॥अथ उपबृंहणवैघट््यवादः अष्टचत्वारिंशः ॥48॥
गुणविभूतिविशेषविचित्रितं निगमसीमनि यत्समधीमहे ।
स्मृतिपुराणशतैरुपबृंहितं तदिदमस्तु सदा हृदयेषु नः ॥
यदुच्यते-निर्विशेषचिन्मात्रब्रह्मात्मैक्यं त्रय्यन्तसिद्धं स्मृतिपुराणादीन्युपबृंहयन्तीति; तत्र तावत् तत्तत्प्रकरणादिपरामर्शेन भाष्यकारै तेषां यथावस्थितोऽर्थः प्रदर्शितः ।
सामान्यतः किञ्चिदुच्यते ।
यदा शब्दमात्रस्य निर्विशेषबोधनसामर्थ्यं नास्तीत्युपापीपदाम तदा कैव कथा तद्विशेषाणाम्? यदा च श्रुतिपरिषदशेषाऽपि विशिष्टविषयेति निरणैष्म, तदा कथं तदुपबृंहणानि तत्प्रतिपादकानि प्रतिपद्येमहि? यदा पुनः निर्विशेषपरा सेति पश्यसि, तदा तत्रोपबृंहणं नाम किं यथोक्तानुवादमात्रम्? उत तद्धक्तीकरणम्? अथानुक्तवस्त्वन्तरवर्णनम्? अन्यद्वा किञ्चित्? इति ।
न प्रथमः,अनुवादमात्रेषूपबृंहणत्वप्रसिद्ध्यभावात्; प्रयोजनाभावाच्च ।
ज्ञातस्थिरीकरणं प्रयोजनमिति चेन्न; श्रुतिप्रामाण्ये तदर्थे च यथावन्मीमांसिते तदनुवादमात्रेण तदतिरिक्तस्थिरीकरणासम्भवात् ।
यदि तत्रानाश्वासः, तदा कैव कथा सम्भवद्भ्रमप्रमादादिदोषेषु पौरुषेयेषु वाक्येषु? नच साक्षात्सौगतमतमाश्रित्य संवादात्प्रामाण्यमनुमन्तुमर्हसि ।
नचैवमुपबंृहणान्तरसापेक्षम्, अनवस्थाप्रसङ्गात् ।
न च तन्निरपेक्षम्, श्रुतिवदेव तव तत्राप्यनाश्वासप्रसङ्गात् ।
परस्परसंवादादुभयत्राश्वास इति चेत्; मास्तु, असकृदनुसंहितैक श्रुतिवाक्यमात्रजन्मनि तत्प्रत्ययप्रवाहेऽपि तस्य कर्तुं शक्यत्वात्, अतिप्रसङ्गश्च तदेति ।
नापि द्वितीयः, निर्विशेषपक्षे तदयोगात् ।
तथा हि-यन्निर्विशेषं श्रुतं तच्छ्रुत्यैव व्यक्तम् ।
तदतिरिक्तप्रकाशने तु सविशेषत्वावश्यम्भावादुपबृंहणोपबृंहणीयवैघट््यम् ।
मिथ्याभूतातिरिक्ताकारबोधनेऽपि कथं तत्त्वावेदकस्यातत्त्वावेदकमुपबृंहणं स्यात्? अथ श्रुतौ कस्यचिदप्रतिपन्नं कस्यचित्प्रतिपन्नं ब्रह्मस्वरूपमेवात्र व्यज्यत इति मन्यसे; तदपि न, श्रुतिं प्रत्यनङ्गत्वप्रसङ्गात् ।
तदाभिमुख्यजननात्तदङ्गत्वमिति चेत्; तत्फलसिद्धौ किं तदाभिमुख्येन? असिद्धौ वा कुतस्तत्? नापि तृतीयः, अनुपबृंहणत्वप्रसङ्गादेव ।
अन्यथा परस्परभिन्नार्थानां वेदभागानामेव परस्परोपबृंहणत्वप्रसङ्गात् ।
नापि चतुर्थः, अत्यन्तभिन्नार्थत्वस्याभिन्नार्थत्वेऽप्यन्यूनानतिरिक्तविषयत्वस्यातिरिक्तविषयत्वेऽपि सत्यमिथ्यार्थत्वयोर्दूषितत्वात् न्यूनबोधनमवशिष्यते ।
