॥अथ यतिलिङ्गभेदभङ्गवादः चतुःषष्टितमः ॥64॥
प्रवेशः
श्रितान् परम-हंसतां परम-हंस इत्य् उक्तितः
त्रयी-पथम् अ-सौगतान् कपट-सौगतान् खण्डयन् ।
मुनिर् जयति लक्ष्मणो मुदम् उदञ्चयन्न् अञ्चतां
मुकुन्द-गुण-मौक्तिक-प्रकर-शुक्तिभिः सूक्तिभिः ॥
यज्ञोपवीतम्
ये पुनः शङ्करादयो ऽर्वाचीन-परमहंसाः,
ते बाह्य-वेष-परिग्रहम् अधिकृत्य पृच्छ्यन्ते -
किम् इति परमहंसैर् ब्रह्म-सूत्रम् उत्सृज्यते?
- किं तेषु तत्-प्रापकाभावात्?
- उत सामान्यतः प्राप्तस्यापि विशेषतो बाधात्?
- यद्वा वैकल्पिकतया परित्यागेऽपि प्रत्यवाय-विरहात्?
- उताङ्गि-निवृत्तेर् एवार्थात् तद्-अङ्गस्यापि निवृत्तेः?
- अथवा पूर्वानुष्ठान-मात्रात्?
इति ।
प्रापक-सद्भावः
न प्रथमः; श्रुति-स्मृतिभिः सामान्यतो विशेषतश् च तत्+++(=यज्ञोपवीत)+++-प्राप्तेः।
द्विज-सामान्यतः [[प्रप्तिस्]] तावत् सहजा निर्विवादैव।
परिव्राजके विधानम्
परिव्राजक-सामान्यतः प्राप्तिस् तावद् अभिधीयते।
यथाह वसिष्ठः -
* “यज्ञोपवीत्य् उदक-कमण्डलु-हस्तः”
इति।
अङ्गिराः -
यतीनां त्रीणि शुक्लानि
भवन्त्य् एतानि नित्यशः ।
यज्ञोपवीतं दन्ताश् च
तथा जन्तु-निवारणम् ॥
इति ।
शौनकः
अथ युवा सुवासा इति काषाय-वासाः,
“सखा मे गोपाय” इति त्रिदण्डं गृह्णाति,
“तच् छंयोर् आवृणीमहे” इति यज्ञोपवीतम् ।
इति ।
दत्तात्रेयः
मोक्षाश्रमे स्मृतं वस्त्रं
रक्तं यद् धातु-रञ्जितम् ।
कार्यं यज्ञोपवीतं तु
सितं नव-गुणान्वितम् ॥
इति ।
सामान्यतो यज्ञोपवीत-त्यागं निषेधन्ति।
यथाह मेघातिथिः
गृहीतं यत् त्रिदण्डादेर् अविनष्टं तु न त्यजेत् ।
“समुद्रं गच्छ स्वाहा” इति विनष्टं प्रक्षिपेज् जले ॥
प्रक्षिप्य चान्यद् आदद्याद् गायत्र्या प्रणवेन वा ।
“तच् छंयोर्” इत्य् उपवीतम्, अब्-लिङ्गाभिः कमण्डलुम् ॥ इति ।
अङ्गिराश् च
यतेर् लिङ्गं प्रवक्ष्यामि येनासौ लक्ष्यते यतिः ।
ब्रह्मसूत्रं त्रिदण्डं च वस्त्रं जन्तु-निवारणम् ॥
शिक्यं पात्रं ब्रुसी चैव कौपीनं कटि-वेष्टनम् ।
यस्यैतद् विद्यते लिङ्गं स यतिर् नेतरो यतिः ॥ इति ।
उपवीत-परित्यागे प्रत्यवायः
उपवीत-परित्यागे प्रत्यवायं स्मरन्ति च।
यथा ऽऽह अत्रिः
ब्रह्म-सूत्रं त्रि-दैवत्यं
ब्रह्म-विष्णु-शिवात्मकम् ।
परित्यजन्ति विप्रा ये
मोहात् तर्कोपजीविनः ॥
स्वर्गापवर्ग-मार्गाभ्यां
प्रच्युतास् ते न संशयः ।
इति ।
यद्यप्य् अत्र विप्र-शब्दः सामान्य-वचनः,
तथा ऽपि पारिव्राज्यम् एवाधिकृत्य प्रवृत्तत्वाद् विशेषार्थ एव।
सामान्यतो निर्देशस् तु सर्वेषां प्रत्यवाय-साम्यात्।
तथा हि उशनास् तत्-परित्यागे
सर्वेषाम् आश्रमिणां पतनम् एवाह
ब्रह्मसूत्र-परित्यागाद्
ब्रह्मचारी गृही वनी ।
परिव्राट् चापि पतति
तस्मात् तन् न परित्यजेत् ॥
इति ।
तत्-परित्यागे बहूनि प्रायश्चित्तानि सस्मरुः।
यथा अत्रिर् एव
त्यक्त्वा यज्ञोपवीतं तु
षट्-कृच्छ्राणि समाचरेत् ॥
इति ।
वृद्ध-जाबालिश् च
हीनो यज्ञोपवीतेन
यदि स्याद् ध्यान-भिक्षुकः ।
