47 विकल्पप्रामाण्यभङ्गवादः

॥अथ विकल्प्रामाण्यभङ्गवादः सप्तचत्वारिंशः ॥47॥
संसारसागरोत्तारकारणं वारणाचले ।
अविकल्पविकल्पाभ्यामध्यक्षितमुपास्महे ॥
यदुच्यते -विप्रतिपन्नो विकल्पो मिथ्याविषयः विकल्पत्वात्, यथा शुक्तिरजतविकल्पः, नासौ जात्यादिविशिष्टप्रत्यय इति सर्वस्यापि भेदस्य विकल्पविषयतया मिथ्यात्वे परिशेषादद्वैतसिद्धिरिति; तदेतत् सविकल्पकमपि प्रत्यक्षविभागतयोदाहरद्भिर्भाष्यकारैर्निरस्तप्रायम् ।
तद्विस्तृणीमहे ।
तत्र तावत्पक्षादयो न निर्विकल्पकविषयतया सिद्धाः, तथा सत्यभिलापसम्बन्धानर्हत्वप्रसङ्गात् ।
विकल्पविषयतया सिद्धौ तु, य एते पक्षादिग्राहिणो विकल्पाः किं तेऽपि पक्षीक्रियन्ते, उत तद्धतिरिक्ताः? इति ।
न प्रथमः, व्याघातात् ।
विकल्पानां विसंवादित्वविकल्पस्य विसंवादे पुनस्तेषामपि
संवादपर्यवसानात् आश्रयाद्यसिद्धिप्रसङ्गात् ।
अविसंवादातिरिक्तायाश्च तत्सिद्धेरनिरूपणात् ।
विसंवादेऽपि वा तत्सिद्धौ सर्वत्र विशिष्टार्थसिद्धेर्दुर्निवारत्वात् ।
नापि द्वितीयः, तैरेवानैकान्त्यात् ।
अविसंवादोऽपि तेषामनिश्चित इति चेन्न; तथाऽपि सन्दिग्धानैकान्त्यस्य स्थितत्वात् ।
अन्यतस्तेषां विसंवादसाधनेऽप्युक्तदोषानुधावनात् ।
यदि च सर्वे विकल्पा विसंवादिनः, कथमनुमानादिविकल्पास्ते प्रमाणं भवेयुः? परम्परया अर्थप्रतिबन्धादिति चेत्; तुल्यं विकल्पेऽपि ।
माभूत्तेषां प्रामाण्यमिति चेत्; तथाऽपि कथमेतदनुमानं समीहितसाधनायोदाहरसि? लोकव्यवहारसिद्धतया परमतसिद्धतयेति चेन्न; आत्मघातिनामीदृशानां बालिशैः परीक्षकैश्च साध्यसिद्ध्यङ्गत्वानभ्युपगमात् ।
किञ्च निर्विकल्पकस्यापि संवादः किं विकल्पगृहीतः, उत निर्विकल्पकगृहीतः? नाद्यः, निर्विकल्पकस्य विसंवादित्वप्रसङ्गात् ।
अन्यथा क्वचिद्विकल्पप्रामाण्यानभ्युपगमेऽनैकान्त्यादिदोषात् ।
न द्वितीयः, स्वस्यापि संवादित्वग्रहणे तस्यानधिकारात् ।
अधिकारे वा विकल्पपसङ्गात् ।
तेन विकल्पवन्निर्विकल्पकस्यापि प्रामाण्यनिर्मूलनादप्रयत्नविजयिनो माध्यमिकाः ।

कश्चायं विसंवादः? किं संवादिज्ञानान्तरराहित्यम्? आहोस्वित् अर्थक्रियास्थित्यभावः? बाधकज्ञानान्तरोदयो वा? यद्वा अनर्थभूतत्वम्? अथवा अनर्थविषयत्वम्? यद्वा अन्यस्यान्यात्मनोल्लेखः? अन्यद्वा किञ्चित्? इति ।
न प्रथमः, क्वचिद्बाघात्; क्वचिदिष्टप्रसङ्गात्, अकिञ्चित्करत्वाच्च ।
संवादकाभावे कथमध्यवसाय इति चेत्; यथा संवादकस्येति पश्य ।
परस्परसंवादादुभयाध्यवसाय इति चेन्न; शुक्तिरजतबोधधारावाहिकसन्ततौ तदसिद्धेः ।
