॥अथ परमते शास्त्राधिककारिभङ्गवादः पञ्चाशः ॥50॥
हताशेषक्लेशा निरवधिमहानन्दधनिनो वयं भूयास्मेति स्थिरमनधवर्त्मन्यधिकृताः ।
अनाघ्रातद्वन्द्वा हयमुखपदद्वन्द्वरुचयः स्वदन्तां मे सन्तः श्रुतिजलधिमुष्टिन्धयधियः ॥
साधनचतुष्टयं पूर्ववृत्तमिति वदद्भिर्मुमुक्षुत्वं तावदधिकारिविशेषणमित्यङ्गीकृतम् ।
सा च मुमुक्षा मोक्षो मे स्यादित्येवमाकारा ।
तथाविधा सा कस्याधिकारिणो विशेषणमिति कथयन्तु कथयन्तु कलिब्रह्ममीमांसकाः, किं नित्यमुक्तस्वभावस्य संविदात्मनः? उत तस्यैवाविद्यासाक्षितामापन्नस्य? उतान्तः करणप्रतिफलितचिदाभासस्य? तद्वृत्तिसमारोपितक्रियात्वस्य वा चैतन्यस्य? अन्तःकरणस्यैव वा? अथ यस्यकस्यचिदनभिलप्यस्य? न वा कस्यचित्? इति ।
न प्रथमः, विरोधात्; तस्य नित्यमुक्तत्वादेव मोक्षेच्छाविरहात्; अन्यथा नित्यमपि तत्प्रसङ्गात् ।
मुक्तमप्यात्मानं बद्धमिवाभिमत्य मुमुक्षतीति चेन्न; तस्य तथाविधाभिमानेऽप्यनधिकारात्, तत्सद्भावे वा नित्यमुक्तत्वव्याघातात् ।
भ्रान्त्या वस्तुवृत्त्या च द्वयोरविरोध इति चेन्न; भ्रान्तेरेव तद्विरोधितया तदनधिकारस्योच्यमानत्वात् ।
साऽपि भ्रान्तिसिद्धेत्यविरोध इति चेन्न; दूरं गत्वाऽपि तद्भ्रान्तेर्दुस्त्यजत्वात् ।
न द्वितीयः, भवत्पक्षे साक्षित्वानुपपत्तेः, अविद्यानुभवानुपपत्तेश्च पृथगुपपादनात् ।
अस्तु वा साक्षित्वम्, तस्याप्यत्यन्तमव्यवस्थतयोदासीन स्वभावस्यानुकूलप्रतिकूलपक्षपातविरहात् संसारोद्वेगतन्मूलमोक्षेच्छातदायत्त श्रवणमननादिप्रयत्ना सम्भवात्, नतरामधिकारः ।
सर्वसाक्षिणश्च तस्य मुमुक्षायां युगपत्सर्वात्ममोक्षश्च प्रसजति ।
नचैतन्नानाजीववादिभिरिष्यते ।
एकजीववादनोऽपि शुको मुक्तो वामदेवो मुक्त इस्यादि प्रतिनियतमोक्षोपदेशः प्रतिनियतमोक्षेच्छाधीनः; सा चेच्छा यदि साक्षिणः, तदा शुकादिमोक्षदशायामेव सर्वमोक्षे संसारानुवृत्त्यसम्भवः ।
अथ स्वप्नदृष्टस्येव साक्षितया कल्पितस्य कस्यचित्; तर्हि मित्याभूतस्य मोक्षो नामात्यन्तभवनिवृत्त्यात्मा स्वरूपनिवृत्तिपर्यवसित इति साधु मोक्षस्समर्थितः ।
अथ स्वस्मिन् विनष्टे अज्ञाने स्वसाक्षीभूतायाः संविदः साक्षित्वेऽप्यतिक्रान्ते स्वप्रकाशानन्दमात्ररूपा संविदवतिष्ठत इति तदर्थमयमपवर्गारम्भ इति चेत्; प्रेक्षावत्प्रवृत्तेस्तथात्वासम्भवात् ।
तदाहुः-*निरस्ताखिल दुःखोऽहमनन्तानन्दभाक् स्वराट् ।
भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते ॥ अहमर्थविनाशश्चेन्मोक्ष इत्यध्यवस्यति ।
अपसर्पेदसौ मोक्षकथाप्रस्तावगन्धतः ॥ मयि नष्टेऽपि मत्तोऽन्या काचिज्ज्ञप्तिरवस्थिता ।
इति तत्प्राप्तये यत्रः कस्यापि न भविष्यति ॥ इति ।
अत एव न तृतीयः; तस्यापि चिदाभासत्वादेव विनाशावश्यम्भावात् ।
प्रतिबिम्बस्य
नाशेऽपि बिम्बात्मनाऽवस्थानवदन्तः करणप्रतिफलितरूपविनाशेऽपि ब्रह्मात्मना स एव तिष्ठतीति चेन्न; प्रतिबिम्बस्य मिथ्याभूतस्य सत्यबिम्बात्मनाऽवस्थानासम्भवात् ।
बिम्बप्रतिबिम्बयोर्भेदनिषेधे स्वरूपमेकमेव भवतीति चेन्न; सत्यमिथ्यार्थयोर्भेदनिषेधस्यैवासम्भवात् ।
सम्भवे वा सर्वसत्यत्वं सर्वशून्यत्वम् अनैकान्तवादो वा प्रसज्येरन् ।
अस्तु वाऽत्र भेदनिषेधः, तदा प्रतिफलितचिदाभासस्य ब्रह्मणश्च स्वरूपैक्ये ब्रह्मण एव सर्वोपरागप्रसङ्गात् प्रतिफलनादिकॢप्तिरपि निरर्थिका ।
प्रतिफलनादिकं च दुरुपपादमिति स्थितमन्यत्र ।
न चतुर्थः, तस्य क्रियात्वेनैव प्रकाशमानस्य मोक्षेच्छातदर्थप्रयत्नाद्याश्रयत्वस्य तद्भ्रमस्य वा दूरनिरस्तत्वात् ।
अत एव वृत्तिमदन्तःकरणभेदाग्रहणात्तस्य तदभिमान इति निरस्तम् ।
न पञ्चमः, अपवर्गेऽन्तः करणस्यापि स्वरूपोच्छेदाभ्युपगमात् सुषुप्तिप्रलयादिषु स्वयमेव नश्वरतयाभ्युपगतस्य किं मोक्षार्थेन महता प्रयासेन? नचान्तः करणाख्यस्य द्रव्यस्य ज्ञानेच्छादिसम्भवः ।
ज्ञातृत्वाध्यासश्च न सम्भवतीति सिद्धमन्यत्र ।
नापि षष्ठः; तस्यापि मिथ्यात्वेन विनाशावश्यम्भावात्, सत्यत्वे ब्रह्मस्वरूपान्तर्भावबहिर्भावयोरनधि कारत्वसद्वितीयत्वादिप्रसङ्गात् ।
नचानभिलपनीयं मोक्षाधिकारिस्वरूपमपरिज्ञायैव स्वयमधिकरोतीति वाच्यम्; अविदिताधिकारिस्वरूपाय क्वचिदप्यनधिकारात् ।
विदितत्वेऽपि इक्षुक्षीरसादिवद् दुरभिलपत्वं तस्येति चेन्न;
अहमर्थातिरिक्तस्य कस्यचिन्मुमुक्षोः स्वात्मसाक्षिकोपलम्भादर्शनात् ।
उक्तं हि * निरस्ताखिलदुःखोऽहमित्यादिना ।
नापि सप्तमः, अधिकारितद्विशेषवर्णनप्रयासनैष्फल्यात्, तन्मूलश्रवणादिप्रवृत्त्यनुपपत्तेः, शास्त्रारम्भभङ्गप्रसङ्गाच्च ।
नास्त्येव वस्तुतः कश्चिदधिकारी, तथाऽपि सन्निव भातीति तस्य मुमुक्षा विशेषणमिति चेत्; कस्यासौ सन्निव भातीति वक्तव्यम् ।
न कस्यचिदिति चेत्; तर्हि कथं सन्निव भातीति? ब्रह्मण इति चेन्न; तस्य परानुसन्धानादिसामर्थ्यविरहस्योक्तत्वात् ।
तत्सद्भावेऽपि ब्रह्मैवेदं विशेषणमित्यनुसन्धध्यात् ।
