46 निष्प्रपञ्चीकरणनियोगभङ्गवादः

॥अथ निष्प्रपञ्चीकरणनियोगभङ्गवादः षट्चत्वारिंशः ॥46॥
आविभर्आवतिरोभावजन्मनाशविकल्पवत् ।
यस्यैतदक्षयं नित्यं जगतं विष्णुमाश्रये ॥
ये पुनस्सर्वशब्दानां कार्यपरत्वं वदतां मतमपि कटाक्षयन्तस्सिद्धरूपे ब्रह्मणि स्वतो निरतिशय पुरुषार्थरूपे ज्ञानजननमात्रेण प्रयोजनपर्यवसाने वेदान्तानां सम्भवत्यपि प्रत्यक्षाद्यबाधितनिरतिशय पुरुषार्थरूपब्रह्मज्ञाने स्वतः प्रामाण्यमपि विस्मरन्तस्तथाविधपरिनिष्पन्नब्रह्मस्वरूपपशुद्ध्यर्थं तस्य निष्प्रपञ्चताकरणनियोगविषयतामाहुः, तेषां तथाविधनियोगविधिवाक्यासम्भवात् सपरिकरनियोगा सिद्धेश्च निर्मूलः प्रलापः ।
तथा हि -न तावन्निष्प्रपञ्चं ब्रह्म कुर्यादिति विधिवाक्यमधीमहे ।
नच फलकरणदर्शनादिभिः कल्प्यते ।
नच स्मृत्याद्यनुसारेण तथाविधश्रुतिरनुमीयते ।
नच नित्यानुमेया श्रुतिरुपपद्यते ।
नच तदनुमितिलिङ्गतया निष्प्रपञ्चताकरणाचारः केनचित् क्वचिदपि दृष्टपूर्वः ।
नच निष्प्रमाणकोऽपि विधिरस्तीति वाङ्मात्रेणापि सिध्यति ।
ननु किमनेन कदर्थनेन? नानात्वदर्शननिन्दावचनैर्नानात्वनिषेधवचनैर्निर्गुणादिश्रुतिभिर्मायोपादानत्वान्यथानुपपत्त्यादिभिश्चानुगृहीतो *न दृष्टेर्द्रष्टारं पश्येरित्येवमादिको विधिरुपलक्षणपरस्सन् द्रष्टृदृश्यादिसमस्तभेदशून्यं दृशिमात्रं ब्रह्म कुर्यादिति नियुञ्जनः प्रकृतार्थे परिपूर्णं
प्रमाणम्, नित्यसिद्धस्यापि ब्रह्मणो निष्प्रपञ्चतारूपेण साध्यत्वमप्यविरुद्धमिति चेन्न; अनुग्राहकत्वेनाभिमतानां सर्वेषां प्रत्येकं विस्तरतो दूषणात् ।
विधिस्वरूपमपि न पश्यामः -कोऽत्र ब्रह्मवाचकशब्दः, कश्च तस्य निष्प्रपञ्चताकरणवाचीति ।
दृष्टिमतिश्रुत्यादयश्शब्दाः संविद्रूपब्रह्मवाचकाः, द्रष्टृमन्तृप्रभृतिदर्शननिषेधो निष्प्रपञ्चताकरणवाचीति चेत्; किं व्युत्पत्तिसिद्धोऽयमर्थः? उत तदनुपपत्त्या लक्षणादिवशादङ्गीक्रियते? किंवा भवत्सैद्धान्तिकसङ्केतादिति? न प्रथमः, दृष्टिमतिश्रुत्यादिशब्दानां तावत् ब्रह्मशब्दापर्यायत्वाभावात् ।
तत्तत्करणायत्तबुद्धिविशेषा एव तैरभिधीयन्ते ।
अन्यथा पुनरुक्तिस्स्यात् ।
द्रष्टृप्रभृतिदर्शननिषेधोऽपि तत्तज्ज्ञाननिवृत्तिमेव वदति, नतु तत्तन्निवृत्तिम् ।
नापि द्वितीयः, अनुपपत्तेरदर्शनात् ।
उचितार्थान्तरादर्शनमेवानुपपत्तिरिति चेन्न; तथाप्यनुचितार्थान्तरकल्पनायोगात् ।
दृश्यते चार्थान्तरमुचितम् ।
तथा हि -यदा दृष्टेरतिक्तं द्रष्टारं न पश्येरित्यतिरिक्तपदाध्याहारेण योजना ।
तदा द्रष्टुः पुरुषस्यापि स्वयञ्ज्योतिषः स्वधर्मभूतदृष्टिमत्यादिशब्दाभिलप्यज्ञानसाजात्येन तदतिरिक्तत्वनिषेधोपपत्तेः, न कस्यचिदपि मिथ्यात्वसिद्धिः ।
