॥अथ जीवैक्यभङ्गवादः एकषष्टितमः ॥61॥
पयोधितनयान्वितं परमधाम्नि यद्वर्तते सदा यदवलोकनं विदधते फणीन्द्रादयः ।
अत्रिमसरस्वतीवदनसन्ततास्वादितैर्गुणैरधिगुणं महः स्वयमनन्तमालक्ष्यते ॥
विगीतं मदविद्याकल्पितम्, विवादाध्यासितं चेतनजातमहमित्यादिषु किं सर्वत्राहमर्थैक्यं सिषाधयिषितम्? उत तद्धर्मसंविदैक्यम्? यद्वा तदुपलक्षितसन्मात्रैक्यम्? न प्रथमः, अपसिद्धान्तप्रत्यक्षादिविरोधप्रसङ्गात् ।
न ह्यहमर्थं सत्यमात्मानमनुमन्यसे, न चाहङ्काराणां स्वरूपैक्यम् ।
न च परदुःखादेः स्वदुःखादित्वमभिमन्यसे ।
* एको बहूनामित्यादि च न स्मरसि ।
अत एव न द्वितीयः, सर्वेषां सर्वज्ञत्वस्यासर्वज्ञत्वस्य वा प्रसङ्गाच्च ।
न तृतीयः, सर्वानुयायिसदैक्येऽप्यात्मैक्यासिद्धेः ।
नहि कस्यचित्सद्बुद्धिविषयमात्रे स्वात्माभिमानः, आत्माभिमानमात्रं वा; तथा सति देहात्मभ्रमादेर्विशेषतः परिहारे निदानाभावात् ।
आत्मनः सत्त्वं त्वयापीष्यत इति चेत्; सत्यमेतत्, नतु सतः सर्वस्यात्मत्वम् ।
आत्मव्यतिरिक्तस्य न सत्त्वमिति चेन्न; *तदनुप्रविश्य, सच्च त्यच्चाभवत् *कथमसतः सज्जायेतेत्यादिविरोधात् ।
किञ्च सतामैक्यं सर्वमानविरुद्धम्, सत्तैक्यं तु जात्यैक्यमात्रं स्यात् ।
सत्तैव महानात्मेति चेन्न; तस्यान्यधर्मत्वायोगात् ।
सतां हि भावः सत्ता, नतु सा स्वतन्त्रा ।
उक्तं च संवित्सिद्धौ *स्वैः स्वैर्व्यवस्थितै रूपैः पदार्थानां तु या स्थितिः ।
सा सत्ता न स्वतन्त्रा स्यात्तत्राद्वैतकथा कथम् ॥ इति ।
पारतन्त्र्यभ्रमोऽयमिति चेत्; स किं सत्ताया उत सतः? आद्ये विरोधः, सतां हि भावः सत्ता ।
द्वितीयेऽपि विरोधः, न हि सतां स्वधर्मभूता धीरस्ति ।
न चैतावता तेषामैक्यसिद्धिः ।
अपि च जीवैक्यं सत्यं मिथ्या वा? पूर्वत्रापसिद्धान्तः, अविद्यातत्सबन्धिजीवभावतदेकत्वादीनां मिथ्यात्वाभ्युपगमात् ।
उत्तरत्र जीवबहुत्वमपि तथैवेति किमन्यतरपक्षपातेन तत्साधनेन वा? प्रतीत्यनुसारेण जीवभेदपक्षे वा किं न पतसि? न च जीवैक्यं प्रातिभासिकम्; सर्वधीव्यवहारविरोधात् ।
नापि यौक्तिकम्; धर्मधीविरोधात्? प्रवृत्त्यादिभेदैर्हि परानुमानम् ।
नच स्वात्मपरात्मधीन्यायः, *वैधर्म्याच्च न स्वप्नादिवदिति सूत्रोक्तन्यायविरोधात् ।
स्वात्मनश्च ते तथैव प्रसङ्गात् ।
स्वात्मनश्च परं
प्रति परात्मित्वात् ।
नहि दृश्यवद्द्रष्टापि ते मिथ्याभूतः ।
व्यावहारिकसत्यत्वं तस्यास्तीति चेत्? स्वीकृतं तर्हि व्यावहारिकजीवबहुत्वं तदैक्यं चेति नैकत्र पक्षपातो युक्तः ।
यथा दृष्टवह्नोर्लिङ्गतो वह्न्यन्तरानुमितिः तथैव ह्यत्र आत्मान्तरानुमितिः ।
यद्यत्रैक्यं साध्यते, तर्हि वह्न्याद्यैक्यमपि किं न साध्यते? विरुद्धधर्मविहतेरिति चेत्तुल्यम् ।
न
चैकाश्रयतया सर्वदुःखादीनां प्रतिसन्धानमस्ति ।
अन्तःकरणाद्युपाधिभेदादप्रतिसन्धानमिति चेन्न; देहावयवबाह्येन्द्रियादिभेदेऽपि प्रसङ्गात् ।
स्वेच्छया विशेषवर्णनेऽप्यतिप्रसङ्गात् ।
महाप्रलयान्तरभाविनां महात्मनां केषाञ्चिदन्तः करणभेदेऽपि पूर्वकल्पानुभूतप्रतिसन्धानदर्शनाच्च ।
अद्यतनानां प्राग्भवीयाननुसन्धानवत् स्यादिति चेन्न; प्रायेण नरकक्लेशप्रसूतिव्यसनकालविप्रकर्षादिभिःसंस्कारविलयात् ।
न चेह तथा, स्वस्याप्यस्मरणापातादिति ॥
॥इति शतदूषण्यां जीवैक्यभङ्गवादः एकषष्टितमः ॥61॥