॥अथ परमते अपशूद्राधिकरणविरोधवादः द्विषष्टितमः ॥62॥
स्वे स्वे कर्मणि युञ्जनो मुखबाहूरुपादजान् ।
स्वयं नस्सम्प्रकाशेत स्वान्ते स्वच्छन्दसारथिः ॥
यत्तु भगवता बादरायणेन सूत्रितं शूद्रस्य ब्रह्मविद्यायामनधिकारित्वम्; तद्भवन्तः कथं निर्वहन्ति? किं शूद्रैर्निर्विशेषज्ञानस्य दुःसम्पादत्त्वात्, तत्सम्पत्तिसद्भावेऽपि वा ततः तेषामविद्यानिवृत्त्यसम्भवादिति ।
न प्रथमः, स हि तथाविधस्य ज्ञानस्य वेदैकजन्यत्वाद्वा? अवेदजन्यत्वेऽपि वेदसापेक्षत्वाद्वा? वेदावेदयोः शूद्रादिषु ज्ञानजनकत्वाशक्तेर्वेति?
आद्यस्तावदधिगतत्वत्सिद्धान्तेन त्वया नाङ्गीकर्तव्यः ।
आत्मघातुकतर्कानुगृहीतानुमानादिनापि निर्विशेषत्वस्य प्रपञ्चमिथ्यात्वादेश्च भवद्भिः साध्यमानत्वात् ।
न च निर्विशेषे श्रुतिसमधिगम्यं विशेषान्तरं सम्भवति ।
श्रुतेरपि भवद्भिरध्यस्तातद्रूपनिवृत्तिमात्रपरत्ववर्णनात् ।
आनन्दत्वादेरपि स्वरूपानुप्रवेशनिर्णयात् ।
नचानुमानादिषु सर्वत्र शूद्रस्यानधिकारश्शङ्कयः, लोकसिद्धान्वयव्यतिरेकमूलेषु त्वदुक्तेष्वाचण्डालमधिकारात् ।
यत्र च तिरश्चामप्यधिकारः तत्र द्विपदां कः परिपन्थी ।
अन्यथा तेषां सार्वलौकिकव्यवहारोच्छेदप्रसङ्गात् ।
निर्विशेषं तत्त्वमित्यादिलौकिकवाक्येन च तेषां तत्त्वज्ञानं सुलभमेव ।
न च ततस्तेषां निवर्तकं ज्ञानं नोपलभ्यत इति वाच्यम्; त्रैवर्णिकानां वैदिकवाक्येनापि तुल्यत्वात् ।
श्रवणमनननिदिध्यासनजनितविकल्पवैमुख्यानां दृश्यत इति चेत्; एवं लौकिकवाक्येऽपि तान्येव सहकारीकृत्य तत्सिद्धिं पश्य ।
न च सामग्रयां सत्यां क्वचित् ज्ञानं क्वचिन्नेति नियन्तुं शक्यम्, अनीश्वरेच्छया तन्नियमासिद्धेः ।
भवतु वा वेदैकमूलत्वम्, तथापि न शूद्रादेस्तत्रानधिकारः; व्युत्पन्नपदपदार्थानां तेषां ततोऽपि ज्ञानसम्भवात्; उत्पन्नेऽपि तत्त्वज्ञाने
वेदश्रवणतदर्थानुसन्धानादिमूलप्रत्यवायस्य भवन्मते प्रसङ्गाभावात् ।
यदा विश्वभ्रमोन्मूलनं ज्ञानमुदेष्यति तदा तदन्तः पातिनः कस्यचित् प्रत्यवायभ्रमस्य का वार्ता? नचानुपनीतस्यानघीतवेदस्याश्रुतवेदान्तवाक्यस्य *न शूद्राय मतिं दद्यादिति वचनबलान्निषिद्धाचार्यलाभस्य शूद्रादेः कथं ततो ज्ञानमिति वाच्यम्; दग्धाधिकारतया वेदशिरसि वर्तमानैर्भवद्भिर्वेदान्तानां तदर्थस्य च तेभ्योऽपि यथावदुपदेशसम्भवात् ।
न हि वो विधिनिषेधकिङ्करता ।
यथा ब्रूथ -*दग्धखिलाधिकारत्वात् ब्रह्मज्ञानाग्निना मुनिः ।
वर्तमानः श्रुतेर्मूघ्नि नैव स्याद्वेदकिङ्करः ॥ इति ।
यद्यपि *त्यजधर्ममधर्मं चेत्यादबिलाद्दुर्बलबुद्धिभिर्युष्मत्सयूथ्यैर्निषिद्धवर्जनमनुज्ञायते, तथाऽप्यन्यैः कैश्चिदुन्मर्यादैरर्थादिलिप्सया तेभ्यस्तदुपदेशः सम्भवत्येव ।
नचैवमस्मन्मते प्रसङ्गः, वक्तुरिव श्रोतुरपि प्रत्यवायेन तन्मूलोपासनादेः तेष्वसम्भवात् ।
उपासनविधीनां च उपनयनाद्यङ्गकाध्ययनविधिसिद्धस्वाध्यायसम्पन्नज्ञानत्रैवर्णिकाधिकारिलाभेन कर्मविधीनामिव तदितरेषु स्वसिध्यर्थं ज्ञानान्तरकल्पनौदासीन्यात् ।
