श्रीः
श्रीमद्भ्यो रङ्ग-रामानुज-महादेशिकेभ्यो नमः
श्रीमद्भ्यो वेदान्त-रामानुज-महादेशिकेभ्यो नमः
श्रीमते निगमान्त-महादेशिकाय नमः
श्रीमते भगवद्-रामानुजाय नमः
श्रीनिवास-परब्रह्मणे नमः
परमार्थ-भूषणम्
श्रीशं देवं वृषगिरि-रतं, श्रीमतस् त्रीन् मुनीन्द्रान्,
श्रुत्यन्तार्यान् अखिल-कथक-क्षेपि-सत्-तर्क-सूक्तीन् ।
आचार्यान् अप्य् अनघ-धिषणान् रङ्ग-रामानुजाख्यान्
नत्वा सम्यक् परमत-गतीर् अद्य निर्मूलयामि ॥विनायक-पितामहे व्यपहृत-श्रुतौ आत्मजे
निगृह्य मधु-कैटभौ कृत-हितं हयास्यं परम् ।
गजास्य-पति-सेवितं गज-विपक्ष-वक्त्रादितां
भजामि कवि-तार्किक-द्विरद-सिंहताञ् चा ऽऽस्थितम् ॥पर-पक्ष-निराकृति-प्रसिद्धाः गुरवो ऽति-स्थविराः; तथापि शिष्याः ।
प्रभवन्ति परीक्षितुं प्रबन्धान् परकीयान् शत-भूषणीं तथा ऽन्यान् ॥प्राग् एव खण्डिता इष्ट-ब्रह्म-नैष्कर्म्य-सिद्धयः ।
श्री-भाष्य-कार-प्राचार्यैः सिद्धि-त्रय-विधायिभिः ॥शाङ्कर-व्याकृतीः प्राच्य-नव्य-प्रस्थान-भेदिनीः ।
परास्य प्राच्य एवाध्वा भाष्य-कृद्भिः परिष्कृतः ॥अक्षानुमान-श्रुति-सूत्र-मुख्य-प्रमाण-दूरान् खलु कल्पयन्ति ।
तर्काप्रतिष्ठा-विहिताव्यवस्थान् अद्वैतिनो ऽर्थान् अखिलांश-दुःस्थान् ॥तर्क-प्रमाण-निबिडां शत-दूषणीं यः सम्यग् विभावयितुम् अप्य् असमर्थः ईदृक् ।
यं कञ्चिद् अंशम् अयथावद् अनूद्य पूर्व-क्षिप्तं पठन् बत मतः खलु खण्डको ऽद्य ॥उक्तानुक्त-समस्त-कल्प-कलितं कृत्वा विकल्पं क्रमात्
अद्वैतं शत-दूषणी विदलयत्य् आम्नाय-संरक्षिणी ।
आपात-व्यवहार-मात्र-नियतं चाद्वैतम् अद्यत्व
इत्य् आदृत्ये सगुणाध्वनि स्थितिमताम् अद्वैत-मानो वृथा ॥को दोषः कश् च जीवः स्यात् कश्चेशः का च देवता ।
कथञ् च सृष्टिर् इत्य् आद्यम् अद्वैते ऽत्राव्यवस्थितम् ॥अथाप्य् अज्ञ-मति-क्षेप्त्यै तत्त्व-व्युत्पादनाय च ।
प्राच्य-नव्य-बहु-ग्रन्थ-परीक्षार्थो ऽयम् उद्यमः ॥
पीठिका
श्रियः प्रियस्याखिल-हेय-प्रत्यनीकस्यानघ-रूप-गुण-विभूति-विस्तारस्यानन्तावतारस्यानर्घोपदेश-भूतम् अनादि-निधनाविच्छिन्न-संप्रदाय-निगम-निकर-पाञ्चरात्र-गीतादिकं भगवद्-बादरायण-बोधायनादि-परमर्षि-प्रणीत-भारत-शारीरक-ब्रह्म-सूत्र-वृत्त्य् आदि च सामग्र्येण समीक्ष्य सर्व-सामरस्य-वहं विशिष्टाद्वैतामृतम् अनादि-समय-संरक्षितम् अशेषेभ्यः सुमनोभ्यः प्रदाय वेद-बाह्य-कुदृष्टि-क्षोभ-परिहरणेन प्राणिनः परमया करुणया ररक्षुर् भगवद्-रामानुज-स्वामि-चरणा इतीदं खलु निश्चप्रचम् एव । तम् इमं