तस्य क्रिया निष्फलाः स्युः
प्रायश्चित्तं विधीयते ॥
गायत्री-सहितान् एव
प्राजापत्यान् षडाचरेत् ।
पुनः-संस्कारम् आहृत्य
धार्यं यज्ञोपवीतकम् ॥
इति ।
हारीतः
विना यज्ञोपवीतेन
यत् कृतं भोजनादिकम् ।
तत्-पाप-प्रशमायालं
प्रायश्चित्तं ब्रवीमि वः ॥तेषां तु भोजनादीनां
प्रत्यहं सु-समाधिभिः ।
सहस्राद्यैर् असुयमैर्
विधि-पूर्व-कृतैश् शुचिः ॥
इति ।
असमीक्षित-दशा-परित्यक्त-ब्रह्मसूत्रैश् च यादव-प्रकाशैः
समीक्ष्य सञ्जात-अनुशयैः
स-प्रमाणम् अनुयुक्ताः
वासुदेव-यात्रोत्सव-समागताः नाना-दिगन्त-वास्तव्याः शिष्टाश् च
प्रायश्चित्तम् एवोत्तरं ददुः। +++(4)+++
“भ्रष्टस् तर्ह्य् असाव्” इति चेन् न;
प्रायश्चित्तात् पूर्वम् एव तथात्वस्य प्राचीनैर् निश्चितत्वात्।
तत्-समुच्चितस्यैव यति-धर्मस्याद्यापि
मानवादिवद् अविगीत-शिष्ट-परिग्रहात्।
बाधाभावः
एवं परिव्राजकानां सामान्यतः प्राप्तं ब्रह्मसूत्रम् ।
परम-हंसेष्व् एव विशेषतो ऽपि प्राप्तिर् दृश्यते ।
शाट्यायनकोपनिषदि
तथा हि शाट्यायनकोपनिषदि समाम्नायते *
अथ ह यद् ब्रह्म परमं सनातनं
ये श्रोत्रिया अकामहता अधीयुः ।
शान्तो दान्त उपरतस् तितिक्षुर्
यो ऽनूचानो ह्य् अभिजिज्ञास्यमानः ।
त्यक्तेषणो ह्य् अनृणस्
तद् विदित्वा
मौनी वसन् आश्रमे यत्र तत्र ।
अथाश्रमं चरमं सम्प्रविश्य
स च द्वितीयम् अमृतं सम्प्रयाति ।
अखिलं विश्वं ब्रह्म-भावनया निचाय्य चरेत्
पृथिव्यां विष्णु-लिङ्गी निगूढः ।
परमहंसम् आश्रमं सम्प्रविश्य यथोपपत्ति पञ्च-मात्रां दधानः ।
तद् अत्र श्लोकौ भवतः -त्रिदण्डम् उपवीतं च
वासः कौपीन-वेष्टनम् ।
शिक्यं कवचम् इत्य् एतद्
बिभृयाद् यावद् आयुषम् ।
त्रिदण्डं वैष्णवं लिङ्गं
विप्राणां मुक्ति-साधनम् ।
निर्वाणं सर्वधर्माणाम्
इति वेदानुशासनम् ॥इति ।
अथ खलु सौम्य
कुटीचको बहूदको हंसः परमहंस
इत्य् एते चतुर्विधाः परिव्राजका भवन्ति ।
सर्वे विष्णु-लिङ्गिनः
सदा स्वात्मानम् आत्मना ब्रह्म-भावं भावयन्तः
सु-शीलिनः पुण्य-श्लोका भवन्ति ।
इति ।
पराशरः
इमाम् एवोपनिषदम् उपबृंहयन् भगवान् पराशरः स्मरति *
तत्र परिव्राजकाश् चतुर्विधा भवन्ति,
कुटीचको बहूदको हंसः परमहंसश् चेति ।तत्र कुटीचका नाम -
पुत्रादिभिः कुटीं कारयित्वा
काम-क्रोध-लोभ-मद-मात्सर्यादीन् परित्यज्य
विधि-वत् सन्न्यासं कृत्वा
त्रिदण्ड-जल-पवित्र-काषाय-वस्त्रोपवीत-धारिणः
स्नान-शौचाचमन-जप-स्वाध्याय– ब्रह्मचर्य-ज्ञान-तत्पराः
पुत्रादेर् एव भिक्षा-काले ऽन्नं देह-यात्रा-मात्रम् उपयुञ्जानाः
तस्यां कुटौ नित्यं वसन्त आत्मानं मोक्षयन्ते ।बहूदका नाम -
त्रिदण्ड-कमण्डलु-जल-पवित्र-शिक्य-यज्ञोपवीतिनो
वेदान्तार्थावबोधकाः साधु-वृत्तेषु ब्राह्मण-कुलेषु भैक्ष-चर्यां चरन्त आत्मानं मोक्षयन्ते ।हंसा नाम त्रिदण्ड-जल-पवित्र-शिक्य– यज्ञोपवीत-रक्त-काषाय-वाससो गोमूत्र-गोमयाहारा
एक-रात्रं त्रि-रात्रं षड्-रात्रं मासोपवास-पक्षोपवास-कृच्छ्रातिकृच्छ्र– चान्द्रायण-सान्तपन-पराक– तुला-पुरुषादीनि व्रतानि चरन्तो