अर्थक्रियाविरहव्यवसायविसंवादात्तत्र सर्वत्राप्रमात्वमिति चेत्; एतेन द्वितीयः कल्पः परिजिघृक्षितः ।
सोऽपि न, सर्वासामर्थक्रियाणां विकल्पोज्ञत्वात् ।
नहि
निर्विकल्पकेन कश्चित्प्रवर्तते ।
न च विकल्पतः प्रवृत्तस्यार्थक्रिया न सम्भवति; मणिप्रभाविषयमणिविकल्पप्रवृत्तस्येव स्वलक्षणप्रसूतनिर्विकल्पकजनित तदारोपितार्थोल्लेखविकल्प प्रवृत्तस्यापि पारम्पर्येणार्थसम्बन्धात् ।
निर्विकल्पकनिदान एव संवाद इति चेन्न; नियामकाभावात् ।
बाधितत्वमिति चेत्; तत्स्तृतीयः पक्षः स्वीकृतः ।
सोऽप्यसारः, असिद्धेः ।
अत एवानुमानात्तत्सिद्धिरिति चेन्न; अद्यापि तत्प्रामाण्यानिश्चयात् ।
अर्थजत्वात्तत्सिद्धिरिति चेन्न; साक्षादसिद्धेः ।
परम्परया त्वविशेषात् ।
अत एव न चतुर्थः ।
न च जात्यादिविशिष्टस्य जात्यादिविशेषणस्य वा दृढोपलम्भसिद्धस्याबाधि तस्याप्यनर्थत्वं निश्चिनुमः, यतस्तत्प्रसूतस्य विकल्पस्यानर्थत्वम् ।
अतएव न पञ्चमः, अनुमानादिनिर्मूलनाच्च ।
षष्ठोऽपि स्वलक्षणाकारतयैव जात्यादिसिद्धेर्निरस्तः ।
न चाशब्दात्मार्थः शब्दात्मना विकल्पे भातीति वाच्यम्, सर्वेषु विकल्पेषु शब्दानुवेधाभावात् ।
यत्र च शब्दानुवेधः तत्रापि शब्दोऽर्थात्मना प्रतिभाति, अशब्दात्मनैव पूर्वमेवाध्यवसायात् ।
नच गौरित्यत्र गकारौकारविसर्जनीयात्मकोऽयमिति मन्यते, अपि तु गोशब्दप्रवृत्तिनिमित्तभूतगोत्वाश्रय इति ।
एकार्थानेकशब्देष्वनेकार्थैकशब्देषु च शब्दानामर्थानां च परस्परविरोधादेव नैकतादात्म्याध्यवसायसम्भवः ।
न चात्र साम्यसन्निकर्षादिकमध्यासनिमित्तं पश्यामः ।
नच चाक्षुषनीलादिप्रत्यये श्रावणनीलादि शब्दात्मनोल्लेखो युक्तः ।
नच
विकल्पास्सर्वे समानाः, मानसबाह्येन्द्रियव्यापारान्वय व्यतिरेकानुविधानविरोधात् ।
न च गोशब्दात्मना खण्डशब्दात्मना च गोव्यक्तौ विकल्पितायां जातिव्यक्तिशब्दविभागनिमित्तं सम्भवति ।
न च जातिशब्दो व्यक्तौ नाध्यस्त इति वाच्यम्; गौरयमित्येव प्रतिभासात् ।
तथा च व्यक्तिशब्दस्यापि तुल्यन्यायतया नाध्यासः ।
अतस्तटस्थ एव शब्दस्स्वविषयमावेदयति, वस्त्वन्राच्च व्यवच्छिनत्तीति न शब्दाध्याससम्भवः ।
नापि सप्तमः, बाधपर्यवसितस्य कस्यचिदन्यस्यानुपलम्भात्, अन्यादृशस्य साधनेऽपि विरोधाभावादिति ।
न च संस्कारप्रसूततामात्रेण विकल्पस्याप्रामाण्यम्, स्मृतिप्रामाण्यवादिषु तस्य दुर्वचत्वात्, संस्कारमात्रासाधारणकारणस्य स्मृतित्वात् ।
स्मृत्यनुभवात्मकपक्षेऽप्यंशे स्मृतित्वलक्षणमप्रामाण्यं प्रसज्येत, न पुनर्विसंवादित्वलक्षणम् ।
