्येत? शाङ्कर-भाष्ये ऽपि, “तत् ब्रह्म सर्वज्ञं सर्व-शक्ती"त्य् आदिना सविशेष एव वाक्यानां तात्पर्येणान्वय उक्त इति न निर्विशेष-परत्वं समन्वय-सूत्रस्य । तत्र-तत्राधिकरणे जीव-परत्व-खण्डनेन सविशेष-ब्रह्म-परत्व-वर्णनं हि तात्पर्य-बलाद् एव ।
आनन्दमयाधिकरणे प्राचुर्याद् इत्य् अस्य मयटः प्राचुर्यार्थकत्वाद् इत्य् एवार्थ इति स्पष्टम् “प्राचुर्यार्थक-मयट्-प्रयोगाद्” इति शतदूषणी-वाक्यत एवेति तस्य सौत्र-पदस्य ब्रह्मण्यानन्दमयत्वासंभव-परिहारकत्वम् अक्षतम् । आनन्द-रूप-ब्रह्मण्यानन्द-प्राचुर्यम् असंभावितम् इति निर्विशेष-तत्त्व-सिद्धौ किल स्यात् । आनन्दमयस्य ब्रह्मत्वं प्रति अभ्यास-काष्ठापन्नानन्द-विशेष-वत्त्वम् एव हेतुः । अकाम-हत-श्रोत्रिये तद्-आनन्दस्यातिदेशे ऽपि न तस्यानन्दस्य श्रुताव् अभ्यासः कृतः; किन्तु आनन्दमय-गतानन्दस्यैवेति न अभ्यासाद् इति हेतुर् अनैकान्तिकः । प्राचुर्याद् इति तु न साक्षात् ब्रह्मत्व-साधक-हेतु-समर्पकम् । अतः, ‘आनन्द-पराकाष्ठाश्रयत्वेने’त्यादि-वाक्यम् अशुद्धम् अनन्वितञ् चेत्य् अलम् । ‘मुक्तात्मन एवानन्दमयत्वाभावे कैव कथा अकामहत-श्रोत्रियस्यानन्दमयत्वे’ इत्यादि-वाक्यं चास्मद्-अभिमताकाम-हत-श्रोत्रिय-पदार्थाज्ञान-मूलम् । आनन्दानन्दमययोः पर्यायत्वम् अस्मद्-इष्टम् इति न भृगु-वल्ली-विरोध-लेशो ऽपि । भवन्-मत एव तु विरोधः । अत एव ‘गुणे त्व् अन्याय्य-कल्पना’ इति सूत्राणाम् अन्यथानयनं भवत्-पूर्वैर् उक्तं भवता ऽपि स्वीक्रियते । एवं सूत्राणां स्वरसार्थ-त्यागेनार्थान्तरं क्लेशेन दर्शयता भवता सूत्र-स्वारस्य-भङ्गः स्वीकृत एवेति तत्-परीक्षा-प्रवृत्तिर् भवतो वृथैव; तत्राप्य् आदाव् इति विस्पष्टम् ।
ईक्षत्यधिकरणं सविशेष-ब्रह्म-परम् इति साधु भवतैव स्वीकृतम् । भवद्-अभिमतस्य विवर्तोपादानत्व-निर्वचनस्यात्यन्ताप्रसिद्धत्वात् भवन्-मत एव ब्रह्मण्य् उपादानत्वायोगः । अस्मन्-मते च प्रधान-विशिष्ट-ब्रह्मणः उपादानत्वस्याक्षतत्त्वात् प्रधान-मात्रस्य सच्-छब्दाभिधेयत्व-खण्डनार्थत्वाच् चेक्षत्य् अधिकरणस्य अस्मन्-मत एवाधिकरणोपपत्तिः । भामत्यादि-मत-तत्त्वं तु तद्-अवसरे शोधयिष्यामः । माया-मात्रोपादानत्वस्य बाधितत्वाद् इदम् अधिकरणम् अद्वैति-मते यदि न व्यर्थम्; तर्हि विशिष्टाद्वैति-मते ऽपि तत् तुल्यम् । अस्ति विशेषो ऽपि । अद्वैति-मते माया-तुल्यम् उपादानत्वं ब्रह्मणि दुर्वचम् । अस्मन्-मते तादृशम् अपि सुवचम् इति । वस्तुतः प्रकृतेर् उपादानत्वम् अस्ति न वेति विचारार्थम् ईक्षत्यधिकरणं प्रवृत्तम् इति न ब्रूमः । किन्तु सद्-विद्या जगत्-कारण-प्रकृति-परा, उत तादृग्-ब्रह्म-परेत्य् एतावद् एवेत्य् अपि ध्येयम् ।
आकाश-प्राण-ज्योतिर्-अधिकरणानि सविशेष-पराण्य् एवेति वदता च भवता निर्विशेष-ब्रह्मणि तेषां स्वारस्यं त्यक्तम् एव ।
आकाशाधिकरणे आकाश-पदेन भूताकाश-ग्रहणम्, उत विलक्षणस्य ब्रह्मण इति विचारः अद्वैति-मते अस्मन्-मते च समानः । श्रौत एवार्थो ग्राह्य इति वदताम् अस्माकं पूर्व-पक्षे आकाश-पदेन माया-ग्रहणम् इष्टम् इति कल्पनम् अपि निर्मूलम् । सूक्ष्माकाश-ग्रहणे ऽपि माया-ग्रहणाभावात् । सद्-विद्याया इव प्रकृताकाश-वाक्यस्यापि कारण-वाक्यत्वाविशेषात् साक्षात् श्रुतः आकाश-रूपो ऽर्थः दुष्प्रतिषेध इति श्रुति-प्राबल्येन ईक्षत्यधिकरणोपमर्देनाक्षेप इति स्थिते कथं पूर्व-पक्षानुत्थिति-वर्णनम्? अयोग-व्यवच्छेदार्थे पादे ऽत्र, ‘ब्रह्म मा भूत्; आकाश एव कारणम् अस्तु’ इति पूर्व-पक्षे क्रियमाणे, प्रवर्त्यमान-पूर्वोत्तर-पक्ष-प्रकारापरिज्ञानेन, “आकाशाधिकरणे ऽपि विशिष्ट-ब्रह्म-कारणत्व-ग्रहणेनैवास्माभिः पूर्व-पक्षः प्रवर्तनीयः” इत्यादि-लेखनम् अनवकाशम् एव । ब्रह्मणः औपचारिकम् उपादानत्वम् इति, शरीर-वाचक-शब्दस्य शरीरि-पर्यन्तत्वं केवलं पारिभाषिकम् इति च हेतूपन्यासम् अन्तरा सहस्र-कृत्वः कथन-मात्रेण न तद्-औपचारिकत्व-पारिभाषिकत्व-स्थापन-प्रसक्तिः । स्व-पर-मतयोर् अधिकरण-शरीरे स्थितं वैषम्यं कस्मिन्न् अंश इत्य् अविविच्य किम् इत्य् अकाण्ड-ताण्डवम् एवम्? आकाश-प्राण-ज्योतिर्-अधिकरणानां सविशेष-विषयत्वस्य स्वयम् एव स्वीकृतत्वात् निर्विशेषे सूत्र-स्वारस्यं नेति प्रकृतस्य दूषणं नैवम्-भूत-विस्तर-कार्यम् इति युक्तो ऽत्र भवतो जोषम्-भावः ।
इन्द्र-प्राणाधिकरणम् आदाय क्रियमाणः कोलाहलो ऽपि विचित्रः । अत्र शास्त्रेण सूक्ष्म-चिद्-अचिद्-विशिष्टं ब्रह्म-तत्त्वम् उपदिश्यत इति श्री-भाष्य-दृष्टिर् इति स्वयं कल्पयित्वा इन्द्रस्य स्थूल-चित्त्वात् तत्त्वं नोक्तं भवतीति दूषयितुं यत्यते । मुक्तात्मनाम् एव शास्त्र-दृष्टं तत्त्व-भानं भवेत्, नोपासकानाम्, जीवन्-मुक्त्यनङ्गीकाराद् इति किम् अपि किम् अप्य् उच्यते । मुक्तात्मनां स्वतः प्रसृत-मतीनां शास्त्र-दृष्टिः किम् अर्था? जीवन्-मुक्त्यनङ्गीकारे दर्शन-समानाकार आत्मत्व-साक्षात्कारः कथम् अनभिलपनीयः स्यात्? इन्द्र-प्राणयोः शरीरात्म-भावो मा भूत्; वामदेव-मन्वाद्योश् च । इन्द्र-शरीरकः प्राण-शरीरकः वामदेव-शरीरकः मन्वादि-शरीरकश् च परमात्मा एक इति स्थिते सामानाधिकरण्यं कथं दुरुपपादम्? एवञ् च बाधायां सामानाधिकरण्यम् इत्य् एतद् विना नान्या गतिर् इत्य् आद्याडम्बरस्य नावकाशः । बाधा-पक्षे तु मां मोपास्स्वेति विपरीतापत्तिः ।
अत्रेदम् अवधेयम् — अद्वैत-मत-रीत्या वायुर् वा, इन्द्र-देवता वा, सामान्यतो जीवो वा, ब्रह्म वा प्रतर्दन-विद्यार्थ इति विचारः । अत्र तुरीय-पक्षः सिद्धान्तः । तत्र शाङ्कर-भाष्ये उपास-त्रैविध्याद् इत्य् अस्य उपासा-त्रैविध्य-प्रसङ्गाद् इत्य् अर्थ-वर्णनेनैका व्याख्या । सा कामं निर्विशेष-ब्रह्म-विषये कथञ्चित् समन्वेतु । वस्तुतस् तत्रापि ‘एष एव साधु कर्म कारयति — एष लोकाधिपतिर् एष लोकेशः’ इत्यादीनाम् अनन्वयात् सविशेष-परत्वम् एव साधीयः । अथवेति यत् व्याख्यानान्तरं भाष्यारूढम् उपासा-त्रैविध्याद् इत्यस्य यथाश्रुतार्थ-स्वीकारेण, तत्र सविशेष-परत्वं निर्विवादम् । यद्य् अपि भामत्याम्, ‘स्व-मतेन व्याख्याय प्राचां वृत्तिकृतां मतेन व्याचष्टे’ इत्य् उक्तम् — तथापि द्वितीय-व्याख्यानं पूर्वाचार्य-व्याख्यानुसारि, प्रथमं स्व-कपोल-कल्पितम् इत्य् अत्रैव तत्-पर्यवसानम् । द्वितीय-व्याख्यानस्य भाष्य-कृद्-अनिष्टत्वे आनन्दमयाधिकरणादाव् इव पूर्वम् अनूद्य परिहरेत् । अत इदम् अप्य् अधिकरणं सविशेष-विषयम् अद्वैति-मत इति सिद्धं प्रथम-पादः सविशेष-पर एवेति ॥
तत्त्वम् अस्यादि-वाक्यं सर्वम् अपि सविशेष-विषयकम् एव प्रतीयते । पूर्वापर-सन्दर्भ-परामर्शेन प्रतीते ऽर्थे ऽनुपपत्ति-लेशो ऽपि नास्ति । निर्विशेषे तात्पर्य-ग्राहकं प्रमाणम् अपि न किञ्चित् । एवं स्थिते निर्विशेष-ब्रह्म-वादो न कुत्राप्य् अवकाशम् अश्नुते । महता प्रयासेन तन्-निरूपण-परो ऽपि कश्चित् तत्र शब्द-स्वारस्यं नैव दर्शयितुम् ईष्टे । सूत्राणि च सविशेष-विषयाणि प्राय इति तत्र स्वारस्यं निर्विशेषे कथम् इत्य् आक्षेपस् तद्-अवस्थ एव सर्वदेति ॥
(द्वितीयाध्याय-विषयः)
अथाविरोधाध्याये पाञ्चरात्र-प्रामाण्यस्य श्री-भाष्ये स्थापितत्वात् स श्री-भाष्य-परिपन्थीत्य् उच्यते; पाञ्चरात्रं हि श्री-भाष्यस्य प्राण-बन्धुर् इति च । किम् अविरोधाध्यायः पाञ्चरात्र-प्रामाण्य-प्रतिक्षेपक इति मत-दृष्ट्या श्री-भाष्य-परिपन्थीति मन्यते, किं वा पाञ्चरात्र-प्रामाण्य-स्थापनात् परिपन्थीति । श्री-भाष्य-प्राण-बन्धुत्वेन भवद्-अभिमतं पाञ्चरात्रं प्रामाणं स्थापितं चेत्, कथम् अविरोधाध्यायः परिपन्थी स्यात्? अथ सर्वेर् अप्य् अप्रमाणत्वेन स्वीकृतस्य पाञ्चरात्रस्य प्रामाण्य-स्थापनाद् एव परिपन्थित्वम् इति तर्ह्य् अपि प्रमाण-भूतस्य पाञ्चरात्रस्य प्रमाण-भूतस्य च वेदस्य परस्परम् अविरोधे उपपाद्यमाने कथं स परिपन्थी? सांख्यादि-मतानि पुनर् अनुपपन्नानि वेदान्तं विरोद्धुं नालम् इति प्रतिपादयन् अविरोधाध्यायो न तान्यादायापि परिपन्थी । अथ पाञ्चरात्र-प्रामाण्यस्य स्थापनात् पाञ्चरात्रेण वेदान्तो विरुद्ध्यत एवेति वेदान्त-संमतार्थासिद्धिः स्याद् इति चेत्, किं तत् वेदान्त-विरुद्धं पाञ्चरात्रे कथ्यमानम्? ‘अभिगमनोपादानेज्या-स्वाध्याय-योग-विभागेन भगवद्-आराधनादि-कर्माणि न वेदान्त-विरुद्धानि, नापि प्रतिषेद्धव्यानी’ति शाङ्कर-भाष्य एव स्पष्टम् इति तद्-अनुयायिनश् चेद् भवन्तः न तद्-विरुद्धं व्याहर्तुं प्रभवन्ति । वासुदेवात् जीवः, जीवान् मनश् चोत्पद्यमानतया पाञ्चरात्रे उच्यत इति यत् शाङ्कर-भाष्ये शङ्कितम्, तत्र जीव-मनश्-शब्दार्थे यथावज् ज्ञाते तन् न स्थास्यतीत्य् एव सूत्र-कृदाहेति श्री-भाष्ये व्यक्तम् उक्तम् । पाञ्चरात्रस्य कार्त्स्येन प्रामाण्यस्य महाभारते सूत्र-कृतैव प्रपञ्चितत्वात् तद्-विरोधेनाप्रामाण्य-स्थापनम् अयुक्तम् इति च तत्र प्रत्यबोधि । तत्रत्य-जीव-मन-उत्पत्ति-वादस्य यथावस्थितार्थश् च महाभारत एव व्यक्तम् अदर्शि, यथा (शान्ति – 147) —
अव्यक्तं पुरुषे ब्रह्मन्! निष्क्रिये संप्रलीयते ।
नास्ति तस्मात् परतरः पुरुषाद् वै सनातनात् ।
नित्यं हि नास्ति जगति भूतं स्थावर-जङ्गमम् ।
ऋते तम् एकं पुरुषं वासुदेवं सनातनम् ।
सर्व-भूतात्म-भूतो हि वासुदेवो महाबलः ।स जीवः परिसंख्यातः शेषः सङ्कर्षणः प्रभुः ।
तस्मात् सनत्-कुमारत्वं यो ऽलभत् स्वेन कर्मणा
यस्मिंश् च सर्व-भूतानि प्रलये यान्ति सङ्क्षयम् ।
स मनः सर्व-भूतानां प्रद्युम्नः परिपठ्यते ।
तस्मात् प्रसूतो यः कर्ता कारणं कार्यम् एव च ।
तस्मात् सर्वं संभवति जगत् स्थावर-जङ्गमम् ।
सो ऽनिरुद्धः स ईशानः व्यक्तिः सा सर्व-कर्मसु ।
यो वासुदेवो भगवान् क्षेत्रज्ञो निर्गुणात्मकः ।
ज्ञेयः स एव राजेन्द्र! जीवः संकर्षणः प्रभुः ।
संकर्षणाच् च प्रद्युम्नः मनो-भूतः स उच्यते ।
प्रद्युम्नाद् यो ऽनिरुद्धस् तु सो ऽहंकारः स ईश्वरः ।हिरण्य-गर्भो भगवान् एष छन्दसि संस्तुतः ।
सो ऽहं योग-पतिर् ब्रह्मन्! योग-शास्त्रेषु शब्दितः ।
एषो ऽहं व्यक्तिम् आश्रित्य तिष्ठामि दिवि शाश्वतः ।
ततो युग-सहस्रान्ते संहरिष्ये जगत् पुनः ।
कृत्वा ऽऽत्म-स्थानि भूतानि स्थावराणि चराणि च ।
एकाकी विद्यया सार्धं विहरिष्ये निरामयः ।
ततो भूयो जगत् सर्वं करिष्यामीह विद्यया ।
अस्मिन् मूर्तिश् चतुर्थी या सा ऽसृजच् छेषम् अव्ययम् ।
स हि संकर्षणः प्रोक्तः प्रद्युम्नं सो ऽप्य् अजीजनत् ।
प्रद्युम्नाद् अनिरुद्धो ऽहं सर्गो मम पुनः पुनः ।
अनिरुद्धात् तथा ब्रह्मा तन्-नाभि-कमलोद्भवः ।
ब्रह्मणः सर्व-भूतानि चराणि स्थावराणि च ।
एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः ।
यथा सूर्यस्य गगनात् उदयास्तमये इह ।
नष्टे पुनर् बलात् काल आनयत्य् अमित-द्युतेः (ते) ॥
इति ।
व्यक्तम् एव ह्य् अत्र वासुदेवात् क्रमाद् आविर्भवतां व्यूहानाम् एव जीव-मन-आद्यभिमानितया जीवादि-पदैर् व्यवहार इति । अतो जीवाद्युत्पत्तिर् अत्र च पाञ्चरात्रे च न विवक्षितेति स्पष्टम् । एवञ् च पाञ्चरात्रस्याप्रामाण्यम् अंशतो ऽप्य् अप्रसक्तम् इति न तत्-प्रतिषेधो युक्तः । तर्हि, “सांख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथे"ति साङ्ख्यादेर् अप्य् अप्रतिषेधः स्यात् भारत-प्रामाण्याद् इति चेत् - किं तेन? ब्रह्म-सूत्रे साङ्ख्यादि-प्रतिक्षेपो ऽयुक्त इति चेत् - तर्हि भवद्भिर् अपि साङ्ख्यादि-प्रामाण्य-प्रतिक्षेप-परतया सूत्र-व्याख्यानम् अयुक्तम् । तत्त्वांशे मिथो विरोधा-योगात् अविरोध्यर्थ-वर्णनेन सर्व-मत-सामञ्जस्ये सति दूषणमप्रसक्तम् एव । आपात-प्रतीतार्थम् आदाय विरोधोद्भावने कैश्चित् क्रियमाणे साङ्ख्यादि-निरास इति चेत् — तद् अस्मन्-मते ऽपि तुल्यम् । ‘सांख्यं योग’ इति श्लोकस्य च, “आत्म-प्रमाणान्य् एतानि न हन्तव्यानि हेतुभिर्” इत्य् उत्तरार्धम् । तेन देहातिरिक्त आत्मा ऽस्तीत्य् अंशे सर्वेषां प्रामाण्यम् अविशिष्टम् इति तद्-अंश-प्रतिक्षेपो मा भूद् इत्य् एवोक्तम् । न पुनः सर्वांशाप्रतिषेधः । एवम् अपि तत्र निविष्टत्वात् पाञ्चरात्रस्यापीषदंशे अप्रामाण्यम् आवश्यकम् इति चेत्, तर्हि वेदेष्व् अपि ततस् तत् स्यात् । यथावत् शाङ्कर-भाष्यं पठतां सांख्य-पाशुपताद्यपेक्षया पाञ्चरात्रे कियद् गौरवं शङ्कर-भगवत्-पादा वहन्तीति स्पष्टम् । अनर्थो वस्तत्र द्वेषः । वेद-मूलकत्वेन प्रामाण्ये वेद-विरुद्धांशस् त्याज्य एवेति चेत् - विरोधे सति हि त्याज्यता । आगमतया स्वातन्त्र्येण प्रामाण्यम् इति यत् पक्षान्तरम् उक्तम्, तन् न - बौद्धागमस्याप्य् आगमत्वात् । अथ भ्रान्त्य्-अशक्ति-प्रमाद-विप्रलम्भ-रूप-पुरुष-दोषानधीन-ग्रन्थत्वात् पौरुषेयो ऽप्य् आगमः प्रमाणम् इत्य् आशयः, भगवन्-मुखोद्गतं तर्हि पाञ्चरात्रं परं कार्त्स्न्येन प्रमाणम् एव भवितुम् अर्हति ।
तर्क-पादे मतान्तर-प्रामाण्य-प्रतिक्षेप-प्राय-पाठात् पाञ्चरात्र-प्रामाण्य-प्रतिक्षेप-पक्ष एव युक्त इति चेत् - अत एव तद्-असंभवात् माध्वैः मतान्तर-प्रतिक्षेप-परत्वम् आस्थायि । अस्मन्-मते च पादानुगतो ऽर्थः अधिकरण-सारावल्यादाव् आविष्कृत एव । अपि च पूर्व-मीमांसा-सरणिं पश्यताम् अत्रानुपपन्नत्व-मतिर् नोदियात् । तत्र हि द्वितीये भेदाध्याये कर्म-भेदं स-प्रकारम् उपपाद्य तत्-प्रत्यनीकतया सर्व-शाखा-प्रत्यय-न्यायेनाभेदः तद्-अन्ते उपसंहृतः । उक्तञ् च, “सर्व-प्रमाण-निबन्धन-भेदापवादात् सर्वान्ते निवेशः शाखान्तराधिकरणस्ये”ति । अष्टमान्ते च दर्विहोमापूर्वताधिकरणे अतिदेशापवादः प्रस्तुतः । “स-संक्षेप-विस्तारकः सापवादः” इति ह्य् उक्तम् । तथेहापि अन्येषाम् अप्रामाण्यम् उपपाद्य तद्-अपवादः पाञ्चरात्रे पाञ्चरात्र-वाक्यानाम् अविरुद्धार्थ-परत्व-निरूपणेन दर्शित इत्य् अवधेयम् ।
श्री-भाष्ये पाञ्चरात्राधिकरण-सूत्रान्यथानयनं कृतम् इति दोषोद्भावनञ् चायुक्तम् । सूत्र-स्वरसार्थ-ग्रहणेनैव तत्-प्रामाण्य-वर्णनात् । यत् पुनः श्री-भाष्य-प्राण-बन्धुः पाञ्चरात्रम् इति — अस्तु तावद् इदम् । अद्वैतिनाम् अपि शाङ्कर-भाष्यानुयायिनां प्राण-बन्धुर् एव । अस्माभिर् इव तैर् अपि तद्-उक्तानुष्ठान-प्रकार-स्वीकारात् । स्वीकुर्वन्तो ऽपि ते नानुतिष्ठन्ति वयम् अनुतिष्ठाम इति परं भिदा । अस्माकं पाञ्चरात्रम् इव वैखानसम् अपि प्राण-बन्धुर् एव । पाञ्चरात्र-दर्शित-चतुर्-विधाधिकार्य्-अविशेषेण पुनर् अस्मान् प्रति प्राण-बन्धुत्वं पाञ्चरात्रे ऽपि दुरुपपादम् । वस्तु-स्थितिम् अनुसृत्य पाञ्चरात्र-प्रामाण्ये ऽस्माभिः समर्थ्यमाने ऽपि न वयं पाञ्चरात्रैक-निष्ठाः । वेद-वेदान्त-पुराणेतिहास-ब्रह्म-सूत्र-श्रौत-गृह्य-सूत्रानुसारि-तत्त्वाचार-परायणत्वाद् अस्माकम् । अतो ब्रह्मण एव जगत्-कारणत्वस्याबाध्यत्वं सांख्याद्युक्तार्थानाम् अनुपपन्नत्वं वियत्-प्राणादीनाम् अपि ब्रह्म-कार्यत्वञ् च प्रतिपादयन् अविरोधाध्यायः कारणत्वादि-विशेष-विशिष्ट-ब्रह्म-स्थापक इति निर्विशेष-पक्ष-निरोधित्वम् एव तस्य ।
(तृतीयाध्याय-विषयः)
तृतीयाध्याये वैराग्य-पादादिषु विस्पष्टं भेद-प्रतीतिर् इति शत-दूषण्य्-उक्तं परिहर्तुं प्रयत्यते, ‘एकस्यैवात्मनः तत्-तद्-अवस्था-भेद-निबन्धनं भेदम् आदाय सर्व-निर्वाह’ इति । एतावता सूत्र-स्वारस्यं त्यक्त्वा, मानान्तराविरोधाय भेदस्यैवौपचारिकत्वं ब्रूम इत्य् एव ह्य् उक्तं भवति । ‘यदि ईश्वरो जीवं स्वाभिन्नं जानाति, तर्हि स्वयं स्वाहितं करोतीति स्यात्; यदि न जानाति, असर्वज्ञो भवेद्’ इत्यादि-दोषा ऽनिस्तारश् च । यत् तु जीवस्यापृथक्-सिद्धत्वात् स्वतन्त्र-भेद-सिद्धिः श्री-भाष्य-शिरश्-शूलम् इति — तद् असंबद्धम् । स्वतन्त्रस्य सतो भेदानङ्गीकारात् । क्वश् चायं स्वतन्त्र-भेद इति भवान् एव विभावयतु । निर्विशेषे लोक-सिद्धाभावादि-धर्मोपसंहारो गुणोपसंहार-पादे इति व्याहतं वचः । अदृश्यत्वादि-विशिष्टे ब्रह्मणि भूत-योनित्व-सर्वज्ञत्व-सर्व-वित्त्वादौ अक्षर-विद्यया प्रतिपाद्यमाने तस्य प्रतिपाद्यमानस्य सर्वस्य कल्पितत्व-कल्पनं हि स्वारस्य-भङ्गं विना दुर्वचम् । गुणोपसंहार इति गुण-पदेन व्यवहारः सविशेष-ब्रह्म-पर-वाक्यानि मनसिकृत्य सृष्टि-न्यायेनेति लेखनञ् च, पाद-नामतो ऽपि सविशेष-विषयकत्वे स्वारस्यं शत-दूषण्युक्तम् एव द्रढयति ।
तत्र चतुर्थे अङ्ग-पादे कर्मणाम् अङ्गत्व-कथनात् कर्माङ्गकं तद्-आराध्य-विषयकम् उपासनम् एव पूर्व-पाद-विवक्षितम्, न तु कर्म-निरपेक्षं वाक्यार्थ-ज्ञान-रूपं ब्रह्मात्मैक्य-ज्ञानम् इति ज्ञायत एव । ब्रह्म तद्-अन्ययोर् अङ्गाङ्गि-भाव इहोच्यत इति न केनाप्य् उक्तम् इत्य् अयम् अप्रसक्त-प्रतिषेधः । “शेषत्वात् पुरुषार्थ-वाद” इति प्रथम-सूत्रं साक्षीकृत्याध्ययनस्यार्थ-ज्ञानार्थत्व-समर्थनञ् चायुक्तम् । तस्य पूर्व-पक्ष-सूत्रतया सिद्धान्ते ऽर्थ-ज्ञानार्थम् अध्ययनम् इत्य् एतद्-असाधकत्वात् । “अध्ययन-मात्रवतः” इति तद्-अधिकरण-सिद्धान्त-सूत्रं च अध्ययनस्यार्थ-ज्ञानोद्देशेन विधानस्य सूत्र-कृद्-असंमतत्वं मात्र-पदेन दर्शयति । तत्र मात्र-पदम् उपनिषद्-विचार-मात्र-व्युदासकम् इति अद्वैत्यभिमत-व्याख्यानञ् च नादृत्यम्; असङ्कोचस्यैव न्याय्यत्वात् । पूर्व-भागम् इवोपनिषदम् अप्य् अध्ययन-विधि-वशः प्राग् एव कस्मान् न विचारयेत्? साधन-चतुष्टय-सम्पत्ति-रूपाधिकाराभावाद् इति चेत् - उपनिषद्-विचारस्यापि वैधतया कर्तव्यत्वे साधन-चतुष्टयस्याधिकारि-विशेषणत्वम् एव त्याज्यम् । तथा च यथा अद्यतना अद्वैतिनः गृहस्था यतयश् च सर्वे ऽप्य् उक्त-साधन-चतुष्टयाभावे ऽपि ब्रह्म-जिज्ञासां वर्तयन्ति तथैव सर्वे वेदाध्यायिनो ब्रह्मचारिणो ऽपीति स्थिते पूर्व-भाग-विचारस्येवोपनिषद्-विचारस्यापि वैधत्व-पक्षे प्राग् एवापातात् ‘अध्ययन-मात्रवत’ इति सूत्रे मात्र-पदम् अपार्थं स्यात् । तद् एतद् अवसरे व्यक्तीकरिष्यामः । एवञ् च भामत्यां जिज्ञासाधिकरणान्ते यद् उक्तम् अध्ययनस्यार्थ-ज्ञानार्थत्वम्, तद् अपि न स्व-पक्ष-साधनायाम् इत्य् अपि ग्राह्यम् । तद्-भामत्यर्थो ऽपि विचार्यतां नातिवर्तते ।