गो-द्विजाढ्येषु पुण्येषु देशेषु वसन्त
आत्मानं मोक्षयन्ते ।परमहंसा नाम -
त्रिदण्ड-जल-पवित्र-शिक्य-यज्ञोपवीतिनो ऽन्तर्वास-बहिर्वास-धारिणो
ग्रामैकरात्र-वासिनो नगर-तीर्थ-जनपदेषु
पञ्च-रात्रं षड्-रात्रं क्षार-लवण-वर्जं भिक्षा-काले शीर्ण-पर्ण-पुटं कृत्वा
ब्राह्मण-कुलाद् एव भैक्षं गृहीत्वा
अष्टौ ग्रासान् एव भुञ्जानाः
सन्ध्योपासन-तत्परा नित्यं वृक्ष-मूले वसन्त
आत्मानं मोक्षयन्ते
इति ।
अत्र्य्-आदयः
एवं शाट्यायनक-श्रुत्या पराशर-स्मृत्या च सु-प्रसिद्धम् अर्थम्
अत्रि-प्रभृतयो ऽपि
वृत्ति-भेद-भिदुराणां चतुर्णां परिव्राजकानां
लिङ्ग-भेद-निषेध-द्वारा सामान्यतो दर्शयन्ति ।
यथा *
चतुर्विधा भिक्षवस् तु
स्मृतास् सामान्य-लिङ्गिनः ॥
तेषां पृथक् पृथङ् नाम
वृत्ति-भेदात् कृतं श्रुतौ ।कुटीचको बहूदश् च
हंसश् चैव तृतीयकः ॥
चतुर्थः परमो हंसो
यो यः पश्चात् स उत्तमः ।
लिङ्गं तु वैष्णवं तेषां
त्रिदण्डं स-पवित्रकम् ॥
इति ।
विशेषतः प्राप्तेर् बलम्
वृत्ति-भेदश् च
पराशर-स्मृत्या प्राग् एव दर्शितः ।
एवं परमहंसानां विशेषत एव प्राप्तेः,
तत्-परित्याग-निषेधाच् च
द्वितीयः पक्षो निरस्तः ।
यद्यपि सामान्य-मात्रं विशेष-बलात् सङ्कोचम् आप्नोति,
तथापि न विशेषाद् विशेषः पराभवम् अर्हति;
अविशेषाद् विपरिवर्त-प्रसङ्गाच् च ।
दृष्टश् चास्मद्-उक्तो विशेषः ।
त्वद्-अभिमततस् त्व् अद्यापि न दृश्यते ।
विसर्गः, पुनर्-ग्रहणम्
ननु *
नखानि निकृत्य
यज्ञोपवीतं विसृजेद्इति दृश्यत
इति चेन् न;
*नखानि निकृत्य
पुराण-वस्त्र-यज्ञोपवीत-कमण्डलून् त्यक्त्वा
नवान् प्रगृह्याश्रमं प्रविशेद्
इति श्रुत्यैव त्याग-ग्रहणयोः
पुराण-नूतन-विषयत्वस्य न्याय-निरपेक्षम् एव व्यवस्थापनेन विरोध-प्रशमनात्
सामान्य-यज्ञोपवीतस्य पुराणत्व-विशेषिते पर्यवसातुम् उचितत्वात्,
सामान्य-निषेधस्य नूतन-विशेष-विधिना स्पर्धितुम् अशक्तेः;
* “न हिंस्याद्” इत्य्-आदिवत् ।
न च “विसृजेद्” इत्यस्य
“न गृह्णीयाद्” इत्य् अर्थः,
येन नूतन-ग्रहण-परतया विषय-व्यवस्था दुःस्थिता स्यात् ।
न च तद् युक्तम्, उपचार-प्रसङ्गात् ।
यद्य् अपि गृहीतागृहीत-विषयं विसर्जनं कथञ्चित् पश्यसि,
तथापि पूर्व-धृत-विषयत्वम् एव स्वारसिकम् ।
*“नवान् प्रगृह्ये"त्य्-अस्यानादरे च
दण्डादेर् असङ्ग्रह-सिद्धिः ।
अन्यथा पूर्वोदाहृत-विशेष-श्रुति-विरोधश् च ।
बहिस्-सूत्र-त्याग-विधिः
अत एव * “बहिस्+++(→द्वितीय)+++-सूत्रं त्यजेद् बुधः” इत्य् एतद् अपि
पुराण-ब्रह्मसूत्र-त्याग-विषयं मन्तव्यम् ।
ननु * “ब्रह्मचर्याद् एव प्रव्रजेत् गृहाद् वा वनाद् वे"ति
ब्रह्मचारिणो ऽपि पारिव्रज्यं विधीयते,
न च तस्य द्वितीयं ब्रह्मसूत्रम् अस्ति,
ततश् च कथं तद् विषये
*“बहिस् सूत्रं त्यजेद्” इति वचनं योजनीयम्
इति चेत्; कथं वा छन्दोग-ब्रह्मचारिणां परिव्रज्यायां
*“सशिखं वपनं कृत्वे"ति
शिखावपनं योजयिष्यसि?
