41 अविद्यास्वरूपानुपपत्तिवादः

॥अथ अविद्यास्वरूपानुपपत्तिवाद एकचत्वारिंशः ॥41॥
अविद्याख्यावद्यं फलमपि तदीयं भगवतो विदूरे यस्येति श्रुतिशिरसि जोघुष्यत इदम् ।

यदज्ञानाद्बन्धो भवति न तु यद्वैभवविदां स मे देवः श्रीमांश्छमयतु सदा चेतसि तमः ॥
यः पुनरयं स्वप्रकाशचिन्मात्रैकरसस्य ब्रह्मणो विश्वभ्रमहेतुरविद्याख्यो दोषः, स किं परमार्थः, उतापरमार्थः? आद्येऽपि ब्रह्मणो भिन्नोऽभिन्नो वा? भिन्नत्वे परमार्थद्वित्वप्रसङ्गः ।
अभिन्नत्वे च ब्रह्मण एव विश्वभ्रमहेतुदोषत्वमुक्तं स्यात् ।
तथाच ब्रह्मणो नित्यत्वेन नित्यभ्रमप्रसङ्गः ।
सहकारिसद्भावात् कदाचिद्भ्रमः, तद्वैकल्यात्तु पश्चान्निवृत्तिरिति चेत्; तह्रि प्राप्तप्राप्तविवेकेन सहकारिदोष इत्युक्तं भवति ।
तत्रापि हि परमार्थापरमार्थविकल्पानुपपत्तिर्दुर्वारा ।
कश्चासौ सहकारित्वेन विवक्षितः? तत्त्वमस्यादिवाक्यजन्यतत्त्वज्ञानप्रागभाव इति चेन्न; भावरूपाज्ञानप्रतिपादनप्रयासवैयर्थ्य प्रसङ्गात् ।
तस्य च प्रागभावस्य न ब्रह्मस्वरूपता युक्ता, तत्त्वज्ञानाद्ब्रह्मनिवृत्तिप्रसङ्गात् ।
ब्रह्मव्यतिरिक्तस्य तु मिथ्यात्वेन तद्दर्शनहेतुदोषत्वं ब्रह्मण एव स्यात् ।
ब्रह्मणश्च नित्यत्वेन तस्य नित्यप्रकाशप्रसङ्गेन तत्त्वज्ञानानुत्पादप्रसङ्गः ।
अपरमार्थभावरूपदोषपक्षेऽप्ययेव दोषः ।
अनादित्वान्न दोषान्तरापेक्षेति चेत्; अनादित्वेऽपि तयोः कारणापेक्षा परिहर्तुं शक्यते, न पुनरपरमार्थस्य प्रतिभासे दोषाख्यनिबन्धननैर पेक्ष्यम् ।
अन्यथा दोषमन्तरेण प्रकाशमानस्य ब्रह्मवत्सत्यत्वप्रसङ्गात् ।
दोषस्य दोषान्तरापेक्षायामनवस्था
प्रसङ्गात् ।
स्वपरनिर्वाहकोऽयं दोष इति चेन्न; प्रपञ्चस्यैव दोषमन्तरेणाध्यासप्रसङ्गात् ।
मिथ्यार्थस्य दोषमन्तरेण प्रतिभासोऽनुपपन्न इति चेन्न; अविद्याया इव स्वस्यैव स्वप्रतिभासहेतुदोषत्वकल्पनामात्रेण तत्प्रतिभासोपपत्तेः ।
स्वस्यैव स्वहेतुत्वमनुपपन्नम्, अध्यासोत्पत्त्योरविशेषादिति चेन्न; अनाद्यविद्याध्यासे तयोर्विशेषस्य भवतैव स्वीकृतत्वात् ।
नह्यसावनध्यस्ता, सत्यत्वतुच्छत्वयोरन्यतरप्रसङ्गात् ।
नचाध्यस्ताऽप्युत्पन्ना, अनादित्वसिद्धान्तभङ्ग प्रसङ्गात् ।
न च साऽप्यादिमती, प्रपञ्चाविशेषप्रसङ्गात् ।
