45 शब्दावेद्यत्वनिरासवादः

॥अथ शब्दावेद्यत्वनिरासवादः पञ्चचत्वारिंशः ॥45॥
यन्नामनि परोरजांसि गृणतां यादृच्छिकैर्हेतुमिः दुर्लङ्घोऽप्युपयाति गोष्पदतुलां संसारवारां निधिः ।

दूरे नित्यमसीमभूमकतया वाचां यदाचक्षते तद्वन्देमहि सर्वशब्दविषयं त्रय्यन्तवेद्यं महः ॥
यदूचिरे -निर्धूतनिखिलकल्पनाजाले स्वप्रकाशचिन्मात्रे ब्रह्मणि कस्यचिच्छब्दस्य वृत्तिस् सम्भवति ।
नहि निमित्तमन्तरेण शब्दाः प्रवर्तेरन्, न चावेद्ये वेदकानामवकाशः ।
न च सर्वेषामात्मसाक्षिकं प्रकाशमाने प्रकाशकापेक्षा ।
न चैवमुपदेशनैरर्थक्यम्, स्वत एव प्रकाशमानेऽपि स्वरूपे कल्पितोपप्लवप्रशमनमात्रार्थतया प्रतिपन्नार्थप्रतिष्ठापनार्थप्रत्यभिज्ञापकतया वोपदेशसाफल्यात् ।
अतएव वेदान्तां ब्रह्मणि प्रवृत्तिरपि व्याख्याता ।
यद्यप्यविद्योपाधिकोपरागप्रशमनपरेषु वाक्येषु सद्बह्मात्म ज्ञानादिशब्दैर्ब्रह्म निर्दिश्यते, तथाऽप्युपलक्षण भूतैस्तैश्चन्द्रमस इव शाखया न ब्रह्मणस्संस्पर्शः ।
अत एव न ब्रह्मादिशब्दनिर्देशेन स्ववचनविरोधः ।
न च नामकीर्तनविधीनां विरोधः,
सगुणब्रह्मविषयत्वात्तेषाम् ।
अत एव हि परस्मिन् ब्रह्मणि* मौनं मन्त्रजप इत्याचार्याः ।
अन्यथा कथमसम्प्रज्ञातोऽपि समाधिस्स्यात् ।
न च विचित्रनामरूपभाक्त्वश्रुतिविरोधः, तस्यास्तत्कार्योपहितविषयत्वस्य युष्माभिरप्यङ्गीकारात् ।
न च शब्दतत्त्वमेव ब्रह्मेति स्वप्रकाशत्वे स्ववाच्यतया शब्दवाच्यता, शब्दब्रह्मणोऽपि ब्रह्मविवर्तमात्रत्वात् ।
अत एव स्मरन्ति *शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छतीति ।
आह च साम्बः *शब्दार्थत्वविवर्तमानपरमज्योतीरुचो गोपतेरिति ।
नच ब्रह्म शब्दवाच्यं वस्तुत्वात् घटवदित्यनुमानोदयः, काल्पनिकवाच्यत्वेन सिद्धसाधनात् ।
तदतिरिक्तस्य तु दृष्टान्तेऽप्यस्मन्मतेनासिद्धेः ।
घटादिषु च वस्तुत्वानभ्युपगमेन साधनविकलत्वाच्च ।
न च प्रकाशमानत्वादिमात्रं वस्तुत्वमिति वाच्यत्वं वोऽपीष्टम्, स्वयमसतः परमार्थधर्मानाधारत्वात् ।
किञ्च यदि वाच्यत्वं वाच्यम्, ततस्तस्यापि वाच्यत्वान्तरमेवं तस्यापीत्यनवस्था ।
यदि पुनरवाच्यं तेनैवानैकान्त्यं दुष्परिहरम् ।
ब्रह्म न शब्दवाच्यं निर्विशेषत्वादिति प्रत्यनुमानं च ।
आगमे च परिपन्थिनि कथमनुमानगन्धः ।
तथाहि * यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह, *न शब्दगोचरो यस्य योगिध्येयं परं पदमित्यादिश्रुतिस्मृतिशतैर्बाधस्स्फुट एव ।
न च सामान्यपरत्वम्, ब्रह्मस्वरूपोपदेशपरतयैव प्रवृत्तेः ।
न च कतिपयशब्दनिषेधपरतया सङ्कोचः, तथा सति सर्ववस्तुसाधारण्येनातिशयासिद्धेः ।
असङ्कोचे
चास्मदुक्तविषयव्यवस्थायास्सङ्ग्राह्यत्वात् ।
तदेतत्सर्वमभिप्रेत्य भगवान् पराशरः* प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ।
वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसञ्ज्ञितम् ॥ इति ।
अतो न ब्रह्म कस्यचिदपि शब्दवाच्यमिति ।

अत्रोच्यते -यदुक्तं समस्तविशेषरहिते ब्रह्मणि निमित्ताभावेन न शब्दप्रवृत्तिरिति; तत्र सविशेषत्वोपपादनादेव हेतुरसिद्धः ।
यथा च निमित्तं निमित्तान्तरमन्तरेण शब्दवाच्यं भवति यथा स्वरूपमपीति निरूप्यतां त्वया ।
येषां शब्दानां यत्र यन्निमित्तद्वारेण प्रवृत्तिः तेषामेव हि तत्र तदभावे निवृत्तिः ।
अन्यादृशस्तु शब्दो ब्रह्मणि न दृश्यत इति चेत्; किं कुर्मः? सङ्केत्यतां व्यवहाराय तथाविधश्शब्दोऽपि ।
