॥अथ सगुणनिर्गुणश्रुतिव्यवस्थावादः द्विपञ्चाशः ॥52॥
सत्त्वानीव विरुद्धजातिजनुषां सिद्धानि सिद्धाश्रमे वैरं यत्र मिथस्त्यजन्ति विधयस्सर्वे निषेधैस्सह ।
तद्गङ्गेशयमङ्गसङ्गिकमलालक्ष्येश्वरप्रक्रियं शान्तावद्यमनन्तमङ्गलगुणं ब्रह्म प्रपद्येमहि ॥
निर्गुणश्रुतिभिः केचिद्बाधन्ते सगुणश्रुतीः ।
तासामन्योन्यसौहार्दमाहुर्यतिवराश्रयाः ॥
अस्ति तावदुपनिषत्सु ब्रह्मण्येव सगुणवादो निर्गुणवादश्च ।
यथा-* यस्सर्वज्ञस्सर्ववित्, *पराऽस्य शक्तिर्विविधैव श्रूयते, स्वाभाविकी ज्ञानबलक्रिया च, * सत्यकामस्सत्यसङ्कल्पः,* ब्रह्मणा विपश्चितेत्याद्याः परस्सहस्रास्सगुणश्रुतयः ।
एवं * निर्गुणं निरञ्जनं निष्कलं निष्क्रियं शान्तम्,* अपहतपाप्मा विजरः,* यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादम्, *अस्थूलमनण्वित्याद्याः निर्गुणश्रुतयः ।
आसामन्योन्यविरोधस्तावदापाततः प्रतीयते ।
नच सिद्धे वस्तुनि विकल्पसम्भवः ।
तत्र विरोधस्थिरीकरणेन बाध्यबाधकभाव इति नीचाः,विषयव्यवस्थया सन्धिरिति साधवः ।
ननु कथं विषयव्यवस्था? सा ह्याश्रयभेदेन वा शीतोष्णवत्? देशभेदेन वा चित्रे नीलपीतादिवत् कालभेदेन वा पाकजपरमाणुगुमवत्? समुच्चयेन वाप्रदेशवर्तिसंयोगतदभाववत्? प्रतिसम्बन्धिभेदेन वा पितृत्वपितृव्यत्ववत्? ग्राहकभेदेन वा रूपस्पर्शवत् ।
गृहीतृभेदेन वा जातिव्यवस्थितभोगादिवत्? विधेयनिषेध्यभेदेन वा ब्रह्महत्याग्नीषोमीयादिवत्? अन्येन वा केनचित् श्वेतपीतादिबोधवत्? इति ।
न तावदाद्यः;परमेव ब्रह्माधिकृत्य सगुणनिर्गुणश्रुत्योरुदयात्; नच जीवविषयाः काश्चित्, अन्यास्तु परविषया इति विवेक्तुं शक्यम्, विशेषाभावात् ।
नच सर्वज्ञत्वादिश्रुतीनां जीवविषयत्वम्, प्रत्यक्षविरोधात्, संसारोच्छेदप्रसङ्गाच्च ।
नचेदं यौगिकं सार्व यम्, नित्यसर्वज्ञत्वोक्तेः ।
नापि निर्गुणश्रुतीनाम्, तत एव; उपलभ्यते हि बुद्धिसुखादिमत्तया जीवः; तदभावे च तस्य संसरणं निर्बीजम् ।
न द्वितीयः; स हि सम्बन्धिदेशभेदो वा स्यात्, स्वप्रदेशभेदो वा? आद्ये रूपाद्यवच्छिन्नप्रदेशभेदेन
सगुणत्वनिर्गुणत्वयोर्व्यवस्थेति स्यात्;तत्र तावदेकस्यैव पुंसः क्वचित्सर्वज्ञत्वं क्वचिदान्ध्यमिति स्यात्; तत्तु व्याहतम्, धर्मिभेदाभावात् ।