तथा च किं तया, तद्वदेवानियमतोऽपि प्रपञ्चस्य स्वतोऽध्यासोपपत्तेः? अध्यासोत्पत्त्योरविशेषाभ्युपगमेऽप्य विद्यायां स्वाध्यासमूलदोषतयाऽभ्युपगतायां स्वहेतुत्वव्याघातो दुस्त्यजः ।

किञ्च यदि निर्दोषस्यापि ब्रह्मणोऽविद्या प्रकाशेत, नित्यं तत्प्रकाशप्रसङ्गः, अविशेषात् ।
निवृत्तत्वात्पश्चान्न प्रकाशिष्यत इति चेन्न; भवत्पक्षे प्रकाशनिवृत्तेरेव प्रकाशमाननिवृत्तिरूपत्वात् तयोर्हेतुसाध्यभावनिर्देशानुपपत्तेः।
तत्त्वज्ञानोदयात्पश्चादप्रकाशः,पूर्वं तु तदभावात् तस्याः प्रकाश इति चेत्; तथा सति तत्त्वज्ञानप्रागभाव एव ब्रह्मणोऽविद्यादर्शननिबन्धनमिति प्रपञ्चदर्शनस्यापि स एव प्रयोजकः किं न स्यात्? तथा च किमन्तर्गडुनाऽविद्यया? अभावस्य विचित्राध्यासहेतुत्वं न दृष्टमिति चेत्; भावस्य वा घटादेः क्व दृष्टम्? तिमिरादिदोषाणां दृश्यत इति चेत्, विशेषाग्रहादेरभावरूपस्यापि तद्दृश्यत इति तुल्यम् ।
अभ्युपगतं च सर्वैरपि भ्रमेषु भेदाग्रहो निबन्धनमिति ।
अभावस्य पूर्वापरकालविशिष्टत्वात्तत्तत्कालविशेषप्रतिनियतकार्यविशेषाध्यासाय तादृशमहिमशालिन्यविद्या कल्पनीयेति चेत्; कल्पिताऽपि सा कथमनादिरात्तत्वज्ञानमनुवर्तमानानि तत्तत्कालनियतानि च कार्याण्यध्यसेत्? स्वभावादिति चेत्, स किमभावे नाङ्गीक्रियते? कल्पनालाघवं तु तत्र विशेषः ।
विवर्तपारम्पर्यादविद्यायास्तदुपपत्तिः, न त्वभावस्य निर्विकारस्येति चेत्; सा किं विवर्तपरम्पराऽविद्यायास्स्वरूपम्? उत तत्कार्याण्येव? यद्वा वस्त्वन्तराणि? नाद्यः, उक्तदोषानतिक्रमात्; स्वरूपत्वाविशेषात् सर्वदा सर्वाध्यासप्रसङ्गात् ।
न द्वितीयः,निर्वाह्यस्यैव निर्वाहकत्वानुपपत्तेः ।
नच तृतीयः, अनभ्युपगमात् ।
अभ्युपगमेऽपि तत्सत्यमिथ्यात्वादिविकल्पशतदौस्थयापातात् ।
सत्यत्वे सद्वितीयत्वादिप्रसङ्गात्, मिथ्यात्वेऽपि तत्परम्परायां प्रतिनियतकालविचित्राध्यासे तथाविधपरम्परान्तरकॢप्तिप्रसङ्गात् ।
पूर्वपूर्वविवर्तानामेव उत्तरोत्तरहेतुत्वान्नासौ दोषः, यथा ब्रह्मपरिणामानां प्रकृतिपरिणामानां वा तत्तदुत्तरोत्तरपरिणामहेतुभाव इति चेन्न; तथाऽप्यविद्याकल्पनस्य निर्मूलत्वप्रसङ्गात्, ब्रह्मण्येवान्यनिरपेक्षानाद्यध्यासप्रवाहवैचित्र्येण सर्वाध्याससिद्धेः ।