विकल्पत्वादिति हेतुश्च विशिष्टप्रत्ययत्वमात्रम्? तद्विशेषो वा? नाद्यः, निर्विकल्पकस्याप्यस्मन्मतेन यत्किञ्चिद्विशिष्टप्रत्ययत्वेनानैकान्त्यात्; तस्यापि पक्षीकारे तदतिरिक्तनिर्विकल्पकस्यानुपपत्त्या सर्वप्रत्यक्षोच्छेदप्रसङ्गात् ।
नापि द्वितीयः, प्रथमाक्षसन्निपातजविशिष्टप्रत्ययादुपरितनाविशिष्टप्रत्ययस्य कारणदोषादिविशेषाभावात्; संसारसम्भेदादेश्चादोषरूपत्वस्थापनात् ।
अतो विशिष्टप्रत्ययमात्राप्रामाण्यवादिना सर्वप्रत्यक्षनिर्मूलने, परिशेषोऽपि शून्यतत्त्वमुपस्थापयेत्,न पुनरद्वैतम् ।
किञ्च कल्पितबाह्यविषयनिर्विकलप्कस्य त्वन्मतेन मिथ्याविषयत्वात् तद्दृष्टान्तेनाद्वैतविषयनिर्विकल्पकस्यापि मिथ्याविषयत्वमनुमेयमिति ।
किञ्च -विकल्पाविषयत्वं चेत् ब्रह्मणः प्रतिपाद्यते ।
श्रोतव्यादिविधीनां स्यादश्रोतव्यत्वमेव ते ॥ अतो न निर्विशेषस्यापि ब्रह्मणो विकल्पाविषयत्वमपीति ॥
॥ इति शतदूषण्यां विकल्पप्रामाण्यभङ्गवादः सप्तचत्वारिंशः ॥47॥

नृसिंहराजीया

ननु सविकल्पकज्ञानमेव ब्रह्मणस्सविशेषत्व साधयतीत्ययुक्तम् । सविकल्पकानाम - प्रमाणत्वादित्याक्षेपसङ्गत्या वादाथ1 सङ्गृह्णातिः - संसारेति । अविकल्पविकल्पाभ्यामिति वादार्थ - सूचनम् । ननु निर्विकल्पक भङ्गवादेऽपि सविकल्पकप्रामाण्यं समर्थितमिति चेत्सत्यं तत्र प्रत्यक्ष सामग्र्यभावात्प्रत्यक्षप्रमाणं न भवतीत्याशङ्क्य समर्थितम् । इह तु विकल्पत्वादप्रामाण्यमाशङ्क्य निराक्रियत इति निवर्त्यभेदान्नपौनरुक्त्यमिति भावः । निर्विकल्पकसविकल्पक भेदेन योगशास्त्रे प्रतिपादताभ्यां समाधिभ्याम्मित्यर्थः । न्यूनाकारविषयकं ज्ञानं निर्विकल्पकमधिकाकारविषयकं सविकल्पकमभिमतमिति सिद्धान्तविरोध इति भावः । विप्रतिपन्न इति । ब्रह्मन्य यावत्स्वविषयकत्वस्य पक्षतावच्छेदकतया सर्वविषय मिथ्यात्वसिद्धेरेकस्य साध्यस्य मिथ्यात्वमात्रेण न साध्यपर्यवसानमिति द्वैतसिद्धिरिति भावः । यद्वा तत्तत्प्रकारकज्ञानत्वावच्छिन्नस्य प्रत्यक्षतया प्रामाण्ये निर्विशेषसिद्धिरिति भावः । पक्षादयोपीत्यादिशब्देन साध्यानुमितिहेतुपरामर्शादयो गृह्यन्ते । व्याघातमेवविवृणोतिः - विकल्पानामिति । विसंवादित्वग्राहिण्या अनुमितेरित्यर्थः । दोषान्तरमाहः - आश्रयादिति । आश्रयग्राहिविकल्पस्य मिथ्याविषयत्वे आश्रयासिद्धिः । हेतुग्राहिविकल्पस्य विसंवादित्वे स्वरूपासिद्धिरित्यर्थः । ननु तद्विकल्पस्य विसंवादे कथमसिद्धिरित्यत्राहः - अविसंवादेति। प्रत्यक्षादिगोचरप्रमाया एव सिद्धित्वादिति भावः । ननु निश्चयमात्रादेव सिद्धेरित्यत्राहः - विसंवादेपीति । हृदेऽपीति । बाष्पादिना वह्निसिद्धि प्रसङ्ग इति भावः । अविसंवादोऽपीति । विकल्पस्य