58 निर्विशेषब्रह्मणः नित्यत्वभङ्गवादः

॥अथ निर्विशेषब्रह्मणो नित्यत्वभङ्गवादः अष्टपञ्चाशः ॥58॥
पूर्ववृत्तचतुष्केऽपि पूर्वत्वेनोपवर्णिते ।
नित्यानित्यविवेकेऽत्र नित्यत्वं वो निरस्यते ॥
श्रूयते हि-* नित्यं विभुं सर्वगतम्, * नित्यो नित्यानामित्यादिभिरात्मतत्त्वनित्यत्वम् ।
तद्भवत्पक्षे नोपपद्यते, ब्रह्मव्यतिरिक्तमविद्याकालादिकं स्वरूपतोऽपि सर्वमनित्यं ब्रह्मैकमेव नित्यमिति हि वः सिद्धान्तः ।
तदेतत् ब्रह्मासाधारणनित्यत्वं किं सर्वकालसत्तारूपम्? उत कालावच्छेदनिवृत्तिरूपम्? अथवा प्रध्वंसरहितत्वम्? आहोस्विदबाधितत्वम्? उत निर्विकारत्वम्? यद्वा उभयावधिरहितत्वम्? किञ्चिद्धर्मान्तरं वा? नाद्यः, अविद्याया अपि
नित्यत्व प्रसङ्गात् ।
साऽपि हि सर्वेण कालेन सम्बध्यत एव, सर्वस्यापि कालस्य तत्कार्यत्वाभ्युपगमेन तदसम्बन्धानुपपत्तेः ।
साऽपि कदाचिन्निर्वत्तिष्यत इति चेत्; किमनेन? तन्निवृत्तौ तदुपादानकालावस्थानायोगात् तदसम्बद्धकालासिद्धेः ।

सर्वकालसम्बन्धे सत्यपि सर्वकालसत्ता नास्तीति विशेष इति चेत्तर्हि नित्यत्वलक्षणे सर्वकालपदवैयर्थ्यम्, सत्तैव नित्यत्वमित्येतावतैव ब्रह्मव्यतिरिक्तसर्वव्यवच्छेदात् ।
नचैवमस्त्विति वाच्यम्; सच्छब्दनित्यशब्दयोरपर्यायत्वेनैव प्रसिद्धेः ।
अतः सर्वस्मिन् काले स्वरूपलाभमात्रमेव नित्यत्वं वक्तव्यम्, तच्चाविद्यायामपि समानमिति न ततो विवेकः ।
न द्वितीयः, कालस्यापि तत्सद्भावेन ततो विवेकासिद्धेः ।
न हि कालः कालान्तरेणावच्छिद्यते, तथा सत्यनवस्थानात् ।
नापि स्वेन, कर्मकर्तृविरोधात् ।
न च स्वतः पूर्वापरभावेनावस्थितैः स्वांशैरवच्छिद्यत इति वाच्यम्; तथा सति वस्तूनामिव कालस्यापि क्षणिकत्वादिप्रसङ्गात् ।
समस्तस्वांशसमुदायावच्छेदान्न दोष इति चेत्; तत्र कोऽयमवच्छेदो नाम? किं तत्सम्बन्धित्वमात्रम्? किं वा तत्पूर्वोत्तरकालयोरविद्यमानत्वम्? उत तत्समकालभावित्वम्? यद्वा तदात्मकत्वमेवेति ।
आद्ये ब्रह्मणोऽप्यनित्यत्वप्रसङ्गः, तत्सम्बन्धस्यावर्जनीयत्वात्; तन्मिथ्यात्वात्तत्परिहारे घटादेरपि नित्यत्वप्रसङ्गात् ।
द्वितीये पूर्वोत्तरकालशब्दार्थासिद्धिः ।
न हि कालात्पर्वूं पश्चाच्च कालोऽस्तीति बालिशोऽपि ब्रूयात् ।
एवं नास्तीति न ब्रूयादेव,
स्ववचनविरोधप्रसङ्गात् ।
अत एव च कालस्यानाद्यन्तत्वसिद्धिरिति कुतस्ततो विवेकः? तृतीयेऽपि कालान्तराभावेन समकालशब्दार्थासिद्धिः ।
चतुर्थे तु घटादेर्नित्यत्वप्रसङ्गः, कालांशतादात्म्यलक्षणकालवच्छेदाभावात् ।

