॥अथ निवृत्त्यनुपपत्तिवादः चतुश्चत्वारिंशः ॥44॥
सत्त्वानीव विरुद्धजातिजनुषा सिद्धानि सिद्धाश्रमे वैरं यत्र मिथस्त्यजन्ति विधयस्सर्वैर्निषेधैस्सह ।
तं रङ्गेशयमङ्गसङ्गिकमलालक्ष्येश्वरप्रक्रियं शान्तावद्यमनन्तमङ्गलगुणं देवं प्रपद्येमहि ॥
येयं ब्रह्मणः श्रवणमनननिदिध्यासनादिक्रमपरिणतविशदाद्वैतवाक्यार्थविज्ञानहेतुका निश्शेषाविद्यानिवृत्तिरुच्यते, सा किमध्यासरूपा, नवा? पूर्वत्र कथं निश्शेषाविद्यानिवृत्तिः,अध्यासरूपायां तस्यां सत्यां तन्मूलाविद्याया अपि विद्यमानत्वात्, उपादानमन्तरेणोपादेयस्थित्ययोगात् ।
आत्मोपादाना साऽस्त्विति चेन्न; आत्मनःपरिणामित्वप्रसङ्गात् ।
सत्योपादानायाश्च सत्यत्वेन सद्वितीयत्वप्रसङ्गात् ।
नच दोषमन्तरेणाध्यासो भवतामपीष्टः, तथा सत्यविद्याकल्पनस्यैव निर्मूलत्वप्रसङ्गात् ।
यदि सा ब्रह्मवदविद्यावच्च उपादानरहिता, तदा कथं तया सहाविद्या तिष्ठेत्? सिथ्ता वा किमिति पश्चान्नावतिष्ठते? निवृत्तिरपि ब्रह्मव्यतिरिक्तत्वैकप्रयोजकप्रयुक्तमिथ्यात्ववशान्निवर्तिष्यत इति निश्शेषाविद्यावृत्तिरिति चेन्न; निवृत्तिनिवृत्तौ तन्मिथ्यात्वे च निवर्त्योन्मज्जनतत्सत्यत्वयोः प्रसङ्गात् ।
प्रागभावनिवृत्तिरूपस्य घटस्य निवृत्तावपि प्रागभावानुन्मज्जनवत्, जागरदशायां
स्वाप्नान्धकारनिवृत्तिरूपस्य स्वाप्नप्रदीपस्य निवृत्तावपि स्वप्नान्धकारमिथ्यात्ववच्चानुन्मज्जन मिथ्यात्वयोस्सिद्धिरिति चेन्न; घटतत्प्रागभावनिवृत्त्यात्मकस्य प्रध्वंसस्य स्वाप्नतेजस्तमोबाधकस्य जागरस्य च विद्यामानत्वेन तद्दुयानुन्मज्जनमिथ्यात्वयोरुपपत्तेः ।
अत्र त्वविद्यातन्निवृत्त्योर्द्वयोरपि प्रत्यनीकमन्यत्र परिशिष्यते ।
अस्ति ब्रह्मस्वरूपमिति चेन्न; तस्य तदुभयप्रत्यनीकत्वे तस्यानादित्वात्तयोः प्रागप्यारोपाभावप्रसङ्गात् ।
तथा च सति भेदप्रतिभासादेर्निर्मूलत्वे सर्वप्रमाणविरोधो मोक्षशास्त्रानारम्भश्च, पूर्वं तदविरोधित्वे पश्चादपि तद्वैरासम्भवात् ।
कैवल्येन रूपेण पश्चाद्विरोध इति चेन्न; कैवल्यस्य स्वरूपमात्रत्वे दत्तोतरत्वात् ।
स्वरूपातिक्तित्वे सत्यत्वे सद्वितीयत्वप्रसङ्गात्, तन्मिथ्यात्वे तत एवाविद्यास्थित्यवश्यम्भावात् ।
एतेन प्रयोजकं यदुक्तम्, तदपि दत्तोत्तरम् ।
अतएव न द्वितीयः, अनध्यासरूपाया निवृत्तेस्स्वरूपान्तर्भावादिविकल्पदुःस्थत्वात् ।
अन्तर्भावे ब्रह्मणोऽनादित्वेनाविद्याया नित्यनिवृत्तिप्रसङ्गात् ।
