49 ऐक्योपदेशान्यथानुपपत्तिभङ्गवादः

॥अथ ऐक्यापदेशान्यथानुपपत्तिभङ्गवादः एकोनपञ्चाशः ॥49॥
त्रिविधचिदचिदन्तर्यामितां प्राप्य तिष्ठन्निखिलनिगमनिष्टैर्नित्यमैक्योपदेशैः ।

भ्रमममलधियां यो वारयत्येकभक्त्या भवतु शरणवाणी तत्पदे शाश्वती नः ॥
यदाहुः,*तत्त्वमसि, *क्षेत्रज्ञं चापि मां विद्धीत्याद्यैक्योपदेशान्यथानुपपत्त्या परिशुद्धे ब्रह्मण्येवाज्ञानं भेदभ्रमश्चावश्यं कल्पनीयम् ।
नचात्रैक्यं न प्रतीयते, न चाविवक्षितम्; सामानाधिकरण्यस्य तन्निष्ठत्वात्, विशिष्टैक्यवादिनाऽप्यैक्यमात्रस्यास्थितत्वाच्च ।
नचेदमारोपवृत्त्या सामानाधिकरण्यम्, तत्त्वोपदेशप्रकरणविरोधात् ।
न च सम्बन्धादिद्वारोपचारः, बाधकाभावात् ।
यद्यप्यस्मन्मतेऽपि लक्षणा, तथाऽपि प्रधानभूतसामानाधिकरण्यप्रतिपाद्यस्य मुख्यस्यैक्यस्यापरित्यागात्, तत्संरक्षणाय च स्वरूपोलक्षणभूतनिमित्तमात्रप्रहाणादिकं न दोषाय भवति ।
न च भेदाभेदसमुच्चयः, व्याघातात् ।
अत एव नोभयत्यागः, तात्पर्यविरोधस्योक्तत्वाच्च ।
अन्यथा शून्यतैव पर्यवस्येत् ।
नचैष दृष्टिविधिः; उपासनैकवाक्यत्वाभावात्; तत्सद्भावेऽपि तल्लिङ्गाभावाच्च ।
अतो जीवपरयो रैक्ये तद्भेदे च प्रतीयमाने द्विचन्द्रदर्शनमूलभूतदोषवदात्मभेददर्शनहेतुरविद्याऽभ्युपगन्तव्या, तन्मूलभेदभ्रमोन्मूलनेन सप्रयोजन एवैक्योपदेशः यथैकश्चन्द इतीति ॥
अत्र ब्रूमः-यद्यैक्योपदेशोऽन्यथानुपपन्नः स्यात्तदैवं परिशुद्धे ब्रह्मण्यज्ञानभेदभ्रमादयः कल्प्येरन्, स त्वन्यथाऽप्युपपन्नः, अन्यथैवोपपन्नश्च ।
तथा हि-शरीरात्मभावनिबन्धनं सामानाधिकरण्यं व्युत्पादितमन्यत्र ।
नचात्रद्वयोः स्वरूपैक्यं विवक्षितुं शक्यम् ।
विरुद्धयोस्तदसम्भवात् ।
अन्यथा यूपादित्यैक्यवाक्येऽपि भेदभ्रमहेतुदोषकल्पनप्रसङ्गात् ।
विरोधादेश्च समानत्वात् ।
न च लाक्षणिकसामानाधिकरण्येऽप्यैक्यं परित्यक्तम्, ययाकयाचिद्दृत्त्या एकस्मिन्नेव वृत्तेरङ्गीकृतत्वात् ।
अतः
सामानाधिकरण्यस्य सम्भवति गत्यन्तरे परिशुद्धब्रह्मणि तन्मूलविरुद्धाज्ञानादिपरिकल्पनं निर्मूलम् ।
अज्ञानमूलभेदभ्रमवादे च उपदेश एव नोपपद्यत इति स्थितमन्यत्र ।
नचानुपपन्नत्वस्योपपादकतया स्वयमनुपपन्नान्तरं कल्प्यम्,नचाविद्यादेः स्वरूपमुपपत्तिमदिति दर्शितम् ।
यदि च दूरं गत्वा दुर्घटत्वमेव भूषणमिति वल्गसि तर्ह्यैक्योपदेशमेवादौ दुर्घटमभिमन्येथाः ।
अप्रामाण्यं तर्हि तस्य स्यादिति चेत्; अस्मन्मतप्रतिपादितप्रकारेण प्रामाण्यस्य सिद्धत्वात् ।
यदि वा माभूत्प्रामाण्यम्, यदज्ञानादिपरिकल्पनेऽप्यन्ततः फलति तच्चेदादौ तदप्रामाण्यं सिध्यति, किं दूरं धावसि?
