56 आनन्त्यनिरूपणवादः

॥अथ आनन्त्यनिरूपणवादः षट्पञ्चाशः ॥56॥
देशानामपि देशतामुपगतं स्वाभाविकाद्वैभवात् कालस्यापि कलाद्युपाधिकलनात्काल्यत्वहेतुं स्तुमः ।

निश्शेषेऽपि विभूतिकोटिघटिते निम्नोन्नते वस्तुनि स्वाच्छन्द्येन जहत्समाधिककथासम्भावनं तन्महः ॥
यत्पुनः परिभाषन्ते -अनन्तपदसामर्थ्यादेव ब्रह्मव्यतिरिक्तानन्तवस्तुमिथ्यात्वं सिध्यति ।
तथा हि -अनन्तशब्देन असङ्कोचात्सर्वविधपरिच्छेदाभावोऽप्युच्यते; परिच्छेदश्चतुर्धा -देशतः कालतो वस्तुतः स्वरूपतश्चेति ।
तत्र गगनकुसुमादिवत् स्वरूपपरिच्छेदः सद्रूपत्वेन प्रतिक्षिप्यते, तच्च सत्यपदेनैव सिद्धमित्यनन्तपदेन तद्विवक्षा भवतु वा मा वा, त्रिविधपरिच्छेदाभावस्तावद्विवक्षित एव ।
तत्र सर्वदेशसर्वकालव्यापित्वादत्र देशे नास्ति, अत्र काले नास्तीत्येंवरूपयोर्देशकालपरिच्छेदयोरभावः सिद्धः ।
वस्तुपरिच्छदेस्तु इदमिदं न भवतीत्येवंरूपः ।
आश्रयप्रतियोगिविशिष्टस्य भेदस्याभावो (भवन्) भेदतत्प्रतियोगितदाश्रयाणां सर्वेषामभावाद्वा अन्यतमाभावाद्वा? आद्ये शून्यवादावतारः ।
द्वितीयेऽपि सर्ववस्तुतादात्म्याद्वा, स्वव्यतिरिक्तसमस्तमिथ्यात्वाद्वा, स्वस्य तुच्छत्वाद्वा सम्भवति; तत्राद्यः पक्षोऽभ्यर्हितविरोधानामर्हन्मतार्हाणां भास्करादीनमेव युज्यते ।
अन्तिमस्त्वर्थो लोकायतिकानां निरीश्वरमीमांसकादीनाम् ।
अतो मध्यमः पक्षः परिशिष्यते ।
न च वाच्यं वस्त्वन्तराभावे तन्निरूपितपरिच्छेदाभावेन तन्निरूपणीयवस्तुपरिच्छेदाभावो दुर्वच इति; वस्तुपरिच्छेदाभावेन वस्तुपरिच्छेदाभावो दुर्वच इति स्ववचनव्याघातात् ।
ननु प्रत्यक्षाद्यविरोधेन वस्तुपरिच्छेदाभावो वर्णनीयः, अन्यथा प्रागुक्तपक्षयोरपि प्रतिक्षेपायोगात्,शक्यते चाविरोधेन निर्वहणम्; तथा हि -वस्तुना परिच्छेदो वस्तुपरिच्छेदः, यथा कुड्यादिभिरालोकादेः, स चास्य नास्तीति वस्तुपरिच्छेदरहितं ब्रह्मेति; तदसत्, देशपरिच्छेदादीदृशस्य वस्तुपरिच्छेदस्य विशेषाभावात् ।
स्वतः परिमितदेशा घटादयः, आलोकादयस्तु प्रसृमरतया स्वतोऽनेकदेशव्यापिनोऽपि कुड्यादिभिरुपाधिभिः परिच्छिद्यन्ते, इह तु कथं परिच्छेद इति चेन्न; तथाऽप्यदूरविप्रकर्षेण पृथक्प्रतिपादनप्रयोजनाभावात् ।