नच तदाऽप्युपबृंहणता, उक्तांशस्य तुल्यतया नैरपेक्ष्यात् ।
अनुक्तांशेऽनुक्तेरेवोपबृंहणत्वगन्धाभावादिति ।
किञ्च, यच्चाधिकं श्रुतौ बोध्यते तत्सत्यत्वे सविशेषता, तन्मिथ्यात्वे श्रुतिरतत्त्वावेदिका, पुंवाक्यं तु न तथेत्यापन्नम् ।
नच माभू दुपबृंहणमिति वाच्यम्; शारीरकाधिकरणेषु तत्रतत्र स्मृतिसंवादोदाहरणादिविरोधात् ।
अन्यथा चेदनुग्राहकतर्कस्यापि प्रहाणप्रसङ्गात् ।
तत्प्रहाणो पुनः* आर्षं धर्मोपदेशमित्यादिमहर्षिवचनविरोधः ।
न चैवमस्मन्मते प्रसङ्गः, श्रुतिप्रतिपन्नस्यैव ब्रह्मणोऽनन्तगुणविभूतेरप्रतिपन्नानेकगुणविभूतिवैशिष्ट्यबोधनेन व्यक्तीकरणोपपत्तेः ।
न चाप्रतिपन्नस्यांशस्यावेदार्थत्वम्, (वि)
प्रकीर्णानन्तशाखे महति वेदवृक्षे यत्र क्वचित्कोटरे तस्यापि लीनत्वात्, तस्य चाल्पभागश्राविभिरयोगिभिरधिगन्तुमशक्यत्वात्, तत्कृते च योगिभिरुपबृंहणप्रणयनोपपत्तेः ।
कति कति च दृश्यन्ते अधीयमानास्वपि शाखास्वप्रतिपन्नाः संशयिताश्च उपबृंहणाधीनाध्यवसायाः सारार्थाः? अन्यथा कथं वेदार्थे वादिनां मतभेदसमुत्थानम्? न चोपबृंहणानां मिथो विरोधान्निर्णयासिद्धिः; उपबृंहणीयविरोधाविरोधाभ्यां विशेषात् ।
अत एव हि शारीरकस्मृत्यधिकरणे कपिलादिस्मृतेर्निरासः ।
उपबृंहणीयाविरुद्धमन्वादिस्मृतिसन्निधौ तद्विरुद्धकपिलादिस्मृतेरप्रमाणत्वान्न तेरुपबृंहणं नाप्युपबृंहणीयबाध इति हि तत्रार्थः ।
तेन तामसराजसङ्कीर्णपुराणादिभिर्वेदोपबृंहणं पुराणविवेकपरिज्ञानशून्यानामविवेकितानिबन्धनमिति तन्नाद्रियामहे ।
उक्तं हि मात्स्ये * अग्नेश्शिवस्य माहात्म्यमित्यारभ्य, * सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः ।
तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम् ॥ इत्यन्तम् ।
तदेतत्सर्वमर्थतो निदर्शितं भाष्ये-* उपबृंहणं नाम विदितसकलवेदतदर्थानां स्वयोगमहिमसाक्षात्कृतवेदतत्त्वार्थानां वाक्यैः स्वावगतवेदवाक्यार्थव्यक्तीकरणम्, सकलशाखानुगतस्य वाक्यार्थस्याल्पभागश्रवणदुरवगमत्वेन तेन विना निश्चयायोगादुपबृंहणं हि कार्यमेवेति ।
एवं च सामान्यतो निर्विशेषतया उपबृंहणासम्भवेऽनुपबृंहितेन वेदेनार्थनिश्चयायोगाद्वेदविप्लावक एव निर्विशेषवादः ।
स्मरन्ति च-