अनध्याहारे तु दृष्टेर्द्रष्टेति जीवात्मा निर्दिश्यते, आेदनपाकं पचतीतिवत्कर्तृत्वमात्रविवक्षया द्रष्ट्रादिशब्दः तत्तत्करणायत्तज्ञानकर्तारं जीवात्मानं नोपासीथाः; अपि तु तदन्तर्यामिणं करणनिरपेक्षस्वाभाविकनिरतिशयज्ञानादिगुणगणम् अशेषदोषवैदेशिकं
परमात्मानमुपास्स्वेत्युक्तं भवति ।
नच जीवस्यापि विशेषणतया उपास्यत्वाभ्युपगमात्तद्दर्शन निषेधानुपपत्तिरिति वाच्यम्; करणप्रवृत्तिलङ्घस्वाभाविकविकासशालिपरिशुद्धस्वरूपजीवविशिष्टस्य परमात्मन उपास्यत्वात् ।
एवमर्थान्तराण्यपि कर्तृत्वाभिमानत्यागादिरूपाणि प्रत्यक्षाद्यविरुद्धानि समुचितानि कल्पयितुं शक्यानि ।
अतो नानुपपत्तिलेशः ।
नापि तृतीयः, अतिप्रसङ्गात् ।
परसिद्धान्तसिद्धसङ्केतवशादपि भवत्पक्षस्य कार्त्स्न्येन भङ्गप्रसङ्गात् ।

एवं विधिवाक्यासम्भवो दर्शितः ।
अथ सपरिकरनियोगासिद्धिं ब्रूमः ।
तथा हि -नियोगवाक्यार्थवादिना नियोगो नियोज्यः तद्विशेषणं विषयः करणमितिकर्तव्यता प्रयोक्ता च वक्तव्याः ।
तत्रासौ नियोगस्तावत्सामान्यतो विशेषतोऽपि प्रमाणादर्शनादेव निरस्तः ।
कश्चात्र नियोज्यः? न तावद्ब्रह्म, त्वन्मते तस्याज्ञत्वात् अनियोज्यत्वात् ।
अस्मन्मते तु सर्वज्ञत्वादेव नियोक्तव्यत्वाभावात् ।
अत एव नाप्यविद्या ।
नाप्यहङ्कारादिकम्, तत्प्रतिफलितचैतन्यादिकं वा, तेषामपि विमृश्यकारिणां स्वोच्छेदकरणे नियोक्तुमशक्यत्वात् ।
अविमृश्यकरणे तु न शास्त्रयोग्यता ।
नच निर्विशेषानुभूतिस्थितये निरूपको बालो वा कश्चित् स्वोच्छेदमनुमन्यते ।
अत एव तेषामधिकारित्वप्रयोजक्तृत्वाद्यवस्थान्तरमपि भग्नम् ।
न च शास्त्रं वायूदकादिवद्विवक्षामनुत्पाद्यैव प्रवर्तयति, अशास्त्रत्वप्रसङ्गात् ।
ततोऽपि नियोगस्य मूलोच्छेदः ।
किं तावन्नियोज्यविशेषणम्? ब्रह्मस्वरूपयाथात्म्यानुभव इति चेत्; तत्किं निमित्ततया स्थित्वा नियोज्यं विशिनष्टि, उत फलतया? नाद्यः, जीवनपुत्रजन्मादिवत्तस्यासिद्धत्वात्, सिद्धत्वे वा किं नियोगेन, तत एव तत्फलसिद्धेः? अथ श्रवणजन्यः परोक्षानुभवस्सिद्धस्सन् विशेषणमिति चेन्न; श्रवणेन तथाविधानुभवजननस्यैव निष्प्रपञ्चीकरणरूपत्वात् ।
नहि ततोऽतिरिक्तं किञ्चिदत्र पुरुषव्यापारविषयं पश्यामः ।
साक्षात्कारज्ञानं तद्विषय इति चेन्न; साक्षात्कारस्य नियोगसाध्यत्वाभ्युपगमात् ततः पूर्वं तदसिद्धेः ।
तत्सिद्धौ वा किं नियोगेनेत्युक्तम् ।
अथ यदि नित्यब्रह्मस्वरूपप्रकाश एव निमित्तमित्युच्येत, न तर्हि तत्कस्यचिद्विशेषणम्, अनन्यनिष्ठत्वात् ।
तस्य च निमित्तत्वे तन्नित्यत्वेन
जीवननिमित्ताग्निहोत्रवन्नित्यं विषयानुष्ठानप्रसङ्गः ।
नापि द्वितीयः, तथापि हि याथात्म्यानुभवश्शब्दजन्यो वा, अक्षजन्यो वा, स्वरूपभूतानुभव एव वा? आद्ये नियोगात्पूर्वं सिद्धस्य कथं नियोगफलत्वम्? द्वितीये त्वसम्भवः, न हि निष्प्रपञ्चतायां सिद्धायामक्षाणि तज्जन्यं वा ज्ञानं सम्भवति ।