“सम्भवद् विषयं शिखावपनम्” इति चेत्;
तर्हि सम्भवद्विषयो ऽयं बहिस्-सूत्र-त्याग-विधिर् अपीति
किं न पश्यसि?
किं च, प्रमाणान्तर-विरोध-परिहारार्थं “बहिस्-सूत्रम्” इत्य् अर्थान्तरं वर्णयन्ति ।
बहिः-सूत्रम् इत्य् अव्ययीभावः ।
तेन सूत्राद् बहिर्-भूतं समस्तम् अपि परित्यजेद् इत्य् अर्थः ।
सन्नयस्यतो ब्रह्मसूत्रातिरिक्तं सर्वम् अपि परित्याज्यम्
इत्य्-अनेन सन्न्यासानुगुणं समस्त-नैरपेक्ष्यम् उच्यते;
तेन न ब्रह्मसूत्र-परित्याग-सिद्धिः ।
सशिखं वपनम्
*“सशिखं वपनं कृत्वे"त्य् अपि
*“स-विष्टरम्+++(=आसनं)+++ अन्नं भुञ्जीते"त्यादिवत्
कर्तव्य-साहित्येन अन्वयः ।
तेन “शिखा-सहित एव शेष-वपनं कुर्याद्” इत्य् अर्थः ।
न पुनः *“सघृतम् अन्नं भुञ्जीते"त्यादिवत्, बहु-प्रमाण-विरोधात् ।
काल्पनिक-सूत्रादि
ननु
*यदक्षरं परं ब्रह्म
तत्-सूत्रम् इति कल्पयेत् ।
यमिनो ज्ञान-शिखिनः
शिखा-यज्ञोपवीतिनः ॥इत्यादि-वचन-बलात्
सामान्यतः पुराण-नूतन-समस्त-प्रतिषेध एवाभिप्रेतो गम्यते
इति चेत्; मैवम्,
अन्य-परत्वाद् अस्य वाक्यस्य ।
तथा हि -
इदं वाक्यं विद्वद्-विषयं वा,
विविदिषु-विषयं वा,
परमहंस-विषयं वा?
विद्वत्सु प्रशंसा
पूर्वत्र विद्या-स्तुत्यर्थता युक्ता ।
तथा च
*कुर्वन्न् एवेह कर्माणि
जिजीविषेच् छतँ समाः,
*न कर्म लिप्यते नरे
इति वाक्यम् अधिकृत्य
सूत्रितं भगवता बादरायणेन
“*स्तुतये ऽनुमतिर् वे"ति ।
तेन ब्रह्म-विदां शिरसि हृदि च
यावद्-आयुषं धार्यं शिखा-यज्ञोपवीतं ज्ञान-अन्वितम् अत्यन्तं प्रशस्तम् इत्य् अर्थः ।
विविदिषुषु प्रयासः
द्वितीये त्व् अवधान-विधि-परतैव
*“यद् अक्षरम्” इत्यादिन व्यक्ता,
दृष्टोपकारे सम्भवत्य्
अदृष्टोपकार-कल्पनायोगाच् च ।
अनयोश् च पक्षयोर् अस्यार्थस्य नाश्रम-विशेषाङ्गत्व-सिद्धिर् अपि ।
परमहंसे
तृतीयस् तु स्याद् अपि,
यद्य् आश्रम-कर्मोक्तिः स्यात्,
न च तत्र तत् पश्यामः ।
सत्य् अप्य् आश्रम-प्रसङ्गे
गृहस्थावस्था-गत-द्वितीय-सूत्र-त्यागम् उपदिश्य
+++(तद्विषये हि→)+++ विहित-त्याग-जातानुशयं प्रति अर्थवाद इति युक्तम्,
अर्थवाद-लिङ्ग-भूयस्त्वात् ।
न ह्य् अत्र विधिर् अनुश्रूयते,
अन्यथा पूर्वोक्त-श्रुत्य्-आदि-विरोधस्य दुष्परिहरत्वाद् इति ।
न विकल्पः
भवतु वा एतद्-वाक्यम् अनन्य-परम्,
तथापि प्राग्-उक्त-श्रुत्य्-आदि-बलाद्
विकल्प एव स्यात्,
न त्व् एकान्ततो निषेधः,
अन्यथा कुटीचकादीनाम् अपि एकान्ततस् तन्-निषेध-प्रसङ्गात् ।
न चैतद्-वचनं परमहंसम् एवाधिकृत्य प्रवृत्तम्, नियामकाभावात् ।
श्रुति-विरुद्धार्थां क्वचित् कैश्चिद् अप्य् अनधीयमानां,
त्वत्-पक्ष-पातिना विकल्प-वादिना विज्ञानेश्वरेणानाघ्रातां,
तत्-पक्षं विस्तरेण प्रतिक्षिपद्भिः
भास्कराचार्य-यादवप्रकाश-मस्करि-प्रभृतिभिर् उद्धृत्यापरिहृताम्
अन्यादृशीं श्रुतिं द्रष्टुम् इच्छसि । +++(4)+++
स्मृति-सन्दिग्धता
यदि च सापि स्यात्,
कथं सर्व-स्मर्तॄणां ब्रह्म-सूत्र-धारण-विधानैक-कण्ठ्यम्?
