॥अथ अधिकारिविवेकवादः त्रिषष्टिमः ॥63॥
कर्मज्ञानादिनिष्ठासु कर्तृत्वं योगिनां यतः ।
स सर्वकर्ता स्वमतं नित्यं कारयिताऽस्तु नः ॥
अपशूद्राधिकरणप्रसङ्गादुत्पन्नतत्त्वज्ञानस्य कर्मयोगानधिकारो भगवद्गीतादीन् व्याचक्षणौः परैर्जल्पितः प्रतिक्षिप्यते ।
तत्र तावत् सम्यगात्मदर्शनेन निरस्तमिथ्याज्ञानस्य प्रव्रज्यां प्रविष्टस्यापि साङ्ख्यसञ्ज्ञस्य त्वदुक्ताधिकारिणः *शरीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषमित्यादिभिः लौकिकवैदिकसमस्तकर्मन्यासो नास्तीति त्वदुक्तवाक्यैरपि सुव्यक्तम् ।
अथापि ब्रूमः -उत्पन्नतत्त्वज्ञानस्य कर्मयोगेऽनधिकारः किं तस्य कर्मयोगवेदनाभावात्? तत्सत्त्वेऽपि सामग्रयसम्भवात्? तत्सम्भवेऽपि वा तस्य निष्फलत्वात्? उत तत्सफलत्वेऽपि तत्फलनैरपेक्ष्यात्? तत्सापेक्षत्वेऽपि वा अन्यतस्तत्सिद्धेः? अन्यस्माद्वा कुतश्चिदिति ।
न प्रथमः,
दीर्घकालनैरन्तर्यादरसेवितकर्मयोगलब्धज्ञानस्य प्रबलसन्निपाताद्यभावे झडिति तत्प्रमोषासम्भवात् ।
तीव्रतरात्मानुभवसुखसन्दोहेन स्यादिति चेन्न; निषिद्धपरिहारसंस्कारस्याप्युच्छेदप्रसङ्गेन त्वदुक्तधर्माधर्मत्यागसमुच्चयविरोधप्रसङ्गात् ।
आगमिकसंस्कारप्रध्वंसेऽपि स्वात्मानुभवानन्दमग्नतया निषिद्धेषु न कटाक्षोऽपि विक्षिप्यत इति चेत्; हन्तैवं तर्हि शारीरककर्मस्वपि न विक्षिप्येत; न चैवमिच्छसि ।
यस्तु तथाविधात्मानुभवेन शारीरस्यापि कर्मणः प्रस्मरति न तस्य वयमपि सुषुप्तस्येव तदानीं कर्मानुष्ठानं ब्रूमः ।
न चासौ यावच्छरीरं तथाऽवतिष्ठत इति दृष्टं श्रुतमिष्टं वा ।
न द्वितीयः, दृष्टादृष्टविकल्पानुपपत्तेः; न ह्यन्धपङ्गवादिवत् दृष्टसामग्रयां किञ्चिदस्योपघातं पश्यामः ।
न च तस्यां तस्यामदृष्टवैकल्यादशक्तिश्शङ्काय;दृष्टसामग्रयुपनयनार्थत्वात्सामान्यतोऽदृष्टस्य ।
अन्यथा सैव निष्फला स्यात् ।
सम्यक् प्रयुक्ता च सा तत्फलं नोत्पादयेत् ।
इष्ट एवायं क्वचिदर्थः * सुरक्षितं दैवहतं विनश्यतीत्यादिस्मरणादिति चेन्न; तत्रापि यत्किञ्चिद्वैकल्यमुत्पाद्यैव तथात्वस्थितेः; अन्यथाऽतिप्रसङ्गात् ।
ननु कर्तृत्वाभिमानमन्तरेण कर्मणि नाधिकारः, स चास्य निश्शेषविनष्ट इति कथं सामर्थ्यमिति चेन्न; शारीरकर्मप्रतिबन्द्यैव दत्तोत्तरत्वात् ।
तत्रापि नासौ कर्ता निष्क्रियत्वादात्मस्वरूपस्येति चेत्; तर्हि कः कर्ता? प्रकृतिरेवेति चेत्; कस्सङ्ख्यावस्थस्य विशेषः? अभिमाननिरोध इति चेत्; एवं कर्मयोगेऽपि किं न स्यात्? तथैव हि फलसङ्गकर्तृत्वादित्यागेन तदनुष्ठानमनुशिष्यते ।