सम्भवे वा कथं निष्प्रपञ्चता? तृतीये तु कतं नित्यसिद्धस्य फलत्वम्? स यदि साध्यः, तदा स्वर्गादिवदनित्यस्स्यात् ।
प्रपञ्चनिवृत्तिरूपेण साध्यत्वमिति चेत्; नह्यन्यरूपेणान्यस्साध्यस्स्यात् ।
अतः प्रपञ्चनिवृत्तिरेव साध्येत्युक्तं भवति ।
ततश्च हेतुसाध्ययो रैक्यप्रसङ्गः ।
कश्चात्र नियोगविषयः? किं ब्रह्मैव, उत निष्प्रपञ्चब्रह्म, अथ प्रपञ्चनिवृत्तिरेव? न प्रथमः, तस्य नित्यत्वेनाभाव्यत्वात्, अभावार्थत्वाच्च ।
अत एव न द्वितीयः, नहि निष्प्रञ्चमपि ब्रह्म भावार्थः ।
तथापि तस्य साध्यत्वं सम्भवतीति चेत्; किं ततः? न हि स्वर्गादिकं साध्यमित्येतावता विधिविषयो भवति ॥ अतोऽत्रापि केवलं फलत्वमात्रं सम्भाव्येत, तत्र च प्राप्ताप्राप्तविवेकेन विशेषणस्यैव साध्यत्वमिति कथं ब्रह्मस्वरूपस्य विधिविषयत्वम्? अत एव न तृतीयः, तस्याः फलत्वाच्च ।
न हि प्रपञ्चनिवृत्त्यतिरिक्तो मोक्षो नाम भवन्मते ।
किमर्थं च तया नियोगस्साध्यते? न हि नियोगसाध्यं तदतिरिक्तं किञ्चित् ।
कथं च सर्वप्रपञ्चनिवृत्तौ नियोगस्वरूपलाभः? तस्याश्च नियोगविषयत्वे तया नियोगः, तेन च सेति परस्पराश्रयणं च ।
उक्तन्यायेन प्रपञ्चनिवृत्तेः करणत्वमपि निरस्तम्, विषयकरणयोरतीव भेदाभावात् ।
स चायं नियोगः किं स्वयमेव प्रपञ्चं निवर्तयति, उत तत्त्वज्ञानमुत्पाद्य? पूर्वत्र किं मिथ्याभूतस्य प्रपञ्चस्य ज्ञानबाध्यत्वं परित्यज्य
नियोगबाध्यत्वमङ्गीकरोषि? तथा सति प्रायश्चित्तनिवर्त्यदुरितवत्सत्यता प्रपञ्चस्य ।
अन्यथा तत्त्वज्ञानेनैव बाध्यत्वे नियोगकृत्यं न पश्यामः ।
उत्तरत्राप्याकाङ्क्षादित्रयवता वाक्येनैव तत्त्वज्ञानं जायत इति किं नियोगात्? तेनैव च तत्त्वज्ञानेन ब्रह्मव्यतिरिक्तसमस्तबाधात्कथं सपरिकरनियोगोत्पत्तिश्च? परोक्षापरोक्षनिवर्तकज्ञानयोरविशेषोप पादनादिकमन्यत्र ग्राह्यम् ।
किञ्च प्रपञ्चनिवर्तकोऽयं नियोगो न तावद्ब्रह्मस्वरूपम्, निवर्तकस्य नित्यतया नित्यं प्रपञ्चाभावप्रसङ्गात्; नित्यस्य विषयानुष्ठानसाध्यत्यायोगाच्च ।
अतो ब्रह्मस्वरूपव्यतिरिक्त एष्टव्यः ।
सच कृत्स्नप्रपञ्चनिवृत्तिरूपविषयानुष्ठानेन प्रयोक्तुरपि नष्टत्वान्निराश्रयः कथमुत्पद्येत? आश्रयस्थितौ वा कथं विषयलाभः? निराश्रयोत्पत्तावपि नियाेगाख्यमिथ्यापदार्थस्थितौ कथं कृत्स्नप्रपञ्चनिवृत्तिः? सिद्धावपि किमन्यन्नियोगसाध्यं मोक्षाख्यं फलमिति ।

किञ्च करणभूतायाः प्रपञ्चनिवृत्तेः का नामेतिकर्तव्यता? न काचिदिति चेन्न; अनुपकृतस्य करणत्वायोगात् ।
यथाहुः -* नहि तत्करणं लोके वेदे वा किञ्चिदीद्दशम् ।
इतिकर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिता ॥ इति ।
