श्रीः
भूमिका
श्रीमान् वेङ्कटनाथार्यः कवि-तार्किक-केसरी ।
वेदान्ताचार्य-वर्यो मे संनिधत्तां सदा हृदि ॥
जयति भगवन्-नाथार्याद्यैर् निराकृत-शाङ्कर-
प्रभृति-विमतैर् व्यासोपज्ञं मतं व्युदपादि यत् ।
प्रगुण-भगवद्-योगीन्द्रोक्ति-स्फुटोपचितं कृतं
स्थिरतमम् इदं श्रीमद्-वेदान्त-देशिक-सूक्तिभिः ॥
प्रथमो गुरुर् एष वेङ्कटेशः परमेष्ठि-प्रणतो हयाननः प्राक् ।
निगमान्त-गुरूत्तमो ऽवतीर्णः निपुणं नैजम-मतैक-रक्षणाय ॥
भगवता बादरायणेन,
तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतो-मुखैः ।
तत्त्वम् एको महा-योगी हरिर् नारायणः परः ॥आलोढ्य सर्व-शास्त्राणि विचार्य च पुनः पुनः ।
इदम् एकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥
इति महाभारते स्व-संगृहीत-तत्त्व-हितं वैशद्य-विधायि वेदान्त-वाक्य-मीमांसात्म-शारीरकं शास्त्रं न्यबन्धि । भगवता च बोधायनेन शारीरक-सूचित-बादरि-जैमिन्य्-आश्मरथ्यौडुलोमि-काशकृत्स्नादि-विविध-महर्षि-हृदयोद्घाटन-पूर्वकं तेषां बादरायणस्य च विमति-संमति-विषय-विशोधनेन बादरायण-निष्कर्ष-बोधाय नः प्रतता वृत्तिः प्रणिन्ये । एवं प्राप्त-प्रचारस्य सिद्धान्तस्य सारस्वतस्य स्रोतस इवा ऽऽविर्भावतिरोभावयोः पदे-पदे स्थितयोः काल-क्रमेण ब्रह्म-नन्द्यादयः पुनः प्रचारे प्रायतिषत ।
अथ च अर्वाचीनैः श्री-शङ्कर-भास्कर-यादव-प्रकाशैर् आचार्यैर् असंपन्न-सामग्र्यैर् अनेकानि अद्वैत-मतान्य् उत्प्रेक्षाञ्चक्रिरे । तत्रैवं प्राज्ञ-मणयः तत्तद्-भाष्यादि-ग्रन्थ-परिशीलन-शालिनः प्रब्रुवन्ति — प्रादुर्भूतेषु परश्-शतेष्व् आचार्येषु श्री-शङ्कराचार्यस्य तावद् अनन्य-सामान्यं मननम्, यद् अयम् आश्मरथ्यादि-वत् बादरायणो ऽपि कस्मात् क्वचिन् नोपेक्ष्येत; अस्मद्-आलोडन-वैदेशिकत्वे स निगम-देशिको ऽपि न देशिक इति निगूढम् आशिश्ये । एवं-भूतः सर्वस्य महा-जनस्य बादरायण-परायणताम् आलक्ष्य तान् आत्मसात्-कर्तु-कामः प्राचीर् बह्नीर् व्याख्या उपेक्ष्य, स्वातन्त्र्येणोपनिषदः सर्वाः स्वयं व्याख्याय स्व-मते बादरायणम् अपि निवेशयितु-मनाः शारीरक-भाष्यम् अपि किञ्चिद् अभाषिष्ट । तत्त्वम् इदम्-आकलय्यैव भगवद्-रामानुज-स्वामि-पादाः प्राचीन-व्याख्यानान्य् एवोपनिषदां पर्याप्त-प्रायाणीति, शारीरक-व्याख्यया श्रीभाष्येणैवोपनिषदो व्याख्याता इति च पृथक्-प्रयत्नं तत्र न तेनिरे । व्यक्तम् इदं कार्याधिकरणानन्दमयाधिकरणेषु शाङ्कर-भाष्यं स्थूल-धिया पश्यताम् अपि, सूक्ष्म-दृष्ट्या तु प्रायः सर्वत्र यद् एष श्री-शङ्कराचार्यः स्वातन्त्र्येण सर्वम् अन्यथयामासेति । तत्र स्वातिरिक्तं किम् अपि नास्तीति, अस्याचार्यस्य हृदयम् । प्रति-चेतनम् एवं प्रत्यवस्थाने स्व-मतासिद्धिम् अनुदृश्य सर्वो ऽपि चेतनः सहेश्वरेणाहम् एवेति आत्मैक्यं तद्-अर्थम् आस्थित । तेन शून्य-वादीव सर्व-मिथ्यात्वं संगीर्णवान् अपि तद्-वैलक्षण्यं किञ्चिद् आत्मनि प्रदर्श्य आत्मनो वैदिकत्वं प्रकटयामास इति ।
तद् एतत् जगन्-मिथ्यात्वं सांख्य-योग-न्याय-वैशेषिक-पाशुपत-पाञ्चरात्र-पूर्व-तन्त्र-श्री-माध्वादि-भेद-भिन्नाः द्वैतिन इव अद्वैतिनो ऽपि अन्ये न सेहिरे । तेन श्री-भास्कर-यादव-वल्लभाचार्यादयः तन्-मत-खण्डनं सम्यग् एव विधाय शारीरकम् अन्यथा व्याचख्युः । बाह्येषु बौद्धं वैदिकेषु शाङ्करञ् चेत्य्-उभयत्रैव जगतो मिथ्यात्वम् । द्वैते च अद्वैते च श्रौते संप्रतिपत्तव्ये यादृशी निरूपण-सरणिः सर्व-समकण्ठतां स्वरसतः संपादयति, यादृशीं श्रुतिर् एव स्वयं समकण्ठता-संपत्तये स्वरसत आविष्करोति, तां सरणिं विहाय तैस् तैर् अन्यथा सामरस्योल्लेखनम् नूनं देवता-प्रीतिं श्रौतीं परित्यज्य स्वर्ग-संपत्तये यज्यर्थादपूर्वकल्पनामर्धमीमांसक-प्रपञ्चिताम् अनुकरोतीति विभाव्य श्री-भगवद्-रामानुज-स्वामि-चरणैर् बादरायण-बोधायन-नाथ-यामुनादि-निबन्धानुरोधेन विशिष्टाद्वैतम् एव प्रतिष्ठापितम् आसीत् ।