तर्हि परिणामपरम्परासामर्थ्यमाश्रित्य परिणामिद्रव्यापह्नवप्रसङ्ग इति चेन्न; प्रत्यक्षादिविरोधप्रसङ्गात् ।
नचात्रापि तथा, तद्विषयप्रमाणानां प्रत्येकं प्रतिक्षेपात् ।
न तथा निरधिष्ठानभ्रमापत्तिरिति भेतव्यं भवता, ब्रह्मण एव सर्वविवर्ताध्यासाधिष्ठानत्वाभ्युपगमात् ।
नह्यपरमार्थभूताया अविद्याया अधिष्ठानतया स्वीकारश्शक्यः, तथा सति ब्रह्मण एवासिद्धिप्रसङ्गे माध्यमिकसमाजमध्यमध्यास्स्व ।
ब्रह्मसत्यत्वश्रुत्यादिबलात्तदभ्युपगमः नतु विवर्ताधिष्ठानत्वादिति चेन्न; विकारतदुपादानप्रकृत्यादिसत्यत्वश्रुतिबलादेव
प्रकृतितत्परिणाम परम्पराभ्युपगमप्रसङ्गेनाविवादप्रसङ्गात् ।
तत्सत्यत्वप्रतिपादकश्रुतिबाधे ब्रह्मसत्यत्वप्रतिपादिकाया अपि तस्या बाधितुं शक्यत्वात् ।
किञ्च किमविद्या प्रकाशते? न वा? नचेतुच्छत्वम्, निरुपाख्यस्यैव तुच्छत्वात् ।
प्रकाशते चेत्, स प्रकाशः किमविद्यास्वरूपम्? उत ब्रह्मस्वरूपम्? अथ तस्यास्तस्य वा धर्मः?उतान्यः कश्चित्? न तत्राद्यः, स्वप्रकाशत्वेन ब्रह्मवत्सत्यत्वप्रसङ्गात् ।
न द्वितीयः, तन्नित्यत्वेन नित्यमविद्याप्रकाशादनिर्मोक्षप्रसङ्गात् ।
नापि तृतीयः, तयोर्ज्ञातृत्वानभ्युपगमात् ।
अध्यस्तज्ञातृत्वाभ्युपगमे कः प्रतीकार इति चेन्न; तस्याप्यध्यासस्याविद्याहेतुकत्वेऽन्योन्याश्रयणात्, प्रकाशाध्यासस्य तदधीनत्वात्, तस्याश्च प्रकाशाधीनसिद्धित्वात् ।
ब्रह्महेतुकत्वे तस्य नित्याध्यासप्रसङ्गात् ।
अहेतुकत्वे पूर्ववत्प्रपञ्चाध्यासस्यैवाहेतुकत्वप्रसङ्गादादिमदनादिवैषम्यस्याप्रयोजकत्वोक्तेः ।
निर्दोषप्रकाशगोचरत्वप्रयुक्तदोषाणां च प्रागनुवृत्तेः ।
नापि चतुर्थः, सत्यस्य तस्यानभ्युपगमात्, मिथ्याभूतस्य त्वध्यासेऽन्योन्याश्रयप्रसङ्गात् ।

एतेनाविद्याप्रवाहपक्षोऽपि निरस्तः, प्रपञ्चप्रवाहस्यैव हेतुकार्यभावेन स्थित्युपपत्तौ निरर्थकाविद्याप्रवाहकल्पनायोगात्, उपलम्भाद्यसिद्धेश्च ।

किञ्चेयमविद्या निराश्रया? साश्रया वा? पूर्वत्र ब्रह्मवत् सत्यत्वप्रसङ्गः ।
शशश्रृङ्गवद्वा तुच्छत्वप्रसङ्गः ।
उत्तरत्राप्यसावाश्रयः किं ब्रह्मस्वरूपम्? उत तदेवोपहितम्? अथवा स्वतन्त्रोऽन्यः? न प्रथमः, नित्यशुद्धस्याशुद्धिविरोधात् ।
अन्यतरमिथ्यात्वे वा उभयमिथ्यात्वे वा तदविरोध इति चेन्न; शुद्धमिथ्यात्वेऽपसिद्धान्तशास्त्रवैयर्थ्यादिप्रसङ्गात् ।