इतर-व्यपदेशाधिकरणे, ‘अधिकं तु भेद-निर्देशात्’ इति सूत्रं तावत् जीव-ब्रह्मणोर् व्यक्त्यैक्य-पक्षे सर्वथैव न सङ्गच्छते । तत्र सर्वज्ञं सर्व-शक्ति स्रष्टृ ब्रह्म जीवाद् भिन्नम् अधिक-पदेन गृहीतम् इति शाङ्कर-भाष्य-दर्शिनां निर्विवादम् । तस्यैव सविशेषस्यात्रापि, ‘अधिकोपदेशात्’ इति सूत्रे ऽधिक-पदेन ग्रहणम् औचित्यायातम्; न तु निर्विशेष-ग्रहणम् । कथञ्चिन् निर्गुण-परत्वाश्रयणे तु सूत्र-स्वारस्यं त्यक्तम् एव । यत् तु — ‘अपदेश-व्यपदेशादि-पदापेक्षया उपदेश-पदस्य विलक्षणार्थत्वं सूत्र-कृद्-इष्टम् । ज्ञातस्यैव कथनमप्य् अपदेशो भवति । उपदेशस् त्व् अज्ञातस्यैवे’ति तावता जीवातिरिक्तत्वान् मानान्तरानवगतस्य परमात्मन एव सर्व-स्रष्टुः शास्त्रेणोपदेश इत्य् अस्मन्-मतं न दूषितं भवति । भेदस्य व्यपदेश-विषयत्वात् व्यावहारिकत्वं चेद् उच्यते, अधिक-पद-गृहीतस्यासंसार्यात्मत्वस्यापि उपदेश-विषयतया व्यावहारिकत्वम् एवास्तु । अपदेशोपदेशयोर् द्वयोर् अपि व्यवहारानतिवृत्तेः । अपदेशादि-पदम् अप्य् अज्ञात-विषये प्रयुज्यमानम् उपदेशार्थकं भवितुम् अर्हत्य् एवेत्य् अन्तत इहाविशेष एव । ‘अंशो नानाव्यपदेशाद् अन्यथा च’ इति सूत्रे नानात्व इवाभेदे ऽपि विषये व्यपदेश-पदं प्रायोजि । व्यपदिश्यमानत्वात् भेदस्य वस्तुतो भेदो ऽस्तीति साधयंश् च सूत्रकारः भेदस्य वास्तवत्वम् एव मन्यते । अन्यथा भेद-व्यवहार-मात्रे साध्ये हेतु-साध्ययोर् अविशेषः स्यात् । यत् तु - “सर्वेषु सूत्रेषु भेदस्य” इत्यादि वाक्यम्, तत् किं भेदस्य सिद्धवद्-अनुवादाभिप्रायम्, उत भेद-व्यपदेशस्य? नाद्यः, “भेद-व्यपदेशाच् चान्यः” इति सूत्रे भेदस्य साध्य-कोटाव् अपि प्रवेशात् । व्यपदेशस् तु सिद्ध एव हेतुतया निर्देष्टुम् अर्हः । अनुवादत्व-कथनञ् चात्र किम् अर्थम्? न हि तावता भेदस्यासिद्धिर् भवेत् । जीवत्वेश्वरत्व-विशिष्टयोर् भेद इष्ट एवास्माकम् इति चेत्, जीवत्वेश्वरत्वयोर् अक्षय्यत्वात् तद्-आश्रययोर् धर्मिणोर् अप्य् ऐक्यं दुर्वचम् । अश्रौतम् इवासौत्रं च तद् इति ॥
“उभये ऽपि हि भेदेनैनम् अधीयते” इति सूत्रे अधीयत इत्यस्य एनम् इत्य् अनेन सन्निकृष्टेन संबन्धः, न तु भेदेनेत्य् अनेनेति यद् उक्तम् - तत्र पृच्छामः । तर्हि भेदेनेत्य् एतत् कुत्रान्वेति? कारकाणां क्रियान्वय एव हि वक्तव्यः । अथ अधीयत इत्य् एतद्-विवक्षित उपदेशः एनम् इत्य् एतद्-अर्थ-मात्रस्य, न तु भेदस्य । सर्वत्र भेदांशे ऽनुवादः; निर्विशेष-स्वरूपांशे उपदेश इति चेत् एनं भेदेनाधीयते, एनं भिन्नम् उपदिशन्तीति प्रयोगे, एनम् इत्य् उद्देश्य-समर्पकम्, भेद-वाचि-पदं विधेय-समर्पकम् इति सर्वानुभव-सिद्ध-विपरीतम् इदं वर्णनम् ।
‘विशिष्टाद्वैतिभिर् अध्ययनस्यार्थ-ज्ञानार्थत्वानङ्गीकारात्, ‘शेषत्वात् पुरुषार्थ-वाद’ इति पुरुषार्थ-वादत्व-शङ्का निर्मूले’ति यद् उक्तम् - तत्र ब्रूमः । अध्ययन-मात्रवत इति सूत्रम् अर्थ-ज्ञानार्थत्वं वारयतीति प्राग् एव प्रत्यबोधयाम । न हि विशिष्टाद्वैतिनः अध्ययन-विधेर् अर्थ-ज्ञानोद्देश्यकत्वम् अनिच्छन्तो ऽपि वेदस्य निरर्थकत्वं वा वेदाध्ययनस्य राग-प्राप्त-विचाराधीनार्थ-ज्ञान-द्वारा फलित्वा पर्यवसानं वा स्वीकुर्वन्ति । अतो ऽध्ययन-विधेर् अक्षर-ग्रहण-मात्रे उपरतत्वे ऽपि गृहीत-वेद-व्युत्थं ज्ञानं कुत्रोपयुज्यत इति न नाम न विचार्यम् । एवं पूर्व-पक्षी अर्थ-ज्ञानार्थत्वम् अध्ययन-विधेः स्व-पक्षे स्थितम् उपन्यस्यावस्थाप्य च तत् पूर्व-पक्षं प्रवर्तयितुम् अर्हति यथा जीवातिरिक्तात्म-विशेषासद्भावं स्वाभिमतम्, यथा च वाक्यार्थ-ज्ञानातिरिक्तस्योपासनात्मक-ज्ञानस्यासद्भावम् । सिद्धान्ती च जीवातिरिक्तात्मन इव वाक्यार्थ-ज्ञानातिरिक्तोपासनात्मक-ज्ञानस्य चेव अध्ययनस्याक्षर-ग्रहण-मात्रार्थताञ् च यथावसरं प्रतिबोधयेद् इति न किञ्चिद् अपहीनम्; प्रत्युत जीतातिरिक्तात्म-वाक्यार्थ-ज्ञानातिरिक्तोपासनात्मक-ज्ञानैदम्पर्यस्योपनिषत्सु स्थितस्याविष्करणाद् अद्वैत-मत-प्रतिकूलम् एव तद्-अधिकरणम् । अध्ययन-विधेर् अर्थ-ज्ञानार्थत्वे तद्-अभावे च पक्ष-द्वये ऽपि निर्वाहः, ‘अध्ययन-मात्रवत’ इति सूत्रे श्री-भाष्य एव प्रादर्शीति च कृतं तद्-अनवेक्षा-मूलेन प्रश्नेन । सविशेष-ब्रह्मणः सङ्कर्षे एवोक्ततया अधिकोपदेशाद् इति सूत्रं निर्विशेषोपदेश-परत्वे एव सार्थम् इति कथनं तु, ‘एक आत्मनः शरीरे भावात्’ इत्य् अनेनैव तत्-सिद्धौ अद्वैत-मते ऽपि तत् व्यर्थम् इति प्रतिबोध्य प्रतिक्षेप्यम् । प्रकारान्तरेण शङ्कायां पुनर्-वचनम् इति चेत् — तुल्यम् एतत् । कर्म-शेष-भूत-देवता-विचारात्मनि सङ्कर्ष-काण्डे उपासना ऽपि प्रस्तुता ऽस्तीति कुतो ज्ञायते? । कर्मोपयोग्युद्गीथाद्युपासनम् अपि शारीरके विचार्यतया प्राक् परित्यक्तम् इति स्थिते स्वतन्त्रोपासनास् तत्रैव विचारिता इति कथम् अवधार्येत? अङ्गीकृत्यापि तत्रोपासना-विचारम्, ब्रूमः । “यो ऽन्यां देवताम् उपास्ते अन्यो ऽसाव् अन्यो ऽहम् अस्मीति, न स वेद” इति तादृशोपासन-प्रतिषेध-पूर्वं विलक्षणम् अपृथक्-सिद्धात्मत्वोपासनं ह्य् अत्र शारीरके व्युत्पिपादयिषितम् इत्य् अलम् अधिकेन ॥
“असंभवस् तु सतो ऽनुपपत्तेः” इति सतः परम् अनुत्पन्नत्वे तत एव नित्यत्वे चावगते, तर्हि ब्रह्म-मात्रं नित्यम्, जीवात्मा तु उत्पद्यत एवेति श्रुत्यादि-मूलम् एव विचारे प्रवृत्ते, “नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः” इति जीवात्मनो ऽप्य् अनुत्पत्तिः प्रतिपाद्यत इत्य् अधिकरण-द्वयं सार्थम् । अन्यथा तत्यद्-अलक्षितस्य त्वम्-पद-लक्षितस्य चात्मन एकत्वात् सतो ऽनुत्पत्ति-कथनाद् एव सर्व-सिद्धिर् इति ‘नात्मे’त्यादि-सूत्रस्या ऽऽनर्थक्यम् एव । तथा, ‘नात्मे’ति सूत्रं शुद्धात्म-परं वा, जीव-भावापन्नात्म-परं वा । आद्ये, तद् उपरि ज्ञातृत्व-कर्तृत्व-परायत्तत्वादि-सूत्रणम् अनन्वितम् । अन्त्ये, तद्-अनुत्पत्ति-नित्यत्व-कथनम् अनुपपन्नम् इति सूत्र-सन्दर्भास्वारस्ये शत-दूषण्या प्रदर्श्यमाने, ‘अनुत्पत्तिः स्वरूपतः’, ‘ज्ञातृत्वादिकम् उपाधितः’ इति पुनर् अस्वरसार्थ-निष्कर्षण-प्रवृत्तेन भवता सूत्र-स्वारस्य-भङ्ग-प्रदर्शनम् एव परीक्षया क्रियते ॥
एवं जीव-ब्रह्मणोर् एकत्व-वादि-मते ज्ञाधिकरणानन्तरं यत् उत्क्रान्त्यधिकरणं जीवस्य विभु-परिमाण-स्थापकम्, तत् व्यर्थम् । ब्रह्मणो विभुत्वे जीव-विभुत्वस्यापि सिद्धेः । किं जीवस्य जीवत्वावस्थायां विभुत्व-साधकम् इदम् अधिकरणम्, उत शुद्धावस्थायाम्? आद्यम् असंभवि; संसरतो जीवस्य बुद्धि-गुण-भूतेच्छा-द्वेषादि-सारत्वात् बुद्धि-परिमाणेनाणुत्वेनाणु-व्यपदेश इति तद्-गुण-सारत्वाद् इति सूत्रेण सिद्धान्तितत्वात् । जीवत्वस्यौपाधिकत्वे जीव-परिमाणम् अप्य् औपाधिकम् इति सुस्पष्टम् इति किम् अर्थो ऽयं तन्-मते विचारः? जीवातिरेक-पक्षे तु परमात्मवत् जीवात्मनो ऽपि विभुत्वं सांख्य-तार्किकादि-संमतम् आशङ्क्य परिह्रियत इति जाघटीति । एवं युष्मन्-मते तद्-गुण-सारत्वाद् इति सूत्रे तत्-पदेन बुद्धि-अस्वरसम्; अप्रसक्तत्वात् । बुद्धि-गुणस्य जीव-सारत्व-कथनञ् चास्वरसम् । तद्-उपाधिकत्वाद् अणुत्व-व्यपदेश इति वक्तव्ये तद्-गुण-सारत्वाद् अणुत्व-व्यपदेश इति चास्वरसम् । इच्छादि-गुण-प्रयुक्तत्वाभावाद् अणुत्वस्य । एवं तद्-गुण-पदेन ज्ञान-रूप-गुणस्य पूर्व-प्रकृतस्याग्रहणे, ‘यावद्-आत्म-भावित्वाच् च न दोष’ इत्य् अनन्तर-सूत्रम् अप्य् अस्वरसम् । न हि बुद्धि-संयोगो यावद्-आत्म-भावी । न हि यावज्-जीव-भावीति पदं श्रूयते । अतो मुक्ति-काले ऽप्य् अनुवर्तमान-गुण-विशेष-ग्रहणम् एव युक्तम् । तत् किम् इति शत-भूषणी स्वयम् एव स्व-दोषं प्रदर्शयितुं प्रसक्तम् अनुप्रसज्य व्याप्रियते । ‘जीवात्मनः सर्व-गतत्व-श्रुतिः धर्म-भूत-ज्ञान-व्याप्त्यभिप्रायेति गीता-भाष्ये उक्तम् । न श्री-भाष्ये’ इत्य् अपि श्री-भाष्य-सूक्त्य्-अदर्शन-मूलकम् । व्यर्थश् चैष विचारः । क्वचिद् उक्तेर् अपि पर्याप्तत्वात् । अप्रसक्तार्थ-विस्तर-स्वाभाव्यात् एवं वर्धते शत-भूषणी ।
यत् तु पूर्व-मीमांसायाम् एव कर्तृत्व-भोक्तृत्व-देहातिरिक्तत्वादिकम् आत्मनो ज्ञातम् । तत्र कर्तृत्वादेर् औपाधिकत्वम् उपदेष्टुम्, “कर्ता शास्त्रार्थवत्त्वात्” इत्यादि-सूत्रं शारीरक इति - तत्, ‘नात्मा श्रुतेर्’ इत्य् अनौपाधिक-स्वरूप-प्रस्तावाद् अनौपाधिकम् अपि कर्तृत्वादिकम् आत्मनो ऽस्तीत्य् अस्यानिष्टौ संदर्भ-विरोध इत्यस्य प्राग् एव प्रदर्शितत्वाद् अयुक्तं मन्तव्यम् ॥
अथ संध्याधिकरण-प्रस्तावेन शत-दूषण्य्-उक्त-प्रतिविवक्षया यद् उपक्रान्तम् — ‘जीवात्मनो जाग्रत्-स्वप्न-सुषुप्त्यवस्था-निरूपणे ऽपि स्वप्न-तत्त्व-निर्णय एव मुख्यं तात्पर्यं सूत्र-कृतः । तत्रैव स्वयंज्योतिष्ट्व-सिद्धेर्’ इति — तत्रोच्यते । जाग्रद्-अवस्था-निरूपणैदम्पर्यं यदि न सूत्र-कृतः, तर्हि वैराग्य-पादः कृत्स्नो व्यर्थः स्यात् । मोक्षोपाय-प्रविवर्तयिषया वैराग्य-विवर्धयिषया कृते पादे कथं नैर्भर्यं न भवेत्? तथा सति संध्याधिकरणम् अपि तत्रैव पादे घटयित्वा संध्याधिकरण-मुख्यत्वं प्रदर्शितवान् स्यात् । अतो जाग्रद्-विषय-वैराग्य-वृद्धये जाग्रद्-अवस्था-निरूपणम् अपि परमोद्दिष्टम् एव । यत् तु — स्वयंज्योतिष्ट्व-निरूपणं मुख्यम् इति - तत्र किम् इदं स्वयंज्योतिष्ट्वम्? किं स्वाधीन-स्व-प्रकाशः, उत स्वाधीन-सर्व-वस्तु-प्रकाशः? नाद्यः, तस्य जाग्रद्-आद्यवस्थास्व् अप्य् अविशेषात् । न हि पराधीनः प्रकाशः आत्मनि भवद्भिर् इष्यते । स्वप्नावस्थापेक्षया सुषुप्त्यवस्थायाम् एव विषयान्तरासंवळितः स्व-प्रकाशो वर्णयितुं शक्य इति युक्तं स्वप्नम् अपेक्ष्य सुषुप्ताव् ऐदम्पर्यं सूत्र-कृतस् तदा वक्तुम् । स्वाधीन-सर्व-प्रकाशत्वं तु स्वप्ने जागरापेक्षया स्पष्टम् अवगम्यते । जागरे स्व-कर्माधीनेव पर-कर्माधीना ऽपि सृष्टिर् अस्तीति स्वानुभवैकार्थ-स्व-कर्माधीनत्व-मात्रस्य वस्तुषु वक्तुम् अशक्यतया वस्तूनां प्रकाशः स्वाधीन इव पराधीनो ऽपि स्यात् । स्वप्ने तु सर्वस्यापि वस्तुनः स्वार्थं स्व-कर्मणैव सृष्टत्वात् सर्वो ऽपि प्रकाशः अन्ततः स्व-मात्र-मूलक इति पुरुषस्य स्वयंज्योतिष्ट्वम् । तद् इदं बृहदारण्यके जीवात्मनि वर्ण्यते । एवम् अपि तत्र यथा जागर-स्वप्न-सुषुप्ति-मरण-क्रमेण मोक्ष-वर्णनम्, तथेहापि मुक्ति-पर्यन्त-दशा-वर्णनार्थम् एव सर्वा अप्य् अवस्थाः वैराग्य-वृद्धये वर्णयति इति तत्त्वम् । एष विचारः सूत्र-स्वारस्य-पर्यालोचने वृथैव समानायित इत्य् अलम् इदानीम् ॥
यस् तु ईदृशावस्था-निरूपणं जिज्ञासा-कर्तृ-स्वरूप-निर्णये कथम् उपयुज्यत इति प्रश्नः । तत्र किं जिज्ञासा-कर्तुर् जागरावस्थायाम् एव जिज्ञासा-कर्तृत्वात् तादृश-कर्तृत्वौपयिक-शिष्य-लक्षणादि-निरूपणम् एव तत्रोपयुज्यते, नान्यद् इति तद्-आशयः, उत प्रश्नस्य जागरावस्था-भावित्वात् तद्-अवस्थायाः कृत्स्नायाः कथञ्चिद् उपयोगे ऽपि स्वप्न-सुषुप्ति-मूर्च्छा-वर्णनं न घटते, तदा जिज्ञासायाः अभावाद् इति । अहो वक्तृ-विवक्षितार्थ-विज्ञान-कौशलं शत-भूषणी-कारस्य ब्रह्म-निरूपणवत् ब्रह्म-जिज्ञासा-कर्तुर् जीवस्यापि निरूपणं शारीरके उपयुज्यते, बन्ध-दशायां स्वावस्थाः मुक्ति-दशायां स्व-स्वरूपाविर्भावञ् च विज्ञायैव वैराग्य-पूर्वकम् अनेन मुक्त्यर्थं प्रवृत्तेः कार्यत्वाद् इति सर्व-निरूपण-साङ्गत्य-वर्णनात् । अप्रस्तुतम् आत्मान्तरम् अत्र कथं परीक्ष्यते” इति शत-दूषण्य्-उक्तं सर्वम् अत्रावधेयम् । एवं स्थिते “श्री-भाष्य-मते तु जीवात्म-तत्त्व-विचारः सर्वो ऽपि ब्रह्म-मीमांसायां न घटते अनाकाङ्क्षितत्वात्” इति निगमनम् अहृदयम् अश्रद्धेयञ् चेत्य् अलम् ।
वियदादेर् इव जीवस्यापि चिन्तनं ब्रह्म-मीमांसान्तर्गतम् इति शत-दूषण्य्-उपपादने जाग्रति यद् उक्तम्, “वियदाद्यनित्यत्व-स्थापनं विना अद्वितीय-ब्रह्मासिद्ध्या स्व-मते तन्-निरूपणं युज्यते, विशिष्टाद्वैति-मते तन्-नित्यत्वे ऽपि कथं जिज्ञासित-ब्रह्मासिद्धिर् इति — तत्र ब्रूमः ब्रह्मणो ऽद्वितीयत्वायाकाशाद्य् अनित्यत्वम् उपयुक्तं चेत्, अविद्याया अप्य् अनित्यत्वम् उत्पद्यमानत्वम् एष्टव्यं स्यात् । अनुत्पद्यमानस्यानित्यत्वायोगात् । वियदादेर् उत्पत्तिर् एव हि सूत्रेषु स्थाप्यते । यदि अनादि सादि वा अपरमार्थ-भूतं सर्वम् इति निरूपणम् एव ब्रह्मण्य् अद्वितीयत्व-स्थापनायापेक्षितम्, तर्हि वियदाद्युत्पत्ति-चिन्ता वृथा । अस्मन्-मते सर्व-कारणत्वेन ब्रह्मणो लक्षितत्वात् आकाशादेर् अनुत्पन्नत्वे सर्व-कारणत्व-भङ्गः स्याद् इति जिज्ञासित-तादृग्-ब्रह्म-सिद्ध्यर्थम् एव तन्-निरूपणम् । वस्तुतो भवन्-मते ऽपि सैव सरणिर् इत्य् आग्रह-मूल एवायम् आक्षेपः । अत एव, “आकाश-शरीरं ब्रह्मेति श्रुतौ शरीर-पदं व्यर्थम् । आकाश-पदस्येव आकाश-शरीरकत्वार्थस्य विशिष्टाद्वैतिभिः सुवचत्वात्” इत्य् उक्तम् अप्य् आग्रह-मूलम् । अस्मन्-मते व्यर्थं तत् पदम् इति भवतोच्यते । भवन्-मते तु बाधितार्थकं तत् । आकाशादेर् ब्रह्म-शरीरत्वस्य श्रुत्य्-उक्तस्यापि भवद्भिः विशिष्टाद्वैत-सिद्धि-भयाद् अनादरात् । भवादृशानादर-परिहारार्थम् एव आकाश-शब्द-सिद्ध्य्-अर्हम् अपि शरीरत्वं कण्ठोक्तं श्रुत्येति न तद्-वैयर्थ्यम् । शरीर-शब्द-प्रवृत्ति-निमित्तस्य नियाम्यत्वादेः प्रकारतया भानार्थं च शरीर-पदम् । एवम् आसमन्तात् प्रकाशमान-दिव्यमङ्गळ-विग्रह-विशिष्टं ब्रह्मेति विशेषार्थ-परत्वं शरीर-पदम् अन्तरा न सिद्ध्यतीत्य् आदि च भाव्यम् । नाम-रूप-व्याकरण-श्रुत्यादि-सिद्धस्य शरीर-वाचिनां शरीरि-पर्यन्तत्वस्य अन्यथासिद्धाकाश-शरीर-शब्दान्तर्गत-शरीर-शब्देन प्रतिषेध-प्रयत्नो ऽयं तृण-शकलेन शैलोद्धार एव ।
अत्र चराचर-व्यपाश्रय-सूत्रोदाहरणं स्व-दोषस्य स्वयम् उद्घाटनायैव भवति । तथाहि — तत् सूत्रं पृथग् अधिकरणं भवन्-मते । स्थूलावुत्पत्ति-प्रलयौ देहाश्रितौ, न जीवाश्रिताविति निरूपणार्थं तत् इति । जीवस्य परमात्मनः उत्पत्तिर् न इति, “नात्मा श्रुतेर्” इति समनन्तर-सूत्रेण स्थापयिष्यमाणतया जन्म-मरणयोर् जीवगतत्वप्रश्नस्य का प्रसक्तिः? अनेनैव तत्-सिद्धौ उपरितनम् अधिकरणं वा व्यर्थम् । तत्र “देवदत्तादि-नामधेयं तावत् जीवात्मनः, न शरीरस्य तन्-नाम्ने शरीराय श्राद्ध-करणानुपपत्तेः” इति शरीर-वाचि-शब्दस्य शरीरि-पर्यन्त-मुख्यत्वम् उपपादितम् । जनन-मरणयोः परं जीवे मुख्यत्वं शङ्कितं प्रतिषिद्धम् । अथ चाध्यास-भाष्ये “मृतो देवदत्तः, जातो देवदत्तः” इत्यादि-व्यपदेशस्य भ्रान्ति-मूलताया उपपादितत्वात् इदम् अधिकरणं कथं प्रवृत्तम् इत्य् आशङ्क्य लौकिक-व्यपदेशस्याभ्रान्ति-मूलत्वम् अभ्युपेत्याधिकरणम् इति अधिकरण-वैयर्थ्यम् एव भङ्ग्यन्तरेण दर्शितम् अस्ति । अस्माकं तु मते ऽत्र न जीव-प्रस्तावः; किं तु तेज-आदि-शरीरकात् परमात्मन एव सर्व-कार्योत्पत्ति-वर्णने कृते कथं तत्-तत्-पदस्य परमात्म-परतेति शङ्कायां तत्-परिहारायेदं सूत्रम् इति सुसङ्गतम् एतत् । किं च, “चराचर-व्यपाश्रयस्तु स्यात् तद्-व्यपदेशो भाक्त” इति चराचर-व्यपाश्रयता-विषये भाक्तत्वे स्पष्टं सूत्रे प्रतीयमाने तद्-व्यपाश्रयतायाः मुख्यत्वं जीव-व्यपाश्रयतायाः भाक्तत्वं च भवद्-भाष्य-वर्णितं सर्वथैवास्वरसम् इत्य् अपि भाव्यताम् ॥
अथ साधनाध्यायगताङ्गपादनिरूपितं कर्मानुष्ठानं विविदिषार्थम् इति वक्तुम् उपक्रममाणेन “अङ्गाङ्गिभावाध्याये” इति विलक्षणं प्रयुक्तम् । ततश्च विविदिषा इति आदिना अनन्वितं च किमपि लिखितम् । तृतीय-पादेन कर्म, तुरीयेण वेदनम् इति क्रमं विहाय वेदनम् उपायं तृतीयेन निरूप्य तुरीयेण कर्म निरूपयन् सूत्रकारः वेदनं प्राप्तवता ऽपि कर्म कर्तव्यम् इत्य् उपदिशतीति विज्ञायते । अतो विविदिषार्थत्वम् एव कर्मणाम् इति न युक्तम् । भामत्या विविदिषार्थत्व-पक्षस्यादृतत्वे ऽपि ततः पूर्वैर् उतरैश्च कर्मणां वेदनार्थत्व-पक्षो ऽपि सुदूरम् उपपाद्य स्वीकृत इति सिद्धान्त-लेश-सङ्ग्रहे सुव्यक्तं दर्शयति विविदिषार्थत्व-पक्षनैर्भर्यं नातीव शोभते । आ-जीवन्मुक्तेर् आश्रम-धर्म-त्यागो नास्तीति वदन्ती च शतभूषणी वेदनाङ्गत्वं कर्मणः स्वरसतो ऽनुमन्तुम् अर्हति । विविदिषार्थत्व-पक्षाच् च वेदनार्थत्व-पक्षः श्रेयान् विविदिषा-मूलक-सदाचार्योपसर्पण-निर्विघ्न-श्रवण-मननादि-सिद्धेर् अनुष्ठित-कर्म-जन्यम् अदृष्ट-फलत्व-सिद्ध्या वेदन-निष्पत्ति-सौकर्यात् । विविदिषार्थत्व-पक्षे तु कर्म-जन्यम् अदृष्टं विविदिषा-मात्रम् उत्पाद्योपरंस्यति । उत्पन्न-विविदिषश् च सदाचार्य-लाभादि-प्रतिबन्ध-पराहत-प्रयोजनः पुनर्वेदन-सम्पत्तये उपायान्तरम् अनुधावेद् इति क्लेश इति । अत्र सर्वेषाम् आश्रमिणाम् अनाश्रमिणाञ् च कर्मानुष्ठानम् अस्तीति, संन्यासे कुटीचकादि-भेदः एक-दण्ड-त्रि-दण्डादि-भेदश् च अस्तीत्य् आदि-विस्तरस्य कृतस्य न किञ्चित् इह प्रयोजनम् । विविदिषां प्राप्य संन्यस्तवता चाश्रम-कर्म किमर्थम् अनुष्ठेयम् ? वेदनार्थम् इति चेत् - तर्हि अविशेषात् सर्वे वेदनार्थम् इत्य् अस्तु । विस्तरस्तु विविदिषा-साधनत्व-भङ्ग-प्रसाधने द्रष्टव्यः । जीवन्-मुक्तौ ब्राह्मणत्वाद्य्-अभिमानाभावात् न धर्माधिकार इति वदता बुभुक्षा-मूल-प्रवृत्त्य्-आद्य् अपि दुरुपपादम् । मनुष्यत्वाभिमानादेर् अपि तुल्यनयादयोगात् । अथ तत्र बाधितानुवृत्तिः, सा कथं ब्राह्मणत्वाद्य्-अभिमाने न भवेत् ।