यच्च अवेद्ये वेदकानां नावकाशः, नच स्वयम्प्रकाशे प्रकाशकापेक्षेति, तच्च स्वप्रकाशस्यापि ज्ञानान्तरवेद्यत्वस्थापनादेव परिहृतम् ।
यच्चोपदेशानां वेदान्तानां च कल्पितोपप्लवप्रशमनमात्रार्थत्वमुक्तम्, तदपि तदा शोभते, यदि स्वरूपमनिर्दिश्योपरागाश्शमयितुं शक्येरन् ।
अन्यथा ब्रह्मणो निर्विशेषत्वमपि नोक्तं स्यात् ।
ननु किं ब्रह्मणो निर्देशेन, विशेषा एव प्रतीयमाना मिथ्यात्वेन ज्ञाप्यन्ते, ब्रह्म तु स्वप्रकाशं तिष्ठत्येवेति चेत्; तदपि न, * निर्गुणं निरञ्जनमित्यादीनां ब्रह्मणो विशेषणतयैव प्रयोगात् ।
प्रकाशमानमात्रनिषेधे च ब्रह्मणोऽपि निषेधप्रसङ्गात् ।
यदि ब्रह्मव्यतिरिक्तमिति विशेष्येत, तदापि सिद्धस्तन्निर्देशः ।
प्रतियोगितयेति तु विशेषः ।
यच्चोपदेशादेः प्रत्यभिज्ञापकत्वमिति; ततः किमायातमवाच्यत्वस्य? पूर्वप्रतिपन्नेऽपि शब्दप्रवृत्तिमात्रस्यानभ्युपगमात् ।
यत्तु शाखाचन्द्रन्यायेन सद्ब्रह्मादिशब्दैरुपलक्षणभूतैर्न ब्रह्मणस्संस्पर्श इति, तदप्यसत् ।
उपलक्ष्योपलक्षणयोरपि बोध्यबोधकभावलक्षणसंस्पर्शस्य सर्वत्र दुस्त्यजत्वात् ।
तावतैव च शब्दवैद्यत्वसिद्धेः ।
लक्षणामात्रं तु तत्र, नतु वाच्यत्वमिति चेत्; किमतः? तावताऽपि शब्देवद्यत्वस्य स्थितत्वात् ।
मुख्यार्थसम्बन्धादेश्च लक्षणानिमित्तस्य लाक्षणिकशब्देनाप्यपेक्षणीयत्वाच्च ।
एतावन्मात्रं शब्दवेद्यत्वमिष्यत इति चेत्; किमन्यत्रेष्यते? न तावन्निमित्ताभावादेरित्युक्तम् ।
न च वाङ्मनसनिषेधश्रुतिर्लक्षणामनुजानातीति नियामकं पश्यामः ।
विरोधपरिहाराय वृत्तिविशेषविषयत्व व्यवस्था क्रियत इति चेत्; तर्हि लक्षणावृत्तिरेव निषिद्ध्यताम्, नियामकाभावात् ।
अस्मन्नयेन सर्वप्रमाणाविरुद्धेनापरिच्छेद्यमाहात्म्यं तदर्थमातिष्ठस्य

अतस्सर्वप्रकारशब्दवेद्यत्वनिषेधस्य दुश्शकत्वात् स्ववचनविरोधो दुष्परिहारः ।
यत्तु नामकीर्तनविधीनां सगुणब्रह्मविषयतेति; तत्तावत्सत्यम्, यदि तदतिरिक्तं ब्रह्म नाभिसन्दध्याः ।
यश्चासौ *मौनं मन्त्रजप इति व्याहतोपदेशः, सोऽपि मौनप्रशंसापरश्चेदुपपद्यते, नतु मन्त्रजपं विहितं प्रतिषेद्धुं क्षमते ।
न चाधिकारिविशेषेण विषयव्यवस्था, समाधिनिष्ठमधिकृत्यैव तद्विधानान् ।
असम्प्रज्ञातसमाधिरपि न शब्दवाच्यताविरोधी, अपितु केवलं तदातनशब्दानुसन्धानपरिपन्थीति समाधिशास्त्राविदः ।
यत्तु विचित्रनामरूपभाक्त्वश्रुतिस्तत्कार्योपहितविषयतयेति, तदस्माभिरपीष्यत एव, तथाऽपि तत्तदुपहितब्रह्मण्यपि तत्तन्नामपर्यवसानविवक्षा दुर्वारा ।
अन्यथा * बहुस्यामिति सङ्कल्पस्य, *तन्नामरूपाभ्यां व्याक्रियतेत्यादेश्च दुर्निर्वहत्वात् ।
शब्दतत्त्वस्य ब्रह्मव्यतिरेकसाधनं त्विष्टमेव ।
विर्वतता तु प्रकृतानुपयोगिनी पराकृता च ।
यत्तु शब्दवाच्यत्वसाधने काल्पनिकवाच्यत्वाभ्युपगमात् सिद्धसाधनत्वमुक्तम्, तदपि स्वबाधपर्यवसितम्, घटाद्यविशेषप्रसङ्गात् ।
घटादीनां शब्दवाच्यत्वमभ्युपगम्य ब्रह्मणि तन्निषेधप्रवृत्तत्वात् ।
घटादितुल्यशब्दवाच्यत्वाभ्युपगमे च विवादाभावात् ।
न हि वयं ब्रह्मणि लोकसिद्धातिरिक्तप्रकारं वा वाच्यत्वमिच्छामः, येन तन्निषेधसिद्धिः ।
न च वाच्यत्वमात्रस्य दुर्निरूपतया ब्रह्मणि तदभावः; सामान्यतो दुर्निरूपत्वप्रक्रियायाः प्रपञ्चमिथ्यात्वसाधकानां च निरस्तत्वात् ।
अत एव वस्तुत्वादिहेत्वसिद्धिरपि परिहृता ।