स्वयमनुसन्धानाभावे च न प्रवृत्तिः ।
अधिकारतन्मूलप्रवृत्त्यादिविशिष्टतयैव ब्रह्मणा तदनुसन्धानमिति चेत्; किमतः? नहि तावताऽपि स्वनाशरूपेऽपवर्गे ब्रह्मदृष्टस्य तस्य मुमुक्षोपपादिता भवति ।
स्वनाशमविदित्वैव स्वावस्थानाभिमानेन तस्य मुमुक्षाऽपि जायत इत्येवंरूपोऽयं ब्रह्मणस्सम्मोह इति चेन्न; एवंरूपस्य सम्मोहस्यापि शास्त्रतोऽवसाये स्वनाशवेदनसिद्धौ पुनरप्रवृत्तिप्रसङ्गात् ।
ननुयदि स्वनाश एवापवर्ग इति तत्त्वम्, तदा तदपेक्षायां को विरोध इति चेन्न; माध्यमिकवदौपनिषदैः स्वनाशापत्तिर्मोक्ष इत्यनभ्युपगमात् ।
अभ्युपगमे वा कथमस्य पुरुषार्थत्वमुपपादयिष्यसि? दुःखात्यन्तनिवृत्तरूपत्वादिति चेन्न;*रसं ह्येवायं
लब्ध्वाऽऽनन्दीभवतीत्यादि श्रुतिशतकोपप्रसङ्गात् ।
अस्तु वा स्वनाशः पुरुषार्थ;, तथाऽपि तदर्था प्रवृत्तिरस्य न सम्भवति, ब्रह्माज्ञाननिवृत्तिमन्तरेण तत्कल्पितस्वरूपनिवृत्तेर्दुस्साधत्वात् ।
ब्रह्माज्ञानमपि तत्प्रवृत्त्यैव निवर्तत इति चेत्; तर्ह्येकमोक्षे सर्वमोक्षप्रसङ्गात् ब्रह्मदृष्टेषु जीवेषु बद्धमुक्तव्यवस्थाभङ्गः ।
तत एव च प्रतिनियतमुमुक्षाद्यसम्भवः ।
स्वभावतः कश्चिदेव मुमुक्षादिसम्मोहः कदाचिद्ब्रह्माज्ञानं निवर्तयतीति चेत्; तर्हि किमर्थमिदानीं भवद्भिः प्रत्येकमुमुक्षादिपूर्वकं शास्त्रमारभ्यते ।
न वयं वस्तुतश्शास्त्रमारभामहे, किन्तु अस्मदारम्भात्मना ब्रह्मण एवायं सम्मोह इति चेन्न; ब्रह्मण एव शास्त्रारम्भतज्जन्यज्ञानादिपरिज्ञाने तावतैवापवर्गसिद्धौ पुनस्संसारानुवृत्त्यभावप्रसङ्गादिति दुर्वचस्ते शास्त्राधिकारी ।
ननु भवतोऽपि समानोऽयं दोषः, ईश्वरस्य कारणावस्थस्य कार्यावस्थस्यावताराद्यवस्थस्य च नित्यमुक्तत्वादेव तस्य मुमुक्षाद्यसम्भवात्, जीवस्यापि स्वतोऽपहतपाप्मत्वादिस्वभावत्वाभ्युपगमेन तस्यापि तदसम्भवादिति चेन्न; स्वत उष्णस्य वह्नेर्मणिमन्त्रादिवशात्प्रतिबन्धवत् स्वतश्शुद्धियोगिनोऽपि जीवस्य कर्मवशात्संसारे तन्निवृत्त्यपेक्षोपपत्तेः ।
नहि वयं तन्निवृत्तिर्नित्येति वदामः, येन नित्यमुक्तत्वादिचोद्यावकाशः ।
नचात्मानं ज्ञप्तिमात्ररूपं, येनेच्छाप्रयत्नाद्यनुपपत्तिस्स्यात् ।
नच सर्वदा सर्वज्ञं, येन क्षुद्रपुरुषार्थाद्यभिलाषासम्भवे कर्मशास्त्रस्य निर्मूलता भवेत् ।
अतो नित्यमुक्तब्रह्मात्मैकत्ववादे दुर्लभो मोक्षसास्त्राधिकारीति ॥
॥ इति शतदूषण्यां परमते शास्त्राधिकारिभङ्गवादः पञ्चाशः ॥50॥