किञ्च भेदोपदेशान्यथानुपपत्त्या परमार्थभिन्नेऽप्यात्मन्यैक्यभ्रममूलमज्ञानं किं न कल्प्यते? ऐक्यश्रुतीनामतत्त्वावेदकत्वप्रसङ्गभयादिति चेत्; तर्हि भेदश्रुतीनां तत्प्रसङ्गभयात् भेदभ्रममूलाज्ञानमपि न कल्पय ।
नचैका श्रुतिरितरस्या दासी, येन तदर्थं तामुपद्रवेम ।
प्रत्यक्षादिसंवादाच्च भेदश्रुतेरेव बलीयस्त्वम् ।
न च भेदस्वरूपं दुर्निरूपमिति तदप्रामाण्यस्वीकारः, अभेदस्वरूपस्यापि तथाविधयुक्तिभिर्दुर्निरूपतया तत्प्रतिपादकानां तत्स्वीकारप्रसङ्गात् ।
किञ्च त्वदुक्तयैवानुपपत्त्या नास्त्येव भेदप्रतीतिरिति किं न कल्प्यते? प्रत्यक्षादिविरोधादिति चेत्; तर्हि निरवद्यभेदश्रुतिविरोधे दृष्टिं पातय ।
भ्रान्तिसिद्धे भेदेऽप्यैक्योपदेशो द्विचन्द्रादिष्विव घटत इति चेत्; अज्ञानादिरहितेऽपि ब्रह्मणि भ्रान्तिसिद्धैक्येन
तदुपदेशोऽपि सम्भवत्येव ।
भिन्ने ब्रह्मण्यभिन्नत्वभ्रमः किमर्थमुत्पाद्यत इति चेत्; अभिन्ने ब्रह्मणि भिन्नत्वभ्रमः किमर्थमुत्पाद्यते? अथोपासनेन फलविशेषार्थमिति चेत्? तुल्यम् ।
उपासनविध्येकवाक्यत्वं दृष्टिलिङ्गं वाऽत्र न दृश्यत इति चेत्तुल्यम् ।
दूरानुकर्षात्तत्र दृश्यत इति चेत् न किमत्रापि? अपि न ब्रह्मणः शुद्धत्वान्यथानुपपत्त्यैव तस्य जीवैक्योपदेशो नास्त्येवेति वा सन्नप्यन्यपर इति वा तत्परोऽपि भ्रान्तिमूल इति वा कल्पयितुं युक्तम् ।
नचाशुद्धिमिथ्यात्वेनाविरोधः, उपदेशमिथ्यात्वेन तदुपपादकाभावेऽप्यविरोधप्रसङ्गात् ।
यश्चासौ* क्षेत्रज्ञं चापि मां विद्धीति तत्त्वपरिज्ञानसापेक्षस्तदुपदेशः, तेनैव च तदज्ञानं कल्प्यत इति चित्रम्! तदेतच्छ्रीमद्गीताभाष्येऽपि स्पष्टमाह ।
तथा भाष्येऽप्यदर्शयत्,*नाप्यैक्योपदेशान्यथानु पपत्त्येत्यादिना ॥
॥इति शतदूषण्याम् ऐक्यापदेशान्यथानुपपत्तिभङ्गवादः एकोनपञ्चाशः ॥49॥

नृसिंहराजीया

पूर्ववादे उपबृह्मण वैघट्यमुक्तम् । अत्र तूपबृह्मणीयोपदेश एव न सम्भवतीति सङ्गतिमभिप्रेत्य वादार्थं सङ्गृह्णातिः - त्रिविधेति । बद्धमुक्तनित्यरूपेण चितो जीवास्त्रिविधाः । त्रिगुणशुद्धसत्वकालरूपेणाचेतनमपि त्रिविधं तदन्तर्यामिना तच्छरीरकत्वम् । तेन तत्वमसीत्यभेदोपदेशस्यान्यथा सिद्धिरुक्ता । भ्रमं वारयतीत्यनेन वादार्थस्सूचितः । तथा चानन्यभक्त्या सहितैश्शरीरात्मभावनिबन्धनैरैक्योपदेशादिशास्त्रैश्शुद्धभावं गतानां स्वनिष्ठत्वभ्रमं स्वरूपैक्यभ्रमं च यो कारयति तस्य ह्यमुखस्य पदे मम शरणवाणी भवत्वित्यर्थः । यदाहुरिति । ऐक्यापदेशोहि तस्य ज्ञानद्वारा मोक्षार्थः । न चै तदैक्योपदेशस्यापारमार्थ्य उपपद्यते अतः श्रुतिसिद्धजीवब्रह्मैक्यस्य पारमार्थ्या तदनुपपत्त्या