यद्यपि घटादेः स्वरूपमेव तत्प्रागभावनिवृत्तिरितिवत् ज्ञानस्वरूपं ब्रह्मैवाज्ञाननिवृत्तिरिति वक्तुं शक्यम्, तथाऽपि स्वप्रागभावनिवृत्तिरूपघटादेरिव स्वाज्ञाननिवृत्तिरूप ब्रह्मणोऽपि तदनन्तरत्वावश्यम्भावे कादाचित्कत्वादयो दोषास्समुन्मिषेयुः।
ननु पूर्वसिद्धभूतलस्वरूपमेव पश्चिमसिद्धघटादिनिवृत्तिरित्यभावापलापवादिभिरभ्युपगम्यत इति चेत्; किमनेन? अस्माभिस्तत्रापि घटसंसर्गप्रत्यनीकतारूपस्य पराभिमतघटाभावाविनाभूत भावान्तरात्मककालविशेषसंसर्गतन्मूलपरिणामादेः प्रत्यक्षसिद्धस्य भूतलावस्थाविशेषस्य यथायथं घटाभावत्वाभ्युपगमात्तस्य घटसंसर्गोत्तरभावित्वेन पूर्वसिद्धत्वासिद्धिः ।
नन्वभाववादिनोऽपि कार्यप्रागभावस्य कारणाश्रयत्वात्कारणेऽपि कार्यप्रागभावस्य सम्बन्धोऽभ्युपगतः, सम्बन्धिनः प्रागभावस्य निवृत्तौ च तत्सम्बन्धनिवृत्तिरास्थेया, सा च सम्बन्धनिवृत्तिः कारणस्वरूपानतिरेकिणीष्टा च, कार्यं तु दृश्यमानं स्वप्रागभावस्यैव निवृत्तिः, एवं कार्यकारणयोस्सम्बन्धोऽपि स्वप्रागभावनिवृत्तिरेवेति परिशेषात् पूर्वसिद्धकारणस्वरूपमेव कार्यप्रागभावकारणयोस्सम्बन्धनिवृत्तिरिति; तदप्यसत्, कार्यतत्प्रागभावयोः कारणेन सह स्वरूपातिरिक्तसम्बन्धमनभ्युपगच्छतां पुरतो नेदं चोद्यम् ।
अभ्युपगच्छतामपि कार्यसम्बन्धप्रागभावः कार्यप्रागभावकारणयोस्सम्बन्ध एवेति तस्य तन्निवृत्तित्वं युक्तम् ।
कार्यमेव वा स्वप्रागभावतत्सम्बन्धयोरप्यभावो भवतु,
विरोधाविशेषात् ।
यथैक एव प्रध्वंसः कार्यतत्प्रागभावयोः प्रतिपक्षः, इत्यादि स्वयमूह्यम् ।
ननु भवतामप्यविद्यानिवृत्तिः पूर्वसिद्धजीवस्वरूपाविर्भाव एव, *स्वेन रूपेणाभिनिष्पद्यत इति श्रुत्यनुसारात्, तद्ब्रह्मस्वरूपाविर्भाव एवास्माकमविद्यानिवृत्तिरस्त्विति चेन्न; संसारदशायामनाविर्भूतानेकाकारगोचरस्याविर्भावशब्दार्थस्य धर्मभूतज्ञानविकासविशेषस्य पूर्वं कर्मणा प्रतिबद्धस्य पश्चात्तन्निवृत्तौ स्वरूपानुबन्धित्वादनिवर्तनीयस्यास्माभिरभ्युपगमात् ।
भवतस्तु निराकारे ब्रह्मणि नित्याविर्भूतज्ञप्ति (व्यक्ति) मात्रस्वरूपे नापूर्वः कश्चिदाभिर्भावः ।
ननु ब्रह्माकारविवर्तान्तः करणवृत्त्युपलक्षितस्वरूपेणापूर्वेण ब्रह्म स्वाज्ञाननिवृत्तिः, कारणविनाशाच्चोपलक्षकान्तः करणवृत्तिनाशे तदुपलक्षणाभावेन न सद्वितीयत्वादिप्रसङ्गावकाश इति चेत्; तदप्यतिमन्दम्, उपलक्षणस्वरूपस्यैव निष्कर्षवशान्निवृत्तिरूपत्वप्रसङ्गेनाध्यासरूपविकल्पानुप्रवेशात्, तस्य च दूषितत्वात् ।
उक्तानां च विकल्पोत्तराणां तथाविधान्तः करणवृत्तिनाशे तन्मूलोपलक्षणनाशे च तुल्यप्रसरत्वात् ।
बहिर्भावे तु सद्वितीयत्वापत्तेः ।
समुच्चये विरोधात् ।