प्रदेशवर्तिगुणोत्पत्तिवदेवेति चेन्न; प्रदेशवर्तिनोऽपि ज्ञानस्य सर्वविषयीकरणे तद्धर्मिणः कार्त्स्न्येन सर्वज्ञत्वानपायात्; यद्यपि प्रदेशान्तरे तस्य समवायो नास्ति, तथापि तत्र भ्रान्त्यादियोगित्वं क्वाचित्केनापि सार्व येन विरुद्धमेव; यथावत्प्रकाशमाने अध्यासाद्यसम्भवात् ।
आैपाधिकब्रह्मभेदाभेदवादनिराकरणेन चायमर्थो व्यक्तमनुसन्धेयः ।
प्रादेशिकगुणसमवायाभावकथनेन च न ब्रह्मणः कश्चिदतिशयः, सर्वद्रव्यसमत्वात् ।
एतेनैव स्वप्रदेशभेदोऽपि निरस्तः ।
स ह्यौपाधिकस्तावन्निरस्त एव; स्वाभाविकोऽपि तुल्यन्यायतया निरस्त एव ।
नच स्वाभाविकोऽंशस्तत्र सम्भवति, निरवयवत्वश्रुतिविरोधात्; निरवयवत्वाविरोधेन सावयवत्वलक्षणनिषेध्यासिद्धौ निषेधासिद्धेः ।
समुदायेषु सांशतया तत्सिद्धिरिति चेन्न; अत्रापि तत्सम्भवात्तन्निषेधासिद्धेः ।
एकदेशस्य त्वेकदेशत्वनिषेध इति निरर्थोक्तिः ।
नापि तृतीयः; प्रागुक्तविकल्पायोगात्; पूर्वमत्यन्तनिर्गुणत्वे पश्चादपि कारणाभावेन गुणोत्पत्ययोगात्; पश्चान्निर्गुणता हेतुतः सम्भवन्त्यपि सर्वविशेषमिथ्यात्वाभावेनात्यन्ताय स्यात्; वस्त्वन्तरसत्यत्वे तत्संयोगादिलक्षणस्यावर्जनीयत्वात्, वस्त्वन्तराणां च मिथ्यात्वमन्तरेणात्यन्तोच्छेदा सम्भवात्; सत्कार्यवादसमर्थनेन निरन्वयविनाशादिनिराकरणात् ।
अत एव चतुर्थोऽपि
निरस्तः, प्रत्येकपक्षोक्तदोषस्य समुच्चये समुच्चयस्याप्यपरिहार्यत्वात् ।
न हि ब्रह्मांशस्य कदाचित्संसरणं कदाचिदपवर्ग इति भास्करयादवप्रकाशमताद्दवीयः ।
दूषितं चैतत् कालावच्छिन्नसार्व यदूषणादिना; यथोक्तम्-* सार्व यसर्वशक्त्यादिगुणकः केन सिध्यति ।
नेश्वरस्यापि विज्ञेयः स्वतः सर्वगुणश्रुतेः ॥ सार्व यादिस्वतस्त्वे तु विवादो यदि कल्प्यते ।
सत्यत्वादौ विवादः किं न स्यान्निर्गुणवादिनाम् ॥ इति ।
न पञ्चमः; पितृव्यपितृत्वादिवत्सगुणनिर्गुणत्वयोः प्रतिसम्बन्ध्युपाधिकत्वाभावात्; नीलपीतादिवन्निर पेक्षत्वेनैवोपलम्भात् ।
न हि तत्त्वतो नीलमेव कञ्चित् प्रति पीतम्, पुरुषभेदेनानुष्णश्च कृष्णवर्त्मा कदाचिद्भवतीति चेन्न; तत्रानुष्णत्वाभावात्, प्रतिबन्धकबलेन तु कश्चिदुष्णत्वं नोपलभते, तत्कार्यं च स्फोटादिकं तदा न जायते ।
*शीतो भव हनूमतः, * तत्रैष वह्निः पवनेरितोऽपि न मां दहत्यत्र समन्ततोऽहम् ।
पश्यामिपद्मास्तरणास्तृणानि शीतानि सर्वाणि दिशां मुखानि ॥ इत्यादि कथमिति चेत्; इत्थम्-तत्र हि