भेदज्ञानस्य भ्रमत्वम् । परिशुद्धेऽपि ब्रह्मणि भ्रमोपपादकमज्ञानं तन्निवृत्त्यो पदेशस्य सप्रयोजकत्वं च कल्पनीयमित्यर्थः । अवश्यं कल्पनीयमित्यत्र कल्पनीयञ्च कल्पनीयश्च कल्पनीयं न पुंसकमित्यनेन तस्यैकशेष एकवचनं च द्रष्टव्यम् । नन्वत्रैक्यमेव नोपदिश्यत इत्यत्राहः - न चात्रेति । समानाधिकरणवाक्ये ऐक्यं न विवक्षितमित्यत्राहः - विशिष्टे सति । समानाधिकरण वाक्यमैक्य परमित्येतदुभय सम्मतमित्यर्थः । ननु समुद्रः कुण्डिका विन्ध्यो वर्धितकमित्यादाविवस्तुत्यर्थमारोपोस्त्वित्यत्राहः - न चेदमिति । विधिशेषत्वाभावादिति भावः । न चात्रौपचारिकत्वमपि शङ्कार्हमित्याहः - न चेदमिति । आदिशब्देन मुख्यार्थानुपपत्त्यादिर्विवक्षितः । बाधकाभावादिति । मुख्यार्थानुपपत्तिर्हि सर्वत्रार्थान्तरपरत्वे हेतुः । सा नास्तीत्यर्थः । ननु बाधकभावात्तवापि लक्षणा न स्यात् यदि च विशिष्टा भेदबोधनानुपपत्तिर्बाधिका तर्ह्यस्माकमपि जीवब्रह्मैक्यबोधनानुपत्तिरेव लक्षणाहेतुरस्त्वित्यत्राहः - यद्यपीति । वाक्यंहि पदात्प्रधानमतस्तदर्थ एवानुरोध्यः । समानाधिकरणवाक्यस्य हि मुख्यं विशेष्यैक्यमतस्तदेव तात्पर्यविषयः । तदभावेत्वमुख्याथैक्यमिति सर्वसम्मतमतस्तत्वमसीत्यादौ त्वदभिमतोपचाराङ्गीकारे मुख्यार्थपरित्यागो दोषः । अस्मन्मते तु मुख्यैक्यापरित्यागान्न लक्षणादोषः । किञ्चनिमित्त प्रहाणेन स्वरूपलक्षणा न दोषः । प्रत्युत मुख्यैकार्यत्वादनुकूलैवेत्यर्थः । भेदाभेदाङ्गीकाराद्भेदज्ञानस्य न भ्रमत्वं कल्प्यम् । भेदश्रुतेरपि प्रमाणत्वादिति कस्यचिच्चोद्यं निरस्यति न च भेदेति । व्याघातादिति । विरोधादित्यर्थः । भेदप्रतीतेरभेदाभावोविषयः । ऐक्य प्रतीतेश्च भेदाभावो विषयः । भेदाभेदयोः परस्परविरहात्मकत्वाभावादुभयत्यागेन दोष इत्यत्राहः - अत एवेति । भेदाभेदयोः परस्परविरहात्मकत्वमेव विरहात्मलत्वाभावेऽपि परस्परविरहव्याप्यतया विरोधादन्यतरनिषेधस्यान्यतर विधिनान्तरीयकत्वेन व्याघातादित्यर्थः । दूषणान्तरमाहः - तात्पर्येति । लाघवादैक्य एव तात्पर्ये तद्विरुद्धभेदेऽपि तात्पर्यं कल्पनं विरुद्धमित्यर्थः । उक्तत्वादिति । तथापि प्रधानभूतेत्यादि वाक्य इत्यर्थः । उभयत्यागे दोषान्तरमाहः - अन्यथेति । भिन्नं वा वस्त्वभिन्नं वा वाच्यमुभयाभावे शून्यतापर्यवसानादिति भाव - । तत्सद्भाव इति । क्वचिदुपासनैकवाक्यत्वे सत्यप्यैहिकाष्मिकलिङ्गाभावान्न दृष्टिविधिरित्यर्थः । तद्भेद इत्यतः पूर्वं सिद्ध इति शेषः । जीवपरयोरैक्ये तत्व इति क्वचित्पाठः । सप्रयोजन एवैक्योपदेश इति एवकारोभिन्न क्रमः । भेद भ्रमोन्मूलनेनैव स प्रयोजन इत्यन्वयः । क्वचित्सप्रयोजनतयैवैक्योपदेश