आकारभेदकल्पनेऽनवस्थानात् ।
आकारैक्ये भेदाभेदयोरैक्यप्रसङ्गात् ।
किञ्च बहिर्भावे च सा किमनादिरुतादिमती? पूर्वत्र
नित्यमविद्यानिवृत्ति प्रसङ्गः ।
उत्तरत्र कारणाभावात् कार्याभावः, न हि मिथ्याभूतमविद्यादिकं सत्यभूतायास्तस्याः कारणं सम्भवति, असत्यात् सत्योत्पत्तेरन्यत्र दूषणात् ।
न च सत्यं ब्रह्मैव तत्कारणमस्त्विति वाच्यम्; तदनादित्वप्रसङ्गेन प्रागुक्तोपद्रवात् ।
नहि विगलितशबलभावं ब्रह्मैव तत्कारणम्, शबलभावविगलनस्यैव कारणान्वेषणेनात्माश्रयप्रसङ्गात् ।
नन्वविद्यानिवृत्तिर्न सती, ब्रह्मव्यतिरिक्तत्वात्; नापि सदसदात्मिका, व्याघातादिदोषशतोन्मेषात्, नच सदसद्विलक्षणा, सदसद्विलक्षणनिवृत्त्यात्मकत्वव्याघातात्; अतः परिशेषादसती वा, तामपि कोटिं परित्यज्य पञ्चमप्रकारो वा ।
भावाभावयोरेव हि सदसदादिप्रकारा निवृत्तयः ।
सदसद्विलक्षणञ्चाज्ञानम्, तन्निवृत्तिश्च प्रमाणसिद्धेति सदसदनिर्वचनीयाज्ञानानुसारेण यक्षानुरूपो बलिरिति न्यायात् सदसदादिसर्वप्रकारविलक्षणा तन्निवृत्तिः कल्प्यत इति किं नोपपन्नमिति चेत्; अहो परापादनीयमात्मनः परिवादमात्मनैवाविष्कृत्य वैदग्ध्यमभिनयसि ।
तथा हि -कोटित्रयस्य भवतैव दूषितत्वात् अल्पशेषं कृतं शत्रुकार्यम् ।
यत्त्वसतीवेत्युक्तम्, तत्र भावान्तराभावनयेन भावान्तरविवक्षायां सद्वितीयत्वप्रसङ्गः ।
अतिरिक्ताभावविवक्षायां च सद्वितीयत्वं तेनैव भावेन तत्प्रतियोगिना च सत्यत्वेन दुस्त्यजम् ।
अभाववादिनां सत्यस्यैवाभावप्रतियोगित्वात् ।
निरुपाख्यविवक्षायां च तस्याश्शशश्रृङ्गादिवदकादाचित्कत्वप्रसङ्गः ।
ततश्च पूर्ववत्सर्वदैवाविद्यानिवृत्तिरनिवार्येत्यसंसारः ।
तस्यास्संसारस्य चाविरोधे अनिर्मोक्षः ।
परमार्थतस्सर्वदा संसाराभावात् तत एव परमार्थमोक्षाभावश्चेति नानिष्टप्रसङ्गाविमाविति चेन्न; व्यावहारिकबन्धमोक्षव्यवस्थाभङ्गस्यैव प्रसज्यमानत्वात् ।
तामपि व्यवस्थां परित्यजतः लौकिकवैदिकसर्वव्यवहारविलोपप्रसङ्गः ।
किं च अविद्यानिवृत्तेरसत्त्वे नित्यमविद्यासद्भावप्रसङ्गः ।
ननु घटप्रध्वंसस्यासद्रूपत्वाभावात् ।
स ह्यभावात्मकोऽपि तत्कालीनतया प्रमाणतस्सिद्धः ।
अन्यथा घटनित्यत्वस्यापि दुर्निवारत्वात् ।
असद्रूपमेव घटप्रध्वंसमभ्युपेत्य दूषणं ब्रूया इति चेन्न;शमलं भक्षय शापितोऽसि गुरुणेत्यादिवदशक्यत्वात् ।
शक्यत्वाभ्युपगमे वा त्वयैव दूषणमनुमतमिति किमस्माकं तत्समर्थनेन? पञ्चमीं कोटिमाटीकमानस्यापि ते न काचिद्गतिः ।
