अथ निवर्तकानुपपत्तिवादः त्रिचत्वारिंशः ॥43॥
अनन्यानां पुंसामनवधिकभक्तिस्थितिजुषामविद्याध्वंसे यच्चरणवरिवस्यापरिणतेः ।
तदेकं सत्संवित्सुखमवधिदूरीकृतगुणं हताशेषावद्यं हयवदनमीडीमहि महः ॥
प्रतिष्ठितोऽयमर्थः प्रमाणपरतन्त्राणां - यदुत कर्मयोगज्ञानयोगपरिशोधितान्तः करणस्य तत्तद्वर्णाश्रमोचितनित्यनैमित्तिकोप
संहृतिनिषिद्धपरिहारनिष्ठस्य अनवरतविहितध्यानार्चनादि क्रमपरिणत निरतिशयप्रीतिरूपतापन्ननिदिध्यासन निरुद्धसुहृद्विषत्सङ्क्रमणीयपूर्वोत्तरपुण्यपापस्य, फलोन्मुखकर्मपर्यवसाननिर्मुक्तस्थूलसूक्ष्माचित्संसर्गस्य तथाविधभजनाराधितपरमपुरुषप्रसादादेव सार्व यापरपर्याया निश्शेषाविद्यानिवृत्तिरिति ।
ये पुनरद्धैतविज्ञानादेव ब्रह्माज्ञाननिवृत्तिरिति जल्पन्ति, तान्प्रति ब्रूमः कथम्भूतमिदमद्वैतज्ञानमिति ।
कि ब्रह्मस्वरूपभूताज्ज्ञानाद्भिन्नम्, उताभिन्नम्, यद्वा भिन्नाभिन्नम्, उतानुभयात्मकम्, उताशक्यवेदनकथम्बावं किञ्चिदिति ।
न प्रथमः, तद्वि निर्विषयम्, सविषयं वा? पूर्वत्र ज्ञानत्वमेव हीयेत ।
वृत्तिरूपं हि ज्ञानं सविषयमेवेति भवतामपि सिद्धान्तः ।
उत्तरत्रापि कस्तस्य विषयः? किं ब्रह्मस्वरूपम्, उत तदेवाविद्याशबलम्, यद्वा तद्धतिरिक्तं तस्य मिथ्यात्वं वा, अथवाऽन्यदेव किञ्चिदिति ।
नाद्यः, आत्मस्वरूपस्येव ज्ञानस्य तस्यापि भ्रमनिवर्तकत्वायोगात्, उभयोरपि यथावस्थितब्रह्मस्वरूपप्रकाशरूपत्वाविशेषात् ।
ननु स्वरूपप्रकाशोऽध्यासौपाधिकाधिष्ठानप्रकाशात्मकः, यथेदं रजतमित्यत्र इदमर्थप्रकाशः, विषयप्रकाशस्त्वध्यासनिवर्तकः, यथेदमर्थस्य शुक्तिरिति प्रकाशः,इति चेन्न; दत्तोत्तरत्वात् ।
नदीदमिति प्रकाशस्यशुक्तिरिति प्रकाशस्य चात्यन्तसमानविषयता, इदमिति प्रकाशस्य शुक्तिरजतसाधारणाकारविशिष्टगोचरत्वात्; शुक्तिरिति प्रकाशस्य रजतव्यावर्तकशुक्तित्वविशिष्टविषयत्वात् ।
अन्यथा तस्यापि भ्रमानिवर्तकत्वप्रसङ्गात्क ।
नचात्राप्याकारभेदोऽधिको वृत्तिज्ञानेन बोध्यत इति वाच्यम्; तस्याकारस्य सत्यत्वे सगुणसिद्धान्तोररीकरणप्रसङ्गात् ।
मिथ्यात्वे भ्रान्तिज्ञानत्वादेव सुतरामनिवर्तकत्वप्रसङ्गात् ।
वसुन्धरारन्ध्रबोधे मालाभुजङ्गनिवृत्तिवदुपपद्यत इति चेन्न; तस्यैव भ्रमरूपत्वेन तद्वदेव स्वयं स्वविषयाबाधकत्वात् सर्वत्र भ्रमनिवृत्त्यसिद्धिप्रसङ्गात् ।
बाधकान्तरगवेषणायामनवस्थानात् ।
स्वपरनिर्वाहकसमाधेरपि बाधकज्ञानविषयीभूतप्रपञ्चविरोधिमिथ्याकाराध्याससह स्वरूप प्रकाशातिरिक्तप्रकाशाभावेन तस्याकारस्य बाध्यत्वासिद्धेरेवेति परिहृतत्वात् ।
स्वस्यैव स्वविषयार्थबाधकत्वेव्याघाताच्च ।
अस्तु तर्ह्यभिज्ञाप्रत्यभिज्ञयोरिव स्वरूपतद्विषयज्ञानयोस्साध्यभेद
इति चेन्न; दत्तोत्तरत्वात् ।
तत्रैतत्स्यात्, यथा देवदत्तगोचरत्वाविशेषेऽप्यसावित्यवगाहमानाभिज्ञा न देवदत्तभेदभ्रमं निवर्तयति, सोऽयमिति प्रत्यभिज्ञाबुद्धिस्तु तत्प्रतिक्षेपाय प्रगल्भते ।
तद्वदत्रापि स्वरूपप्रकाशसोऽहमिति कल्पिताकारप्रकाशश्चेति चेन्न; दत्तोत्तरत्वात् ।
तत्राप्यभिज्ञाप्रत्यभिज्ञयोः प्रकाश्याकारभेदोऽस्ति ।
अन्यथा अभिज्ञाप्रत्यभिज्ञयोर्भेदासिद्धिप्रसङ्गात् ।
को वा भवन्तमन्तरेण स इत्यादिकोल्लेखिनीं प्रत्यभिज्ञामसावित्येतावन्मात्रोल्लेखिन्याऽभिज्ञया सह धारावाहिकवदत्यन्तसमानविषयामभिमन्येत ।
अत्रापि आकारातिरेकाभ्युपगमे तु दत्तमुत्तरम् ।
प्रकाशातिरेकिविषयित्वतदभावाभ्यां वैषम्यमिति चेत्; किं ततः? बाधकत्वाबाधकत्वे प्रत्यप्रयोजकत्वात् ।
