अनुगृहीतं प्रशस्ति-पत्रम्
श्रीमते श्री-लक्ष्मी-नृसिंह-परब्रह्मणे नमः ।
श्रीमते शठकोपाय नमः ।
श्रीमते रामानुजाय नमः ।
श्रीमते निगमान्त-महादेशिकाय नमः ।
श्रीमते श्री आदिवण् शठकोप-यतीन्द्र-महादेशिकाय नमः ।
श्रीमते श्रीवण् शठकोप श्री वेदान्त-देशिक-यतीन्द्र-महादेशिकाय नमः ।
अस्मिन् विलम्बि-संवत्सरे मकर-मासि श्री-भूमि-नीला-समेतस्य भगवतः श्री-लक्ष्मी-नृसिंहस्य, श्री-कनकवल्ली-नायिका-समेतस्य श्री-वीरराघव-स्वामिनश् च सन्निधौ, श्रीमत्महाबिलमठे चतुश्चत्वारिंशे पट्टे मूर्धाभिषिक्तानां श्रीमद्-वेदमार्ग-प्रतिष्ठापनाचार्येत्यादि-विरुद-भूषितानां श्री-वण्-शठकोप-श्री-वेदान्त-देशिक-यतीन्द्र-महा-देशिकानाम् अनुग्रहेण नवसु दिनेषु प्रवृत्ते, तैर् एवाधिष्ठिते, तेषाम् एवातिविलक्षणाभिः विषय-शोधन-चोद्य-करण-दुर्ग्रहार्थ-विशदीकरण-भङ्गीभिः सञ्जात-बहु-रस-परीवादे, श्रीमद्-विशिष्टाद्वैत-सिद्धान्त-धुरन्धरैः सुप्रसिद्धैः अत्र-निर्दिष्टैः श्री. उ. वे. व्याकरण-वेदान्त-पारङ्गतैः आराधकैः पनमुकै नरसिंहाचार्यैः, श्री. उ. वे. न्याय-वेदान्त-विशारदैः प्राचीन-विद्वद्भिः तिरुक्कण्डलं कृष्णमाचार्यैः, श्री. उ. वे. न्याय-वेदान्त वेदान्त-वावदूकैः विल्लिवलं नारायणाचार्यैः, श्री. उ. वे. न्याय-वेदान्त वेदान्त-सारज्ञ-ब्रह्म-विद्या-वाचस्पति-श्री-अहोबिल-मठीयास्थान-विद्वद्भिः पेरुक्कारणै चक्रवर्त्याचार्यैः, श्री. उ. वे. न्याय-वेदान्त पण्डितराजेत्यादि-बिरुद-भूषितैः D.T. ताताचार्य-वर्यैः, श्री. उ. वे. न्याय-वेदान्त न्याय-वेदान्त-शिरोमणिभिः ईच्चम्बाडि-वीरराघवाचार्यैः, श्री. उ. वे. न्याय-वेदान्त श्रीपद-पुरी-महा-विद्याशालाध्यापकैः नावल्पाकं राजगोपाल-ताताचार्यैः, श्री. उ. वे. न्याय-वेदान्त श्रीपद-पुरी-महा-विद्याशालाध्यापकैः कोलियालं-शठकोपाचार्यैः, श्री. उ. वे. न्याय-वेदान्त श्रीपद-मधुरान्तकं कलाशाला-व्याकरणाध्यापकैः मेलपाक्कं नरसिंहाचार्यैः, श्री. उ. वे. न्याय-वेदान्त श्रीपद-व्याकरणाध्यापकैः सरल-कविभिः पादूर-राघवाचार्यैः, श्री. उ. वे. न्याय-वेदान्त श्रीपद-न्यायाध्यापकैः अत्ति-कृष्णम् आचार्यैः, श्री. उ. वे. न्याय-वेदान्त श्रीपद-न्याय-शिरोमणि-पुरिश-कृष्णम् आचार्यैः, श्री. उ. वे. न्याय-वेदान्त श्रीपद न्यायाध्यापकैः V. D. संपत्कुमार-वरदाचार्यैः, श्री. उ. वे. न्याय-वेदान्त तञ्जावूर-सरस्वती-महाल-कोशालयाधिकृतैः नावल्पाक्कं-देवनाथाचार्यैः, श्री. उ. वे. न्याय-वेदान्त पूना-संस्कृत-कोश-संकलनालयाधिकृतैः न्याय-व्याकरण-वेदान्त-शिरोमणि-नावल्पाक्क. रामानुजार्यैः, अन्यैश् च शताधिकैः विद्वद्भिः परिभासुरे श्री-मालोल-विद्वत्-सदसः अष्टादशे अधिवेशने, श्री-रङ्गराज-दिव्याज्ञा-लब्ध-वेदान्ताचार्य-पदस्य, सर्वतन्त्र-स्वतंन्त्रस्य, कवि-तार्किक-सिंहस्य, आचार्य-चूडामणेः, तद्-अनुगृहीतस्य परम-गम्भीरस्याद्वैताद्रि-भेदन-शतधारस्य शतदूषणी-ग्रन्थस्य च अपारं महिमानम् अनधिगतवता, आबाल्यात् विशिष्टाद्वैत-मत-दूषण-तत्पर-ग्रन्थ-लेखनाभिनिवेश-ग्रह-विवश-चेतसा, म-म-श्री-अनन्त-कृष्ण-शास्त्रिणा शतदूषणी-खण्डन-तृष्णया अचिरात् प्रकाशितस्य शतभूषणी-नामकस्य ग्रन्थस्य खण्डन-रूपः, तर्कार्णवेत्यादि-बिरुदावली-भूषितैः, नाना-शास्त्र-संबन्धि-बहु-ग्रन्थ-निर्माण-प्रकटित-लोकोत्तर-पाण्डित्यैः उत्तमूर्-श्री-वीरराघवाचार्य-वर्यैः विरचितः परमार्थ-भूषण-नामा सहस्राधिक-पुट-व्यापी महा-ग्रन्थः विदुषाम् अङ्गीकाराय समर्पितः ।
तत्र ग्रन्थकारैर् एव सभाध्यक्ष-नियमानुसारेण पठितान् कांश् चन भागान् आकर्ण्य संतुष्टाः श्री-सभाध्यक्षाः आचार्य-चरणाः, समवेताः सर्वे विपश्चितश् च ग्रन्थकारणां अगाधं नाना-शास्त्र-वैचक्षण्यं, ग्रन्थ-करण-दाक्ष्यं, सकल-प्राचीनाद्वैत-ग्रन्थ-गाढ-परिचयं, पूर्व-पक्षानुवादे उत्तर-दाने चावलम्बितम् आर्जवातिशयम्, हेलया पर-पक्ष-विधूनन-चातुर्यं, पद-वाक्य-शुद्धिं, रचना-सौष्ठवम्, अ-राग-द्वेष-कलुष-हृदयत्वम्, अ-परुष-भाषित्वं च सुव्यक्तम् आलक्ष्य अभ्यनन्दन् ।
एवम् अस्मत्-सिद्धान्त-संरक्षण-दीक्षिता इमे आयुर् आरोग्यैश्वर्य-समृद्धि-मन्तः शरदः शतं विलसन्तु इति भगवति लक्ष्मी-नृसिंहे अञ्जलिञ् चाकुर्वन् ।
Srikaryam (Private Secretary),
H. H. Ahobilamatt.