साहि माध्यमकिगोष्ठीमध्ये भवन्तमध्यारोप्यानिर्वचनीयाग्रहविशिष्टं च सदद्वितीयं ब्रह्म विलुपन्ती त्रय्यन्तवादवारवाणमवधूयान्तर्गतं प्रकाशयेत् ।
ते ह्येवमाहुः *न सन्नासन्न सदसन्न चाप्यनुभयात्मकम् ।
चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥ इति ।
न चैकदेशवैषम्याद्विशेषः, पञ्चमकोटिपरिग्रहस्य भिक्षुपादप्रसरणन्यायेन समस्तभवत्सिद्धान्तावस्कन्दात् ।
व्यवस्थाहेतूनामपि व्यावहारिकत्वेना व्यवस्थितत्वस्यैव व्यवस्थितत्वात् ।
नच यक्षानुरूपो बलिरिति न्यायस्यात्रावकाशः, आनुरूप्यस्याविरोधित्वरूपत्वे सदसदनिर्वचनीयाज्ञाननिवृत्तेरप्यनिर्वचनीयरूपत्वप्रसङ्गात् ।
विरोधिरूपत्वे त्वनिर्वचनीयत्वप्रत्यनीकत्वस्य निर्वचनीयत्वेन सदसत्त्वसमुच्चयकोटिबहिर्भावायोगात् ।
तस्याश्च दूषितत्वात् ।
यदा च भवदभिमता सदसद्विलक्षणकोटिरपि निशिततर्कशूलकोटिमारोपिता तदा कैव कथा निर्विशेषपरब्रह्माधिष्ठानानिर्वचनीयभावरूपाज्ञानविक्षेपात्मकव्यतिरिक्तजडरूपाह मर्थाहङ्कारवृत्तिविशेषरूपमिथ्यास्वरूपतत्त्व मस्यादिवाक्यलक्षणप्रभवब्रह्मात्मैक्य विज्ञानकृतसदसद निर्वचनीय विश्वनिवृत्तिरूपायागन्धर्वनगरगोपुराधिरूढगगारविन्दमकरन्दपानमदभरमन्थरवन्धा सुतशुभकरतलकलितखर विषाणकोदण्डकोटिघटितकमठरोमशिञ्जनीर्नियत्न निर्यदैन्द्र जालिकशरशलाकाकृतभविष्यद्देवदत्त पुत्रशिरश्छेदसोदराया दुरभिलपकारकज्ञापिकायाः पञ्चम्याः कोटेरित्यलमपरिणतभणितिपरिहसनेनेति ॥
॥ इति शतदूषण्यां निवृत्त्यनुपपत्तिवादः चतुश्चत्वारिंशः ॥44॥
नृसिंहराजीया
अविद्यानुबन्धित्वसङ्गतिमभिप्रेत्यवादार्थं सूचयन् स्वाभीष्ट देवतामभिष्टौतिः - सत्वानीवेति । विरुद्धजातिषु गोव्यघ्रादि योनिषु जन्मना सिद्धानि विरुद्धजातीनि गो व्याघ्रादीनि सिद्धाश्रमे वैरं परित्यज्यैकत्र सन्ति तथा विधयो गुणपराः भेदपराश्च निषेधै निर्गुणादि वाक्यैस्सहा विरोधेनैक्यवाक्यतां भजन्ते यत्र ब्रह्मणीत्यर्थः । अङ्गसङ्गिन्या कमलया लक्ष्म्या ईश्वरप्रक्रिया सृष्टिस्थित्यादयोयेन स तथोक्तः । “यस्यावीक्ष्य मुखं तदिङ्गित पराधीनो विधत्तेऽखिलं’’ (श्री.गुणरत्नकोशः) यद्भूभङ्ग प्रमाणं स्थिरचररचनातारतम्ये मुरारेः (श्रीगुणरत्नकोशः) इत्याद्यर्थः । शान्तावद्यं - क्लेशकर्मविपकादि निवर्तकमित्यर्थः । अनेन परपक्षे निवृत्तिर्न सम्भवतीति वादार्थस्सूचितः । अध्यासरूपेति मिथ्येत्यर्थः । तन्मूलेति - अध्यसस्याविद्यामूलत्वादविद्याध्या ध्यासायास्सत्वमावश्यकम् । तत्सत्वे च तत्कार्याण्यपि स्युरित्यर्थः । नन्वविद्याया निवृत्तिजननानन्तरं सत्वं नास्तिम् । घटध्वंसानन्तरं घटस्येवेत्यत्राहः - उपादानमिति । निमित्तस्याभावेऽपि कार्यस्यस्थितिस्सम्भवति नतूपादानाभाव इत्यर्थः नन्वविद्यापिनिमित्तमेव …..