॥अथ मायाविद्याविभागभङ्गवादः द्विचत्वारिंशः ॥42॥
य एको दुर्लङ्घ्यत्रिगुणनिजमायानिगलितैर्विचित्रैः क्षेत्रज्ञैर्विहरति सोजासहचरः ।
जगत्सर्गक्षेमक्षपणपरिकर्मीणमहिमा दयालुर्देवोऽसौ तुरगवदनस्तारयतु नः ॥
ये तु ब्रह्मणो दोषं परिजिहीर्षन्तः ब्रह्माज्ञानं मायशब्देनोपचरन्ति, तान्प्रति ब्रूमः, मायाविद्ययोः को विशेष इति ।
परव्यामोहनहेतुर्माया, स्वव्यामोहनहेतुरविद्येति चेत्, किं परेषामदर्शनेऽपि तद्धामोहनम्? उत तद्दर्शने? न प्रथमः, असम्भवात्; न हि मायाविनः परानपश्यन्तस्तन्मोहनमिच्छन्ति, मोहयन्ति वा; मायाविशब्दस्य परव्यामोहनाभिसन्धिमत्पुरुषविशेषवाचित्वात् ।
अन्यथा मोहनहेतूनां मणिमन्त्रौषधीनामपि मायावित्वप्रसङ्गात् ।
नापि द्वितीयः, तद्धि परदर्शनं ब्रह्मणः किं स्वभावतः? उताज्ञानेन? अथ तयैव मायया? नाद्यः, निर्दोषदर्शनविषयतया परेषां सत्यत्वप्रसङ्गात्; ब्रह्मणि ज्ञातृत्वस्य स्वाभाविकत्वप्रसङ्गाच्च ।
न द्वितीयः, ब्रह्माज्ञानवादावतारात् ।
तथा (च) सति तेनैवाज्ञानेन सर्वसम्भवे तद्धतिरिक्तमायाभ्युपगमानुपपत्तिश्च ।
न च तृतीयः, परेषु दृष्टेषु तन्मोहनमात्रोपकरणत्वान्मायायाः परदर्शनहेतुत्वायोगात् ।
अथ ब्रह्मगतायाः मायायास्त्वयमतिशयो धर्मिग्राहकसिद्धः यत्परदर्शनतद्धामोहनयोर्हेतुत्वमिति चेन्न; मिथ्याभूतपरदर्शनहेतुत्वांशेन तस्या एवाविद्यात्वस्यापि दुर्वारत्वात् ।
अथ मन्यसे, विपरीतदर्शनहेतुरविद्या, यथा शुक्तिरजतादिदर्शनहेतुः, माया तु न ब्रह्मणोविपरीत दर्शनहेतुः,मिथ्याभूतस्य ब्रह्मव्यतिरिक्तस्य मिथ्यात्वेनैव बोधनात्; नहि शुक्तिरजतमिथ्यात्वग्राहकस्या विद्यात्वम्, तथा सति बाधकज्ञानानां सर्वेषामप्यविद्यामूलत्वप्रसङ्गात्; भवदभिमतसर्वज्ञस्यापि सर्वेषां जीवानां भ्रमस्वरूपं विजानतस्तत्तद्भ्रमविषयैस्सह तत्तद्भ्रमग्रहणादविद्यावत्त्वप्रसङ्गात्; न हि निर्विषयज्ञानग्रहणं सम्भवति; न चेश्वरस्य भ्रमानभिज्ञता, असर्वज्ञत्वप्रसङ्गात्; आश्रितव्यामोहनिबर्हणार्थप्रवृत्तिशून्यत्वप्रसङ्गाच्च ।
अतो मिथ्याभूतं ब्रह्मव्यतिरिक्तं मिथ्यात्वेनैव बोधयन्ती ब्रह्मणो माया नाविद्येति; तदप्यसारम् ।
किमिदं ब्रह्म स्वव्यतिरिक्तं मिथ्याभूतं स्वभ्रमसिद्धतया मिथ्यात्वेन, उत परभ्रमसिद्धतया ब्रह्म पश्यतीति चेन्न; परान्तरस्वीकरणेऽनवस्थानात् ।