तत उपशान्तेष्व् अपि यादव-प्रकाशादिषु चिर-प्ररूढ-वासना-विवशान्तकरणैः शाङ्कराद्वैतानुसारिभिः साटोपं प्रत्यवतस्थे । एवं वाद-कोलाहल-मात्रेणानुपरम्य यदेमे अद्वैतिनः श्री-शङ्कराचार्य-पूर्व-काल-प्रभृति भुवि भूम्ना प्राप्त-प्रचारम्, शाङ्कर-भाष्ये पाञ्चरात्राधिकरणादाव् अनुमोदितम्, श्री-भगवद्-रामानुज-स्वामि-पादैः परिष्कृत्य भूयः स्थापितं श्री-विष्णु-देवालय-पूजा-विधिम् अपि विश्लथयितुम् उद्युयुजिरे, तदा सर्व-तन्त्र-स्वतन्त्र-कवि-तार्किक-सिंह-श्रीमन्-निगमान्त-महा-देशिकादिभिस् तत्-प्रतिष्ठापनम् अध्यवसितवद्भिः पर-मत-दौःस्थ्य-प्रपञ्चने भूयान् कटाक्षः कृत आसीत् । तदात्वे शतदूषणी-प्रभृतीनाम् अद्वैति-मतङ्गज-सिंह-नाद-सोदराणां निबन्ध-रत्नानाम् आविर्भावः । काल-क्रमेण श्री-मध्वाचार्य-तद्-अनुयायिभिर् द्वैतैक-पक्षावलम्बिभिर् अद्वैत-ग्रन्थेष्व् अतिमात्र-खण्डन-गोचरी-कृतेषु, तत्-खण्डनोद्युक्तेषु च तत्र-तत्राद्वैतिषु, विशिष्टाद्वैत-ग्रन्थोपरि स्व-हृदय-विसंवादि-व्याहार-ग्रथन-वैमुख्येन ग्रन्थ-निर्माणाद् उपरतेषु सहृदयाद्वैति-सज्जनेषु, तथापि कतिपयेष्व् अभ्यसूयुषु अभिनिवेशिषु आग्रह-पालुषु सिद्धान्त-सिद्धाञ्जनाद्य्-उच्चावचाक्रोश-वचन-जटिल-व्याहत-ग्रन्थ-विलेखन-व्यवसायिषु पश्चाद् उपलब्धेष्व् अपि अद्वैत-मते असारत्व-बुद्धिर् एवाभिवृद्धिम् अलभत ।
ताम् इमाम् आत्म-मत-स्थितिम् असोढवद्भिर् वाग्भिर् अद्वैताचार्यैः शतदूषणी-प्रभृति-प्रबल-ग्रन्थ-खण्डन-प्रकटनं विना न स्व-मत-गौरवाभिमान-संपादन-प्रसक्तिरित्याकलय्यमाकिं चत्वारिंशतो वत्सरेभ्यः प्राक्-काल-प्रभृति रहस्य् एवम् उपन्यसितुं प्रावर्ति —
अद्वैताचार्य-विद्यारण्य-समकालिकैः तत्-सुहृत्तमैः राज-संमाननां प्रापयितुं तद्-आहूतैर् अपि वैराग्य-पञ्चक-प्रेषणेनोपरतैः परमैकान्ति-प्रथमोदाहरण-भूतैः श्रीमन्-निगमान्त-महा-देशिकैर् निबद्धः शतदूषणी-ग्रन्थः खलु समसामयिकैर् विद्यारण्यादिभिर् इव पाश्चात्यैर् अप्य् अद्वैति-विपश्चिद्भिर् अखण्डित एव वरीवर्तीति महद् इदं विषाद-स्थानम् अस्माकम् । प्रत्येकम् अशक्तैर् अपि संभूयात्र संरब्धव्यम् ।
इति । एवं खण्डन-ग्रन्थ-निबन्धन-निर्बन्धः श्री-कामकोटि-पीठालङ्कर्मीणाद्यतन-शङ्कराचार्यादिभिर् अनुपदं क्रियमाण आसीद् इति च ब्रह्म-श्री-विद्वद्-वर-वैद्य-सार्वभौम-करूर-भिजन-राम-शर्म-महोदय-मुद्रिते तत्-पितृ-चरण-विरचित-भामती-व्याख्याने भूमिकायां व्यक्तम् । किं सुदूर-गमनेन । प्रकृत-शतभूषणी-ग्रन्थ-भूमिकैव श्रीकामकोटिपीठाधीश प्रोत्साहन पदेपदे प्रस्तारेण दर्शयति - ‘आचार्यचरणानां…. भगवत्पादापरावताराणामाज्ञामात्रं प्रबलमवष्टभ्य’, ‘आदिभगवत्पादापरमूर्तयः श्री चन्द्रशेस्वरसरस्वतीचरणा एव एतद्ग्रन्थस्य कर्तारः । अहं तु निमित्तमन्त्रम्’ इत्यादि तद्भूमिकायां द्रष्टव्यम् । स्वयं कर्तृप्रायत्वादेव पृथक् ते श्रीमुखं नार्पयन्निव । अशेषजनाभिनन्दनीयमेव तावत् अद्वैषेण स्वमतस्थापनैदम्पर्यमाचार्याणाम् । श्रुतश्च शतभूषणीकृतो महाशयात् साक्षादपि । एवम् अस्मदीयवैशेषिकरसायनग्रन्थाभिनन्दनसदसि च स्वस्वमत-स्थापनार्थप्रवृत्तिः सर्वेषां समुचितेति सर्वैरेभिरुपन्यासि ।