नृसिंहराजीया
पूर्वत्रोपदेशासम्भव उक्तः । तादृशोपदेशेऽपि कार्यसम्भवं निरुपयिन्वादार्थं सङ्गृह्णातिः - हताशेषेति । वयवनघवर्त्मनियोमार्गे अधिकृतः - अधिकारवन्तः । कथमधिकारपन्त इत्यपेक्षायाम - निष्टनिवृत्तिपूर्वकेष्टप्राप्ति कामनावत्वादित्याहः - हताशेषेत्यादिना । भूयात्म इत्यन्तेन । आशीलिङ् - तत्कामनालाभात्परपक्षे तादृशकामकस्यासम्भवसूचन मुखेन वादार्थस्सूच्यते । कथयन्तु - कथयन्तु इति द्विरुक्तिः - क्वचिद्दृश्यते । तदा चापलेद्वे भवत इति द्विरुक्ति विधिबलाच्चापल्यं प्रतिपादयति कलिब्रह्मकामपुरुषार्थः । तेषामहमर्थविनाशवादिनां प्रेत्यानुभवितुभावात्कामपुरुषार्थमीमांसैवकर्तुमुचितेति सूचनाय कलिब्रह्ममीमांसकत्वोक्तिः । तद्व्यक्तीति । अन्तःकरणवृत्तेः क्रियात्वात्तत्सम्बलनेन क्रियात्वेन भासमानं चैतन्यमित्यर्थः । विरोधमुपपादयतिः - तस्येति । अन्यथेति । न च नित्यानित्यविवेकादिकारणविरहान्नित्यं मुमुक्षा न सम्भवतीति वाच्यम् । मुमुक्षुयामिव तस्य तदयोगादिति भावः । तथा विधेति । अभिमानस्य ससारत्वान्मुक्तस्य तदोयगादिति भावः । नन्वभिमानसिद्धो हि बन्धो न पारमार्थिक इति न व्याघात इत्यभिमानमजानानश्शङ्कते भ्रान्तीति । वस्तुवृत्तिपारमार्थिकताभि सन्धिमुद्घाट्य परिहरतिः - भ्रान्तेरिति । तस्य एव संसारत्वात्तस्याः पारमार्थिकत्वादिति भावः । सापीति । भान्तेरपि मिथ्यात्वाद्वास्तव नित्यमुक्त्या न विरोध इति भावः। दूरङ्गत्वेति । अनवस्थाभयेन क्वचित्सत्यभूतभ्रन्तेर्दुस्त्यजत्वादिति भावः । पृथगुपादानादिति । वादान्तरेण पृथङ्निरस्तत्वादित्यर्थः । उदासीनेति ।आैदसीन्यावबोधाभ्यां साक्षित्वमितित्वदिष्टत्वादिति भावः । पृथगुपादानादिति । वादान्तरेण पृथङ्निरस्तत्वादित्यर्थः । उदासीनेति । आैदासीन्यावबोधाभ्यां साक्षित्वमितित्वदिष्टत्वादिति भाव - । संसारोद्वेगेति । उद्वेगादेरेव मुमुक्षाहेतुत्वादिति भावः । सर्वेति । सर्व पुरुष साधारणस्याविद्यानु भवरूप साक्षिण इत्यर्थः । इष्टापत्तिं परिहरतिः - न चैतदिति । अस्तु तर्ह्येक जीववादिमतेऽधिकार इत्यत्राहः - एकजीववादिनोऽपीति । मोक्षोपदेशः । मोक्षप्रतिपादकागमः । यदि साक्षिणीति । तथा सति प्रतिनयतत्वं न स्यादित्यर्थः । ननु यत्सत्यं ब्रह्मस्वरूपं कल्पितसाक्षितापन्नं तस्य मुमुक्षां न ब्रूमः । किन्तु स्वरूपतः कल्पितस्याप्यन्यस्य साक्षिणः तथा च तन्मुक्त्या सर्व