वृत्तिज्ञानस्य हि बाधकत्वं यथावस्थित ब्रह्मस्वरूपप्रकाशात्मकत्वेन, नतु वृत्तित्वाद्याकारेण, तथासति विरोधिप्रकाशातिरिक्तवृत्तित्वाद्या कारबाध्यत्वेन मुद्गरादिनिवर्त्यसत्यसर्पघटादेरिव प्रपञ्चस्यापि सत्यत्व प्रसङ्गात् ।
एतेनाविद्याशबलं तदेव विषय इति दत्तोत्तरम्, साक्षिप्रत्यक्षवदेव भ्रमोपकारकत्वप्रसङ्गात् ।
अन्यथा साक्षिप्रत्यक्षस्यापि भ्रमनिवर्तकत्वप्रसङ्गेन प्रपञ्च (प्रति) निर्भासस्याप्यनुदयप्रसङ्गात् ।
साक्षिप्रत्यक्षमपि हि अविद्याप्रकाशात्मकं स्वप्रकाशं च ।
ब्रह्मव्यतिरिक्तमात्रगोचरत्वपक्षे स्वयं तद्भ्रमरूपत्वात्तद्बाधकरूपत्वसम्भावनापि नास्ति ।
नहि शुक्तिकलधौतधीरेव कलधौतधियमवधुनोति ।
तन्मिथ्यात्वविषयपक्षस्तु तदा शोभते, यद्यधिष्ठानयाथात्म्यग्रहणमन्तरेणापि तन्मिथ्यात्वं सुग्रहं स्यात् ।
याथात्म्यग्रहरूपता च दूषितैव ।
किञ्च, इदं निवर्तकज्ञानं स्वविषयं ब्रह्मव्यतिरिक्तमिथ्यात्वं किं मिथ्यात्वेन गृह्णाति उत सत्यत्वेन, उतानिर्द्धारितविशेषात्मनेति ।
आद्ये व्याघातः, मिथ्यात्वस्य च मिथ्यात्वग्रहणे प्रपञ्चस्य सत्यत्वेन प्रकाशप्रसङ्गात्; स्वप्नावगतपितृमरणमिथ्यात्वेन पितृसत्यतावत्, सम्यग्रजतमिथ्यात्वमिथ्यात्वेन रजतसत्यतावच्च ।
ब्रह्मव्यतिरिक्तत्वोपाधिक्रोकारवशत् प्रपञ्चस्य तन्मिथ्यात्वस्य च मिथ्यात्वमेकहेलया लभ्यते, यथा भवतां प्रपञ्चस्य तत्सत्यत्वस्य च सत्यत्वमिति चेन्न; विरोधाविरोधाभ्यां वैषम्यात् ।
न हि रजतमिथ्यात्वमिथ्यात्वेऽपि रजतमपि मिथ्याभूतं दृष्टम् ।
नच शुक्तिरजतमिथ्यात्वे तन्मिथ्यात्वं मिथ्याभूतं दृष्टम् ॥
तदयं सङ्ग्रहः - मिथ्यात्वस्य च मिथ्यात्वे मिथ्यात्वं बाधितं भवेत् सत्यत्वे स्थापितं भवेत् ॥ ननु बन्धयासुततन्मरणयोरिव द्वयोरपि मिथ्यात्वमुपपद्यत इति चेन्न; निराश्रयतया तत्र धर्मिमिथ्यात्वोपपत्तेः ।
नहि तत्रापि वन्ध्यासुतमिथ्यात्वं वा तन्मरणमिथ्यात्वं वा मिथ्याभूतं दृष्टम् ।
द्वितीये तु ब्रह्मव्यतिरिक्तस्य प्रपञ्चमिथ्यात्वस्य सत्यत्वेन प्रकाशनात्
सद्वितीयत्वभ्रान्तित्वादिदोषो दुस्तरः ।
ब्रह्माव्यतिरेके तु दत्तमुत्तरम् ।
तृतीयेऽप्यसम्भवः, ब्रह्मव्यतिरिक्तत्वग्रहणे प्रयोजकज्ञानवतो मिथ्यात्वेनैव ग्रहणप्रसङ्गात्; प्रयोजकज्ञानाभावे प्रपञ्चमिथ्यात्वस्याप्यग्रहणप्रसङ्गात् ।
ब्रह्मव्यतिरिक्तत्वग्रहणे गृह्यमाणस्य मिथ्यात्वस्य ब्रह्मणश्चागृह्यमाणव्यतिरेकयोश्शुक्तिरजतयोरिवैक्येन ग्रहणप्रसङ्गात् ।
ततश्च सत्यत्वेन प्रकाशाप्रसक्तेर्न साधारणाकारग्रहणसम्भवः ।
अन्यस्य कस्य चिद्विषयत्वमपि परमार्थापरमार्थविकल्पेन दत्तैरेव दूषणैर्दूषितम्, परमार्थत्वे ब्रह्मव्यतिरेके द्वैतप्रसङ्गात्, तदव्यतिरेकेऽन्यत्वस्यैवासिद्धिप्रसङ्गात् ।
अपरमार्थत्वे अविद्यातत्कार्यकोट््यन्तर्भावेन बाध्याकारतया प्रागुक्तदोषापातात् ।
बहिर्भावे तद्बाधकगवेषणप्रसङ्गात् ।
किञ्च ब्रह्मव्यतिरिक्तं तत् बाधकं ज्ञानं सत्यमसत्यं वा? असत्यत्वे त्विदमपि बाध्याकारकोटौ घटमानं कथमिव तद्भाधकं स्यात्? आकारभेदादविरोध इति चेन्न; बाधकाकारभेदस्यापिबाध्यत्वाभ्युपगमात् ।
अन्यथा तस्य सत्यत्वप्रसङ्गात् ।
तत्राप्याकारभेदाभ्युपगमेऽनवस्थानात् ।
प्रमाणस्थापके (ने) प्रमाणविशेषस्थापकाकारविशेषस्यापि स्थाप्यत्ववदविरोध इति चेन्न; स्थापकाकारविशेषस्थितेस्स्थाप्य सामान्यस्थित्युपयुक्तत्वात् ।
बाधकाकारविशेषबाध्यत्वस्य विश्वबाधासिद्धिपर्यवसितत्वात् ।