अशुद्धमिथ्यात्वे तन्निवृत्तिनैरपेक्ष्यप्रसङ्गात् ।
कदाचिदपि तस्या अभावात् तत्प्रतिभासनिवृत्तेरपेक्षेति चेत्; प्रतिभासस्यापि मिथ्यात्वे प्रसङ्गसाम्यात् ।
तत्सत्यत्वानभ्युपगमात् ।
मिथ्यात्वेऽपि सत्यत्व इवापुरुषार्थत्वाविशेषात् तन्निवृत्त्यपेक्षेति चेत्;
तर्ह्यपुरुषार्थाश्रयत्वलक्षणाशुद्धत्वस्य दुस्त्यजत्वात्तन्मिथ्यात्वोक्तिरुपच्छन्दनमात्रे पर्यवस्यति ।
उभयमिथ्यात्वे तूभयविधदोषापत्तिः ।
व्याघातादयश्च स्युः ।
नापि द्वितीयः, अविद्याश्रयस्य ब्रह्मण उपाधिमत्त्वे सत्यमिथ्याविकल्पिताविद्यान्तरादिपरिग्रहेऽपसिद्धान्तानवस्थाविरोधादिदोषसमुन्मेषात् ।
नापि तृतीयः, ब्रह्माज्ञानवादपरित्यागादिप्रसङ्गात् ।
तस्याप्याधारनिरूपणेऽनवस्थादिप्रसङ्गाच्च ।
स्यादेतत्, ब्रह्मवत्स्वयमेवाविद्या स्वाश्रयेति; तन्न, आश्रयाश्रयित्वयोरेकप्रतिसम्बन्धिकयो रूपादिभेदमन्तरेण विरुद्धत्वात्; ब्रह्मणस्तु स्वाश्रयत्वं नास्त्येव ।
आश्रयान्तरनिषेधाभिप्रायेण स्वाश्रयत्वोक्तिः ।
अस्तूपाधिभेदेनेति चेन्न; तस्याप्याधाराकारोपाधेरनाधारत्वानुपपत्तेः तदाधारोपाध्यन्तरादिभेद कल्पनेऽनवस्थानात् ।
आधेयाकारतादात्म्येन तस्यापि स्वाधेयत्वे तूपाधिभेदवाचोयुक्तिविलोप प्रसङ्गात् ।
ननु मिथ्याभूतायाः किमाश्रयविकल्पेन, अध्यासस्याधिष्ठानमात्रं ह्यपेक्षितमिति चेन्न; भवत्पक्षे सर्वत्राक्षयाणामध्यासाधिष्ठानमात्रत्वात् ।
घटादि संसर्गोऽपि भूतलादावध्यस्त एव, अन्यथा तत्रैव तत्सत्यत्वप्रसङ्गात् ।
किञ्चापरमार्थभूतेयमविद्याप्रतीतिर्नाहङ्कारतद्वत्ति - तदवच्छिन्नदृशिष्वन्यतमा, तेषां तदपत्यत्वात् ।
अन्यथाऽपि काल्पनिकत्वेन मूलदोषान्तरापेक्षायामनवस्थानात् ।
न च ततोऽन्या काचिद्दृशिः? तस्या ब्रह्मस्वरूपत्वे ब्रह्मणोऽपि मिथ्यात्वप्रसङ्गात् ।
तदतिरिक्तसंविदन्तरासिद्धेश्च ।

अपि च प्रकाशमानेयमविद्या किं ब्रह्मात्मना प्रकाशते? उत तदन्यत्वेन? यद्वाऽन्यत्वानन्यत्व साधारणात्मना? नाद्यः, सहि ब्रह्मस्वभावनिह्नवेन वा? स्वस्वभावनिह्नवेन वा? उभयेस्समुच्चयेन वा? उभयनिह्नवेन वा? आद्ये ब्रह्मस्वभावनिह्नवे प्रकाशतत्त्वविलयेन तदधीनसत्ताकमविद्यादिकमपि विलीनमेव स्यादिति वृथा शास्त्रादिपरिश्रमः, प्राप्यनिवर्त्यायाः प्रसङ्गस्यापि दूरापास्तत्वात् ।