यत्र चायमधिकरोति ज्ञानयोगे स किंरूपः? किं निष्क्रियात्मस्वरूपमात्रावस्थानलक्षणः; उत तस्मिन्नस्य सम्यग्दर्शनरूपवृत्तिज्ञानेनावस्थानमिति ।
पूवत्र ज्ञानयोगस्य सदातनत्वप्रसङ्गः ।
उत्तरत्र ज्ञानयोगेऽप्यनधिकारः, द्रष्टृत्वस्यापि कर्तृत्वविशेषत्वात् ।
दृशिक्रियाकर्तृत्वमेव द्रष्टृत्वमिति ज्ञातुरनात्मत्वं प्रतिपादयता त्वयाऽपीष्यते ।
द्रष्टृत्वमप्यन्तःकरणधर्मत्वेन मिथ्यात्वेनैवानुसन्धीयमानमात्मविदं न लिम्पतीतिचेत्; यज्ञादिकर्तृत्वेऽपि तथात्वे किं वैषम्यम्? बाह्याभ्यन्तरत्वाभ्यां वैषण्यमिति चेन्न; वैषम्यमात्रस्याप्रयोजकत्वात्,
यागादेरपि च द्रव्यत्यागात्मकबुद्धिवृत्तिविशेषत्वात्, शरीरक्रियादिरूपेष्वपि कर्मसु प्रयत्नस्यैवान्तरस्य पुरुषव्यापारत्वात्तत्रैव तत्पर्यन्ते स्वव्यापारे तस्य नियोगात् ।
ननु न ज्ञानयोगः स्वेच्छयाऽनुष्ठीयते, अपि तूच्छ्वासनिश्वासनिमेषोन्मेषादिवत्साङ्ख्यस्यासौ स्वरसवाहीति चेन्न; युष्मद्गुरुवंशस्य
सर्वकर्मपरित्यागरूपज्ञानस्य विधेयत्ववाचोयुक्तेरनर्थकत्वप्रसङ्गात्, शास्त्रजन्यज्ञानमात्रस्याविधेयत्वात्, तथाचाभ्युपगमात्; तन्मूले तु सर्वकर्मसन्न्यासलक्षणे ज्ञानयोगे कर्तव्ये विधेरवकाशात् ।
स्वरसवाहिस्वात्मदर्शनरूपमहाजागरस्य सुषुप्तावपि नाधिकारः, प्रबुद्धस्यापि न बहिर्मुखी दृष्टिरिति शारीरकर्मस्वपि नावकाशः ।
तथापि निष्क्रियमात्मानमात्मत्वेनाभिमन्यमानस्य कर्तृत्वाभिमानपुरस्सरक्रियात्मस्वरूपावस्थानरूपकर्मयोगे कथमधिकारः? कथञ्च विदितकर्ममिथ्यात्वस्तत्र प्रवर्तते? इति
चेन्न; उक्तोत्तरत्वात् ।
ज्ञानयोगो हि क्रियाविशेष एवेति दर्शितम् ।
नच तस्य मिथ्यात्वमविदितम् ।
सोऽपि स्वरूपभूतसंवित्तिमात्रादन्यः ।
तस्य च मिथ्यात्वं संवित्स्वरूपादन्यन्मिथ्यैवेति सम्मतप्रयोजकश्रवणवेलायामेव सिद्धम् ।
नचात्यन्तनिष्क्रियत्वमात्मनो वयमिच्छामः, आत्मन एव कर्तृत्वस्य *कर्ता शास्त्रार्थवत्त्वादित्यादिभिः स्थापनात्; उत्पत्तिनाशादिलक्षणक्रियानिवृत्तेश्च सम्यज्ज्ञानशरीरप्रेरणादिक्रियावत्त्वेन सह विरोधाभावात्, भावेऽपि वा ज्ञानयोगेऽपि समत्वात् ।
भ्रान्तिलेशमुपजीव्यैव ज्ञानयोगेऽपि प्रवृत्तिरिष्यत इति चेत्; तथाऽन्यत्रापि किं नेष्यते? ननु भवत्येवमधिकार युक्तिसाम्यम्, तथाऽपि शास्त्रेण पर्युदस्तत्वान्नसाङ्ख्यः कर्मयोगेऽधिकरोतीति चेत्; स्ववर्णाश्रमोचितेषु कर्मसु शास्त्रेण पर्युदासाभावात्; प्रत्युत तत्सङ्ग्रहणस्योक्तत्वात् ।
अत एव प्रव्रजितस्यापि यज्ञादिनिरपेक्षेषु प्राणायामादिकर्म योगेष्वधिकारः