अस्तु वा काचिद्भावरूपेति चेन्न; सा हि सन्निपत्योपकारिका वा स्यात्, आरादुपकारिका वा? नाद्यः, कृत्स्नप्रपञ्चनिवृत्तिरूपकरणशरीरनिवर्तकस्य कस्यचिददर्शनात् ।
अद्वैतज्ञानं दृश्यत इति चेन्न; तेनैव प्रपञ्चनिवृत्तिरूपमोक्षसिद्धौ करणादिनिष्पाद्यासिद्धिप्रसङ्गात् ।
नापि
द्वितीयः, कृत्स्नप्रपञ्चनिवृत्तिरूपकरणस्वरूपासिद्धेः, तत्सिद्धौ तदनुग्राहकांशानवस्थानमित्युभयतःपाशा रज्जुः ।
अथाभावरूपानुग्राहकस्थितौ न विरोध इति मन्यसे; तन्न; तस्य कृत्स्नप्रपञ्चनिवृत्त्यन्तर्गतत्वेन करणेतिकर्तव्यताभेदासिद्धेः ।
तदेतदभिप्रेत्याह -* अभावरूपत्वे चाभावादेव न करणशरीरं निष्पादयति, नाप्यनुग्राहकमिति ।
अभावात् -कृत्स्नप्रपञ्चनिवृत्त्यन्तर्गतत्वेन करणात्पृथगभावाभावादित्यर्थः ।
केचित्तु अस्य भाष्यस्यैवमर्थमाहुः, अभावत्वादेव न हेतुत्वमित्युच्यत इति, तत्र शब्दास्वारस्यार्थानौचित्यादिकं च द्रष्टव्यम् ।
तदेवं विधायकादर्शनात् सपरिकरनियोगानुपपत्तेश्च निष्प्रपञ्चब्रह्मविषयो विधिर्न सम्भवतीति सिद्धम् ॥
॥ इति शतदूषण्यां निष्प्रपञ्चीकरणनियोगभङ्गवादः षट्चत्वारिंशः ॥46॥

नृसिंहराजीया

यदि वाच्यत्वरूपं शक्तिविषयत्वं ब्रह्मणः स्यात्तद्वदेव नियोगविषयत्वमपिस्यादित्युत्थानसङ्गत्या वादाथ1 सङ्गृहणातिः - आविर्भावेति । आविर्भावादिना जगतो नित्यत्वसमर्थनान्निष्प्रञ्चीकरणा सम्भवाद्वादार्थ उक्तः । ये पुनरिति । सर्वशब्दानां कार्य एव प्रामाण्याद्वेदान्तानामपि नियोगापरत्वं वक्तव्यम् । सिद्धे प्रामाण्येऽपि प्रयोजनपर्यवसानाथ1 तद्वाच्यं परमपुरुषार्थरूप ब्रह्मप्रतिपादनेन सद्यः प्रतिहेतुतया प्रयोजन पर्यवसान सम्भवेऽपि तत्प्रयोजनस्य काव्यनाटकादिवदल्पप्रतिपादनेनाप्युपत्तेर्ब्रह्मणि प्रमाण्यं न स्यादतो नियोगपरत्वं वक्तव्यमिति नियोगवादिनोभावः । सिद्धेऽपि प्रामाण्यस्थापनाद्ब्रह्मणश्च निरतिशयानन्दरूपतया तत्प्रतिपत्तेस्वयं प्रयोजनत्वाप्रामाण्यस्य स्वतस्त्वस्थापनेन प्रामाण्यस्यापि सिद्धेर्न नियोगपरत्वं कल्प्यमिति सिद्धान्तिनो भावः । तथाविधपरिनिष्पन्नेति । यथा पूर्वतन्त्रे “सूक्तवाकेन प्रस्तरं प्रहरती ( )त्यत्र प्रस्तरप्रहरणस्य द्वितीयाबलात्संस्कारकर्मत्वं मन्त्रप्रतिपाद्यदेवतान्वयबलान्नियोग विषयत्वं च तथा शब्दबलवादिमते धअययनस्य नियोगविषयत्वेप्यधिकारापेक्षितत्वाद्विधेद्वितीया बलात्साध्यत्वेन प्रतीतस्वध्यायस्यैवाधिकारि विशेषणत्वया स्वीकारात्संस्कार्यत्वमुक्तम् । एवम विद्यासंसर्गादशुद्धब्रह्मशुद्धयर्थत्वेन संस्कार्यत्वं विध्यन्तरोपयोगाभावान्निष्प्रञ्चीकरणस्य नियोगविषयत्वभूता व्युपयोगाभावेऽपि स्वतः प्रयोजनत्वासंस्कारविधेर्नानर्थक्यमिति भावः । तस्येति । सिद्धस्यापि ब्रह्मणो निष्प्रपञ्चीकरणविशिष्टतयाश्रित गोदोहनादिवन्नियोगविषयत्वमिति भावः । सपरि - करेति । इति कर्तव्यतारहितनियोगासम्भवादत्रेति कर्तव्यता भावात्परिकरो नियोगोत्र न वक्तुं शक्य इत्यर्थः । किमत्र प्रत्यक्ष श्रुतिर्नियोगे प्रमाणमुत कल्प्या नाद्य इत्याहः - न तावदिति । द्वितीयेप्यर्थवादादिभिः कल्प्यते किं वा स्मृत्योताहोस्विदाचारादुतवाङ्मात्रान्नाद्य इत्याहः - न च फलकरणेति । “तरति ब्रह्महृत्यां योऽश्वमेधेन यजते’’ ( ) इत्यत्रार्थवादफलकरणदर्शनाद्विधिः कल्प्यते न तथेह दर्शनमित्यर्थः । द्वितीय आहः - न चेति । तादृश स्मृतेरदर्शनादित्यर्थः । न तृतीय इत्याहः - न च नित्येति । आचारदर्शनादिति भावः । चतुर्थं दूषयतिः - न च निष्प्रमाणकोटीति । निन्दाक्यनैरिति । 34उदरमन्तरं कुरुते । अथ तस्य भयं भवतीति (तै.आन.8) ति भेदस्य निन्दनादिति भावः नानात्व दर्शननिषेधैश्चेति । नैव नानेह पश्यती( )ति निषेधः निर्गुणं (आत्मोपनिषत्) निष्क्रियम्) (श्वे - 6.19) इत्यादयो निर्गुणश्रुतयः । मायोपादनत्वेति । मायोपादनत्वं ज्ञाननिवर्त्यत्वं विनानुपपन्नमिति तदन्यथानुपपत्त्या प्रपञ्चस्य ज्ञान निवर्त्यत्वे तद्ज्ञानस्यादृष्टविशेषाधीनतया तस्यादृष्टस्य निष्प्रञ्चीकरणविधिं विनानुपपत्तिरित्यर्थः । न दृष्टेरिति । द्रष्टुशब्देन दृग्व्यतिरिक्तं सव1 गृह्यते । न दुष्हारं द्रष्ट्टभावं पश्येः कुर्यादित्यर्थः । दर्शनस्य विध्यनन्वयादृग्वतिरिक्तस्याभावो दृशिश्च कृति कर्मतया प्रतीयत इति । निष्प्रपञ्चं दृशिं कुर्यादिति पर्यवसितः । तथा च निष्प्रपञ्च ब्रह्मकामनियोज्यकं निष्प्रपञ्चीकरण विषयकं कार्यमिति पर्यवस्यति । तथा च ब्रह्मणः फलत्वं नियोगः विषयत्वं चेति भावः । अनुग्राहकत्वेनेति । जीवैक्यभङ्गस्थले निर्विशेषणदूषणवादे प्रपञ्चमिथ्यात्वभङ्गेः मायोपादनत्व भङ्गे च विस्तरेण दूषितमित्यर्थः । पश्याम इति । विचारयाम इत्यर्थः । विचार्यमाणे विधिर्नस्यादिति भावः । कोऽत्रेति । ब्रह्मनिष्प्रपञ्चं कुर्यादिति विधिवाक्यपर्यवसानमुपन्यस्तम् । तत्र ब्रह्मादिपदसमर्पकं पदं किमित्यर्थः । दृष्टिमतीति । न दृष्टेर्दष्टारं पश्येन्नमतेर्मन्तारं (बृ.5.4.2) मित्यादिवाक्यगत इति विशेषः । तदनुपत्त्येति । वाक्यार्थानुपपत्त्येत्यर्थः । मास्तुपर्यायत्वं तथापि ब्रह्माभिधीयतां लक्षयेत्यत्राहः - तत्तत्करणायत्तेति । अन्यथेति । दृष्टेः द्रष्टारं मन्तारं च पश्येदतिमात्रेण वाक्यपरिसमाप्तेः पुनर्ब्रह्मबोधकमित्यादि शब्दप्रयोगात्पौनरुक्त्यमित्यर्थः । निष्प्रञ्चताकरणबोधस्तु कथञ्चिदपि न सम्भवति । द्रष्टारं न पश्येदिति नञः क्रियान्वयादित्याहः - द्रष्टुप्रभृतीति । ननु द्रष्टानेति नञ् समासस्य विकल्पितत्वा भामान्वय एव नञ् स्यात्समाससमानार्थत्वाद्वाक्यस्येति चेत्सत्यम् । तथापि पयुदासार्थस्यैव समासात्प्रतिषेधार्थस्य