यच् च त्यागार्थं “व्यासादि-वचनम्” इति कैश्चित् पठ्यते,
तद् अपि तत्-तत्-कोशेषु न पश्यामः,
न चोदाहरन्ति पूर्वे निरूपकाः ।
न च प्रत्यक्ष-श्रुति-विरोधे
वैदिक-परिगृहीत-बहु-स्मृति-विरोधे च
अप्रसिद्ध-स्मृति-मात्रस्य जीवितम् अस्ति ।+++(5)+++
लब्ध-जीवितत्वे ऽपि
आन्यपर्यम् अलेपक-मत-भङ्गे प्रपञ्चयिष्यते ।
अतः, तद्-वचन-कारिषु व्यासादि-समाख्यां सङ्केतेन प्रक्षिप्य
धर्म-सूनुर् इव सत्य-वादी भव ।+++(4)+++
पाञ्चरात्रे न
एतेन “पञ्चरात्रादि-मूलः परमहंसस्य ब्रह्मसूत्र-परित्याग” इति निरस्तम्,
प्रमाण-भूतेषु तेषु तथाविध-वचनादेर् असम्भवात् ।
सम्भवे चान्य-परत्वस्य गृहीतुं युक्तत्वात् ।
पर-ब्रह्म-भूत-भगवत्-प्रीणन– तत्-तद्-अर्थ-विशेष-प्रपञ्चने हि पञ्चरात्रस्यैदम्पर्यम्,
न सद्-आचारेषु ।+++(5)+++
तत्र तु औदासीन्यम् एव तस्येति
न श्रुत्य्-आदि-विरोधे तत्र प्रगल्भते
इति मध्यस्थ-दृष्ट्या पश्यामः ।
न च पञ्चरात्र-मूलत्वेन
भागवत-परिगृहीते नैरुक्ते ऽपि वेद-भागे परिव्राजक-प्रकरणे
भवद्-अभिमतं यज्ञोपवीतादि-प्रहाणं दृश्यते ।
न च शाण्डिल्यः सूत्रयति ।
न च सात्त्वतादिषु सु-रक्षित-कोशासु संहितासु तथाविध-वचन-प्रसङ्गः ।
अतो युष्मत्-कूटस्थ-पक्ष-पातिनां प्रक्षेपस् तथा स्याद् वा न वेति
समीचीन-दृष्ट्या भावय ।+++(5)+++
अतः परम-हंसेष्व् अपि
द्विज-सामान्यतः परिव्राजक-सामान्यतस् तद्-अवान्तर-विशेषतश् च प्राप्तं ब्रह्म-सूत्रं
न विशेषतो बाधम् अर्हतीति सिद्धम् ॥
विकल्पाभावः
नापि तृतीयः;
विषय-व्यवस्थापन-योग्यानां वाक्यानां
विरोधाभावाद् एवाष्ट-दोष-दुष्ट-विकल्प-पर्यवसानायोगात् ,
अन्यपरतया निश्चितानां तु दुर्बलत्वाद् एव ।
विरोधे बल-साम्ये च सति हि
गत्य्-अन्तराभावाद् विकल्पः स्वीक्रियते ।
न च गुरु-लघुनोर् विकल्पस् सम्भवति,
गुरु-विधायकस्य शास्त्रस्याननुष्ठान-लक्षणाप्रामाण्य-प्रसङ्गात् ।+++(4)+++
न हि लघौ सति
गुरौ कश्चिद् अपि प्रवर्तते ।
न मुख्य-गौण-विभागः
मुख्यामुख्यतया तु विभागः सम्भवेद् अपि,
यद्य् अन्-अन्यथा-सिद्धो लघु-विधिस् सिध्येत् ।
न च तद् अस्तीत्य् उक्तम् ।
न चामुख्यं भवद्-विशेषम् अङ्गीकरोषि ।
न च मुख्य-कल्प-शक्तानाम्
अमुख्य-कल्प-स्वीकारो युक्तः ।
न च
तेषां प्रत्यग्-आत्म-प्रावण्येन बाह्येष्व् औदासीन्याद्
अमुख्य-कल्प-परिग्रह
इति युक्तम्, शक्तस्यौदासीन्ये प्रत्यवायात् ।
न च वः काञ्चिद् अशक्तिं
भास्करीयादयः सूक्ष्म-निरूपणे ऽपि पश्यन्ति ।
यथाहुः -
कन्थां वहसि दुर्बुद्धे
गर्दभेनापि दुर्भराम् ।
शिखा-यज्ञोपवीताभ्यां
कस् ते भारः प्रसज्यते ॥