विशिष्टाद्वैत-सिद्धान्तम् अनुरुध्य पारमैकान्त्य-भूषितायां वृत्तौ प्रतिष्ठां प्राप्तवद्भ्यो महद्भ्यो ऽभ्यसूयुषु पर-मतस्थेषु सिद्धान्त-क्षोभणाय वाद-कोलाहले व्यापृतेषु कवि-तार्किक-सिंहाः सर्व-तन्त्र-स्वतन्त्राः श्रीमद्-वेङ्कटनाथार्याः श्रीमद्-वेदान्त-देशिकाः विष्वग्-व्यापिन्य् अगाधे यति-नृपति-वचस्-संपदेकार्णवे श्रद्धा-शुद्धावगाहैः शुभमतिभिर् अभिषिक्ताः वादेषु सर्वान् परान् पराजित्य तदा-प्रवृत्त-वादार्थ-संग्रह-क्रमेण सर्व-पर-ग्रन्थ-परिशीलन-पूर्वं श्रीभाष्य-व्याख्या-रूपां शत-दूषणीम्, “प्राज्ञा यथोदितम् इदं शुकवत् पठन्तः प्रच्छन्न-बौद्ध-विजये परितो यतध्वम्” इत्य् उपदिश्य निर्माय प्राज्ञेभ्यः प्रतिपादयामासुः । विशिष्ट-विद्या-संपन्नाः विद्यारण्यादयो ऽपि ग्रन्थ-रत्नम् इदम् अवलोक्य प्रतिकाराक्षमा जोषम् आसतेति विश्व-प्रसिद्धम् इति शत-दूषणी-ग्रन्थो ऽप्य् अनुवदति । तेषां तर्के विशेषतो ऽवगाहनं नासीद् इति तथेति चेत् - तर्हि सुदूरे शत-भूषणीकारः । न वयं विद्यारण्यादिभ्यो विशिष्टाः प्राज्ञगणयो न भवन्ति भविष्यन्ति वेति ब्रूमः । किंतु विशिष्ट-वैदुष्यैर् अपि खण्डयितुम् अशक्यां शतदूषणीम् अर्वाचीना विद्यारण्यादितो ऽप्य् अल्प-वैदुष्याः न बोद्धुमपि प्रगल्भन्ते दूरे तु खण्डने इत्य् एतावद् एव । गते गणरात्रे प्रादुर्भूताः प्रकृष्ट-ज्ञान-निधयो ऽप्पय्यदीक्षितादयो ऽपि चण्डमारुतकार-महाचार्यादि-समसामयिकाः अतिप्रसङ्गं नाद्रियन्त । यदा ताटस्थ्येन मतानां परिशीलनम्, ततो गृहीत-चर-मत-परित्यागेन सम्यक्तया ऽवधृते मते प्रवेशो ऽपि समादर्तव्यो भवेत्; प्राक्काले समादृतश् चासीत् । अधुनातनास् तु जातिम् इव मतम् अपि यावद् आयुषम् अपृथक् सिद्धं मन्यन्ते । न वैष्णवाः शैवा बुभूषन्ति, न शैवाः वैष्णवाः । नाप्य् अद्वैतिनः द्वैतिनः । तत् साम्प्रतं पर-मत-दूषण-संरम्भः नापेक्षितो ऽस्ति ।
प्रत्युत पारस्परिकप्रद्वेषाभिवर्धनेन बाह्यानां छिद्र-प्रदानम् एव फलत्य् अयम् अभिनिवेशः । अथ बुद्धि-वैशद्य-संपिपादयिषया पर-मत-खण्डने प्रवृत्तिः, न तर्हि नैत्रे पांसुभिर् अवकीर्य अहेतून् अपि हठाद् उपक्षिप्य अभिनिवेशेन यत्किञ्चिद् विलिख्य विजयाभिमानिता पदम् आधातुम् अर्हति । एवं स्थिते ऽपि अद्यत्वे शत-भूषणीति परिभाषित-नूरणि-ग्राम-वास्तव्यस्य प्रिय-सुहृदो विदुषो मुखेन शत-भूषणी-नाग्नैव शत-दूषणी-खण्डन-ग्रन्थः कश्चिद् अद्वैतिभिः सर्वैः संभूतैः प्रकाशं प्रापितो ऽस्ति । विशिष्टाद्वैत-पण्डिताश् च