यत् पुनर् उपर्युक्तम् - संसरतो जीवस्यावस्था-प्रदर्शनादिना तृतीयाध्याये नित्यानित्य-वस्तु-विवेकः, इहामुत्र फल-भोग-विरागः, शम-दमादि-साधन-सम्पत् मुमुक्षुत्वञ् च इति साधन-चतुष्टयम् उपपादितं भवतीति - तावता साधन-चतुष्टयम् इदं वेदनरूपोपायानुष्ठानोपयुक्तम् इत्य् एव सिद्ध्यति; न तु ब्रह्म जिज्ञासमानस्य प्राग् एव एतत्-सम्पत्तिर् अवश्यंभाविनीति शान्तप्राय-जिज्ञासं प्रत्य् अत्रोपदेशात् । विशदाकारेण साधन-चतुष्टयस्य सम्पत्त्य्-अभावे ऽपि अविशदाकारेण स्थितिर् युज्यत इति चेत् - अस्तु कामम् । किम् अत्र तद्-विचारेण । तद्-अवसर एव तद्-विवेचनं शोभते ।
यत् तु “ज्ञानयोगिभिर् अपि कर्मयोगः आ-प्रायणम् अनुष्ठेय इति श्रीभाष्यानुयायिनां मतं निर्मूलम्” इति - तद् इदं वचनम् एव निर्मूलम् । विशिष्टाद्वैति-मत-ज्ञानयोग-कर्मयोग-शब्दार्थ-वेदी न एवम् लेखितुम् अर्हति । न हि ज्ञानयोगस्य कर्मयोगस्य च यौगपद्यम् अङ्गीक्रियते । अथ तत्त्व-ज्ञानोत्पत्त्यनन्तरं कर्मानुष्ठानं तद् इष्टं न युक्तम् इत्य् उच्यते इति चेत् - आ-जीवन्-मुक्ति कर्म न त्याज्यम् इति वदतो भवतो ऽपि मते ज्ञानानन्तरं कर्मानुष्ठानम् अस्तीति को विशेषः? तद् वा भवद्-वचनं निर्मूलं भवतु ॥
आधिकारिकाणां अवतार-पुरुषाणाञ् च लोकसङ्ग्रहार्थं कर्मानुष्ठानम् इति भवतोच्यते । ते जीवन्मुक्ताः, न वा । आद्ये, कथं ब्राह्मणत्वाद्यभिमानानुवृत्तिः?, अन्त्ये, अन्यादृशतत्त्वज्ञानिनां तेषां च को विशेषः?। येन ते परं लोक-संग्रहार्थं कर्मणाम् अनुष्ठातारः । ईश्वरस्य विधिपारवश्याभावात् लोकसङ्ग्रहार्थम् अनुष्ठानम् इति कामम् अस्तु, न तत् आधिकारिक-पुरुष-विषये सञ्चारयितुं शक्यम् । “परिशुद्ध-स्वरुपोपदेश-दशायां प्रति-पक्ष-प्रतिक्षेप-पूर्वकस्य भ्रान्ति-सिद्धाकार-समर्थनस्य विरुद्धत्वात्” इति शतदूषणी-सूक्तिस्तावत् — नित्यत्व-निरूपणेन परिशुद्धम् आत्म-स्वरूपं प्रक्रम्य सूत्रकारः कर्तृत्व-परायत्तत्वादिकं भ्रान्ति-सिद्धिकारं न समर्थयितुम् अर्हतीति कर्तृत्वादेरपि स्वाभाविकत्वं स्थापयितुं प्रवृत्ता । तत्खण्डना-कीर्षया यत्तावद् उपक्रम्यते, “पण्डितंमानिनं (?) भ्रान्तम्-उद्दिश्यैव तत्त्वज्ञानम् उपदिशन्ती” त्यादि, तत् सर्वथैवासङ्गतम् — भ्रान्ति-संशयादि-ग्रस्त-पुरुष उपदेश्यो न भवतीति न हि तत्रोच्यते । भ्रान्तस्य भ्रान्ति-निवृत्त्यर्थे उपदेशे कर्तव्ये क्रियमाणे भ्रान्त्यभिवृद्धि-कर उपन्यासः उपदेष्टुर् विरुद्धः । जीवस्य ब्रह्म-स्वरुपतया वा अन्यथा वा नित्यत्व-मनौपाधिकं निरूप्य, समनन्तरं तस्यैव कर्तृत्वादि-निरूपणं नित्यत्ववत् कर्तृत्वादिकम् अपि स्वाभाविकं मन्यते सूत्रकार इत्येव हि दृढां मतिं दद्यात् । नन्वत एव वयं सूत्रार्थ-तत्त्वं भाष्यादिना भङ्ग्यन्तरेणोपपाद्यतां तां मतिं निरस्याम इति चेत् — तर्हि सूत्र-स्वरस-सिद्धार्थः कारणान्तरेण त्यज्यत इत्येव कथितं भवतीति सुष्ठु स्वारस्य-रक्षणम् ।
यत् तु — “सूत्राशयस्यान्यथान्यथानयनं तु सूत्राण्येवान्यथयतां श्रीभाष्यकारादीनामेव कृत्या — ” इति तत्रोच्यते । यदि श्रीभाष्यकारादयः सूत्राण्यन्यथयितुं प्रगल्भा एव, तर्हि स्वामिमतार्थानुगुण-सूत्र-पाठ-कल्पना-कौशल-शालिनस्ते किमिति सूत्राशयमन्यथा ऽन्यथा नेष्यन्ति? । सूत्राशयस्येति किम् ? साभिनिवेशं सूत्राक्षरार्थानाम् अप्य् अन्यथाकरणं प्रायः शांकर-समादृतम् इति पटहप्रणादः परितः प्रसृतः कथं भवतः कर्णकुहरम् अप्रविष्टः स्यात् ? आरम्भ-सूत्रस्थाथ-शब्दप्रभृति सर्वम् अपि पदं प्राचीनार्थ-त्यागेनान्यथा हि नीयते । खण्ड्यते च प्राच्यादृतः परमार्थः, “नन्व् इह कर्मावबोधानन्तर्यं विशेषः” इत्य् आद्य्-आशङ्कापूर्वम् ब्रह्मशब्दः सगुणपरः निर्गुणे नीयते । जन्मादि वस्तुतो नास्तीत्य् उच्यते । आनन्दमयाधिकरण-कोलाहलस्त्व् अखिललोकविदितः । क्वचित् पूर्वस्य पक्षस्य उत्तरपक्षत्वम् उत्तरस्य पूर्वत्वम् इति विपरिवर्तनम् इत्य् आद्य्-अनन्तविधम् अन्यथाकरणम् । पूर्वाचार्य-सुरक्षितार्थ-स्थापनेदम्पर-भगवद्रामानुजाचार्य-पूर्व-पुरुष-संप्रदाय-प्राप्तः पाठः कल्पित इति, पूर्व-व्याख्या-खण्डनपूर्वं प्रवृत्तः शांकर-भाष्यारूढः पाठ एव प्राचीन इति च कथम् अवधार्यते ? अर्थम् इव शब्दानुपूर्वीम् अप्य् आद्य-पक्ष-प्रविष्टाः ररक्षुः इत्येव तु प्रत्युत साम्प्रतम् ।
जीव-ब्रह्माभेदे, “असम्भवस्तु सतो ऽनुपपत्तेः” इति सूत्रेण ब्रह्मणो नित्यत्वस्योक्ततयैव जीव-नित्यत्व-सिद्धौ, “नात्मा श्रुतेर्” इति व्यर्थम् । अतो जीवस्य ब्रह्मणो भेद एव सूत्रस्वारस्यम् इति शतदूषण्य्-आक्षेपं परिजिहीर्षुणा यद् उक्तम् - असम्भवसूत्रे तत्त्वमसीत्यत्र तत् पदलक्ष्यार्थ-नित्यत्वम् उक्तम्; त्वम्पदलक्ष्यार्थ-नित्यत्वं “नात्मे"ति सूत्रेण कथ्यते इति - तन् न । जीव-ब्रह्मणोर् अभेदे सिद्धे जीवे पृथग् अनुपत्त्य् आदिवर्णनम् अनपेक्षितम् । अभेदस् तयोर् न सिद्ध इति चेत् - पृथक् नित्यत्व-स्थापन-मात्राद् अभेदस् तयोर् न सिद्ध्यति, प्रत्युत पृथग् वर्णनात् जीव-ब्रह्मभेद एव सूत्रकृद् इष्ट इत्यभ्यूहनं ज्यायः । अतः, “तत्त्वमसी"ति महावाक्यार्थस्य जीव-ब्रह्माभेदस्य निर्णयार्थं पृथग् अधिकरणम् आवश्यकम् । ‘आवश्यकत्वे ऽप्य् अधिकरणं विनैव सिद्ध्येत्, यथा परमते शरीरात्मभावः इति चेत् - तन् न । अन्तर्याम्यधिकरणे, “अवस्थितेर् इति काश-कृत्स्नः” इति सूत्रे, “आत्मेति तूपगच्छन्ति” इत्य् आदि-सूत्रेषु च हि शरीरात्मभावः कथित एव । ननु तान्येव सूत्राण्य् अभेदपरतया अस्माभिर् योज्यन्ते इति न जीव-ब्रह्माभेदासिद्धिर् इति चेत् - अन्तर्याम्य् अधिकरणे जीव-ब्रह्मभेदपरे जाग्रति, तथा समन्वयाध्याये बहुभिर् अधिकरणैः जीवात् ब्रह्मणो भेदे स्थापिते कण्ठोक्ते च सति कथम् अभेद-बोधकत्वं कस्यचित् सूत्रस्य कल्पयितुं शक्यम् ? अन्तर्यामि-ब्राह्मणोक्तम् अन्तर्यामित्वम् उपासनार्थम्, न वास्तवम् इति चेत् - तर्हि सर्वस्य कल्पिततया ब्रह्म-व्यतिरेकेणान्याभावस्य सिद्धतया तन् नित्यत्व-स्थापनाय असम्भव-सूत्रम्, “नात्मे"ति सूत्रम् इत्य् अनेकसूत्रकरणम् अयुक्तम् एव ॥
“नात्मा श्रुतेः” इति सूत्रे आत्मेत्य् एकवचनबलात् नात्मैक्यसिद्धिः । “यथाग्नेः क्षुद्रा विष्फुलिङ्गाः चरन्ति, एवमेवास्माद् आत्मनः सर्वे प्राणाः” इति, “सर्व एते आत्मानो व्युच्चरन्ति” इति च श्रुत्या सूत्रदिदर्शयिषितयैव भेद-सिद्धेः । सिद्धान्ते ऽपि “नित्यो नित्यानां चेतनश्चेतनानाम्” इति चेतनानेकत्व-स्थापक-श्रुतिर् जागर्ति । एकत्वं प्रत्येकैकत्वाभिप्रायेणापि निरुह्येत; बहुत्वं तु अविधेयम् अपि अनूद्यमानम् अप्य् अबाध्यत्वाय स्वीकर्तव्यम् इति चेतन-बहुत्वम् अक्षतम् । अतः, “श्रेष्ठश् चे” ति सूत्रे मुख्य-प्राणस्येव जात्येकत्वम् आत्मेत्यत्र भाव्यम् इति शतदूषण्य्-आशये स्पष्टे भवता स्व-सिद्धान्तानुरोधेन एकत्व-स्थापनाय बहुवचनवचनानाम् अन्यथा नयने प्रवर्त्यते । तत्र नियामकतया देहानेकत्वात्मैकत्वनिर्देशकानि गीतावाक्यानि उद्ध्रियन्ते । तानि तु एकैकस्याप्य् आत्मनः अनेकदेह-प्राप्ति-प्रदर्शन-सन्दर्भ-गततया न लोकस्थ-सर्वशरीराणाम् एकात्माधिष्ठितत्वस्थापनपर्याप्तम् । अन्यथा, “इदं शरीरं कौन्तेय! क्षेत्रम् इत्य् अभिधीयते” इत्य् एकवचनात् शरीरम् अप्य् एकम् एव लोके स्यात् । “सर्वभूतस्थितं यो माम्” इत्य् अत्र भूतपदस्याचेतन-विशिष्ट-चेतन-प्रसिद्धतया जीवपर्यन्तवाचित्वात् जीवस्थितत्वम् एव परमात्मनो लभ्यत इति न देहेषु सर्वेषु आत्मन एकस्य स्थितिर् उक्ता भवति । अतः, “नात्मा श्रुतेर्” इति सूत्रे आत्मानम् अनूद्य अनुत्पत्ति-विधानाद् आत्मनानात्वैकत्वविषये सूत्र-तात्पर्याभावात् मूलप्रमाणं यत्संख्याकात्मपरम्, सूत्रं तत्संख्याकम् अनुवदिष्यतीति एकवचनस्य एकत्वसाधकत्वं न भविष्यतीति तत्त्वम् । अत्र श्रेष्ठश् चेत्य् उदाहरणञ् च शतदूषण्य्-उपात्तम् । तत्र यद् उच्यते, श्रेष्ठश् चेति सूत्रं पृथग् अधिकरणम् अद्वैतिमते, अन्यमते पूर्वेणैकाधिकरण्यम् इत्यादि - तत् सर्वं प्रस्तुतांशानुपयोगि । तथा प्राक् सृष्टेर् एकत्वावधारणात् कारणात्मनैकत्वं श्रेष्ठश् चेति सूत्र-विवक्षितम् इति कल्पनम् अपि साहसमात्रम् । एकैकशरीरे ऽपि इन्द्रियाण्य् अनेकानीव अनेके प्राणाः न सन्ति; पञ्चवृत्तिर् एकः प्राणः इत्य् आशयेन एकवचननिर्देशः इति स्वरस-त्यागेन किम् इति कल्पना ? “अंशो नानाव्यपदेशाद्” इति सूत्रे अंशपदेन साक्षात् ब्रह्म-स्वरूप-ग्रहणं तावन् न भवति; अपि तु जीव-भावापन्नस्य । जीवभावे चानेकत्वस्य संप्रतिपन्नत्वात् तत्रैकवचनं जात्यभिप्रायम् एव वाच्यम् इति “नात्मे"त्य् उपक्रम-सूत्रम् अपि तथैव युक्तम् । अत एव श्रीभाष्ये अंशाधिकरणं गत्वा, आत्मेत्य् एकवचनं जात्यभिप्रायम् इति भाषितम् इत्य् अवधेयम् । किञ् च कर्तृत्वांशत्वादीनां सिद्धान्तितानां समन्वयाय “नात्मे"ति सूत्रे आत्म-पदेन जीव-ग्रहणे, जीवेश्वरयोः बिम्ब-प्रतिबिम्ब-भाव-पक्षस्यैव ग्राह्यतायाः सिद्धान्त-लेशसंग्रहे ऽन्ते समर्थितत्वेन जीवात्मनः प्रतिबिम्बरूपस्य नानात्वाद् एकवचनं जात्यभिप्रायम् एव वाच्यम् । एवम् अपि नित्यत्वकथनं तत्र न युज्यते; मुक्तौ प्रतिबिम्ब-निवृत्तिध्रौव्यात् । आत्मपदेन शुद्धात्म-ग्रहणे तु, “असम्भवस्तु सत” इति सूत्रेण पौनरुक्त्यम् इत्युक्तम् एव ॥
अथ “अजो नित्यः शाश्वतो ऽयं पुराण” इति श्रुतौ एकत्वाविवक्षाकारणाभावाद् आत्मैक्यसिद्धिर् इति कथनम् अपि न सम्यक् । तत्र एकत्व-विधानायोगात् । “न ह्य् अत्र उद्देश्य-विधेयभाव” इति कथनम् अप्ययुक्तम् । प्राप्तस्य अयम् इति पदार्थस्य उद्देश्यत्वस्य स्पष्टत्वात् लिङादिघटितवाक्यविशेष इवात्र विशिष्ट-विधान-प्रसक्त्यभावात् । एवञ् च ग्रहैकत्ववद् एवाविवक्षितम् एकत्वम् । यथा ग्रहपदोत्तरैकवचनं नैकत्वविधायकम्, तथा अयम् इति पदस्थम् एकवचनं न विधेयकत्वसमर्पकम्; इदम् पदार्थात्मोद्देशेन तदेकत्वाजत्वोभयविधाने वाक्यभेदात् । नाप्य् अजपदोत्तरैकवचनम् एकत्वसमर्पकम्; तत्रापि धर्म्यंशस्य प्राप्ततया अयम् इति आत्मोद्देशेन अजपद-प्रवृत्ति-निमित्तस्याजत्वस्यैकवचनोपात्तस्यैकत्वस्य च विधाने वाक्यभेदात् । यच् च चेतन-बहुत्वस्यौपाधिकत्वे, “अणव” इति बहुवचनस्य दृष्टान्तीकरणम् - तच् चायुक्तम् । इन्द्रियाणां स्वाभाविक-नानात्वशालितया औपाधिकत्वाप्रसक्तेः । श्रेष्ठश् चेति सूत्रोक्तन्यायेन आत्मेत्य् एकवचनं मुक्त्यवस्थसंविन्मात्राभिप्रायम् इति कथनञ् च तत्सूत्रोक्त-न्यायस्य कस्यचित् प्रकृत-साधकस्याभावाद् असम्बद्धम् । अतः, “आत्माद्वैतभङ्गाय प्रयासः स्वशृङ्गभङ्गायैव” इति तिरश्चीनोक्तिर् अपि तिरस्कृतैव भाव्या ॥
अथोभयलिङ्गाधिकरणे स्वपक्षोपन्यासः परं कृतः । स्वपक्षे स्वारस्यं तु न वर्णितं शत-भूषण्याम् । तत्र परब्रह्मणि साकारत्वनिराकारत्वोभयं नास्तीति सूत्रार्थवर्णनं न सम्यक् । उभयलिङ्गम् इति पदं यदि न बहुव्रीहिवृत्तम् अविवक्षिप्यत् उभयम् इत्येव प्रायोक्ष्यत् । किञ् च पृथिव्याद्युपाधिप्रयुक्तोभयवत्त्वं नास्तीत्य् उक्तिर् अपि न युक्ता । निर्विकारत्वस्योपाधिप्रयुक्तत्वाभावेनोभयस्मिन् उपाधि-प्रयुक्तत्वानन्वयात् । उभयस्य निषेधे च सदसद-निवर्चनीयवत् उभय-विलक्षणं ब्रह्म प्रतिपत्तव्यं स्यात् । उपाधि-प्रयुक्तस्यैवोभयस्य निषेधात् स्वाभाविकोभयवत्त्वम् अपि श्रुतिबलाद् अङ्गीकर्तव्यम् इत्यपि सूत्राशयः स्यात् । एकतरपरिशेषे ऽपि सविशेषत्वं स्वीकृत्य निर्विशेषत्वं निरसनीयतयेष्टम् इत्यपि स्यात् । पूर्वं जागर-स्वप्न-सुषुप्त्यवस्था-प्रस्तावात् तत् तद् अवस्थासु सुख-दुःख-मोहानां जीवे प्रतिपन्नतया तादृशांश-निषेधस्यैव प्रसक्ततया निषेध्यस्य ज्ञातत्वेन उभयलिङ्गम् इत्यस्य प्रतियोगि-समर्पकत्वम् अनपेक्षितञ् च । ‘सर्वत्र ही’ति भागे विधेयस्य कस्यचिद् अपेक्षितत्वात् तदर्थे तत्र उभय-लिङ्गान्वय उचितः । अन्यथा सविशेषत्वं वा निर्विशेषत्वं वा उभय-निषेधो वा किं सर्वत्रेति न ज्ञायते । एवं सविशेषत्वमात्रे निषेध्ये उभयं निषेधन्, विधेयम् अपि विशिष्यानिर्दिशन् सूत्रकारः स्वयम् असमर्थो वैश्यसाक्षि-देश्यो वा स्यात् । अथ सामान्यतः सूत्रकृता कथने ऽपि वयं ततो विविच्य निर्धारयितुं पारयाम इति चेत्, एवं पारयतां बादरायणः कुत्रापि नापेक्षितः । तदीयसूत्रग्रहणम्, तत्र प्रतीत-स्वरसार्थत्यजनम्, तत्र कारणोपन्यासः इत्य् आदि-क्लेशम् अपि तीरयितुं भवद्भिः तदस्पर्शो वरम् । अतो भवन्मत-संमतौ सूत्रकृत् उभयलिङ्गम् इत्यत्र सविशेषत्वम् इत्येव प्रयुक्तवान् स्यात् । तस्मात् अखिल-हेय-प्रत्यनीकत्व-कल्याण-गुणैकतानत्वोभयविशिष्टं ब्रह्मेत्येवात्र स्थाप्यत इति शतदूषण्याशय एव शोभनः ॥
एवं स्व-मतानुपपत्ति प्राप्तामपरिहृत्य शतभूषणी श्रीभाष्ये बत दोषम् उद्भावयितुं यतते । श्रीभाष्ये अस्मिन् अधिकरणे पूर्वम् अधिकरण-द्वय-सिद्धांशाधिकं किम् उच्यत इति स्वयम् एवाशङ्क्य विषय-विवेकः कृतः । हेयसम्बन्धः प्राग् एवाधिकरणद्वये आशङ्क्य परिहृतः इति पुनः परिहरणे पिष्ट-पेषणम् इति शङ्का । परिहारस् तावत् - “संभोग-प्राप्तिर् इति चेन् न वैशेप्यात्” इति सूत्रे जीवेन सह शरीरे स्थितत्वात् जीववत् भोगी स्याद् इति शङ्का परिहृता । तच्-छरीरस्य जीववद् ईश्वरं प्रत्य् अपि शरीरत्वात् जीववद् भोक्तृत्वापत्तिर् इति शङ्का च, ‘भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत्’ इत्य् अत्र परिहृता । अथात्र प्रकारान्तरेण शङ्का - पुण्य-पाप-रूप-कर्माभावाद् ईश्वरस्य न भोक्तृत्वम् इति न युक्तम्; कर्मणां हेय-शरीर-स्वामित्व-सम्पादन-मुखेनैव भोजकत्वात् कर्म-मूलं वा स्वतो वा हेय-शरीर-स्वामित्वे संपन्ने भोगस्यावर्जनीयत्वाद् इति । तत्-परिहारार्थम् इदम् अधिकरणम् इति । परिहारक-हेतुश् च तत्र तत्र विभिन्नः । जीव-निरूपित-स्वत्व-संपत्त्यर्थं शरीर-निर्माणवत् ईश्वर-स्वत्व-संपत्तये तन्-निर्माणस्याभावात् न भोग-प्राप्तिर् इति प्रथमम् उक्तम् । कर्माधीन-शरीर-स्वामित्वाभावात् न भोक्तृत्वम् इति पश्चाद् उक्तम् । अखिल-हेय-प्रतिभट-शक्तिः श्रौती हेतुर् इहोच्यते । अखिल-हेय-प्रतिभटत्व-श्रवणम् इव कल्याण-गुणैकतानत्व-श्रवणम् अपि अपुरुषार्थ-आपत्ति-वारकम् इति, ‘उभयलिङ्गं सर्वत्र ही’त्य् उक्तम् । एतद् उपपादनावसरे श्रीभाष्ये, “देह-योगाद्वे"ति सूत्रस्योपादानात् तद् गृहीत्वा पृच्छति शतभूषणी - “स्वप्नावस्थायाम् आद्यसृष्टेः पूर्वम् इव परमात्मनोऽपि सूक्ष्माचिद्-रूप-देह-संयोग-सत्त्वे सत्य-सङ्कल्पत्वाद् अतिरोधाने स्वाप्न-स्रष्टृता न स्यात् । अतिरोधाने सदोषत्व-शङ्काऽत्राधिकरणे कथम्” इति । अत्र आद्यसृष्टेः पूर्वम् इवेति सूक्ष्माचिद्-रूपेति च व्यर्थम् । सर्वविध-देह-संबन्धस्य सर्वदा यथायथं सिद्धान्ते इष्टत्वात् । अत एव स्वाप्न-मात्र-स्रष्टृत्वाभाव-शङ्काऽपि मा भूत; जगत्-स्रष्टृत्वाभावोऽपि शङ्कितुं शक्यते । तथाचात्राधिकरणे एवं शङ्का - परस्य ब्रह्मणः सर्वाशुचि-संबन्धायत्त-सर्वापुरुषार्थवत्त्वात् तदीय-सत्य-संकल्पत्वादि-स्वभाव-भङ्गापत्तिः, जगत्-स्रष्टृत्वाद्य्-अनापत्तिः, ईश्वरादेर् एवासिद्धिर् इति । सर्व-शक्ति-संपन्नं ब्रह्म प्रति च कस्यापि वस्तुनो हेयत्वाभावात्
दुःखाद्य्-अपुरुषार्थ-लव-लेशोऽपि न भवतीति न किञ्चिद् अपहीनम् इति परिहारः । ननु विश्वामित्रादयः ब्रह्म-तेजः-प्रभृति-कतिपय-प्रभाव-विरहेऽपि विचित्र-सर्गानुगुण-विभव-शालिनोऽपि विश्रुता इति तथा ब्रह्मणो दुःखानुभवितृत्वेऽपि जगत्-सर्गादिकम् उपपद्यताम् इति चेत् — एवं स्वप्नार्थ-सर्गोऽपि मा प्रतिहन्यताम् । कतिपयापुरुषार्थ-मात्रेण सर्व-शक्ति-निषेधस्यानावश्यकत्वाद् इति । सर्वथाऽपि शतभूषणी-प्रश्नस्यानुत्थानम् एव ॥
इदम् अप्य् अत्र बोध्यम् — “भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत्” इति सूत्रे, जीवेश्वरयोर् उभयोर् अपि शरीरं प्रति स्वामित्वाद् अविशेषेण भोक्तृत्वं स्यादेवेत्य् आशङ्कायाम् — शासन-विषयस्यैव शरीरस्य भोगायतनत्वम्, अतथात्वाद् ईश्वरो न भोक्ता राजवत् । राज-शासनानुवृत्त्य्-अतिवृत्ति-निबन्धन-फल-भोक्तृत्वं हि न शासकस्य राज्ञोऽपीत्य् उक्तम् । अथेहैवं शङ्का - यत्र यत्र शरीरत्वम्, तत्र तत्र राज-शासन-विषयत्वम् इति नियमाभावात् राज-शरीरादेर् दण्डभाक्त्वं मा भूत् । यत्र यत्र शरीरत्वम्, तत्र तत्र सुख-दुःख-हेतुत्वम् इति नियमस् तावद् अस्त्य् एव । न चान्तरधिकरणे भगवतोऽप्राकृत-विग्रहस्यातादृशस्योक्तत्वान् न सोपि नियम इति शङ्क्यम् — अथापि प्राकृत-शरीरत्वं यत्र, तत्र तत्त्वम् इत्यस्य सुवचत्वात् । नित्यानाम् अपि पदार्थानां शरीरत्वस्य प्रामाणिकतया तत्र कर्मजन्यत्वस्य दुर्वचतया, यत्र शरीरत्वम्, तत्र कर्मजन्यत्वम् इति नियमासंभवेऽपि शरीरत्वं यत्र, तत्र सुख-दुःख-हेतुत्वम् इति नियमः संभवत्य् एव । श्रुति-दर्शितश् चायं नियमः, “न ह वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः” इति, अत ईश्वरस्य प्राकृत-पदार्थ-शरीरकत्वाङ्गीकाराद् अवर्जनीयस् तन्-मूलः सुख-दुःखानुभव इति । एवं भोक्त्रापत्त्य्-अधिकरणोपमर्देनात्र पूर्व-पक्षे, परिहारः क्रियते — प्राकृत-पदार्थानां शरीरत्व-प्रतिपादकान्तर्यामि-श्रुत्य्-आदिष्व् एवामृतत्वापहत-पाप्मत्वयोर् अपि श्रावितत्वात् प्राकृत-शरीरत्वं यत्र तत्र भोगायतनत्वम् इति नियमं परित्यज्य तत् तत् कर्माधीन-शरीरत्वं यत्र तत्र तद्-भोग-हेतुत्वम् इत्य् एव नियम इति ।