सन्ध्या-वन्दन-वेलायां
मुक्तो ऽहम् इति मन्यसे ।
खण्ड-लड्डुक-वेलायां
दण्डम् आदाय धावसि ॥ +++(5)+++
इति ।
विज्ञानेश्वराभिनिवेशः
यत् तु न्यायविदा ऽपि विज्ञानेश्वरेणाप्य् उक्तम् -
यज्ञोपवीत-धारणं वैकल्पिकम्,
“यज्ञोपवीतं विसृजेद्” इति श्रुतेर्
इति; तद् अपि
विकल्पासम्भवस्योक्तत्वात्
स्व-पक्ष-संरक्षणाभिनिवेश-कारितम्
इत्य् अनादरणीयम् ।
नाङ्गि-निवृत्तेर् अङ्ग-निवृत्तिर् इति
नापि चतुर्थः,
ब्रह्म-विदाम् अप्य् अत्यन्त-कर्म-निवृत्तेर् दूषितत्वात्;
युष्माभिर् अपि प्रणव-जपाचमनादि-कर्मणाम् अद्यापि क्रियमाणत्वात्,
* “तस्माद् यज्ञोपवीत्य् एवाधीयीतेत्य्-आदेर्” दुर्लङ्घत्वात्,
अर्थ-प्राप्त-भोजनादि-कर्मणां च
अ-यज्ञोपवीतिना ऽनुष्ठाने प्रायश्चित्त-विधानात् । +++(5)+++
पूर्वानुष्ठानम्
नापि पञ्चमः +++(पूर्वानुष्ठानाद् इति)+++;
श्रुत्य्-आदि-विरुद्धस्याचारमात्रस्यानुपादेयत्वात्,
पञ्च-शिख–दुर्वासः-प्रभृति–परिगृहीत-परिव्राजक-स्तोमेषु
ब्रह्म-सूत्र-परित्यागस्य पुराणेष्व् अदर्शनात्,
परिव्राजकानुकारि–धनञ्-जयादिषु
ब्रह्म-सूत्र-परित्यागाश्रवणात्,
भवदीय-यूथ्य–भास्कराचार्य–यादव-प्रकाश–भगवन्-नाथ-मुनि–पारम्-पर्य–विघटितत्वाद्,
नृसिंहराजीया
भवदीय-यूथ्यानाम्, भास्कराचार्य–यादव-प्रकाश–भगवन्-नाथ-मुनीनां च पारम्-पर्ययोर् विघटितत्वात्
इति विग्रहः??
कूटस्थतया नाथमुनि-निर्देश-मात्रेण
तस्य यतित्वं दुस्साधम् ।
नाथमुनि-विघटितत्वं तच्छिष्य-परम्परायां सूत्रादिधारणात् सिद्धम्।
इति श्रीवत्साङ्काचार्यः।
भवत्-पक्ष-प्रवेशित-विसंवादैक्याच् च
अनुविधेयाचारत्वासम्भवाद् इति ।
उपसंहारः
अतस् सिद्धं परम-हंसैर् अपि यज्ञोपवीतमवश्यं धार्यम् इति ।
एवम् उपवीतोक्त-न्यायेन
परिव्राजक-सामान्यतः प्राप्तेः,
तथा परम-हंसम् एवाधिकृत्य त्रि-दण्ड-विधानात्,
चतुर्णाम् अपि लिङ्ग-भेद-निषेधाच् च
तस्यैकदण्डधारणे नियमोऽपि निरस्तः । +++(4)+++
दण्डः
परमहंसेऽपि विकल्पः
अथ स्यात् -
“न च अत ऊर्ध्वं शुक्लम् अम्बरं बिभृयात्
एक-दण्डी त्रि-दण्डी वा”
इति बोधायनादि-वचनात्
त्रि-दण्डैक-दण्ड-धारणयोर् विकल्प इति।
भवत्व् एवम्,
तथाऽपि परम-हंसस्य एक-दण्ड-धारणम् एव,
इतरेषां त्रि-दण्ड-धारणम् एवेति नास्ति नियमः,
अविशेषेण तेषां प्रसक्तेः ।
मुख्यामुख्य-विकल्पौ
“भवत्व् एवं
का नो हानिर्”
इति चेत्; नियमाभिमान-हानिः ।
गुरु-लघुनोस् तुल्य-विकल्पानुपपत्तिं चात्र
यादव-प्रकाशादयः प्राहुः ।
अतो मुख्यामुख्यतयैवायं विकल्पस् स्यात् ।
तदेतद् भगवान् व्यासः स्पष्टयति
“त्रिदण्ड-धारणं शस्तम्”
इति ।
