54 मायोपादानत्वान्यथानुपपत्तिभङ्गवादः

॥अथ मायोपादनत्वान्यथानुपपत्तिभङ्गवादः चतुःपञ्चाशः ॥54॥
यत्प्रपत्तिं विना सर्वैर्यस्य माया दुरत्यया ।
धनञ्जयरथोत्तंसं तत्प्रपद्ये परं महः ॥
यदुच्यते -* मायां तु प्रकृतिं विद्यादिति विश्वस्य मायोपादानकत्वश्रवणात्, मायाशब्दस्य च मिथ्यार्थत्वात् मिथ्योपादानकस्य च सत्यत्वायोगाद्विश्वमिथ्यात्वं सिद्धमिति; तदपि स्तनन्धयकथितम् ।
तत्र तावत् श्रुतौ वचनव्यक्तिर्विपर्यासिता ।
नहि तत्र
प्रकृत्यनुवादेन मिथ्यात्वं विधीयते, अपि तु मायानुवादेन प्रकृतित्वम् ।
तुशब्दोऽपि तस्यैवानुकूलः ।
पूर्वस्मिन्वाक्ये *अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः इति प्रसक्तयोर्मायामायिशब्दयोरर्थमविदुषस्तज्ज्ञानोपजननायैव हि * मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमित्युच्यते ।
अतो मायेत्युक्ता सा जगदुपादानतयोपनिषत्प्रसिद्धा प्रकृतिरेव ।
यश्च मायीति निर्दिष्टः स च प्रकृत्यधिष्ठाता चिदचिच्छरीरको महेश्वर एवेति वचनव्यक्तिः ।
स्ववाक्येऽपि यच्छब्दाद्यभावेऽपि
प्रथमचरमभावेनोद्देश्योपादेयव्यवस्था सिद्धा ।
तथा ह्याहुः -*यद्वृत्त(च्छब्द)योगः प्राथम्यमित्याद्युद्देश्यलक्षणमिति ।
अस्तेववं वचनव्यक्तिः, तथाऽपि प्रकृतेर्मायाशब्द वाच्यत्वसिद्धेर्मिथ्यात्वमपि सिध्यतीति चेन्न; मायाशब्दस्य मिथ्यार्थपरत्वेऽप्युपचारतोऽपि तत्र तत्प्रयोगसम्भवेन वाच्यत्वनिर्णयासिद्धेः ।
नहि प्रकृतिर्मायाशब्दवाच्येति श्रुत्यर्थः, अपि तु अत्र मायाशब्देन प्रकृतिर्विवक्षितेति ।
तथाऽपि मुख्यार्थे बाधकभावादुपचारवृत्तिरत्रानुचितेति चेन्न; प्रकृतित्वान्यथानुपपत्त्यैव बाधात् ।
कारणसत्यत्वं च बहुशो मृद्दृष्टान्तादिभिर्निदर्शितम् ।
* अचेतनापरार्ता च नित्या सततविक्रिया ।
*
गौरनाद्यन्तवती सा जनित्री भूतभाविनी इत्यादिभिः प्रकृतिनित्यत्वसिद्धेश्च तन्मिथ्यात्वं निरस्तम् ।
सत्यत्वेऽपि केन मिथ्यात्वोपचारः किमर्थश्चेति चेत्; अस्थिरतरभोगप्रसाधकत्वेन स्वप्नार्थतुल्यतया जिहासितत्वज्ञापनार्थ इति मन्वीथाः ।
न च मायाशब्दो मिथ्यार्थवाची, विचित्रसृष्टयुपकरणभूतार्थाभिधायित्वात् ।
सर्वप्रयोगानुगतनिमित्तसम्भवे नानारूपार्थोपादानस्य निरस्तत्वात् ।
नच मिथ्यार्थेष्वेव तत्प्रयोगः येन तत्रैव तच्छक्तिः कल्प्येत, अपि तु सत्येष्वपि; यथा * यावन्तः पांसवो भूमेस्सङ्ख्याता देवमाययेति ।
न हि मिथ्याभूतस्य कस्यचित्सङ्ख्यानकरणत्वं प्रतीमः ।