* इतिहासपुराणाभ्यां वेदं समुपबृहंयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ इति ॥
॥ इति शतदूषण्याम् उपबृंहणवैघट््यवादः अष्टचत्वारिंशः ॥48 ॥
नृसिंहराजीया
स्मृतिपुराणादीनामपि विशिष्टविषयत्वेन निर्विशेषविषयत्वाभावाद्विकल्पस्याप्रामाण्ये तेषामुपबृम्हकत्वं न स्यादिति हेतुमद्भाव सङ्गत्यावादाथ1 सङ्गृह्णातिः - गुणविभूतीति । अनेनामुक्तविशेषैस्सहावगतार्थव्यक्तीकरणमुपबृह्मणमिति परमते तद्वैघट्यमिति सूच्यते । अनेन वादार्थोऽपि सङ्गृहीतः । निगमसीमानि - वेदान्त इत्यर्थः । प्रकरणादिविरोधान्निर्विशेषोपबृम्हकत्वमिति भावः । भाष्यकारग्रहणेन प्रकरणादिविरोधस्या विचाल्यत्वं सूचितम् । दूषणान्तरमाहः - सामान्यत इति । किमुपबृह्मणानि विशिष्टपराणि निर्विशेषपराणि वेति विकल्प उपबृह्मणीय विरोधात्प्रथमपक्षासम्भवद्वितीयं दूषयतिः - यदा नामेति । किं च किं श्रुतिर्विशिष्टविषया यद्वा निर्विशेषविषया नाद्य इत्याहः - यदा च श्रुतीति । द्वितीयं दूषयतिः - यदा पुनरिति । किमर्थनिश्चयस्थिरीकरणमुतान्यत्किञ्चिन्नाद्यः । तस्य निश्चितप्रामाण्येन मीमांसितेन श्रुतिवाक्येन सिद्धतया अनुवादनैरपेक्ष्यात् । न द्वितीयः अनुवादात्स्थिरीकरणाख्यस्य कस्यचिद्दर्शनादाहः - न श्रुतिप्रामाण्य इत्यादिना । तादृश्यापि श्रुत्यर्थानवधारणे हेतुमाहः - यदि तत्रेति । कैव कथेति । अर्थनिश्चयहेतु पौष्कल्येऽपि श्रुतेरर्थनिश्चायभावे सन्देहहेतौ जागरूके श्रुत्यादि नाऽर्थनिश्चयस्सुतरां न सम्भवतीति भावः । ननु संवादादेव शब्दस्य प्रामाण्यनिश्चयः ततश्चोपबृम्हवादात्प्राक् श्रुतेरर्थनिश्चयाभावादुपबृम्हणाधीनमेवात्रार्थावधारणात्मकं स्थरीकरणमित्यत्राहः - नचेति । साक्षाद्बाह्यत्वप्रच्छादनं विना बौद्धपक्षमाश्रित्यैवं वक्तव्यं नत्नात्वनाश्रित्य ।तथा च संवादेन प्रामाण्य हि बौद्धोवदति तथा वदन् बौद्ध एवस्यादिति भावः । किमुपबृम्हणस्यापि संवादान्तरात्प्रामाण्यम् उत तन्निरपेक्षं नाद्य इत्याहः - न चेति । एवमिति । द्वितीये दोषमाहः - न च तन्निरपेक्षमिति । अन्यथा श्रुतेरेव प्रामाण्यस्य वक्तुं शक्यत्वादिति भावः । किं संवादिवचनान्तरप्रामाण्यनिश्चयाधीनः आश्वासः किं वा संवादमात्राधीनः नाद्यः अन्योन्याश्रयप्रसङ्गादित्यभिप्रेत्य द्वितीयदोषमाहः - असकृदनुसंहितेति । तस्येति । आश्वासस्येत्यर्थः । बाह्यागमानामपि