यत्तु प्रकाशमानत्वादिति हेतोश्शुक्तिरजतादिभिरनैकान्त्यमिति; तत्रापि प्रकाशमानस्य सर्वस्याधिष्ठानारोप्यसम्बन्धादेश्शब्दवाच्यत्वसिद्धेः, तदतिरिक्तस्य कस्यचिदस्माभिः प्रकाशमानत्वानभ्युपगमात् ।
असद्धवहारप्रसङ्गस्यान्यत्र निस्तीर्णत्वात् ।
यत्तु वाच्यत्वधर्मेणानैकान्त्य मुक्तम्, तदप्यसत्, तस्यापि वाच्यत्वशब्देन वाच्यत्वात् ।
अन्यथा वाच्यत्वमिति वक्तुमशक्यत्वात् ।
न चावनस्था, घटादिगतवाच्यत्वस्य वाच्यत्वगतवाच्यत्वस्य च वाच्यत्वशब्दवाच्यसामान्यरूपेणैकतया परिगृहीतं किमत्र विस्मरसि? यत्तु निर्विशेषत्वादिति प्रत्यनुमानम्; तत्र केषाञ्चित् स्वरूपासिद्धिः ।
सिद्धानामपि स्वयम्प्रकाशत्वादीनां स्ववचनविरोधादिभिर्निरासः ।
ब्रह्मेति धर्मिनिर्देशात्तत्पर्यवसित साध्यहेतुनिर्देशाच्च ।
अन्यथा आश्रयासिद्ध्यनन्वयस्वरूपासिद्ध्यादिदोषप्रसङ्गात् ।
मुख्यवृत्ति निषेधस्साध्यते, लक्षणया तु धर्मिस्वरूपादिनिर्देश इति चेन्न; ब्रह्म न लक्ष्यं निर्विशेषत्वादित्यपि वक्तुं शक्यत्वात् ।
सर्वस्य च ब्रह्मव्यतिरिक्तस्य येनकेनापि शब्देन लक्ष्यत्वसिद्धेर्न सपक्षत्वप्रसङ्गः ।
माभूल्लक्ष्यत्वमपीति चेत्; तर्हि धर्मिनिर्देशादित्यागे कथमनुमानकथा? *यतो वाचोनिवर्तन्ते इत्यादिकं तु न ब्रह्मणश्शब्दवाच्यतां बाधते, तस्य शतगुणितोत्तरक्रमेण ब्रह्मगुणानन्त्यं प्रतिपाद्य तथाविधापरिच्छेद्यत्वनिबन्धनवाङ्निवृत्तिप्रतिपादनपरत्वात् ।
*आनन्दं ब्रह्मणो विद्वानितिव्यतिरेकनिर्देशेन च गुणविषयत्वं
व्यक्तम् ।
अन्यथा वाच्यत्वमात्रनिषेधे त्वत्रत्ययच्छब्दोस्समुद्रघोषत्वप्रसङ्गः ।
एवं च यत्र गुणप्रकर्षप्रसङ्गमन्तरेणैव शब्दवाच्यत्वं निषिद्धं तत्राप्ययमेव शास्त्रार्थोऽनुगमयितव्यः ।
न चैवंविद्या वाचोनिवृत्तिर्वस्त्वन्तरेषु विद्यते, येन कतिपयशब्दमात्रागोचरत्वे अतिशयासिद्धिं शङ्केथाः ।
या पुनस्तवासङ्कोचेन विषयव्यवस्थाऽभिमता, साऽप्याशामात्रसिद्धा, लक्षणवृत्तेर्ब्रह्मणि काल्पनिकवाच्यत्वस्य वा दुस्त्यजत्वात् ।
अन्यथा स्ववचनविरोधादेः प्रतिपादितत्वात् ।
अवाच्यमिति वाच्यं चेत् ब्रह्म वाच्यत्वमृच्छति ।
अवाच्यमित्यवाच्यं चेत् ब्रह्म वाच्यत्वमृच्छति ॥ यत्तु *प्रत्यस्तमितभेदमित्यादि; तदपि परिशुद्धात्मस्वरूपोपदेशपरमिति प्रकरणानुसारेण व्याख्यातं भाष्ये ।
भवतु वा तस्य परब्रह्मविषयत्वम्, तथापि न सर्वशब्दवाच्यत्वनिषेधशङ्का, स्ववचनविरोधादेरत्रापि दुर्निरासत्वात् ।
येन महर्षिणैवमुक्तम् -*शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते ।
मैत्रेय भगवच्छब्दस्सर्वकारणकारणे ॥ तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।
शब्दोऽयं नोपचारेण ह्यन्यत्र ह्युपचारतः ॥ एवमेष महाशब्दो मैत्रेय भगवानिति ।
परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ इति, स कथं ब्रह्मणश्शब्दवाच्यत्वं प्रतिक्षिपेत्? नच त्वदुक्ता एव श्रुतिस्मृतयः; * बृहति बंृहति तस्मादुच्यते परं ब्रह्म, *तस्योदिति नाम, * तस्योपनषदहरित्यधिदैवतम्, *तस्योपनिषदहरित्यध्यात्मम्, *सर्वाधारं धाम विष्णुसञ्ज्ञमित्यादिश्रुतिशतैस्तत्तच्छब्दानां ब्रह्मणश्च नामनामिभावेनैव व्यपदेशात् ।
*आेमिति ब्रह्मेत्यादिना प्रणववाच्यत्वम् ।
स्मरन्ति च * नतास्स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती, *वचसां वाच्यमुत्तमम्, इति ।
आह च स्वयमेव * वेदैश्च सर्वैरहमेव वेद्यः, * सर्वे वेदा यत्पदमामनन्तीत्यादि ।