एवम् एतत्-खण्डन-संरम्भं वोढुम् आदिष्टाः, उपदिष्टाः, प्रार्थिताश् च बहवः, “प्रच्छन्न-बौद्ध-विजये परितो यतध्वम्” इति सूक्तिम् असहमानाः पण्डिताः ग्रन्थ-खण्डनस्यासिद्धावपि संमानना-प्राप्तिर् अस्तीति समुत्सुकाः, ज्ञायते, शतदूषणी-शातनादि-नामकरण-पुरस्सरं प्रबन्धने प्रायस्यन् । तान् इमान् ग्रन्थान् अद्वैत-मत-विशेषाग्रह-प्रदर्शन-मात्र-विश्रान्तान् अपूर्णांश् च आलक्ष्य अद्वैति-परिषत् अन्यान् ग्रन्थान् उपेक्ष्य तान् उत्पन्न-विनष्टान् विधाय शतभूषणी-ग्रन्थ-मात्रस्य प्रचारं कर्तव्यम् अध्यवस्यति स्मेति वदन्ति स्म । अद्वैत-पीठाधिपति-परिषदादि-प्रेरण-पारवश्येन संभूतेष्व् अपि पण्डितेषु अद्यापि केषाञ्चिद् इयं बुद्धिर् अनुवर्तमाना ऽस्ति - यत् शतभूषण्यां खण्डितायाम् अपि पश्चान् न मूकीभूय स्थातुं साम्प्रतम् । तदा शतदूषणी-शातनार्थे ग्रन्थान् खण्डशः प्रकटयिष्यामः । ग्रन्थ-संख्या-भूयस्ता-दर्शन-मात्रेणापि मतं महीयो मन्यमानाः किल साम्प्रतम् अपि सन्ति । परमत-खण्डन-शौण्डीर्य-षण्डतायां सर्वत्र शतभूषण्यादि-ग्रन्थेष्व् अविशिष्टायां किम् इत्यास्माक-ग्रन्थानां परम् इत्थम् अप्रकाश इतीति चाहुः । एवम् अध्यवसायवद्भिर् अप्य् अद्वैतीभूय शतभूषणी-ग्रन्थः प्राकाश्यं प्रापि सर्वाद्वैत-पण्डित-प्रशंसा-पत्र-कदम्ब-करम्बितः ।
प्रबन्धो ऽयम् आबाल्यात् अद्वैत-ग्रन्थ-लोडनेनैव क्षिप्त-कालस्य, वैयक्तिक-विद्वेष-वैदेशिकत्य, तत्-तन्-मतम् आतिष्ठमानैः स्व-स्व-मत-स्थापनार्थं निबन्धनं न्याय्यम् इति सद्-अध्यवसायस्य, नाना-ग्रन्थ-मुद्रण-निर्माण-भूमिका-लेखन-व्याख्यानादिना विख्यातस्य महामहोपाध्यायस्य सर्वसुहृदो ऽस्मत्-सुहृत्तमस्यास्मद्-अभ्युदयैक-काङ्क्षिणो महामनसो ऽखिल-बुध-क्षेम-कामस्य अनन्त-कृष्ण-शास्त्रि-महोदयस्येति अद्वैतिनाम् इवास्माकम् अपि तत्राभिमानः, प्रणेतरि बहुमानश् च तुल्य-रूपम् आत्मानम् अलप्साताम् ।
प्राप्यमाण-प्रचारञ्-च शतभूषणी-ग्रन्थम् इमं पश्यद्भिर् विशिष्टाद्वैत-पण्डितैर् उपेक्षणीय-कोटाव् एवायं न्यक्षेपि । तथापि प्राप्तस्य परिहरणं पामर-लोक-भ्रान्ति-निवर्तनाय कार्यम्; अल्पो ऽपि व्याधिर् आशङ्कास्पदम् आरोग्य-कामैर् आदाव् एवाभावं गमयितव्यः; अद्यत्वे नूतनम् अपि आयत्यां पुरातनम् इति आरोपित-गौरवं भवेत् इत्य् अध्यवसाय खण्डन-ग्रन्थ-दर्शन-क्रमानुसारेण प्रथमं परमैकान्ति-प्रधान-सर्व-शास्त्र-पारदृश्व-सच्-छिष्य-वृन्द-सेव्यमान-चतुर्वेद-शतक्रतु-नावल्पाक्काभिजन-महनीय-श्रीनृसिंहाचार्य-स्वामि-पाद-विहितम्, अथास्मद्-आचार्य-विश्व-प्रसिद्ध-सच्-छिष्य-वृन्द-सेव्यमान-परमहंस-परिव्राजकाचार्य-पर-पक्ष-निराकृति-भेद-साम्राज्यादि-प्रबन्ध-निर्माणालङ्कर्मीण-श्रीरङ्गरामानुज-महादेशिक-विहितञ् च निदेशं नतेन शिरसा स-गौरवम् अवतंसयन् शतभूषणी-ग्रन्थ-संदर्शनायायतिषि । गतेषु कतिपयेषु मासेषु मान्येन ग्रन्थ-कर्त्रैव सुहृत्तमेन शुद्धेनैव हृदयेन सर्व-मत-युक्ति-वैशारद्य-विजिज्ञासा-मात्रेण विशिष्टाद्वैति-सिद्धान्तानुसारि-ग्रन्थ-प्रबन्धनाय स्व-ग्रन्थार्पण-पूर्वकं सम्यक्-प्रेरितश् चाभूवम् । ‘जातिवत् मतम् आजन्म-मरणम् अनुवर्तमानं न भवति । तदा तदा परिशील्य निकृष्टं परित्यज्य प्रकृष्टम् एव परिग्राह्यम् । अतो मत-ग्रन्थानाम् उपर्युपरि प्रादुर्भावः पश्चात् ताटस्थ्येन परिशीलयतां परमायोपकारायेति सर्व-संमन्तव्यो ऽयम् अर्थः अस्मत्-कृत-परमार्थ-प्रकाशिकाया अद्वैतामोद-परीक्षा-रूपायाः भूमिकायाम् एवार्जवेन प्राङ्न्यवेदीति, तद् अनुरुध्य, अस्मत् सुहृदाम् अत्र हृदयोद्रेकस्य न मनाग् अपि प्रसक्तिर् इति विस्रम्भेण शतदूषणी-वास्तवार्थ-विज्ञापन-शेषतया पर-मत-दौःस्थ-प्रपञ्चनं प्राप्त-कालम् अचिन्तयम् । तत्र शतभूषणी-ग्रन्थम् इमं केवलं व्याजीकृत्य प्राक्तनास् तद्-आहृताः भाष्य-इष्टसिद्धि-ब्रह्मसिद्धि-भामत्य-द्वैत-सिद्धि-परिमल-ब्रह्मानन्दीय-खण्डन-खण्ड-खाद्यादयो ऽपि ग्रन्थाः प्रसक्तौ सत्यां यथावत् खण्डनीया इति तद्-अनुगुण-ग्रन्थ-लेखने उत्साहः उदभूत् ।