प्रभावविशेषप्रतिबद्धतया दाहकत्वाभाव एव हि तात्पर्यम्; यद्वा चान्द्रमसमहस इव देवताप्रभावोपनीतसलिलाद्यवयवनिवहसंवलनवशादनुद्भूतौष्ण्यस्य दहनस्योपलभ्यमानशीतिमारोपेण शीतव्यपदेशः ।
नापि षष्ठः; ग्राह्यभेदस्य ग्राहकभेदधीनत्वे रूपस्पर्शादिभेदविलयप्रसङ्गात्; हिंसाहिंसा वाक्ययोरेकस्मिन्नेव क्रतावन्वयेऽपि विरोधाभावप्रसङ्गाच्च ।
न च भिन्नकरणग्राह्यरूपस्पर्शयोरिव सगुणत्वनिर्गुणत्वयोविरोधः, भावाभावरूपत्वात्; रूपस्पर्शयोस्तु सहानवस्थानहेतोः कस्यचिदप्यदर्शनात् ।
नापि सप्तमः; आनुकूल्यप्रातिकूल्यादेः सप्रतिसम्बन्धिकत्वेन जातिव्यवस्थितभोगाद्युपपत्तेः ।
सगुणत्वनिर्गुणत्वयोस्तु तदभावेनानुपपत्तेः; उपपत्तौ वा ब्रह्मणोऽव्यवस्थितस्वभावत्वप्रसङ्गात् ।
नचाष्टमः; निर्गुणश्रुतीनां सर्वगुणनिषेधपरत्वेन विधेयगुणविशेषपरिशेषासिद्धेः; गुणविधिवशादेव निर्गुणश्रुतयः सङ्कोचमर्हन्तीति चेन्न; असङ्कुचितनिर्वाहे सति सङ्कोचानुपपत्तेः ।
तथा सति सगुणश्रुतीनामप्रामाण्यं प्रसज्येतेति चेन्न; अपच्छेदनयेन प्रमाणत्वेऽपि बाध्यत्वोपपत्तेः ।
पौर्वापर्यायोगेनापच्छेदनयानवतार इति चेन्न; अपच्छेदनये प्रमाणपौर्वापर्यस्य निमित्तपौर्वापर्यमात्राधीनत्वात्, अत्राप्यर्थतो विधिनिषेधयोः पौर्वापर्यसिद्धेः ।
विदिर्ह्यन्यानपेक्षतया पूर्वो भवति, निषेधस्तु निषेध्यप्रसङ्गसाकाङ्क्षतया परः ।
एवं सति हिंसाविधिनिषेधवाक्ययोरप्यपच्छेदनयावतार इति चेन्न; तत्र विधिवाक्यस्यात्यन्ताप्रामाण्यप्रसङ्गात्; अत्र तु सगुणवाक्यानां विद्यादिविषयाणामपि दृष्टिविशेषणोक्तिन्यायेन तत्तत्फलाभिलाषबम्भ्रम्यमाण पुरुषविशेषवषयोपासनविधिशेषतयाऽपि प्रामाण्योपपत्तेः ।
अतःउभयोः प्रामाण्येऽपि बाध्यबाधकव्यवस्था ।
अत एव तत्त्वतो निर्गुणत्वं च सिध्यतीति न निर्गुणश्रुतीनां सङ्कोचहेतुमुपलभामहे ।
अत एव नवमोऽपि दत्तोत्तरः; अस्मत्सिद्धान्तनीतिमन्तरेणोभयप्रामाण्यनिर्वहणासिद्धेः ।
उभयाप्रामाण्यस्य वैदिकैः सामान्यतस्तावदनभ्युपगमात्; उभयोरप्यान्यपर्यवादिनां निरीश्वरमीमांसकनिगमतरुवन्दकानां सिद्धार्थतात्पर्यसमर्थनादिभिरुन्मूलितत्वात् ।
अन्यतराप्रामाण्यपक्षेऽप्यन्ततोऽस्मन्नयमन्तरेण गत्यभावात् ।
न हि निर्गुणवाक्यमेव बाधितुं युक्तम्, तदुपदेशनैष्फल्यप्रसङ्गात् ।