किञ्चैतन्निवर्तकं ज्ञानमद्वैतश्रवणादिमात्रसमुद्भवमिदानीन्तमेव ज्ञानम्? एष्यद्वा किमपि? पूर्वत्र भवन्मतश्राविणां तत्क्षणादेव प्रपञ्चविलयप्रसङ्गः; यद्वा आत्मैक्याद्विश्वेषामेव ।
बाधितानुवृत्तिस्तु दूषितैव ।
उत्तरत्रापि तत्किं पूर्वाविशिष्टविषयमपि निवर्तकम्? उत विशिष्टविषयम्? अविशिष्टविषयत्वे तु पूर्वस्यापि निवर्तकत्वप्रसङ्गः ।
तस्य तदभावे उत्तरस्यापि तन्न स्यात् ।
विशिष्टविषयत्वं तु न सम्भवत्येव ।
ब्रह्मणि प्रकाशिष्यमाणपरमार्थाकारान्तरानभ्युपगमात् ।
अपरमार्थाकारान्तरप्रकाशस्य प्रागुक्तन्यायेन दूषितत्वात् ।
प्रपञ्चमिथ्यात्वव्यवसायस्य च भवन्मतश्रद्धाजडानामिदानीमपि सिद्धत्वात् ।
परोक्षरूपमिदानीन्तनज्ञान मपरोक्षभ्रमबाधकं न भवति, अपरोक्षं तु भविष्यज्ज्ञानं बाधनायालमिति चेन्न; परोक्षापरोक्षशब्दाभ्याम विशदविशदत्वविवक्षायामनतिरिक्तविषयतयैव तथाविधभेदासिद्धेः ।
करणभेदाधीनभेदस्य चाकिचित्करत्वात् ।
न चास्य करणभेदः, भविष्यतोऽपि विशदज्ञानस्य भवद्भिर्वाक्यजन्यत्वाभ्युप गमात् ।
एतेन वेदान्तनैरर्थक्यमपि फलितम्, यतः कुतश्चिदनुमानादेरप्यद्वैतज्ञान सम्पादनोपपत्तेस्तदतिरिक्तस्य कस्यचिदंशस्य वेदान्तेऽपि
भवद्भिःप्रतिपादनानभ्युपगमात् ।
सत्यस्य प्रामाण्यस्योभयत्रानभ्युपगमात्, व्यावहारिकस्य तु तस्योभयत्र सम्मतत्वात्, उपासनादिपरवेदान्तभागस्य तत्तत्फलविशेषपर्यन्ततया बन्धकत्वेन बन्धनिवृत्तिं प्रति प्रतिकूलत्वाभिधानात् ।
अतो यदा प्रपञ्चमिथ्यात्वानुमानादिकं न विश्वबाधकं तदा वेदान्तवाक्यान्यपि न तद्बाधकानि स्युः, तदविशिष्टज्ञानजनकत्वात्; यदि तानि बाधकानि स्युः, तदा तदविशिष्टादनुमानादेरपि तद्बाधः स्यादिति निरर्थकस्तत्त्वावेदको वेदान्तभागः ।
एवञ्च वेदान्तमन्तरेणापि यथावस्थितब्रहमस्वरूपज्ञानसम्पादनोपपत्तेः शारीरकापशूद्राधिकरणानारम्भप्रसङ्गश्च ।
ननु भेदवासनाविक्षिप्तचेतसं बुबुत्सोद्बोधने शास्त्रोपयोग इति चेन्न; साङ्ख्यसौगतसमयेऽपि तत्त्वविचारमारभमाणैः पुरुषैस्तापत्रयाभिहतानां बुबुत्सोद्बोधने शास्त्रोपयोग इति चेन्न; साङ्ख्यसौगतसमयेऽपि तत्त्वविचारमारभमाणैः पुरुषैस्तापत्रयाभिहतानां भेदवासनाविक्षिप्तचेतसामपि तत्त्वबुबुत्सोत्पत्तेः ।
नच प्रतिपत्तृभेदेन शास्त्रमनुमानं च सप्रयोजनमिति वाच्यम्, सर्वात्मना साधकबाधकप्रमाणसम्भावनावैदेशिके विषये शास्त्रार्थतत्त्वस्य मीमांसितत्वात् ।
अतस्तत्रभवतां महत्तरेषु मतगह्वरेषु महावाक्यश्रवणमपि बालव्यामोहनमात्रमित्यापद्यते ।
अतो न निवर्तकज्ञानं ब्रह्मणो भिन्नम् ।
नापि द्वितीयः, ब्रह्मस्वरूपस्य विश्वनिवर्तकत्वे तस्यानादित्वेन प्रपञ्चाध्यासाभावप्रसङ्गेन प्रपञ्चप्रतिभासस्याप्यनुदयप्रसङ्गात् ।
एकस्यैव दण्डादेर्घटादिकारणत्वतन्नाशकत्ववदुपपद्यत इति चेत्; यौगपद्ये विरोधात्, क्रमे तु सहकार्यवश्यम्भावात् ।
नहि दण्डो घटकारणसामग्रीमध्यमध्यासीन एव घटं नाशयति, अपि तु सिद्धे घटे अभिघातरूपसंयोगादिकमपेक्ष्य ।
अत्रापि तर्रि ब्रह्म स्वरूपेणाध्यासानुगुणम्, अध्यासमेव तु निवर्त्यं सहकारित्वेनापेक्ष्य तन्निवर्तकम्, निवर्तनशक्तस्यापि निवर्त्यासिद्धौ निवृत्तिजनकत्वायोगादिति चेन्न; तथाप्यनादेरध्यासस्य चिरतरानुवृत्तिभङ्गप्रसङ्गात् ।
एवं पूर्वपूर्वक्षणानुवृत्तिभङ्गे कदाचिदपि नाध्याससिद्धिः ।
किञ्च परिशुद्धं ब्रह्मस्वरूपमध्यासानुगुणम्, अशुद्धं तु तन्निवर्तकमिति महदिदमुपपादनम् ।
अस्तु तर्हि सामग्र्यभावादितः पूर्वमनुत्पन्नं सामग्रीसम्पत्तिदशायामुत्पत्स्यमानान्तः - करणवृत्तिविशेषमेव सहकारित्वेनापेक्ष्य ब्रह्मैव निवर्तकम्; तन्न, प्राप्ताप्राप्तविवेकेनान्तःकरणवृत्तेरेवनिवर्तकत्व प्रसङ्गात् ।