मिथ्याविषयत्वानुमितेः प्राक्पक्षादि ग्राहिविकल्पेष्वविसंवादित्वस्यानिश्चयादित्यर्थः । पूर्वोक्त व्याघात (+++) प्रयुक्तशङ्कामनूद्य तत्कारणेन परिहरतिः - अन्यत इति । अस्यानुमानस्य बौद्धोपदेशलब्धत्वात्तेन चानुमानस्य प्रामाण्याङ्गीकारातदन्तेवासिनामपि तदेवमतमिति निश्चित्यदूषयतिः - यदि चेति । स्वलक्षणप्रसूत निर्विकल्पकजनितेत्यादिवक्ष्यमाणस्याप्ययमेवाशयः । अर्थप्रतिबन्धः - अर्थसम्बन्धः। तुल्यमिति । प्रत्यक्षविकल्पस्याप्रामाण्यमनुमानविकल्पस्य प्रामाण्यमिति विभागो न स्यादित्यर्थः । तथापीति । अनुमानविकल्पानामप्रामाण्याद्विकल्पाप्रामाण्यं कथं सिद्धयेदित्यर्थः । आत्मघातिनामिति । विकल्पमात्रस्याप्रामाण्यसाधने स्वस्यापि (+++)मध्यप्रविष्टतयात्मनः प्रमाणाभावखण्डमात्मघातितया साध्यसाधकत्वमयुक्तमित्यर्थः । निर्विकल्पस्येति । तदविसंवादिविकल्पस्यादि विसंवादित्वादितिभावः । अन्यथेति । निर्विकल्पकाविसंवादित्वग्राहिविकल्पस्य प्रामाण्य इत्यर्थः । अनैकान्त्यादिदोषादिति ।क्वचित्प्रामाण्याङ्गीकारे तुल्यन्यायतया विकल्पान्तरेऽपि प्रामाण्यप्रसङ्गादित्यादिशब्देन विवक्षितम् । तस्येति । निर्विकल्पकस्य यदसंवादित्वं तस्य ग्रहणे निर्विकल्पकस्य सार्म्थ्याभावादित्यर्थः । निर्विकल्पकेनाविसंवादित्वं ग्रहणे बाधकमाहः - अधिकारेवेति । निर्विकल्पकस्याविसंवादित्वस्य चाधाराधेयभावसम्बन्धग्राहकस्य विशिष्टज्ञानत्वादिति भावः । इष्टापत्तिशङ्कायामाहः - तेनेति । निर्विकल्पकप्रामाण्यग्राहिणो विकल्पत्वेन तद्विषयीभूत प्रामाण्यस्य मिथ्यात्वादिति भावः । अप्रयत्नविजयिन इति । ब्रह्मविषयकनिर्विकल्पकस्याप्यप्रामाण्यात्सर्वशून्यतास्यादिति भावः । कश्चेति । मिथ्याविषय इत्यनुमानेमिथ्याशब्दो विसंवादसमानार्थ इति तदर्थविकल्पमुखेन साध्यं विकल्प्यत इति भावः । अनर्थभूतत्वं - अर्थाज्जातं भूतमथ1 भूतं तद्भिन्नत्वमर्थत्वाभाव इति यावत् । क्वचिद्बाधादिति । धारावाहिकज्ञानान्तरं संवादस्य विकल्पे दर्शनादिति भावः । इष्टप्रसङ्गादिति । सर्वत्र धारया (+++)त्सिद्धसाधनादित्यर्थः । अकिञ्चित्करत्वादिति । संवादिज्ञानाभावेऽपि बाधाभावे यथार्थ्यक्षतेरित्यर्थः । अध्यवसायः - प्रमाणत्वेन निश्चयः । ततश्च प्रामाण्यसिद्धेस्तद्विषयो न परमार्थ इति भावः । शुक्तीति । बाधे सति परस्परसंवादेऽपि प्रामाण्यानध्यवसायादित्यर्थः । अर्थक्रियेति ।अर्थक्रियाबिरह व्यवसायरूपो विसंवाद इत्यर्थः । एतेनेति । अर्थ क्रियाविरहव्यवसायः अर्थक्रियाविरहप्रमा ।