॥अथ ब्रह्मोपादनत्वान्यथानुपपत्तिभङ्गवादः त्रिपञ्चाशः ॥53॥
सद्ब्रह्मादिमुखैः पदैः श्रुतिषु यत्तत्वं समुद्धोषितं स्यामित्येव चराचरं जगदिदं सृष्ट्वा प्रविश्याभवत् ।
तस्मै विस्मयनीयमङ्गलगुणस्थेम्ने सदा स्थायिने सर्वावस्थसमस्तवस्तुवपुषे धाम्ने परस्मै नमः ॥
अस्तु तर्हि ब्रह्मोपादानत्वान्यथानुपपत्त्या विश्वमिथ्यात्वसिद्धिः ।
तथा हि-केवलनिमित्तेश्वरवाद प्रतिक्षेपेण (मुखेन) ब्रह्मण एवोपादानत्वमपि * प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्यादिभिः समर्थितम् ।
तदेतदुपादानत्वं किं मृद्धटादिवत् स्वरूपतः? उत बालयुवादिवत् सूक्ष्मचिदचिद्विशिष्टवेषेण? अथवा रज्जुसर्पादिवदविद्यावैचित्र्यनिबन्धनभ्रान्त्यैवेति ।
न तावत् प्रथमः,
निर्विकारत्वनिरवद्यत्वश्रुति (कोप) क्षोभप्रसङ्गात् ।
नचांशभेदेन कालभेदेन वा विषयव्यवस्था, निरवयवत्वाकालकाल्यत्वादि स्वभावविरोधप्रसङ्गात् ।
नच सावयवत्वादिकमपि तथैव व्यवस्थाप्यम्, तथाऽपि तदात्मके ब्रह्मण्येव समस्तदोषप्रसङ्गस्य दुष्परिहरत्वात् ।
नच ब्रह्मांशानां ब्रह्मणोऽत्यन्तभेदं वा ब्रह्माध्यस्तत्वं वा स्वप्नेऽप्यङ्गीकरोषि ।
श्रुतिबलादेव ब्रह्मणि सर्वात्मके सावयवत्वनिरवयवत्वसदोषत्वनिर्दोषत्वोपादानत्वादि सर्वमभ्युपगच्छाम इति चेन्न; व्याघातोत्सादे पूर्वपक्षस्यापि अप्रतिक्षेप्यत्वात् ।
तथा चालं ब्रह्ममीमांसानिरूपणक्लेशेन नापि द्वितीयः, विशिष्टस्योपादानत्वे प्राप्ताप्राप्तविवेकेन विशेषणस्यैवोपादानत्वापातात् ।
यदि पुनर्विशिष्टमुपादानमित्यत्र विशेषणं विशेष्यं चेत्युभयमप्युपादानमिति विवक्षितम्, तदा विशेष्यस्यापि सविकारत्वप्रसङ्गो दुर्वारः ।
तथा च किं विशेषणवैशिष्ट्यवृथाग्रहेण?
किञ्च, यदि चिदचिदीश्वरैः सम्भूय जगदाख्यं कार्यमारभ्यते, तदा कार्याणां सर्वेषां त्रिस्वभावत्व प्रसङ्गः, यथा शुक्लकृष्णरक्ततन्त्वारब्धे पटे शुक्लकृष्णरक्तस्वभावत्वम् ।
सीसताम्रारब्धकार्यस्येव वा त्रितयोत्तीर्णस्वभावत्वप्रसङ्गः ।
लाक्षारसावसिक्तकार्पासकुसुमरागवत्, रुमाप्रक्षिप्तकाष्ठलावण्यवद्वा विश्वस्याप्यनभिभवनीयेश्वरस्वभावत्वापत्तिः ।
किञ्च विशिष्टस्योपादानत्वं किं श्रौतमुत कल्पितम्? न पूर्वः; कारणवाक्यस्थसद्भ्रह्मात्मादिशब्दानां ब्रह्मस्वरूपमात्रे रूढत्वात् ।
उक्तं च भवतां भाष्येऽपि *शरीरिभूतपरमात्माभिधायिभिः सद्ब्रह्मादिभिश्शब्दैरिति ।
न च स्वरूपे च विशिष्टे च शक्तिरित्यनेकार्थताकॢप्तिः; कल्पकाभावात्, कल्पनागौरवोपहतत्वाच्च ।