तथा च सति ब्रह्मस्वरूपान्तर्गतत्वपक्षव्याघातः ।
अत एव न तृतीयः, अपसिद्धान्ताच्च ।
किञ्च तस्य सत्यत्वे भेदांशेन ब्रह्मणस्सद्वितीयत्वप्रसङ्गः ।
मिथ्यात्वे त्वभेदांशेन ब्रह्मणोऽपि मिथ्यात्वप्रसङ्गः ।
नित्यत्वानित्यत्वविकल्पेनापि दूषणमूह्यम् ।
चतुर्थस्तूभयप्रतिक्षेपरूपोऽनिर्वचनीयोक्तदूषणनयेनोभयसिद्ध्यनतिरेकात् दूषणेनैव दूषितः ।
पञ्चमस्तु परिशिष्यते ।
तथाभूतं
किं तज्ज्ञानं यथाकथञ्चिदपि प्रतीतिपदवीं नावतरति, अथावतरति? पूर्वत्र किं साधनदूषणप्रयासेन? उत्तरत्र कथञ्चिदपि उक्तकोटिबहिर्भावासिद्धेः न पृथग्दूषणीयमवशिष्टमिति ।
किञ्च निवर्तकज्ञानं निवर्तिष्यते न वा? पूर्वत्र तन्निवृत्तेरेवागन्तुकत्वाद्ब्रह्मस्वरूपातिरिक्तताविद्यास्थितिप्रसङ्गः ।
उत्तरत्र ब्रह्मस्वरूपातिरिक्तनिवर्तकज्ञानसद्भावेनैवाविद्यास्थिरनिवार्या ।
अतो यदविद्याया निवर्तकत्वेन सम्मतं तदेव स्वात्मना स्वनिवृत्त्या वा तामेव स्थापयतीति विपरीतापत्तिरिति ।
निवर्तकज्ञानप्रध्वंसोऽपि निवर्तिष्यत इति चेत्; तर्हि ततन्निवर्तकनिवृत्त्यनुवृत्तिप्रसङ्गेन ब्रह्मणो यावदात्मभाविन्यविद्यानुवृत्तिस्स्यादिति वैपरीत्यस्थैर्यापत्तिः ।
इत्यलं हितातिविपर्यस्तचेतसां शोच्यानां निग्रहेणेति ॥
॥ इति शतदूषण्यां निवर्तकानुपपतिवादः त्रिचत्वारिंशः ॥43॥
नृसिंहराजीया
पूर्व सङ्गत्यां मतान्तरनिरसनरूपवादार्थं सूचयन् मङ्गलादीनीति न्यायेन मङ्गलमाचरतिः - अनन्यानामिति । चरणपरिचर्यापरिणतिर्भगवत्प्रसादम् एवाविद्याध्वंसहेतुर्नाद्वैत ज्ञानमित्यर्थः । अद्वैतज्ञानस्या विद्यानिवर्तकत्वाभावे निमोक्ष प्रसङ्ग प्रसङ्ग इत्याशङ्क्य कर्तु उपोद्धातरीत्या स्वमतमाहः - प्रतिष्ठित इति । उपसंहृतिरनुष्ठानम् । फलोन्मुख पर्यवसानम् । भोगने प्रारब्धकर्मणां क्षयः । सार्वश्येति । अविद्याया ज्ञानराङ्को चे तन्निवृत्त्या सार्व यमिति भेदेन निर्देशः । भावान्तराभावपक्षेपि बन्धनिवृत्तेरेवस्थान्तरत्वात् । तानिति । कथम्भूत ज्ञानमिति पृच्छामीत्यर्थः । निर्विषयत्वाङ्गीकारे अपसिद्धान्त इत्याहः - वृत्तिरूपमिति । उत्तरत्रेति । अद्वैतशब्दस्य एकमात्रार्थकत्वा - ब्रह्मव्यतिरिक्तस्याप्येकत्वसम्भवाद्विकल्पोत्थितिरिति भावः । निर्विषयस्य मिथ्यात्वं ब्रह्मव्यतिरिक्तस्य मिथ्यात्वम् अथवाज्यदेवेति । ब्रह्मगताद्वितीयत्वादिकमित्यर्थः । ननु समानविषयत्वेप्यध्यासानुपयोगिज्ञानं निवर्तकं तदुपयोगीतु न निवर्तकमिदमिति (+++) इवेति शङ्कतेः - नन्विति । विषयप्रकाशः - ब्रह्मविषय प्रकाश इत्यर्थः । दत्तोत्तरत्वादिति । उभयोरपि यथावस्थितेत्यादिनेति शेषः । दृष्टान्तेऽपि निवर्तकत्वानिवर्तकत्वयोर्विषयभेद एव प्रयोजक इत्याहः - साधागृहीतत्वसाधारणत्वं तेनेदन्त्वस्य तत्तद्वयक्ति पर्यवसिततया न केवलान्वयित्वमिति जिज्ञासानुपपत्तवादोक्तेन न विरोधः । नन्विदं शुक्तिज्ञानयोरप्यत्यन्त समानविषयत्वमेव तत्र च निवर्तकत्वानिवर्तकत्व उक्तप्रयोजकाभ्यामेवेत्या - शङ्क्याध्यासोपयोगानुपयोगावेव विषयवैलक्षण्याभावेन सम्भवत इत्याहः - अन्यथेति । ब्रह्मस्वरूपं विषय इत्यत्र ब्रह्मस्वरूपमात्रं विषयः उतानन्दात्वादि विशिष्टंविषय इति विकल्प्य आद्यो निरस्तो द्वितीय शङ्कतेः - नचेति । माता (+++) भ्रमस्य भूरन्ध्रभ्रमान्निवृत्तिर्दृष्टेति शङ्कतेः - वसुन्न्धरेति । वसुधारन्ध्रभ्रमस्थले तस्य भ्रमस्य