न च स्वरूपपराणां वाक्यानामुपासनविधिशेषत्वेन यथाकथञ्चन नेयता शङ्क्या, त्रय्यन्तराद्धान्तापराधप्रसङ्गात् ।
अतः पारिशेष्यान्निर्गुणवाक्यैः सगुणवाक्यानामेव बाधः ।
यद्यपि सत्यज्ञानादिवाक्यं स्वरूपपरमपि सामानाधिकरण्यं पदसाधारण्यं शरणयद्भिः भवद्भिस्तत्तत्प्रवृत्तिनिमित्तविशिष्टस्वरूपपरमित्युपपादितम्, तथापि ज्ञानान्दादिशब्दावगतं ब्रह्मस्वरूपं न
ज्ञातृत्वानन्दित्वादिविशेषसहमित्युपपनीपद्यते ।
न हि ज्ञानस्य ज्ञानमानन्दस्यानन्दो वा गुणपक्षपातिभिरपि भवद्भिरभ्युपजिगमिष्यते; अतः शब्दादर्थाच्च गुणनिषेधसिद्धिः ।
न च वाच्यं सुखमात्ररूपत्वे तद्भावापत्तेर्मोक्षस्य पुरुषार्थता न स्यात्, न हि सुखं स्यामिति कश्चिदिच्छति, अपि तु सुखी स्यामित्येव ।
अतः सुखसम्बन्धेन वैशिष्ट्यमवर्जनीयमिति सुखापरोक्षमात्रेण पुरुषार्थतासिद्धौ सम्बन्धस्याप्रयोजकस्य कल्पनायोगात् ।
द्रव्यत्वोपादानत्वादिभिस्स गुणत्मनुमीयत इति चेन्न; द्रव्यशब्देन वस्तुत्वादिमात्रविवक्षायां मुख्यामुख्यविकल्पेन दोषात्, अन्ततस्तयोरपि परिहरणीयत्वात् ।
एतेनोपादनत्वमपि निरस्तम्; आत्मत्वमप्यात्मभेदानभ्युपगात् दृष्टान्तहीनम् ।
तथा आत्मशब्देन आत्मत्वजातिचैतन्यादिगुणविशिष्टाकारविवक्षायामसिद्धिः ।
ज्ञानत्वविवक्षायामप्रयोजकत्वं विरोधो वा ।
एवमन्यदपि दूष्यम् ।
न च वाच्यम्, अहं जानामीत्यादिप्रत्यक्षेणैव बुद्धिसुखादिविशिष्ट एवात्मा प्रतीयत इति; तत्तद्धृत्तिविशेषविशिष्टस्यैवाहङ्कारस्य तथा प्रतीतेः ।
अन्यथा स्थूलोऽहमित्यादिप्रत्यक्षेण स्थौल्यादिगुणवैशिष्ट्यस्यापि प्रसङ्गात्; देहव्यतिरेकसाधनात्तन्निषेधे अहङ्कारव्यतिरेकसाधनात्तद्धर्म निषेधस्यापि सिद्धेः; अतः प्रत्यक्षाद्यप्राप्तार्थप्रतिपादकनिर्गुणश्रुतिसामर्थ्यादेव निर्गुणे ब्रह्मणि सिद्धे, मायावच्छिन्नमिथ्यागुणविशिष्टेश्वरगोचराः सगुणश्रुतय इति ।
अत्रोच्यते ।
यदुक्तं सगुणनिर्गुणश्रुतीनामाश्रयभेदादिना निर्वाहे दूषणम्, तदस्माकमपीष्टमेव ।
यत्तु विधेयनिषेध्यभेदेन विषयव्यवस्थायामुक्तम् असङ्कुचितनिर्वाहे सति सङ्कोचोऽनुपपन्न इति; तत्तदा शोभेत यदि सगुणश्रुतिबाधमन्तरेणासङ्कुचितनिर्वाहः स्यात् ।
बाधात् सङ्कोच एव न्याय्यः ।
सङ्कोचोऽपि क्वाचित्कबाध एवेति चेत्; सत्यम्, न तु सार्वत्रिकः, तत एव तस्य सङ्ग्रहणीयता ।
अन्यथा उत्सर्गापवादनय एव निर्मूलः स्यात् ।