मोक्ष इत्याशङ्क्य स्वरूपविनाशे आश्रयाभावान्मोक्ष एव न स्यादिति परिहरतिः - अथेति । ननु मोक्षे चाश्रयस्य कल्पितसाक्षिणो नाशेऽपि दोषा श्रयतयान्यस्यैवेष्यमाणत्वान्नोक्तदोष इत्याशङ्कतेः - अथेति । स्वसाक्षि भूतेति । मिथ्यासाक्षिकल्पकसाक्षिरूपसत्यसंविद इत्यर्थः । प्रेक्षावदिति । यद्यपि विषपानादौ स्वनाशपर्यवसितेऽपि लोके प्रवर्तन्ते तथआपि न ते प्रेक्षावन्तइति भावः । किञ्च मुमुक्षाधिकारो न स्यात्समान कर्तृकेऽच्छाया एव मुमुक्षात्वात् मुमुक्षाशब्दनेच्छामात्रमत्र लक्ष्यत इति वाच्यम् । मुमुक्षुर्वै शरण (श्वेत) मित्यादिमुमुक्षाधिकारत्वबोधक श्रुतिस्मृत्यादिविरोधादित्याहः - तदाहुरिति । भाष्यकारादय इति शेषः । अहमर्थ विनाशोक्तदोषम् उक्त साक्षिविनाशपक्षेऽपि तुल्य इत्यभि प्रायेणाहः - अहमर्थेति । दृष्टान्तमुखेन शङ्कतेः - प्रतिबिम्बस्येति । प्रतिफलितरूपप्रतिबिम्बस्वरूपमित्यर्थः । दृष्टान्तासम्प्रतिपत्त्या परिहरतिः - नेति । ननु तदेवेदं मुखमिति प्रत्यभिज्ञया बिम्बाभेदसिद्धेर्भेदनिषेधात्प्रतिबिम्बस्य सत्यत्वं बिम्बाभेदश्च यज्यत इति शङ्कतेः - बिम्बेति । दर्पणे मुखं नास्तीति बुद्धया प्रति बिम्बमुखस्य शुक्तिरजताद्यविशेषेणमिथ्यात्वाद्बिम्बप्रतिबिम्बयोर्भेद एव । प्रत्यभिज्ञातु कर्दमलग्नपाद प्रति मुद्रायाः मम पादाविति प्रत्यभिज्ञावदुपपाद्येत्याहः - सत्यमिथ्यार्थयोरिति । अनैकन्तवाद इति । सत्यवस्त्वभेदात्सत्यत्वं मिथ्यावस्त्वभेदान्मिथ्यात्वं च स्यात्तथा च विनिगमकाभावात्सत्यासत्यत्वरूपत्वं स्यादिति भावः । अन्यत्र मिथ्यार्थाभ्युपगमेऽपि तत्र तदभ्युपगमो नास्त्येव किन्तु बिम्बप्रतियोगिकभेदमात्रस्य मिथ्यात्वं ततश्च प्रतिबिम्बस्य बिम्बात्मनावस्थानमिति शङ्क्यामाहः - अस्तु वेति । तदेति । ब्रह्मणोडवद्यप्रसङ्गपरिहारार्थं हि जीवस्य बन्धाश्रयस्य प्रतिबिम्बत्वकल्पनं व्यर्थमत्यर्थः । प्रति फलनादिकञ्चेति । अचाक्षुषस्य प्रतिफलनं नास्तीति वादान्तरे प्रतिपादितमित्यर्थः । दूरनिरस्तत्वादिति । यद्यपि क्रियात्वेन प्रकाशस्य वस्ततुः क्रियात्वाभआवान्मोक्षेच्छादि विरोधो न स्येव तथापि प्रमाण चैतन्यत्वाद्वृत्तिसम्पृक्त चैतन्यस्य प्रमातृभेदेन कामाद्यना श्रयत्वे नाङ्गीकारेण मोक्षेच्छाद्याश्रयत्वस्य भवद्भिरनङ्गीकारादिति भावः । अत एवेति । क्रियात्वेन प्रकाशमानस्य तदाश्रयान्तः करणाद्भेदस्यैव ग्रहीतत्वादित्यर्थः । ननूच्छेद एव पुरुषार्थ इत्यत आहः - सुषुप्तीति । द्रव्यस्य जडद्रव्यस्येत्यर्थः । ननु जडस्याप्यन्तः करणस्यध्यस्तज्ञातृत्ववदिच्छापि सम्भवति । अत एव कामस्सङ्कल्प इत्यादिवाक्यमित्यत्राहः - ज्ञातृत्वाध्यासश्चेति । अहमर्थात्मसमर्थनस्थले काम इत्यादिवाक्यस्य गानाधीनत्वमात्रमर्थः । नत्वन्तः करणधर्मत्वम् अहमर्थस्यैवात्मत्वेन ज्ञातृत्वस्य स्वाभाविकत्वात्ततोतिरिक्तान्तः करणेऽध्यास्यैवासम्भवोक्तेरित्यर्थः । ननु जीवस्यैव किञ्चिन्मोक्षाधिकारिस्वरूपमस्ति । तच्च दुर्विज्ञेयत्वादनभिलपनीयम् । जीवस्तु तदज्ञात्वैव प्रवर्तत इत्यत्राहः - न चेति । अविदितेति । अधिकारि स्वरूप ज्ञानाभावेऽपि प्रवर्तते चेद्भ वदुक्तनीत्यानित्या - नित्यविवेकाद्यभावेऽपि प्रवृत्तिप्रसङ्गे तत्पूर्वकत्वोक्तिविरोध इति भावः । अहमर्थातिरिक्तस्येति । यद्यपि ब3ह्म स्वरूपं संवलितमस्तीति परैरुच्यते । तथापि साक्ष्यादि कल्पके प्रागुक्तदूषणग्रासान्नास्याधिकार इति भावः । नैष्फल्यादिति । सति कुड्ये चित्रकर्मेति न्यायादिति भावः । निष्फलत्वमेव दर्शयतिः - तन्मूलेति । न हि शशश्रृङ्गस्य तैक्ष्यवर्णनामात्रेण छेदनादिसिद्धिरिति भावः । अधिकार्याभावात्कमधिकृत्य शास्त्रं प्रवर्तते । तत्रेष्टापत्तिं परिहरतिः - शास्त्रारम्भेति । स्वविनाशात्कस्य मुक्तिरित्यादिदूषणदूषितमपि दूषणान्तरं वक्तुं कल्पितोधिकारीति शङ्कतेः - नास्त्येव वस्तुत इति । किं कल्पकस्तस्य स एव उत ब्रह्म नाद्यः आत्माश्रयादित्याहः - कस्यासाविति । कथं तर्हीति । कल्पनाभावादिति भावः । द्वितीयं शङ्कतेः - ब्रह्मण इति । नन्विद्याश्रयतयानुसन्धानसामर्थ्यं सम्भवतीत्यत्राहः - सद्भावेऽपीति । न स्वयमिति । ब्रह्म कल्पितस्याधिकारिणः स्वगताधिकारि विशेषण प्रतिसन्धान्नाभावात्प्रवृत्तिर्नस्यादित्यर्थः । नन्वधिकारतदनुसन्धानं तन्मूलप्रवृत्तिशिष्टतया ब्रह्मणा कल्पतत्वात्तस्य मोक्षार्थप्रवृत्त्यु - पपत्तिरित्याशङ्कतेः - अधिकारतन्मूलेति । न हि तावतेति । अधिकारतदनुसन्धानसिद्धावपि मुमुक्षानुपपत्तेःप्रवृत्तिर्नस्यादित्यर्थः । स्वनशाज्ञान मुमुक्षयोरपि ब्रह्म काल्पिततया सर्वोपपत्तिरिति शब्दतेः - स्वनाशमिति।