समासाभावात्तस्य भवन्नप्यविरोधिभाव एव स्यात् । स च नित्य एव । तथा च नामान्वयासम्भवात्क्रियान्वय एवेति भावः । उचितेति । ज्ञानस्य विधिनिषेधानर्हत्वादित्यर्थः । तथापीति । सम्भूयकारित्व व्युत्पत्त्यविरोधेनाप्युचितार्थो वक्तव्यः । स च न त्वदुक्तार्थः । तथा सति दर्शनवाचिपदान्वयप्रसङ्गादिति भावः । ननुदृष्टेर्दृष्टनन्वितमित्याशङ्क्याहः - आेदनपाकमिति । करणमात्रं विवक्षितमिति भावः । पश्येरिति । श्रोतव्योमन्तव्यो निदिध्यासितव्यो द्रष्टव्य (बृ.6.5.6) इति विधिसिद्धोपासनात्मकज्ञानमुच्यत इत्याहः - नोपासीथा इति । करणप्रवृत्तिलम्बनेति । शरीराद्युपहितजीवविशिष्टस्योपास्यत्वे भवदुक्तविरोधस्य तस्यैव निषेधादिति भावः । कर्तृत्वाभिमानः - तथा च दृष्टेर्दष्टारं स्वतन्त्रकर्तारं न पश्येः । स्वतन्त्र कर्तृत्वबुद्धिं परित्यज्येत्यर्थः । आदि शब्देन द्रष्टारं न पश्येदिति परमात्माकरणायत्तज्ञानो न भवतीत्यादि विवक्षितः । अति प्रसङ्गमेव दर्शयतिः - परसिद्धान्तेति । प्रपञ्चवाचिपदस्य सत्यार्थे सङ्केतस्यमत्यादिशब्दानां नञां चास्त्यर्थः । सङ्केतादेस्सम्भवादिति भावः । विधिवाक्यार्था सम्भवोऽपीत्यपिना विधिवाक्यासम्भवस्समुच्चीयतो प्रमाणसम्भवमुक्तवा प्रमेयसम्भवमाहः - अथेति । सामान्यत इति । अयं नियोगस्सामान्यतः “फलमत उपपत्तेः’’ (ब्र.सू.3.2.37) इति पूव1 निरस्तः । निष्प्रपञ्चं ब्रह्म कुर्यादिति वाक्यं नाधीमह इति पूर्वोक्तेर्विशिष्यापि निरस्त इत्यर्थः । अज्ञत्वादिति । ममेदं कार्यमिति बोध्यत्वस्य नियोज्यत्वादिति भावः । सर्वज्ञत्वादिति । शास्त्राधीन तादृशबोद्धृत्वं हि नियोज्यत्वमन्यथा शास्त्रवैफल्यापत्तेरिति भावः । अत एवेति । ज्ञातृत्वाभावादेवेत्यर्थः । अहङ्कारादीत्यादिशब्देनाविद्याप्रतिफलितं गृह्यते । अहङ्कारादीनां ज्ञातृत्वमस्तीति । यदि तदाविवेकवतां नियोज्यत्वमुत तद्रहितानान्नाद्य इत्याहः - तेषामपीति । उक्तनियोगस्याविद्यानिवृत्तिद्वारा आत्मनाशहेतुत्वादिति भावः । न शास्त्रयोग्यतेति । स्वस्वरूपज्ञानवत एव शास्त्रार्थानुष्ठान योग्यत्वादिति भावः नन्वहमर्थान्नभूत चैतन्यस्य नित्यत्वात्तस्य निर्विशेषत्वरूपमालिन्यनिवृत्यथ1 प्रवृत्तिरूपपद्यतइत्यत्राहः - न चेति । अतएवेति । स्वप्रकाशे सति फलस्वामित्वा भावात्स्वविनाशार्थमनुष्ठानायोगाच्चेति भावः । ज्ञानद्वारा प्रवर्तकत्वे शास्त्रस्य वैफल्यं नत्वन्यथापी त्याशङ्क्य शासनाच्छास्त्रमिति ज्ञानजनकत्वेनैव प्रवृत्तिनिवृत्ति प्रयोजकत्वं (+++)त्वं न त्व (++) था सत्यङ्गादि वैयर्थ्यप्रसङ्गादिति परिहरतिः - न चेति । वि(++) ज्ञानमित्यर्थः । ततोऽपीति । क्षणिकक्रियायाः कार्यत्वबोधाधन्यथानुपपत्त्याहि नियोगः । तत्रलिङश्शक्तिश्च कल्प्यते शास्त्रस्य