त्मेति । सत्वोपादानाया इति । कार्योपादानोपादेययोस्तुल्य ताकत्वस्य तेनैवाङ्गीकारादिति भावः । न चेति । दोषनिवृत्तावध्यासनिवृत्तेर्दशनाद्यावदध्यासन्दोष उपादानमिति भावः । अन्यथा दोषमाहः - तथा सतीति । नि(+++) प्रपञ्चाध्यासस्यापि सम्भवादविद्यारूपदोष एव न स्यादित्यर्थः । उपादानरहितेति । उपादानरहितत्वेऽनादित्वादविद्याया विरोधस्यात् । आद्यमुपादानरहितत्वे (+++)न्तरादोषमूलत्वाभावेन (++++)त्वं न स्यादिति भावः । नन्विद्यानिवृत्तिरविद्योपादानैव । न च निश्शेषाविद्या निवृत्त्यसम्भवः । अविद्यानिवृत्तेरपि निवृत्तरिति शङ्गतेः - निवृत्तिरिति । निवृत्तिनिवृत्तेरपि कार्यत्वेना विद्योपादानत्वावश्यम्भावादविद्यास्थितिरवर्जनीयेत्याहः - नेति । दूषणीय इत्याहः - निवृत्तीति । निवृत्तेर्मिथ्यात्वे प्रतियोगिन एव प्रतिपन्नोपाधौ त्र्यैकालिकनिषेधरूपतया मोक्षकालेऽपि तत्सत्वंस्यत् । घटो नष्ट इति भ्रमे सति घटनिवृत्तेर्मिथ्यात्वे तत्प्रतियोगिनस्सत्यत्व दर्शनात् तथा सत्यत्वं च स्यादित्यर्थः । मिथ्यत्वे निवृत्तेरपि न वृत्तौ प्रतियोग्युन्मज्जनं स्यात् । सत्यत्वं च मोक्षकाली न स्यादित्यर्थः । स्वप्नप्रदीपस्य निवृत्तावपीति । तस्य मिथ्यात्वेऽपीत्यर्थः । तमो बाधकस्य जागरस्यतमोविरोधिनो जागरस्येत्यर्थः । अयं भावः - स्वाप्नप्रदीपस्य तमसो न स्वाप्नाभाव प्रतियोगित्वेन मिथ्यात्वम् । अपि तु त्रैकालिकाभावप्रतियोगित्वेन । तथा च तादृशाभावस्य जाग्रत्काले सत्वान्न सत्यत्वमित्यर्थः । जन्यदिति तदुभयविरोध्यत्वादित्यर्थः । तस्य तदुभयप्रत्यनीकत्वेप्यद्वैत - साक्षात्कारात्प्राक् न तद्विरोधित्वमिति शङ्कामनूद्य परहरतिः - पूर्वमिति । दत्तोत्तरत्वादिति । तदुभय प्रत्यनीकत्व इत्यादिनेत्यर्थः । एतेनेति । प्रयोजकं ब्रह्मव्यतिरिक्तत्वरूप निवृत्तिप्रयोजकं प्रागुक्तदूषणैर्न प्रयोजकमित्यर्थः । नित्यनिवृत्ति प्रसङ्गादिति । अविद्यास्वरूपस्य सर्वदाप्यभाव प्रसङ्गादित्यर्थः । ननु कथं ब्रह्मणोऽविद्यानिवृत्तित्वम् । तथा सति घटस्यापि निवृत्तित्वप्रसङ्गादतो ब्रह्मैवाविद्या निवृत्तिरितिपक्षस्यानुत्थितिरेवेति किं तद्दूषणगवेषणेनेत्याशङ्क्य कथञ्चिदुत्थानं समर्थयन् दूषणान्तरमप्याहः - यद्यपीति ।