तेषामेव परेषां भ्रमेण तत्सिद्धत्वदर्शनेऽपि तथाविधविशिष्टपरदर्शने स्वस्याविद्यापेक्षणात् ।
नहि बन्ध्यासुतभ्रमसिद्धो बन्ध्यासुत इति ज्ञाने बन्ध्यासुतस्यैव भ्रमः, न तु तद्विज्ञातुरिति वक्तुं शक्यम् ।
न च तृतीयः, भ्रमसिद्धत्वाज्ञाने मिथ्यात्वस्य दुर्ग्रहत्वात् ।
न ह्यसत्त्वमात्रं मिथ्यात्वम्, अपि तु स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वादिकम् ।
परेषां मिथ्यात्वदर्शने च न ब्रह्मणः परव्यामोहनेच्छा सम्भवति; न हि प्रतिबिम्बवन्ध्यासुतचित्रपुरुषादीनां व्यामोहनाय मायाविनोऽपि मायां प्रयुञ्चते; प्रयुञ्जाना वा कथं स्वयमनुन्मत्ताः स्युः ।
आहुश्च - *अचेतनेषु मायावी मायामोचक एव वा ।
उभावुन्मत्तपदवीमश्नुवाते मनीषिणाम् ॥ इति ।
ततश्च ब्रह्मापि मिथ्यात्वेनावधारितपरव्यामोहनार्थं मायां प्रयुञ्जानमुन्मत्तपर्यायमिव स्यादिति तदेव ब्रह्माज्ञानम् ।
अथ स्यात् - यद्यपि
परव्यामोहने परदर्शनमवश्यम्भावि, मिथ्याभूतपरदर्शनं च न दोषमन्तरेण; तथाऽपि नात्र ब्रह्मणःपरदर्शनहेतोर्मायाख्यदोषस्याविद्यात्वम्, अपुरुषार्थापरमार्थदर्शन हेतुरविद्येति तल्लक्षणात्; ब्रह्मणस्तु व्यामोहनीयान् परान् प्रकाशयन्त्यपि माया नापुरुषार्थतया प्रकाशयति, स्वप्नसिद्ध (भोगो) लीलोपकरणादिवत्पुरुषार्थतयैव प्रकाशयति, अतस्तस्या नाविद्यात्वमिति; तदपि न, पुरुषार्थहेतोर्दोषत्वाभावात् ।
दोषत्वे त्वपुरुषार्थतान्वयस्यावर्जनीयत्वात् ।
न ह्यनिष्टं किञ्चिदनन्तर्भाव्य क्वचिदपि दोषत्ववर्णनम्, अन्यथा तत्तत्सामग्र्या तत्तत्कार्योत्पत्तौ सर्वेषां कारणानां दोषत्वमेव वा गुणत्वमेव वा स्यादिति गुणदोषविभागाभावप्रसङ्गात् ।
ननु किमिहेष्टानिष्टचिन्तनेन? स्वाभाविकाकारो गुणः, आैपधिकाकारस्तु दोषस्यात्, यथा द्विचन्द्रदर्शनदशायां चक्षुषस्तिमिरादि; नच द्विचन्द्रदर्शने कश्चिदपुरुषार्थस्पर्शः, इति चेत्; मैवम्, द्विचन्द्रदर्शनहेतोरपि पारम्पर्येणानिष्टमन्तर्भाव्यैव दोषत्ववर्णनात् ।
अन्यथा निधिदर्शनादिहेतोरञ्जनादेरप्य स्वाभाविकतया दोषत्वप्रसङ्गात् ।
यदि च द्विचन्द्रदर्शनहेतोर्दोषत्वमविद्यात्वं च न स्यात्, कथं तन्निरासाय प्रेक्षावन्तः प्रयस्यन्ते ।
न ह्यस्पृष्टानिष्टगन्धं किञ्चिद्विमृश्यकारिणां निरसनीयम् ।