अतस्सर्वश्रुत्याद्यविरोधाय स्ववचनविरोधादिपरिहाराय मुमुक्षूपादेयब्रह्मनामवर्गसंरक्षणाया परिच्छेद्यमाहात्म्यादिनिबन्धनैव ब्रह्मणि वाचोनिवृत्तिश्श्रुतिस्मृतिभिर्विवक्षितेति न ब्रह्मणि शब्दवाच्यत्वमात्रं प्रतिक्षेप्तुं शक्यमिति ।

॥ इति शतदूषण्यां शब्दावेद्यत्वनिरासवादः पञ्चचत्वारिंशः ॥45॥

नृसिंहराजीया

ब्रह्माश्रयाज्ञानं निराकृतम् । इदानीं ब्रह्मणो वाच्यत्वं निराकर्तुं वदार्थं सङ्गृह्णातिः - यन्नामानीति । यद्वा ब्रह्मणो मायाविद्याविभागेन निर्दोषत्वं परोक्तं निराकृतमेवं वाच्यत्वमपि निराकर्तुं वादार्तं सङ्गृह्णातिः - यन्नामानीति । यद्वा ब्रह्मणो मायाविद्याविभागेन निर्दोषत्वं परोक्तं निराकृतमेवं वाच्यत्वमपि निराकर्तुं वादार्थं सङ्गृह्णातिः - यन्नामानीति । परोरजांसिः - पराणिरजोनिवर्तकानीत्यर्थः । परश्शनानीतिवद्राजदन्तादिव परनिपातः । पारस्करप्रभृतित्वात्सुसागमः । यद्वा बहुलग्रहणात्समासः । परश्शतमित्यत्र बहुलग्रहणात्समास इति कैयटोक्तेः । यादृच्छिकैर्हेतुभिः - यादृच्छिक सुकृतैरित्यर्थः । वारान्निधिरित्यत्र दिवस्पतिर्यादसाम्पतिरित्यत्रेव तत्पुरुषे कृति बहुलमिति बहुलग्रहणात् षष्ठ्या अलुक् । पराभिमतवाच्यत्व बोधकश्रुतेरन्यथासिद्धिमाहः - दूर इत्यादिना । चां नित्यसीमत्वाददूरे “यतो वाचोनिवर्तन्ते’’ (तै आन.9) इत्युच्यत इत्यर्थः । सर्वशब्दविषयमिति वादार्थसूचनम् । सहेतुकं परपक्षमनुवदतिः - यदुचुर इति । वृत्तिस्सम्भवतीति । मुख्यामुख्या साधारण्येन वृत्तिमात्रं न सम्भवति नर्मुख्या धर्मिसमानसत्ताकावेत्यर्थः । यद्वा वृत्ति शब्दो मुख्यवृत्ति परः । निर्धूतेत्युक्तहेतुं विवृणोतिः - नहीति । सामान्याभावे शक्यतावच्छेदकलक्ष्यतावच्छेदकसा - दृश्यरूपविशेषाभाववृत्तिर्नसम्भवतीति भावः । पक्षान्तरेषु तदनुसारेण योजनीयम् । मात्रार्थमाहः - न चावेद्य इति । कैमुतिकन्यायेन शब (+++)त्वरहिते तद्धेतुशब्दस्सम्बन्धस्सम्भवतीति भावः । न च तुच्छत्वभीत्या शब्दवेद्यत्वं वाच्यमित्यत्राहः - न च सर्वेषामिति । स्वप्रकाशसिद्धत्वान्न तु तुच्छतेति भावः । कल्पितेति । प्रशमनपदं बाधपरम् । उपदेशेन प्रपञ्चमिथ्यात्वमेव बोध्यते न तु ब्रह्मेत्यर्थः । प्रत्यभिज्ञापकतयावेति । स्वतः प्रकाशमानस्य पुनर्बोधनात्स्वरूपात्मकां भेदविषयत्वाच्च प्रत्यभिज्ञत्वोक्तिः । प्रत्यभिज्ञानं विना स्वरूपप्रकाशमात्रान्नाविद्यानिवृत्तिरिति भावः । ननु प्रत्यभिज्ञार्थं शब्दस्य वृत्त्यपेक्षेत्यत्राहः - अत एवेति । ब्रह्मणो वाक्यार्थत्वेन पदार्थत्वा भावाद्वाक्यार्थस्यापि पूर्वपन्नतया तत्प्रत्यभिज्ञायाश्शाखा - चन्द्रन्यायेनापि सम्भवान्नवृत्यपेक्षेति भावः । यद्यपीति । धर्मिनिर्देशाभावे - तत्रनिषेधासम्भवादुपराग - प्रशमनमेवन सम्भवतीति भावः । तथापीति । यथा शाखास्योगादिसम्बन्धं विनाकेनचित्सम्बन्धविशेषेण चन्द्रञ्ज्ञापयति तथा शब्दोऽपि वृत्तिंविनैष ज्ञापयतीत्यर्थः । संस्पर्शशब्दोवृत्तिपरः । ननु त्वया ब्रह्मशब्देन निर्दिश्यतदवाच्यमिति प्रतिज्ञातव्यं ततश्चत्वयैव शब्देन ब्रह्मणो बोधणात्स्ववचनविरोध इति शङ्काप्यक्तयुच्चैव निरस्तेत्याहः - अत एवेति । वृत्त्यभावेनामतत्वमनुपपन्नमित्यत्राहः - न च नामेति । सगुणेति । शुद्धस्यहि वृत्तिर्निषिध्यत इति वृत्तिमत्वेन तत्र नामत्वं युक्तमिति भावः । परस्मिन्निति । शुद्धमात्रवृत्तिमात्रदघटित मन्त्राभावात्तन्मन्त्रजप एव नास्तीत्यर्थः । अन्यथेति । मन्त्रस्याप्युच्चारणाङ्गीकारे तस्यापि प्रतीत्या विकल्परूपतया निर्विकल्पकरूपा असम्प्रज्ञाताख्य समाधित्वं भज्येतेति भावः । तत्कार्योपहितेति । “अनेन जीवेनानुप्रविश्य नामरूपे’’(छां.5.3.2) तदनुप्रविश्ये (तै.