अथ, “भेदाद् इति चेन् न प्रत्येकमत्-अद्वचनात्” इति द्वितीय-सूत्रार्थोऽपि विभ्रष्टव्यः । अत्र, ‘देवादि-देह-योगाद् अपुरुषार्थ इति चेन् न’ इत्य् अर्थ-वर्णने पूर्व-सूत्राद् अस्य को विशेष इति यः प्रश्नः, स यथावच्-छ्रीभाष्ये दृष्टे न भवितुम् अर्हति । “प्रत्येकम् अतद्-वचनात्” इत्य् उत्तर-वाक्यानुगुणः शङ्का-ग्रन्थार्थः श्रीभाष्ये व्यक्तम् अदर्शि । पूर्व-सूत्रे पृथिव्यादि-स्थान-प्रयुक्तापुरुषार्थ-योग-शङ्कायां परमात्म-गत-अखिल-हेय-प्रत्यनीकत्वादि-स्वाभाव्य-हेतुना परिहारः कृतः । अथाखिल-हेय-प्रत्यनीकत्वादि-विशिष्टतया प्रजापति-वाक्य-श्रुतस्यैव जीवस्य देह-योग-वशाद् अपुरुषार्थवत् अस्याप्य् अस्तु देहावच्छेदेनापुरुषार्थ-योगः, तद्-अनवच्छिन्न-स्वरूपांशे चाखिल-हेय-प्रत्यनीकत्वादीति व्यवस्था-संभवाद् इति शङ्काशयः । पृथिव्यादिकं शरीरतया निर्दिश्य तत् तद् देहावच्छेदेन सत एव प्रति-पर्यायं हेय-प्रत्यनीकत्व-कथनात् तद् अवच्छेदेनापि नापुरुषार्थ इत्य् अवसायान् नैवम् इति परिहाराशयः । एवञ् च पूर्व-सूत्रोपरि शङ्का, तत्-परिहारश् च विशदीभवतः । भवन्-मत एव च सूत्र-वैयर्थ्यम् । तथा हि — ‘न भेदात्’ इति सूत्रोपक्रमो भवन्-मत इत्य् अन्यद् एतत् । ब्रह्म-विद्या-भेदेनाकार-भेद-दर्शनान् न निराकारत्वम् इति चेन् न - प्रत्य्-उपाधि-भेदम् अभेद-वचनाद् इति सूत्रार्थः । अत्र पौनरुक्त्यं स्पष्टम् । पूर्व-सूत्रे उपाधि-प्रयुक्तम् उभयलिङ्गत्वं प्रतिषिद्धम् । इदानीम् उपासन-भेदेनाकार-भेद-श्रवणात् साकारत्वम् इति प्रश्नः । पूर्वं पृथिव्याद्य्-उपाधि-योगाद् औपाधिका-कारभाक्त्वे ब्रह्मणि शङ्किते निराकारत्व-श्रुति-बलात् परिहृते उपासना-भेद-भिन्नाकार-ग्रहणेन साकारत्व-शङ्का हि नैव भवितुम् अर्हति । यदि, प्रथमतः उपासना-विधायि-वाक्यावगताकार-सद्भाव-शङ्का-परिहारः; अथ तेषाम् अध्यस्तत्वेऽपि स्वरूपोपदेशपर-वाक्यावगताकार-योगो न वर्जनीय इति शङ्कायां तस्यापि निराकारत्व-श्रुति-बलान्-निरास’इति स्यात्, कथञ्चिद् उपपद्येत । विपरीतं तु वर्णनं न युक्तम् । न च निर्विकारत्व-श्रुत्यपेक्षया द्वितीय-सूत्र-विवक्षिताभेद-श्रुतेर् निर्विकारत्व-स्थापन-सामर्थ्यम् अधिकम् अस्ति । किञ्च प्रत्य्-उपासन-स्थलं तथात्वानुक्त्त्या ‘प्रत्येकम् अतद्-वचनात्’ इत्य् उक्तिर् अपि न घटते । अपि च यश् चायम् अस्यां तेजोमय” इति वाक्येषु, “अयम् एव सः योऽयम् आत्मा” इति प्रतिपर्यायम् अभेद-कथनेऽपि, औपाधिकाकार-सत्त्वे को दोषः ? औपाधिकाकारोपलक्षितयोर् अभेदे अविरोधात् । एवम् आकाराणां सर्वेषाम् अपि तत्र तत्र श्रुतानाम् उपासनार्थत्वस्यैव भवद्-इष्टतया सूत्रद्वयं व्यर्थम् एव । उपासनार्थत्वेऽपि श्रुतीनां स्वतःप्रामाण्यात् श्रूयमाणाकार-स्वीकारे को दोषः ? ननु ब्रह्मणि उच्यमान आकारः स्फटिक-प्रतीत-जपाकुसुम-लौहित्यवद् अध्यस्त एव युक्तः; औपाधिकस्यापि लाक्षा-रसावसेक-मूल-बीजपूर-कुसुम-लौहित्यवत् तत्र पारमार्थिकत्वे तस्याकारस्य सत्यस्य ब्रह्म-परिणामत्व-प्रसङ्गाद् अपरिमाणत्व-श्रुति-विरोधाद् इति चेत् — तर्हि प्रथम-सूत्रोक्त-निर्विकारत्व-श्रुति-कार्यः परिहार एवात्रापीति द्वितीय-सूत्र-वैयर्थ्यम् एव । किञ्च पारमार्थिक-प्रकृति-परिणाम-संयोग-रूपस्य स्वरूप-विकाराभावेऽपि स्वभाव-विकारात्मकस्यौपाधिकस्य स्वीकारेऽपि निर्विकारत्व-श्रुत्य्-अनिर्वाह-विरहात् न साकारत्वस्य त्यक्तव्यतेत्य् अलम् । एवम् एव विशेषाशङ्का-विरहात् “अरूपवत्” इत्य् अत्र वच्-छब्द-वैयर्थ्याद्य् अपीत्य् अन्यद् एतत् । “अद्वैत-मते न कस्यापि सूत्रस्य, न वा कस्यापि पदस्यात्राधिकरणे वैयर्थ्यम्” इति भवद्-उक्तम् अनुपपन्नम् इत्यस्य निदर्शनार्थम् इदं किञ्चिद् उक्तम् ।
अथाधिकरणान्तरतया भवद्-अभिमत “प्रकृतैतावत्त्व” सूत्र-विषये ऽपि तत्र हि बृहदारण्यके, ‘द्वे वाव ब्रह्मणो रूपे’ इति पृथिव्य्-आदि-मूर्त-त्रयं वाय्व्-आकाश-रूप मूर्त-द्वयञ् चेति रूपद्वयम् उक्तम् । ‘अथ तस्य यथा माहारजनं वासः’ इत्यादिना पुरुष-रूपम् अपि किञ्चित् । ततः, ‘अथात आदेशो नेति नेती’ ति निषेधः कृतः । स निषेधो ब्रह्मणः, तद्-रूपाणाञ् चेति प्रथमः पूर्व-पक्षो भवताम् । अथ ब्रह्मण एव निषेधः, वाङ्-मनसातीततया दुर्ग्रहत्वात्; न रूपस्येति पक्षान्तरम् । सिद्धान्तस् तु रूप-मात्र-निषेधः; न तु ब्रह्मण इति । अस्मन्-मते तु - रूप-निषेध इति पूर्वः पक्षः । सिद्धान्तस् तु न रूप-निषेधः; किन्तु रूपैतावत्त्व-निषेधः -‘नैतावद् एव; रूपान्तरम् अप्य् अस्ती’ति श्रुत्यर्थ इति । तत्र भवदीय-पूर्व-पक्षः फल्गुर् इति भवद्-भाष्यत एव ज्ञायते । तत्र हि भाषितम् - “नेति नेतीति वीप्सेयम् । इतीति यावत् किञ्चिद् उत्प्रेक्ष्यते, तत् सर्वं न भवतीत्य् अर्थः” इति । अनेन हि भाष्येण, इति-शब्दस्य प्रकार-वचनत्वात् नेति नेतीति प्रकार-निषेध एव स्वरसः; न प्रकारि-निषेध इति दर्शितम् एव इति कथं पूर्व-प्रक्षः ? उपक्रमे च, “द्वे वाव ब्रह्मणो रूपे” इति रूपयोः प्राधान्येन ग्रहणात् तन्-निषेध एव स्वरस इति पूर्व-पक्षायोग एव । सिद्धान्ते च ब्रह्मणि रूप-द्वय-निषेधेऽपि स्वतन्त्रस्य ब्रह्मण इव स्वतन्त्रस्य रूप-द्वयस्य निषेधे प्रमाणाभावात् जगद्-अपलापो नानया श्रुत्याऽवगम्यते । एवञ् च यदि सूत्रकारः, प्रकृतं प्रतिषेधतीत्य् एतावद् एव सूत्रितवान् स्यात् रूपस्यैव प्रकृतत्वात् तत्-प्रतिषेधम् अभिसंहितवान् स्यात्; ‘द्वे वाव ब्रह्मणो रूपे’ इति ब्रह्म-प्रकारस्यैव प्रकृतत्वात् । ‘प्रकृतैतावत्त्वम्’ इति प्रयुञ्जानस् तु प्रकृत-रूपवत्त्वं न ब्रह्मण इति वदन् प्रकृतस्याप्रतिषेधेन रूपस्य ब्रह्मणश् च प्रकार-प्रकारि-भावम् एव प्रतिषेधतीत्य् आपद्यते । अतः इति-शब्द-स्वारस्य-विधातेन पूर्व-पक्षस्य द्वेधा वर्णनम् अपि हेयम् एव ।
यत् तु, “श्रीभाष्य-मते तु प्रक्रान्ता मूर्त-रूपानुपदेशात् साकाङ्क्षं प्रकरणं स्यात्” इति भवद्-वाक्यम्, तत् साकाङ्क्षम् एव सर्वदा; विवक्षितार्थस्यावचनात् । एवं “ततो ब्रवीति च भूय” इति सूत्र-खण्डोऽपि निष्प्रकारत्वं ब्रह्मणः प्रतिषेधति । “अथ नामधेयं सत्यस्य सत्यम्” इति वाक्यम् अत्र विवक्षितम् इति भवद्-भाष्ये ऽप्य् अनुमन्यते । तेन ब्रह्म-रूप-धर्मि-निषेधो नास्तीति ज्ञायत इति तत्रोक्तम् । तथा, “प्राणा वै सत्यम्” इति विवरणात् प्राण-पद-वाच्य-सर्व-जीवाधिपतित्वादिः प्रकारोऽपि हि ब्रह्मणः सहानुमन्यते । पूर्वं रूप-निषेधे नाम-निषेधोऽप्य् अवर्जनीय इति, “अथ नामधेयम्” इति तत् स्वीकारश् च न युक्तः । तस्मात् अचेतनाधारत्वं प्राग् उक्त्वा, ‘न केवलम् एतावत्; नानाविध-चेतनाधारत्वम् अप्य् अस्ती’ति भूयों ऽश उच्यत इति त्व् एतत्-स्वरसार्थः । भूयः पदं हि पूर्वोक्त-प्रकार-संमति-पूर्वम् अधिक-सद्भावं गमयति । अतः कथम् अद्वैत-मते ऽत्र सूत्र-स्वारस्यम् ? पूर्वेणैकाधिकरण्यम् एवात्र युक्तम् इति चान्यद् एतत् ॥
जगतो मिथ्यात्वम् असौत्रम् । सन्ध्याधिकरणे, ‘माया-मात्रम्’ इति पद-सद्भाव-मात्रेण न प्रपञ्च-मिथ्यात्व-सिद्धिः । माया-शब्दस्य मिथ्या-वचनत्वाभावात् । स्वाप्न-प्रपञ्चे-मिथ्यात्व-विषयकतयैव तद्-अधिकरणस्य भवद्भिर् योजनाच् च । वैधर्म्याच् च न स्वप्नादिवत्” इति स्वम-वैधर्म्येण प्रपञ्च-सत्यत्वस्य सूत्रेष्टत्वाच् च । किञ् च स्वाप्न-मिथ्यात्वं नैव तत्र स्थापनीयम् । भवन्-मते जिज्ञासाधिकरण एव विश्व-मिथ्यात्व-स्थापनात् अबाध्य-प्रपञ्चस्यैव मिथ्यात्व-सिद्धौ स्वाप्न-सत्यत्व-शङ्कानवकाशात् । ‘तद्-अनन्यत्वम्’ इति सूत्रे ब्रह्म-व्यतिरेकेण सर्वस्याभाव-वर्णनाच् च स्वप्न-सत्यत्वाप्रसक्तेः । अथ नारिकेलावरोहि-नरकेलि-वचनवत् माया-मात्र-सूत्रं कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वाद् इति ज्ञात-पूर्वं प्रपञ्च-मिथ्यात्व-हेतुम् उपन्यस्यैव स्वाप्न-मिथ्यात्वम् अपि साधयतीति चेत् - तेन कृतकरत्वम् एवाधिकरणस्योक्तं भवति । वस्तुतः स्वाप्न-दृष्टान्तीकरणेन प्रपञ्च-मिथ्यात्वस्य साधनं युक्तम्; न तु प्रपञ्च-दृष्टान्तीकरणेन स्वाप्न-मिथ्यात्व-स्थापनं शोभनम् इति शतदूषण्युक्तार्थ-दूषणे प्रवृत्ता शतभूषणी लिखति -
स्वाप्न-जागर-पदार्थानाम् उभयेषां मिथ्यात्वेऽपि वैधर्म्य-सूत्र-विवक्षितं वैधर्मन्यादृशम् — प्रातिभासिकत्व-व्यावहारिकत्व-रूपम्, तूलाज्ञान-कार्यत्व-मूलाज्ञान-कार्यत्व-रूपम्, उत्तरोत्तर-परिणाम-हेतुत्व-तद्-धेतुत्व-रूपम् । माया-शब्दार्थश् च पूर्व-पूर्व परिणाम-हेतुकोत्तरोत्तर-परिणाम-परम्परा । स्वाप्निकेषूत्तरोत्तर-परिणामाहेतु-परिणाम-मात्रत्वात् माया-मात्रत्वम् । अत एव माया-मात्र-पदम् । माया-शब्दस्य मिथ्यार्थे प्रयोगस् तू्पचारेणेति ।
तत्रोच्यते - यावत्-तत्त्व-ज्ञानोदयम् अबाध्यत्वं तत्त्व-ज्ञान-बाध्यत्वं च उभयत्राप्य् अविशिष्टम् । अतो जगन्-मिथ्यात्व-वादिना स्वाप्न-दृष्टान्तेन तन्-मिथ्यात्व-साधनं बौद्धोक्तं न प्रतिषेद्धुं शक्यम् । बाह्यं पदार्थम् एव बौद्धोऽपलपतीति चेत् — भवद्भिर् अप्य् अपलप्यत एव । नापलप्यते; किन्तु अनिर्वचनीयम् अस्तीत्य् उच्यत इति चेत् — तत् किम् अनिर्वचनीयं स्वप्ने नास्ति, येन तद्-वैषम्यम् उच्येत । शुक्ति-रजत-आदेर् इव स्वाप्निकस्यापि प्रातिभासिकतया अनिर्वचनीयापलापायोगात् । एवञ् च न स्वाप्न-जागरयोर् वैधर्म्यम् । स्वाप्नस्य जागरेण बाध्यत्वम् अस्ति । जागरस्य तु न तद् इति वैधर्म्यम् अस्तीति चेत् — पूर्वपक्षी बौद्धोऽपि तत् वैधर्म्य मिष्टैव तत्त्वज्ञान-बाध्यत्व-रूपं साधर्म्यम् एवाहेत्य् अविशेष एव । अनिर्वचनीयोत्पत्ति-निरासे च शुक्ति-रजतादेर् अप्य् अभावात् तद्-दृष्टान्तेन प्रपञ्चानिर्वचनीयत्वा-सिद्ध्या बाह्यापलाप एव पर्यवसानं मिथ्यात्व-वादस्य । जगति स्वाप्न-वैलक्षण्येन स्थाप्यमानं व्यावहारिकत्वं नाम व्यवहार-काले अबाध्यत्वम् एव । व्यवहार-काले बाधोऽनुभूयत इति न बौद्धोऽपि वक्तुम् अर्हति । युक्त्या बाध्यत्वं तूभय-संमतम् । वेद-मूला युक्तिर् इयम् इति भवन्-मतम्; स्वतन्त्रा युक्तिर् इति तन्-मतम् । ‘आर्षं धर्मोपदेशञ् च वेद-शास्त्राविरोधिना’ इति वेद-शास्त्राविरोधित्वम् अद्वैति-दृष्ट्या तन्-मते ऽप्य् अक्षतम् एव । तूलाज्ञानेत्यादिना भिन्न-कारण-जन्यत्व-विभिन्न-कार्य-हेतुत्व-रूप-वैधर्म्य-कथनम् अप्य् एवं वृथा । तन्-मते ‘प्रतीति-मात्रम् अस्ति, न वस्तु’ इति उभयत्र साधर्म्यम् एव । भवन्-मते उभयत्रानिर्वचनीयम् अस्तीति उभयत्र साधर्म्यम् एव । स्वप्ने ऽनिर्वचनीयानङ्गीकारे च तूलाज्ञान-कार्यत्वं स्वाप्निक-वस्तुनि दुर्वचं स्यात् ॥
माया-शब्दस्योत्तरोत्तर-परिणाम-परम्परायां शक्ति-ग्राहकं प्रमाणञ् च किम् अत्र भवतः ? परम्परा चेयं कियद्-दीर्घा भवन्ती माया-शब्दार्थः । स्वल्प-परम्पराया अपि मायात्वे स्वाप्न-कार्य-परम्परा ऽपि माया प्राप्नोति । एक-सृष्टि-प्रलय-मध्य-निविष्ट-दीर्घ-परम्परैव चेन्-माया, तत्र तत्र क्वचिद् एव, ‘तेन माया-सहस्रं तत्’ इत्य् एवम् माया-शब्द-प्रयोगः अन्यत्राप्रयोगश् चानुपपादितौ भवतः । अत्र स्वाप्नेषु मायामयत्वं नास्ति माया-मात्रत्वम् अस्ति । अत एव मात्र-पदम् इति भवान् ब्रूते । भवद्-भाष्ये तु, ‘स्वप्नेऽपि पारमार्थिकी सृष्टिः ? आहोस्वित् मायामयी’ ति, तथा, ‘मायैव सन्ध्ये सृष्टिः, न परमार्थ-गन्धो ऽप्य् अस्ती’ति च मायात्वम् एवोक्तम् । अनेन मात्र-पदम् एवकारार्थे इति च ज्ञापितम् । अतः, ‘जागरिके मायात्वम्, स्वाप्ने च माया-मात्रत्वम्’ इति भवद्-उक्तं वैषम्यम् अमूलम् । भवद्-भाष्ये ऽपि, ‘तद् अनन्यत्वम् इति प्रपञ्च-मिथ्यात्वं कथितम् एव; प्रति-दिन-बाधितत्व-रूपं वैशेषिकमंशं स्वाप्नेषु वक्तुम् इदम् अधिकरणम्’ इति निरूपणावसरे, ‘समस्तस्य प्रपञ्चस्य माया-मात्रत्वम्’ इति मात्र-पद-घटित-माया-शब्द-प्रयोगः प्रपञ्च-विषये कृत एवेति, ‘प्रपञ्चो माया, स्वाप्नो माया-मात्रम्’ इति वैषम्यम् अमूलम् एव । तावता च सूत्रम् इदं प्रपञ्च-मिथ्यात्वाविषयकम् इत्य् एव दृढीकृतं भवेत् । माया-शब्दस्य मिथ्यार्थे प्रयोग उपचारणेति ब्रुवंश् च भवान् माया-मात्रम् इति सौत्र-पदस्य मिथ्यार्थ-विषयकत्वे स्वारस्यं नास्तीत्य् अस्मत्-पक्षम् आश्रितवान् एव ॥
यस् तूपरि प्रश्नः - ‘माया-शब्दस्याश्चर्य-वाचित्वं विचित्र-शक्ति-योगेनेति श्री-भाष्यानुयायिनः । तत्र स्वाप्नानुकूला शक्तिर् यदि ब्रह्मैव तत्र ब्रह्मणः परिणामितापत्तिः । यदि अचिद्-अंशः, तदा परमात्म-शरीर-भूताचित्-परिणामत्वात् सर्वानुभाव्यत्वम् एव जागर-पदार्थवत् स्यात्’ इति कुत एवम् अयम् ? न हि एकैकम् अप्य् अचिद्-कार्यं सर्वानुभाव्यम् इति नियमोऽस्ति । यावत्-पुरुष-कर्माधीनं यत्, तत् तावत्-पुरुषानुभाव्यम् इत्य् एव संप्रतिपत्तेः । स्वाप्नानां प्रकृत्य्-अंश-परिणामत्वम्, जागराणां प्रकृति-परिणामत्वम् इति विभजनं तु अर्थ-शून्यम् । यत् तु अस्माभिर् अपि मूल-तूलाविद्या-परिणामत्वस्य जागर-स्वाप्निकेषु स्वीकाराद् अविशेष इति - तन् न । मूल-तूलाविद्या-स्थितेर् अनङ्गीकारात् । यत्तु - विना वृक्षादिकं कथं रथादि-सृष्टिः स्वप्न इति - तत्र, ‘वृश्चिक-पूर्वकत्वे ऽपि वृश्चिकस्य गोमयाद् आद्यः, तण्डुलीयक-पूर्वकत्वे ऽपि तण्डुलीयकस्य तण्डुल-कणाद् आद्यः’ इत्य् आदि-न्याय-कुसुमाञ्जलि-वाक्यम्, ‘यथा दावाग्नि-दग्धानां वेत्र-बीजानां कदळी-काण्ड-जनकत्वम्’ इति भामती च वैचित्र्य-व्युत्पादनेन उत्तरम् अर्पयताम् । भवत्-तूलाविद्या परं वृक्षादि-निरपेक्षम् एव कथं रथादि-रूपेण परिणमति ? शुक्त्याद्य्-अज्ञानं वा जागरे रजतादि-रूपेण कथम् उत्पद्यते इत्यादि विमृश्यताम् । अज्ञानस्य तावच्-छक्तिमत्त्वे सर्व-शक्तस्येश्वरस्य तन्-मायायाश् च किम् उतेति विभाव्यताम् । कथं स्वप्ने आकाश-कुसुमं न सृज्यत इति चेत् — किम् इदम् आकाश-कुसुमं नाम ? यदि तुच्छम् तर्हि तुच्छत्व-सृज्यत्व-रूप-जन्यत्वयोर् विरोधाद् एव प्रश्नायोगः । यदि आकाशे किम् अपि कुसुमम् उपलभ्यम् इति तादृशं तत्र कदापि न सृज्यत इति कथं भवान् बुद्ध्यते ? यत् तु ‘भगवत्-संकल्प-मात्रेण सर्व-सम्भवे किम् अन्तर्गडुना प्रकृत्ये’ति, स प्रश्नो जागरेऽपि तुल्यः । सृष्टि-प्रकरण-विरोधात् तत्र स न युक्त इति चेत् — अचेतनांशस्य अचेतनोपादानकत्वात् स्वाप्न-रथादेर् अप्य् अचेतनत्वात् सर्वत्र स्थूल-चिद्-अचिद्-विशिष्टस्य सूक्ष्म-चिद्-अचिद्-विशिष्ट-कार्यताया एव क्लृप्तत्वात् श्रुति-प्रामाण्याद् एव सर्व-स्वीकार इति तुल्यम् । अनिर्वचनीयस्यावचनीयतायाः उक्तत्वेन वक्ष्यमाणत्वेन चाद्वैत-प्रक्रियाया अत्यन्तम् एव हेयत्वात् श्रुति-शरणैर् अद्वैति-प्रक्रिया-शरणीकरणस्य कदापि न प्रसक्तिः । प्रत्युत स्वाप्ने जागरतो ऽतिशयेन चेश्वर-सृष्टत्वम् एवेष्यते । वास्तवत्वे कथम् अपवरके शयानस्य तत्र प्रवेशानर्हमहापदार्थोपलम्भ इति चेत् — अनिर्वचनीय-पक्षे परं कथं गज-रथ-गोपुर-महीधरादिकम् अपवरकान्तर् भास्यतीति तुल्यम् । विना वस्तु प्रतीति-मात्रं स्वप्न इति तु नाद्वैतिभिर् अप्य् अभिनतम् ॥
कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वाद् इति हेतु-पद-विवरणे भवद्भाष्ये उक्तम् - ‘न हि कार्त्स्न्येन परमार्थ-वस्तु-धर्मेणाभिव्यक्त-स्वरूपः स्वप्नः । कार्त्स्न्यञ् च देश-काल-निमित्त-सम्पत्तिर् अबाधश् च’ इति । तथा च कार्त्स्न्येन-अनभिव्यक्त-स्वरूपत्वं नाम जागर-देश-काल-निमित्त-सम्पन्नत्वम् अबाध्यत्वं च । तद् अभावः स्वप्ने इत्य् उक्तं भवति । ‘श्रीभाष्ये, स्वाप्नम् अर्थ-जातम् माया-मात्रम्, जीवस्य कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वाद् इति व्याख्यानात् हेतोर् वैयधिकरण्यम्, जीवस्येत्य् अध्याहारश् चे’ति यद् उच्यते - तत् भवद्भाष्येऽपि, सन्ध्ये सृष्टिर् मायैव, स्वप्नस्य कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वाद् इति व्याख्यानाद् वैयधिकरण्यात् स्वप्नस्येत्य् अध्याहाराच् च तुल्यम् । जीवस्येत्य् एतल्-लाभे च न श्रम-लेशः । ‘पराभिध्यानात्तु तिरोहितम्’ इत्य् उत्तर-सूत्रे, किं तिरोहितम् इत्य् आकाङ्क्षायां जीव-रूपं तिरोहितम् इत्य् अर्थ-वर्णनम् उभय-पक्ष-विशिष्टम् । एवञ् चात्राभिव्यक्त-स्वरूप-पदेन जीव-स्वरूप-ग्रहणं एव तत्र विशेष्यानिर्देशेऽपि एतद्-सूत्रत एव स्वरूपात्मक-विशेष्य-लाभ इति सुवचं भवेत् । यत् तिरोहितम् इति वक्ष्यते, तद् एवेहानभिव्यक्त-स्वरूपम् इत्य् उच्यत इति परामर्शश् च स्वरूप-पदस्य जीव-स्वरूपार्थकत्वं द्रढयति । अतो जीव-स्वरूपस्येत्य् अध्याहारस्य स्वरस-प्रतीतत्वान् न दोषः । माया-मात्रम् इति पदे मात्र-पदात् तु-शब्दाच् च, न जीवेन सृष्टम् इति पूर्व-पक्ष्युक्तार्थ-निषेधस्य विवक्षणीयत्वात् जीवे हेत्व् अन्वयः सुज्ञानः । हेतोः पक्ष-निष्ठत्वे कथम् इति चेत् -पूर्व-दर्शिते शाङ्कर-भाष्य इव परिष्कृतं ग्राह्यम् । तद् एवम्-स्वाम-अर्थ-जातं माया-मात्रम् ; न जीव-सृष्टम् ; कार्त्स्न्येनानभिव्यक्त-स्वानुभावि-जीव-स्वरूपकत्वाद् इति । साक्षाद् एव सूत्राद् अयम् अर्थः सुलभश् च यथा स्व-पदं स्वकीय-परं सत् स्वाप्न-पदार्थानुभावि-जीवम् आह । तस्य रूपं स्वरूपम् इत्य् उच्यते । तच् चानभिव्यक्तम् इति । मा भूद् वा स्वरूपं जीव-स्वरूपम् । स्वाप्नार्थ-जातस्य यत् स्वरूपं उपादानोपकरणादि-ग्रहण-पूर्व-सृज्यमानत्वात्मकम्, तत् कार्त्स्न्येनानभिव्यक्तम् अगृहीतं जीवेनेत्य् अस्तु । अभिव्यक्तेर् ज्ञानस्य ज्ञातृ-सापेक्षत्वाज् जीव-लाभः सुकर एव । यत् तु सत्य-सङ्कल्पादेर् जीव-गतस्याभिव्यक्तत्वे ऽपि न जीवस्य निर्मातृत्व-प्रसक्तिः; ‘गुणानां च परार्थत्वाद् असम्बन्धः समत्वात् स्यात्’ इति न्यायेन चिद्-अचितोः परमात्मा-पृथक्-सिद्धतया परस्पर-शरीरत्वाभावाद् इति - तत्र जीवस्याचिन्-निरूपित-शरीरत्वस्य न कथमपि प्रसक्तिः । चिद्-अचितोः परमात्म-शरीरत्वे ऽपि अचेतनस्य देव-मनुष्यादि-शरीरस्य चेतन-शरीरत्वं तावत् सुप्रसिद्धम् । न तत्र ‘गुणानां च परार्थत्वाद्’ इति न्याय-प्रसक्तिः । अन्यथा व्रीहीन् अवहन्तीत्यादौ अवहननादेः व्रीह्याद्य्-अङ्गत्वम् अपि न स्यात् उक्त-न्यायात् । विशेष-श्रुत्य्-अवरुद्ध-स्थले स-न्यायो न प्रवर्तत इति चेत् तुल्यम्; बद्ध-शरीरादेः स्वं प्रतीव बद्धं प्रत्य् अपि शरीरत्वस्य भगवत्-सङ्कल्प-सिद्धत्वात् । अन्यथा अस्माकम् अपि शरीर-स्वामित्वानापत्तेः । अस्माकं भगवच्-छरीरत्वाद् एव तन्-नियमनानुरोधिभिर् अस्माभिस् तत् पारतन्त्र्यात् औपाधिकं शरीरं प्रति स्वामित्वं लभ्यते । ‘सङ्कल्पाद् एव तच्-छ्रुतेः’ इति सूत्रोक्त-रीत्या जीवस्य स्त्रष्टृत्वम् अपि क्वचिद् एषितव्यम् । यथेष्ट-विनियोगार्हम् अचिद्-वस्तु चिद्-वस्तु-शेषम् आपादयन्न् एवेश्वरोऽपि तुष्यति । ‘गुणानां च परार्थत्वाद्’ इति न्याये सत्य् एव देश-कालादेः साङ्ग-प्रधानाङ्गत्वम् अपि इष्यत इत्यादिबह्विदाहोदाहरणम् । अतो जीवः स्व-शेषम् अचिद् अंशं परिणामयेत् सति स्वरूपाविर्भावे; न तु स्वयं परिणमेत्, येन विकारित्वं प्रसज्येत ॥