एवं *ब्रह्म वनं ब्रह्म स वृक्ष आसीत्; * तदात्मानं स्वयमकुरुत, * यद्भूतयोनिं परिपश्यन्ति धीराः, इत्यादिभिरपि ब्रह्मस्वरूपस्यैवोपादानत्वं श्रूयते ।
नाप्युत्तरः, कल्पकाभावात्; प्रत्युत समस्तभेदरहितस्यैकस्यैव कारणवाक्येऽवधारणात् तद्विरोधिविशेषणकल्पनं वाक्यतात्पर्यविरुद्धं च ।
अतःइदमिति निर्दिष्टकृत्स्नप्रपञ्चरूपेण *बहु स्यामिति स्वरूपस्यैव बहुभवनसङ्कल्पपूर्वकोऽयं विश्वारम्भः ।
मृद्धटादिदृष्टान्तानुसाराच्च स्वरूपस्यैवोपादानत्वं सिद्धमिति स्वरूपनिर्विकारश्रुतिविरोधपरिहारे तृतीयपक्षः ।
परिशिष्यते ।
यथा चैकैव रज्जुः सर्पभूदलनाम्बुधारादिरूपेण भ्रमादनुवर्तते, यथा चैकस्मिन्नेव निरवयवे गगने युगपदनन्तभेदभिदुरगन्धर्वनगरारम्भः, यथा च मुखचन्द्रादेः दर्पणतरङ्गाद्युपाधिभेदेन मुखचन्द्रगतनानात्वोपलम्भः, तथा निरंशेऽपि निर्विशेषस्वप्रकाशे स्वतश्शुद्धे ब्रह्मण्यसम्भवद्विकारे दुर्निरूपदोषमूलविकल्पासहविचित्रचिदचिदात्मकजगदध्यास इत्यभ्युपगन्तव्यमिति तत्त्वावेदक निर्विकारजगदुपादानश्रुतितात्पर्यण् ।
अविद्यया च सर्वमन्यत्प्रपञ्चसत्यग्राहकं ग्रहवन्निग्राह्यमिति ।
अत्र प्रतिविधीयते-स्वरूपपरिणामपक्षदूषणं तावदस्माकमपि सम्मतमेव ।
तथापि
बहुप्रमाणोपस्थापितबहुमुखव्याघातशतसादिताद्भवन्मतात् त्रिचतुरविरोधसितासितभास्करादि मतानुरोधेन कार्यकारणसंरक्षणमेव समुचितम् ।
यत्तु विशिष्टपक्षे प्राप्ताप्राप्तविवेकेन विशेषणस्यैवोपादानत्वमापन्नमिति, तत्र विशेषणस्य साक्षाद्विकाराश्रयत्वप्रसङ्ग इष्टः ।
विशेष्यस्यापि परस्परयाश्रयत्वेऽप्याश्रयत्वमात्राविशेषादुपादानशब्दवाच्यत्वप्रतिक्षेपस्त्वशक्यः ।
यथा भवतोऽप्यविद्याया एव साक्षाद्विवर्ताश्रयत्वेऽपि तस्या एव साक्षिभूतब्रह्माधीनसत्ताकत्वात् ब्रह्म विवर्तत इत्युक्तिः; तथा परिणामस्यापि साक्षात् ब्रह्मशरीरभूतद्रव्यगतत्वेऽपि तस्य तदारब्धतया तदधीनतामात्रात् ब्रह्म परिणमतीति वक्तुं शक्यम् ।
नैतावता विशेष्यस्य साक्षाद्विकाराश्रयत्वप्रसङ्गः ।
परम्परयाश्रयत्वं तु भवत इवास्माकमपि सम्मतमदोषावहं च ।
यथा बालो युवा जात इत्यादौ विशेष्यभूतात्मस्वरूपस्य निर्विकारत्वे विशेषणे साक्षाद्ब्रालत्वाद्यवस्थायोगेन आत्मपर्यन्तो बालयुवशब्दप्रयोगः, तद्वदत्राप्युपादानकार्यशब्दयोः प्रयोग इति न दोषः ।
एवं विशेष्यस्य निर्विकारत्वं विशिष्टग्रहणशक्तिश्चेत्युक्तं भवति ।
अन्यथाऽष्ट वर्षत्ब्राह्मणत्वादीनामात्मासम्बन्धेनोपनयनादिविधीनामप्रवृत्तिरिति कर्मब्रह्ममीमांसयोरारम्भ एव कापेयकल्पः स्यात् ।