ग्रन्थम् इमं पश्यन्तः, किम् अनेन तद्-अव्युत्पत्ति-दर्पणेन व्यर्थ-विस्तरेण व्याघात-जटिलेन शत-भूषणी-ग्रन्थेनेति समकण्ठम् आहुः । परामर्शे च दूषणार्थं प्रवृत्ता शत-भूषणी स्व-मत-दौस्थ्यम् एव सर्वत्र आविष्कुर्वती नहि निन्दा-न्यायेन शतदूषण्यै शतं भूषणान्य् एव समर्पयितुम् इच्छति इत्य् अध्यवसीयते । अभिनिवेशिनाम् अद्वैतिनां परं स्व-मत-स्थापनं सम्यगकारीति स्वात्मनि तुष्टिः, एतद् अनुबन्धिभिः प्रबन्ध-सम्माननञ् च इत्य् एतावद् एव फलम्, न पुनः शत-दूषणी-खण्डनम् ईषद् अपि । इदम् एव दर्शयितुं संप्रति प्रवृत्तिर् अस्माकम् । तत्-तद्-वाद-नामधेयम् अपि सम्यग् अजानानस्य वाद-प्रतिपाद्य-विषय-विज्ञाने का कथेति च व्यक्तम् एव दर्शयिष्यामः ।
अविचिन्त्य कश्चिद् अवशः करोति चेत्
कृतिम् ईदृशीं किम् अपि लिप्सुरस्त्व् इदम् ।
यदिमे समे ऽपि समवेत्य तन्वते
स्तवनं निमील्य नयने तद् अद्भुतम् ॥क्व सर्व-तन्त्र-स्वातन्त्र्य-वित्तस्-तार्किक-केसरी ।
क्वेमे त्व् आपात-दृङ्-मूल-व्यर्थ-व्याहत-वाग्-बलाः ॥
शतदूषणी-ग्रन्थे शतं वादाः प्राक् स्थिताः इति निर्विवादो ग्रन्थकृच्-छिष्य-संप्रदायः । साम्प्रतं षट्-षष्टिर् एव वादाः उपलभ्यन्ते । अन्विष्यन्ते तु परे । उपलभ्यमान-वाद-खण्डनार्थं प्रवृत्तश् च ग्रन्थः न शतभूषणीति नामार्हति । शतं भागान् वा स्वयं विधाय तथा नाम-कल्पनं कथञ्चिद् अनुमन्येत । तथा भागान् अपरिकल्प्य षट्-षष्ट्याम् अपि द्वौ वादौ विहाय चतुः-षष्टिम् एव वादान् परीक्षितुं प्रवृत्ता कृतिः कथं शतभूषणी भवेत् । केचिन् मन्यन्ते - शतत्व-संख्यायां सत्याम् एव शत-पद-प्रयोग इति न नियमः, दूषणाधिक्य-तात्पर्य-मात्रेणापि शतदूषणीति नामकरणं घटते इति । कामं शतभूषणीति ग्रन्थ-नाम तद्-अभिप्रायम् इति तत्-सुहृदो निर्वहन्तु । अस्मद्-आचार्य-ग्रन्थः शतदूषणी तु न षट्-षष्टि-वाद-पर्यवसितेत्य् एवा ऽऽस्माकः संप्रदायः । ग्रन्थ-निगमन-प्रणाल्य् अपि सर्वत्र तदाहृता नास्तीहेति न नाध्यक्षम् । यदि शतभूषणीकारो ऽपि स्व-जन्म-ग्राम-नाम शतभूषणीति परिकल्प्य ग्रन्थ-नामापि तद् एव तद्-अभिप्रायेण कल्पयेत्, कामम् अस्तु, यदि तत्र न काचिद् अनुपपत्तिः । नूरणिग्रामस्य शत-सेनापुरम् इति व्यवहार एवम् प्राच्याहृत इति तु तद् विदः । यत् त्व् अत्र शतभूषण्याम्, परस् सहस्रेषु दूषणेषु अद्वैतमते संभावितेषु कथं शतदूषणीम् एवाकुर्वन् ? कथञ् च षट्-षष्ट्या दूषणैर् एवोपारमन् इति स्वयम् उद्भाव्य लेखन-साहसम् “भगवत्-तत्त्व-दूषणं