माभूत्तर्हि माया ब्रह्मणो दोषः, पुरुषार्थैकपर्यवसायितया गुण एव तु स्यादिति चेन्न; सा किमुच्छेदनीया न वा? पूर्वत्रापि किं ब्रह्मेच्छया, अन्यतो वा? यदि ब्रह्मेच्छया कथं पुरुषार्थैकपर्यवसायिता? न ह्यस्पृष्टानिष्टं निरसनीय मित्युक्तम् ।
न चान्यतस्तदुच्छेदः, ब्रह्ममायामोहितैरल्पज्ञानशक्तिभिः क्षेत्रज्ञैस्सर्वज्ञस्यापरिमित शक्तेर्ब्रह्मणोऽनन्तपुरुषार्थसाधिकायाः विश्वेन्द्रजालपिञ्छिकाया अपहर्तुमशक्यत्वात् ।
नच स्वतः कदाचिन्मायोच्छेदिनीति वाच्यम्; अहेतुकविनाशेन क्षणभङ्गापातात्; अविशेषादितः पूर्वमेव तदुच्छेदप्रसङ्गाच्च ।
ततश्चानुच्छेदपक्षाविशेषे नित्यैव माया ब्रह्मस्वरूपानुबन्धिनी स्यात् ।
अस्तु मायायाःनित्यत्वम्, तथाऽपि न ब्रह्माज्ञानप्रसङ्ग इतीष्टप्रसङ्गत्वमेवेति चेन्न; ब्रह्मस्वरूपानुबन्धिनी हि माया किम्ब्रह्मवत्परमार्थभूता, उतापरमार्थभूता? नाद्यः,
अद्वैतपरतया युष्माभिरभ्युपेतैः श्रुतिशतैर्विरोधप्रसङ्गात्; अपसिद्धान्ताच्च ।
अथ पुनर्मायामपि ब्रह्मस्वरूपेऽन्तर्भाव्य श्रुतिविरोधादिकं परिजिहीर्षसि; तथा च सति ब्रह्मण एव मायाशब्देनोपचारात्तस्य च स्वमात्रप्रकाशचिन्मात्रवपुषः परदर्शनहेतुत्वाभावात्परव्यामोहनादिकमेव न स्यात् ।
परदर्शनमपि ब्रह्मणः स्वभाव इति चेदिष्येत, हन्त जितं सगुणवादेन ।
नापि द्वितीयः, नित्यायास्तस्या मिथ्यात्वस्य साधयितुमशक्यत्वात् ।
न ह्यबाधितमपि मिथ्येति वक्तुं शक्यम्, बाधिताऽपि द्विचन्द्रादिबुद्धिवन्नित्यमनुवर्तत इति चेन्न; भवत्पक्षे बाधितानुवृत्त्यसम्भवस्योक्तत्वात् ।
नित्यस्यापि मिथ्यात्वे कथम् * अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते इति पराशरादिवचनं निर्वक्ष्यसि? ब्रह्मणोऽपि मिथ्यात्वप्रसङ्गं कतं परिहरिष्यसि? अबाधादिति चेन्न; तत्रापि यत्किञ्चिद्बाधकस्य सुवचत्वात् ।
प्रमाणाप्रमाणविभागस्य त्वयैव शिथिलीकृतत्वात् ।
किञ्चेयं माया परमार्थत्वेन ब्रह्मणःप्रकाशते? उतापरमार्थत्वेन? पूर्वत्र सिद्धं ब्रह्माज्ञानम् ।
उत्तरत्र कथं तया क्रीडितुमिच्छेत्? कथं च तन्मूलां मिथ्यात्वेनैव प्रतीयमानां क्रीडामभिनिविशेत? नहि क्रीडोपकरणानि तन्मूलां क्रीडां तदुभयप्रतिभासस्वरूपं चापरमार्थतया जानतां प्रेक्षावतां क्रीडारसो निष्पद्यते ।