तत एवोपबृंहणभूतेतिहासपुराणजन्यज्ञानस्यापि विधिभिरनादृतत्वात् ।
तच्छ्रवणानुज्ञानस्य पापक्षयादिमात्रफलत्वात् ।
उपास्यस्य च ब्रह्मणोऽनन्तविशेषस्यानुमानाद्यगोचरत्वात् ।
उपासनस्यैव वाक्यार्थज्ञानातिरिक्तस्य बन्धनिवर्तकत्वात्, बन्धस्य च सत्यत्वेनादृष्टद्वारा तन्निवृत्युपपत्तेरिति ।
एतेन द्वितीयोऽपि पक्षो निरस्तः, वेदसापेक्षत्वेऽपि तेषां तदधिगमोपायस्योक्तत्वात् ।
कथं वाऽनुमानादेर्वेदसापेक्षता? न तावत् तदङ्गतया तर्कादिवत्; कैश्चिदपि तथाऽनभ्युपगमात् ।
नापि कारणतया; वेदस्यैव व्युत्पत्त्यादावनुमानादिसापेक्षत्वेन वैपरीत्यात् ।
नापि नैसर्गिकलोकव्यवहारमूलतया तत्त्वबुभुत्साशून्यानां तद्भ्रान्तत्वसमर्पणमूलतत्त्वबुभुत्सोत्पदानद्वारेण; साङ्ख्यसौगतादिभिः प्रत्याक्षादिवृत्तपरीक्षाप्रवृत्तैस्तदुत्पत्युपपत्तेः, उत्पन्नायां च तस्यां भवदभिमतप्रत्यक्षानुमानादिभिर्निर्विशेषज्ञानसम्पादनोपपत्तेः ।
तिष्ठन्तु साङ्ख्यादयः, त्वदभिमततत्त्ववित्सम्प्रदायगतलौकिकवाक्यादपि तद्बुभुत्सा जायत एव ।
पश्यामश्चैतदद्यतनेषु ।
न च वेदानुवचनस्य
विविदिषासाधनत्वश्रुत्या तत्सापेक्षता; यज्ञादेरिव जन्मान्तरानुष्ठितस्यापि तस्यादृष्टद्वारा तद्धेतुत्वोपपत्तेः ।
अत एव न तृतीयः, व्युत्पत्त्यन्वयव्यतिरेकादिशालिषु त्रैवर्णिकेषु शूद्रादिषु च प्रमाणानां पक्षपातविरहात् ।
भवतु वा शूद्रादीनां यतः कुतश्चित्तत्त्वज्ञानाम्, त्रैवर्णिकानां तु वेदत एवेति नियमार्थमधिकरणमिति चेन्न; नियामकाभावात् ।
अधीतवेदत्वमेव
नियामकमिति चेत्; त्यज तर्हि अध्ययनक्लेशम्, शूद्रादिवल्लघीयसैवोपायेन तत्प्रयोजनसिद्धेः ।
अत एव चान्ततो वेदान्तोच्छेदः प्रसज्येत ।
नचाधीतवेदैरन्यतस्तदर्थो ज्ञातुं न शक्यः; तस्य तत्प्रतिबन्धकत्वाभावात् ।
नापि तेऽन्यतो न जानीयुरिति निषेधः ।
न च निषेधोल्लङ्घनेऽपि वःप्रत्यवाय इत्युक्तम् ।
नापि द्वितीयः, अन्यूनानतिरिक्तविषयत्वे कस्यचिद्बाधकत्वं कस्यचिन्नेति नियामकाभावात् ।
नचादृष्टदा वैषम्यम्, भवद्भिस्तथाऽनभ्युपगमात् ।
न च बाधे तत्त्वज्ञानातिरिक्तमपेक्ष्यते, नापि बाधातिरिक्ता निवृत्तिरिष्यते, यत्रादृष्टादिसापेक्षता स्यात् ।
अत एव हि ध्याननियोगवादिनोऽपि भवद्भिर्दूरीकृताः ।
न च प्रत्यक्षानुमानपुंवाक्यानां बाधकत्वमेव नास्ति, रज्जुसर्पादिभ्रमानुच्छेदप्रसङ्गात् ।
न च तानि ब्राह्मणादेरेव
रज्जुसर्पादिभ्रमबाधकानि न पुनः शूद्रादेरिति नियमं पश्यामः ।
न च विश्वबाधकैस्तदन्यबाधकैरपि न दृश्यत इति वाच्यम्, वैदिकवाक्येष्वपि तथा प्रदर्शितत्वात् ।
भवत्वेवं तत्त्वज्ञानतत्फलयोः सम्भवाच्छूद्रीदानामपि ब्रह्मविद्याधिकारः, तस्य मिथ्यात्वमात्रेण त्वनधिकारवाचोयुक्तिरिति चेत्; हन्तैवं त्रैवर्णिकानामप्यसौ मिथ्येति किं विशिष्याभिधीयत इति ।
तदेतत्सर्वं तत्रैवाधिकरणे प्रपञ्चितम् ।
शास्त्रोपक्रमेऽपि सन्मात्रस्य ब्रह्मणः प्रमाणान्तरगोचरत्वे तद्विषयस्यागमस्यानुवादत्वं प्रसञ्जयता सूचितम् ।
॥इति शतदूषण्याम् अपशूद्राधिकरणविरोधवादः द्विषष्टितमः॥ 62॥