शताधिकं महते दुःखाय आत्म-घाताय स्यात्” इत्य् आदि - तत एव पश्यत, ग्रन्थ-कर्तुः कियान् प्रद्वेषः इति । इदं खल्व् अनेन ग्रन्थ-कर्त्रा स्वगतस्य दोषस्य परेष्व् आरोपण-मात्रम् । विष्णु-पुराण-प्रतिपादितया सर्व-लोक-विदितया च प्रक्रियया अखिल-हेय-प्रत्यनीकत्वम् अशेष-कल्याण-गुण-निधित्वञ् च भगवच्-छब्द-वाच्यं भगवति स्थापयन्तः किं श्री-देशिक-चरणाः भगवत्-तत्त्व-दूषकाः? किं वा, ‘परं ब्रह्मैवाज्ञं भ्रम-परिगतं संसरति । जगतः सर्वस्य मिथ्यात्वेन तत्-सृष्ट्याद्यौपयिकाः ज्ञान-शक्त्यादयो गुणा अपि मिथ्याभूता एव । अत ईश्वरः इति न कश्चिद् अन्यो ऽस्ति; ईश्वरो ऽहम् अस्मी’ति भगवद्-गुण-रूप-विभवापलापिनः शतभूषणी-कार-तत्-कूटस्थाः भगवत्-तत्त्व-दूषकाः इतीदम् अपि हन्त ग्रन्थकारो न परिशीलयितुं पारयति ।
कल्याण-हृदयाः प्राञ्चः कामं परुष-वादिनः ।
विनीत-वेषाः क्रूराश् च परे त्याज्यम् इदं समम् ॥
न चायम् अन्तिमो ऽनवसितश् च ग्रन्थ इति चिन्त्यम्; यतः श्री-देशिक-चरणैर् एव तत्त्वटीकायां व्यक्तम् उक्तम्, “शातितः शतदूषण्यां शङ्करादि-मुधाग्रहः” इति । अतः कृता एव शतं वादाः । केचित् साम्प्रतम् उच्छिन्नाः, यथा तेषां तत्त्वटीकायाः, यथा च सेश्वर-मीमांसायाः, यथा च न्याय-सिद्धाञ्जनस्य । समग्रो ऽपि ग्रन्थः तेषाम् अधिकरण-दर्पणादिः अन्तेवासिभिर् अप्य् अरक्षितः आसीत् । अयं तु प्रिय-सुहृत् परीक्षा-शतक-प्रणयन-प्रवृत्तः षट्-षष्टिम् अपि परीक्षाः अकुर्वन् शतभूषणीति यन् नाम परिकल्प्य प्राचीकशत्, तेन ज्ञायते भगवत्-तत्त्व-दूषणं यथैतद् उक्तं महते दुःखाय आत्म-घाताय चेति हृदय-कम्प-कृतो ऽयम् उपरम इति । यथा-प्रतिज्ञं निर्वर्तनीयम् इति च निर्बन्ध-रहित एष सहस्र-भूषणी कोटिभूषणीति परार्ध-पर्यन्तं किं न यातु । सर्वथा पुनः एकस्यापि भूषणस्य दुर्भिक्षम् एवेति स्पष्टम् अनभिनिवेशिनां शास्त्र-व्युत्पत्ति-भाजाम् अवहित-मनसाम् ।
स्यान् निष्प्रपञ्चीकरण-नियोगाद्येकदेशिनाम् ।
शाब्द-प्रत्यक्ष-वादाद्यम् अप्य् एवं त्यागम् अर्हति ॥
भूमिकायां विशिष्टाद्वैत-प्रक्रिया-निरूपणं प्रायः तन्-मत-तत्त्वार्थाविज्ञान-मूलम् अयथायथम् । तद् इदम् एव वाचकानां हृदि निर्णयं जनयिष्यति, यत् एवं तन्-मताविज्ञानमूला शतभूषणी तन्-मत-खण्डनं कियन् नाम कुर्याद् इति ।
यावद् अद्वैत-संबन्धि तावत्य् अविरमन्न् अयम् ।
अज्ञत्वस्य दृढीकृत्यै लग्नो हन्तेतरोक्तिषु ॥