तथा चार्थक्रियाविरहो विसंवाद इत्यत्र पर्यवसितमिति भावः । सर्वासामिति । विकल्पस्य तद्विषये प्रवृत्तौ अर्थक्रियादर्शनाद्विकल्पविषयस्यैकार्थक्रियायत्वम् । ततश्चानुमान बाध इति भावः । एतदुपपादयतिः - नहीति । बाधकमुपपादयतिः - न चेति । शङ्कतेः - मणिप्रभेति । जनितान्तं विकल्पविशेषणम् । तदारोपितः स्वलक्षणाध्यस्तः । उल्लेखात्मको विकल्पः । निर्विकल्पकनिदान इति । स्वलक्षणविषय निर्विकल्पकजन्यत्वादेव स्वलक्षणारोपितार्थोल्लेखीत्यम् । ततश्च विकल्प विषयस्य स्वलक्षणारोपिततया स्वलक्षणरूपार्थ सम्बन्धाद्विकल्पस्य पारम्पर्येणार्थ सम्बन्धित्वं तथा च निर्विकल्पकविषयः एवार्थक्रिया संवाद इति सविकल्पकविषयोऽर्थ क्रियाशून्य एवेत्यर्थः । नियामकाभावादिति । सविकल्पकाधीनत्वान्निर्विकल्पकार्थसम्बन्धस्य तदनभ्युपगमे निर्विकल्पकेर्थसम्बन्धे प्रमाणाभावात्स्वेच्छामात्र (+++)नत्वे वैपरीत्य प्रसङ्गादित्यर्थः । बाधितस्यार्थक्रियासम्बन्धो नास्तीति नियामकं शङ्कतेः - मिति । असिद्धेरिति । बाधितस्यानुपलब्धिबाधितत्वादित्यर्थः । अ (+++) बाधोऽस्त्विति शङ्कतेः - अद्यापीति । विकल्प (+++) प्रामाण्यासिद्धेरित्यर्थः । अविशेषादिति । विकल्पान्तरस्यापि तत्सत्वादित्यर्थः । अत एवेति । साक्षात्परं पराविकल्पोक्तदोषादेवेत्यर्थः । दूषणान्तरमाहः - न चेति अनर्थत्वं - अपरमार्थत्वम् । प्रत्युत पारमाथ्यर्मेव निश्चिनुम इति बाध इति भावः। अत एवेति । अनर्थत्वानिश्चयादित्यर्थः । अनुमानादीति । अनुमानादेर्जात्यादिविषयत्वेन विसंवादे एतदनुमानमप्यप्रमाणं स्यादित्यर्थः । स्वलक्षणाकारतयेति । परमार्थतयेत्यर्थः । अन्यस्यान्यात्मना भानमस्तीति शङ्कतेः - न चेति । विषणदर्शनादनुपलभ्याच्चार्थस्यशब्दत्मान भानं नास्तीत्याहः - यत्र चेति । शब्दार्थ भेदग्रहस्यावश्यकत्वे युक्तिमाहः - एकार्थेति । एकस्यार्थस्ययुगपन्नानात्येनाव - गतनेकशब्दतादात्म्यायोगात्तत्रतच्छब्द प्रवृत्तिनिमित्ताश्रयत्वतद्वाच्यतादिपरत्वमवश्यं वक्तव्यमिति सर्वत्र तथा प्रति भास इति भावः . कारणां भावाच्च न शब्दाध्याससम्भव इत्याहः - न चात्रेति । भिन्नेन्द्रियग्राह्ययोः कथनेकेन्द्रियेणैकाध्यास इत्याहः - न चात्रेति । भिन्नेन्द्रियग्राह्ययोः कथमेकेन्द्रियेणैक्याध्यास इत्याहः - न चाक्षुषेति । ननु मनोरूपैन्द्रियेग्राह्यत्वात्तेनाध्यासस्सम्भवतीति शङ्कां पराकरोतिः - न च विकल्पा इति । न च निर्विकल्पे तदुपक्षयःमनसोऽपि तथा प्रसङ्गादिति भावः । न च गोशब्दात्मनेति । जाति व्यक्तिवाचकत्वनिबन्धनत्वात्तद्विभागस्येति भावः । शब्दाध्यासपक्षे वाच्यवाचकभावरूपसमयग्रहोन स्यादयं गौरित्यादिव्यवहारात् व्युत्पत्तिग्रहः व्यवहारो यद्यध्यास निबन्धनः । तथा च सति वाचकत्वनिबन्धनाभावेन वाचकत्वाग्रहा तन्निबन्धनभेदव्यवहारोण स्यादि(+++)ध्यासस्य साधारण्यादिति भावः ।