वाय्वादिवत्प्रवर्तक (++) गादयो न कल्प्या इत्यर्थः । किं नियोगेनेति । तस्या विद्यानिवर्तक ब्रह्मस्वरूप यार्थार्थज्ञानार्थत्वादिति भावः । परोक्षानुभव इति । तथा च नियोगजन्य परोक्षज्ञानमविद्यानिवर्तकमिति न नियोग वैयर्थ्यमिति भावः । तथाविधेति । तादृशपरोक्षानुभवस्य नियोगविषयत्वान्नियोग - वन्नियोज्यविशेषणत्वमिति भावः । साक्षात्कारोत्पत्त्यवच्छिन्न व्यापार उत्सदनन्तरं तदेव जननम् । तथा च साक्षात्कारो नियोगात्पूर्व भावीस्याद्विषयसाध्यत्वं नियोगस्येत्याहः - न साक्षात्कारस्येति । उक्तमिति । उक्त प्रायमित्यर्थः । अनन्यनिष्ठत्वादिति । पुरुषस्यैव विशेषणत्वादिति भावः । ननूपरागादिवत्कथं चित्पुरुषसम्बन्धमात्राद्विशेषणत्वं तदाहः - तस्यचेति । ननु सकृदनुष्ठानादविद्यानिवृत्तौ न नित्यं तदनुष्ठानमिति चेन्न तदनुष्ठानानन्तरमेवाविद्यानिवृत्त्यभावादन्यथानिदिध्यासनादि विधि वैयर्थ्यादिति भावः । आद्य इति । शाब्दापरोक्षस्य निरासादपरोक्षज्ञानमपि निष्प्रञ्चीकरणानन्तरमसम्भवात्तद्विषयमेव नियोगस्य फलमिति भावः । नहीति ननु प्रपञ्चनिवृत्तिज्ञानमेव निष्प्रपञ्चताकरणमिति चेन्न ज्ञानस्याविधेयत्वोपपत्तेः । न च ध्यानवत्क्रियान्तरं तस्याः फलावच्छिन्नत्वे दोषतादवस्थ्यादिति भावः । प्रपञ्चनिवृत्तीति । तथा च प्रायश्चित्त साध्यपापध्वंसवदनन्तत्वावच्छिन्न नित्यत्वमिति भावः । न हीति । न च प्रागभाववत्साध्यत्वमिति वाच्यम् । प्रागभाव - स्वरूपानुवृत्तिवद्ब्रह्मस्वरूपानुवृत्तेर्विरोध्यभावेन साध्यत्वयोगादिति भावः । अभाव्यत्वमिति । असाध्यत्वादित्यर्थः । अभावार्थत्वादिति । अभावो धातुः । भावार्थाधिकरणे भावार्थस्य क्रियाया एव नियोगविषयत्वमुक्तमिति तद्विरोधान्न ब्रह्मविषय इत्यर्थः । अतश्शब्दार्थमाहः - न हीति । ननु गोदोहनवदभावार्थत्वेऽपि विषयत्वस्तु । न च गोदोहनस्य भावार्थोपरागाविधि विषयत्वमिति वाच्यम् । अत्रापि प्रपञ्चनिवृत्तिरूपभावार्थोपरागसम्भवादिति चेत् तथा सति प्रपञ्चनिवृत्तेः वाङ्नियोगत्सिद्धौ नियोगवैयर्थ्यादिति भावः । ब्रह्मणस्साध्यत्वमभ्युपेत्येदमुक्तम् । वस्तुतस्तदेवासिद्धमित्याहः - तत्र चेति । अत एवेति । परिस्पन्दरूपक्रियात्वाभावादित्यर्थः । फलत्वाच्चेति । नियोगात्प्रक्सिद्धौ नियोगवैयर्थ्यादिति भावः । तथेति । प्रपञ्चनिवृत्त्येत्यर्थः । ननु नियोग एव नित्यनियोगवत्पुरुषार्थोस्तित्यत्राहः - कथं चेति । प्रपञ्चनिवृत्तेः ब्रह्मव्यतिरिक्तमात्रविरोधितया निवृत्तौ सत्यां तदयोगादिति भावः । ननु वृत्तेरेव नियोगोस्त्वित्यत्राह तस्याश्चेति । प्रपञ्चनिवृत्तौ नियोगः कारणं नियोगे च निवृत्तिरिति परस्पराश्रयप्रसङ्गादिति भावः । विषयेति । कृत्यवच्छेदद्वारा कार्यावच्छेदकत्वं विषयत्वम् । करणत्वं