परस्परसंवादात्प्रामाण्यप्रसङ्ग इत्याहः - अतिप्रसङ्गश्चेति । निश्चयमात्रं व्यक्तीकरणमुत प्रतिपन्नाद्विसेषाकारनिर्णयः आद्ये दोषमाहः - यन्निर्विशेषमिति । द्वितीयेऽपि तदतिरिक्ताकारः किं सत्यः उत मिथ्या आद्य आह तदतिरिक्तेति । निर्विशेषविषयत्व मुपबृम्हणीयस्येति भावः । द्वितीयआहः मिथ्या भूतेति । श्रुत्यनर्हाणां ततो ब्रह्मस्वरूपप्रतिपत्त्य सम्भवादत्रोपबृम्हणे न ब्रह्मस्वरूपनिर्णयो भवतीति प्रयोजनमिति शङ्कतेः - अथेति । श्रुत्याप्रतिपन्नेर्थे विशेषबोधनेन वा श्रुतौ संशयिनार्थ व्यक्तीकरणादिना वाश्रुत्युपकारस्योप बृम्हणत्वं स्यान्नतु स्वातन्त्र्येण किञ्ञ्चित्प्रतिबोधकत्वमात्रेणेत्याहः - तदपि नेत्यादिना । तदाभिमुख्य जननादिति । स्वमूलभूत श्रुतौ प्रवर्तनेनेत्यर्थः । तन्मूलेति । श्रुत्यासम्भवत्फलस्यार्थाभावधारणस्यपबृम्हणादेव सिद्धेस्तत्र वृत्त्यावात्तेनापि न तदन्त्वमिति भावः । सिद्धादिति । तदभिमुख्ययेत्यर्थः । उपबृम्हणावधारितार्थत्व सोपादेयत्व बुद्धयाहि तत्प्रतिपादक श्रुतौ तन्मूलूभूतायां प्रवृत्तिः स्यादिति भावः । अनुक्तवस्त्वन्तर मात्रवर्णनिमिति तृतीयः पक्षः । तं दूषयतिः नापि तृतीय इति । उपबृम्हणत्वप्रसङ्गादिति । ननु समानार्थानां शाखान्तरस्थानां वाक्यानां परस्परोपबृम्हणत्वाभाववद्भिन्नार्थानामप्युपबृम्हणत्वं न स्यादिति चेन्न समानार्थनामुपबृम्हणत्व पक्षे तत्वेऽपि विरोधाभावात्तदुपबृम्हणत्वमस्तु वा वा मा वादि प्रसङ्गइत्यत्रातात्पर्यम् । नापि चतुर्थ इति । अस्तूपबृम्हणत्वं यत्किञ्चित्तथाप्यपबृम्हणत्वेनाभिमतमुपबृम्हणीयेनात्यन्तभिन्नार्थमभिन्नाथ1 वा अभिन्नार्थत्वे व्यतिरिक्तविषयं न वा अतिरिक्तविषयत्वेऽपि सत्यविषयं मिथ्याविषये वा अतिरिक्तविषयत्वा भावेऽपि अन्यूनविषयं न्यूनविषयं वा तत्रोक्त विधया पक्षान्तरेषूपबृम्हणत्वस्य त्वयावक्तुं मशक्यत्वाच्चरमः पक्षः परिशिष्यते । तत्राप्युपबृम्हणत्वं न सम्भवति । तथा हि स्मृत्यादिकं प्रतिपाद्यं स्मृत्यथा1शमुपबृम्हथति उत स्वाप्रतिपाद्यं स्मृत्यथा1शम् । नाद्यः यथा स्वोक्तांशो यथा श्रुत्याप्रतिपाद्यते तथेव स्वेनापि प्रतिपाद्यमानो दृश्यते नत्वाकारविशेषणेति तस्य स्व नैरपेक्ष्यात् न द्वितीयः तदंशस्य स्वाविषयत्वादित्यर्थः । यच्चाधिकमिति । उपब्रह्मणस्य न्यूनविषयतया श्रुतेरधिकविषयत्वस्या वश्यकत्वादिति भावः । इयताग्रन्थेन परोक्तयाऽनूद्य दूषितमिदानीं यदिकश्चिदुप बृम्हणं क्वाप्यनपेक्षितमिति बूयात्तमपि प्रसङ्गाद्दूषयतिः - यदि कः पुनरिति । शारिरकाधिकरणेष्विति । स्मर्यते च स्मृतेश्च “नान्यस्मृत्यनवकाशप्रसङ्गादि (ब्र.