इति पाठः । यथेति । चन्द्रद्वित्व भ्रमकाल इति शेषः । अज्ञानभेदभ्रमादय इत्यत्रादिशब्देन भ्रमोन्मूलनं विवक्षितम् । अन्यथापीति । अभ्युपगमवादोऽयम् । तावताप्यर्थापत्तिनिरासात्तत्वार्थमाहः - अन्यथैवोपपन्न इति । वस्तुतस्त्विति शेषः । तथाहीति । शरीरात्मभावनिबन्धनं सामानाधिकरण्यमित्यन्यत्रोपपादनात्तथआ निर्वाहे सम्भवत्यत्यन्त विरुद्धार्थयोरैक्यं न विवक्षितुं योग्य मित्यैक्योपदशश्शरीरात्मभावेनोपपाद्यो न तु परिशुद्धे ब्रह्मणि भ्रमादि कल्पनेनेति भावः । अन्यथेति । अविरुद्धगति सद्भावेऽपि विरुद्धगति कल्पने यूपादित्ययोर्भेदज्ञानं भ3म इति तद्धेतु दोषकल्पना च स्यादित्यर्थः । एवं शरीरात्मभावेनान्यथा - सिद्धिरुक्ता । इदानीं पूर्वपक्षिणा दूषितमुपचारपक्षमुद्धरतिः - न च लाक्षणिकेति । लक्षणयापि वृत्त्या एकस्मिन्नेव वृत्त्यङ्गीकारात्समानाधिकरणवाक्य प्रधानार्थस्यैक्यस्यापरित्यागादुपचारो न दोषायोत्यर्थः । ननु लक्षणायां स्वारसिकं मुख्य विशेष्यैकपरत्वं न सिद्धयत्युक्तमित्यत आहः - अतइति । अविरुद्धगत्यन्तरे सति विरुद्धं मुकअय विशेष्यैक्यमपि त्याज्यमेव । अन्यथा निमित्तमपि न त्यज्येत ।यूपादित्यवाक्ये भ्रमहेतुदोषश्च कल्प्येतेत्यर्थः । तन्मूलेति । सामानाधिकरण्यमूलमज्ञानादि कल्पनमित्यर्थः । न केवलं विरुद्धगत्यन्तरसद्भावाद्भेद भ्रम कल्पनस्योपपादकत्वा भावमात्रं प्रत्युत प्रतिकूलत्वं चेत्याहः - अज्ञान मूलेति । अविद्यादि स्वरूपस्यानुपपन्नत्वान्नतैरैक्योपदेशोपपादनमिति दूषणान्तरमाहः - न चा ज्ञानेति । स्वयं स्वेनरूपेणेत्यर्थः । स्वयं क्तेनेति समासः । दर्शितमिति । स्वरूपानुपपत्तिनिवृत्त्यनुपपत्तिबाह्यप्रकाशानुपपत्तिष्वित्यर्थः । यदि चेति । अविद्यायामिवोपपादकाभावेन दुर्घटत्वमुपदेशस्यैव श्रवणस्त्वित्यर्थः । ननु भेदस्य मिथ्यात्वदेरकल्पने ऐक्योपदेशस्या प्रामाण्यं स्यादिति शङ्कतेः - अप्रामाण्यमिति । अस्मन्मतेति । यदि प्रामाण्यार्थमुपपादकापेक्षा तर्ह्यस्मदभिमतेन सुघटेन शरीरात्मभावेनैवोपपाद्यतां किं दुर्घटाद्यादिनेत्यर्थः । यद्वा प्रामाण्यार्थमज्ञानाद्युपपादकं कल्पयति तथापि भेदवदस्यापि दुर्निरूपतया अप्रामाण्यमुपदेशस्य सिध्यत्येवेति क्रमेणाभिलक्षितमुपदेशस्य यदप्रामाण्यं तस्यादावेव सिद्धावत्केचिदिति न्यायेन दूरगमनं व्यर्थमित्याहः - यदिवेति । यद्वेत्यर्थः । किञ्चेति । न च भेदज्ञानवदैक्यज्ञानस्य लोके सिद्धयभावात्कस्यमूलमज्ञानं कल्प्यत इति वाच्यम् । तव श्रुत्यैकजन्याया अपि सार्वज्ञादि भेदप्रतीतेर्भमत्वेनाज्ञानमूलत्ववच्छ्रुति जन्यस्यैव वाक्यज्ञानस्य भ्रमतयातन्मूलाज्ञानस्यभ्रमतया