यत् तु ‘सूचकश् चे’ति सूत्रस्य, मिथ्यात्वे ऽपि स्वाप्नार्थस्य शुभाशुभ-सूचकत्वम् अस्तीति व्याख्यानम् - तद् अयुक्तम् । स्वप्न-रूप-ज्ञानस्यैव सूचकत्वेन अर्थस्य-सूचकत्वाभावात् । अपि च भवन्-मते ‘सूचकश् चे’ति सूत्रम् असङ्गतम् एव ; पदार्थानां सत्यत्वे ऽसत्यत्वे च तेषां वा तज्-ज्ञान-रूप-स्वप्नस्य वा शुभाशुभ-सूचकत्वस्याक्षततया सूचकत्वस्य तत्-सत्यत्वासत्यत्वान्यतर-साधने उदासीनत्वात् असत्यत्व-रूप-माया-मात्रत्व-साधनार्थं तद्-उपन्यासायोगात् । जीव-सङ्कल्प-कृतत्वाभाव-विशिष्टेश्वर-सङ्कल्पाधीनत्व-रूप-माया-मात्रत्व-साधकत्वे तु अधिकरणस्य सूचकत्व-कथनं सञ्जाघटीति । यदि जीवः स्व-सङ्कल्पेन सूचकं स्वप्नं निर्मायात्, शुभ-सूचकम् एव निर्मायात्; नाशुभ-सूचकम् । किञ्च भावि शुभम् अशुभं वा यदि तेन नोत्प्रेक्षितम् तर्हि तत्-सूचकत्वाध्यवसाय-पुरस्सरं तत्-कृतिर् जीवस्य न स्यात् । यदि चोत्येक्षितम्, तर्हि ज्ञात-पूर्वत्वात् तस्य तत्-सूचकत्वं स्वप्नस्य न स्याद् इत्य् एवं प्राज्ञ-व्यापाराधीनत्वं स्वप्ने दर्शयितुं हीदं सूत्रम् । अत एव भवद्-भाष्ये ऽपि सूत्र-वैयर्थं मनसिकृत्यैव भाषितम् एतद्-सूत्रे - ‘न चास्माभिः स्वप्नेऽपि प्राज्ञ-व्यवहारः प्रतिषिध्यते । तस्य सर्वेश्वरत्वात् सर्वास्व् अवस्थास्व् अधिष्ठातृत्वोपपत्तेः’ इति । यद्यपि भवत्-पक्षानुकूलम् अस्माभिः सूत्रम् इदं सुप्रदर्शम्, ‘असत्यात् सत्योत्पत्ति-स्थापकं सूचक-सूत्रम् । स्वाप्नार्थः स्वयम् असन्न् अपि सूचकश् च भवति ।’ इति - अथापि स्वाप्नार्थ-सूचके जीव-सङ्कल्पाधीनत्वायोगात् ‘स हि कर्ते’युक्तस्य जीवे निर्वाहायोगात् प्राज्ञ-व्यवहारस्य स्वप्ने ऽप्य् अप्रतिषेधस्य भवद्-भाष्ये दर्शितत्वेन ‘स हि कर्ते’ति तत् कर्तृत्वं श्रूयत इति सामञ्जस्य-संभवे तत्-परित्यागायौगात्, प्राज्ञ-कर्तृकत्वे ऽपि जागर-दशा-प्रतीत-शुक्ति-रजत-तौल्यस्य सुवचतया प्राज्ञ-व्यापार-निषेधस्यानपेक्षितत्वाच् च नेदम् अधिकरणं न प्राज्ञ-कर्तृकत्व-निषेधनेदम् परं भवन्-मते ऽपि स्यात् । प्राज्ञ-व्यापाराधीनत्वात् सत्यम् इत्य् अनुमानं न घटत इत्य् एतावति अधिकरण-तात्पर्यम् इत्य् अपि भामत्याम् उक्तम् । असत्यात् सत्योत्पत्तिर् न । किन्तु सत्याद् एवेति च भामत्याम् एवात्रादर्शि, ‘दर्शनं सूचकम् । तच् च स्वरूपेण सत् । असत् तु दृश्यम् । अत एव स्त्री-दर्शन-साध्याः चरम-धातु-विसर्गादयो जाग्रद्-अवस्थायाम् अनुवर्तन्ते । स्त्री-साध्यास् तु माल्य-विलेपन-दन्त-क्षतादयो नानुवर्तन्ते’ इति । मिथ्या-भूतस्यापि सूचकत्व-परतया कल्पतरु-कृतम् एतद् व्याख्यानं तु प्रौढि-मात्रम् ; अक्षराननुगुणत्वात् । अन्ततः कल्पतराव् अपि तत्र, ‘स्वप्न-दर्शनस्य मिथ्यात्वम् औपचारिकं मिथ्या-वस्तूपधान-निबन्धनम् । वस्तुतो व्यावहारिक-सत्यत्वम् एवेति स्थापितम् एव । तस्मात् असत्यात् सत्योत्पत्ति-वचनं भामत्यादि-विरुद्धम् एव । अतो ऽसंभावित-तादृशार्थ-सूचकत्वं सूचक-सूत्रस्य न भवितुम् अर्हति ।
अतः पूर्व-व्याख्या-विरुद्धार्थ-स्थापनं खण्डनकारो यदि करोति, तर्हि स्व-पूर्व-खण्डनम् एव तेन कृतं स्यात् । खण्डन-खण्डनञ् च कथानधिकार-वादावसरे करिष्यते । अत्र पुनः उपात्त-तच्-छ्लोकार्थ-मात्रं दूष्यते ।
यद् उक्तम् अत्र, “असतो ऽपि कारणत्वं भवितुम् अर्हतीति उपपादितं खण्डने -
पूर्व-सम्बन्ध-नियमे हेतुत्वे तुल्य एव नौ ।
हेतु-तत्त्व-बहिर्-भूत-सत्त्वासत्त्व-कथा वृथा ॥
इति -
तत्रोच्यते । अयं खलु खण्डन-कृद्-आशयः - सतः कारणत्व-वादिनो ऽप्य् असत एव कारणत्वम् उक्तं भवति । तथा हि -
अन्तर्भावित-सत्त्वं चेत् कारणं तद् असत् ततः ।
नान्तर्भावित-सत्त्वं चेत् कारणं तद् असत् ततः ॥
इति ।
सतः कारणत्वम् इत्यस्य कोऽर्थः ? कारणत्वं पूर्व-काल-सत्त्वम् । तत् सत्ता-विशिष्टस्येत्य् उक्तौ, सत्ता-विशिष्टे सत्त्वं वदता सत्तायाम् अपि सत्त्वम् उक्तं स्यात् । न च स्वस्मिन्न् एव स्वम् अस्ति । न हि सुशिक्षितो ऽपि नट-वटुः स्व-स्कन्धम् आरोहेत् । अथ कारणत्व-घटकं सत्त्वम् अन्यत् । तच् च सत्त्व-विशिष्टे भवितुम् अर्हतीति चेत् — तर्हि, सत्ता-रूप-विशेषणस्यापि कारणत्वम्, तथा तस्याः स्वयं सत्ता राहित्यात् असत्या एव कारणत्वं च संमन्तव्यम् इति असतः कारणत्वं सिद्धम् । अथ घटादीनां सत्तां विना केवलानां कारणत्वम् उच्यते, तर्ह्य् अपि असत् कारणम् इत्य् एवोक्तं भवति । एवञ् च सद्-वादिन इवासद्-वादिनो ऽपि पूर्व-सम्बन्ध-नियम-रूप-कारणत्वस्य सुवचतया सत्त्वासत्त्व-विचारो व्यर्थ इति -
तद् इदम् अकृत-बुद्धि-सम्मोहन-मात्रम् —
सत्त्वेनाकारणत्वे ऽपि न भवेत् कारणं त्व् असत् ।
सद्-बुद्धि-मात्रात् हेतुत्वे धी-बाध्ये ऽप्य् अस्तु तत् फलम् ॥
सत् कारणम् इति वादिभिः सतो घटत्वादिनैव जलाहरणादि-कारणत्वम् इष्यते न सत्त्वेन रूपेण । यत्र सत्त्वम्, तत्रैव कारणत्वम् इत्य् एव सत्-कारण-वादार्थः । अन्यथा हि सत्त्व-सामान्यस्याभावे पूर्व-काल-सत्त्व-रूप-सत्ता-विशेषात्मकं कारणत्वम् एव दुर्घटम् । यद्य् उच्येत - वस्तुतो ऽसत्त्वे ऽपि इदं पूर्व-काल-सत् इति बुद्धि-मात्रेणासतो ऽपि कारणत्वम् इति - तन् न भ्रान्त-बुद्धौ सत्याम् अपि कारणत्व-प्रसङ्गात् । ननु भ्रान्तत्वाभ्रान्तत्व-निर्धारणं दुष्करम् । किञ्चिद्-ऊर-विमर्शेनाभ्रान्तत्व-निश्चये ऽपि, बुद्धिर् इयं कदापि कुत्रापि कस्यापि न बाधिष्यत इति निश्चयायोगात् अभ्रान्त-बुद्धाव् अपि तद् अनिश्चयात् । स्वतःप्रामाण्य-ग्रहस् तु भ्रान्त-बुद्धाव् अपि प्रथमम् अस्त्य् एवेति चेत् — भ्रान्त्या अस्तित्वेन गृहीताद् अग्नेः दाह-कार्यम् आपद्यते । पश्चात् कदाचिद् भ्रान्तेर् बाधितत्वे ऽपि भ्रान्तिकाले बाधाभावेन कारणत्वस्य स्थिततया दाहादि-कार्य-बाधो दुरुपपादः स्यात् । एवं बुद्धेर् हेतुत्वे, यत्र कारण-विषयिणी बुद्धिर् न जाता, तत्र कारणस्य वस्तु-सतः कार्य-जनकत्वं न स्यात् । असद्-विषय-धियो ऽपि कारणत्वे विज्ञान-मात्र-वादि-बौद्ध-मत-प्रवेशः स्यात् । कारणत्वस्येव कार्यत्वस्यापि कार्य-विषयकत्वाभिमत-धी-मात्रे सुवचत्वात् । धियो ऽपि सत्त्वे प्रमाणाभावाच्-छून्य-वाद-प्रसङ्गो वा । अबाधितत्वात् धीर् जाता न वेत्य् आदि-संशयाद्यभावाच् च धीर् अस्तीति चेत् - धी-विषयत्वात् संशयाद्यभावाच् च धी-विषयाणाम् अपि तथात्वम् एव । पश्चात् कदापि बाधो न भवेद् इति का प्रत्याशेति चेत् — तद् एतत् धियो ऽपि तुल्यम् इति धी-सत्त्वम् अपि दुरुपपादम् । तस्मात् असति सत्त्व-घटितस्य कारणत्वस्य दुर्वचत्वात् नासत् कथमपि कारणम् इति ।
असतः कारणत्वं यदीष्यते तर्हि असत्त्वम् एव त्यक्तं भवति । कारणत्वस्य कार्य-नियत-पूर्व-सत्त्वात्मकस्य सत्त्व-घटितत्वात् तस्य च तत्र भावात् । एवञ् च सत्त्वांशं विहाय धर्मिमात्रं कारणम् इति वा, सत्त्वं कारणता-प्रयोजकं नेति वा किम् अप्य् उच्यताम्; सर्वथा नासत् कारणम् इति ॥
अथोच्येत - कारणत्व-लक्षणे सत्त्वम् अन्तर्भूतं न वा । आद्ये, कारणत्वस्य क्वचिद् विधानावसरे सत्ता-विशिष्टे कारणत्वं न विधातुं शक्यम् । न हि तद् विशिष्टे तद् विधीयते । घटो घट इत्य् अत्राबोधात् । अन्त्ये, सत्त्वाघटितं कारणत्वम् असतो ऽपि भवितुम् अर्हतीति — तन् न । सत्ता-विशिष्टे कारणत्व-विधान-संभवात् । न हि कारणत्वं नाम केवल-सत्त्वम् ; किन्तु नियत-पूर्व-काल-सत्त्वम् । विधेये अधिकावगाहित्वे च उद्देश्यतावच्छेदक-विधेययोर् भेदाद् बोध आनुभविकः । ‘दण्डवान् रक्त-दण्डवान्’, ‘स्पर्शवत्य आपः शीत-स्पर्शवत्यः’ इत्य् एवम् । सत्त्वाद्य्-अघटितं तु कारणत्वं दुर्वचम् एव ।
पूर्व-संम्बन्ध-नियमः कारणत्वम् । तच् च सत्त्वाघटितम् इति चेत् — तन् न; सत्त्वाघटितस्य दुर्वचत्वात् । सुवचत्वे ऽपि तत् सत्ता-व्याप्यम् एवेति नासति तद् भवितुम् अर्हति ।
अन्तर्भावित-सत्त्वं चेत् कारणम्, तद् असत् कथम् ? । अनन्तर्भूत-सत्त्वं स्यात् कारणम्, तद् असत् कथम् ? ॥
कारणत्वन्य पूर्व-काल-सत्त्व-रूपस्य सत्त्व-घटितत्वात् असतः कारणत्वं न भवत्य् एव । अस्तु वा कारणत्वम् अन्यादृशं सत्त्वाघटितम् । अथाप्य् अन्वय-निरूप्यत्वात् कारणत्वस्यासतः कारणत्वं न भवति । अन्वय-व्यतिरेक-गम्यं हि कारणत्वम् । यत्र नित्य-विभौ कारणत्वं व्यतिरेक-निरूप्यं न भवति, नित्यतया काले, विभुतया देशे च तद्-व्यतिरेकस्य दुर्वचत्वात् तत्र धर्मि-ग्राहक-मान-बलात् कारणत्व-सिद्धिः । यद् आहुः - “पूर्व-भावो हि हेतुत्वं मीयते येन केनचित् । व्यापकस्यापि नित्यस्य धर्मि-धीर् अन्यथा न हि” इति । तथापि व्यतिरेक-अंशस्य क्वचिद् दुर्वचत्वे ऽपि अन्वयांशः तत्राप्य् अक्षतः । अन्यथा असतो ऽपि कारणत्व-स्वीकारे सामग्री-संविधान-प्रयत्न एव सर्वत्र न स्यात् । असता ऽपि कार्योत्पादन-संभवात् । अतः कारणत्वं सत्त्व-व्याप्यम् ।
अथ पूर्व-सम्बन्ध-नियम-रूपं कारणत्वम् अपि विमृशामः -
पूर्व-सम्बन्ध-नियमस्य कारणत्व-स्वरूपत्वे ऽपि सत्त्वं तत्र सुष्ठु प्रविष्टम् एव । नियमो हि अधिक-देश-सत्त्वम् । अत एव ‘अनन्यथा-सिद्धत्वे सति कार्याव्यहित-प्राक्-क्षणावच्छेदेन कार्य-व्यापकत्वं पूर्व-सम्बन्ध-नियमः’ इति चन्द्रिकोक्त-परिष्कारे ऽपि सत्त्वं दुस्त्यजम् ; व्यापकत्वस्य अधिक-देश-सत्त्व-रूपत्वात् । न च - व्यापकत्वं समानाधिकरणात्यन्ताभावा-प्रतियोगित्वं; तत्र च न सत्त्वं घटकम् इति वाच्यम्; एवम् अपि अत्यन्ताभाव-प्रतियोगित्वं कुतो नेति शङ्कायां कार्याधिकरणे सत्त्वाद् इत्य् एवोत्तरं वक्तव्यम् इति न सत्त्वाभावे व्यापकत्वोपपत्तिः । किं च कारण-सत्तायाः अनिविष्टत्वे ऽपि कार्य-समानाधिकरणेति कार्य-सत्तायाः घटकत्वात् तन्-निषेधो ऽनुपपन्नः । तथा च सर्व-निषेधः कथम् एवम् ? एवं पूर्व-सम्बन्धेत्य् अत्र सम्बन्ध-पदेन पूर्व-काल-सत्तैव ग्राह्येति कथं सत्तायाः अप्रवेशः ? तथा पूर्व-शब्दस्य कार्यानधिकरण-कार्यध्वंसानधिकरण-कालेत्य् अर्थकतया तत्रापि काचित् सत्ता निविष्टैव । तथा च -
पूर्व-सम्बन्ध-नियम-पदार्थेष्व् अपि यत् त्रिषु ।
निविष्टम् तस्य सत्त्वस्य बहिर्भाव-कथा कथम् ? ॥
एवं चन्द्रिकोक्त लक्षण-घटके अव्यवहितत्वादाव् अपि अनेक-सत्त्व-निवेशो भाव्यः । अस्तु तावत् कारणत्वं यत्-किञ्चित् । तत् अन्वय-व्यतिरेक-बलेनैवावधारयितव्यम् इति अन्वय-रूप-सत्ता गृह्यमाणा न प्रतिषेद्धुं शक्यते । तस्माद् असतः कारणत्वोपपादनं खण्डन-कृतम् अनुपपन्नम् ।
एवञ् च सिद्धान्त-सूत्रेषु माया-मात्र-सूत्र-व्यतिरिक्तानां जीव-सृष्टत्व-निषेध-पूर्वक-प्राज्ञ-सृष्टत्व-स्थापन-परत्व-स्वारस्ये निश्चिते, तद्-ऐकार्थ्यात् कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वाद् इति हेत्व्-अंशस्यापि तद् अनुगुणे ऽर्थे व्यक्ते, स्वरसे च, माया-मात्रम् इति पदम् एकं मिथ्या-वचनम् आश्चर्य-वचनं वेति सन्दिह्यमानम् आश्चर्य-वचनम् इति सर्वानु-गुण्याय निर्णीयते । यदा तु माया-पदं मिथ्यार्थकं नैवेति श्री-भाष्य-कृद्-उपपादनं हृदय-लग्नम्, तदा सन्देह-लेशस्यापि नावसरः । मात्र-पदं वा शब्दो वा जीव-कर्तृकत्व-निषेधार्थम् इत्य् एतावत्तूत्तरानुगुण्याय ग्राह्यम् ।
अपूर्व-वस्तु-दर्शने सति कार्यम् इदं विचित्र-कारण-पूर्वकम् इति प्रेक्षाकारी प्रायः प्रत्येत्य् एव । तत्र यस्य वस्तुनों दृश्यमानस्य कारणत्वेन परिचित-चरानेव पदार्थान् द्रष्टा न संभावयति, तत्र कारणं मायेति स व्यपदिशति । तादृश-कारण-परिणामतया कार्यम् अपि मायेति निर्दिशेत् । अत एव, “ऋते ऽर्थं यत् प्रतीयेत” इत्य् अप्य् उच्यते, क्लृप्त-कारणम् अन्तरैवोत्पद्य प्रतीति-विषय-भावात् । क्वचित् मिथ्या-भूते अत एवानुत्पद्यमाने ऽपि अर्थं विना प्रतीयमानत्व-साम्यात् माया-शब्द-प्रयोगे ऽपि न मायात्वं मिथ्या-मात्र-निष्ठम् । तद् अत्र सृष्ट्यादि-श्रुत्य्-अविरोधाय वास्तव-पदार्थ-निष्ठम् एव मायात्वम्, “मायेव निर्मिता” “तेन माया-सहस्रं तत्” इत्यादिवद् ग्राह्यम् । अतो नायम् माया-शब्दो मिथ्या-वाची । नापि सामान्यतः प्रकृति-वाची ; प्रकृति-सृष्टत्वस्य पूर्व-पक्षे ऽप्य् अविशिष्टत्वात् । किन्तु अनुभवितृ-जीवाविज्ञेयापूर्व-कारण-निष्पाद्य-परः । एवञ् च तु-शब्दात् जीव-सृष्टत्व-व्यवच्छेद-सिद्धिः । संसार-दशायां स्व-स्वरूपस्यानभिव्यक्तत्वात् जीवं प्रतीदं मायैव भवतीति ।
किञ् च पराभिध्यानाद् इति सूत्रं जगन्-मिथ्यात्वं खण्डयतीत्य् अतो ऽपि हेतोर् इदम् अधिकरणं मृषा-वाद-प्रतिकूलम् । तन्-मते हि बन्धः ब्रह्मात्मैक्याज्ञान-मूलः; तद्-विपर्ययो मोक्षश् च तत्त्व-ज्ञान-संपाद्यः, न तत्र भगवतो निग्रह-रूपो ऽनुग्रह-रूपो वा सङ्कल्पः कारणम् । अतः स्व-समवेत-तत्त्व-ज्ञान-साध्या स्वाज्ञान-निवृत्ति-रूपा मुक्तिः, “पशवः पाशिताः पूर्वं परमेणे"ति बन्धकत्वेनोक्त-पराभिध्यानेनावरस्य बन्ध-विपर्यय-रूपतयेहोक्ता च मुक्तिर् नैका भवितुम् अर्हतीति सिद्धं वास्तवत्वम् ।
तत् सिद्धम् ईश्वर-सृष्टत्वं स्वाप्नेषु स्थापयितुम् इदम् अधिकरणम् इति । तन्-निषेधश् च द्वेधा संभाव्यते । स्वप्ने सृज्यमानत्वस्यैवानङ्गीकारात्, सृज्यमानत्वे ऽपि जीव-सृज्यत्वस्यैव स्वीकाराद् इति । तत्र जागर-दशा-बाध्यत्वेन स्वाप्न-वस्तु-मिथ्यात्वानुमानं श्रुति-प्रामाण्यात् निरसनीयम् इति विमृश्य, “सन्ध्ये सृष्टिर् आह हि”, निर्मातारञ्चैके पुत्रादयश् च इति सूत्रयोः प्रथम-सूत्रेण प्रथम-पक्ष-वादिनं निरस्य, द्वितीय-पक्ष-वादी स्वपक्षं द्वितीय-सूत्रेणोपपाद्य पूर्व-पक्षयति । तत्र निष्कृष्टः पूर्वपक्षः परं श्रीभाष्ये साक्षाद् दर्शितः । उपरि च सिद्धान्ती तन्निरसनेन स्वपक्षं प्रपञ्चयतीति निष्कर्ष इत्यलं बहुना ॥
मिथ्याभूतस्यापि अर्थ-क्रिया-कारित्वम् अस्ति इत्येतत् वन्ध्याया एव जननीत्वम् अस्तीत्य् एतत् सोदरम् एव । अर्थ-क्रियाकारित्वम् एव सत्त्वम् । तस्मिन् सति च न मिथ्यात्वम् । तच् च सत्त्वं स्वप्नस्य ज्ञान-रूपस्यास्तीति भामती-साक्षिकं प्राग् एवोक्तम् । सन्ति च श्रौतानि दृष्ट्युपासनादीनि विषयासत्यत्वे ऽपि स्वयं सत्यानि अर्थ-क्रियाकारीणि । स्वप्नाध्याये वा किम् असतो ऽप्य् अर्थक्रियाकारित्वं भवितुम् अर्हतीति उपपादितम् अस्ति, येन तद्-घटित-मत्स्य-पुराणाद्युपबृंहण-प्रभाव-प्रपञ्चनम् अवसरं लभेत ।
एवं ब्रह्मास्त्रत्वेनाभिमते स्वप्न-दृष्टान्त एव श्री-भाष्य-वर्णित-दिशा साध्य-विकले एतन् निदर्शनेन जगन् मिथ्यात्वं कथं सेत्स्यति ? शुक्ति-रूप्यादि-दृष्टान्तस्य स्वाप्नापेक्षया बल्बजत्वं भवतैवोक्तम् इति न जगन् मिथ्यात्वानुमानावकाशः । श्रुतिस् तु नास्त्य् एव ।
कथं पुनः स्वाप्न-सत्यत्ववादिनि श्रीभाष्ये स्वप्न-दृष्टान्तेन जागर-पदार्थ-मिथ्यात्ववादि-बौद्ध-खण्डनावसरे, “वैधर्म्याच् च” इति सूत्रे स्वप्ने दुष्ट-कारण-जन्यत्व-बाधितत्वाभ्यां मिथ्यार्थ-विषयकत्व-स्वीकारः, तद् अभावात् प्रपञ्च-ज्ञानस्यातथात्वं च वर्ण्यत इति चेत् - स्वप्ने श्रुति-बलाद् एव सत्य-विषयकत्व-स्वीकारात् श्रुति-बाह्य-बौद्ध-प्रत्युत्तरणावसरे युक्ति-मात्रेण समाधानस्येष्टत्वात् स्वप्न-सत्यत्वस्य युक्ति-सिद्धत्वाभावात् स्वप्नस्य मिथ्यार्थ-विषयकत्वं स्वीकृत्यैव प्रतिवक्तव्यम् इत्य् आशयः । अत एव कृत्वाचिन्तेति श्रुत-प्रकाशिका ।
स्वप्ने ऽर्थाः सन्तु सृष्टास् तदपि बहुविधा दुस्त्यजा भ्रान्तिर् अत्र प्रध्वस्तानाम् इदानीन्तनवद् अनुभवात् स्थायितादिभ्रमाच् च । सत्यं श्रुत्यादि-सिद्धेः श्रुत-परिहरणायोगतः सृष्टिमात्रं स्वीकृत्यांशे तु बाधात् भ्रमम् अपि च यथाजागरं न क्षिपामः ॥
इत्य् अधिकरण-सारावल्युपदर्शितरीत्या स्वप्नस्य कतिपयांशविषये मिथ्यात्वस्याप्य् अस्मद्-इष्टत्वाद् अपि तद् भाष्यम् उपपन्नम् इत्य् अन्यद् एतत् । प्रपञ्चितम् इदम् अस्माभिः नयद्युमणि-भूमिकायाम् ।