सम्मोहः - कल्पनमित्यर्थः । शास्त्रतो व्यवसाय इति । अनवसाने तु मिथ्यात्व ज्ञानाभावाद - विद्या निवृत्त्यर्थप्रवृत्तिर्न स्यादित्यर्थः । ननु माध्यमिकानां मोक्षार्थ प्रवृत्तिवदस्माकमस्त्विति शङ्कतेः - ननु यदीति । तर्हि प्रच्छन्नभावं विहाय प्रकटत्वं भावयेत्याहः - माध्यमिकवदिति । ननु माध्यमिकाद्भेदोऽस्ति नित्यवस्त्वङ्गीकारादित्यत आहः - अस्तु वेत्यादिना । कृत्यसाध्यतामेवोपपादयतिः - ब्रह्म ज्ञानेति । ब्रह्मणो भ्रान्तिनिवृत्त्याहि स्वनिवृत्तिः । तन्निवृत्तिश्च तदज्ञाननिवृत्तया । तन्निवृत्तिश्च तदीयतत्व ज्ञानादिति भावः । ननु जीव ज्ञानस्य व्यधिकरणत्वेऽपि वैनतेयदृष्टयी विषयनिवृत्ति वद्ब्रह्म ज्ञाननिवृत्तिरस्त्विति शङ्कतेः - ब्रह्म ज्ञानमपीति । मिथ्यात्वं न स्यादिति दूषणे सत्येव दूषणान्तरमाहः - एकेति । तत एवेति । एक मोक्षे सर्वेषां मुक्तिसम्भवात्प्रत्येकं मुमुक्षादिकं व्यर्थमित्यर्थः । ननु बद्धमुक्त व्यवस्था भङ्ग इष्ट एव । इदानीं संसरोपलम्भश्चेतः पूर्वं कस्यप्यमुक्तत्वात् उपपन्नः । इतः परन्तु कल्पान्तरादिषु कल्पिता मुमुक्षा संसार निवृत्तिपर्यन्ता भविष्यति नत्विदानीं सा कल्प्यते स्वभावादतस्सर्वोपपत्तिरित्यत्राहः - स्वभावत इति । ननु भुक्तवति पुरुषे परेण भ्रान्तिकल्पितं भोजनं यथा प्रयोजनाभआवपर्यनुयोगस्यानर्हं तथास्माकं ब्रह्मणा कल्पितं शास्त्रारम्भतज्जन्य ज्ञानादिकमिति शङ्कतेः - न वयमिति । शास्त्ररम्भादिकं सर्वं ब्रह्मणाकल्पितमिति परिज्ञाते तत एव सर्वमिथ्यात्वज्ञानात्सद्य एव मोक्षस्यान्नचैतस्मात् ज्ञानात्कालान्तरभाविज्ञानस्य विशेषः कश्चिन्मिथ्यात्व पक्षे युज्यत इत्यभिप्रायेणाहः - ब्रह्मण एवेति । स्वत उष्णस्येति । आनन्दात्मकज्ञानविकासरूपा पाप्मनिवृत्तिशुद्धः । सा चासाधारणकारणान्तरनिरपेक्षत्वात्प्रति - बन्धकाभावस्याकारणत्वाद्वास्वाभाविकी । स्वतः शुद्धयोगोऽपि तादृशशुद्धियोग्यता । सा चौष्ण्यादिवत्सर्वदा । विद्यमानापि कर्मणाप्रतिबन्धान्नशुद्धिरूप फलसहितेत्यर्थः । परमते नित्यमुक्तत्वान्निर्विशेषत्वेन मुमुक्षाद्याश्रयानुपपत्तेश्च हि दोष उक्तः । स्वमते स नास्तीत्याहः - न हि वयमिति । ज्ञप्तिमात्ररूपमिति । वदाम इत्यनुषङ्गः । स्वतोऽपहतपाप्मत्वप्रयुक्तमोक्षानधिकारशङ्कायां परिहृतायां प्रसङ्गात्स्वाभाविकज्ञानवत्त्व प्रयुक्तां कर्मानधिकारशङ्कां परिहरतिः - न च सर्वेति । वदाम इत्यनुषङ्गः । परमते तु सर्वज्ञेश्वर भेदात्कर्मशास्त्रानधिकारोऽपि जीवस्येति फलितम् । वत्सकुलजलधिकौस्तुभ नृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायां पञ्चाशोवादस्समाप्तः ॥