यच्चोक्तमपच्छेदनयेन प्रमाणत्वेऽपि बाध्यत्वमुपपद्यत इति;तदपि मीमांसामांसलितचेतसां जुगुप्सनीयम् ।
अनियतविरोधपौर्वापर्येह्यपच्छेदनयः, अन्यतरापच्छेदे बाधकाभावेन प्रामाण्यसिद्धेः, युगपदपच्छेदे विकल्पत उभयोः प्रामाण्यसम्भवात्; क्रमेणापच्छेद एव केवलं *पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिध्यतीति न्यायेन पूर्वबाधः ।
तथापि प्रयोगान्तरे प्रामाण्यं सिध्यत्येव, नियतविरोधपौर्वापर्ये
तूपक्रमाधिकरणन्यायेन परानुत्पत्तिरेव ।
ततश्चोत्सर्गापवादन्यायस्यैव सगुणनिर्गुणश्रुत्योर्विषयता, अतो विहितव्यतिरिक्तगुणविषयो निषेधः ।
यच्चोक्तं सगुणवाक्यानां मिथ्याविषयाणमपि दृष्टिविधिवत् फलविशेषार्थोपासनार्थतया प्रामाण्यमिति; तदपि न, तत्रैव मोक्षाख्यस्य फलस्य बहुलमुपलब्धेः ।
पुण्यपापप्रहाणपूर्वकस्वाभाविकरूपाविर्भावरूपफलविशेषस्य सांसारिकित्वोक्तः साहसिकेभ्य एव स्वदते ।
अस्तु तर्हि मिथ्यार्थविषयसगुणोपासनेनापि विधिबलान्मोक्ष इति चेन्न; तथा सति निर्गुणवाक्यानामेव मिथ्यार्थविषयत्वकल्पनं किं न स्यात्? तत्त्ववेदनस्यैव मोक्षहेतुत्वमिति नियमनिष्कासनात् ।
तथा च तत्त्वोपदेशश्च निष्प्रयोजनस्स्यात्, अन्यथापि मोक्षसिद्धेः ।
अतो विषयव्यवस्थयैवोभयप्रामाण्यसिद्धिः ।
अतो नवमस्य कल्पस्यानवतार एव।
यत्पुनरुक्तं न ज्ञानस्य ज्ञानमानन्दस्यानन्दो वा जाघटीतीत्यर्थतो गुणनिषेधसिद्धिरिति; किं तत्र धर्मस्य धर्मान्तराभ्युपगमेनानवस्थादिरभिप्रेतः? उतैकजातीययोर्धर्मधर्मिभावो नोपपद्यत इति? यद्वा ज्ञानानन्दाद्यवान्तरजातीयस्य धर्मान्तराभ्युपगमेनानवस्थादिरभिप्रेतः? उतैकजातीययोर्धर्मधर्मिभावो नोपपद्यत इति? यद्वा ज्ञानानन्दाद्यवान्तरजातीयस्य तत्तदवान्तरजातीयाधारत्वं न दृष्टमिति? अथ ज्ञानानन्दयोरज्ञानानन्दरूप एवाश्रयो दृष्ट इति? अथवा ज्ञानानन्दरूपस्यात्मनो ज्ञानानन्दादिकं शशादेरिव श्रृङ्गादिकमुपलम्भबाधितमिति ? नाद्यः, अनुक्तोपालम्भरूपत्वात् ।
न हि वयं धर्मभूतचैतन्यादेश्चैतन्यान्तरादिकं ब्रूमः ।
धर्मस्य चोपलम्भादेव धर्मान्तराभ्युपगमे कथमनवस्था? नापि द्वितीयः, धर्मधर्मिणोः सर्वत्र सत्तादिभिर्यथाकथञ्चिदेकजातीयत्वावश्यम्भावात् ।
प्रभाप्रभावदादिषु विशेषतोऽपि सजातीययोर्धर्मधर्मिभावो दृष्टः ।
अवयविवादे च परमाणुद्धणुकादिष्वाश्रयिषु पार्थिवत्वादिविशेषसाजात्यमिष्टम् ।