बोधायनादि-सामान्य-वचन- विकल्पितैकदण्ड-धारणस्य
त्रिदण्डालाभ-रूपापद्-विषयतया
हारीत-मेधातिथिभ्यां व्यवस्थापिता ।
त्रिदण्डं वैणवं सौम्यं
स-त्वचं सम-पर्वकम् ।
वेष्टितं कृष्ण-गो-वाल-
रज्ज्वा तु चतुरङ्गुलम् ॥नष्टे जल-पवित्रे+++(=??)+++ च
त्रि-दण्डे वा प्रमादतः ।
एकं तु वैणवं दण्डं
पालाशं बैल्वम् एव वा ॥
गृहीत्वा विचरेत् तावद्
यावल् लभ्यं त्रिदण्डकम् ।यत्नेनान्वेषयेन् नित्यम्
अप्रमत्तः समाहितः ॥
इति हारीतः ।
मेघातिथिस् तु -
यावन् न स्युस् त्रयो दण्डास्
तावद् एकेन पर्यटेत्
इति ।
न प्रक्रान्त-त्रि-दण्डिन एव
न
चैतत् प्रक्रान्त-त्रि-दण्ड-धारण– पुरुष-विशेष-विषयम्
इति नियन्तुं शक्यम्,
“एक-दण्डी त्रि-दण्डी वे"त्य् अस्याद्यापि तुल्यत्व-निश्चयाभावात् ।
यद्यपि च प्रथमम् एव कस्यचित् त्रिदण्डालाभाद् एक-दण्ड-ग्रहणं सम्भवति,
तथाऽपि, न तत्र प्रक्रम-परिनियतिर् अङ्गीकर्तुं शक्या,
अमुख्यत्वात् ।
“यावन् न स्युस् त्रयो दण्डास्
तावद् एकेन पर्यटेत्”
इत्यस्य चाविशेषेण प्रक्रमे ऽपि प्रवृत्तेः ।
श्रौतता
किञ्च, प्रत्यक्ष-श्रुति-सिद्धं त्रि-दण्ड-धारणम्,
स्मार्तस् तु विकल्पः,
पूर्वं तु श्रुति-स्मृत्य्-उभय-सिद्धम्, उत्तरत्र तु स्मृतिर् एव ।
स्मृतिषु प्राधान्यम्
यद् वै किं च मनुर् अवदत् तद् भेषजम्,
मन्वर्थ-विपरीता तु या स्मृतिस् सा न शस्यते
इत्य्-आदि-श्रुति-स्मृतिभिर् आप्ततमत्वेन परिगृहीत-मन्वादि-स्मृति-सिद्धं त्रि-दण्ड-धारणम्,
विकल्पस् तु यत्-किञ्चित्-स्मृति-सिद्धः ।
भूयस्यः स्मृतयस् त्रि-दण्ड-धारणे पूर्वोपात्ता उपाधास्यमानाश् च;
विकल्पे तु द्वे तिस्रः सन्ति न वेति न जानीमः ।
तथा हि दक्ष-बृहस्पती -
मेखलाजिन-दण्डेन
ब्रह्मचारीति लक्ष्यते ।
गृहस्थो यष्टि-वेदाद्यैर्
नख-रोमैर् वनाश्रितः ॥
त्रिदण्डेन यतिश् चेति
लक्षणानि पृथक् पृथक् ॥
इति।
शाण्डिल्यः -
दण्डानि त्रीणि सङ्गृह्य
धारयेद् विधि-पूर्वकम् ।
अत्रिः -
लिङ्गं तु वैष्णवं तेषां
त्रिदण्डं स-पवित्रकम् ।
त्रिदण्डेन यतिश् चेति
लक्षणं वै श्रुतं स्मृतौ ॥
दत्तात्रेयः -
त्रिदण्डि-रूप-धृग् विप्रः
साक्षान् नारायणः स्मृतः ।
त्रिदण्डी पूज्यते येन
विष्णुस् तेन प्रपूजितः ॥अष्टाक्षरेण मन्त्रेण
नित्यं नारायणात्मना ।
नमस्यो भक्ति-भावेन
विष्णु-रूपी त्रिदण्ड-धृक् ॥त्रिदण्डं लिङ्गम् आश्रित्य
जीवन्ति बहवो द्विजाः ।
यो हि ब्रह्म न जानाति
त्रिदण्डार्हो न स स्मृतः ॥
अत्रि-दत्तात्रेयौ -
काणाद-शाक्य-पाषण्डैस्
त्रयी-धर्मो विलोपितः ।
त्रिदण्ड-धारिणा पूर्वं
विष्णुना रक्षिता त्रयी ॥
हारीतः
विष्णु-रूपं त्रिदण्डाख्यं