बालोन्मत्तादयः कथं प्रतिबिम्बादिभिः क्रीडन्तीति चेन्न; तेषां तदानीं प्रतिबिम्बादेस्तत्प्रति भासस्य च मिथ्यात्वग्रहणभावात् ।
अस्त्विहापि बालादिवद्ब्रह्म, तथा च स्मरन्ति * बालः क्रीडनकैरिव, * क्रीडतो बालकस्येव चेष्टां तत्य निशामय इत्यादीति चेन्न; उन्मत्तवदीश्वरस्याविस्रम्भणीयत्वप्रसङ्गात्; स्वयं व्यामुह्यतः परव्यामोहनसामर्थ्यासम्भवाच्च; मुमुक्षुभिरुपेक्ष्यत्वप्रसङ्गाच्च ।
बालकदृष्टान्तस्तर्हि कथमिति चेत्; सर्वथा सादृश्यस्य दृष्टान्तानङ्गत्वात् ।
अन्यथा बालत्वादेरपि प्रसङ्गात् ।
किञ्च यस्य जीवब्रह्मणोद्वैतं तत्त्वम्, तस्य कथं जीवाज्ञाने ब्रह्माज्ञानं न स्यात्? अथ यदि जीवो ब्रह्मणस्तत्त्वतो भिन्नः, ततः कथमैक्यज्ञानान्मोक्ष इत्यादिकं घटेत? अतो यस्य मते माया सत्या, मायाविनश्च भगवतो न भ्रमः, व्यामोहनीयाश्च जीवाः परस्मादत्यन्तभिन्नाः सत्याश्च, परेण च यथावद्दृश्यन्ते, तस्यैव मायाविद्याविभागेन ब्रह्माज्ञानं सुपरिहरम्; न तु निर्विशे षैकचिन्मात्रवादिन इति ॥
॥इति शतदूषण्यां मायाविद्याविभागभङ्गवादः द्विचत्वारिंशः ॥42॥
नृसिंहराजीया
ढ्ढेज्ञाृृपूर्वसङ्गत्यैव “दैवीह्येषा गुणमयीमममाया दुरत्यया’’ (श्री.भ.गी) इति प्रमाणसिद्धां प्रकृतिमेवमायां वदनर्थात्कर्मभ्रान्तिर्वा विद्येति (+++) त्वा परोक्त माया अविद्या विभागो न सम्भवतीति सूचनेन वादार्थं सङ्गृहणातिः य एक इति । मायेति । ब्रह्मजीवयोनिर्दोषत्व सदोषत्वनिर्वाहकत्वेनाभिमतयोः को विशेष इति पृच्छाम इत्यर्थः । परेति । मायावित्वेनाभि मतब्रह्मापेक्षया परोजीवः अविद्याश्रयत्वेनाभिमतो जीवः स्व शब्दार्थः । ऐन्द्रजालिकव्यामुग्धयोस्तथैव दर्शनादिति भावः । अन्यत्र तथा वैशम्य सत्वेऽपि प्रकृते तन्निराकर्तुं विकल्पयतिः - किमिति । ब्रह्मपरानदृष्टा व्यामोहयति (+++) उत परान् दृष्टेति विकल्पार्थः । नहीति । इच्छाया ज्ञानपूर्वकत्वनियमात्परव्यामोहनेच्छापर ज्ञानपूर्विक वेति भावः । परव्यामोहनेच्छात्वाभावेऽपि परव्यामोहकारित्वादेव ब्रह्मणो मायावित्वं तथा (+++) न परज्ञानावश्यं भाव इत्यत्राहः - मायावीति । अन्यथेति । न च व्यामोहहेतुमत्वं मायावित्वं न च तन्मात्रादाविति वाच्यम् । मणिमन्त्राद्याश्रयभूतलाकाशादेरपि मायावित्वापत्तेरिति भावः । स्वाभाविकत्वेति । उपाध्यन्तराप्रयुक्तत्वादिति भावः ब्रह्मज्ञानेति अज्ञानस्याश्रयं प्रत्येव मिथ्याभूतपरदर्शन हेतुत्वादिति भावः । तथा सतीति । ब्रह्मणो निर्दोषत्वसिद्धये हि माया कल्पनम् । मायाङ्गीकारेऽपि परदर्शनार्थम्मज्ञानस्यावश्यकत्वे निर्दोषत्वस्यभग्नत्वात्तत एव सर्वकार्योपपत्तेश्च माया कल्पनीयेत्यर्थः । परेष्विति ऐन्द्रजालिकादौ तथा दर्शनादिति भावः । धर्मिग्राहकेति । इन्द्रो मायाभिः पुरुरूप ईयते(बृ.4.7.19) इति श्रृतिरूपधर्मिग्राहकमानेन मायया नानात्वदर्शने हेतुत्वसिद्धिरित्यर्थः । मिथ्याभूतेति ।व्यामोहन हेतुत्वादिति भावः । विपरीतेति । सत्यतया मिथ्यात्वप्रतीतिहेतुरविद्येत्यर्थः । तथा सतीति । ततश्च तेषामपि बाध्यत्वप्रसङ्गेन बाध्यबाधक व्यवस्थानस्यादित्यर्थः । भवदभिमतेति । यद्यपि व्यधिकरणप्रकारत्वं नास्त्येव तथाप्यनिर्वचनीयविषयत्वं भ्रमत्वमित्यभिप्रायेणोक्तमिति भावः । नहीति । ग्रहणं साक्षात्कारः । ईश्वरज्ञानस्य साक्षात्कारत्वादि(++)श्चितेति निर्वहणं निर्वर्तनं तदर्थप्रवृत्तिश्चा निवर्तनीयमभ्रमज्ञानाभावेन सम्भवतीत्यर्थः । किमिदमिति । किं भ्रमसिद्धतया मिथ्येति जानाति उत परभ्रमसिद्धत्वादिदं मिथ्येति यद्वा भ्रम सिद्धत्वभगृहीत्वा मिथ्यामात्रं जानातीत्यर्थः । परभ्रमसिद्धतयेत्र्यत्र मिथ्यात्वेनेत्यनुषङ्गः । जानातीति सर्वत्र सम्बध्यते । पददर्शनम् इति । तस्य मिथ्यार्थदर्शनादिति भावः । मिथ्याभूततया परानपि पश्यतीति न तस्य भ्रमत्वमिति न तदर्थम् अविद्यास्वीकार इति शङ्कतेः - परानपीति । स्वस्व भ्रमसिद्धतयैव परेषां सर्वेषां दर्शनेनानवस्थेत्यत्राहः - तेषामेवेति । स्व भ्रमसिद्धेभ्यः परेभ्यः पूर्वं स्वभ्रमस्याभावत्तत्सिद्धत्वेन तद्भ्रमो विशिष्ट भ्रम इति तद्धेतुतया वि(+++) स्यादित्यर्थः । तत्रदृष्टान्तः नहीति । भ्रमसिद्धत्वा ज्ञाने मिथ्यात्वज्ञानं न सम्भवतीत्येतत्प्रतिपादयतिः - नह्यसत्वमिति । स्वात्यन्तेति । स्वात्यन्ताभवेत्येतत्स्वरूपविशेषणम् । वस्तुतस्तदधिकरणनिष्ठतयेत्यर्थः । तथा च वस्तुतः स्वात्यन्ताभावाधिकरणे प्रतीयमानत्वमित्यर्थः पर्यवस्यति । प्रतिपन्नोपाधौ निषेध प्रतियोगित्वमादिशब्दार्थः । तथाच तद्ग्राहकज्ञानस्य भ्रमत्वज्ञानाद्भावे उक्तमिथ्यत्वं दुर्गहमिति भावः । परेषामिति । मिथ्यात्वस्या भा(+++)ति भावः । परेषामिति । मिथ्यात्वस्या (+++)ति भआवः । अचेत नेष्विति । अचेतन विषये भ्रामयामीति यः प्रवर्तते भ्रान्तिं मोचयामीति यः प्रवर्तते तावुभौमनीषिभिरुन्मत्ताविति विज्ञायते इत्यर्थः । मनीषिणामिति शेषत्वविवक्षायां “माषाणामग्नि (+++)वत् षष्ठी ।