नापि तृतीयः; अन्यत्रादृष्टेरन्यत्र निषेधकत्वाभावात् ।
अन्यथाऽतिप्रसङ्गात् ।
तत्र दृष्टान्तेनानुमाने तु श्रुत्यादिबलेन कालात्ययापदेशत् ।
नापि चतुर्थः, असिद्धेः ।
ननु किम् आनन्दतया च ज्ञातोपलभ्यत इति चेत्; किं वा जडतया दुःखतया चोपलभ्यते? तदपि नास्तीति चेत्; कस्तर्हि विरोधः? सन्दिग्धस्वरूपत्वमिति चेन्न; तावता विरोधहेतुत्वासिद्धेः ।
शास्त्रादिभिस्तु विशेषनिष्कर्षात् ।
पञ्चमस्तु प्रत्यक्षश्रुतिभ्यामेव प्रतिक्षिप्यत इति नानुपपत्तिं पश्यामः ।
यत्तूक्तं सुखापरोक्ष्यमात्रेण पुरुषार्थ (ता) सिद्धौ सम्बन्धस्याप्रयोजकस्य कल्पनमयुक्तमिति; तदपि निजहृदयविसंवादि जल्पितम् ।
तथा हि- न हि परस्य सुखापरोक्ष्यमात्रेण स्वयमपि लब्धपुरुषार्थो भवति, तथा सत्येकस्य सुखस्य दुःखस्य सर्वार्थत्वप्रसङ्गेन प्रत्यक्षानुमानशास्त्रादिसमस्तप्रमाणक्षोभप्रसङ्गात् ।
स्वरसतश्च परोपकारापकारयोरपि प्रवृत्तिनिवृत्तिप्रसङ्गात् ।
अतः
स्वसम्बन्धितयैव सुखमपरोक्षतयार्थनीयं भवति ।
स्वरूपस्य तर्हि भवतां कथं सुखत्वमिति चेत्; सच्चिदानन्दरूप आत्मेति वदता भवता नैवं चोदनीयम् ।
स हि सदात्मा सुखत्वविशिष्टाकारेण प्रकाशात्मतया सम्बध्यत इति निपुणं चिन्तय ।
यत्तु सगुणत्वानुमाने दूषणमुक्तम्; न तेनास्माकं चेतसि चमत्कारः ।
जीवेश्वरयोः प्रत्यक्षागमाभ्यां सगुणत्वसिद्धेः ।
यत्तु अहं जानामीत्यादिप्रत्यक्षस्य वृत्तिविशेषविशिष्टाहङ्कारविषयत्वमुक्तम्, तत्तु अहमर्थात्मत्वसमर्थनादौ परिहृतं द्रष्टव्यम् ।
अतो जीवस्य सर्वगुणशून्यत्ववचनं प्रत्यक्षादिसर्वप्रमाणविरुद्धम् ।
ईश्वरस्य तु आगमैकसमधिगम्यस्यागमविरुद्धम् ।
एतदुक्तं भवति-निर्गुणश्रुतिवदेव सगुणश्रुतयोऽपि तत्त्वविषयाः प्रमाणभूताश्च ।
अत एव न तासां मिथो बाध्यबाधकभावः ।
उत्सर्गापवादनयाच्च विहितव्यतिरिक्तविषयोऽत्र निषेधः, अतो भिन्नविषयत्वान्न विरोधगन्धः ।
विरोधाभावाच्च न बाध्यबाधकभावः ।
तदभावाच्चोभयप्रामाण्यं यथार्थरूपं स्वतः प्रतीयमानमनपोदितमिति ।
उक्तं च श्रीवरद गुरुभिस्तत्त्वसारे-*यद्ब्रह्मणो गुणशरीरविकारजन्मकर्मादिगोचरविधिप्रतिषेधवाचः ।
अन्योन्यभिन्नविषया न विरोधगन्धमर्हन्ति तन्न विधयः प्रतिषेधबोध्याः ॥ इति ।
॥ इति शतदूषण्यां सगुणनिगुर्णश्रुतिव्यवस्थावादः द्विपञ्चाशः ॥52॥