57 निर्विशेषब्रह्मणः आनन्दत्वभङ्गवादः

॥अथ निर्विशेषब्रह्मण आनन्दत्वभङ्गवादः सप्तपञ्चाशः ॥57॥
ब्रह्मण्यानन्दशब्देन दर्शितां गुडजिह्विकाम् ।
निर्विशेषगृहीतानां वादिनां विलुनाम्यहम् ॥
श्रूयते हि -* विज्ञानमानन्दं ब्रह्म, * आनन्दो ब्रह्म, * कं ब्रह्म खं ब्रह्मेत्यादि ।
तत्र किमिदं ब्रह्मण आनन्दत्वं नाम? सुखत्वमिति चेत्तदपि किमिति विचारयामः ।
किमनुकूलवेदनीयत्वम्? उतानुकूलवेदनत्वम्? अथानुकूलत्वमात्रम्? यद्वा दुःखनिवृत्तिरूपतामात्रम्? उत ज्ञानात्मकत्वमेव? किञ्चिद्धर्मान्तरं वा? न प्रथम; वेदनीयत्वस्यानभ्युपगमात् ।
व्यावहारिकं तदस्त्विति चेत्तर्हि ब्रह्मण आनन्दत्वं व्यावहारिकमिति ब्रह्मणोऽनानन्दत्वमेव परमार्थः स्यात् ।
ततश्च व्यावहारिकदशायामनुकूलत्वं तन्निवृत्तिदशायां तन्निवृत्तिरपीति संसारस्यैव ग्राह्यत्वं मोक्षस्य दूरपरिहरणीयत्वमिति स्यात् ।
यदा कदाचिदनुकूलवेदनीयत्वं यावद्द्रव्यभाविन आनन्दत्वस्य उपलक्षणमिति चेत्तर्हि सांसारिकस्य सर्वस्यापि वस्युजातस्य * वस्त्वेकमेव दुःखाय, * तदेव प्रीतये भूत्वेति श्लोकद्वयोक्तप्रकारेण कदाचिदनुकूलवेदनीयत्वस्य सद्भावाद्याद्द्रव्यमानन्दत्वं स्यात् ।
ततश्च सप्रपञ्चतयैवानुभव उपादेयः स्यात्, सहस्रवतः पञ्चशतं किमधिकमिति न्यायात् ।
विषयानुकूल्यानुभवदशायां
ब्रह्मानन्दानुभवो न सिध्येदिति चेन्न; तस्य नित्यस्वयं प्रकाशत्वाभ्युपगमात् ।
वैशद्यावैशद्यादिदूषणं त्वन्यत्रैव ।
एवं वेदितुरभावादपि वेदनीयत्वासिद्धेः ।
व्यावहारिकदशायां तत्सद्भावमात्रमपि दत्तोत्तरमेव ।

नापि द्वितीयः; वेदनरूपत्वातिरिक्तानुकूलत्वाभ्युपगमे निर्विशेषवादापक्रमात्; तदनभ्युपगमे व्यर्थविशेषणत्वात्, पर्यायत्वादिप्रसङ्गाच्च ।
भिन्नार्थत्वे विशेषणत्वाभावे च घटः पट इतिवत् अनन्वयात् ।
न तृतीयः, आनुकूल्यस्यापेक्षिकत्वेन किञ्चिदपेक्ष्येत्यभ्युपगम्यत्वात् भवतश्च तदयोगात् ।
स्वात्मानं प्रतीदमानुकूल्यमिति चेन्न; प्रतिसम्बन्धित्वलक्षण स्वभावविशेषाभ्युपगमेऽपसिद्धान्तात्, अनभ्युपगमे तदुपाधिकानुकूलत्वस्यापि विनिवृत्तेः ।
अविद्याशबलितं स्वात्मानं प्रतीति चेत्; तर्हि तन्निवृत्तिदशायामानुकूल्यनिवृत्तिप्रसङ्गः प्राग्वदेव ।
नापि चतुर्थः, आैपनिषदमर्यादाबहिष्कारात्, अभावात्मकत्वप्रसङ्गाच्च ।
ब्रह्मणो दुःखनिवृत्तिरेव सुखशब्दवाच्यं भावान्तरमिति चेन्न; उदासीनावस्थायाः सर्वसम्मतत्वात्, पूर्वं निर्दुःखस्यापि शर्करादिरसास्वादजन्यसुखानुभवदर्शनाच्च ।
अन्यथा सुखनिवृत्तिरेव दुःखमिति वदन्तं प्रति किमुत्तरं भवेत्? अभ्युपगम एवोत्तरमिति चेन्न; द्वयोरपि भावरूपत्वासिद्धिप्रसङ्गात् ।
भावान्तराभाववादिना नैवं चोदनीयमिति चेन्न; भिन्नोपाधिक्रोडीकारेणोदासीनावस्थासङ्ग्रहसिद्धेः, स्वरूपत एव निरूपण(।
)सिद्धेश्च ।
किञ्च, समस्तदुःखनिवृत्तिरूपां सुषुप्त्यवस्थामुद्दिश्य, नाहमत्र भोग्यं पश्यामीति वदन्तं प्रति भोग्यात्मस्वरूपोपदेशदर्शनाद्दुःखनिवृत्त्यतिरिक्तसुखरूपमात्मस्वरूपमिति ज्ञायते ।
नापि पञ्चमः, *विज्ञानमानन्दं ब्रह्मेति सहप्रयोगेण व्यतिरेकसिद्धेः; न हीदं निघण्टुवत्पर्यायबोधनोपक्षीणं सङ्कीर्तनरूपं वा वाक्यम्, येन सहप्रयोगः सह्येत ।
यावता च विज्ञानत्वं ब्रह्मणः समर्थितं तावतैव हि भवताऽप्युपरन्तव्यम्, किमानन्दत्वोपपादनप्रयासेन ।
अपर्यायताबोधनिवृत्यर्थोऽयं प्रयास इति चेन्न; तथाविधविवादाभावात् ।
तत्सद्भावेऽपि महता प्रयासेनापि सर्वलोकप्रसिद्धस्यापर्यायत्वस्यापि दुरपह्नवत्वात् ।
दुःखरूपाणि च कानिचिद्विज्ञानान्युपलभ्यन्ते, तदपि ज्ञानमात्रस्य सुखरूपत्वे विरुद्धम् ।
भ्रान्त्या तदुपलम्भ इति चेन्न; विरोधिनि विज्ञानात्मकत्वे प्रकाशमाने तद्विरोधिनो दुःखरूपत्वस्यारोपासम्भवात् ।
न हि सुखरूपतया प्रकाशमाने दुःखरूपत्वं कदाचिदध्यस्यति ।
नापि षष्ठः, बहिष्कृतानुकूल्यस्य तस्यानन्दशब्दवाच्यत्वायोगात् ।
तत्प्रतीकारे उक्तदूषणानुवृत्तेरेव दुष्टत्वात् ।
ज्ञानात्मकत्वातिरेकानतिरेकविकल्पेनापि दत्तमेवोत्तरं मन्तव्यमिति ।
अतो न कथञ्चिदपि
निर्विशेषचिन्मात्रवादिनस्तदानन्दत्वसिद्धिरिति ॥
॥ इति शतदूषम्यां निर्विशेषब्रह्मण आनन्दत्वभङ्गवादः सप्तपञ्चाशः ॥57॥

नृसिंहराजीया