तथापीति ब्रह्मणोनंर्थावह दोष एव परिजिहीर्षत इति भावः । अपुरुषार्थतया शोकादिहेतुत्वेनत्यर्थः । नापुरुषार्थ तयेति । ब्रह्मणि तादृशमेव सत्यपि शोकाद्यभावादिति भावः । ननु भ्रान्तिरूपव (+++)नस्य शोकहेतुत्वं स्यादित्याशङ्क्य नायं नियम इत्यत्राहः - स्वप्नसिद्धस्येति । लोकोपकरणं युवति चन्दनादि सुखसाधनमित्यर्थः । अन्यथेति । अनिष्टहेतुर्दोषः इष्टहेतुर्गुण इति हि गुणदोषविभागः । यदि यत्किञ्चिद्धेतुत्व (+++)मात्रेण दोषत्वं वास्यात् तदा दोषएववा स्याद्गुण एव वा स्यादिति गुणदोषविभागो न स्यादित्यर्थः । ननु माभूदिष्टानिष्टहेतुत्वेन गुणदोषचिन्तनं किन्तु स्वाभाविकास्वाभाविकत्वेनैवानिष्ट हेतुत्वाभावेऽपि द्विचन्द्रादि काचादेर्दोषत्व दर्शनादिति शङ्कतेः - नन्विति । स्वाभाविकतया आगन्तुकतयेत्यर्थः । दोषत्वमिति । अनिष्टपर्यवसायित्वमित्यर्थः । प्रेक्षावन्तइति । प्रेक्षावत्प्रवृत्तेरिष्टानिष्ट प्राप्ति परिहारार्थत्वादिति भावः । ननु स्वतोऽनिष्टत्वाभा साधनत्वान्निवृत्त्यर्थं प्रवर्ततामित्यत्राहः - न हीति । सक्षाद्वा परम्परया वानिष्टत्वं निर्वतनीयता हेतुरिति भावः । ननु यद्यपुरुषार्थ पर्यवसानं दोषत्वेप्रयोजकं तर्हि न भ्रमहेतुत्वमा जनमिति । लीलारसहेतुतया ब्रह्मणोमायागुम एवास्त्विति शङ्कतेः - माभूदिति ।अन्यत इति । जीवेच्छयेत्यर्थः । ब्रह्ममायेति । सर्वज्ञस्सर्वशक्तिरीश्वरः स्वप्रयोजनपर्यवसायिन्यामायया परैरुच्छेदं न सहतेत्यन्यैस्तदभेदो शक्य इत्यर्थः । अस्तुमायायक्षण भङ्ग इत्यत्राहः - अविशेषादिति । ब्रह्मणो मिथ्यत्वं स्यादित्यर्थः । दोषान्तरमाहः - इतः पूर्वमिति परदर्शनमेव न स्यादिति व्यामोहहेतुत्वाभावान्मायात्वमुच्छिद्येतेति भावः । ब्रह्मस्वरूपेन्तर्भाव्येति । ब्रह्मस्वरूपमेवेत्युक्तवेत्यर्थः । किं ब्रह्मण एव परदर्शनरूपत्वमुच्यते उत परदर्शनानाश्रयत्वं नाद्य इत्याहः - तस्य चेति । परदर्शन हेतुत्वाभावादिति अनिर्मोक्षाय (+++) स्वतः परं दर्शनहेतुत्वाभावादित्यर्थः । द्वितीयं शङ्कतेः - परदर्शनमपीति । स्वभावो धर्मः । नित्यैव माया अपरमार्थभूतेति द्वितीयं पक्षदूषयतिः - नापिद्वितीय इति ।