कादाचित्कत्वादय इति । आदिपदान्मिथ्यायो गृह्यन्ते । अभावालापिभिरिति - अधिकरणातिरिक्ताभावो नास्तीति वादिभिरित्यर्थः । घटसंसर्ग प्रत्यनीकतारूपस्येति । घटसंसर्गप्रत्यनीकता विरोधित्वं रूपं धर्मो यस्येति विवक्षितम् । घटसंसर्ग विरोधिन इत्यर्थः । घटाभावाविना भूतेति । पराभिमत घटाभावाधिकरणत्वेनाभिमतदेशनिष्ठस्येत्यर्थः । परिमाणादेरित्यादिपदेन तदानीं तन द्रव्यादि संसर्गो गृह्यते । भूतलाद्यवस्था विशेषस्या भूतलादि धर्मस्य । एवं कार्यकारणयोस्सम्बन्धोऽपीति । एतस्यापि कार्यप्रागभावं प्रत्येव निवृत्तित्वात्प्रागभावसम्बन्धनिवृत्तिः । कारणस्वरूपमेवेति । तस्य प्रागभावसम्बन्ध भूतनिवर्त्योत्तरत्वं नास्तीति निवृत्तेर्ननिवर्त्योत्तरत्वनियम इत्यर्थः । नेदं चोद्यमिति । प्रागभाव सम्बन्धस्य प्रागभावाभिन्नतया प्रागभाव निवृत्तिरूपस्य कार्यस्यैव स्व प्रागभाव सम्बन्ध निवृत्तिरूपत्वादित्यर्थः । अभ्युपगच्छामीति कार्यसम्बन्ध प्रागभाव एव कार्य प्रागभावकारणयोस्सम्बन्ध इति कार्यसम्बन्धस्यैव कार्यप्रागभाव सम्बन्ध निवर्त्यत्वमित्यर्थः । प्रतिपक्ष इत्यादीति । यथा प्रतियोगितावच्छेदकमेवतदन्योन्याभवात्यन्ताभावःस्वात्यन्ताभावात्यन्ता भावश्च तथेत्यादिशब्देन विवक्षितः । संसारदशायामिति ।संसारदशायां जीवस्य शेषत्वना सत्व (+++)स्य कर्मरूपाविद्यानिवृत्तौ (+++) ज्ञानेन प्रकाशो भवति । स एव स्वेन रूपेणाविर्भावः । न तु सो नागन्तुक इति भावः । स्वरूपानु बन्धित्वादनिवर्तनी - यस्येति । स्वरूपानुबन्धः (+++)कर्मनिबन्धन (+++) निवर्त (+++) चोतरकालं तद्विरोध्य (+++) बन्धत्वाभावो निवर्तनीयत्वं च स्वेनरूपेणाभिनिष्पद्यत इत्यनेन विवक्षितमिति भावः । विवर्तः परिणतः । वृत्युपलक्षितस्वरूपेणेति । यथा काकवद्देवदत्तगृह (+++)क्षितमवृणत्वादि तता मृत्युप(+++) धर्मः तद्विशिष्टतया साध्यमित्यर्थः । उपलक्षणरूपस्य उपलक्ष्यधर्मस्येत्यर्थः । उपलक्षिताकारः अध्यस्तोऽनध्यस्तोवेति विकल्पाभिप्रायेणाहः - अध्यासरूपत्वकल्पनेति । अविद्याया अनिवृत्ति सङ्गादिभिरित्यर्थः । उपलक्षणभावान्नसद्वितीयत्वमित्युक्तमपि पूर्वविकल्पदूषणाक्रान्तत्वान्न सम्भवतीत्याहः - उक्तानामिति । द्वितीय आहः - बहिर्भावेत्विति । विकल्पोत्तराणां सत्यमिथ्यत्वादि विकल्पानामनिर्मोक्षा द्वैत क्षति रूपदूषणानां चेत्यर्थः । अन्तर्भावान्नबहिर्भाव प्रयुक्तो दोषो बहिर्भावान्नान्तर्भाव प्रयुक्तो दोष इति शङ्कामनूद्य परिहरतिः - समुच्चय इति । अन्तर्भावबहिर्भावयोस्सत्व उभय प्रयुक्त दोषाः स्युर्नत्वन्यतरेणान्यतरप्रयुक्तदोषनिरास इत्यपि द्रष्टव्यम् । ननुं किं केनचिदाकारेणान्तर्भावः केनचिदाकारेण बहिर्भाव इति तयोः