तावद् एव यैर् अखण्ड्य-पाण्डित्य-प्रकर्षैर् आचार्य-श्री-देशिक-चरणारविन्द-भक्ति-मूर्तिभिर् अनेक-मत-विद्वद्-आचार्यैर् अर्थम् अपि मुद्रण-प्रारम्भोपयोगिनं गूढम् अर्पयित्वा अहम् अत्य् आदरेण संप्रेरितः आसम्, तेषाम्, तद् अनु स्थूलम् अल्पञ् चोपकारम् आहितवताम्, आधास्यताञ् चान्येषां महतां मध्ये महाहारम् अध्यायमाने नायक-मणीभूय निरुपप्लवमंभिम एव राजन्ते महामान्याः प्रख्यात-पाण्डित्याः परमार्थोपदेश-वशीकृत-विशिष्ट-लोकाः श्रीमल्-लक्ष्मी-नृसिंहास्थान-मूर्धाभिषिक्ताः परमहंस-परिव्राजकाचार्याः श्री-भगवद्-रामानुज-दर्शन-स्थापनाचार्य-तल्लजाः श्री-वण्-शठकोप-श्री-वेदान्त-देशिक-यतीन्द्र-महादेशिकाः अभ्यर्थनानन्तरक्षणे अनुगृहीत-रूप्यक-सहस्र-पञ्चकाः आचार्य-ग्रन्थ-रक्षणेनान्वर्थीकृत-निज-नामधेयाः इतीदम् अवश्य-निर्देश्यम् अद्यत्वे निर्दिशामि । विस्तरेण तु दातृ-पट्टिकायाम् अन्येषाम्-अपि यथावन् निर्देशः क्रियते ।
यावज्जीवं कृतज्ञो ऽहम् ईदृशेषु महात्मसु ।
प्रकृष्ट-मत-सद्-ग्रन्थ-प्रकाशैकान्त-दृष्टिषु ॥
एवम् अस्मिन् ग्रन्थे खण्डनार्थं गृहीते ऽन्ये ऽपि केचिद् ग्रन्थाः1 प्रचारम् आनीताः । परंतु तेषाम् आनुपूर्व्या किञ्चिद्-ग्रन्थ-खण्डन-रूपत्वाभावात्, फल्गुत्वात्, अत्यन्ताग्रह-मूलत्वात्, अस्मदीयैस् तत्र तत्र सम्यक् खण्डन-प्रवृत्तत्वाच् च शतभूषणी प्राधान्येनेह गृह्यते । प्रसङ्गादेतदीयाः एव श्री-भाष्य-समालोचनाद्वैत-तत्त्व-शुद्ध्यादयो ऽपि स्पृश्यन्ते स्थाली-पुलाक-नीत्या । अयथानुवादासंगत-दूषणादि-मयत्वात् तु तेषां तत्-खण्डनेन काल-हरणं विवेकिनाम् अभ्यर्हित-कार्य-व्यग्राणाम् अनुचितम् इति प्रायो वयम् उपेक्षामहे ।
एतदीयो वेदान्त-रक्षामणि-नामा ग्रन्थः श्री-भाष्य-समालोचन-रूपः सिद्धान्त कौस्तुभ-नाम्ना अस्मदीयेन ग्रन्थेन प्राग् एव खण्डितः । परन्तु म. म. श्री ए. वी. गोपालाचार्य-महाशयादि-प्रणीत-प्रकटित-ग्रन्थत एव तत्-खण्डन-सिद्ध्या द्रविण-संपादन-प्रयासमलोच्य स मुद्रण-पदं नानायि । अथापि तत्रोक्ताः कतिपये विषयाः अस्मन्-मुद्रित-नयद्युमणि-भूमिकायां प्राकाश्यं प्रापिताः । केचिद् अत्र ग्रन्थे संयोजिताः । शिष्टम् आवश्यकत्वे पृथग् अपि मुद्रयिष्यते ।
प्राज्ञा महान्तः, सुहृदः, तथा अन्ये ऽप्य् अनुबन्धिनः ।
पर-ग्रन्थ-प्रतिक्षेप-प्रवृत्ताः इत्य् उदास्महे ॥
वस्तुतः संप्रति मत-खण्डन-प्रवृत्तैर् इदम् आदाव् अवधेयम् - किम् इदं युक्तिं प्राधान्येन प्रमाणयति, उत शब्दम् । शब्दश् च श्रुतिः अन्यो वा । श्रुतौ च तन् मत-स्थापन-मुख्योपयोगि-वाक्यं किं, कियत् । तत्र बाधकं किं, कियत् । तत् तद् इतर-मत-साधारणे वाक्ये तद् वादानुयायि-वर्ण्यमानार्थ-रीतिः कीदृशी । मतोपयोगित्वाभावे ऽपि वाक्यार्थ-वर्णन-परिपाटी स्वरसा न वेत्य्-आदि । तत्र वृथा-काल-हरण-परिहरणाय प्रधानांश-दूषण-मात्रं पर्याप्तम् । अतः इतः परमेवं ग्रन्थ-ग्रथनम् एव युज्यते । सर्व-सुग्रहया भाषया पर-मत-दौःस्थ्य-प्रकटनं वा । आस्ताम् एतत् ।
शतभूषणी-ग्रन्थो ऽयम् अनेकाद्वैत-ग्रन्थ-भागान् अनुवदन् अस्मत्-प्राच्य-ग्रन्थेषु खण्डनायानूदितानाम् अंशानां प्रायेणा ऽऽकरमर्थात् प्रदर्शयतीति परम् इदं प्रमोद-स्थानम् । ग्रन्थे ऽस्मिन् पदे-पदे पद-वाक्यापभ्रंशानन्वयादि-दोष-बाहुल्ये ऽपि विषय-विशोधनैक-प्रवृत्तेन मया नातीव तत्र दृष्टिर् व्यधायि । व्यक्ति-दूषण-वैयग्र्य-विरहिणाप्य् अनेन तत्र तत्र ग्रन्थ-मध्य इव भूमिकायाम् अप्य् आचार्य-निन्दा-वाक्यानि ग्रथितान्य् एव तु वीक्ष्य विषीदामः । वेदान्त-विषय-मात्रे स्वयम् अस्थित्वा स्वापरिचित-श्री-देशिक-ग्रन्थ-संख्यानाद्य्-अनावश्यकार्थ-विस्तर-विधान-व्यसनिना किम् इति शास्त्रि-महाशयेन स्वात्मा परोपहास-पात्रीकृत इति च । ईदृशेषु हि विषयेष्व् अन्यदीयेषु अन्येषाम् अज्ञत्वम् अवश्यम्भावि । इदम् एव ज्ञापयितुम् अस्माभिर् ग्रन्थ-प्रवेशम् एवं न्यबन्धि, “अज्ञत्वस्य दृढीकृत्यै” इति । एवम् अपि शास्त्रि-वरस्य यादृशि निन्दाक्षराणि, तादृंश्यपि मा भूवन्न् इति विषय-विवेचन-मात्र एवाहं दृष्टिम् अर्पयन्न् अस्मि ।