यदा तु श्रुत्या यथावत् तत्त्व-श्रवणे सति मनने प्रवृत्तिः, तदा श्रुत्या स्वाप्न-सत्यत्वे ऽवधारिते तद् दृष्टान्तासिद्धिः प्रकारान्तरेणावसीयते । जागरित-प्रत्ययो मिथ्यार्थ-गोचरः प्रत्ययत्वात् स्वप्नवद् इत्य् अनुमाने दुष्ट-कारण-जन्यत्वादिरुपाधिर् इति व्याप्यत्वासिद्धिर् बौद्ध-विचारावसरे दर्शिता । इदानीं तु दृष्टान्ते साध्य-वैकल्यम् अपि प्रदर्श्यते । एवञ् च सन्ध्याधिकरणम् अपि अभावाधिकरणवत् प्रपञ्च-मिथ्यात्वानुमान-भञ्जकम् एव । एवं स्वाप्नस्यापि सत्यत्व-स्थापिका श्रुतिर् जागर-पदार्थानाम् असत्यत्वं कथम् अभिप्रेयात् ? । एवञ् च जिज्ञासाधिकरणे स्वप्न-दृष्टान्तानुमानेन मिथ्यात्वानुमानस्य नावकाशः । अधीत-वेदान्तस्य श्रुतौ स्वप्न-सृष्टिश्रवणेन स्वप्न-मिथ्यात्वस्य सन्दिग्धतया दृष्टान्तत्वायोगात् । भाव्यर्थोपजीवनेनाधिकरण-रचना ऽपि मीमांसक-संमतैव । परमत्र भाव्यर्थस्योपजीवनं विश्व-मिथ्यात्व-निषेधार्थम् एव स्यात्, स्वाप्नस्येश्वर-सृज्यत्वस्यैवात्र स्थापनाद् इति ॥
(चतुर्थाध्याय-विषयः)
तुरीयाध्याये उपासनोत्क्रान्त्यचिरादि-प्राप्ति-पूर्वक-भोग-साम्य-रूप-फल-बोधनात् सविशेष-विषयत्वं सुस्पष्टम् । यत् तु - तत्र, “आत्मेति तूपगच्छन्ति ग्राहयन्ति च” इति सूत्रम् - तत् निर्विशेष-विषयकं कथं भवितुम् अर्हति ? अत्र श्री-भाष्य-दूषण-प्रवृत्तेन यद् उक्तम्, मुक्तात्मैव परमात्मानं स्वात्मत्वेनानुसंधातुम् अर्हति न बद्ध इति - तत् मतापरिज्ञान-मूलम् । किम् आत्मशब्दः इह स्वपर्यायः, उत स्वं प्रति आत्मेति शरीरिपर्यायः ? आद्ये मुक्तात्मा ऽपि अस्मद्-दृष्ट्या परमात्मनि स्वाभेदं न कलयितुम् अर्हति । अन्त्ये बद्धो ऽपि स्वं प्रति आत्मत्वेन तम् अनुभवितुम् ईष्टे । स्वदेहं प्रति स्वस्येव स्वं प्रति परमात्मनो ऽपृथक् सिद्धात्मत्वस्याक्षतत्वात् अपृथक् सिद्धत्वाभाव-कथनं ह्य् असंबद्धम् एव ।
भवदभिमतार्थ-परत्वं सूत्रस्य न स्वरसम् इति च निरूपयामः । “आत्मेति तूपगच्छन्ती"त्य् उक्तस्योपगमस्य ऽऽकारः कः ? न तावत् आत्मा इति ; आत्म-शब्दस्य स्व-पर्यायतया समभिव्याहृत-पदान्तरस्य तदर्थ-समर्पकस्याभावे तदर्थ-प्रतीत्य-योगात् । नाप्य् अहम् इति ; अहम् इति प्रतीतेर् आबाल-गोपाल स्वतो भवत्तया तावन्मात्रस्य प्रकृत-तत्त्वज्ञानत्वायोगात् । नापि ब्रह्मेति ब्रह्म-ग्रहणस्य अद्वैति-व्यतिरिक्त-वेदान्ति-तार्किकादिष्व् अपि सत्त्वेन भवद् विवक्षितांशासिद्धेः । नाप्य् अहं ब्रह्मास्मीति ; अहंत्व-विशिष्टस्य ब्रह्मत्व-विशिष्टस्य च जीवेश्वरयोर् भेदस्य, “अधिकं तु भेदनिर्देशात्” इत्यादौ भवद्-भाष्ये ऽप्य् उक्तत्वेन ऐक्यानुसन्धानायोगात् । अहंत्वादि-विशेषण-त्यागेन व्यक्ति-मात्र-ग्रहणे अस्य, आत्मेत्य् अनुसन्धान-रूपत्वं कथम् ? यद्यपि कथञ्चिद् आत्मानुसन्धानं स्यात्, अथापि यथासूत्रम् आत्मेत्य् अनुसन्धानरूपं न भवति ; आत्मत्व-रूप-धर्माविषयकत्वात् । “घटं द्रव्येम् इति जानाति” इत्यादौ इति-शब्दस्य समभिव्याहृत-पदार्थतावच्छेदकीभूत-प्रकारोपस्थापकत्वस्यानुभविकत्वेन घट-विशेष्यक-द्रव्यत्व-प्रकारक-ज्ञानवत्त्वस्यैव तत्र विवक्षणीयतया ब्रह्म-विशेष्यकात्मत्व-प्रकारक-प्रतीतेर् एवेह सूत्रार्थतया वक्तव्यत्वात् । अखण्डाकार-ज्ञानस्य च नात्मत्व-प्रकारकत्व-सम्भवः । सविशेष-ज्ञानाद् एव मोक्षोक्तौ चापसिद्धान्तः । सकल-भेदानिवृत्त्या मोक्षासिद्धिश् च । एवम् अहं ब्रह्मास्मीति स्वात्ममात्रे ब्रह्मैक्य-ज्ञाने सत्यपि सर्व-प्रपञ्च-बाधाभावाद् अपि मोक्षासिद्धिः । “सर्वं खल्विदं ब्रह्म” इति ब्रह्म-विशेष्यक-सर्वात्मकत्व-प्रकारक-ज्ञानम् एव प्रकृत-सूत्र-विवक्षितम् इति चेत् - तद् असम्प्रदायम् । शुक्तेः रजतेनेव प्रपञ्चेन ब्रह्मणः ऐक्य-ग्रहणासंभवश् च । प्रपञ्चाध्यासाधिष्ठानत्व-सर्व-जीवाभिन्नत्वोभयप्रकारक-ब्रह्म-विशेष्यक-ज्ञानं मुक्तिहेतुर् इत्य् अपि वार्तम् । न हि रजताध्यासाधिष्ठानम् इदम् इति ज्ञानं रजत-भ्रान्ति-निवर्तकम् ; किन्तु रजत-प्रत्यनीक-भूत-शुक्ति-तत्त्वज्ञानम् एव । अतः स्वरूप-मात्र-विषयक-ज्ञानम् एव तत्त्वज्ञानं वाच्यम् । तस्य तु नैयायिक-निर्विकल्पस्येवाभिलापायोगात् ‘आत्मेति तूपगच्छन्ति’ इति सूत्रेण तद्-अभिलापनम्, श्रुत्या तद्-ग्राहणञ् चाशक्यम् एव । यत एवम् अभिलपति सूत्रकारः, अत एव निर्विशेष-ज्ञानस्य मोक्ष-साधनत्वम् अयं नेच्छति ॥
ननु इतिशब्द-प्रयोगात् “मनो ब्रह्मेत्य् उपासीत” इत्यादाव् इव दृष्टि-विधिः प्रतीयत इति चेत् — ततः किम् ? तावता अद्वैत-संमतं तत्त्वज्ञानं न सौत्रम् । जीव-भिन्ने ब्रह्मणि जीवत्व-दृष्टिः कर्तव्येति विवक्षायां जीव-ब्रह्म-भेद एव वास्तव इत्य् एव सूत्रकारोपदिष्टं स्यात् । तदपि सूचितं शतंदूषण्याम् । आस्ताम् इदम् । तत्त्वज्ञान-प्रतिपादन-प्रवृत्तः सूत्रकारः किम् इति, ‘आत्मेति तु’ इति इतिशब्दं घटयामासेति चेत् - तद् इदम्, “आत्मेत्य् एवोपासीते"ति श्रुति-प्रत्यभिज्ञानार्थम् । श्रुतिर् एव कस्माद् एवं घटयतीति चेत् — भवन्मतनिरासार्थम् एव । “आत्मानम् उपासीते"त्य् उक्तौ कथञ्चिद् व्यक्ति-मात्र-साक्षात्कारं विवक्षितं कश्चिन् मन्येत । इति-शब्द-प्रयोगे तु आत्मत्व-प्रकारकत्वस्य ज्ञाने प्रत्यायनात् सविशेष-तत्त्वज्ञानान् मुक्तिर् उपदिष्टा भवतीति । एवं तर्हि नामाद्युपासन-स्थल इव दृष्टि-विधित्वं मा शङ्किष्टेति ज्ञापनार्थम् एव एवकारो ऽपि श्रुतौ; ‘आत्मेति तु’ इति सूत्रे तु-शब्दो ऽप्य् एवार्थे इति व्यक्तम् इदं भाष्ये । तद् इदं वाक्यकारः, ‘आत्मेत्य् एव तु गृह्णीयात्’ इत्य् अनुवदन् ज्ञापयति । एवम् अखण्डाकार-ज्ञानस्यैव मोक्षसाधकत्व-सिद्धौ तत्र साधकावस्था-सिद्धावस्थ-पुरुष-भेदेन भान-भेदादि-प्रपञ्चनं शतभूषणी कृतं सर्वम् अम्बर-नगरायमाणम् अप्रस्तुत-विस्तर-भृतञ् च इत्य् अवसेयम् । सम्प्रति सूत्र-स्वारस्याभाव-मात्र-व्युत्पिपादयिषया एतावद् उक्तम् । इति-शब्दस्तावत् प्रयुज्यमानः स्व-सन्निभ्याहृत-पदार्थस्य विधेयत्वं प्रकारत्वं प्रख्यापयति । एवञ् च “नाम ब्रह्मेत्य् उपासीते"त्य् अत्र ब्रह्मणि नामत्वविधानं नास्ति ; किन्तु नाम्नि ब्रह्मत्व-विधिर् इति । ब्रह्मणि नामत्व-विधौ उत्कृष्ट-निकृष्ट-दृष्ट्य-योगात् नामान्तर्यामित्व-सिद्धिः । नाम्नि ब्रह्मत्व-विधौ दृष्टि-विधि-सम्भवात् यथा-प्रसिद्धि दृष्टि-विधिर् एवा ऽश्रीयते । तद्वद् अत्र जीवे ब्रह्मत्व-दृष्टिर् मा तावन् मानीति आत्मत्वम् अन्तर्यामित्वं प्रकारतया ज्ञापयितुम् इतिकरणम् । एवञ् चेतिकारे सति दृष्टि-विधिर् एवेति न निर्बन्धः । प्रकारत्व-समर्पणस्यैव तत्-कार्यत्वात् । अन्ततः ब्रह्मत्व-स्वात्मत्वोभय-विशिष्ट-वस्तूपासन एव पर्यवसानम् इति भाव्यम् ।
अखण्डाकार-साक्षात्कारो मुक्तिहेतुर् इति वदतैव, “अहं ब्रह्मास्मी"त्य् ऐक्यानुसन्धानं मोक्षोपाय इत्य् उच्यते ; परमात्मानं स्वाभिन्नं पश्यतीति च । ऐक्य-प्रकारकानुसन्धानस्य च कथम् अखण्डाकारता ? ऐक्यस्य प्रतियोग्यनुयोगि-सापेक्षत्वाच् च कथं तस्य ब्रह्ममात्र-गोचरत्वम् ?
तत्-साक्षात्कार-काले अविद्या-निवृत्ताव् अपि तत् संस्कारानुवृत्तिर् इत्यपि वार्तम् । मिथ्या-भूता-विद्या-कार्यतया मिथ्यात्वाविशेषे, किञ्चित् तदैव नश्यति, किञ्चित् तु देहेन्द्रिय-संस्कारादि अनुवर्तत इति कल्पनस्यासम्भवात् । अतो जीवन्मुक्तिर् असिद्धैव । तत्त्व-साक्षात्कार-काले देहस्य सहैव नाशध्रौव्येण जीवत्त्वायोगात् । साधकावस्थायाम्, ‘अहं ब्रह्मास्मि’ इत्य् अनुसन्धानम् अहङ्कारादि-विशिष्टात्म-विषयकम्, उतान्तःकरणोपहित-साक्षि-मात्र-विषयकम् । आद्ये, तत्रैक्यानुसंधानं न घटते । विशिष्टानुसन्धाने तत्र कथमैक्यान्वयः ? विशिष्टानुसन्धानाधीन-साक्षात्कारश् च कथं विशेषणा-विषयकः ? स्व-प्रकाश-ब्रह्म-व्यक्ति-समानार्थ-प्रकाशिका च वृत्तिः कथं मोक्षोपायः ? द्वैत-विरोध्याकाराविषयकत्वाद् इत्य् आदिकं परस्तात् प्रस्तोष्यते ।
यत्तु - परमात्मनो ऽन्तर्यामित्वस्य प्राग् एव सिद्धत्वात् आत्मत्वोपासनाधिकरणे तद् उपासन-चिन्तनं वितथम् इति - तत् भवन्मत एव । ब्रह्मातिरिक्ततत्त्वाभावात् तत्त्वज्ञानस्यैव मोक्ष-साधनत्वात् मोक्षार्थ-ज्ञाने जीवादि-विषयकत्वस्याप्रसक्तेः । अस्मन्मते तु ब्रह्मणि जीवान्तर्यामित्व-जीव-भिन्नत्वाद्य् अनेक-धर्म-सद्भावाद् अनुस्यूतम् अनुसन्धेयो धर्मः यः कश्चिद् अपीति मति-निरसनेनात्मत्वेनैवानुसन्धानस्यावश्यकत्वम् उच्यते इति निर्वाहः सुकरः ।
यदपि - उपासनस्योपायत्वात् फलाध्याये निरूपणम् असङ्गतम् ; अद्वैत-मते तु, “आत्मेति तूपगच्छन्ती"ति साक्षात्कारस्यैव विवक्षणात् तस्य च फलत्वात् फलाध्याये कथनं सङ्गतम्’ इति – तद् अपि न । उपासनस्यापि पुरुष-साध्यतया पूर्व-पूर्वोपासनाधीनतया च फलत्वात् । फलत्वे ऽपि मोक्ष-रूप-फलत्वाभावात् असङ्गतिर् इति चेत् — तद् एतत् भवत् संमत-साक्षात्कारे ऽपि तुल्यम् । कथञ् च “आवृत्तिर् असकृद् उपदेशात्” इति आवृत्त्यादि फलाध्याये सङ्गतम् ? तत्र भवद्-भाष्ये, “प्रथमं तावत् कतिभिश् चिद् अधिकरणैः साधनाश्रय-विचार-शेषम् एवानुसरामः” इति कियद्दूरं साधन-विचारो ऽभ्युपगत एव । स च विचारः, “आत्मेति तु” इत्य् एतद्-अधिकरण-पश्चाद्-भाविनि, “आप्रयाणात् तत्रापि हि दृष्टम्” इत्य्-एतत्-पर्यन्त-सूत्रगणे ऽप्य् अनुवर्तत इति प्रकृताधिकरणस्य उपाय-विषयकत्वं नायुक्तम् । तद्-अधिगमाधिकरणारम्भे च भवद्-भाष्ये, “गतस् तृतीय-शेषः” इत्य् उक्तेः ‘आत्मेती’त्य् अधिकरणार्थो ऽपि न फलाध्याय-मुख्यार्थ इति स्पष्टम् । एवम् अत्र परिहारो हृदयङ्गमो ग्राह्यः । वस्तुतः भगवति तद्-गुणेषु च प्रेम-विकलानां शुष्कं सगुण-ब्रह्मोपासनं फलरूपं मा सैत्सीत् । प्रेमाविलमनसां तु प्रीति-रूपापन्नम् उपासनं परमं फलम् । आहुश् च, “भजन-सुखम् एकस्य विपुलम्” इति ।
दृश्यताम् अत्र टीकाद्यम् आवृत्त्यधिकृति-स्थितम् ।
ब्रह्म-दृष्ट्यादिकञ् चात्र चिन्त्यते न हि तत् फलम् ॥
भवन्मते ऽपि श्रवण-मननाद्य् अपि गृह्यते ।
“आत्मेति तूपगच्छन्ती”त्य् अत्र, नो केवलं फलम् ॥
अन्तःप्रविष्टः शास्ता स्याद् आत्मा नैवं नृपादयः । स्वात्मा ब्रह्मेत्य् उपासा न ब्रह्मोपासेत्य् अदः कुतः ? ॥
सर्वात्मत्वे स्थिते ऽपि स्यात् स्वात्मता-मात्र-चिन्तनम् ।
न हि सर्वम् इदं ब्रह्मेत्य् उपासा भवताम् अपि ॥
अहं ब्रह्मास्मीति बुद्धौ नाहन्त्व-ब्रह्मताग्रहः ।
इत्य् उक्ताव् ईदृशाकारनैयत्यं किन्निबन्धनम् ? ॥
चैत्रो मैत्र इती-दृक् च भवेन् मोक्षार्थ-धीस् तु वः ।
विशेषण-परित्यागे विशेष्यैक्याक्षतेर् इह ॥
त्वम् अहं भगवन् देव तथा ऽहं त्वम् इतीदृशम् ।
ईश्वरैकान्त-निध्यान-शिक्षणं वो वृथा श्रुतौ ॥
उत्कर्षात् ब्रह्म-दृष्टिश् चेत् मनोब्रह्मादि-तुल्यता ।
निर्विशेषे क उत्कर्षो मैत्र इत्य् अत्र किं न सः ॥
अथापहतपाप्मत्वाद्य्-अंशार्था स्वेश-भावना ।
स्वतिर्यग् भावना ऽपि स्यात् हतनानाभ्रमत्वतः ॥
यथाकथञ्चित् श्रुतिवत् सूत्रस्यापि नयने च वक्तव्यम् उक्तं शतदूषण्याम् - “विवक्षित-पर्यवस्थापनं तु सूत्र-स्वारस्योपन्यासदशा-विरुद्धम्” इति । उपदेशानुपपत्ति-परिहार-प्रयासश् चात्र भवतो न युक्तः । तद् अवसरे तद् वैयर्थ्यं दर्शयिष्यते । न ह्य् उपदेशो ऽपि बाधितानुवृत्ति-रूपः । बाधितानुवृत्तिर् अपि मिथ्या तत्त्वज्ञान-बाध्यैवेति । विशिष्टाद्वैति-मते ऽप्य् उपदेशानुपपत्ति-निरूपण-प्रयासो भवत उन्मस्तकमभिनिवेशम् एव दर्शयति । दर्शन-समानाकार-ज्ञान-निष्पत्तिमन्तः तत्त्वज्ञानिनः स्वं स्व-शरीरात्मतया गृह्णन्तु तदैव स्वञ् च परमात्म-शरीरतया गृह्णन्तु को विरोधः ? एवं तत्त्वज्ञानिनः योगात् व्युत्थायस्थित्यवसरे संश्रितेभ्यस् तत्त्वम् उपदिशन्तु ; तत्र वा को विरोधः ? अन्यत् तु विकल्पमात्रम् अनुपयुक्तम् अनभ्युपगतञ् चेत्य् अलम् ॥
इतिकरणं दृष्टि-विधित्व-पक्षे स्वरसम् इति शतदूषण्यर्थ-परिहरणापदेशेन यद् उक्तम् — “इतिकरण-स्वारस्यं तु दृष्टिपरम् ‘आत्मदर्शनम् एवात्र विवक्षितम् । न तु उपासनम्’ इति ज्ञापयती"ति - तत्रोच्यते । भवन् मते ऽत्र नोपासन-विधानम् ; अपि तु श्रवण-वेलायाम् एव भवत् दर्शनम् एवैवम् उच्यते इति सत्यम् । परं तु न तत् इतिकरणज्ञाप्यम् । “मनो ब्रह्मेत्य् उपासीते"त्यादाव् इव उपास्यस्यानात्मत्वम् इतिर् ज्ञापयेत् ; न तूपासनस्याप्य् अभावम् । अत्र तु “अनात्मत्वं न विवक्षितम् ; उपरि, “तद् एतत् पदनीयम् अस्य सर्वस्य यद् अयम् आत्मा” इति आत्मस्वरूपस्यैवात्र प्रस्तुतत्वात् अन्योपासन-विधानस्येहाभावात्” इति हि बृहदारण्यक-भाष्य एवोक्तम् ।
एवञ् चेतिकरणम्, ‘दर्शनम् अत्र विवक्षितम् ; न तूपासनम्’ इति न कथम् अपि ज्ञापयितुं शक्तम् । बृहदारण्यक-भाष्योक्तम् इतिकरण-प्रयोजनं त्वन्यत् । तद् यथा - “यस् तु आत्म-शब्दस्येतिपरः प्रयोगः [सः] आत्म-शब्द-प्रत्यययोर् आत्म-तत्त्वस्य परमार्थतो ऽविषयत्व-ज्ञापनार्थम्” इति । एवञ् च उपासनं वा दर्शनं वा न वस्तुतः परमात्म-ग्राहकं भवितुम् अर्हति, “नेति नेती"त्य् आदिनाना-श्रुति-सिद्धत्वान् निर्विशेषत्वस्य” इत्य् अयम् अर्थ इतिशब्देन ज्ञाप्यत इत्य् उक्तं भवति । परमार्थतो दर्शन-विषयत्वं नास्तीत्य् अनेन च दर्शन-विषयत्वं शुक्ति-रजतादिवत् प्रातिभासिकम् इति न विवक्षितम् ; किन्तु दर्शन-विषयत्वम् अपि प्रपञ्चवत् पश्चान् निवर्तत इत्य् एव । तत् तु सर्व-निषेध-श्रुतिसिद्धम् एव इति तस्य विशिष्य ज्ञापनं निष्प्रयोजनम् एव ।
सर्वथा इति-शब्दार्थ-त्याग एव अद्वैतिमते । इति-शब्दो हि प्रकार-वचनः । तत्र दृष्टि-विधि-श्रुति-शैलीम् अनुसृत्यारोपित-प्रकार-परत्व-शङ्कायां पूर्वोत्तर-सन्दर्भानुसारात् तन् न भवतीत्य् उभयपक्षाविशिष्टम् । अतः, “आत्मानम् उपासीते’ति श्रुत्यन्तरानुरोधाच् च यथावस्थित-ज्ञान-परत्वे सिद्धे इति-शब्दार्थस्य प्रकारस्य वास्तवत्वात् न निर्विशेष-विषयता । प्रकारत्यागे च इति-शब्दार्थ-त्याग एवेति । एवम् उपासि-यथाश्रुतार्थ-त्यागश् च “आत्मेत्य् एवोपासीत” इति श्रुताव् अद्वैति-मते । सूत्रकारश् च ‘उपगच्छन्ति ग्राहयन्ति च’ इति पदद्वयं बहुवचनान्तम् इह परं प्रयुञ्जानः, श्रुतेर् इति वक्तव्ये ग्राहयन्तीति पदविशेषं प्रयुञ्जानश् च परमात्मनः मानस-ज्ञान-विषयत्वं शाब्द-बोध-विषयत्वं बहूनां ज्ञातृत्वम् उपदेश्यत्वम् उपदेशकत्वं चानुभवसिद्धं यथा न बाधितं भवेत्, तथा परमात्म-स्वरूपम् एषितव्यम् इति प्रतिबोधयन् निर्विशेष-पक्षं निराकरोति । अतो ऽपि न भेदापलाप-प्रसक्तिः । शेषं भेद-दूषण-निस्तारे ।
“अविभागो वचनात्”, “अविभागेन दृष्टत्वात्” इति सूत्र-द्वयं परम-मुक्ति-दशापरम् अद्वैति-मते । प्रथमम् उत्क्रान्ति-दशाविषयम् ; उत्तरं मुक्ति-दशाविषयम् इति अस्मन् मते । तत्र प्रथम-पक्षे पौनरुक्त्त्यरूपे दूषणे उद्भावनीये ऽपि सूत्रस्वारस्य-विचार-वादे तद्-अनवसरम् इति अप्रसक्तार्थ-विस्तर-स्वाभाव्य-विरहाद् आचार्याः स्पष्टं नोद्भावयामासुः ।
कुसूले नास्ति मे तात” इति न्यायेन सूत्रयोः ।
पौनरुत्त्यपरीहारे यतते शतभूषणी ॥
तुरीय-द्वितीये उत्क्रान्ति-विषय-वस्तु-विवेचनारम्भात् उपरि तदोकोग्र-ज्वलनम् इति च तद्-विचारात् मध्ये ऽपि तद् विषयत्वस्यैव स्वीकारे द्वितीयः पादः कृत्स्नो निर्विशेष-परिशेष-रूप-मुख्य-मुक्ति-विषयास्पर्शी भवतीति भिया परम-मुक्ति-विषये ऽपि कतिपयाधिकरण-सद्भाव-ज्ञापन-प्रत्याशया ‘अविभागो वचनाद्’ इति सूत्रं परम-मुक्ति-परं व्याख्यातं भवद्-भाष्ये । विदुषः कला-प्रळयः सावशेषो निरवशेषो वेति संशये निरवशेष इति स्थापनार्थम् इदम् । तत्र निरवशेषत्वस्य साक्षाद्वाचकं पदं न श्रूयते । ननु मुक्तस्य परमात्मना सहाभेदे अविभाग-पदोक्ते निरवशेषः प्रळय इति सेत्स्यतीति - उच्यते । अत्र मूलभूत-विद्या-निवृत्तौ सर्व-निवृत्ति-ध्रौव्यात् सविशेषत्व-संशय एव नोदीयाद् इति विमृश्य, “सावशेषता-शङ्काम् अतिमन्दाम् अपनेतुम् इदं सूत्रम्" इत्याह भामती । “भिद्येते तासां नामरूपे” इति निरवशेषत्वस्य श्रुति-प्रतिपन्नत्वात् शङ्कैव नोदेतीति च परिमळे तद् आशयो दर्शितः । तेन व्यर्थम् एवेदं सूत्रम् इत्य् उक्तं भवति । एवं जीव-ब्रह्मा-विभागे कण्ठोक्ते पुनर् अपि स एवोच्यते तुरीयतुरीये, “अविभागेन दृष्टत्वाद्" इति स्पष्टं पौनरुत्त्यंञ् च ।
अथ “अविभागो वचनात्” इत्य् अत्र जीव-ब्रह्मा-विभागो नार्थः, किन्तु ब्रह्मणा कलानाम् अविभाग इति - तर्हि शुक्ति-रजतयोर् अविनाभाग इत्य् उक्ते शुक्तिः रजत-रूपेण भातीतिवत् ब्रह्म कला-रूपेण भातीत्य् अर्थः स्यात् । ब्रह्मणा संश्लिष्टाः कला इत्य् अर्थपरतया कलानां स्थितिर् एवोक्तेत्यपि स्यात् । “तानि परे तथा ह्य् आहे"ति सूत्रे परे आत्मनि कलानां लय उक्तः । तद्-अपेक्षया ऽत्र कस्मिन् नंशे स्पष्टता ऽस्ति ? यदि तत्र कलानाम् अविद्यायाम् अन्यत्र वा लय उच्येत, सावशेषत्व-शङ्का स्यात् । परस्मिन् लयस्य उक्ततया परस्मिन् कल्पितानां तासां तत्र लयो नाम बाध एवेति स्पष्टम् एव निरवशेषत्वम् । अविभाग-पदम् एव संश्लेष-परत्वात् ब्रह्मणा सह कलानां स्थितिम् अपि दर्शयतीति विपरीतार्थकमपि । एवम्, ‘तानि परे’ इति भूतेन्द्रिय-मात्र-लयकथनमपि न युक्तम् ; अविद्यालयस्यापि तत्र वाच्यत्वात् । अतः ब्रह्माविद्या-विभागाभाव एतत्-सूत्रविवक्षित इति निष्कर्षणीयम् । तथा ऽपि उभयत्र विषय-वाक्यस्यैकत्वात् सूत्र-द्वयकरणं व्यर्थम् एव । अविद्या-पर्यन्त-निवृत्तौ जीव-ब्रह्माविभागस्य सिद्धत्वात्, ‘अविभागेन दृष्टत्वात्’ इति किमर्थम् ; परम-मुक्ति-प्रकरणे “जक्षत् क्रीडन् रममाणः” इति नानाव्यापाराणां श्रवणात्, “स तत्र पर्येती"ति जीव-ब्रह्मणोर् आधाराधेय-भावादि-व्यपदेशाच् च नाविभाग इति शङ्कायाम् भेद-पर-श्रुति-वाक्यानां तेषां सगुण-ब्रह्म-प्राप्ति-प्रकरणे उत्कर्षः कार्यः “तत्त्वमसी"त्य् ऐक्यस्य दृष्टत्वात् अविभाग एव इति सूत्राशयो वर्ण्यते । वर्णनेयं “अविभागो वचनात्” इति सूत्र एवास्तु; व्यर्थम् इदम् इति शङ्का दुष्परिहरा ।