*माया वयुनं ज्ञानमिति नैघण्टुकानुसारात् अर्थौचित्याच्च ज्ञानविषयत्वमेव तत्रोचितम् ।
तथा * माया सततं वेत्ति प्राणिनां तु शुभाशुभमिति च ।
तथा *तेन मायासहस्रं तच्छम्बरस्याशुगामिना ।
बालस्य रक्षता देहमेकैकश्येन सूदितम् ॥ इति ।
नहि मिथ्याभूतस्य कस्यचिच्छस्त्रच्छेद्यत्वम्; अपि तु तत्त्वोपदेशादेव तन्निवृत्तिः ।
तथाऽप्यनेकशक्तिकल्पनायां गौरवात्तत्रौपचारिकोऽयं प्रयोग इति चेन्न; विपर्यासस्य दुर्वारत्वात् ।
प्रसिद्धिकर्षान्मिथ्यात्वे(र्थे) शक्तिरङ्गीक्रियत इति चेन्न; मिथ्यापर्यायत्वेन मायाशब्दस्यप्रसिद्धेरेवाभावात् ।
न हि स्वदृग्दोषादिमात्रमूलभ्रमविषयेषु शुक्तिरजतरज्जुसर्पादिषु मिथ्याशब्दप्रयोगविषयेष्वपि क्वचित् कदाचिदपि मायाशब्दप्रयोगो दृष्टचरः ।
अतो यत्रेन्द्रजालादिमूलभ्रान्तिविषयेषु मायाशब्दप्रयोगः तत्रापि मिथ्यात्वमन्तरेण निबन्धनान्तरमस्तीति निश्चीयते ।
तच्च किमिति निरूप्यमाणेऽप्यैन्द्रजालिकवदिन्द्रजिदादौ मायाविशब्दप्रयोगात् तत्र चालीकत्वस्याविवक्षितत्वात् सत्यस्य वाऽसत्यस्य वा विचित्रार्थस्य सृष्टौ प्रकाशने वा सामर्थ्यवानित्येव मायाविशब्दार्थः ।
तच्च सामर्थ्यं सत्यो मन्त्रौषधादिरेव, तदनुबन्ध्यतीन्द्रियशक्तिविशेषो वा ।
ततश्च मायाजन्यज्ञानविषयतया मिथ्याभूतेष्वप्यर्थेषु लक्षणया मायाशब्दप्रयोग उपपद्यते ।
मायोत्थज्ञानवेद्येऽर्थे युक्ता मायेति लक्षणा ।
मिथ्यासम्बन्धरहिते नास्त्रादौ सत्यकारणे ॥ नहि पर्वतसमुद्रपावकादिहेतुष्वस्त्रविशेषेषु, मिथअयासम्बन्दघन्धरहितेषु मायाशब्दोपचारस्सम्भवति ।
मिथ्यार्थसादृश्यात् तत्र गौणोऽयं प्रयोग इति चेन्न; विपरिवर्तप्रसङ्गस्य प्रागेवोक्तत्वात् ।
लक्षणापेक्षया गौणवृत्तेर्जघन्यत्वाच्च ।
मुख्यलक्षणावृत्तिभ्यां प्रयोगनिर्वाहे सम्भवति मुख्यगौणवृत्तिभ्यां निर्वाहस्यानुचितत्वात् ।
अतो विचित्रसृष्ट्युपकरणभूतार्थ विशेष एव मायाशब्दशक्तिः ।

नन्वेवमपि सर्वप्रयोगानुगतं निमित्तं न सिध्यति, * मेघोदयस्सागरसन्निवृत्तिः इत्यारभ्य* विष्णोर्विचित्राः प्रभवन्ति मायाः इति
प्रयुज्यते ।
तथा *देवमायेव निर्मिता, *सङ्ख्याता देवमायया, * मायया सततं वेत्तीत्यादिषु निर्दिष्टनिमित्तासिद्धेरिति चेन्न; आद्ययोर्मायाकार्यतया लक्षणयाऽपि प्रयोगोपपत्तेः ।
मुख्यत्वेऽपि तत्र न दोषः, मेघोदयादीनामपि विचित्रवर्षादिस्रष्टुरीश्वरस्य तत्तत्सृष्ट्युपकरणत्वाविशेषात् ।