विकल्पितायां विकल्पविषयीभूतायामित्यर्थः । न च जातीति । यस्मिन्यश्शब्दोऽध्यस्यते तस्य वाचक इति कल्प्यते तथा च जातिशब्दो जातेरेववाचक इत्यर्थः । गौरयमिति । यादृश्या प्रतीत्यात्वया व्यक्तौ शब्दाध्यास उच्यते तादृश्येवेयं प्रतीतिरिति जातिशब्दस्यापि व्यक्तावध्यासो दुर्वार इति भावः । अस्तु तर्हि जाति शब्दस्य व्यक्तावध्यासः व्यक्तिशब्दस्य तु जातौ माभूदतस्सिद्धो विभाग इत्यत्राहः - तथाचेति । अत इति । यतश्शब्दाध्यासे प्रत्यक्षादि विरोधोऽतस्तटस्थस्सन्भिन्नत्वेन प्रतीयमानस्सन् स्वविषयं बोधयति । वाच्यवाचकभावसम्बन्धेन विशेषणतया भासमानोव्यवच्छिन्नत्तीत्यर्थः । सप्रमोऽपि किं बाधपर्यवसित उत नेति विकल्प्याद्यं दूषयतिः - बाधेति । ननु संस्कारप्रसूतायाः स्मृतेरप्रामाण्यदर्शनात्संस्कारजन्यत्वम - प्रामाण्यप्रयोजकमतस्तादृशत्वाद्विकल्पस्याप्रामाण्यं स्यादित्यत आहः - न च संस्कारेति । विकल्पस्य सं जन्यत्वं परोक्तमभ्युपेत्य किं याथार्थ्यलक्षणमप्रा (+++)पाद्यते अत स्मृतिलक्षणं वेति विकल्प्याद्य आहः - स्मृतीति । संस्कारमात्रेति । मात्रपदं प्रत्यभिज्ञायामतिव्याप्तिवारणाय । असम्भववारणायासाधारणपदम् । स्मृत्यनुभवेति । तथा चानुमानेन साध्यमानं मिथ्याविषयत्वं नास्तीत्यनुमानस्य बाधोनोद्धृत एवेति भाव - । तद्विशेषः - विशिष्टप्रत्ययत्वव्याप्यः। प्रथमाक्ष सन्निपातजन्यप्रत्ययोत्तर विशिष्टप्रत्ययत्वादित्यर्थः । उच्छेदः अप्रामाण्यमप्रयोजकत्वमाहः - वृथाक्षेति । स्थापनादिति । अनुपदमेवेति भावः । सर्व प्रत्यक्षेति । निर्विकल्पकत्वेनाभिमतस्य ब्रह्मप्रत्यक्षस्यापि विशिष्टप्रत्ययत्वा प्रत्यक्षमात्रं निर्मूलमिति भावः । किञ्च निर्विकारमेव निर्विकल्पकमभिमतम् । तथा सति प्रथमाक्षसन्निपातजन्य घटादिविषयस्या निष्प्रकारस्य सम्भ(+++)मिथ्याविषयत्वात्तरदृष्टन्तेन ब्रह्मज्ञानं मिथ्याविषयं निर्विकल्प (+++)वदिति सर्वशून्यत्वं सेत्स्यतीत्याहः - किञ्चेति । श्रोत्रव्यादीति । श्रवणादीनां विशिष्टप्रत्ययानां विकल्पत्वेन प्रामाण्य सम्भवाच्छ्रवणादिविधीनाम प्रामाण्यादनुपदेयत्वं स्यादित्यर्थः । अत इति । श्रोतव्यत्व प्रसङ्गादित्यर्थः । तथा च ब्रह्मणोऽपि मिथ्यात्वं स्यादिति हृदयम् । इति वत्सकुलजलधिकौस्तुभ नृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणी टीकायां सप्तचत्वारिंशो वादस्समाप्तः ॥