चतुष्-षष्टीर् वादानां परीक्षात्मनि शतभूषण्यां शतदूषण्या उपलभ्यमानायाः अन्तिमस्य वादस्य परीक्षैव आदौ व्युत्क्रमेण निबद्धा ऽस्ति । अहेतुं हेतुत्वेन भूमिकायां निर्दिश्यापि कस्मादेवं निबन्धनमिति विमर्शे, केचिद् आशेरते-पर-मते सूत्र-स्वारस्य-भङ्ग-वाद-मात्र-परीक्षा शतभूषणी-ग्रामाभिजनेनानेन व्यधायि । अन्यास् तु परीक्षाः तद्-अद्वैतमते स्थितैः अन्यैर् एव कृताः अयथार्थ-वग्जाल-वर्षणेन तद् आपूरिताः । तस्माद् आदौ एतन्-निबन्धनम् इति । आह च स्वयम् अपि भूमिकायाम् ‘परीक्षा इमाः आदि-शङ्कराचार्यापरावतार - आधुनिक-शङ्कराचार्य कृताः । स्वयं लेखन-शोधन-मात्रे कर्ते’ति । तेन ज्ञायते तत्-तद्-वाद-खण्डनार्थं प्रवृत्तान् विदुषः विशिष्यानिर्दिश्य तत्-स्थाने स्वामिन एव निर्दिशतीति ।
अन्ये मन्यन्ते- ब्रह्म-सूत्राणां स्व-मते स्वारस्यम् इति पूर्वम् उद्घोषे कृते तत् तद्-वाद-परीक्षायां स्व-मतोपपादन-प्रक्रिया-दौःस्थ्यम् अनुपश्यन्तो ऽपि अनुशयाना अपि ‘सम्पूर्णोपपादनासामर्थ्ये ऽपि न मतं हेयम्, सूत्रकार-परिगृहीतत्वात्’ इति विश्वस्य अन्तरङ्गाः मनस्-समाधानम् अश्नुवीरन्न् इति आदौ अन्तिम-परीक्षा-घटनम् इति । अपरे तु ब्रुवते - उत्तरास्विव परीक्षासु सूत्र-स्वारस्य-भङ्ग-वाद-परीक्षायाम् अपि असौष्ठवं पश्यताम् इतो मनस्-समाधान-सम्पादनम् अप्य् आशा-मोदक-मात्रम् । पामर-प्रतारणं तु परधा ऽपि । अतो निर्यन्त्रण-व्याहार-व्यापरणादि किम् अपि कारणम् इति ।
अथ एतत्-परीक्षैव प्रथमं प्रणीता, उत निबन्धन-मात्रं प्रथमम् इति विमर्शान्तरम् उदेति । अत्र कश्चिद् अभिप्रायः - पदे पदे शत-दूषणी-वादम् एकं गृहीत्वा, व्यक्तम् इदं तद्-वाद-परीक्षायाम्, व्यक्तीकृतम् इदम् एतद्-वाद-परीक्षायाम्, परीक्षितम् इदं तद्-वाद-परीक्षायाम्, व्यक्तीकृतम् इदं तत्र तत्र परीक्षायाम् इति सर्वस्या अपि परीक्षायाः कृतत्वेन निर्देशात् अन्त एवैषा परीक्षा कृता; निबन्धनं परं प्रथमत इति । अथ परः - अद्वैत-मताचार्यैः शत-दूषणी-खण्डनार्थं बहुमुखं निर्बद्धस्यास्य तत्राशक्तिम् आत्मनः साधु समाकलितवतः अन्तिम-वाद-मात्र-परीक्षां विधाय सर्वो वादः परीक्षित इति परं तत्र मिथ्या विलिख्य च प्रकाशनं चिकीर्षितम् आसीत् । तथैव चाकारि । अथ पुनः सुहृदः साहायकम् आचरन्तः प्रति-वादं परीक्षा-घटने ऽपि उद्युयुजिरे । अथ सर्व-समाहारेण शतभूषणीति नाम्ना प्रचारः प्रापित इति । अन्यश् चायम् आशयः - अद्वैतमतम् अपि, अन्यानि इव बहूनि मतानि बाह्यानि आन्तराणि च स्व-सिद्धान्तार्थान् यथा-शक्ति स्थापयितुं