एष परीक्षकः शुद्ध-मुद्रणं शतदूषणी-ग्रन्थं द्रष्टुम् अलब्धावकाशः अशुद्ध-वाक्यानि यथा-भूतानि मत्वा वृथैव बहु लिखति, शुद्ध-वाक्यानाम्-अपि श्रुतानां यथावस्थितम् अर्थं नावबुध्यते, पूर्वापर-ग्रन्थ-शैलीं न परिशीलयति, आपाद-चूडं वादमैकैकम् अनुदृश्य विवेचने कार्ये संरम्भं वहति, स्वानुकूलान् प्रतिकूलां च सर्वान् शतदूषणी-विकल्पितान् कल्पान् स्वयं साधयितुं यतते, खण्डित-स्व-प्राच्य-ग्रन्थोक्तार्थानुवाद-मात्रेण दूषणोद्धारं कृतं मन्यते, तत्र तत्र प्रतिवादं स्व-पक्षं मनाग् उपन्यस्य, ‘एतेनायं शतदूषणी-भागोव्याख्यातः, एतेनायम्’ इत्य् एवं लेखन-मात्रेण समग्रं ग्रन्थं खण्डितं कलयति, खण्डनकारादि-ग्रन्थेषु शतदूषण्या सम्यक् खण्ड्यमानेषु तदंशाविवेकेन खण्डनादि-ग्रन्थानुवादेनापूर्वार्थ-प्रदर्शिनम् आत्मानम् अध्यवस्यति, श्रीभाष्य-मतम् इदम् इत्य् अविज्ञाय च स्व-बुद्धि-कल्पितं किञ्चिद् आरोप्य दूषणं विस्तृणाति । वाद-नामान्यथा-ग्रहणम् अपि शतभूषण्यां दृश्यते, ब्रह्मणि-शब्द-वृत्त्यनुपपत्तिर् इति प्रथम-वाद एवान्यथा-ग्रहणम् । एवं दृश्य-संबन्धानुपपत्तिः, कार्यान्यथानुपपत्तिर् इत्य् एवम् । न चास्माभिर् इव शीर्षकादीर्घत्वायार्थाविरोधेन कृतो ऽयम् अन्याभावः; अर्थे भेद-वहनाम-भेद-कल्पनानुगुणं प्रथम-वाद एवाप्रस्तुतानेक-विषय-प्रवेशनेन वाद-संकर-विधानात् । प्राचीनाः अद्वैतिनः प्रायः पङ्क्त्य्-अर्थं यथावद् अवबोद्धुं तत्र यद्-अंशे स्वयं किञ्चिद् वक्तुम् अपारयन् तत्र किञ्चित् कर्तुंञ् च व्याप्रियन्त; अयं तु अनवबुध्यैवार्थमारोपेनायथा-यथ-प्रपञ्चनेन कार्यं साधितं मन्यते । अत एतन्-मात्र-दूषणेन न कालः क्षेप्तव्यः इति परिशील्य परमार्थ-भूषण-ग्रन्थो ऽयम् इत्थम् अवतार्यते, यथा ऽयं न केवलं शतभूषणी-ग्रन्थस्य, न वैतत्-समान-कर्तृक-वेदान्त-रक्षा-मण्यादि-मात्र-सनाथस्य, न वैतत्-सुहृज्-जन-विहित-साम्प्रतिक-कतिपय-ग्रन्थ-मात्र-युक्तस्य, किं तर्हि अद्वैत-सिद्ध्यादि-प्राचीनानेकाद्वैत-ग्रन्थ-जातस्यापि खण्डन-रूपः सन् अद्वैत-सिद्धान्तस्थ-सर्व-विध-दौःस्थ्य-दर्पणायमानः सूक्ष्म-धियां प्राज्ञानाम् आराधनात् विशिष्टाद्वैत-सिद्धान्त-सुधा-रस-समास्वादनाच् चाशेष-मनीषि-जनानुग्रह-भाजनम् इमं जनं करिष्यति ।
विष्णु-शिव-वैषम्य-विचार-विरहिते ऽप्य् अत्र प्रबन्धे स्वयं प्रसक्तिं विधाय शिव-द्रोहित्वेन पदे-पदे वैष्णवान् विनिन्दत्य् अयम् इति च तत्रापि किञ्चिद् अस्माभिस् तत्र तत्र व्यापृतम् । विशिष्य तद्-विमर्शश् चावसरे भविष्यति ।
अत्र शतभूषणी-कृता शतदूषण्यन्तिम-वादम् आदौ परीक्ष्य पश्चाद् एव यथा-क्रमं परीक्षा-प्रवर्तनात् इहापि पर-मते सूत्र-स्वारस्य-भङ्ग-परीक्षैव प्रथमं परिशीलिता । अथ यथा-क्रमं सर्व-वाद-परीक्षाः । तत्र निष्प्रपञ्चीकरण-नियोग-भङ्ग-वादम्, अलेपकमत-भङ्ग-वादञ् च न परीक्षते श्रीमद्-आदि-शङ्कर-आचार्येष्टो ऽयम् अयं भङ्ग इति कृत्वा । अस्य वाद-द्वयस्येव अन्येषाम् अपि केषाञ्चित् वादानां परीक्षणम् अकृत्वा श्लाघनं जोषम्भावावलम्बनं वा शतभूषणीकारस्य