तन्मूलाज्ञानस्य कल्प्यसम्भवादिति भावः । ननु भेदश्रुतिर्निषेध्यार्पकत्वे ना भेद श्रुतितो दुर्बलेत्यत्राहः - ने चै केति । श्रुत्यैकसिद्धस्थ सार्वज्ञादि भेदस्य निषेधार्थमनुवादसम्भवात्प्रत्यक्षादि सिद्धस्यभेदस्य निषेधा सम्भवान्नभेदश्रुतिर्निषेधार्यानुवाद इति भावः । बलीयस्त्वमिति । तत्वावेदकत्वादृयवसाय इत्यर्थः । दुर्निरूपत्ववैषम्यमपि समानमित्याहः - न च भेदस्वरूपमित्यादिना । किञ्चैक्योपदेशानुपपत्तेर्भेद प्रतीतिरेव नास्तीति कल्प्यतां कृतं तस्य भ्रमत्व कल्पनयेत्याहः - किञ्चेति । प्रत्यक्षादिसिद्धस्यापलापो न शक्यत इति शङ्कतेः - प्रत्यक्षादीति । यदि प्रत्यक्षादिविरोधाद्भेदप्रतीत्यपह्नवः शक्यो न भवति तर्हि निर्दोषभेद श्रुतिविरोधात्तदप्रामाण्यमप्यशक्यकल्प्यमित्यर्थः । ननु भेदप्रतीतेः प्रामाण्यत्यागमात्रादैक्योपदेशसम्भवान्न धर्मिस्वरूपनिह्नव इति शङ्कतेः - भ्रान्ति सिद्ध इति । भेदज्ञानप्रामाण्यत्यागेनैवैक्यज्ञानप्रामाण्यत्यागेनाप्यभेदोपदेशस्यो पपत्तेर्गोखान्नज्ञानादि कल्पनमिति परिहरतिः - अज्ञानादिति । ननु प्रयोजनं विनावेदस्य भ्रमजनकत्वं न सम्भवतीत्याशङ्क्य तुल्यतया समाधत्तेः - भिन्न ब्रह्मणीति । अत्रेति उपासनेन फलमित्यन्तरमिति शब्दो द्रष्टव्यः । भेदोपासने तु फलमितिकृत्वा भ्रमोत्पादनमिष्टार्थमिष्टसिद्ध्यर्थमित्यर्थः । तुल्यमिति । अभेदस्यकल्पितत्वेप्युपासनार्थतया सप्रयोजनतेत्यर्थः । नदृश्यतइति । अभेदोपदेशवाक्यस्येति शेषः ।प्रदेशान्तरे उपासनविधेस्सत्वात्तदेक - वाक्यतया दृष्टिविधिरुपपद्यत इति शङ्कतेः - दूरेति । अत्रापि तथा किं न स्यादित्याहः - न किमत्रापीति । किञ्च यथैक्योपदेशान्यथापत्तिपरिहारायाशुद्धया विकल्प्यते तथा शुद्धत्वान्यथानुपपत्त्या उपदेशस्यार्थवादत्वं वा मुख्यार्थपरित्यागेन तावधिन्यपात्वमैक्यपरत्वेऽपि कल्पितैक्यपरत्वं वा कल्प्यतामित्यर्थः । अवरोध इति । शुद्धत्वस्येति शेषः । मिथ्यात्वेनाविरोधश्चेदैक्योपदेशस्यापि मिथ्यात्वादनुपपत्त्यभावादुपपादककल्पकता न स्यादित्याहः - उपदेशेति । श्रौतोपदेशन्यथानुपपत्तिं दूषयित्वा स्मार्तोपदेशानुपपत्तिं दूषयतिः - यच्चेति । तत्वपरिज्ञानेति । तत्वज्ञानादेवोपदेशप्रवृत्तिरन्यथाऽनाप्तत्वेन तदुपदेशवाक्यस्याप्रामाण्यपत्तेः । तच्च ज्ञानमज्ञानरहितस्येति तादृशोपदेशस्या ज्ञानकल्पकत्वं विरुद्धमित्यर्थः । चित्रमिति । विरुद्धभाषणस्याश्चर्यंहेतुत्वादिति भावः । एतत्सर्वमुपदेशपरम्परया प्राप्तमित्याहः - तदेतदित्यादिना । वत्सकुलजलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणी टीकायाम् एकोन पञ्चाशोवादस्समाप्तः ॥