स्वविषयाबाधकत्वादधिकारविशिष्ट भ्रमस्यापि स्वनिवर्तकत्वा भावात्सर्वभ्रमनिवृत्तिलक्षण मुक्तिर्न स्यादित्याहः - न तस्यैवेति । बाधज्ञान विषयेति । अध्यास अहप्रकाशातिरिक्तोह्यधिष्ठान - प्रकाशोध्यासनिवर्तकः स्यात्तस्मादद्वितीयत्वरूपाधिकारविशिष्टविषयतया प्रपञ्चनिवर्तकत्वेऽपि तदाकाराध्याससहाधिष्ठान रूपप्रकाशातिरिक्तवद्विरुद्धाकारप्रकाशाभावेन तस्याकारस्य बाध्यत्वासिद्धेरिति यथा स्थितेत्यादिना परिहृतप्रायत्वादित्यर्थः । व्याघाताच्चेति । साक्षिणोविद्याभासकत्वान्नतद्बाधकत्वमिति स्ववचनव्याघातादित्यर्थः । (+++)स्य रूपप्रकाशस्य तदतिरिक्तप्रकाशस्य च प्रकाश्यभेदाभावेऽपि देवदत्तविषयकाभिज्ञा प्रत्यभिज्ञयोरतत्वभ्रमनिवर्तकत्व - तदभाववदविद्या निवर्तकत्वं तदभावावुपपद्येते इति शङ्कतेः - अस्तु तर्हीति । दत्तोत्तरत्वादिति । पूर्ववदेवाभिज्ञाप्रत्यभिज्ञयोर्भिन्नविषयत्वमिति भावः । नन्वभिज्ञाप्रत्यभिज्ञयोर्न विषयभेदः स्वरूपमात्रविषयत्वात्सोऽयं देवदत्त इति वाक्यस्याखण्डार्थत्वस्य व्यवस्थापन्नात्तत्समान - विषयप्रत्यभिज्ञाया अपि स्वरूपमात्र विषयत्वावश्यं भावादित्यभिप्रायेण शङ्कतेः - तत्र्यैतत्स्यादिति । असावित्यत्र देवदत्तत्वं न विषयः । सोऽयमित्यत्र तु तच्छब्देन देवदत्तत्वं विवक्षितम् । दत्तोत्तरत्वं पूर्ववदेवोपपादयतिः - तत्रापीति । अखण्डार्थत्वं च निरस्तमेवेति भावः । गत्यन्तरा भावाद्दूषितामपि प्रकाश्याकारभेदशङ्कां पुनरुत्थापयतिः - तत्राद्याकारेति । तत्राद्यस्य साक्षिज्ञानस्याकारातिरेकस्य भिन्नस्याकरस्य वृत्तिज्ञानेभ्युपगमाद्वैषम्यमित्यर्थः । प्रकाश्याकारभेदाभावेऽपि श्वैत्य प्रत्यक्षानुमित्योश्शङ्खपीति भ्रमनिवर्तकत्वतदभावौ तथा तत्रापि सविषयत्वतदभावाभ्यां वृत्तित्व तदभावाभ्यां वृत्तित्वतदभावाभ्यां च वैशम्यान्निवर्तकत्वानिवर्तकत्वे उपपद्येते इति शङ्कतेः - प्रकाशेति । श्वैत्य प्रत्यक्षस्यापि विरोधि विषयप्रत्यक्षत्वेनैव निवर्तकत्व न तु प्रत्यक्षत्व मात्रेणातिप्रसङ्गादिति परिहरतिः - किं तत इति । वृत्तित्वादिति । आदिशब्देन सविषयत्वादिगृह्यते । तथा सतीति । विरोधिप्रकाशत्वादतिरिक्त वृत्तत्वाद्याकारेण ज्ञानबाध्यत्वाङ्गीकारे मिथ्यात्वं न स्याद्विरोधिसाक्षात्कारत्वेन ज्ञाननिवर्त्यस्य मिथ्यात्वप्रयोजक तथाभ्युपगमादिति भावः । द्वितीयं दूषयतिः - एतेनेति ।भ्रान्तित्वेनाध्याससहाधिष्ठानस्वरूप प्रकाशत्वेन स्वस्य स्वविषयार्थबाधकत्वेन्याधात्तच्चेत्यर्थः । एतेनेत्येतदेव विवृणोतिः - साक्षीति । अन्यथेति । अविद्याविषयवृत्तेरविद्यानिवर्तकत्व इत्यर्थः । तृतीयविकल्पं दूषयतिः - ब्रह्मव्यतिरिक्तेति । तद्भ्रमरूपत्वादधिष्ठान विषयत्वेन तद्भ्रमरूपत्वादधिष्ठान विषयत्वेन भ्रममात्ररूपत्वादित्यर्थः । सम्भावनापीति । अधिष्ठानविषयकज्ञानस्यैव निवर्तकत्वादधिष्ठाना विषयकत्वस्य निवर्तकत्व सम्भावनापि नास्तीत्यर्थः । न हीति । आरोप्यविषयत्वेनाधिष्ठान विषयकस्यापि निवर्तकत्वा (+++) सुतरां निवर्तकत्वमिति भावः । चतुर्थं विकल्प दूषयतिः - तन्मिथ्यात्वेनेति । अधिष्ठानवृत्त्यन्ता भाव प्रतियोगित्वज्ञानमधिष्ठानग्रहं विना न सम्भवतीत्यर्थः । यथात्म्येति । यथात्म्यस्य स्वरूपत्वेऽध्यासानुपपत्तेस्तदतिरिक्तत्वे वाच्ये तस्य सत्यत्वमिथ्यात्वयोर्दूषणमुक्तमेवेत्यर्थः । व्याघात इति । मिथ्यात्वं हि प्रपञ्चस्य स्वाधिकरणनिष्ठत्यन्ताभावप्रतियोगित्वं तन्मिथ्यात्वं च प्रपञ्चेतदभावे तदेव सत्यत्वमिति तस्य