साम्प्रतम् । यतः, ऐकशास्त्र्य-समर्थनम्, बाधितानुवृत्ति-भङ्गः, विविदिषा-साधनत्व-भङ्गः, शब्द-जन्य-प्रत्यक्ष-भङ्गः, सन्मात्र-ग्राहि-प्रत्यक्ष-भङ्गः, भेद-दूषण-निस्तारः, ब्रह्माश्रयाज्ञान-निरासः, जीवन्मुक्ति-भङ्गः, जीवेश्वरैक्य-भङ्गः, भाव-रूपाज्ञान-भङ्गः, जीवाज्ञान-भङ्गः, मायाविद्या-विभाग-भङ्गः इत्य् एवम्भूताः अंशाः अद्वैतिषु मुख्य-भूतानां केषाञ्चित् संमताः एव । भावाभाव-विलक्षणाज्ञान-वादी हि भाव-रूपतां तस्य नानुमंस्यते । एवम् अन्यत् । तत्र तत्र वादे तस्यतस्य तत्-संमतत्वम् अस्माभिर् अदर्शि च । यदि विरुद्धत्वे ऽप्य् अद्वैत्य्-अभिमति-मात्रेण तत्रा ऽऽदरः, स पूर्वस्मिन् वाद-द्वये ऽपि समानः । श्री-शङ्कराचार्यानिष्टत्वे च तस्य, शिष्टेष्व् अपि एकतर-परिशेषणे प्रयतनीयम् । अतः इतः परम् अद्वैतिनः सयूथ्य-कलह-समापतिताम् अवस्थाम् अपोहितुं संभूय समुचित-कोटि-परिग्रहेण तद्-अतिरिक्त-दूषणं शतदूषणी-कृतं शिरसा श्लाघितुम्-एव कृत-मनीषाः स्वाभिमताद्वैत-सरणिम् एकेन प्रबन्धेन प्रदर्शयितुम् अर्हन्ति । तद् विहाय विरुद्ध-नानावादाभिरतौ च शरीर-शरीरि-भावादिकम्-अपि नाद्वैत-बाधकं जीवेश्वरादिवद् इति कृत्वा तद्-दूषणाद् उपरन्तुम् अर्हन्ति ।
ग्रन्थो ऽयं श्रीभाष्ये विशिष्य जिज्ञासाधिकरण-मतस्याद्वैत-मत-खण्डन-भागस्य, तथा समन्वयारम्भणा-पशूद्राधिकरण-गतस्य च विवरण-रूपः । प्रायः श्री-भाष्य-श्री-सूक्ति-क्रमो ऽप्य् अनुरुध्यते, अनूद्यते च श्री-भाष्य-सूक्तिर् अपि तत्र-तत्र वादान्ते । तत्राध्यात्म-शास्त्रारम्भे ब्रह्म-निबन्धनं समुचितम् इति ब्रह्म-शब्द-वृत्त्य्-अनुपपत्ति-वादः प्रथमं समयोजि । अथ ब्रह्म-जिज्ञासा-शब्द-घटक-जिज्ञासा-पदार्थानुपपत्तिर् न्यरूपि । लघु-पूर्वपक्ष-महा-पूर्वपक्ष-विषयोः पृथग् अत्र दूषण-ग्रन्थे वक्तव्यत्वाभावात् अष्टम-वादान्तेन लघु-सिद्धान्त-विषयं समाप्य नवमे महा-सिद्धान्त-विषयः उपक्रान्तः । शतभूषणीकारस् तु भूमिकायां प्रकारान्तरेणपि विषय-विभागं परिकल्प्य तद्-अनुरोधेन शतदूषणी-दृष्ट-क्रमम् उल्लंघ्य क्रमान्तरेण कञ्चित् वादं केनचिद् वादान्तरेण योजयन् अन्यथा संकलनम् अपि दर्शयति । तत्रौचित्यानौचित्य-विमर्शो व्यर्थः इत्य् उपेक्ष्यते । श्रीभाष्यानुरोधित्वात् तु शतदूषण्याः दृश्यमानः क्रमो नैवानादृत्यः । इदम्-अप्य् अवधेयम् - यत् सर्वत्र ग्रन्थेषु यं क्रमम् अवलम्ब्य निरूपणं कृतम् अस्ति, तत्र संगतिर् अस्ति न वेत्य् एतावद् एव विमृश्यम् । विधान्तरेणापि विवेचनं संभाव्यत इत्य् एतत् न विहित-विवेचन-क्रम-भङ्गे प्रभवति । अन्यथा पूर्वोत्तर-मीमांसा-आदिष्व्-अप्य् अधिकरण-रचना-क्रमेषु बहुलम् अन्यथा-कॢप्ति-संभावना सुलभा । श्रीभाष्योपन्यस्त-विषय-विमर्शे ऽवतीर्णैः कैश्चित् अद्वैतिभिर् वादावसरे श्रीभाष्य-गत्यानुपूर्व्येण विषय-शोधने क्रियमाणे ऽपि यत्र प्रसङ्गाद् अन्यद् अपि अन्यत्र-निरूप्यम्-अपि प्रकृतानुषङ्गाद् विचिचारयिषितम् आसीत्, तत् तत् तत्रैव अवसर-प्रतीक्षाम् अविधाय विवेचयितुम् उद्दिष्टम् आचार्य-चरणैर् इत्य् अपि तावन् मन्तव्यम् । अत एव विषयान्तर-निरूपण-व्यापृत्या, पुनः प्रसक्ति-प्रतीक्षयैव किञ्चिद् अन्यदा वक्तव्यम् आपतितम् इत्य् अपि संभाव्यते । सन्-मात्र-ग्राहि-प्रत्यक्ष-भङ्गात् द्वादशाद् अनन्तरम् एव सप्तचत्वारिंशो विकल्पाप्रामाण्य-भङ्ग-वादो घटयितुं शक्यते; पञ्चमाद् बाधितानुवृत्ति-भङ्ग-वादाद् अनन्तरं जीवन्मुक्ति-भङ्ग-वादः एकत्रिंशः; पञ्चत्रिंशात् तिरोधानानुपपत्ति-वादात् पूर्वम् एकोनविंशो ब्रह्माश्रयाज्ञान-निरास-वादः, चत्वारिंशो जीवाज्ञान-भङ्ग-वादश् च । पञ्चाशः शास्त्राधिकारि-भङ्ग-वादः अष्टमात् साधन-चतुष्टय-भङ्ग-वादाद् उपरि इत्य् एवं बहु तर्कयेम । तथापि चर्चा-समये प्रवचन-समये च प्राप्त-जिज्ञासानुरोधेन तत्-तद्-दंश-विशदीकरण-वैयग्र्यं प्राप्तम् उपपन्नम् इति निरूपित-रीति-गत-क्रमस्य संगतत्वम् एव साधु-संलक्षणीयम् । ‘अत्र वा वक्तव्यम् तत्र वेति न कश्चिद् विशेषः’ इति च न्याय-भाष्यम् । जगन्-मिथ्यात्वं बह्वीभिर् अनुपपत्तिभिः सिषाधयिषूणाम् आशयान् परीशीलयितुं प्रवृत्तैश् च एकोनपञ्चाश-प्रभृतयो बहवो वादा उक्तानुक्त-विषय-विशेष-चर्चायै विशदम् अवतारिताः । मत-विषय इवाचार-विषये ऽप्य् अद्वैतिनाम् अन्यथा-मतिर् आलोडिता ऽऽसीत् त्रयष्षष्टितमादिभिः ।