अस्मन् मते तु “अविभागो वचनात्” इति सूत्रम् उत्क्रान्ति-काले, “तेजः परस्यां देवतायाम्’ इत्यत्र विवक्षिता परे जीव-सम्पत्तिः प्रळय इव कारणापत्ति-रूपा, अन्यादृशी वेति विचारे संपूर्वकः पदिः प्राग् इव इहापि सूक्ष्म-देह-विशिष्टस्य जीवस्य परमात्तना संश्लेष-विशेषम् अविभागमेवाह, न कारणावस्थापत्तिम् इत्येतत्-परम्। ‘अविभागेन दृष्टत्वाद्’ इति तु, ‘अपृथक्-सिद्धि-रूपाविभागो मुक्ति-दशायां मा भूत्; सह ब्रह्मणे” ति साहित्यादि-प्रतीतेः’ इति शङ्का-परिहारेण उपासितस्य प्रकार-प्रकारि-भाव-नियामकस्याविभागस्यापृथक्-सिद्धि-रूपस्य न त्याग इति शुद्ध-जीव-ब्रह्माविभाग-विशेष-रूपार्थान्तर-परम् इति न पौनरुक्त्य-प्रसक्ति-लेशो ऽपि। एवं स्थिते यत् शत-भूषण्याह - “पूर्वत्र अपृथग्-भाव-विवक्षायां तेन न्यायेन जीव-ब्रह्मणोरप्य् अपृथक्-सिद्ध्यैव निर्वाहे सिद्धे द्वितीयम् अधिकरणं व्यर्थं श्री-भाष्यमते” इति - तत्र पूर्वत्र न शरीर-शरीरि-भाव-नियामकापृथग्-भाव-विवक्षा-प्रसक्तिः; वाङ्-मनस्सम्पत्ति-तौल्य-वचनाद् इति कथम् ऐक्यम्? विषय-भेदश् च दर्शितः। अतः स्व-दोषस्य परत्रारोपमात्रम् एतत्।
यत्तु — “अविभागो वचनाद्” इति सूत्रे वागादीनां परमात्मतापत्तिं श्री-भाष्यमपि न स्वीकरोति। अतो ऽविभागमात्रं युक्तम् इति - तन् न भवन् मते हि निरवशेष-लयोक्त्त्या परमात्मतापत्तिर् एवेष्टेति कथं तद् विपरीतम् इहोच्यते? “अविभागेन दृष्टत्वाद्” इत्य् अत्र ‘अहं ब्रह्मास्मी’ति साक्षात्कारानुगुण एवाविभागः स्वीकार्य इति यद् उच्यते तत् तथैव। अपृथक्-सिद्धि-रूपाविभागस्यैव तत्र साक्षात्कारात्। शरीर-शरीरि-भावे सति ‘अस्मि’, ‘असि’ इति कथं प्रयोग इति चेत् — अस्य परिहारः ईशावास्याचार्य-भाष्ये “पुरुषः सो ऽहमस्मी”त्यत्र द्रष्टव्यः। भवन्मतस्यासिरिवास्मिरपि खण्डक इति च तत्रोपापादि। आस्ताम् एतत्। अविभाग-शब्द-स्वारस्य-हानिः शत-दूषण्युक्ता तु न समाहिता। संयोग-विभागौ मिथः प्रत्यनीकौ। तत्राविभाग-शब्दः विभाग-प्रसक्ति-रहितं संयोगमेव गमयेत्; संयोगमात्रं वा। न त्वैक्यम्। भवन् मते च सूत्र-द्वये ऽप्यैक्यस्यैव कथनाद् अस्वारस्यम्। उभयत्राप्यस्मन् मते स्वारस्यम्।
“ब्रह्मवित् ब्रह्मैव भवती"त्यत्र ब्रह्मापृथक्-सिद्धिर् अत्र नोच्यते - किं तु ब्राह्म-रूपाविर्भाव इति “ब्राह्मेण” इति सूत्रेण बोध्यते। “ब्राह्मेण रूपेणे"ति सूत्र-पाठस् तु भवतो ऽपपाठः। वाक्यार्थ-विचारश् च यथावसरं करिष्यते। अस्तु तावद् एवम्। तावता किम् अनुकूलं भवतः? चितितन्मात्रातिरिक्त-ब्राह्म-रूपमपि जीवस्य भवति चेत् — अनेक-विशेषवत्त्वम् एवोक्तं भवति। मुक्तो ब्राह्मेण रूपेणाभिनिष्पद्यत इत्युक्ति-भङ्गी हि, ब्रह्मणः, अभिनिष्पद्यमानस्य च व्यक्तितो भेदम् एकतरस्यान्यतर-रूपभाक्त्वं च स्वरसतो गमयति। रूपञ्चापहत-पाप्मत्वादि सत्य-कामत्व-सत्य-सङ्कल्पत्व-घटितम् इति भवद्भाष्य एव व्यक्तम्। तानि च रूपाणि पृथक्-पदोक्तानि मिथः, धर्मिण आत्मनश् च भिन्नानीति स्वरसतः, “य इहात्मानम् अनुविद्य व्रजन्ति एतांश्च सत्यान् कामान्” इति श्रुतितश् चावगुम्यत इति तद् विरोधेन सर्वस्यापि श्रुतस्यैक्य-वर्णन-प्रयासो भामतीकारादेर् निष्फलः। इतो वरं चितितन्मात्रत्व-स्वीकरणम्। सर्वथा स्वारस्य-हानिः प्रकृतां तद् अवस्था।
एवं सविशेष-परतयैव स्पष्टं प्रतीतं सूत्र-गणं निर्विशेष-परं नयद्भिः जगद्-व्यापार-वर्जाधिकरणमपि सर्व-प्रपञ्च-प्रविलयादि-मुखेन निर्विशेष-परं कुतो न नीयत इति चेतश् चित्रीयते। प्राचीन-वृत्त्यादि परिमर्द्य यथेच्छम् अर्थ-वर्णनस्य प्राय आदरणाद् अत्रापि तत् कृत्यं किं भवताम् अशक्यम्? अन्यथा हि सविशेष-लक्षण-पूर्वम् आरब्ध-जिज्ञासो भगवान् बादरायणः सविशेषम् एवोपसंहरन् मध्ये भूम्ना सविशेषम् एवाभ्यस्य निरूपयन् उपक्रमोपसंहारादि-तात्पर्य-ग्राहक-वशात् सविशेष-परम् एव शारीरकम् आकलयतीति निर्विशेषं नाद्रियेत। अत्र लिखति शत-भूषणी - “श्रवणादिवत् सविशेषोपासनस्यापि निर्विशेष-ब्रह्म-साक्षात्कार-हेतुत्वम् अस्तीति तथोपसंहारः” इति। श्रवणादिकं दृष्ट-विधया निर्विशेष-साक्षात्कारोपयोगि। सविशेषोपासनं तु कथम्? प्रत्युत भेदावलम्बि सविशेषोपासनं विपरीत-वासनाभिवर्धनाद् बाधकम् एव स्यात्। अथादृष्ट-विधया भगवद्-अनुग्रह-महिम्ना तत्त्व-साक्षात्कारोपयोगीति, तर्हि तुल्य-न्यायात् कर्मणामपि तथात्व-संभवात् कथं श्रवणात् प्राग् एव कर्म-त्यागः? यत् तु विनोपासनम्, विना कर्म-योगम्, ‘ब्रह्म सत्यम्, जगन्मिथ्ये’ति परम-सिद्धान्तं मनसि-कृत्य कर्मोपासनादि-त्यागः महते उत्पाताय, नरक-पाताय वेति सूचनं सविशेषोपसंहार-फलम् इति तद् इदम् आदि-शङ्कराचार्य-दूषणं कथं तदीयस्य घटते। उक्तं हि, “लिङ्गाच्"चेति सूत्र-भाष्ये, “येषां पुनर् निपुण-मतीनां नाज्ञान-संशय-विपर्यय-लक्षणः पदार्थ-विषयः प्रतिबन्धो ऽस्ति, ते शक्नुवन्ति सकृद् उक्तम् एव “तत्त्वमसि” वाक्यार्थम् अनुभवितुम् इति तान् प्रति आवृत्त्य्-आनर्थक्यम् इष्टम् एव इति। तेन विनैवोपासनादि श्रवण-मात्रेण साक्षात्कार-भाजः सन्ति केचिद् इति ज्ञायते। इमम् अर्थं दर्शयितुं निर्विशेषोपसंहार एव युक्तः। तदभावाद् इतश्च सविशेष एव सूत्र-सन्दर्भ-स्वारस्यमपि। अत्र, “चतुरध्यायीतो ऽपि पूर्वं प्रस्तुतेन सविशेष-विचारेण” इति लेखनञ् चाभिमतम् अन्तर्-गुप्तम् ऐकशास्त्र्य-सिद्धान्तम् आविर्भावयति॥
यत् तु वेदान्तानाम् इव ब्रह्म-मीमांसाया अपि सविशेष-निर्विशेषोभय-प्रामाण्य-परतयैव योजनं युक्तम् इत्यत्र न्याय-प्रदर्शनम् तत्र स न्यायः उभय-प्रामाण्य-स्थापको न भवतीति व्यक्तम् एव। तत्तन्-न्यायासामञ्जस्यञ् च उभय-लिङ्गाधिकरण-भवद्-अभिमतार्थ-निरसनादिनैव निरूपितम् इति किम् अत्र पिष्टं पिष्ट्वा। अतः ‘गौणं प्रामाण्यं सविशेष-विचारे” इत्य् उपरितन-भवद्-वाक्यम् एव सविशेष-पर-वेदान्त-तद्-विचार-रूप-ब्रह्म-मीमांसयोर् वस्तुतो ऽप्रामाण्यम् एवानुमन्यत इति कथं तद्-उभय-प्रामाण्य-स्थितिः? प्रामाण्यं हि दुष्ट-कारण-जन्यत्व-बाधक-प्रमाण-विशेष-विरहे सत्य् एव सुस्थम्। सविशेष-वाक्यार्थ-ज्ञानं सर्वं निर्विशेष-वाक्य-रूप-बाधक-प्रमाण-बाधितम् इति कथं तत्र प्रामाण्यम्? अथ निर्विशेष-वाक्य-जन्य-ज्ञानस्यापि अविद्या-दोष-मूलकत्वाविशेषाद् अप्रमाणत्व-प्राप्त्या न बाधकत्वम् इति चेत् - तथापि नोभय-प्रामाण्यम्। ‘अविद्या काचिद् अस्ति। स च दोषः। तन्-मूलकत्वाद् अप्रामाण्यं भेद-दर्शनस्ये’ति निश्चयश् च नानात्वाभाव-ज्ञान-प्रामाण्य-निश्चयाधीनः। नानात्वाभाव-ज्ञानञ् च नानात्व-ज्ञानेन जातेनासंजात-विरोधिना विरुद्धत्वान् नैवोदेतुम् अर्हम्। भेदाभाव-ज्ञानं हि भेद-ज्ञान-सापेक्षम्। प्रतियोगि-ज्ञानस्याभाव-धी-हेतुत्वात्। यत्रैव प्रतियोगी गृहीतः, तत्र तन्-निषेधायोगात्। तर्हि उत्तरेण पूर्वस्य बाधः क्वचित् कथं स्वीक्रियत इति चेत् - तदपि निरूढं तन्त्र-वार्तिके -
पूर्वात् पर-बलीयस्त्वं तत्र नाम प्रतीयताम्।
अन्योन्य-निरपेक्षाणां यत्र जन्म धियां भवेत्॥
इति।
एवञ् च पूर्वोत्पन्न-भेद-ज्ञानानुपमर्दनेन ज्ञानम् अभेद-श्रुत्या निष्पाद्यम् इति कथं सविशेष-वाक्यानां गौणं प्रामाण्यम्। यत् तु - गुणानुसारेण प्रधान-नयनस्यान्याय्यत्वात् निर्गुण-वाक्यानुरोधेनैव सगुण-वाक्य-नयनम् इति — तन् न — निर्गुण-वाक्यस्य प्राधान्यम् अन्यस्य चाप्राधान्यम् इत्य् अत्र साधकाभावात्। उपक्रम-प्राबल्येन सगुण-वाक्यानुसारेण निर्गुण-वाक्यतो ऽखिल-हेय-प्रत्यनीकत्वे परमात्मनि बोध्यमाने, एको वाक्य-राशिः कल्याण-गुणैकतानत्व-परः, अन्यश् चाखिल-हेय-प्रत्यनीकत्व-पर इति सम-प्राधान्यम् एव। दोषाभाव-मात्रापेक्षया गुणाधिक्यस्य भोग्यताधायकत्वात् उपक्रम-भूतत्वाच् च सगुण-वाक्यस्य प्रकारान्तरेण प्राधान्यम् अपि। यद् अपि गौण-मुख्ययोर् मुख्ये कार्य-सम्प्रत्यय इति — तेन किं सेत्स्यति? मुख्य-प्रामाण्ये संभवति गौण-प्रामाण्यं न स्वीकार्यम् इति। अद्वैत-वाक्यार्थस्येव द्वैत-वाक्यार्थस्यापि परमार्थत्वाङ्गीकारात् उभय-विध-वाक्य-प्रामाण्यमपि मुख्यम् अस्माकम्। भवन् मते द्वैत-वाक्ये सर्वत्र गौणं प्रामाण्यम्। कतिपय-वाक्य-मुख्य-प्रामाण्य-स्वीकारेण भूयो वाक्य-गौण-प्रामाण्य-कल्पनञ् चायुक्तम्। गौण-प्रामाण्यम् इति नाम-कल्पनामात्रम्; वस्तुतस् तस्याप्रामाण्यात्। सर्वम् इदं स्वावसरे व्यक्तीभविष्यति। तद् अत्र सूत्र-स्वारस्य-विचारावसरे भवतो वृथैवाप्रसक्तानाम्, अन्यत्र दूषितानाञ् चांशानां सिद्धवत्-कारेण स्व-मतोपन्यास-विस्तरः। को हि नाम ब्रूयात्, “अथातो ब्रह्म-जिज्ञासे"ति निर्गुण-ब्रह्मैव प्राधान्येन प्रतिज्ञातम्। समनन्तरम् एव जन्मादि-सूत्रे सविशेषम् एव ब्रह्म लक्षितम् इति। ईदृशो हि, ‘अथातो धर्म-जिज्ञासे’ति अधर्म-जिज्ञासा प्रतिज्ञाता। अधर्मस्य धर्म-प्रत्यनीकत्वात् धर्म-लक्षणम्, “चोदना-लक्षणो ऽर्थो धर्म” इति उक्तम् इत्यपि ब्रूयात्। अयम् अत्र विशेषः अधर्मस् तु कश्चित् प्रसिद्धः; निर्विशेष-वस्तु न कथमपि प्रसिद्धम् इति। किं ब्रह्म-शब्दस्य रूढिर् योगो वा निरुक्तिर्वा निर्विशेषे इति च समनन्तर-वाद एव विचारयिष्यते।
एवम् एव वैदिक-दर्शनानां न परस्परं संमर्दावकाश इत्यादि लेखनम् अपि प्रकृते अप्रसक्तम् एव। वैदिक-दर्शनान्यपि हि “न हि वस्तुनि विकल्प” इति न्यायात् मिथो विरुद्धार्थ-प्रतिपादनांशे न सर्वाणि प्रमाणानि भवितुम् अर्हन्ति। ‘अप्रतिषिद्धम् अनुमतं भवती’ति न्यायाद् एकतरोक्तम् अन्यतरत्रापि युज्यते स्वीकर्तुम्। एवम् एव हि पिकनेमाधिकरणे म्लेच्छ-व्यवहारो ऽपि क्वचिद् अर्थ-निश्चयार्थम् आद्रियत। देहातिरिक्तात्म-सद्भाव-युक्तयश्च, आगमाश्च तैस् तैर् उपन्यस्ताः विभिन्ना अप्य् एकार्थ-पर्यवसानात् कामं संहन्येरन्। अत एवोक्तम्; “सांख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा। आत्म-प्रमाणान्य् एतानि न हन्तव्यानि हेतुभिः॥” इति। विरुद्धांश-विषये तु तेषाम् अप्य् अप्रामाण्यम्; प्रबलतमेन परेषां प्रतिक्षेपश् च सांप्रतं स्वीकर्तुम्। अत एव भगवता बादरायणेन सांख्यादि-मतानां भारते स्वयम् एव, “आत्म-प्रमाणान्य् एतानि न हन्तव्यानि हेतुभिर्” इत्यहन्तव्यत्वेनाभिमतानाम् एव साधु निराकरणं शारीरके।
इदं त्व् इह वक्तव्यम् — निर्विशेष-वादिभिः प्रपञ्चस्य सर्वस्यापलापाद् अपारमार्थ्य-स्वीकारात् सर्वं मतम् अपरमार्थ-भूतम् एव तेषाम्। आदरो ऽनादरो वा सर्वत्र तुल्यः। तत् तन्-मतम् आतिष्ठमानानां सर्व-पर-मत-बाधेन स्व-मतम् एव स्थास्यतीति बुद्धिर् अविशिष्टा। वस्तुतो निर्विशेष-वस्तुनि कल्पितत्वं तद् दृष्ट्या सर्वासाम् अपि मत-प्रक्रियाणां तुल्यम्। निर्विशेष-तत्त्ववित्सु कश्चित् व्यावहारिक-सत्यत्वं तार्किक-परिपाट्या प्रमेय-निष्कर्षेण पदार्थेषु ब्रूयात् अन्यः सांख्य-शैल्या, अपरो योगानुगमेन, परो भट्ट-प्रणाळ्या, को ऽपि माया-ध्वना, इतरो विशिष्टाद्वैति-वर्त्मनेति किं न स्यात्? यथैवम्, तथा निर्विशेष-तत्त्व-स्वीकारेणैव जैन-बौद्धादि-प्रक्रियाः केचित् परिष्कृत्य व्यावहारिक-सत्यत्वं तत्र स्वीकृत्य लोक-यात्रां निर्वोढुं प्रवर्तन्ते चेत् — अद्वैतिनस् तान् किम् इति निरसिष्यन्ति? वैदिक-विश्वासात् तु षण्-मत-स्थापना-चार्थक-प्रसिद्धिम् आनशिरे प्रथमे श्री-शङ्कराचार्याः। न खल्वद्वैतं तत्त्वमस्यादि-वाक्य-अवगतत्व एव परमार्थः, अन्यथा मिथ्येत्यस्ति। तत्तद्-अभिमत-तर्कोपस्कृत-प्रमाणान्तरतो ऽपि वेद-वैदेशिकैर् अपि तस्य ज्ञेयत्व-संभवात्।
अपशूद्राधिकरणं संकोच्य शूद्राणाम् अपीतिहास-पुराण-श्रवणाद् अद्वैतापत्ति-रूपम् उत्क्यर्थ-घटना सिद्धान्त-लेश-सङ्ग्रहे साधिता। अन्ततः तज्-ज्ञानस्योत्कृष्ट-जन्म-द्वारा वोपायत्वम् इति चोक्तम्। वस्तुतः तत्त्व-ज्ञानस्य मिथ्या-ज्ञान-निवर्तकत्व-स्वाभाव्यात् उत्तम-जन्म-प्राप्ति-हेतुत्वं न संभवति। सर्व-प्रपञ्च-बाधके चाद्वैत-श्रवणे सति कथं तदैव न मुक्तिः शूद्राणाम्, ब्राह्मणादीनाम् इव । तद् इदम् अद्वैतं स्वीकृत्यान्यत्र नास्तिक्यम् एव यदि कश्चिद् उपन्यस्येत्, तदा तादृश-चार्वाक-मतम् अप्य् अविशिष्टम् अद्वैतिनाम्। अथोच्येत - सत्स्वपि सिद्धान्त-भेदेषु सर्वे पारमार्थिकेषु कस्यचिद् एव व्यावहारिक-सत्यत्वम्, अन्येषां व्यवहार-मध्य एव लोकान्तर-जन्मान्तरानुभवादिना कदाचित् संभवन्त्या बाध-चिन्तया प्रातिभासिकत्वम् एव सांप्रतं स्वीकर्तुम् इति नावैदिक-दर्शनानाम् आदर इति - तर्हि तुल्य-नयेन वैदिकेष्व् अपि दर्शनेष्व् इयम् एव गतिर् इति सर्व-वैदिक-दर्शन-साम्योपन्यासो भवतो मुधैव। यदि प्रातिभासिक-वैदिक-दर्शन-स्थायिनाम् अपि अद्वैत-साक्षात्कार-प्रसक्तौ प्रपञ्च-बाधाद् मोक्ष इति मन्यते, तद् एतत् नास्तिक-विषये ऽपि तुल्यम्। शेषम् अपशूद्राधिकरण-विरोध-वादे वक्ष्यामः॥
अन्यच्च - शारीरकं कृत्स्नं निर्विशेष-वस्तुमात्रं निरूपयतीति नाद्वैतिनो ऽपि गदितुं प्रगल्भन्ते; न च गदन्ति। श्रुतिष्व् इव शारीरक-सूत्रेष्व् अपि सगुण-ब्रह्म-तद्-अनुबन्धि-प्रस्ताव एव तद्-बुद्ध्या ऽपि भूयान्। निर्विशेष-परतया तत्-संमत-कतिपयांशस्यापि सविशेष-विषयत्वम् एव सम्यङ्-निरूपयन्ति तद्-अन्ये। तावन् मात्रे विशिष्टाद्वैति-वादस्याद्वैतिभिः स्वीकर्तव्यत्वायोगे ऽपि अवशिष्टं सविशेष-विषयं प्रपञ्चनं कार्त्स्न्येनाद्वैति-संमन्तव्यम् एव। विशिष्य च सकल-वैदिक-दर्शन-प्रवृत्तिं सहमानैर् अद्वैतिभिः व्यावहारिक-दशोत्तीर्ण-दशानङ्गीकारिविशिष्टाद्वैति-निरूपिताः व्यवहारभाविनः जीवाणुत्वानेकत्व-धर्म-भूत-ज्ञानवत्त्व-सर्वेश्वर-नियम्यत्व-तच्-छरीरत्व-तद्-आराधकत्व-तत्-प्राप्यकत्वादयः श्रुत्या प्रतिपाद्यमानाः न प्रतिक्षेपम् अर्हन्तीति तद्दूषण-प्रपञ्चनम् अद्वैतिनाम् अनावश्यकम् एव। एवञ् च श्रुति-स्वारस्यम् इव सूत्र-स्वारस्यम् अपि नान्यथितं भविष्यति।
अथ सविशेषोपासनं मन्दाधिकारिकम् इति मुख्याधिकारिक-निर्विशेष-ज्ञान-संपत्तये ऽद्वैत-प्रचार इति चेत् - एवम् इयता कालेन प्रचारितेनाद्वैत-शास्त्रेण निष्पन्नम् अद्वैत-ज्ञानम् अनुवृत्तवन्तः कतिचित् निर्दिश्यन्ताम्। एक-जीव-वादे स्थित्वा भवद्भिर् एवोच्यते, “शुको मुक्तो वामदेवो मुक्त इत्यादिकं मिथ्या। प्रपञ्चस्या-निवृत्तत्वाद् इति। अतो न कश्चित् गणयितुं शक्यते। अनेक-जीव-वादे स्थित्वा ऽप्य् आलोचयत -‘या निशे’ति गीता-भाष्ये ह्य् एवम् उक्तम् “प्राग्-विद्योत्पत्तेर् अविद्या प्रमाण-बुद्ध्या गृह्यमाणा क्रिया-कारक-फल-भेद-रूपा च सती सर्व-कर्म-हेतुत्वं प्रतिपद्यते; नाप्रमाणा-बुद्ध्या गृह्यमाणायाः कर्म-हेतुत्वोपपत्तिः। ‘प्रमाण-भूतेन वेदेन मम चोदितं कर्तव्यं कर्म’ इति हि कर्मणि कर्ता प्रवर्तते; न, ‘अविद्या-मात्रम् इदं सर्वं निशेव’ इति” इति। अत्र वेदस्य यया युक्त्या प्रवर्तकत्वाभाव उक्तः, तथैव युक्त्या प्रत्यक्षानुमानादेर् मानान्तरस्याप्य् अप्रवर्तकत्वम् अकामेनापि
स्वीकार्यम्। मूल-भूता विद्या-विवेकस्याविशिष्टत्वात्। एवं सर्व-कर्म-विरतः तत्त्वज्ञानी कश्चिद् अद्वैती कः ?उच्यताम्। परमहंसानाम् अपि पूर्वेषाम् ईदृशी स्थितिः साधयितुं न पार्यते। किम् उतान्येषाम्। अद्यत्वे संन्यासिनस् त्व् अविपतयो ऽनधिपतयो वा गृहस्थान् अतिशेरते वैदिक-लौकिकेषूच्चावचेषु जपोपासन-वर्णाश्रम-धर्म-प्रपञ्च-यात्रानिर्वहण-प्रभेदेषु। न हि सर्वम् इदं बाधितानुवृत्ति-प्राप्तम् इति वक्तुं कश्चिद् उत्सहेत। अद्वैत-निष्ठा-सिद्धि-शेषतयैव सर्वम् इदम् आद्रियत इति चेत् - तद् एतद् उदर-भरणार्थम् आमरणमशेष-वृत्ति-विषयाविशेष-विहित-लौकिक-लोक-प्रवृत्ति-प्रतीकाशम् अधिकं वा गृहस्थे कस्मिंश्चिद् एवं न भवितुम् अर्हतीति निर्विवादम्। एवम् अनादेः कालात् सविशेष-ब्रह्म-बहु-विध-देवतान्तर-प्रभु-धनिक-पण्डितादि-विविध-भावानुभावनया परिभ्राम्यन्त इमे, मुख्यः कश्चिद् अस्ति सिद्धान्त इति अनर्थक्रियाकारि-व्याहाराभिवर्धनेन शाखोपशाखोपचयाय प्रबन्ध-निर्माण-प्रचारणादिना च कस्याधिकारिणः कमुपयोगं कल्पयन्ति ? एकैको ऽपि जीवो भुवि स्व-जीवन-दशायां यदि निर्विशेषं साक्षात्कर्तुम्, संपन्ने साक्षात्कारे यथा स्थातव्यं तथा स्थातुञ् च न प्रभवति, तर्हि किम् इतः कर्तव्यम् अस्ति? सविशेष-ब्रह्मोपासने तद्-उपयोगिनि कर्म-कलापे च प्रयतितव्यम्। तत्र ऐहिकानि फलान्य् उपेक्ष्य आमुष्मिकेषु घटमानेन यथा देहातिरिक्त आत्मा कर्ता भोक्ता विज्ञातव्यो ऽस्ति - अत एव जैमिनीयाः यावद् अपेक्षित-विज्ञानेनापेक्षित-संपत्तौ नाधिके व्यापरितव्यम् इति देवता-स्वरूप-शोधनादिष्व् अपि न सजन्ति। कञ्चुकोपरि माल्य-निक्षेपस्य कञ्चुक-धारि-शरीरान्तर्वर्ति-जीवात्म-तृप्तिकरत्वम् इव देवता-शब्द-प्रयोगमात्रे ऽपि तद्-अर्थ-तत्त्व-संबन्धो वस्तु-स्थितो न व्याहन्यत इति। एवं कर्तृ-गत-ज्ञानानन्दादि-रूपत्वम् अपि कर्म-व्यग्राणां नापेक्षितम् इति संप्रतिपद्यन्ते - तथा सगुणं ब्रह्म वासुदेवादिकम् उपसंपद्य सालोक्य-सारूप्यादि प्राप्य तद्-अधीन-भोग-प्राप्तये यावद् वेदितव्यम् उपासनाद्य्-अनुष्ठान-काल-स्थितं फल-काल-भावि च स्वात्म-स्वरूप-गुणादि, तावद् विदित्वा तत्र श्रद्दधानेन च भाव्यम्। न च निर्गुण-वाक्यानां सगुण-वाक्य-सापेक्षत्ववत् सगुण-वाक्यानां निर्गुण-वाक्य-सापेक्षत्वम् अस्ति। प्रत्युत प्रपञ्चापलाप-प्रयोजक-ज्ञान-संभावनया सगुण-ब्रह्माद्य्-आमुष्मिकार्थेष्व् अश्रद्धावल्लरी पर्यायतो नास्तिक्यम् एव प्रसुवीत। तत् सत्यम् अद्वैतिभिर् अप्य् अनद्वैति-सरणिर् एवानुसर्तव्या स्वयम् आ-प्रायणम् इति स्थिते किम् अर्थो ऽयम् अद्वैत-स्थापन-कोलाहलः?