सर्वदा धारयेद् यतिः ।
कुर्यात् त्रिदण्ड-ग्रहणं
काल-क्षेपं न कारयेत् ॥
वृद्ध-दक्षः
केश-मात्रान् समग्रन्थीन्
त्रिदण्डान् वैणवान् यतिः ।
धारयेद् इति शेषः ।
इत्थं परश्शताः स्मृतयो
विस्तर-भयान् न लिख्यन्ते ।
निगमनम्
अतो गुरु-लघु-विकल्पानुपपत्तेः,
शस्ताशस्तत्व-कण्ठोक्तेः,
त्रिदण्डालाभ-दशा-विषयत्व-प्रतिष्ठापनात्,
त्रि-दण्ड-धारणस्य प्रत्यक्ष-श्रुति-सिद्धत्वात्,
आप्ततम-बहु-स्मृत्य्-उपबृंहितत्वात्,
त्रि-दण्ड-धारणम् एव चतुर्णां परिव्राजकानाम् अविशेषेण मुख्यम्;
एक-दण्ड-धारणं त्व् अमुख्यम्;
तच् च आपद्-दशायां चतुर्णाम् अपि सम्भवति,
इति सिद्धम् ।
शिखा
अनेनैव न्यायेन परमहंसस्य शिखा-वर्जनम् अप्य् अनुपपन्नम्;
चतुर्णाम् अपि लिङ्ग-भेद-निषेधस्य दर्शितत्वात्,
विशेष-विधायकासिद्धेः ।
शक्तौ शिखी
“मुण्डः शिखी वे"त्य्-आदि-विकल्पस्यापि
त्रिदण्डैकदण्ड-धारण-विकल्पवन् मुख्य-अमुख्यतयैव निर्वाह्यत्वात् ।
सम्भवति हि केषाञ्चिच् छिरसि व्याध्यादिवशात् केशानुत्पत्तिः ।
शौनक-लिखित-गालवात्रि-प्रभृतिभिः
शिखा-धारणस्यैव स्मरणाच् च ।
गालवेन तु
“त्रि-स्थान-लोम-वपनं
कृत्वा प्राजापत्यं कृत्वा
प्राणायाम-शतं चरेत्”
इति शिखा-वपने प्रायश्चित्त-विधानात्,
विकल्प-वाक्यस्य मुण्डन-वाक्यस्य च
यथा-कथञ्चिद् योजनीयतया
समुच्चयार्थतां, शिखा-व्यतिरिक्त-मुण्डन-विषयतां, शिखा-सम्बन्ध-मात्र-विषयतां च
यति-लिङ्ग-समर्थने परमाचार्याः प्राहुः ।
शिखा-वपनम् अन्तरेण वपने ऽपि
मुण्डः
मुण्ड-शब्दस् तत्रैव दर्शितः ।
यथाह लिखितः
पौर्णमास्यां शिखा-वर्जं
मुण्डयेत शिरो यतिः ।
अलाभे व्याधि-पीडायां
राज-चोराद्य्-उपद्रवे ॥
वापयेत् पौर्णमास्य्-आदि
यावत् स्यात् कृष्ण-पञ्चमी ।
इति ।
मेघातिथिः
कक्ष-+उपस्थ-शिखा-वर्जं
मुण्डयेत शिरो यतिः ।
इति ।
एवम् अन्यैर् अपि
कक्ष-उपस्थ-शिखा-वर्जम्
ऋतु-सन्धिषु वापयेत् ।
न त्रैमुण्ड्यम् अतिक्रामेद्
भिक्षुस् संवत्सरे क्वचित् ॥
इत्य्-आदिषु
शिखा-व्यतिरिक्तांश-वपने ऽपि मुण्ड-शब्दस्य प्रयोगात्,
मुण्डन-वपन-शब्दयोः पर्यायवद् अविशेषत्वोपपादनाच् च
सामान्यश् शब्दश् शिखा-व्यतिरिक्त-विषय इति स्वारसिकम्।
विकल्प-अङ्गीकारे त्व् अमुख्यत्वं दर्शितम् अस्माभिः ।
चार्थः
वा-शब्दश् चार्थ इति परमाचार्या व्याचख्युः ।
निगमनम्
अतः परमहंसैर् अप्य् एकम् उपवीतम् अवश्यं धार्यम्,
त्रि-दण्ड–शिखे च मुख्यतया परिग्राह्ये इति सिद्धम् ।
तद् एतत् “वर्णाश्रमोचिते"त्य् उचित-शब्देन
भाष्यकारैर् अपि सूचितम् इति ॥
॥इति शतदूषण्यां यति-लिङ्ग-भेद-भङ्ग-वादः चतुःषष्टितमः॥ [[P64]]