शतदूषण्यां शताद् अन्यूना एव वादाः आचार्यैर् आरचिताः । तत्र तत्र वादे (९.१५) कियान् अपि भाग इव अन्ते बहवो वादा विलुप्ताः इतीदं तत्त्वम् । संप्रदायसिद्धे ऽर्थे ऽन्येषां विवादस्य न किञ्चित् फलम् । आचार्यविहितेषु ग्रन्थान्तरेष्व् इवात्रोपलभ्यमानांशो ग्रन्थावसानविधाया अदर्शनम् अप्य् अत्र प्रमाणम् । शतदूषणीम् एनां निर्माय चान्ये ग्रन्थाः पश्चाद् आचार्यैर् अन्वग्राहिषतेति तदीयग्रन्थत एव स्पष्टम् । यथोक्तं तत्त्वटीकायाम्, “शातितः शतदूषण्यां” शङ्करादिमुधाग्रहः । शारीरकशरीरं तु व्यक्तम् अत्र प्रदर्श्यते" इति । शते चात्र वादेषु केषाञ्चिल्-लोप इव क्रमविपर्यासो ऽपि लेखक-प्रमादात् क्वचित् संभाव्यत इत्य् अप्य् आहुः । कथानधिकार-वादादौ ग्रन्थभ्रंशश् च प्रामाणिकः । चण्डमारुते प्रतिवादम् आचार्य-विषयो मङ्गलश्लोकः स्थितः कालक्रमेण नष्ट इति निरूपकाः प्राञ्चः प्राहुः । तथा शतदूषण्याम् अपि तत्र तत्र वादे मङ्गल-श्लोकानाम् भ्रंशो ऽप्यभ्यूह्यते । जिज्ञासानुपपत्ति-भेददूषणनिस्तार-व्यावर्तमानात्वानुमानभङ्ग-आनन्दत्वभङ्गादिष्व् अनेकेषु वादेषु सन्तः श्लोकाः निरूप्यार्थ-संग्राहका अपि न मङ्गलश्-लोकाः । चतुश् चत्वारिंशे च द्विपञ्चाशवाद-मङ्गलश्लोक एव पठ्यते । स तु तत्रैव संगत इतीह श्लोकेनान्येन वादानुगुणेन भाव्यम् । एवं बहुविभ्रष्टव्यांश-सद्भावे ऽपि यावद् रक्षितम्, तावद् अप्य् अद्वैतिमत-समूलोन् मूलनाय पर्याप्तम् इति सन्तोष्टव्यम् ।
अथात्र यस्य जिज्ञासाधिकरण-भाष्यस्य प्रायो व्याख्या-रूपा शतदूषणी, तद्-भाष्य-विचारित-विषय-सूची शतदूषणी-वाद-विषय-सूची च श्लोक-रूपेण सुख-ग्रहण-आद्य्-औचित्याय निबध्यते -
1.अथातो ब्रह्म-जिज्ञासा-शब्दानाम् अर्थ-वर्णनम् ।
ऐकशास्त्र्यं कर्म-चिन्ता-ब्रह्म-चिन्ता-क्रमौचिती ॥
2.चिन्ताया रागतः प्राप्तिः पूर्व-पक्षो लघुस् ततः ।
न वाक्य-जन्य-ज्ञानस्य किंतु भक्तेर् उपायता ॥
3.कर्माङ्गिका च सा, यस्माद् इष्टं साधन-सप्तकम् ।
न साधन-चतुष्कस्य पूर्व-वृत्तत्वम् इत्य् अथ ॥
4.पूर्व-पक्षो महान् यत्र ब्रह्म-मात्रस्य सत्यता ।
अविद्याजं जगन्-मिथ्येत्य् ऐक्य-धीर् मोचनीष्यते ॥
5.प्रबलं शास्त्रम् अध्यक्षात् श्रुतिष्व् ऐक्य-श्रुतिस् तथा ।
सामानाधिकरण्यञ् च स्याद् अखण्डार्थ-तत्परम् ॥
6.प्रत्यक्षम्-अपि सन्-मात्र-ग्राहि भेदस्त्व् असंभवी ।
ऐक्यं सद्-अनुभूत्योः स्यात् स्व-प्रकाशा त्व् अजा च सा ॥
7.निर्विकारा च निर्भेदा ऽप्य् आत्मा चाहमि नात्मता ।
महा-सिद्धान्तः उपरि निर्विशेषे त्व् अमानता ॥
8.स-विशेषं सर्वम् इदं निर्विकल्पम्-अपि-ईदृशम् ।
सन्-मात्र-ग्राहिता-भङ्गो भेद-दूषण-दूषणम् ॥
9.जातेः संस्थानता मिथ्यात्वानुमान-निराक्रिया ।
धी-सद्-भेदो धियश् चानुभाव्यता जन्यतादि च ॥
10. विषयाणां विकाराणां भेदानाञ्-चात्र संभवः ।
धीतो ऽन्यस्याहम्-अर्थस्य त्व् आत्मत्वं ज्ञानता ऽस्य च ॥
11. ज्ञातृत्वस्याप्य् अनध्यासः सुषुप्ताव्-अप्य् अहं त्व्-अभा ।
शास्त्र-प्रत्यक्षयोर् मध्ये शास्त्र-प्राबल्य-वारणम् ॥
12. असत्यात् सत्य-सिद्धेश् च भङ्गः श्रुति-निरूपणम् ।
सत्यादि-वाक्यस्याखण्ड-परत्वस्य निराक्रिया ॥