* देवमायेव निर्मितेत्यत्रापि स्त्रीरूपेण परिणता देवानां मायेत्यर्थः ।
न चात्र कस्यचिदपि शब्दस्य लक्षणा, अभूतोपमामात्रस्य विवक्षितत्वात् ।
* सङ्ख्याता देवमाययेत्यत्र तु निघण्ट्वनुसारादौचित्याच्च ज्ञानमेव विवक्षितम् ।
तथाऽपि घटज्ञानमित्यादिषु घटमायेति प्रयोगादर्शनादाश्चर्यावहत्वमात्रेण तत्र मायात्वोक्तिः ।
नैघण्टुकाश्च शक्तिविषयमनादृत्य प्रयोगविषयमात्रं सङ्गृह्णन्तीति बहुलमुपलभ्यते ।
सम्भवति चास्मदुक्तं मुख्यनिमित्तमत्रापि, इतराशक्याश्चर्यतरभूमि पांसुसङ्ख्यानसर्वप्राणिशुभाशुभविवेकादिहेतुत्वात् ।
अस्तु वा ज्ञानपर्यायत्वं क्वचिन्मायाशब्दस्य, तथाऽपि तद्व्यतिरिक्तविषयेषु पूर्वोक्तमेव निमित्तम् ।
न हि गत्यभावात् क्वचिच्छक्तिभेदकल्पनेत्यत्रापि तथा कॢप्तिः, गौर्वाहीक इत्यत्रापि शक्त्यन्तरकॢप्तिप्रसङ्गात् ।
किञ्च मिथ्यारूपमायोपादानत्वेऽपि तदुत्पन्नमात्रस्य प्रपञ्चस्य मिथ्यात्वं न सिध्यति, न विलक्षणाधिकरणन्यायेन विलक्षणादपि विलक्षणकार्योत्पत्तिसम्भवात् ।
असत्यात्सत्योत्पत्तेर्युष्माभिरेव स्वीकारात् ।
असत्यस्य सत्यनिमित्तत्वमात्रमुदाह्रियते, न तु सत्योपादानत्वमिति चेन्न; तुल्यन्यायत्वात् ।
न ह्यस्ति राजशासनं मिथ्याभूतेन निमित्तेनैव
भाव्यं न तूपादानेनेति ।
उपादानोपादेययोस्तादात्म्यादुपादानस्य मिथ्यात्वे कार्यस्य सत्यत्वे च सत्यमिथ्यात्वयोरेकताप्रसक्तिरिति चेन्न; उपादानत्वोपादेयत्वादिवत्सत्यत्वमिथ्यात्वयोः क्रमेणाविरोधात् ।
नन्वेकस्य पूर्वापरीभूतावस्थाभेदवत्त्वमुपपन्नम्, एतावता कथं स्वरूपतो मिथ्याभूतमुत्तरस्मिन् काले सत्यं भवेदिति चेन्न; पूर्वस्मिन्
काले स्वरूपेणास्त एव द्रव्यस्यावस्थाविशेषस्येवोत्तरकाले सत्त्ववदविरोधात् ।
तयोरुत्तरकालवर्तित्वेन सत्त्वं पूर्वकालेऽप्यस्तीति चेन्न; तस्य तत्कालेऽपि प्रामाणिकत्वमात्रस्यात्रापि समानत्वात् ।
तत्कालसंसर्गविवक्षायां विरोधात् ।
अतः उपादानमिथ्यात्वे श्रुतिसिद्धेऽपि न कार्यमिथ्यात्वसिद्धिः ।
उपादानसत्यत्वमेव च सद्विद्याष्वसत्कार्यवादनिरासपूर्वकं *मृत्तिकेत्येव सत्यमिति *सन्मूलस्सोम्येमा इत्यादिभिरभिधीयते ।
एवमुपादानमिथ्यात्वेऽपि कार्यसत्यत्वाविरोधोपपादनन्यायेन कार्यमिथ्यात्वेऽप्युपादानसत्यत्वाविरोधोऽप्युपपादित एवेति मिथ्याभूतस्य मिथ्याभूतमेवोपादानं भवितुमर्हतीत्यनिर्वचनीयाज्ञानकल्पनमपि निरस्तमति ॥
॥इति शतदूषण्यां मायोपादानत्वान्यथानुपपत्तिभङ्गवादः चतुः पञ्चाशः ॥54॥

नृसिंहराजीया