सम्भवति, आदिश्यते च ।
अन्यथा * कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसङ्ग्रहमित्युक्त लोकसङ्ग्रहार्थकर्मण्यपि प्रवृत्तिर्निषिद्धानुष्ठानं स्यात् ।
अतो न कथञ्चिज्ज्ञानयोगे शक्तस्य कर्मयोगे सामर्थ्यासम्भवः ।
न च तृतीयः, परित्यक्तस्वर्गादिफलस्यापि पापक्षयादिफलसद्भावात्, नित्यकाम्यज्योतिष्टोमादिवदेकस्यैव विनियोगपृथक्त्वेन फलभेदोपपत्तेः ।
अन्यथा मुमुक्षुविषयकर्मयोगस्यैव अननुष्ठानप्रसङ्गात् ।
नापि चतुर्थः, कल्मषनिवृत्तेः सर्वदाऽपेक्षितत्वात् ।
कर्मयोगफलभूतस्थिरप्रज्ञतासिद्धौ कर्मयोगादभ्युत्थानं त्वयापीष्यत इति चेत्; सत्यम्, तथाऽपि तत्रानधिकारं न ब्रूमः ।
अत एव हि ज्ञानयोगयोग्यस्यापि अनुविधेयानुष्ठानस्य शिष्टतया व्यपदेश्यस्य सुकरनिष्प्रमादोपायशक्तस्य च कर्मनिष्ठैव श्रेयस्त्वेनानुशिष्यते ।
न च कर्मयोगाभ्युत्थितस्यापि ज्ञानयोगिनः स्ववर्णाश्रमकर्मनिवृत्तिं ब्रूमः ।
वर्णाश्रमधर्मा हि सर्वासु निष्ठासु इतिकर्तव्यतात्वेनावतिष्ठन्ते, न तु स्वयमेव कर्मयोगादिरूपाः ।
अत एव हि भक्तियोगावस्थस्यापि तदनुवृत्तिः ।
न च पूर्वकृतैः कर्मभिर्मृदितकषायस्य किमिदानीन्तनैरिति वाच्यम्; अमुक्तस्यात्यन्तमृदितकषायत्वा भावात् ।
आत्मदर्शनसिद्धौ किं
तदर्थेनेति चेन्न; अनिश्चितासद्भावपूर्वोत्तर ज्ञानावरणहेतुविनिवारणाय तदुपादानोपपत्तेः ।
न ह्यसम्भवदावरणं साङ्ख्यस्य ज्ञानम्; तथा सति तमः प्रयुक्तसुष्वापाद्यसम्भवप्रसङ्गात् ।
न च नास्ति सुष्वापः; *युक्तस्वप्नावबोधस्येति वचनात् ।
अत आत्मज्ञाने सिद्धेऽपि उत्तरोपचयसिद्ध्यर्थमपचयपरिहारार्थं वा ज्ञाननिष्ठैरपि स्ववर्णाश्रमोचितं कर्मोपसंहर्तव्यम् ।
न च पञ्चमः, इतिकर्तव्यताभूतनित्यनैमित्तिकांशेषु तावदकरणनिमित्तप्रत्यवायपरिहारादेः करणमन्तरेणान्यतोऽसम्भवात् ।
पवित्रतमं ज्ञानमेव तमपि प्रत्यवायं निरुन्ध्यादिति चेत्; इदमपि *नाविरतो दुश्चरितादित्यादिभिः प्रागेव दूषितम् ।
*यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते इत्यादिभिः ज्ञानयोगशक्तस्यापि तदेकफलत्वेन विकल्पिते कर्मयोगेऽपि सुकरोपायसङ्गादिवशादधिकारोपपत्तेश्च ।
षष्ठे तु चार्वाकादिसम्मतविस्रम्भान् शिष्यानेकान्ते शिक्षयत ।
तदेतदपि वर्णाश्रमधर्माणां यावज्जीवानुष्ठेयत्वप्रतिपादकेन भाष्येण व्यञ्जितम् ॥
आशरीरं प्रवृत्तत्वात्स्वभावप्राप्तकर्मणाम् ।
किमर्थं क्रियते द्वेषः शास्त्रप्राप्तेषु कर्मसु ॥ इति ।
॥इति शतदूषण्याम् अधिकारिविवेकवादः त्रिषष्टितमः ॥63॥