यत् विशिष्टाद्वैतिभिर् उपदिश्यते, तत् तावन् निर्विवादम् अद्वैति-स्वीकृतम्, कार्योपयोगि च स्वीकर्तव्यञ् च। यत् तु निर्विशेषं किञ्चित् तत्राद्वैति-व्यतिरिक्तैः सर्वैर् एव वैदिकैर् अवैदिकैश् च प्रमाणासंभवस्य प्रपञ्चनात् तत् सर्वथा बाध्यं वा सविवादं वा। कार्यानुपयोगित्वं तु निर्विवादम्। सर्वेषाम् अपि वेद-वाक्यानां सविशेष-परत्व एव स्वारस्यम् इति समर्थयन्ते च सर्वे वैदिकाः। सांख्यादयश् च। ‘अथापि यदि कदाचित् तथापि तत्त्वं भवेत्, तर्हि तद्-अधिकारिणो मुख्याधिकारिणः किले’ति चेत् - तदपि तत्त्वं नेति शून्य-वादिनो मतं यदि भवेत्, तद्-अधिकारिणस् ततो ऽपि मुख्या भवेयुर् इति तद् अप्य् आदरणीयं स्यात्। वेदस्यार्थः स न भवतीति चेन् न - “प्रकृतैतावत्त्वं हि प्रतिषेधति, ततो ब्रवीति च भूयः” इति सूत्रे ब्रह्मापि निषिध्य वेदार्थस्य वर्णनं केनचित् कृतम् इति सूत्र-भाष्यत एव ज्ञायमानतया सो ऽपि वेदार्थो भवेत्। स तत्र परिहृत इति चेत् - तथैवाद्वैतम् अपि शारीरके तत्रैव सूत्रे, सर्वतश् च, अन्यत्र चानद्वैतिभिः प्रतिक्षिप्तम् इति सो ऽपि न वेदार्थ इति तुल्यम्।
अपि च वैदिक-मत-स्थापन-प्रयासः किं जगदप्रलाप्य-द्वैत-विज्ञान-दृष्ट्या, आहो खिद् अन्य-दृष्ट्या ? “तैर् वेदाप्रामाण्यस्य च वैदिक-लोक-तद्-अनुष्ठान-तत्-फल-तद्-अतिरिक्त-सर्व-प्रपञ्चापारमार्थ्यस्य चाध्यवसितत्वेन पर-हितार्थ-प्रवृत्तेर् असंभावितत्वात्। स्व-भिन्न-स्वापेक्षित-फल-लेशाभावेन, स्व-सिद्धि-प्रतिबन्धकतया च स्वार्थ-प्रवृत्तेर् अप्य् असंभवात्। परमार्थतया जगन् मन्यमानाश् च स्वार्थं परार्थञ् च सर्वतोमुखं प्रवर्तमानाः अपेक्षितं स्थापयितुं प्रभवन्तीति न तत्राद्वैति-मुख-निरीक्षणम् इमे चिकीर्षन्ति। ‘अद्वैत-मते विस्रम्भेणावतीर्णानां परस्सहस्र-संशय-सागर-संप्लवा-पतित-मज्जनानां मज्जनानां रक्षणाय मम प्रवृत्तिर्’ इत्यद्वैत-ज्ञानी मन्यत इति चेत् - तेषाम् अपरमार्थताम् अविद्वान् अयं कथम् अद्वैत-विज्ञानी? विद्वांश् चेत् कथं व्याप्रियेत? अपरमार्थता-ज्ञानम् अस्ति; तथापि न तेषां बाध इदानीम् इति चेत् - शङ्खे पीतस्यापारमार्थ्य-ज्ञानम् अस्ति; पीत-रूप-बाधस् तु न जात इति पीत-कार्यं ततो ऽपि तर्हि निवर्तयेल् लोकः। अधिकं बाधितानुवृत्ति-विचारे वक्तव्यम् ॥
वस्तुत एवम् अनर्थ-कराद्वैत-स्थापन-श्रद्धा-विजृम्भितम् अशेषतः परित्यज्य सविशेष-ब्रह्म-देवता-पारम्य-याथात्म्य-निर्णये प्रवृत्तिर् अद्यत्वे अनद्वैतिनाम् इवाद्वैतिनाम् अपि युज्यते, येन सर्वे सगुणोपासन-प्राप्य-पुरुषार्थ-प्रतीक्षाः तत्र परम-पुरुषार्थ-निर्धारणेन समुचिते शास्त्रार्थे श्रद्दधीरन्। अस्ति खल्व् अनद्वैतिभिः सार्धम् अद्वैतिनाम् इव तेषां परस्परम् अपि मत-भेदः। तादृशं सर्वं कार्य-करम् उपेक्ष्याकार्यकरे ऽनपेक्षिते स्वयम् अप्राप्ये चाद्वैते अभिमान-भूमानं वहन्त इमे सर्वमन्यं भेदं प्रस्मृत्य वयम् अद्वैतिन इत्येकीभवन्ति। एवं निर्णेयम् अर्थम् अनिर्णीयोभयतो भ्रष्टा मा भूवन्न् इति सगुण-ब्रह्म-याथात्म्य-संशीलने तैर् व्यापरितव्यम् इति परम् आप्ताः कारुणिका अध्यवस्यन्ति। अद्वैत-श्रद्धावद्भिर् अपि कथं स्थेयम् इति प्रबोध-चन्द्रोदय-कार एवोपदिशति। तत्र तृतीये ऽङ्के कापालिकादीन् हेय-कोटौ परिगणय्यैव तुरीये ऽङ्के,
अमुष्य संसार-तरोर् अबोध-मूलस्य नोन्मूल-विनाशनाय। विश्वेश्वराराधन-बीज-जातात् तत्त्वावबोधाद् अपरो ऽभ्युपायः॥
इति तत्त्व-ज्ञानद् एव मोक्ष इति वर्णनावसरे तत्-कारणत्वेन विश्वेश्वराराधनम् अपि निरदैक्षत्। विश्वेश्वर-शब्दस्य जगन्नाथ इति तन्-नाटक-व्याख्यायां प्रतिपदम्। स्वरसतो जगन्नाथ-पदं पुरुषोत्तम-ग्राहि; विश्वेश्वर-पदञ् च काशीनाथ-शिव-ग्राहि। शिवस्य ज्ञान-हेतुत्वञ् च सर्व-संमतम्, “शङ्करात् ज्ञानम् अन्विच्छेत् मोक्षम् इच्छेत् जनार्दनात्” इति स्मरणात्। एवं वदन्न् एव विष्णु-भक्ति-विकलस्य विश्वेश्वराराधनं न फलायालम् इत्य् अध्यवसाय विष्णु-भक्ति-प्रपञ्चन-परायण एव राज्ञो विजय-प्रस्तावेन वाराणसीम् उपगतस्य सारथिना प्रति-बोधनावसरे, “यत्रैते मरुतो ऽपि गृहीत-पाशुपत-व्रताः धूलिम् उद्धूलयन्तः तापसा इव लक्ष्यन्ते” इति अथर्व-शिरः-प्रोक्त-पाशुपत-व्रत-चर्यया तत्र मुक्ति-मार्ग-निरतान् उपमान-विधयोपक्षिप्य राज्ञो मुखेनापि “चेतः कर्षति चन्द्र-चूड-वसतिर् विद्येव मुक्तेः पदम्” इति विश्वेश्वरालयम् अपि प्रशस्यानैर्भर्येण तद्-अतिलङ्घ्य,
“पश्य पश्य तद् इदं सुर-सरित्-परिसरालङ्कार-भूतं भगवतः पावनम् अनादेर् आदि-केशवस्य विष्णोर् आयतनम्”
इति सूते विज्ञापितवति,
एष देवः पुरा-विद्भिः क्षेत्र-सात्मेति गीयते अत्र देहं समुत्सृज्य पुण्य-भाजो विशन्ति यम् ।
इति सहर्षं प्रशंसतो राज्ञो मुखेन दण्डवत्-प्रणम्येव कृते दण्डके, ‘वैकुण्ठ-भक्तस्य लोकस्य संसार-मोहच् छिद्रं देहि बोधोदयं देव तुभ्यं नमः” इत्य् अनेन विष्णोर् एव तत्त्ववोध-हेतुत्वम् अपि दर्शयति। इदम् अनुसृत्य ‘विश्वेश्वराराधन-बीज-जातात्’ इति पूर्व-लोके विश्वेश्वर-पदेन वा बीज-पदेन वा विष्णोर् अपि विवक्षितत्वं विमृश्यावधार्यम्। अथ संग्राम-समये विष्णु-भक्त्याः शालिग्रामे भगवतः क्षेत्रे चक्र-तीर्थे ऽवस्थानादिकं पञ्चमे ऽङ्के प्रस्तुत्य स-परिवारया विष्णु-भक्तयैव सर्वस्यापि पुरुषस्य निःश्रेयस-प्राप्तिं पूर्णेन नाटकेन न्यरूपयत्। एवं पाशुपत-व्रत-निष्ठ-भूयिष्ठायां विश्रुत-विश्वनाथायां वाराणस्याम् एव तद्-अतिलङ्घनेन आदि-केशवात्यन्त-प्रवण-मनसः श्री-कृष्ण-मिश्रस्याद्वैतिनो ऽद्वितीयस्य विष्णु-भक्ति-निष्ठा वरिष्ठा अद्वैत-श्रद्धा-जुषाम् अपि परेषां परमादर्शो भवितुम् अर्हति।
अद्वैतिषु हि केषुचिद् आपाततः सर्व-देवतैक्यवादिष्व् अपि प्रायः अविद्या-भेद-कृत-जीव-भेद-परामर्शिनः तत्तद्-अविद्या-कृत-ज्ञान-शक्ति-वैलक्षण्यतया देवा मिथो भिन्ना एवेत्य् आतिष्ठन्ते। तत्र ब्रह्म-शिव-गणेश-कुमारादि-कथा-परिशीलनेन पिता-पुत्र-भावादिकं संबन्धम् अपि स्वीकुर्वन्त्य् एव। एवम् अपि फल-विशेष-व्यासक्त-चेतसो गणेश-भास्करादि-पूजनैदम्पर्यं कतिचित् वहन्ति। एवम् अपि विवेचनावसरे प्राप्ते त्रिमूर्त्यतिरिक्तानां निकर्षं तिसृष्व् अपि मूर्तिषूत्कर्षम् अध्यवस्यन्त्य् एव। तास्वपि तारतम्य-चिन्तायां पुनर् नोत्सहन्ते। परं तु सूत्र-भाष्ये “समान-नामरूपत्वात्” इति सूत्रे, परमेश्वरानुग्रहाद् ईश्वराणां हिरण्य-गर्भादीनां कल्पान्तर-व्यवहारानुसंधानोपपत्तेः, “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मै”
इति ब्रह्मापरपर्यायात् हिरण्यगर्भात् त्रिमूर्त्यन्यतमभृतात् अन्यस्य सर्वजगत्कारणस्य निर्देशात्, कार्याधिकरणे ऽपि, जगत्कारणपरब्रह्मातिरिक्तस्य कार्यभूतस्य, ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे” इति निर्दिष्टस्य चतुर्मुखस्य उपासनप्राप्यत्वकथनात्, “कार्यब्रह्मलोक-प्रलयप्रत्युपस्थाने सति, तत्रैवोत्पन्नसम्यग्दर्शनाः सन्तः तदध्यक्षेण हिरण्यगर्भेण सह अतः परं परिशुद्धं विष्णोः परमं पदं प्रतिपद्यन्ते” इति हिरण्यगर्भादुपरि विष्णोर्वर्णनाच्च चतुर्मुखमूर्तिः इतरमूर्तिसमा नं भवितुम् अर्हति इति वक्तव्यं भवति। शिष्यते तु विष्णु-शिवमूर्तिद्वयम्। प्रायेण भाष्ये ईश्वर-महेश्वर-परमेश्वर-शब्दप्रयोगे देवताविशेषं कं तत्र निर्दिदिक्षति इति विमर्शे वैश्वानराधिकरणे मूर्धत्वादेः परमेश्वररूपत्वभाषणात् मूर्धत्वादेर्विष्णुरूपताया एव प्रसिद्धत्वाच्च नारायण एव परमेश्वर इति सूत्रभाष्ये ऽभिमत इति चिन्ता प्रसरन्ती न सहसा दूषयितुं पार्यते। पत्यधिकरणे च केवलनिमित्तकारणेश्वरवादिनां सांख्य-योगानुयायिनां तथा तार्किकाणाम् एवं माहेश्वराणां च पक्षो निरासि। माहेश्वराश्च शैवाः पाशुपताः कारुणिक-सिद्धान्तिनः कापालिकाश्च इति चत्वारः तान्त्रिकाः इत्याहुः। एवं पशुपति-महेश्वरादिपदवाच्यस्यैव आगमे ऽनुक्तम् अपि उपादानत्वं वेदोक्तत्वात् स्वीकार्यम् इति तु न अभाषि। अनन्तरे चोत्पत्त्यसंभवाधिकरणे, प्रकृतिश्च अधिष्ठाता च उभयात्मकं कारणम् ईश्वरो ऽभिमतो येषाम् तेषां पक्षस्य प्रत्याख्यानं कृतम्। अत्र पाञ्चरात्रविचारस्यैव क्रियमाणत्वात् ईश्वरपदं नारायणपरम् एव। “भगवानेक एव वासुदेवः” इत्यादिना च पाञ्चरात्रप्रक्रियामुपर्युपवर्ण्य, यो ऽसौ नारायणः परो ऽव्यक्तात् प्रसिद्धः परमात्मा सर्वात्मा, स आत्मना आत्मानम् अनेकधा व्यूह्यावस्थित इति तन् न निराक्रियते" इति भाषमाणः नारायणस्य द्विविधम् अपि कारणत्वं कण्ठरवेणाह। गीताभाष्यारम्भे च, “नारायणः परो ऽव्यक्ताद् अण्डम् अव्यक्तसंभवम्” इति, प्रथमाध्यायावसाने च, “इमं द्विप्रकारं धर्मं निःश्रेयसप्रयोजनम्, परमार्थतत्त्वं च वासुदेवाख्यं परब्रह्माभिधेयभूतम्” इत्य् एवं नारायणपारम्यं स्पष्टम् उक्तम्। अतो नारायणमूर्तौ निष्ठा प्रतीयते। तथा, “योगिनामपि सर्वेषां मद्गतेना
न्तरात्मना । श्रद्धावान् लभते यो मां स मे युक्ततमो मतः ॥ " इत्यत्र रुद्रादित्यादिध्यानपरापेक्षया वासुदेवध्यायिनो युक्ततमत्वं भाष्ये व्यक्तमुक्तम् । सप्तमे च प्रतिपद्यते स महात्मा; एवमप्रतिपत्तौ कारणम्, तेस्तैः पुत्रपशुवर्गादिविपत्रैः अपहृतविवेकज्ञानाः वासुदेवादन्याः देवताः प्रपद्यन्ते । तेषां च कामिनां तां श्रद्धां स्थिरां स्वीकरोमि । तस्याः आराधितायाः देवतायाः कामान् मयैव सर्वज्ञेन कर्मफलविभागज्ञतया निर्मितान् ते लभन्ते । तेषां फलं विनाशि । एवं समानेऽप्यायासे मामेव न प्रतिपद्यन्ते अनन्तफलाय । अहो खलु कष्टतरं वर्तते इत्यनुक्रोश दर्शयति भगवान् " इति सर्वं मुक्तकण्ठमाह । एवञ्चेतरदेवोपासनामपेक्ष्य नारायणोपासने नैर्भय निपुणमाविष्क्रियत एव । वासुदेवः सर्व” मिति घट्टे, य एवं सर्वात्मानं मां नारायणं " कचित् क्वचिद्वैश्वानर एवं नारायण एव चतुर्मुखादिसर्वकारणत्वावधारणात् तत्त्वमस्यादिवाक्ये sपि तत्पदेन शतया प्रथमत उपस्थाप्यमानो नारायण एवेति गम्यते । कार्याधिकरणे च सगुणविद्याविषया गतिश्रुतयः’ इति वदन्, पञ्चाद्मिविद्यां प्रकृत्य गतिरुच्यते ; क्वचित् पर्यङ्कविद्याम् ; विद्या" मित्यादिना अनेकसगुण विद्यापरिगणनावसरे पर्यङ्कविद्यामप्याह ; या कौपीतब्रिाह्मणगता विरजानयादिद्वारा प्राप्यवकुण्ठवर्तिश्रियः पतिगोचरेति स्पष्टम् । एवमत्र नभर्यादेव सर्वत्र प्रसिद्ध्यधिकरणे, ‘यथा सालग्रामे हरिः ’ इति हरेः पुरः स्फूर्तिः, तथा, ““याप्तेश्च समञ्जस” मिति सूत्रे, यथा वा प्रतिमादिषु विष्ण्वादिबुद्धध्यास " इति । एवं क्रियासमभिहारेणात्मत्वोपासनाधिकरणादावपि । “भज गोविन्द " मित्यादि चैतत्कर्तृकं प्रसिद्धमेव । अर्वाचीनानेकशङ्कराचार्यकृताः केचिन्निबन्धाः यद्यप्येतत्कर्तृका इति प्रचारं प्रापिताः सन्तिअथापि निर्विवादमदसीयत्वेन स्वीकृतमात्रमेवास्माकमिह ग्रहणकोटिमाटीकते । "” ‘परमते सूत्रस्वारस्य-भङ्ग’ प्रसाधनम्
९१ एवमादिशङ्कराचार्यादिसूक्तिषु स्पष्टं सतीप्वपि अद्वैतिनां सर्वदेवतैक्य मिति, त्रिमूर्ति साम्यमिति, विष्णुशिवसाम्यमिति व्यवहाराः, शिवगणेशसुब्रह्मण्यादिप्रावण्यं विष्णुविषयमपेक्ष्या तिशयितञ्च सर्वलोकप्रत्यक्ष दक्षिणदेशे परमनुभूयन्ते । एवं निर्विशेषाद्वैतस्य ग्रन्थैः स्थापनम् कीदृशसगुणोपासनं परमपुरुषार्थप्राप्तयन्तरङ्गभूतमित्यविवेचनं च न श्रेयस इति प्रतिबुध्य तत्रावतीय स्वाभिमतां सांप्रदायिक देवतां निर्णीय तदनुरोधेन स्वकीयां सविशेषनिष्ठामुपयोजयन्ति चेत् नूनमात्मने बहूपकृतं भविष्यति । अत्र केचित् — विष्णुपारम्यमातिष्ठमानैः शिवद्वेषः क्रियमाणोऽस्माकमसह्यो भवतीति शिवेऽभिमानं प्रदर्शयाम इत्याहुः । तद वक्तव्यम् विवेकिनां वैष्णवानां शिवद्वेषस्य न मात्रयाऽपि प्रसक्तिः । भागवतोत्तमः शिव इति साधूनां दर्शनम् । प्राञ्चः, “विधिशिवसनकाद्यैर्ध्या तुमत्यन्तदूरम्” इति भगवन्तं स्तुवन्तः शिवस्य स्वापेक्षया परममुत्कर्षमुद्घाटयन्ति । " सर्वज्ञो रुद्र" इति च श्रीदेशिकचरणाः । किम् ? न कुत्रापि देवतायां द्वेषलेशलवोऽपि श्रीवैष्णवानाम् । तर्हि कथं न पूजयन्तीति चेत् — अन्यदेतत् । " अन्तवत्तु फलं तेषामिति गीतैव तदाराधनस्य फलं क्षुद्रमित्याह । प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम् " इति च स्मर्यते । श्रीविष्णुपुराणे च, “शुभाश्रयः स चित्तस्य सर्वगस्याचलात्मनः । त्रिभावभावनातीतो मुक्तये योगिने नृपः ॥ अन्ये तु पुरुषव्याघ्र ! चेतसो ये व्यपाश्रयाः । अशुद्धास्ते समस्तास्तु देवाद्याः कर्म योनयः ॥” इत्यत्र (6-7 ) श्रीधरीयेऽप्युक्तम् – “ अन्यदेवता निन्दया भगवन्मूर्तिधारणामेव दृढीकरोति " इति । 1 " शिव इति पाञ्चरात्राधिकरणे बहुष्वंशेषु पाञ्चरात्रप्रामाण्ये सत्येव जीवोत्पत्त्यादि परतया प्रतीयमानवाक्यमात्रस्याप्रामाण्यं शाङ्करभाष्यसंमतमिति प्रागेवावोचाम । तत्र प्रथमसूत्रे भाष्ये, " प्रतिषेधिप्यति चाचार्यो जीवस्योत्पत्तिम्, नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः" इति पंक्तिरस्ति । " उत्पत्त्यसंभवादिति सूत्रस्य सूत्रकाराभिमतरीत्याऽर्थ भाषमाणः कथं सूत्रकारवचनमेव तत्र प्रमाणयति । तेन ज्ञायते मध्ये कश्चिदाशङ्कते " उत्पत्त्यसंभवा" दिति सूत्रं पूर्वपक्ष ९२
सूत्रमस्तु ; “विज्ञानादिभावे वा " इति च सिद्धान्तसूत्रम् । तेनोत्पत्ति’ रेव स्थाष्यते पाञ्चरात्रवत् सूत्रकारेणापीति । तत्परिहारार्थमियं पङ्क्तिः न हि सूत्रकृतो जीवोत्पत्तिरिष्टा स्यात् । तेन स्पष्टमेव, नात्मा श्रुते” रिति तन्निषेधादिति । एवं भाषमाणश्चायं पूर्वपक्षसिद्धान्तोभयपरतया सूत्रविभागं पूर्वाचार्यकृतं परासितुमिच्छतीति ज्ञायते । एतदाशयश्च पूर्वाभिमतयथाव । स्थितार्थव्युत्पादनेन श्रीभाष्ये निरस्तः । एवं शाङ्करभाष्ये पाश्चरात्रांशिकाप्रामाण्यपरे सत्यपि तदनुयाय्यपि भामतीव्याख्याता कल्पतरुकारः पाञ्चरात्रम्यांशतोऽप्रामाण्यममृप्यमाणः पाञ्चरात्रे जीवोत्पत्तिश्रुतिर्गौणीत्याह । पाञ्चरात्रे श्रुतां जीवोत्पत्तिमेव परमार्थतया स्वीकृत्य श्रुतिध्वनुत्पत्तिवचनमेव गौणं कस्मान्न नीयत इत्याशङ्कामपि परिहरन् ह्येवमाह, “बुद्धिपूर्वकृतिः पाञ्चरात्रं निःश्वसितं श्रुतिः । तेन जीवजनिस्तत्र सिद्धा गौणी नियम्यते " इति । न हि ‘यजमानः प्रस्तरः,’ ‘आदित्यो यूपः’ इत्यादौ गोण्याश्रयणमप्रामाण्यस्थापनाय । ‘अनाप्तवाक्यानां भ्रान्तिप्रमादविप्रलिप्सादिमूलत्वादप्रामाण्यान्नार्थान्तरकल्पनार्थे यतितव्यम् ; आप्तवाक्यानां तु अप्रामाण्यायोगात् विवक्षितार्थं लक्षणया गौण्या वा संपाद्य प्रामाण्यमा स्थेयम्’ इति नियमात् भगवन्मुखोद्गते च पाञ्चरात्रे कथमप्यप्रामाण्यसंभावनाया अयोगात यजमानप्रस्तरादिवत् गौण्याश्रयणेन प्रामाण्यं संपाद्यमिति कलयन् कल्पतरुकारो भवद्भाष्यं परास्यतीति वा, तदपि गौण्या नेयमिति वा मन्यत इत्येव स्वीकार्यम् । आह च भगवतः परमाप्तत्वं तत्रैव, “पाञ्चरात्रकर्तुर्वासुदेवस्य वेदादेव सर्वज्ञत्वावगमात् कपिलपतञ्जल्यादीनाञ्च जीवत्वात् पाञ्चरात्रस्य पुराणेषु बुद्धादिदेशनावत् व्यामोहार्थमीश्वरप्रणीतत्वाश्रवणात् न योगाद्यधिकरणगतार्थता " इति । पूर्ण प्रामाण्ये च पादसङ्गतिः कथमिति कलयश्चाह " अवान्तरसङ्गतिवशादिह . पादेऽस्य लेखः " इति । प्रागेव चास्माभिरत्र संगत्यंशे वक्तव्यमुक्तम् । इतः प्राक्तने च पत्यधिकरणे यथामूलम् शैवादेरप्रमाणत्वं स्वयमप्यभ्युपागमत् । असोढशिवपारम्यो विष्णुप्रावण्यमुज्जगौ ॥ ४२ ॥ ‘परमते सून’ प्रसाधनम् यदहि तत्र स एव कल्पतरुकारः — तत्सुखाद्वैत बोधात्मस्वभावहरये नमः । वेदान्तैकप्रमाणाय कुतर्काणामभूमये ॥ " s इतीति पश्यतास्य कल्पनरुकृतोऽपरिमितां विष्णुभक्तिम् । तत् व्यक्तम्, विष्णुनामा स वेदेषु वेदान्तेषु च गीयते इति पराशरोक्तरीत्या वेदान्तवेद्यो हरिरेव; न तु हरादिरिति दृढमयमभिप्रतीति । एवं पाञ्चरात्रस्य व्यामोहकत्वाभावे कल्पतरुकारेण प्रतिष्ठापितेऽपि यत् परिमळकारः एकायनशाखायामविस्रम्भमावहन्, शुक्लयजुर्वेदिनश्च दूषयन् पाञ्चरात्रस्य व्यामोहकलं वक्तुमुद्यम्य मूलविरोधात् विभ्यत्, ‘मनोदीपिकायां मनोभातं सर्वं वक्तुमुचित’ मिति कृतां मनोदीपिकां निर्दिशन्नेव विरमति स्म, शैवग्रन्थांश्चानेकान् आरचयत्, तत एवायमाधुनिकः शैवाभिनिवेश कल्पितः क्षोभः । एवंस्थिते श्रीभाष्यसरणिचोरत्वेन प्रसिद्धश्रीकण्ठभाष्यं शैवं शाङ्करभाष्यादपि पूर्वत्वेन केचिद् वक्तमुयुञ्जते । अहो ! अभिनिवेशः ! अहो ! तदनुगुणं श्रीकण्ठभाष्यनिर्माणनैपुण्यम् ! (C प्रायश्च प्रपन्नाः फलार्थव्यापारतो विरमन्ति । आज्ञानुज्ञा विभागेन द्विधा स्थितायां शास्त्रीयपद्धतौ आज्ञामात्रव्यापृताः, अनुज्ञामप्यौचित्ये सत्येव कुर्वाणाः अन्यदोपेक्षमाणाः प्रपन्नाः अनावश्यकेषु कार्येषु नैव सजेयुः । प्रत्युत देवतान्तरतो निवृत्तिकारणं शास्त्रीयं लौकिकञ्चास्तीति च ते मन्यन्ते । तावता तेषां न द्वेषलेशोऽपि । एवम्भूतान् अद्वेषिणः वैष्णवान् द्वेषिणः कल्पयन्त इमे, शप्यमानस्य यत् पापं शपन्तगधिमच्छति " इत्यादिनीत्या स्वयमपि द्वेषिभिरनुभायं फलं भजेरन्नित्यनुक्रोशन्ति च । पृच्छन्ति च, वैष्णवः शिवद्वेषी इत्येतदर्थं शिवाभिमानः क्रियते चेत्, तावता कथं शास्त्रगतिरनुसृता स्यात् ? शिव एव परम इति श्रुतिस्मृतीतिहासपुरस्सरं तथा संप्रदायपुरस्सरश्च स्थापयन्तो यदि तदेकान्त्यं भजेरन्, तच्छोभेत । अथ भारतभागवतरामायणपरायणाः सन्तो नारायणपारम्यं निष्क्रष्टुं पारयन्ति, तर्हि तथैवाऽनुवर्तन्ताम् । तावता देवतान्तरपूजाः परित्याज्या इति न ब्रूमः । तत्तत्फलकामनया तत्र तत्र ૪ परमार्थभूपणे प्रवृत्तेरासृष्टिसन्ततत्वात् । तथापि मुख्यामुख्यविचारेण सरणिमेकामनुसृत्य श्रेयो विन्दन्तु । दैवमस्तु यथायोगं तात्त्विकं व्यावहारिकम् । अव्यत्यये तु तस्य स्यादैकरस्यं बहुत्र नः प्रायो भेदस्य सर्वत्र क्लृप्त्यैव परितुप्यताम् । स्यादिष्टः क्षोभ एतादृक् सामरस्यं सुखाय नः • ॥ ४३ ॥ ॥ ४४ ॥ तत् किमनेन, ‘वैदिकावैदिकदर्शनानि सर्वाणि समानी’ति वा, वैदिकानि परं समानी’ति वा केवलमाचरणविरुद्धव्याहारमात्रेण । पारमार्थिकं तत्त्व यथा किञ्चित्, तथा व्यावहारिकं तत्त्वमप्येकरूपं मन्तव्यम् । अन्यत्तु नानामतिकल्पितमखिलं भवद्भिः प्रातिभासिकं ग्राह्यम् । तथा च शारीरकविचारितं ब्रह्म निर्विशेषं किञ्चिदिति निरूपणमपेक्ष्याद्यत्वे अशेषजनापेक्षितं निरूपणं तावदिदमेव यदस्मिन् शारीरक एव प्राधान्येन वा अप्राधान्येन वा आदित आ समाप्तेर्निरूपितं सविशेषं ब्रह्म किं तत्, यस्य संराधनेन श्रेयो विन्देमेति । अलं बहुना ॥ } तत् सिद्धं शतदूषण्यां षट्षष्टितमवादतया स्थितस्य ‘परमते सूत्रस्वारस्य-भङ्ग’ वादस्य परीक्षणं, शतभूषण्याम् प्रथमं तन्निबन्धनञ्च नाद्वैतीष्टसाधकम् ; प्रत्युत स्वारस्य-भङ्गस्यानिष्टम्य भङ्गयन्तरेणाङ्गीकाराविष्कारकमेवेति ॥ वेदव्याससुदर्शनार्यविहिता श्रीभाव्यटीका वद त्यस्वारस्यमशेषसूत्रगतमप्यद्वैतमार्गेषु यत् । आचार्याः शतदूषणीप्रकरणेऽप्याहत्य भङ्गयन्तरं यच्चाहुः, परिशीलने तदखिलं दिङ्मात्रमेतत् ध्रुवम् नास्ति स्वारस्यलेशोऽप्यवगमनविधौ निर्विशेषस्य सत्यं शास्त्रे शारीरकेऽस्मिन् तदिह बहुमुखं ताडयते जैत्रभेरी । नास्त्येवं निर्विशेषप्रवचनफलमप्यद्य मीमांस्यतां तत् 11 84 11 किं तत्, यत् ध्येयमिष्टं सगुणमिह मिंत ब्रह्म तच्छ्रेयसे वः ॥ ४६ ॥ ‘परमते सूत्रस्वारस्य-भङ्ग प्रसाधनम् एकैकसूत्रपरसंमत हृप्यरीति भङ्गप्रपञ्चनमिहास्ति पृथग्विधेयम् । यत्किञ्च मुख्यमिह नः शतभूषणीस्थ दुष्टार्थदूषणविधौ प्रतिबोधितं तत् परसिद्धान्तदोषाणां भविष्यति विवेचनम् । तत्रापि सूत्रासारस्याद्येवं व्यक्तीभविष्यति श्रितवेदमौलिदेशिकवपुषा विहितः प्रसाधितोऽचैवम् । सूत्रस्वरसवि-भङ्गः परमतगोऽन्तः सता हयास्येन श्रीमद्भयो रङ्गरामानुजमह । देशिकेभ्यो नमः । ९५ ॥ ४७ ॥ 11 8 6 11 ॥ ४९ ॥
श्रीः श्रीमते निगमान्तमहा देशिकाय नमः ।