प्रयाेजकभेद इष्यत उत एक एवाकार उभयप्रयोजक इति विकल्पमभिप्रेत्याद्यं दूषयतिः - आकारभेदेति । तयोरप्याकरयोरन्तर्भाबहिर्भावाङ्गीकारे तत्तत्पक्षोक्तदोषप्रसङ्गेन समुच्चयस्यैवाङ्गीकर्तव्यत्वात्तत्र च विरोधपरिहारायकारभेदो वाच्यः । तत्रापितथैवेत्यनवस्थेत्यर्थः । द्वितीयं दूषयतिः - आकारैक्य इति । अन्तर्भाव बहिर्भावयोर्भेदाभेदरूपत्वादेकेनाकारेण विरुद्धयोस्सामानाधिकरण्योपपादनासम्भवात्तयोरैक्यस्यादिः - किञ्चेति । सा - अविद्याननिवृत्तिरित्यर्थः । नित्यमिति । कदाप्यविद्यातत्कार्ययोरुपलम्भो न स्यादित्यर्थः । न हि मिथ्याभूतमिति । कारणत्वेप्यविद्यानिवृत्तेश्च भिन्नसत्ताकतया विरोधाभावान्निवृत्तावप्यविद्यातिष्ठेदेवेति भावः । आत्माश्रयप्रसङ्गादिति । विगलितबलभावोह्यविद्यानिवृत्तिरेव तथा चा विद्यानिवृत्तया निवृत्तिरित्यामाश्रय इत्यर्थः । नन्वितीदं च तु प्रकार विद्यानिवृत्तिरिति पक्षं शङ्कतेः - नन्विति । अत्र पत्रेऽपि कारणविचारे प्रागुक्ता दोषाः स्युस्तथापि तद्वैलक्षण्यमात्रेण भ्रान्त्या शङ्केति ध्येयम् । घातादीत्यादिपदेनाद्वैतश्रुत्याविरोधादिग्रहः । सर्वसदसद्विलक्षणेति । मोक्षदशायां यावन्मिथ्या वस्तुनिवृत्तेर्वाच्यत्वान्निवृत्तेरपिमिथ्यात्वे स्वप्रतियोगित्वं वक्तव्यम् । तच्च व्याहतमित्यर्थः । असति वेति । मोक्षदशायां प्रतीतेरिति भावः । ननु सत्वं सत्वमिथ्यात्वं वा स्यात् कथं पञ्चमप्रकारत्वमित्यत्राहः - भावाभावयोरिति । सद सतोरित्यर्थः । आदिशब्देन मिथ्यात्वं विवक्षितं सतो घटादेस्सद्रूषा मिथ्यारूपा वा निवृत्तिरसतो निरूपाख्यस्यात्वद्रूपनिरुपाख्येत्यर्थः। दृष्टानुसारेण कल्पने सत्वं निर्वचनीयत्वं वा स्याद्यदि च तथा नेष्यते तर्हि निवृत्तिस्वरूपमेव न स्यादित्यत्राहः - तत्प्रवृत्तिरिति । सदादिरूपत्वस्या सम्भवात्ख्यातिबाधाभ्यां प्रामाणिकार्थलक्षणा निर्वचनीयवत्तद्विलक्षण तन्निवृत्त्यङ्गीकारो न युक्त इति भावः । किमसतीत्यनेनाभावत्वमुत निरूपाख्यत्वं विवक्षितमिति विकल्पमभिप्रेत्याद्यं दूषयतिः - त्यारभ्य भाव प्रतियोगित्वादित्यन्तेन । द्वितीयत्वप्रसङ्ग इति । मिथ्यात्वस्य पूर्वोक्तव्यायेन सम्भवादिति भावः । तेनैवेति । पूर्वोक्तन्यायादिति भावः । तत्प्रतियोना सद्वितीयत्वे हेतुमाहः - अभाववादिनामिति । ध्वंसस्य निरुपाख्यत्वनङ्गीकारात्सत्यस्यैवा भावान्यूनसत्ताकस्यैव प्रतियोगित्वादित्यर्थः । द्वितीय आहः - निरुपाख्येति । नन्वेवं भूतानिवृत्तिर्नसंसारविरोधिनीति संसारस्सम्भवत्येवेत्यत्राहः - तस्या