प्रपञ्चा विरोधितया न निवृत्तिस्यादिति सिद्धान्तव्याघात इत्यर्थः । स्वप्नावगतेति । पितृमरणं ह्यभावः तस्य मिथ्यात्वं तदभावः प्रतियोगिसत्वमेवेति तत्सत्यत्वामिति भावः । रजत सत्यता - रजतसत्वम् । ननु ब्रह्मव्यतिरिक्तस्य मिथ्यात्वज्ञान तद्व्यतिरिक्तत्वावच्छेदेन स्वाधिकरणनिष्ठात्यन्ताभाव प्रति योगित्वं (+++) विषयकरोति न तु ब्रह्मव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम् इति न व्याघात इति शङ्कतेः - ब्रह्मव्यतिरिक्तेति । यद्यपि ज्ञाने विरोधो नास्ति । तथाप्यर्थस्य विरोधोऽस्ति । प्रतियोगित्वतदभावयोः प्रपञ्चेविरोधादिति परिहरतिः - नेति ।विरोधमुपपादयतिः - नहीति । न चेति । रजतस्य मिथ्यात्वं हि तदधिकरणाभाव प्रतियोगित्वम् । तस्यमिथ्यात्वे विरोधादिति भावः । ननु देवदत्तमरणमिथ्यात्वे तस्य सत्यत्वं दृश्यते वन्ध्यासुतमरणमिथ्यात्वेऽपि तन्मिथ्यात्वं दृश्यते । तद्वदिहापि सम्यग्रजत मिथ्यात्वस्य मिथ्यात्वे सम्यग्रजतसत्यत्वेऽपि शुक्तिरजतमिथ्यात्वस्य मिथ्यात्वेऽपि शुक्तिरजतस्यमिथ्यात्व मुपपद्यत इति शङ्कतेः - ननुवन्ध्येति । वन्ध्यासुत प्रतीतिरसद्विषया उत मिथ्याविषयेति विकल्पमभिप्रेत्याद्येश्रया सत्वप्रयुक्तमाधे यस्याप्यसत्वमित्याहः - नेति । निराश्रयत्वमसदाश्रयत्वम् । मिथ्यत्वमसत्वम् । द्वितीये दोषमाहः - नहीति । नहि वन्ध्यासुतोमिथ्या तस्यप्रसिद्धत्वेनारोपासम्भवात् किन्तु सुतस्य वन्ध्याजन्यत्वं सुतत्वे वन्ध्याप्रतियोगित्वं वा मिथ्येति वक्तव्यम् । तथा मरणे तादृशारोप विषयप्रतियोगित्वं मिथ्येति वक्तव्यम् । तच्चमिथ्यात्वं सत्यमित्यर्थः । सत्यत्वेन प्रतीयमानं किं वस्तु गत्या सत्यमुत मिथ्यानाद्य इत्याहः - भ्रान्तित्वादिति आदिशब्देन प्रपञ्चस्यनिवृत्तावपिमिथ्यात्वस्य न निवृत्ते सर्वभ्रमनिवृत्यसिद्धिप्रसङ्गो विवक्षितः । मिथ्यात्वं सत्यत्वेन गृह्णाति तच्च सत्यमेवाऽतो भ्रान्तित्वं न च सद्वितीयत्वम् । ब्रह्मस्वरूपपानन्यत्वादित्याशङ्क्य परिहरतिः - ब्रह्मव्यतिरेक इति । ब्रह्मसम्बन्धस्य पपञ्चे परैरप्यङ्गीकारात्तद्ज्ञानमध्यासाङ्गत्वान्न विरोधीत्यक्तप्रयमित्यर्थः । मिथ्यात्वं ब्रह्मव्यतिरिक्तत्वेन गृह्यते न वेति विकल्पमभिप्रेत्य आद्य आहः - ब्रह्मव्यतिरिक्तत्व इति । अत्रापि ब्रह्मव्यतिरिक्तत्वस्यमिथ्यत्वप्रयोजकत्वं ग्रहणमस्तिनवेति विकल्पमभिप्रेत्याद्ये दोषमाहः - प्रयोजकेति । ब्रह्मव्यतिरिक्तत्वावच्छेदेन मिथ्यात्वस्याग्रहणे प्रतिस्विकरूपेण मिथ्यात्वग्रहणस्य सर्वत्राशक्तित्वात् क्वचित्तद्ज्ञानस्य शुक्तिरजत मिथ्यात्वज्ञानवत्सर्वनिवर्तकत्वं न स्यादित्यर्थः । द्वितीये दोषमाहः - ब्रह्मव्यतिरेकेणेति ।ब्रह्मव्यतिरेकेणग्रहणा भाव इत्यर्थः । क्वचित्तु ब्रह्मव्यतिरेकेणा ग्रहण इति पाठः । ससमीचीनः । साधारणेति ।सत्यत्वेन ग्रहणादनिर्धारितविशेषात्मनेत्ये तन्नोपपद्यत इति भावः । प्रथमविकल्पे पञ्चमन्दूषयतिः - अन्यस्येति । तत्प्रकारं दर्शयति परमार्थत्व इति । तद्व्यतिरेक इति । ब्रह्मणोन्यस्य हि विषयत्वमुच्यते । तस्य तद्व्यतिरेकत्वमनुपपन्नमित्यर्थः । किमविद्यातत्कार्यादिष्वन्तर्भूतमनन्तभूतं वा नाद्य इत्याहः - अविद्यातत्कार्येति । अध्यासरूपज्ञानस्यानुकूलस्य निवर्तकत्वं न स्यादित्यादि दूषणापात इत्यर्थः । द्वितीये दूषणमाहः - तद्बहिर्भाव इति । अविद्यानिवृत्त्या तन्निवृत्त्ययोगादिति भावः । असत्यत्व इति । मिथ्यारजतज्ञानस्य स्वबाधकत्वात्स्वयं कथं स्वेन बाध्यतेति भावः । बाध्यत्वमेवाकारः । स एव कोटिः घटमानं तत्र सम्बद्धम् । ननु ब्रह्मज्ञानत्वेन बाधकत्वं ब्रह्मभिन्नत्वेन बाध्यत्वमस्तु । यथैकस्यैव तोयस्य तोयत्वेन साधनत्वम् । पिपसोपशमनार्थतावच्छेदकत्वेन साध्यत्वमिति शङ्कतेः - आकारेति । बाधकतावच्छेदकत्वेनाभिमतस्याप्याकारस्य ब्रह्मभिन्नत्वेन बाध्यत्वाच्छुक्तिरजतत्ववन्न बाधकतावच्छेदकत्वमपीति परिहरतिः - नेति । ननु बाधकतावच्छेदकं तत्वज्ञानत्वं तत्प्रयोजकसत्वाच्छुक्तिरजतत्वं तु न बाधकतयावच्छेदकं तत्प्रयोजकाभावादित्याशङ्क्य तत्वज्ञानत्वमपि बाध्यत्वादेव न बाधकतावच्छेदकताप्रयोजकं स्याच्छुक्तिरजतत्ववदवच्छेदकता प्रयोजकताप्रयोजकत्वयोरप्याकारभेदाधीनत्वाभ्युपगमे तस्याप्याकारभेदस्य मिथ्यात्वादेवा - प्रयोजकत्वापादने तत्रापि प्रयोजकन्तरान्वेषण परं पर्यायामनवस्थेत्याहः - तत्रापीति । साधकाकारस्य साध्यत्वेऽपि साधकतावच्छेदकत्ववद्बाधककारस्य बाध्यत्वेऽपि बाधकतावच्छेदकत्वमस्त्विति शङ्कतेः - प्रमाणस्थापक इति । प्रमाणस्थापकस्य विशेषस्य यथार्थ प्रवृत्त्यनुपपन्नमित्यर्थः । प्रमाणसामान्यमात्रसाधके प्रमाणविशेषे योऽयमसाधारणाकारः तस्य सिद्धिः प्रमाणसिद्ध्यनुगुणैव तदाकारविशेषाभावे तदवच्छिन्न प्रमाणाभावेन तत्साध्यस्याप्यसिद्धेः बाधकतावच्छेदक - विशेषाकारस्यबाध्यत्वे तु तदवच्छिन्नस्य बाधकस्याभात्तत्साध्यविश्वबधो न सिध्येदिति परिहरतिः - विश्वेषामेवेति । विलयप्रसङ्ग इति शेषः । विलयोऽस्तु तथापीति प्रतीतिबाधितानुवृत्त्येत्यत्राहः - बाधितेति । अविशिष्टविषयंसमानविषयम् । विशिष्टविषयं भिन्नविषयमित्यर्थः । तस्येति । पूर्वज्ञानस्य निवर्तकत्वाभावे विशेषाभावान्निवर्तकत्वं न स्यादित्यर्थः । प्रागुक्तन्यायेनेति । भ्रान्तित्वादिनेत्यर्थः । ननु प्रपञ्चमिथ्यात्वचरमेष्यज्ञानं ब्रह्मस्वरूपातिरिक्तगोचरनिवर्तकमित्यत आहः - प्रपञ्चेति । तथा सतीदानीमेव निवृत्तिस्स्यादिति भावः । अनतिरिक्तविषयतयैषेति । लोके न्यूनविषयत्वाधिकविषयत्वाभ्यां विशदाविश्दव्यवहारादिति भावः । नन्विन्द्रयादिभिन्नकरणकत्वं रूपं परोक्षत्वापरोक्षत्व - वैलक्षण्यमस्तीत्यत्राहः - करणेति ।शाब्दज्ञानानुमित्योः करणभेदाधिक वैलक्ष्येऽपि निवर्तकत्वाभावादिति भावः । नन्वयव्यतिरेकाभ्याम्मिन्द्रियकरकस्य निवर्तकत्वं नेतरस्येत्यत्राहः - न चास्येति । इन्द्रियरूपकरणभेदो नास्तीत्यर्थः । एवं ब्रह्मस्वरूपभेदात् ज्ञानाद्भिन्नं ज्ञाननिवर्तकमिति विकल्पोदूषितः । इदानीं तत्रैव दूषणान्तरमाहः - एतेनेति । एष्यदिदानीन्तनज्ञानयोर्विषयभेदाभावादिदानीं तनानुमितेरिव वेदन्तजन्यज्ञानस्याप्यनिवर्तकतया वेदान्तानां नैरर्थक्यमित्यर्थः । ननु शब्दानुमित्योः प्रमाण्यप्रमाण्यवैषम्यान्निवर्तकत्व तदभावादित्यत्राहः - सत्यस्येति । ननु ब्रह्मोपासन तत्फलादिज्ञानस्यानुमानादिभिर्दुस्सम्पादत्वात्तत्प्रतिपादनद्वारा तदनुष्ठानार्थतयार्थवानेव वेदान्त इत्याशङ्क्य सगुणोपासनपरवेदान्तवाक्यस्योक्तरीत्या सार्थक्येऽपि बन्धनिवृत्त्यर्थानां वेदान्तानां बन्धनिवृत्त्यसम्भावन्नेष्फल्यमित्याहः - उपासनेति । शारीरकापशूद्रेति । काण्डेन्यतो ज्ञानसम्भवेदि तन्मूलकानुष्ठानान्न फलम् । अत्रत्वविद्या निवृत्तिमात्रस्य तत्वज्ञानमात्रसाध्यत्वाच्छूद्रस्याप्यनुमानजन्य - ज्ञानेनाविद्या निवृत्तिस्सम्भवतीति शारीरक तत्प्रतिनिषेधार्थमधिकरणं व्यर्थमित्यर्थः । ननु प्रत्यक्षादिभि र्भेदस्यैव निश्चयेन कोट्यन्तरानुपस्थिते श्च सन्देहसम्भवात्तन्मूलत्तत्वबुभुत्सानोपपद्यते । तद्विरुद्धाभेदप्रतिपादकशास्त्रदर्शने तु द्वैताद्वैतसन्देहा बुभुत्सोत्पद्यत इति बुभुत्सोत्पादनं साङ्ख्यादिशास्त्रैरपि स्यादिति न तदर्थः वेदान्त इत्याहः - साङ्ख्येति । तत्वविचारमारम्भमाणैरिति । शास्त्रैरिति शेष अप्राप्तेशास्त्रमर्थवदिति निष्प्रयोजनं शास्त्रमित्याहः - सर्वात्मनेति । एवं वेदान्तानां नैरर्थक्याद्वा तादृशां तच्छ्रववणं तत्प्रतिपादनं च बालव्यामोहनमित्युपालभतेः - अत इति । महावाक्य जीवब्रह्मभेदबोधकं तत्वमसीति वाक्यमित्यर्थः । आद्यविकल्पे द्वितीयं दूषयतिः - नापि द्वितीय इति । किं ब्रह्मस्वरूप निवर्तकत्वमध्यासा सहिष्णुत्वमात्रं विवक्षितमुताध्यासहेतुर्निवर्तकत्वमपीति नाद्य इत्याहः - ब्रह्मस्वरूपस्येति । अध्यासाभावादध्यासा प्रसङ्गादित्यर्थः । द्वितीय आह प्रपञ्चेति । अध्यासनिवर्तकस्यविरोधात्प्रपञ्चाध्यासहे (++++) दित्यर्थः । एकस्यैव निवर्तकत्वं च विरुद्ध इत्याहः - एकस्येति । क्रमेत्विति ।कार्यविलम्बस्य कारणविलम्बप्रयोज्यत्वादिति भावः । निवत्यस्यैव सहकारित्वे हेतुमाहः - निवर्तनश्क्तस्यापीति । तथापीति । कार्याध्यासो उक्तपरिहार (+++)र्थः । अनादेरित्यादि । अविद्याध्यासस्येत्यर्थः । पूर्व (+++) पूर्वेद्युरविद्याध्यासस्य तन्निवर्तकत्वेनायोगे ततः पूर्वेद्युरवि तद्वदेवाध्यासासम्भवे तदधिकरणस्याप्यसम्भवेन तन्मूलप्रपञ्चाध्यासोऽपि न स्यादित्यर्थः । एवमविद्याध्यासानुपपत्त्याकार्याध्यासानुपपत्तिरुक्ता । इदानीं कार्याध्यासासम्भवे हेत्वन्तरमाहः - किञ्चेति । शुद्धमारोप्याविषयकमशुद्धमारोप्यविषयकम् । अध्यासमैवतु निवर्त्यसहकारित्वेना - पेक्ष्येत्यादिनाध्यासस्यैव सहकारित्वोक्तेस्तस्मिन्सति स्वस्यैव तद्भ्रमरूपत्वादशुद्धस्यैव निवर्तकत्वमित्युक्तं भवति । ब्रह्मस्वरूपेणाध्यासानुगणमित्यनेनारोप्यविषयत्वलक्षण - शुद्धिरेवभिप्रेतास्यात्ततश्चारोप्यविषयमध्यासानुगुणमारोप्यविषयं तन्निवर्तकमिति व्याहतमित्यर्थः । इष्टापत्तिमाशङ्क्याहः - तथासतीति । मिथ्याभूतवृत्तेस्सत्यत्वस्वरूपत्वासम्भवात्तस्या एव प्राप्ताप्रक्रमेण निवर्तकत्व प्रसङ्गादिति भावः । आद्य विकल्पे तृतीयं दूषयति ः - अत एव न तृतीय इति । भेदाभेदङ्गीकारेव्याघातादित्यर्थः । तस्य भिन्नाभिन्नवस्तुनः । सद्वितीयत्वेत्विति । भिन्नांशस्य द्वितीयत्वादिति भावः । मिथ्याप्रसङ्ग इति । मिथ्याभूतभिन्नांशेनाभिन्नत्वादिति भावः । नित्यानित्यत्वेति । तस्य - नित्यत्वेति । तस्य नित्यत्वे नित्यमध्यासोन स्यादनित्यत्वे सविषयत्वनिर्विषयत्वादिविकल्पावतारेण सर्वोक्त सर्वदोषास्युरित्यर्थः । उभयप्रतिक्षेपरूपः - परस्परविरुद्धसमुदायरूपसदसद्विलक्षणा - निर्वचनीयवद्विरुद्धत्वान्निरस्त इत्यर्थः । तथा भूतमिति । ज्ञायते न वेति विकल्पार्थः । पूर्वत्रेति । यद्यपि प्रतीति विषयत्वाभावेऽपि स्वप्रकाशविरुद्धत्वाभावान्नतु तुच्छत्व प्रसङ्गः । तथापि ब्रह्म व्यतिरिक्तस्य जडतया न प्रकाशसिद्धिरिति तुच्छत्वमेवेति भावः । पूर्वविकल्पदूषण निरस्तत्वादुक्तविकल्पस्योत्थानमेव न सहत इत्याहः उत्तरत्रेति । आगन्तुकत्वादिति । अध्यस्तत्वादध्यासस्याविद्यासाध्यत्वादिति भावः । ब्रह्मस्वरूपातिरिक्तेति । ब्रह्मस्वरूपातिरिक्तत्वादध्यस्तत्वं वक्तव्यमिति भावः । एवं बाधकमेव साधकत्वेन मन्यन्त इति ते भ्रान्ता इत्याह हिताहितेति । वत्सकुलजलधिकौस्तुभ नृसिंहगुरुसुतेन सिम्हदेवे न कृतायां शतदूषणी टीकायां त्रिचत्वारिंशोवादस्समाप्तः ॥