तथाऽपि कथमवस्थाद्वयरहितस्वरूपे कस्यचिदुपादानोपादेयवाचोयुक्तिश्चित्तमारोहेदिति चेन्न; विशेषणवद्विशेष्येऽप्यवस्थाद्वययोगात्, तत्तदवस्थतत्तद्वैशिट्यानामा गन्तुकत्वेनावस्थात्वात्, मिथो भिन्नत्वाच्च; आत्मनो
बालयुवदेहवैशिष्ट्यवत् ।
आगन्तुरपृथक्सिद्धो धर्मोऽवस्थेति कीर्त्यते ।
विशेष्येऽपि च वैशिष्ट्यभेदोऽवस्थान्तरायते ॥ एतेन स्वभावसङ्रादयो दोषा न प्रसङ्गमर्हन्ति ।
न हि बालस्य युवभावे देहदेहिनोः प्रतिनियताः स्वभावाः सङ्कीर्यन्ते ।
न च शुक्लकृष्णरक्ततन्त्वारब्धे स्वभावसङ्करः ।
विभक्तदशायामिव संसर्गदशायामपि शौकल्यादीनां यथास्वं प्रतिनियतांशविषयत्वात् ।
एवमत्रापि विशिष्टकार्ये यथास्वमंशप्रतिनियतत्रिस्वभावत्वे प्रसज्यमाने अस्माकमिष्टप्रसङ्गः ।
अत एवोत्तीर्णस्वभावत्वोद्भूतस्वभावत्वमित्यादिचोद्यमपि परिहृतम्; ब्रह्मस्वरूपस्य निर्विकारत्वात्, जगदात्मकपरिणामदशायामपि व्यवस्थितस्वभावत्वात् ।
न च दृष्टान्तमात्रेणार्थसिद्धिः; नचात्र व्याप्तिसम्भवः, अन्यथा त्वत्पक्षेऽप्यविद्याविशिष्टब्रह्मविवर्ते
स्वभावसङ्करादयस्तदवस्थाः ।
यदुक्तं विशिष्टस्योपादनत्वं किं श्रौतमुत कल्पितमिति; तत्र क्वचिच्छ्रौतं क्वचित् श्रुतार्थापत्तिकल्पितमिति वाक्यशेषशाखान्तरनयसिद्धमिति वा विभागः ।
तथा हि-* तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियतेत्यादिषु कारणवाक्येष्वव्याकृतादिशब्देन न ब्रह्मस्वरूपमात्रं प्रतिपाद्यते, ब्रह्मादिशब्दवत् ब्रह्मस्वरूपे रूढ्यभावात्; * तन्नामरूपाभ्यां व्याक्रियतेत्यनेनैव योगविवक्षायाः स्पष्टत्वाच्च ।
अतः इदमर्थस्यैव प्रलयकाले नामरूपव्याकरणनिवृत्तिमात्रं विवक्षितम् ।
इदमर्थश्चिदचिदात्मकः प्रत्यक्षादिसिद्धः, स एव कदाचित् सूक्ष्मावस्थाप्राप्त्या व्यष्टिसमष्टिरूपविकाररहित इत्युक्तं भवति ।
एवं स्थिते प्रलयदशायामपि सूक्ष्मयोश्चिदचिद्वस्तुनोः सद्भाव उक्तो भवति ।
तर्हि ब्रह्मणस्तत्र कथं प्रसङ्ग इति चेत्; * तम एकीभवतीत्यादिप्रतिपन्नस्य सूक्ष्मतमसोऽपि *यस्य तमश्शरीरमित्यादिभिः ब्रह्मशरीरत्वप्रतीतेः कारणवाक्यान्तरेषु ब्रह्मावस्थानप्रतीतेश्च अव्याकृतशब्द एवाव्याकृतचिदचिद्विशिष्ट ब्रह्मपर इति निश्चीयते ।
एवम् * असद्वा इदमग्न आसीत्, * असदेवेदमग्न आसीत्, इत्यत्राप्यसच्छब्देन स्थूलाकारप्रध्वंसायमानसूक्ष्माकारविशिष्टचिदचिच्छरीरकं ब्रह्माभिधीयते, नतु केवलं ब्रह्म, असत्त्वविरोधात् ।
नापि प्रागभावमात्रम्, * तदसदेव सन्मनोऽकुरुत स्यामिति, *तदात्मानँ स्वयमकुरुतेत्यादिवाक्यशेषविरोधात् ।
सूत्रितं च *सद्धपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेश्शब्दान्तराच्चेति ।