आ.6.)त्यनुप्रवेशस्य नामरूपभजनार्थत्वादिति भावः । ननु शब्द ब्रह्माभेदस्त्वयोच्यतेऽङ्गीक्रियत एव ब्रह्मणः स्वप्रकाशत्वम् । तथा च तदभिन्नशब्दस्यापि स्वप्रकाशत्वाच्छब्दप्रकाश्यत्वस्यैव शब्दवाच्यत्वात्तदभिन्न ब्रह्मणोऽपि शब्दवाच्यत्वमवर्जनीयमेवेत्यत्राहः - न चेति । यद्यपि शक्तिविषयत्वमेव शब्दवाच्यत्वं नतु शब्दप्रकाश्यत्वमात्रमित्यभेदे सत्यपि न शब्दवाच्यत्वसिद्धिस्तथाप्यभेदेसत्येव हीयं चिन्ता स एव नास्तीत्याहः - शब्द ब्रह्मण इति । अत एवेति । भेदादेव शब्दब्रह्म परम्ब्रह्मेति भेदेन स्मरन्तीत्यर्थः । शब्देति । “उद्गीथोह्युदितः परोरुणतया यस्य त्रयीमण्डले भास्वद्वर्ण पदक्रमेरिततनुसप्तस्वराशैर्विभद्विद्यास्यन्दन मुन्नयन्निव नमस्तस्मै परब्रह्मणे’’ इत्यवशिष्टं पादत्रयम् । अत्र शब्दरूपेणार्थरूपेण च विवर्तमानत्व वचनेन च शब्दस्य ब्रह्मविवर्तत्वं परब्रह्मण इत्युक्त्वा भेदश्च स्फारितमिति भावः । न चेति । विशेषसिद्धौ वृत्तिमात्रसिद्धिरप्यस्तीति शङ्ककस्य हृदय । वाच्यत्वेन भ्रमाविषयत्व साधने इष्टापत्तिरिति परिहरतिः काल्पनिकेति । वाच्यत्वेन प्रमाविषयत्वेन प्रमाविषयत्वसाधन आहः - तदतिरिक्तेति । घटादेरेव कल्पितत्वेन तत्र वाच्यत्वस्य सुतरां कल्पितत्वात्तत्रतत्वेन ज्ञानं भ्रम एवेत्यर्थः । च शब्दत्वं हि पारमार्थिकत्वं विवक्षितम् उत प्रकाशमानत्वादिना नाद्य इत्याहः - घटादिष्विति । द्वितीय आहः - न चेति । नहीति । शुक्तिरजतादिकं सदेव भासत इति वदतः प्रतीदमिति भावः । किञ्चेत्यादि । अनवस्थाभयाद्वाच्यत्वे वाच्यत्वं नाभ्युपगन्तव्यं तथा व्यत्रव्यभिचार इत्यर्थः । अगमबाधञ्चाहः - अगमेचेति । वाचो निवर्तन्त (तै आन 9) इति वाक्सम्बन्धस्य निवृत्तिरभिप्रेता । अर्थवादत्वमाशङ्क्य विधिशेषत्वा - भावान्नार्थवादत्वमित्याहः - न चेति । तत्वरूपपरता च सिद्धान्तिनामप्यङ्गीक्रियत एवेति भावः । न च कतिपयेति । कतिपयशब्दवाच्यत्वं ब्रह्मणोङ्गीकृत्य निषेधस्य कतिपयशब्दविषयत्ववाच्यतया सङ्कोचो न युक्त इत्यर्थः । नन्वसङ्गोचेन निषेधे ब्रह्मनिर्देशो नोपपद्यत इत्यत्राहः - असङ्कोचेन चेति । असङ्कोचस्य निषेधस्य वक्तव्यत्वे सिद्धे ब्रह्मणो वृत्तिविषयत्वाभावेऽपि शाखाचन्द्रन्यायेन निर्देश उपपन्न इति भावः । अगोचरं वचसामित्यसङ्कोचेन निषेधकोपबृम्हणानुगृहीतत्वाच्चास्मदुक्तव्यवस्थैव ग्राह्येत्याहः - तदेतदिति । प्रवृत्तिनिमित्ताभावेऽपि न दोषइत्याहः - यथेति । निर्विकल्पकं शाब्दज्ञानं त्वयाङ्गीकृतमिति प्रवृत्तिनिमित्तंविनापि शब्दस्य शक्त्यङ्गीकारे नकिञ्चिद्बाधकमित्यर्थः । युक्तं चैतदित्याहः - येषामिति । यद्यपि यत्र प्रवृत्ति निमित्तं तत्रैव तदभावो विरुद्ध इव तथापि दण्ड्यादि शब्द प्रवृत्तिनिमित्तस्य कादाचित्कत्वान्न विरोध इति भावः । अत्र निमित्तद्वारा प्रवर्तमान शब्दानामेव निमित्ताभावे निवृत्तिः । न तु निर्निमित्तकशब्दानामपि । अतो ब्रह्मणि निर्निमित्तक शब्दप्रवृत्तौ न विरोध इति तात्पर्यम् । ननु ब्रह्मादिशब्दास्समित्तका एव बृहति बृह्मयतीत्यनुसारात् । निर्नित्तकस्तु शब्दो ब्रह्मणि नास्त्येवेति शङ्कतेः - अन्यादृशस्त्विति । तथाविध इति । निर्निमित्तकमित्यर्थः । ज्ञानावेद्यत्वस्थापनादिति । स्वप्रकाशस्यापि पुरुषान्तरीयस्य ज्ञानान्तरेण विना प्रकाशासम्भवात् ज्ञानान्तरवेद्यत्वमवेद्यत्वभङ्गे स्थापितमिति भावः । अन्यथेति । ब्रह्मणि निर्विशेषत्वस्य प्रतिपादनासम्भवात्तस्य निर्विशेषत्वे प्रमाणाभावान्निर्विशेष ब्रह्मेत न स्यादिति भावः । ननु ब्रह्मज्ञानाभावे कथमविद्यानिवृत्तिः ब्रह्मज्ञानस्यैव मोक्षसाधनतया श्रुतत्वादित्यत्राहः - ब्रह्मत्विति । विशेषमिथ्यात्वज्ञानसहकृतेन स्वरूपप्रकाशेन निवृत्तिरितिभावः । विशेषणतयेति । ब्रह्मणो विशेष्यत्वस्यावर्जनीयत्वाद्विशिष्टज्ञानविषयतया तच्छब्दविषयत्वमवर्जनीयमिति भावः । किञ्च प्रतीयमानामिथ्यात्वेनाज्ञाप्यन्त इत्यत्र किं प्रकाशमानमात्रस्य निषेधः उत ब्रह्मव्यतिरिक्तस्य नाद्य इत्याहः - प्रकाशमानेति । द्वितीये दोषमाहः - यदीत्यादिना । प्रतियोगितयेति । अतस्तन्निर्देशाभावे तदतिरिक्तत्व प्रतीत्यसम्भवात्तन्निर्देश अवश्यक इति विशेष्यतया निर्देशापेक्षया भेद इत्यर्थः ततः किमायातमिति । प्रत्यभिज्ञापकत्वेऽपि वाच्यत्वं निर्बाधमित्यर्थः । तदेव विवृणोतिः - पूर्वेति । पूर्वप्रतिपत्तिर्हि विधिविरोधिनीं न तु शब्दवाच्यत्व विरोधिनीति भावः। गूढाभिसन्धिरप्याहः - तदप्यसदिति । ननु न हि वयं शब्द बोध्यत्वं निषेधामः । किन्तु वाच्यत्वमात्रम् । तथा च शाखावल्लक्षणया बोधेऽपि न दोष इत्यभिसन्धिम - जाननश्शङ्कतेः - लक्षणमात्रमिति । अभिसन्धिमुद्घाटयन् एव पूर्वोक्तपरिहारं स्मारयतिः - किमत इति । शब्दवेद्यत्वं दुष्परिहारमिति भावः। दूषणान्तरमाहः - मुख्यार्थेति । मुख्यार्थ सम्बन्ध एव लक्षणा । स आदित्यस्येति समासः । तदेव लक्षणायालक्षावृत्तेर्निमित्तम् । लक्ष्यतावच्छेदकमित्यर्थः । तथा च मुख्यार्थ सम्बन्धरूपलक्षणायास्तत्तसम्बन्धितावच्छेदकस्य च मुख्यार्था भवेन सम्भवादित्यर्थः । यद्वा मुख्यार्थ सम्बन्धो लक्षणाबीजं न तु लक्षणेति भावः लाक्षणिकशब्देन मुख्यार्थरहितेनालक्षणीयत्वान्मुख्यार्थ - सम्बन्धदेर्वक्तुमशक्यत्वादित्यर्थः । नचेति शब्दस्य ततो निवृत्त्यक्तिसम्बन्धमात्रं निवर्तयतीति भावः । विरोधेति । यत इति निर्देशस्यवाचो निषेधस्य च विरोध परिहारायेत्यर्थः । नियामकाभावादिति । तथा शब्दबोध्यत्वं सामान्यमेव त्वत्पक्षे निषेध्यं स्यादित्यर्थः । ननु नियामकाभावादित्ययुक्तं शब्दसम्बन्धत्वेन प्रसिद्धेत्वाच्छक्तेसाधीनोपस्थितिकत्वाद्वृत्त्यन्तरस्येत्यस्वरसादाहः - अस्मन्मतेन दपरिच्छेदनिवृत्ति परत्वान्नोक्तार्थपरत्वमिति भावः । प्रशमनपरेषु वाक्येषु सदादिशब्दैश्शक्त्यैव स्वरूपनिर्देशः कर्तव्य इति स्थितम् । उक्तहेतोरेव पूर्वपक्षोक्तस्ववचनविरोधोऽपि दुष्परिहार इत्याहः - अत इति । स्वरूपमनिर्दिश्येतेति शेषः । एवं श्रुतेश्शब्दवेद्यसामान्य निषेध परत्वस्य त्वयावाच्यत्वादेव ब्रह्मश्रुतिबलाच्छब्दवेद्यं न भवतीति प्रतिज्ञाने प्रतिज्ञास्थ ब्रह्मपदनिषेधयोर्विरोध इत्याहः - इह स्ववचनेति । यत्त्विति । सगुणब्रह्मातिरिक्तं किञ्चिन्निर्गुणं ब्रह्म बूयास्तदा नामकीर्तन विधेस्सगुण ब्रह्मविषयत्वं वाच्यत्वविधेर्निर्गुणविषयत्वमिति वक्तुं शक्येत । न च तदस्ति परमार्थतो निर्गुणस्यैव ब्रह्मणोमिथ्याभूतगुणाश्रयत्वाङ्गीकारादित्यर्थः । नाभिसन्दध्या इति पाठे गुणपदव्यवर्तनीयं निर्गुणं ब्रह्म नाभिसन्दध्याः किन्तु वस्तुतस्सगुणमेव ब्रह्म तादृशमेव वच नामविषय इत्यभिसन्दध्यास्तदात्वदुक्तं