प्रयतत एव । परंत्व् इदं वैदिकं महर्षि-बहुमतञ् च भवति, न वेत्य् अत्र प्राग् एव विप्रतिपत्तिर् आसीत् । तत्-स्थापनायैव आदि-शङ्कराचार्याः वृत्ति-ग्रन्थादि-निदर्शनेन अद्वैतमतं ब्रह्म-सूत्रेषु प्रवेशयितुं सूत्र-भाष्यम् उपनिषद्-भाष्याणि च निबबन्धुः । एवम् अपि आ वैदिकेभ्यः आ च लौकिकेभ्यः इयं प्रथा अनुवर्तमानैवास्ति यद् ब्रह्म-सूत्राणि सर्वथा अद्वैतस्य नैवानुकूलानीति । सत्येवम्, का कथा तद्-व्याख्येय-भूतानाम् उपनिषदाम् । अतः सूत्र-स्वारस्य-भङ्ग-वाद-परीक्षया अन्तरङ्ग-लोक-समाश्वसनम् आदौ विधातुम् अन्तिम-वाद-परीक्षायाः आदौ निबन्धनम् अवर्जनीयम् आपतितम् इति ।
अस्तु यत् किम् अपि । सर्वथा विप्रतिपत्ति-निविष्टायाः अद्वैतस्यावैदिकत्व-कोटेः प्रमाणान्तर-पराहतत्व-कोटेर् इव औत्कट्याधानम् एव शतभूषणी-कृत्यम् आपतितम् । तद् अत्र शतभूषणी-क्रमम् अनुसृत्यैव शतभूषणीं परीक्षमाणा वयं भूषण-गतान् दोषान् संग्रहेणोद्घाटयिष्यामः । तद्-अपदेशेन प्राचीनेष्व् अद्वैत-ग्रन्थेषु स्थितान् अप्य् उपपादन-प्रकारान् यथावसरं शोधयिष्यामः । अव्युत्पत्तिः, अनन्वय- इत्य् आदिस् तु दोषान् प्रमेय-परीक्षण-व्यापृता वयं प्राय उपेक्षामहे । सूत्र-स्वारस्य-भङ्ग-वाद-परीक्षायाञ् चोपोद्घातांशम् आदौ परीक्ष्य सूत्र-स्वारस्य-भङ्गे शतदूषणीकृते शतभूषणी अनूद्य यथा दूषयति, तत्र दूषणानि क्रमेण यथार्हं संगृह्णीमः ।
प्रति-वादं परीक्षायां प्रवृत्ता शतभूषणी ।
प्रकाश्यते परीक्ष्यैतां परमार्थस्य निर्णयः ॥वदन्तः कल्पना-मात्रं विश्वम् अद्वैतिनस् तथा ।
तृप्यन्ति मान-दुर्भिक्षे ऽप्य् आदृत्यानेक-कल्पनाः ॥
पर-मते सूत्र-स्वारस्य-भङ्ग-वाद-परीक्षा चेयं तन्-मते सूत्रानुगुण्य-सिद्ध्य्-असंभवोपपादकैः बहुभिः ग्रन्थैः प्राग् एव प्रतिक्षिप्त-प्राया । विशिष्य च शारीरक-चतुर्-अध्यायीं कृत्स्नां गृहीत्वा विस्तरेण विचारः तद्-विषय-शत-दूषणी-वाद-व्याख्यानात्मा यथावसरं कर्तव्यो ऽस्ति । तद् अत्र शतभूषण्युक्तांश-मात्रम् अनुपपन्नम् उपक्रमे क्षिपामः ।
भेद-श्रुत्य्-उपदिष्टानां न गता परमार्थता ।
घटक-श्रुति-सूक्ता च नेष्टा देहान्तरात्मता ॥अभेद-श्रुति-निर्वाहो ऽप्य् असिद्धो लक्षणां विना ।
अद्वैत-साधकं किं स्यात् अस्वारस्याद् अशेषतः ॥एवं शारीरके सूत्र-तत्-संदर्भ-गतं समम् ।
स्वारस्यं भज्यते यत् तत् टीकादौ विस्तृतं स्थितम् ॥तद् अर्थे च पृथग् युक्तः प्रबन्धस् तद् इहाधुना ।
पूर्व-पक्षिस्पृष्टमात्र-परीक्षैव प्रवर्त्यते ॥