अत एव * तदात्मानँ स्वयमकुरुतेत्यत्रापि नात्मशब्दो ब्रह्मस्वरूपमात्रविषयः, असच्छब्दनिर्दिष्टसूक्ष्मद्रव्यविशिष्टविषयत्वात् ।
यथा खल्वव्यतिरेकविवक्षया विशेष्ये स्वशब्दपर्यायोऽयमात्मशब्दः, तथा धर्मविशिष्टेऽपि विशिष्टव्यतिरेकविवक्षया तत्प्रयोगे युज्यते ।
अत एव हि शरीरविषयेऽप्यात्मानमवलोकयतीत्यादिरभियुक्तानां प्रयोगः ।
न चात्र भ्रमो निदानम्, परिशुद्धात्मवेदिभिरपि तथा प्रयोगात् ।
नच तत्रोपचारः, निमित्तैक्ये सम्भवति तत्कल्पनानुपपत्तेः ।
अस्तु वा ब्रह्मस्वरूपवाची तत्रात्मशब्दः, तथापि वैशिष्ट्यं दुस्त्यजम्, यथा भगवान् श्वेत इत्यत्र विग्रहद्वारा सिध्यति, तथाऽत्रापि *अकुरुतेत्यादिसामार्थ्याच्छरीरद्वारेति सिध्यत्वेव ।
अतः * ब्रह्म वनमित्यादिनोपादानत्वोद्देशोऽपि विशिष्टविषयः ।
मृत्तत्कार्यदृष्टान्तादिकं च विशिष्टप्रदर्शनार्थमेवेति न ततोऽपि विरोधः ।
एवं च सति ब्रह्मस्वरूपवाचिब्रह्मात्मादिशब्दैः कारणनिर्देशेऽपि निर्विकारश्रुत्यन्यथानुपपत्त्या विशिष्टस्योपादानत्वं कल्प्यताम् ।
यद्वा वाक्यशेषशाखान्तरादि सिद्धानुप्रवेशसर्वशरीरत्वादिवशेनात्रापि इदमिति निर्दिष्टस्य अग्र इति निर्दिश्यमानकालविशेषोप लक्षितसूक्ष्मावस्थस्य तदानीमब्रह्मात्मकत्वप्रतिक्षेपाय ब्रह्मादिसब्दसमानाधिकरणनिर्देश इति सिध्यतीति न स्वरूपपरिणामवादस्य विवर्तवादस्य वा कश्चिदवकाशो दृश्यते ।
यत्तु समस्तभेदरहितस्यैकस्यैव कारणवाक्ये अवधारणात् तद्विरुद्धं विशेषणकल्पनमित्यादि; तदपि
स्वपक्षपरामृश्योक्तम्, प्रलयदशायामपि अविद्यायाः सूक्ष्मोपाधेः शक्तेर्वा ब्रह्मसम्बन्धित्वेन त्वया त्वदासन्नैश्च स्वीकारात् ।
वयं तु वाक्यान्तरानुसारेण निर्विकारनिरवद्यश्रुतिविरोधपरिहारार्थं च प्रपञ्चोपादानभूतब्रह्मविशेषणं तच्छरीरमित्यनुमन्यामह इति विशेषः ।
अविद्यामिथ्यात्वपक्षे अवधारणमसङ्कुचितमिति चेन्न; अग्र इत्यादिवैयर्थ्यस्य सद्विद्यानिरूपणे स्थापनात् ।
किञ्च, ब्रह्मात्मादिशब्देषु स्वरूपरेष्वपि वैशिष्ट्यलाभो दर्शितः ।
सच्छब्दं तु विमृशामः-इदमग्ने सदेवासीदिति इदमर्थसत्ताविधिपरे वाक्ये न तावत्सच्छब्देन ब्रह्मस्वरूपमात्रं प्रतिपाद्यम्, अनन्तरवाक्यविरोधात्; अनन्तरमेव हि * तद्धैक आहुस्सदेवेदमग्र आसीदिति ।
तत्र * कुतस्तु खल्लु सोम्यैवं स्यात्….कथमसतः सज्जायेतेति सत्त्वेव सौम्येदमग्र आसीदित्युच्यते ।
अत्र हि कार्यद्रव्यस्य पूर्वमविद्यमानत्वपक्षः प्रतिक्षिप्यते, न पुनरब्रह्मात्मकत्वपक्षः ।
तथा सति * कथमसतः सज्जायेतेति लोकदृष्ट्या व्याप्तिप्रदर्शनायोगात् ।