13. निर्गुण-श्रुति-संकोचो ज्ञेय-ज्ञातत्वयोः स्थितिः ।
आनन्दत्वानन्दित्वयोर् अप्य् अद्वैत-श्रुतेर् गतिः ॥
14. पुराणाद्य्-अर्थ-सम्यक्त्वम् उपबृंहणता ऽपि च ।
जीव-ब्रह्म-स्वरूपैक्य-निरासो ऽन्यादृशैक्यतः ॥
15. आश्रयस्य तिरोधेश् च स्वरूपस्याप्य् अयुक्तयः ।
अनिर्वाच्यत्वे ऽप्य् अयुक्तिः प्रमाणस्य च तत्र च ॥
16. प्रत्यक्षस्यानुमायाश् च ततः सत्-ख्याति-चिन्तना ।
श्रुति-स्मृति-पुराणानाम् अविद्या-परता-हतिः ॥
17. निवर्तकस्यायुक्तिश् च तत्त्वमस्यर्थ-शोधनम् ।
सिद्धान्त-सारोपन्यासो निवृत्तेर् अप्य् अयुक्तता ॥
18. महा-सिद्धान्त-गत्यैवम् अथ-शब्दार्थ-वर्णने ।
सिद्धे ऽथाद्याधिकरण-शरीर-प्रतिबोधनम् ॥
अथ शतदूषणी-वाद-विषया-सूची
जिज्ञासा-अधिक्रिया-भाष्याद्य्-अनुगा शतदूषणी ।
षट्षष्टौ तत्र वादेषु विषयानुक्रमस् त्व् अयम् ॥
(1) ब्रह्म-शब्दे वृत्त्ययुक्तिः (2) जिज्ञासानुपपन्नता ।
(3) एके-शास्त्र्य-स्थितिः; (4) ज्ञप्तेर् अविधेयत्व-भञ्जनम् ॥
(5) न बाधितानुवृत्तिः स्यात् (6) न स्याद् विविदिषार्थता ।
(7) न प्रत्यक्षं शब्द-जन्यम् (8) न साधन-चतुष्टयम् ॥
(9) न कथाधि-कृतिः; (10) न स्यान् निर्विशेषं स्वयम्प्रभम् ।
(11) न निर्विकल्पकं तस्य (12) न सन्मात्रं दृशेः पदम् ॥
(13) न भेद-दूषणम् (14) वेद-प्रामाण्यं च परस्य न ।
(15) (16) दृश्यत्वं व्यावृत्तता च न मिथ्यात्वस्य साधनम् ॥
(17) दृग्दृश्य-योगिता (18) बाह्य-प्रकाशानुपपन्नता ।
(19) ब्रह्माश्रयाज्ञान-हतिः; (20) ब्रह्मावेद्यत्व-भञ्जनम् ॥
(21) नानुत्पतिः; (22) नाविकारो (23) नानानात्वञ् च संविदः ।
(24) न निर्विशेषता (25) नास्याः आत्मत्वम् (26) अहम् अस्तु तत् ॥
(27) नाध्यस्ता ज्ञातृता (28) नास्याः साक्षीति व्यपदेश्यता ।
(29) शास्त्रे लोकाविरोधित्वम् (30) सत्यासिद्धिर् असत्यतः ॥
(31) जीवन् मुक्तिर् न (32) नो बाध-सामानाधि-करण्यै-वाक्।
(33) न संविदैक्यम् (34) नैवोपदेशो (35) नैव तिरोधिवाक् ॥
(36) नात्माद्वैतम् (37) न जीवेशाद्वैतम् (38) नाखण्डवाच्यता ।
(39) न भावरूपम् अज्ञानम् (40) न जीवाज्ञानसंभवः ॥
(41) नाविद्याया स्वरूपोपपत्तिः; (42) मायैक्यम् अत्र च ।
(43) न निवर्तकम् अस्याः; (44) न निवृत्तिश् चोपपद्यते ॥
(45) न ब्रह्म शब्दावेद्यम् (46) न निष्प्रपञ्चीकृतेर् विधिः ।
(47) न विकल्पाप्रामाणत्वम् (48) नोपबृंहण-बाधनम् ॥
(49) नैक्योपदेशार्थापत्तिः (50) न सिद्धिर् न अधिकारिणः ।
(51) न निर्विषयता मुक्त-चितो (52) निर्गुण-वाग्-गतिः ॥
(53, 54) न ब्रह्ममायोपादानत्वार्थापत्ती स्त इत्य् अपि ।
(55) न कार्यानुपपत्तिः; (56) नानन्त्य-तत्त्वञ् च (57) निर्गुणे ॥
नानन्दत्वं (58) न नित्यत्वम् (59) अद्वितीय-श्रुतेर् गतिः ।
(60) सत्त्वासत्त्व-विवेको (61) ऽथो जीवस्यैकत्व-भञ्जनम् ॥
(62) शूद्राधिकारापत्तिश् च (63) न कर्माधिक्रिया-क्षतिः ।
(64) न यतिः पररीत्या स्यात् (65) अलेपकमतं न सत् ॥
(66) न ब्रह्म-सूत्र-स्वारस्यं स्यात् परेषां मते ऽन्ततः ।
इत्थम् अर्थास् तु षट्षष्टिर् भाष्य-व्याख्यात्मनोदिताः ॥
इत्थं वादान् शतं चक्रे; दृष्टे पूर्तेर्-अदर्शनात् ।
ग्रन्थान्तरेष्व् इवात्रापि लोपो रक्षण-हानितः ॥
श्रुतितः स्मृतितश् चेतिहासतश् च पुराणतः ।
अद्वैतस्यास्ति दूष्यत्वं पूर्ण-भाष्यार्थ-वर्णनात् ॥
शतदूषणी हि परमारथ-भूषण-प्रकटत्व-कान्तिर् अनघा ऽञ्जसा ऽनिशम् ।
शतभूषणी-सुखविभूषणे ऽपि तन्-मत-दूषणानि निपुणं प्रदर्शयेत् ॥
इति सर्वसज्जन-विधेयः
उत्तमूर-ति. वीरराघवाचार्यः
-
द्राविडात्रेय-दर्शनम्, चिद्-अचिद्-अशरीरक-ब्रह्म-सिद्धिः, सप्त-विधान-उपपत्ति-परीक्षा, अद्वैत-तत्त्व-शुद्धिश् च । ↩︎