तु नियोगोद्देशप्रवृत्तकृति व्याप्यत्वमिति भेदः । तथा च कृतिनिरूपकतया नियोगात्पूर्वभावित्वे पूर्वोक्तदोष इति भावः । स्वयमेवतत्वज्ञानद्वारकमेवेत्यर्थः । किं तत्वज्ञानमनिवर्तकं नियोग एव निवर्तकइत्यभिमतम् उत नियोगतत्वज्ञानाभ्यां साध्यत इति विकल्प हृदि निधायाद्यं निराकरोति । किमित्यादिना । द्वितीयं प्रत्याहः - अन्यथेति । केवलनियोगस्यानिवर्तकत्वाभ्युपगम आवश्यकतत्वज्ञानादेव निवृत्त्युपपत्तौ नियोगवैयर्थ्यमित्यर्थः । ननु नियोगस्य ज्ञानमविद्यानिवर्तकं तदथ1 नियोग इत्यत्राहः - तेनैवेति । प्रथमं वाक्योत्पन्नज्ञानस्येव तत्वज्ञानतयाविद्यानिवृत्तौ प्रपञ्चस्यापि निवृत्तेः कथं नियोगोत्पत्तिः । कथं वा तस्मात् ज्ञानोत्पत्तिश्च । न च नियोगजन्यस्यैवा ज्ञानानिवर्तकत्वं तथा सति सेतुदर्शनादिनिवर्त्यपापस्यैव मिथ्यात्वाभावप्रसङ्गादिति भावः । ननु ज्ञानस्य तत्वज्ञानत्वेन न निवर्तकत्वमपि तत्वसाक्षात्कारत्वेन । तच्च न वाक्यादपि तु नियोगादित्यत आहः - परोक्षापरोक्षेति । परोक्षापरोक्षज्ञानयोर्ब्रह्मत्व - रूपमात्रविषययोरपरोक्षवस्तुविषयतया परोक्षापरोक्षत्व वैषम्यं दुर्वचमित्यर्थः । आदिशब्देन विषयकृतवैषम्यं विवक्षितम् । किं नियोगोब्रह्मस्वरूपमुत तद्भिन्नं नाद्य इत्याहः - न तावदिति । निवर्तकसत्वेऽपि प्रतिबन्धान्न निवृत्तिरिति वाच्यम् । तथा सति कदाप्यनिवृत्ति प्रसङ्गादिति भावः । तस्य नियोगत्वमप्यनुपपन्नं साध्यत्वादित्याहः - नित्यस्येति । द्वितीयमाशङ्कतेः - अतो ब्रह्मस्वरूपेति । नियोगोत्पत्तिकाले आश्रयोस्ति वा न वा आद्य आहः - न चेति । द्वितीय आहः - आश्रयस्थिताविति । तस्थितौ निष्प्रपञ्चतारूपविषयो न लब्द इत्यर्थः । विषयनियोगयोर्विरोधादपि नियोगोत्पत्तिर्न सम्भवतीत्याहः - निराश्रयेति . ननु स्वव्यतिरिक्तप्रपञ्चनिवृत्तिरेव विषय इत्यत्राहः - सिद्धावपीति । नियोगव्यतिरिक्तस्य पूर्वमेव निवृत्तत्वान्नियोगेत निवर्त्यान्तराभावात्स्वयमेव निवर्त्यमिति वाच्यम् । तथा च प्रक्षालनाद्धिपङ्कस्येति न्यायेन नियोग एव नोत्पाद्य इत्यर्थः । किञ्ञ्चकरणमपीतिकर्तव्यता निरपेक्ष सापेक्ष वा नाद्य इत्याहः - न काचिदित्यादिना । द्वितीयेऽपि भावरूपाभावरूपा वा आद्येऽवि सन्निपत्योपकारिका आरादुपकारिकावेति विकल्प्याद्य आहः - नाद्य इति । कृत्स्नेति । अनुग्राहकस्या वस्थानादिति भावः । आद्यविकल्पे द्वितीयमाशङ्कते अथेति । कृत्स्नप्रपञ्चानिवृत्त्यन्तर्गतत्वेनेति । वृत्तेस्सर्वाभाव रूपत्वात्तस्मिन् तस्याप्यन्तर्गतत्वादिति भवः । अत्र भाष्यं संवाद यति केचित्त्विति । विवरणकारादय इत्यर्थः । इति वत्सकुलजलधिकौस्तुभ नृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणी टीकायां षट्चत्वारिंशोवादस्समाप्तः ॥