बाधितापि माया बाधितानुवृत्तिवशान्नित्यमनुवर्तते अतो नित्या परमार्थभूता चेति शङ्कतेः - बाधितापीति ।द्विचन्द्रधियोऽनुवृत्तिमात्रे दृष्टान्तता । नाशीति । चावधारणे । नाशरहितो नित्यइति यावत् । स परमार्थ एवेत्यर्थः । निर्वक्ष्यसिवहे लुट् । ब्रह्मणोऽपीति । ज्ञानानिवर्त्यत्वाभावेऽपि मिथ्यात्वे ब्रह्मणोऽपि किं न स्यादविशेषादिति भावः । अबाधादिति । ब्रह्मणः प्रपञ्चवन्निषेधाभावादित्यर्थः । किं बाधमात्राभआवो विवक्षितः उत प्रमाणेन बाधविरहः नाद्य इत्याहः - तत्रापीति । सर्वं शून्यमित्यादिवाक्यस्य सुवचत्वा - दित्यर्थः । द्वितीय आहः - प्रमाणेति । उभयोर्नित्यत्वाविशेषादुभयनिषेधस्यापि प्रामाण्यमप्रामाण्यं वा स्यादिति भावः । किञ्च पुरुषार्थतया प्रकाशयन्ति मायेत्युक्तमयुक्तमित्याहः - किञ्चेति । बालोन्मत्तादय (++++) यद्यपि प्रेक्षावतां क्रीडारसानुवृत्तावुक्तायां तदुपरिनेयं शङ्का तथापि क्रीडारसस्य समत्वाच्छङ्गावकाशइति भावः । अस्त्विति । माया यस्मात्कार्यस्य च स्वरूपेण प्रकाशाद्ब्रह्मणःक्रीडाभिनिवेशः तद्रसश्च सम्भवतीति भावः । भगवानेक इति । ब्रह्मणः क्रीडाप्रमाण सिद्धेत्याहः - बाल इति ।तस्य ब्रह्मणः इत्यर्थः । उन्मत्तवदिति । यथार्थदर्शित्व निश्चयाभावेनाप्तत्वसंशयादिति भावः । स्वयं व्यामुह्यत इति । स्वयम्मुहयतएव गुरोस्त (+++)देशेन परव्यामोहनिवर्तनमदृष्टमिति चेन्न । गुरोर्यद्यपि मोहमस्ति । तथापि समान विषयव्यामोहवतां तन्निवर्तनं शक्यमिति भावः । अस्तु को दोष इति चेत्तत्राहः - मुमुक्षुभि - रिति । प्रामाण्य निश्चयं विना बह्वायाससाध्य (+++) त्ययोगादिति भावः । सर्वथेति । क्रीडामात्रे दृष्टान्तः । यथा महानसस्य वह्निमत्वमात्रेऽन्यथा पर्वतस्यापि व्यञ्जनवत्व प्रसङ्गादिति भावः । अद्वैतमैक्यमित्यर्थः । इत्यादिकमित्यादिशब्देन वेदान्तानां तत्वावेदक्तवं विवक्षितम् । स्व (+++) तु दुरूयाविद्याविद्यार्विभागेन दोष इत्याहः - अत इति । वत्सकुलजलधिकौस्तुभनृसिंह गुरुसुतेन सिम्हदेवेन कृतायां शतदूषणीटीकायां द्विचत्वारिंशोवादस्समाप्तः ॥