सू.2.1.1)त्यादिभिरित्यर्थः । अन्यथा चेदिति । उपबृम्हणापेक्षा नास्ति नचेच्छ्रुत्येनुग्राहकतया प्रसिद्धयोस्तर्कोपबृम्हणयोरन्यतरस्य त्यागे तर्कोऽपि त्याज्य स्यादित्यर्थः । इष्टापत्तिं परिहरतिः - तत्प्रमाणइति । ननु भवतामपि स्मृतिर्नश्रुति प्रतिपन्नांशस्योपबृम्हणं तदंशे भवदुक्त न्यायेन वैयर्थ्यात् । न च श्रुति प्रतिपन्नांशे । तथा सति तदंशे श्रुतिमूलत्वाभावेनाप्रामाण्यप्रसङ्गात्तस्मादुप - बृम्हणान्नुपपत्तिस्तुत्येत्याशङ्क्य परिहरतिः - नचैवमिति । प्रकीर्णेति । अधीयमानश्रुत्यर्थस्यश्रुत्यन्तरप्रतिपाद्य विशेषैस्सह प्रतिपादनमुपबृम्हणमिति भावः । तत्कृते - अल्पभागाध्येतृ पुरुषान् प्रतीत्यर्थः ।उपबृम्हणप्रणयनोपपत्तेरिति । नन्वत्ररथं समासः । उभयप्राप्तौ कर्मणी ( )ति षष््यां सत्यां कर्मणि चेति समासनिषेधादिति चेदुच्यते शेषत्वविवक्षायां षष्ठी समासश्च । नन्वेवं सति कतृकर्मोभ्य सम्बन्धाभावादुभयप्राप्ताविति नियमाभावात्कर्तृकर्मणोः कृतीति कर्तरिषष्ठी प्रसङ्गेन योगिभिरितिनिर्देशानुपपत्तेरिति चेदुभयप्राप्तौ कर्मणीत्यस्योभयस्मिन् कारके विवक्षिते कर्मण्येव षष्ठीति नैवमर्थः ॥ येन कर्तृकर्मविवक्षायां कर्मण्येव नियमात्तद्विवक्षायाश्शेषत्व विवक्षायामभावान्नियमा प्रवृत्त्याकर्त षष्ठीप्रसक्तिस्यात्किन्तु यत्र कर्तारं कर्मच विवक्षित्वा षष्ठी प्रापयितुं शक्यते तत्र कर्तृ विवक्षायां षष्ठी न स्यादिति । इदमेव व्याप्तिग्रहणस्य प्रयोजनम् । अत्र यद्यपि कर्तकारकंविवक्षित न कर्मकारकं तथाप्युभयविवक्षार्हता नास्तीति नियमप्रवृत्त्या तृतीयोपपत्तिः । कर्मकारकं त्वविवक्षितमिति कृत्वानात्रानेन षष्ठीनापि समासनिषेधः । शेषार्थस्तु विवक्षित इति तदाश्रया षष्ठी समासश्चा ननु तर्ह्युभय विवक्षा योग्यतामात्रमथशब्दनुशासनमित्यत्राप्यस्तीति तत्रत्य कैयटविरोधः । तत्रह्याचार्यस्यकर्तुः प्रयोजनाभावादनुपादानं नोभयप्राप्तौ कर्मणीति कर्मणि षष्ठीति दृश्यत इति चेन्न । यत्र कर्तृ कर्मणोरूभयोरपि तात्पर्यविषयत्वं तदेवोभयप्राप्तिशब्देन