एतेन वस्तुपरिच्छेदो वस्तुनः परिमाणम्, देशपरिच्छेदस्तु तत्कार्यम् इति विभागोऽपि प्रत्युक्तः ।
न च वाच्यम्, इदमिदं न भवतीति (प्रतिषेधो) परिच्छेदो वस्तुपरिच्छेदः, स च सर्वशरीरिणो न सम्भवतीति;
*अस्थूलमनण्वह्नस्वमित्यादिनिषेधशतश्रवणात् ।
अन्यथा चिदचिदीश्वरस्वरूपविवेकाद्यनुपपत्तेश्च ।
न च सर्ववस्तुसामानाधिकरण्ययोग्यत्वेनेदमिदं न भवतीति निषेधैकान्त्याभावाद्वस्तुपरिच्छेदाभाव इति वाच्यम्; अमुख्यसामानाधिकरण्यस्यान्यत्रापि सम्भवात्, * आपो वा इदँ सर्वमित्यादिवत् ।
मुख्यसामानाधिकरण्यस्य तु ब्रह्मणोऽपि सर्वत्रासम्भवात् ।
न हि शरीरं ब्रह्मेत्यादिसामानाधिकरण्यं दृष्टमिष्टं श्रुतं वा ।
एवमूहान्तरेष्वपि दूषणमूहनीयम् ।
ततश्च स्वव्यतिरिक्तसमस्त वस्तुमिथ्यात्वादेव ब्रह्मणो वस्तुपरिच्छेदाभाव इति ॥
अत्रोच्यते ।
शास्त्रप्रत्यक्षयोर्विरोधे प्रत्यक्षप्राबल्यं तावत् स्तिथमन्यत्र ।
अत एव अनन्तपदश्रुत्यन्यथानुपपत्त्याऽपि न प्रत्यक्षादिविरुद्धं प्रपञ्चमिथ्यात्वं सुसाधम् ।
अतो भवदभिमतवस्तुपरिच्छेदाभावो दुरुपपादः ।
भास्करादिपक्षेऽपि सर्ववस्त्वैक्ये सत्यपि भेदस्यापि विद्यमानत्वात्परिच्छेदनिषेधोऽनुपपन्नः, अन्यथा भेदाभेदस्यापि विलयप्रसङ्गात् ।
केवलाभेदपक्षस्तु सर्वव्यवहारविलोपप्रसङ्गेन यौक्तिकाभासैरपि नाभ्युपगम्यते ।
अभेदमात्रमस्तीत्येतावता वस्तुपरिच्छेदाभाववचनं त्वमुख्यम् ।
यत्तूक्तं वस्तुना परिच्छेद इति पक्षे वस्तुपरिमाणपक्षे च देशपरिच्छेदात् पृथग्व्यपदेशप्रयोजनं नास्तीति; तदयुक्तम्, विरुद्धार्थप्रतिपादनादल्पप्रयोजनार्थ प्रतिपादनस्यैव वरिष्ठत्वात् ।
भवत्पक्षेऽपि
वस्तुपरिच्छेदाद्देशकालपरिच्छेदयोरनतिभेदेन पृथग्व्यपदेशप्रयोजनाभावप्रसङ्गः ।
यदा हि स्वव्यतिरिक्तसमस्तवस्तुमिथ्यात्वेन वस्तुपरिच्छेदाभावः, तदा देशकालयोरेवाभावात्तदधीनपरिच्छेदस्याप्रसक्तत्वेन तन्निषेधो निरर्थकः ।
यदि पुनः त्रयाणां परिच्छेदानां स्वरूपभेदात् घटादिषु च दृष्टेरत्र तन्निषेध इति तत्परोक्तयोरप्यर्थयोः समानमेव ।

यच्चोक्तं सर्ववस्तुसामानाधिकरण्ये मुख्यामुख्यविकल्पेन दूषणम्, तदपि मन्दम्; स्वव्यतिरिक्तसमस्त द्रव्यशरीरिणस्तद्द्रव्यवाचिभिरनिष्कर्षकैः शब्दैः प्रतिपादने विवक्षिते दोषकथाभावात् ।