नच तृतीयः, प्रध्वंसस्य प्रध्वंसाभावेन नित्यत्वप्रसङ्गात् ।
ततः किमिति चेत्; ब्रह्मव्यतिरिक्तानन्तप्रध्वंसनित्यत्वेन ब्रह्मैकमेव नित्यमिति निर्बन्धानुपपत्तिः ।
नापि चतुर्थः, अबाधितताय लोकाभिमतेषु स(त्यर)म्यग्रजतादिषु नित्यशब्दप्रयोगादर्शनात् ।
नच लोकमन्तरेण शब्दार्थसम्बन्धसिद्धिः ।
न च बाधबुद्ध्या घटादिष्वनित्यशब्दप्रयोगो दृश्यते, भवदीयमुपदेशमविदुषां लौकिकानां तेषु तद्बुद्वयभावात् ।
नापि पञ्चमः, विकाराणां निर्विकारत्वेन नित्यत्वप्रसङ्गात् ।
तेषामपि सविकारत्वेऽनवस्थानात् ।
विकारन्तरोपादानत्वे च तेषां द्रव्यत्वप्रसङ्गाच्च ।
ततश्च द्रव्याणामनित्यत्वं तद्विकाराणां नित्यत्वमिति सर्वलोकविरोधादिप्रसङ्गः ।
ब्रह्मणश्च निर्विकारत्वानुपपत्तिः स्वावसरे द्रष्टव्या ।
नापि षष्ठः, व्यावहारिकोभयान्तवत्त्वस्य संविदात्मके ब्रह्मण्यपि समानत्वात् ।
पारमार्थिकस्य तस्य प्रपञ्चेऽप्यभावेन तस्यापि नित्यत्वप्रसङ्गात् ।
अत एवाबाधितमुभयान्तराहित्यमित्यपि निरस्तम्, प्रपञ्चगतोभयान्तराहित्यस्याप्यबाधितत्वात् ।
नापि सप्तमः, तत्किं नित्यशब्दप्रवृत्तिनिमित्ततया लोकव्युत्पत्तिसिद्धमुत नेति विचारणीयम् ।
आद्ये लोक एव प्रतिपक्षः ।
द्वितीये तु ब्रह्मण आैपचारिकनित्यत्वमेव वा पारिभाषिकं वा नित्यत्वमिति अनित्यतायामेव पर्यवसानम् ।
तथा च कुतो नित्यानित्यवस्तुविवेकः? किञ्च संविदनित्येति वदतः सौगतादीन् प्रति किं लोकोपलम्भसिद्धाया विषयग्राहिण्या एव संविदत्स्तवया नित्यत्वं साध्यते? उतलोकोत्तीर्णायाः कस्याश्चित्? आद्ये प्रत्यक्षादिविरोधः, विषयनित्यत्वप्रसङ्गश्च ।
अस्मदादिप्रत्यक्षज्ञानं तावत् घटादिकं स्वसत्ताकाले सन्तं साधयति न पुनः पूर्वोत्तरकालसत्तां विद्यमानामपि गृह्णाति ।
तत्कस्य हेतोः? स्वकालाकलितवस्त्ववभासित्वनियमात् ।
ततश्च यदि स्वयं कालानवच्छिन्ना संवित् स्यात् विषयस्यापि कालानवच्छेदेन प्रकाशप्रसङ्गः ।
तेनैवाबाधितेन तन्नित्यत्वमवर्जनीयम् ।
यदि पुनर्विषयिकालानवच्छेदेन विषयो गृह्यत इति मन्यसे, तथाऽप्येकयैव अस्मदाद्यैन्द्रियकसंविदा विषयस्य यावत्सत्त्वं प्रकाशप्रसङ्गो दुर्वारः ।
एवं वर्तमानतया वस्तु गृह्णन्तीष्वनुमानादिसंवित्स्वपि विषयनित्यत्वप्रसङ्गः समानः ।
याश्चातीततयाऽनागततया च स्वसंवेद्यं गृह्णन्ति ता अपि स्वकालापेक्षयाऽतीततयाऽनागततया च वस्तु गृह्णन्तीति स्वयं कालानवच्छेदे
स्वविषयाणामप्यतीतत्वागामित्वलक्षणकालावच्छेदो न स्यात् ।
द्वितीये त्वाश्रयासिद्धिः ।
शास्त्रसिद्धा सेति चेन्न; नित्यतया तत्सिद्धौ अनुमाननैरपेक्ष्यात्, अनित्यतया तत्सिद्धौ तु बाधात् ।
संविन्मात्रस्य च लोकसिद्धत्वेन शास्त्रागोचरत्वात् ।
किञ्च नित्यत्वं किं स्वरूपम्? उत धर्मः? पूर्वत्र स्वप्रकाशेनैव नित्यमित्युपलम्भप्रसङ्गः ।
धर्मत्वेऽपि किं स्वप्रकाशैकवेद्यम्? उतज्ञानान्तरवेद्यम्? पूर्वत्र स एव प्रसङ्गः ।
उत्तरत्रापि किं संविन्निष्ठतया ग्राह्यम्? उतान्यथा? आद्ये संविदोऽपि ज्ञानान्तरवेद्यत्वसधर्मत्वादिप्रसङ्गः ।
अन्तिमे संविन्नित्यत्वासिद्धिः ।
न हि नित्यत्वं कस्यचित्सिद्धमित्येतावता संविदो नित्यता सिध्येत् ।
तथासत्यविशेषेण सर्वेषामपि नित्यत्वप्रसङ्गः ।