विवक्षितमाचार्यस्य कर्तुः प्रयोजनाभावादनुपादानाच्च तात्पर्यविषयत्वाभावान्नोभयप्राप्तिरित्येव कैयट तात्पर्यात् । अन्यथा येनादर्शनमिति प्रयोगानुपपत्तेः । येनादर्शनमित्यत्रात्मन इति व्याख्यतत्वात्तत्र तात्पर्यमवगम्यते । योगिभिरुपबृम्हणप्रणयिनोपपत्तेरित्यत्र कर्तृकर्मोभयसम्बन्धस्यापि स्वरूपेण तात्पर्यविषयत्वादस्युभयप्राप्तिः । इयानेव विशेषः । येनादर्शनमित्यत्र कर्मस्वरूपं तस्य कारकत्वं मित्युभयं च न शब्दतः प्रतिपाद्यते । प्रकृते तु वस्तुतः कर्मभूतमुपबृम्हणस्वरूपं शब्दत उपादीयते । कर्मकारकत्वन्तु शब्दतो न प्रतिपाद्यते । किन्तु शेषविवक्षायां सम्बन्धमात्रं प्रतिपाद्यत इति । कर्मकारकस्य तात्पर्यविषयत्वं तूभयत्रा विशिष्टम् । यत्तु पदमञ्जया1 “यदोभयप्राप्ताविति नियमेन कर्तरि तृतीया तदा कर्मणिचेति निषेधत्पाणिनिना सूत्रकृतिः आचार्येण शब्दानुशासनमित्यसाधु समास’’ इति तदपि यदा कर्मणि षष्ठी तदा न साधुरित्यभिप्रायम् । शेषे षष्ठ्यां तु साधुरेव । तत्रैव प्राप्तिग्रहणात्प्राप्तिमात्रे नियमइति कर्मणोऽप्रयोगेऽपि कर्तरितृतीया भवति । यथान्तर्घौ येनादर्शनमिच्छतीति । कर्मापि यदा शेषत्वेन विवक्ष्यते तदा तत्रापि शेषषष्ठी भवत्येव । तथा च कर्मणि चेति समास निषेधाभवादेवं जातीयक प्रयोगो निरवद्य एव । ननूपबृम्हणापेक्षायां श्रुत्यानिर्णयो न सिध्येत्तेषां परस्परविरोधादन्यतरपरित्यागे नियमकाभावादित्याशङ्क्य निराकरोतिः - न चोपबृह्मणानामिति । अत एवेति । स्मृत्यनवकाश दोषप्रसङ्गादिति चेन्नान्यस्मृत्यनवकाश दोष प्रसङ्गादि()त्यर्थः । एतेनेति । उपबृम्हणीयाविरुद्ध सन्निधौ तद्विरुद्धैर्नोपबृम्हणीत्यनेन तामसादीनां वेदविरुद्धत्वादिति भावः । उक्तंहीति । पुराणविभागो वेदाविरुद्धसात्त्विक पुराणैरेव वेदोपबृह्मणं चेति शेषः । अग्नेश्शिवस्य माहात्म्यं तामसेषु प्रकीर्तितः । राजसेषु तु कल्पेषु अधिकं ब्रह्मणो विदु ( )रित्यादिभिर्विभाग उक्तः । “तेष्वेव योग सिद्धा( ) इत्यादिना सात्त्विकैरेवोपबृह्मणं चोक्तम् । ननु भाष्ये किमथ1 नोक्तमित्यत्राहः - तदेतत्सर्वमिति । उपसंहरतिः - एवं चेति । निर्विशेषवादस्य वेदविप्लवाकत्वे स्मृति संवादयतिः - स्मरन्ति चेति । वत्सकुलजलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणी टीकायाम् अष्टचत्वारिंशो वादस्समाप्तः ॥