ततश्चात्र वस्तुपरिच्छेदो नाम स्वस्मात्पृथक्सिद्धाद्वस्तुनो भेदः, स च सर्वप्रकारस्य ब्रह्मणो न सम्भवतीति, स्वरूपभेदमात्रस्य निषेधो निषेधशतदुःस्थत्वादविवक्षित एवेति विवेकानुपपत्तिचोद्यं नावतरति ।
अयं त्वर्थः प्रत्यक्षाद्यविरुद्धश्रुतिस्मृतिसूत्रानुगृहीतश्चेत्ययमेवारम्भणाधिकरणभाष्ये प्रदर्शितः ।
यथा -* भेदवादिनस्तु सर्वचिदचिद्वस्तुशरीरत्वेन ब्रह्मणः सर्वप्रकारत्वात् स्वतःपरतः परिच्छेदोऽपि विद्यमानत्वादिति चेत्; सत्यम्,
तथाविधवस्तुपरिच्छेदस्य श्रुतिभिरेव प्रतिपाद्यमानत्वात्, विश्वमिथ्यात्वपक्षेऽपि ततः परिच्छेदोक्तेः त्वयाऽभ्युपेतत्वाच्च तन्निषेधो न शक्यः ।
यदि च वस्त्वन्तराभावाद्वस्तुपरिच्छेदाभाव उच्यते, तर्हि भवत्पक्षे घटादेरपि वस्त्वन्तराभावात्तत्सिद्धिः स्यात् ।
ब्रह्माख्यं वस्त्वन्तरं तस्य विद्यत इति चेन्न; तत्स्वरूपसद्भावेऽपि तयोर्भेदस्य मिथ्यात्वेन तस्य वस्त्वन्तरत्वायोगात् ।
व्यावहारिकं वस्त्वन्तरत्वं तस्य विद्यत इति चेत्तद्ब्रह्मापेक्षया घटादेरपि समानम् ।
नच तदपेक्षया ब्रह्मणः परिच्छेदोऽपि मिथ्याभूतः; जडाजडैक्यप्रसङ्गादेरन्यत्रोक्तेः ।
स्वसजातीयवस्त्वन्तरसद्भावो वस्तुपरिच्छेद इति विशेष इति चेन्न; यथाकथञ्चत्सजातीयत्वविवक्षायां प्रकाशमानत्वादिरूपेण ब्रह्मणः सजातीयस्याविद्यादेर्विद्यमानत्वात् ।
नचाविद्यादेरवस्तुत्वेन परिहारः, घटादेरपि समानत्वस्योक्तत्वात् ।
न हि घटाद्यपेक्षया वस्तुतः सजातीयत्वादिकं ब्रह्मणः ।
घटादिस्वरूपस्यापि मिथ्यात्वाद्विशेष इति चेत्, किमतः? मिथ्यात्वेऽपि घटादेः पटत्वाद्यभाववद्वस्तुपरिच्छेदाभावस्यापि सिद्धेः ।
अस्त्वेवम्, तथाऽपि सत्यस्य ब्रह्मणोऽपि तत्सिद्धिरस्त्येवेति चेन्न; इतरवैलक्षण्यार्थानि सत्यज्ञानानन्तपदानीति स्वसिद्धान्तभङ्गप्रसङ्गात् ।
सर्वथा सजातीयवस्त्वन्तरसद्भावो वस्तुपरिच्छेद इति तदभावविवक्षायां प्रपञ्चसत्यत्वेऽपि न कश्चिद्दोषः ।
ब्रह्मणस्तद्विभूतिप्रपञ्चेन अत्यन्तसाजात्याभावस्य ब्रह्मलक्षणादिवशादेव सिद्धेः ।