अतः* सदेवेत्यत्र वाक्ये प्रपञ्चस्यैव * बहु स्यामिति वक्ष्यमाणबहुत्वावच्छिन्नसत्ताप्रतिपक्षभूतैकत्वावच्छिन्नसत्तायोग एव प्रतिपाद्यते ।
अतो ब्रह्मैवात्र मृग्यं न तु सूक्ष्मचिदचिद्वस्तुसद्भावः ।
ननु सच्छब्दनिर्दिष्टस्यैव * बहु स्यामिति, * तदैक्षत बहु स्यामिति बहुभवनसङ्कल्परूपेक्षणश्रवणात्, अचेतने प्रतिसंहृतकरणग्रामे चेतनेऽप्ययोगात्, उत्तरत्र सर्वत्र * सन्मूलाः सोम्येमास्सर्वाः
प्रजास्सदायतनास्सत्प्रतिष्ठाः, * सता सोम्य तदा सम्पन्नो भवति, * सति सम्पद्य न विदुरित्यादिषु सच्छब्दस्य नामवत्प्रयोगाच्च * सदेव सोम्येत्यत्रापि सच्छब्देनानवच्छिन्नसत्ताविशिष्टब्रह्मस्वरूपमेव विवक्षितमिति चेत्; सत्यम्, तथापि पूर्वोक्तानुपपत्त्या स्वरूपमात्रविषयत्वासम्भवेऽनुपपत्त्यन्तरेण ब्रह्मस्वरूपपरत्वे चावश्यम्भाविनि अगत्या श्रुत्यर्थापत्तिबलेन सूक्ष्मचिदचिद्वैशिष्ट्यव्यवहितसत्तावच्छिन्नं ब्रह्मात्र सदिति प्रतिपाद्यत इति निश्चीयते ।
तथा सति *तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत, * आत्मा वा इदमेक एवाग्र आसीदित्यादिश्रुतिभिरपि सङ्गतिः सिध्यति ।
अस्तु वा *सदेव सोम्येदमग्न आसीदित्यत्र सच्छब्देन ब्रह्मस्वरूपनिर्देशः, तथापि * तद्धैक आहुरित्यादिना असत्कार्यवादप्रतिक्षेपात्, कार्यद्रव्यस्त पूर्वं विद्यमानत्वप्रतीतेः, तद्विशिष्टं ब्रह्मैवात्र सच्छब्दार्थ इति शक्यतेऽवगन्तुम् ।
अत एव * शरीरिभूतपरमात्माभिधायिभिः सद्ब्रह्मादिशब्दैरिति भाष्यमपि सुघटितम् ।
न चात्र शक्तिद्वयकल्पनागौरवम्, विशिष्टपरत्वे पर्यवसानेन ब्रह्मणि सच्छब्दवृत्तेः; स्वरूपपरत्वे तु श्रुता (त्य) र्थापत्त्या शाखान्तरानुसारेण वा चिदचिद्वैशिष्ट्यस्यापि क्रोडीकारोपपत्तेः ।
नचात्र लक्षणा दोषः, तथापि सर्वशब्दलक्षणापक्षादस्यैवोपादेयतमत्वात् ।
यः पुनः सर्वपदार्थानुवृत्तसत्तामात्रमेवात्र सच्छब्दार्थः, स एव च ब्रह्मेत्याह; तत्पक्षे तु सकलश्रुतिस्मृतिन्यायविरोधः, प्रपञ्चमिथ्यात्वप्रसञ्जकाभावेनाप्रकृतत्वात्; इदानीं तत्रोदास्महे ।
तत्रापि हि प्रपञ्चस्यैव सत्त्वं प्रतीयमानं कार्यदशायां कारणदशायां च दशाद्वयविषयसच्छब्दद्वयेन प्रतिष्ठितं भवति ।
किञ्च यदिदं विशिष्टस्योपादानत्वं श्रौतं कल्पितं वेति; तत्र भवन्तमपि पृच्छामः, अविद्या विशिष्टस्योपादानत्वं श्रौतं कल्पितं वेति ।
न प्रथमः, सद्ब्रह्मादिशब्देष्वविद्यासौरभस्याप्यनाघ्राणात् ।
नाप्युत्तरः, कल्पकाभावादेरविशेषात् ।