सम्यगेवेत्यर्थः - न तु मन्त्रजपमिति विधिवैयर्थ्य प्रसङ्गादिति भावः । विषयव्यवस्थेति । जपविधेर्मोनमन्त्र जप इति निषेधस्यचेत्यर्थः । मौनं मन्त्रजप इत्यस्य समाधिनिष्ठमुमुक्षुविषयत्वात्स्वरूपे जपनिषेधपरत्वं जपविधेः काम्यविषयत्वाद्गुण विषय इत्यर्थः । समाधीति । “यः पुनरेतं त्रिमात्रेणोमित्येतदक्षरेण परम पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै पाप्मभिविनिर्मुक्तस्ससामभिरुन्नीयते ब्रह्मलोकं’’ (प्रश्न 5.4) “आेमित्यात्मानं यञ्जीते’’ (तै.मष्टाना) त्यादिभिः समाधिनिष्ठमधिकृत्यैव मन्त्र विधानादित्यर्थः । सम्प्रज्ञातेति । शब्दाद्यगोचरं ध्यानं निर्विकल्पात्मकं यदा सम्प्रज्ञातस्समाधिस्यात्स्वयं निर्वाणसाधनमित्यक्तमित्यर्थः । सम्प्रज्ञातसमाधिरपीति क्वचित्पाठो दृश्यते । तदाप्युक्तार्थपर तया व्याख्येयः । तदा तश्शब्दानुसन्धान परिपन्थिनि तदातनशब्दविषयो न भवतीत्यर्थः । तदुपहितेति । तदुपधेय विशेष्यभूत ब्रह्म स्वरूपम् इत्यर्थः । विवक्षेति । नामरूपभाक्तवश्रुतेरित्यर्थः । अन्यथेति । ब्रह्मणस्तत्तत्कार्यवाचिशब्द वाच्यत्वाभावे तद्वाचकबहुशब्देन बहुस्यामिति सामानाधिकरण्यायोगात्तद्व्याक्रियतेति नामरूप व्याकरणकर्मत्वायोगाच्चेत्यर्थः । स्व बाधपर्यं वसितमिति । स्वाभ्युपगता वाच्यत्वपरित्याग पर्यवसितमित्यर्थः । घटाद्यविशेषेऽपि कथं बाध पर्यवसानमित्यत्राहः - घटादीनामिति । ननु घटादितुल्यं वाच्यत्वं नास्माभिर्निषिध्यते किन्त्वन्यादृशमेवेत्यत्राहः - नहीति । ननु घटादितुल्यस्यैव वाच्यत्वस्यमिथ्यात्वाद्ब्रह्मणि तदभावस्साध्यते । घटादेश्चत्वनधिष्ठानत्वान्न तत्र तदभाव इति न घटाद्यविशेष प्रसङ्गः इति एकदेशिमतं दूषयतिः - न चेति । किं मिथ्यात्वं वाच्यत्वस्यं निरूपत्वादुच्यते उत प्रपञ्चमिथ्यात्व साधनात् - नाद्य इत्याहः - सामान्यत इति । द्वितीय आहः - प्रपञ्चेति । तत एवेति । प्रपञ्चमिथ्यात्वस्य निरस्तत्वादेव पारमार्थिकत्वरूपं वस्तुत्वं सिद्धमित्यर्थः । अनैकान्त्यमित्यनन्तरं तन्नेति शेषः । तत्रापीति । तत्र शुक्तिरजतादौ अन्यथाख्यातिमते अधिष्ठानस्यारोप्यस्य च सम्बन्धस्य च वाच्यमित्यर्थः । आदिपदेन यथार्थख्याति पक्षे शुक्तिसंसृष्टरजतावयवस्यग्रहः शशविषाणादिभिरनैकान्त्यं परिहरतिः - असद्वयवहारेति । तत्रापि शशस्यारोप्यस्य श्रृङ्गस्य तत्सम्बन्धस्यैव व्यवहारविषयतया तेषां सत्यत्वाद्वाच्यत्वमस्ति (+++) न चानवस्थेति । घटादौ प्रवृत्तिनिमित्तभेदाद्वाच्यत्वभेदः । ततश्च घटादि गतवाच्यत्वे वाच्यत्वगतवाच्यत्वे च वाच्यत्व मेकमिति तेन रूपेणानुगतीकृतेषु वाच्यत्वशब्दवाच्यमेकमेवेति घटादिगत वाच्यत्वमेव स्वस्मिन्नपि वाच्यत्वमिति नानवस्थेत्यर्थः । वाच्यत्वशब्दवाच्यसामान्यरूपेणेति । वाच्यत्वेनेत्यर्थः । यदि च प्रवृत्तिनिमित्ताभेदेप्याश्रयभेदाद्वाच्यत्व भेदस्तदानीमपि प्रामाणिकत्वान्नानवस्था दोषायेत्याहः - प्रतिवस्त्विति । ऐक्यपक्षे आत्माश्रयं परिहरतिः - स्वपरेति । स्वप्रकाशत्व तद्वस्तुविशेषस्य स्वाश्रयत्वमपि प्रमाणसिद्धत्वान्नहन्तुशक्यमिति भावः । केषाञ्चिदिति । भेदवादिभिर्निर्विशेषत्वान्न हन्तुं शक्यमिति भावः । केषाञ्चिदिति । भेदवादिभिर्न्निर्विशेषत्वानभ्युपगमादिति भावः । सर्वसाधारण्येनाश्रयासिद्धिमाहः - सिद्धानामपीति । स्वप्रकाशत्वस्याप्यभावे वाच्यत्वप्रसङ्गेन श्रुत्यादि बोध्यत्वा भावेचाश्रयासिद्धिरिति भावः । आदिपदेन निर्विशषत्वादिगृह्यते । स्ववचनविरोधमुपपादयति ब्रह्मेतीति । अनुमानेपक्षनिर्देसस्य तक्ष पर्यवसितस्य तद्गततया साध्यस्य हेतोश्च निर्देष्टव्यत्वाद्वाच्यत्वप्रसङ्गेनावाच्यत्वसाध्यस्य विरोधस्यादित्यर्थः । अन्यथेति । आश्रयासिद्धिशश्रयाज्ञानात्साध्यविशिष्टपक्षप्रतिपादनाभावेपर्वतो धूमवत्वादित्यनन्वयः । हेतोः पक्षेऽज्ञानात्स्वरूपासिद्धिः । असाधारण्यं परिहरतिः - सर्वस्यचेति । नन्वाच्यत्व पदलक्ष्यत्वमपीष्टमेवेत्याशङ्क्य परिहरतिः - माभूदित्यादिना । वाच्यत्वासधनं निष्प्रत्यूहमिति भावः । न ब्रह्मण इति । अस्याः श्रुतेविषयत्वादिति भावः । अस्याः श्रुतेर्गुणेऽपि वाच्यत्वनिषेधपरत्वं नास्तीत्याहः - तस्येति । तत्परिच्छेदे वाङ्निवृत्त्या परिच्छेदस्य तुच्छत्वं गम्यत इत्यपरिच्छेद्यत्वपरत्वमिति भावः । ननु गुणगुणिरूपभेदाभावादानन्दरूप ब्रह्मविषयत्वमेवेत्याशङ्क्य भेदनिर्देशाद्गुणपरत्वमेवेत्याहः - आनन्दमिति । ननु वाचो निवर्तन्त इति निवृत्तिवचनस्यासम्बन्धार्थत्वं प्रतीयमानं परित्यज्यापरिच्छेद्यार्थ परत्वमयुक्तमित्यत्राहः - अन्यथेति । तथा सति यत इति निदिष्टान्निवृत्तिर्वक्तव्या । अन्यथाकस्यावाच्यत्वं सिद्धयेदिति स्ववाक्यविरोधस्स्यादित्यर्थः । नन्ववाच्यमस्पर्शमलोहितमिति ब्रह्मणि वाच्यत्वं निषिध्यते तत्र कागतिरित्यत्राहः - एवं चेति । अत्राप्यपरिच्छेद्यगुणवत्वमर्थः । असङ्कोचेनेति । वाच्यत्वनिषेधस्यचेति शेषः । ब्रह्मण्यनुपहितस्वरूपे धर्मिसमानसत्ताकवाच्यत्वाभावेऽपि विषमसत्ताकवाच्यत्वं वा लक्षणा वाङ्गीकार्या ततश्च वाङ्निवृत्तिश्रुतेर्ना सङ्कोचसिद्धिरित्यर्थः । अनुपहित बोधानङ्गीकारे बाधकमाहः - अन्यथेति । यच्छब्दादेस्समुद्रघोषत्व प्रसङ्ग इत्यनेनेत्यर्थः । अवाच्यमिति । अवाच्यत्वपदेनेत्यर्थः । यद्यप्यवाच्यमिति वाक्यं तथापि प्रादिपदिकार्थविहित प्रथमाविभक्तिवाच्यत्वाल्लाक्षणिक पदविहित विहितवाच्यत्वाच्चनावाच्यत्वसिद्धिरित्यर्थः । परिशुद्धेति । जीवस्वरूपस्य केवलस्य देवदत्तादिशब्दबोध्यवैजात्याभाव्रतिपादकतया न ब्रह्मावाच्यत्व परत्वमित्यर्थः । परब्रह्मलीयत्ववेदतापि वचसां गोचरमित्यत्र सङ्कोच आवश्यक इत्याहः - भवतु वेति । स्ववचनविरोधमाहः - ये नेति । शुद्ध इति । नचोपहित परत्वमिति वाच्यम् । शुद्ध परस्याविद्यानुपहितपरत्वावश्यं भावादिति भावः । कूपमण्ड्कस्त्वं श्रुतिस्मृत्यन्तरं न जानासीत्याहः - न चेति । त्वदुक्तमात्रमेवचेत्तदशङ्कापिशाच्यपि स्यादपित्वन्यास्सन्त्येव तासु विरोधिनीष्वसतीषुकथममुपथ1 वक्षीत्यर्थः । परम्ब्रह्मत्युच्यत इति प्रवृत्तिनिमित्तपुरस्कारेण ब्रह्मशब्दवाच्यता प्रतिपाद्यत इत्यर्थः । उदिति नामेति । उच्छब्दस्तस्य सञ्ज्ञेत्यर्थः । उपनिषदहरित्यध्यात्मं ( ) आत्मनि उपनिषच्छब्दश्च वर्तत इत्यर्थः । विष्णु सञ्ज्ञमिति । विष्णुशब्दवाच्यमित्यर्थः । आेमितेति । इति शब्देन वाच्यता प्रतिपाद्यते । “वचसां प्रतिष्ठा’’ - वचसां शब्दानां वाच्यमित्यर्थः । उत्तमं - वाच्यं - मुख्यवृत्त्याज्ञाप्यमित्यर्थः । अहमेव वेद्यइति । वेद्यत्वं च वृत्तिसाध्यमित्यर्थः। आमन्तीति । आम्नानं पुनः पुनः प्रतिपादनं वृत्तिसाध्यमिति भावः । वेदा क्षराणियावन्तीत्या दि पदग्राह्यम् । मुमुक्षूपादेय ब्रह्म नामानि उदित्येवमादीनि । वत्सकुलजलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणी टीकायां पञ्चचत्वारिंशोवादस्समाप्तः ॥