किञ्च देशकालपरिच्छेदाभावोऽपि न घटादिव्यावर्तकः, सत्यदेशकालपरिच्छेदस्य घटादावप्यभावात्; मिथ्यादेशकालपरिच्छेदस्य ब्रह्मण्यपि विद्यमानत्वस्य भवतैव स्वीकारात् ।
किञ्च देशकालपरिच्छेदाभावो न देशकालयोः स्वरूपनिषेधगर्भः वस्तुपरिच्छेदाभावेनैव तत्सिद्धेः ।
तद्वद्वस्त्वन्तरस्वरूपे सत्येव तत्प्रयुक्तपरिच्छेदाभावो न वर्णनीयः, अन्यथा वैरूप्यात् ।
सम्भवतश्चैकरूपस्य परित्यागायोगात्, सम्भवति तदस्मत्पक्षे सर्वेषु वस्तुषु यथाप्रमाणमवस्थितेष्वेव प्रतिघातपरिणामपृथक्सिद्धयादिलक्षणपरिच्छेदस्य प्रतिक्षेपात् ।
किञ्च अनन्यथासिद्धानेकश्रुतिगणप्रतिपन्नस्य ब्रह्मविभूत्यादेरनेकार्थ साधारणैकानन्तपदस्वारस्यानुरोधाय(घेन)बाधो न युक्तः ।
तदनुरोधेनैव त्वेकानन्तपदस्वारस्यं सङ्कोचनीयम् ।
ततश्च प्रत्यक्षाद्यविरुद्धत्रिविधपरिच्छेदाभाव एवात्र विवक्षित इत्यङ्गीक्रियताम् ।
अन्यथाऽनन्तपदश्रुत्यसङ्कोचाय सङ्ख्यातोऽपि परिच्छेदाभावस्वीकारेण ब्रह्मबहुत्वप्रसङ्गात् ।
एकत्वश्रुतिवशाद्वस्तुपरिच्छेदाभावेनान्योन्य व्याघाताच्च तत्परित्याग इति चेत्तर्हि प्रपञ्चसत्यत्वप्रतिपादकप्रत्यक्षश्रुत्यादिवशात्तत एव व्याघाताच्चेदृशवस्तुपरिच्छेदाभावोऽपि परित्याज्य एव ।
यदि च
त्रिविधपरिच्छेदाभावेऽवश्यमभिसन्धिः, तर्ह्यविरुद्धः परिच्छेदाभावेऽत्र स्वीक्रियताम् ।
सम्भवन्ति चान्येऽपि व्यवच्छेद्याः परिच्छेदभेदाः वस्त्वन्तरप्रतिघातवस्तुपरिमाण स्वतन्त्रवस्त्वन्तरसद्भावादयः ।
एवं वस्तुपरिच्छेदाभावः; उत्कृष्टेन वस्तुना उत्तरावधिभूतेन परिच्छन्नं ह्यपकृष्टं वस्तु, तथाविधोऽपकर्षो ब्रह्मणो नास्तीति ।
अस्मिंश्चार्थे विवक्षिते तस्य सर्ववस्तुशरीरित्वेन सर्वात्मकत्वमप्यन्तर्गतं भवति ।
एवं सति *उल्लङ्घितत्रिविधसीमसमातिशायि सम्भावनं तव परिव्रढिमस्वभावमिति भगवद्यामुनाचार्यवचनं गोबलीवर्दन्यायेन फलफलिनिर्देशेन वा नेतव्यम् ।
आरम्भणाधिकरणभाष्यमप्येतत्परमेव योजनीयम् ।
अतः सिद्धं सत्यैरेव देशकालवस्तुभिरपरिच्छिन्नं सर्वदेशकालव्यापि सर्वान्तरात्मभूतं सर्वैर्मङ्गलगुणैः समस्तहेयप्रतिभटतया च सर्वस्मात्परं ब्रह्मानन्तपदनिर्दिष्टमिति नातः प्रपञ्चमिथ्यात्वसिद्धिरिति ॥
॥इति शतदूषण्याम् आननत्यनिरूपणवादः षट्पञ्चाशः ॥56॥

नृसिंहराजीया