तत्सद्भावेऽपि प्रत्यक्षादिसमस्तप्रमाणप्रत्यनीक दुर्घटिताभिमतार्थक्लृप्तेरपि सहृदयसंवादिसमीचीन प्रक्रियाकल्पनस्योपन्नत्वात् ।
मृद्घटादिदृष्टान्तेन स्वरूपोपादनानत्वप्रतिपादनसङ्गतं तु यदि भास्करादयः श्रृणुयुः तदा ते प्रथम प्रतीतनिर्विकारतादिमात्रव्याघातरक्षण कल्पितव्याघात क्षतिशतविशरारुणा भवन्मतेन नन्देयुः ।
नन्वविद्याविशिष्टं ब्रह्मास्माकं जगदुपादानम्; भवतां तु सूक्ष्मप्रकृतिपुरुषविशिष्टमिति व्यवहितविकारा श्रयत्वाविशेषादावयोः को विशेष इति; अहो महदिदमवधानम्, यत्प्रत्यक्षादिप्रमाणगण दृढावधारितचिदचिदात्मक प्रपञ्चबाधाबाधाभ्यामावयोर्विशेषः प्रदर्शित इति ।
नन्वेवमपि व्यवहितोपादान प्रतिपादन प्रयासमुत्सृज्य प्रपञ्चसत्यत्ववृथाग्रहानुरूपे स्वारसिके स्वरूपोपादानपक्षे स्थीयतामिति चेत्; मैवम्, सर्वतादात्म्ये समस्तविकारावद्याश्रयत्वावश्यम्भावेन निर्विकारनिरवद्यत्व श्रुतिविरोधस्य दुष्परिहरत्वात् ।
स्वारस्यमपि मरीचिकासलिलकल्पम् ।
तथा हि-तत्र भास्करमतं तावत्पृच्छामः, ब्रह्मस्वरूपमेव परिणमतीत्यत्र किमीश्वरो ब्रह्मशब्दवाच्यः? उत तदंशभूतः सूक्ष्मोऽचिदुपाधिः? उत समुदायः? उत तदुभयानुवृत्तसद्द्रव्यमात्रम्? यद्वा ब्रह्मधर्मभूतः शक्तिविशेष एवेति ।
व्वतिरेकादिपक्षस्त्वत्यन्तदूरस्थतथा नोपक्षिप्यते ।
तत्र तावन्न प्रथमः, ईश्वरांशस्य विकारानभ्युपगमात् ।
न द्वितीयः, ब्रह्मोपादानत्व प्रहाण प्रसङ्गात् ।
न तृतीयः, समुदायस्य समुदायिभ्यां भिन्नत्वे सति न ब्रह्मोपादानत्वसिद्धिः, अभिन्नत्वे पक्षद्वयोक्तदूषणस्य पुनरुन्मज्जनम् ।
चतुर्थेऽपि पक्षे सन्मात्रस्य सर्वतादात्म्ये चेतनाचेतनात्मक विश्वप्रपञ्चस्थदोषाधारत्वेन तदात्मकस्य ब्रह्मणो निर्दोषत्वश्रुतिविरोधः ।
पञ्चमस्तु पक्षः परिशिष्यते ।
तत्रापि शक्तेः ब्रह्माव्यतिरेके पुनः स एव श्रुतिविरोधः ।
व्यतिरेके ब्रह्मोपादानत्वभङ्गप्रसङ्गः ।
व्यतिरेकाव्यतिरेकपक्षस्तु दुःस्थत्वादेव
दूरपरिहरणीयः ।
स्वाभाविकभेदाभेदवादश्च सर्वलोकविरुद्धत्वात् दुर्विचारमूल एव ।
तेन पक्षद्वयप्रतिक्षेपे मृषावादः परिशिष्यते ।
सोऽपि स्वतः प्रतिक्षेप्य एव, प्रस्फुटदोषसङ्करविघटितत्वात् ।
अवस्थान्तरयोगित्वमुपादानत्व मुच्यते ।
मृत्पिण्डघटदृष्टान्तस्तत्रैव ह्युपपद्यते ।
सर्पभूरन्घ्रमालादिरूपावस्थान्तरान्वयः ।
रज्जौ न विद्यते तस्मान्नोपादानत्वमिष्यते ।
इत्थमध्यस्त विश्वस्य ब्रह्मोपादानभाषणम् ।
लोकवेदविरुद्धत्वात्स्वयमेव निरुध्यते ।
अतः उपादानत्वानुपपत्तिरद्वैतवादिन एवेति ॥
॥इति शतदूषण्यां ब्रह्मोपादनत्वान्यथानुपपत्ति भङ्गवादः त्रिपञ्चाशः ॥53॥