एवमानन्दत्वादिधर्मेष्वपि विकल्पदूषणानि निपुणैरनुसन्धेयानि ।
एवञ्च सति संविन्नन्नितया अनुत्पन्नत्वात्, यदनित्यं तदुत्पन्नं यथा घट इत्यनुमानमपि निरस्तम्, प्रागभावेनानैकान्त्यात् ।
भावत्वे सतीति विशेषणेऽपि भवदभिमताविद्यायामनैकान्त्यं दुर्वारम् ।
सा ह्यनादिरन्तवती च भवन्मते ।
किञ्च संविच्छब्देन किमहमिति प्रत्यक्त्वेन
प्रतीयमानमात्मस्वरूपं पक्षीक्रियते? उत सकललोकप्रसिद्धा विषयग्राहिणी वित्तिः? उत सैव सकलविषयाश्रयविरक्ता भवद्भिः सह प्रव्रज्यां गतेति ।
न प्रथमः, सिद्धसाधनात् ।
न द्वितीयः, सकललोकविरोधात्; हेतोश्च स्वरूपासिद्धेः; करणानां चेन्द्रियादीनाम्, एतस्य
चानुमानप्रयोगप्रयासस्य निष्प्रयोजनत्वप्रसङ्गात् ।
तदभिव्यक्त्यर्थं तदपेक्षेति चेन्नित्यमभिव्यक्तत्वाभ्युपगमे (न) तदभिव्यक्तेस्तदनपेक्षणात्; अन्यथाऽस्मन्मतप्रसङ्गात् ।
भवदभिमतनित्यस्वयम्प्रकाशात्मस्वरूपस्यैव संविद्धैशद्यार्थं तदपेक्षेति चेन्न; वैशद्यासम्भवात्; स्थलान्तरे तस्यानुसन्धेयत्वात् ।
न च तृतीयः, आश्रयासिद्धयादेः प्रागेवोक्तत्वात् ।
अनेनैवानुमानेन तत्सिद्धिरिति चेन्न; अन्योन्याश्रयणात् तादृशसंवित्सिद्धौ तत्पक्षीकारेणैतदनुमानप्रवृत्तिः, तत्प्रवृत्तौ च तादृशसंवित्सिद्धिरिति ।
अनेनैव न्यायेन, अनुत्पन्नत्वात् निर्विकारेत्यादिसाध्यप्रयोगो दूषणीयः ।
तदेवं ब्रह्मासाधारणनित्यत्वासिद्धेर्न नित्यानित्यवस्तुविवेकः ।
नत्यमुपादेयमिति सामान्यविवेकमात्रमपि निपुणनिरूपणेन निष्फलमापन्नमिति ।
आनन्त्यानन्दनित्यत्वप्रभृतीनां स्वरूपतः ।
विभागे सविशेषत्वमविभागे त्वसत्यता ॥ सौगतोक्तेऽपि विज्ञाने स्वरूपं विद्यते ततः ।
नित्यतावदिवि(वाद) वेकस्ते नैरर्थक्येन जायते ॥
॥इति शतदूषण्यां निर्विशेषनित्यत्वभङ्गवादः अष्टपञ्चाशः ॥58॥

नृसिंहराजीया