इति । निवृत्तेरित्यर्थः । परमार्थत इति । बन्धमोक्षौ वस्तुतो न स्त इति भावः । लौकिकवैदिकेति । किञ्चेति । विरोधिनो भावादिति भावः नन्विति । असद्रूपत्वं तु तच्छत्वमप्रामाणिकत्व सर्वशून्यवद्यपेक्षयापि कष्टस्त्वमिति भावः । मिति यावत् । अन्यथेति । घटध्वंसस्य तुच्छत्व इत्यर्थः । शङ्कतेः - असद्रूपत्वमिति । अयस्सूचीशबलम् । अशक्यत्वादिति । अभ्युपगमस्येति शेषः । दूषणममतमिति । अभ्युपगममापादयता त्वया तथा स्वरूपाङ्गीकाराद्दूषणमनुमतमेवेत्यर्थः । यद्वा निवृत्तेर्ब्रह्मस्वरूपत्वपारमार्थिकत्वपञ्चम प्रकारत्वान्यतमपक्षमेवसमर्थता त्वया अविद्यानिवृत्तेरसत्वे दूषणमनुमतमेवेत्यर्थः । यद्वा निवृत्तेर्ब्रह्मस्वरूपत्वपारमार्थिकत्वपञ्चम प्रकारत्वान्यतमपक्षमेव समर्थतात्वया अविद्यानिवृत्तेरसत्वे दूषणमनुमतमेवेत्यर्थः । अनिर्वचनीयाग्रहविशिष्टमिति । अनिर्वचनीयाभिमानवन्तं प्रपञ्चं ब्रह्म चापलाप्य माध्यमिकशिष्यत्वं प्रकटितं स्यादित्यर्थः । अन्तर्गतं प्रच्छन्नम् । अनुभयात्मकम् अनिर्वचनीयम् । चतुष्कोटिविनिर्मुक्तं - पञ्चमप्रकारम् । न चेति । किञ्चित्साम्यमात्रात्तन्मतप्रवेशापादनेऽतिप्रसङ्ग इति भावः । भिक्षुपादेति । भवन्मते शुक्तिरजतस्यमिथ्यात्वेन प्रपञ्चमिथ्यात्ववदिति भावः । व्यवस्था हेतुनेति । मिथ्याभूतानां व्यवस्थापकत्वे शुक्तेरेवरजात्मता व्यवस्थिति प्रसङ्गाद्ब्रह्मणोऽपि मिथ्यात्वं प्रसङ्गादिति भावः । यद्वा प्रातिभासिक व्यावृत्त व्यावहारिकसिद्धये हि व्यावहारिकसत्वमिष्यते । तदङ्गीकारेऽपि व्यवस्थाया असिद्धिर्न प्रपञ्चस्यापि व्यावहारिकमेष्टव्यम् । तन्निवृत्तिवदेव पञ्चमप्रकारत्वसम्भवादित्यर्थः । अविरोधरूपत्व इति । सजातीयत्व इत्यर्थः । निवृत्तेस्सदसदनिर्वचनीयाविद्याकल्पनं प्रत्यानुकूल्यं सजातीयत्व एव सिध्यतीतिभावः । विरोधिरूपत्व इति । विजातीयत्व एव तत्प्रत्यनीकत्वमिति विजातीयत्व इत्यर्थः दूषितत्वादिति । अद्वैत हानि संसाराभावान्निर्मोक्षाविद्यानुवृत्त्यादिप्रसङ्गेनदूषितत्वादित्यर्थः । अत्र अस्मदाचार्याणां सङ्ग्रहः - “निवृत्तेश्चेत्सदन्यत्वमनिर्मोक्षः प्रसज्येत । निवृत्तेर्यदि सत्यत्वमनिर्मोक्षः प्रसज्यते ॥ सत्ता भेदाद्विरोधो न प्रतियोग्यनुयोगिनोः । विद्या(मिथ्या) कार्यं विनाविद्या (द्यां) नतिष्ठेत काद च न ॥ यक्षानुरूपबलिना सत्ता साम्यं न विद्यते । गौरवाद्भिन्न सत्तया विरहो न प्रयोजनकः ॥ इति वत्सकुलजलधिकौस्तुभ नृसिंहगुरुसुतेन सिंह देवेनकृतायां शतदूषणीटीकायां चतुश्चत्वारिंशोवादस्समाप्तः ॥