अविद्यास्वभावनिह्नवे तु ब्रह्ममात्रप्रकाशे अपवर्गबन्धवैषम्यविरहप्रसङ्गेन पूर्वोक्तदोषानतिपातः ।
समुच्चयस्तु न सम्भवत्येव, विद्याविद्ययोर्वैरस्य शाश्वतिकत्वात् ।
अन्यथा विद्यानिवर्त्यत्वमविद्यायाः क्वचिदपि न स्यादिति स्थितमन्यत्र ।
उभयनिह्नवे तु उभयविधदोषस्यानायाससिद्धिः स्यात् ।
स्यादेतत्, यथा दर्पणमुखयोस्स्वभावमनपह्नुत्य दर्पणे मुखाध्यासः, यथा वा अतिरस्कृतोभयस्वभावो दीपकज्जलसम्भेदः, यथा वा दीपालोकमण्डलस्य तद्बाह्यसन्तमसमण्डलस्य च सामीप्याविरोधः, एवमयमविद्या ब्रह्मणोरनपह्नुतोभयस्वभावयोरेवानादिरासत्तिविशेष इति किमस्मान् वर्णनावशेन वशीचिकीर्षसि? मैवम्, सर्वत्र तादात्म्याध्यासे भेदाग्रहं संसर्गाध्यासे त्वसंसर्गाग्रहमन्तरेण क्वचिदपि भ्रमासिद्धेः ।
दर्पणमुखाध्यासेऽप्यन्तरालाग्रहणादेव नैरन्तर्यभ्रमः ।
कथं तर्हि दर्पणस्य दूरस्थताग्रहणमिति चेत्; श्रूयतामवधानेन, दर्पणाभिमुखप्रवृत्तेन नायनतेजः प्रवाहेण सान्तरालदर्पणग्रहः दर्पणप्रतिहतेन तु प्रसिस्रोतसातेनागृह्यमाणान्तरालमुखस्वरूपमात्रग्रहः, तत एव दर्पणे मुखमिति भ्रमः,तद्धवहारमात्रं वा जायते ।
ज्ञानद्वित्कं
न दृश्यत इति चेत्; किं धारावाहिकधीसन्ततौ तद्भेदः? अत्र तु तत्त्वधीभ्रमयोरितेरतरव्यवहिता धारेति विशेषः ।
यौगपद्यप्रतीतिस्तु शैघ्र्यातिशयेन कालकलाभेदा ग्रहणात् ।
अतः न क्वचिदपि प्रत्यक्षविरुद्धाकारस्य कॢप्तिः ।
दीपकज्जलसम्भेदेन तु न विरोधगन्धोऽपि, तत्राध्यासप्रसङ्गाभावात् वध्यघातकभावादिविरोधासिद्धेः ।
मूर्तयोस्समानदेशत्वविरोधस्त्वंशभेदेन सूक्ष्मवैदेश्यात्परिहृतः ।
आलोकसन्तमसमण्डलयोरपि सादेश्य एव विरोधः, नतु सामीप्ये ।
नचात्रापि ब्रह्माविद्ययोःपरस्परसमीपदेशत्वादिस्वीकारो युक्तः; परिच्छिन्नत्वादिप्रसङ्गात् ।
अतो नाविद्याब्रह्मासक्तिर्वक्तुं शक्यते ।
एवमन्यान्यप्यनन्तानि विकल्पदूषणानि अविद्यास्वरूपमनुबन्धन्ति ।

ननु किमनेनानिष्टापादनप्रपञ्चेन, प्रासादनिगरणादिवदवस्तुभूतायामविद्यायां नैते वस्तुदोषाः क्षतिमावहन्ति; यदाहुः*दुर्घटत्वमविद्याया भूषणं न तु दूषणमिति; अतोऽविद्याऽप्यनुपपन्नेति स्थितौ ब्रह्माद्वैतमकण्टकमिति चेत्; हन्त निष्यप्रयोजनः प्रयासस्तव माध्यमिकादिमतनिरासे ।
तेऽपि यदि सर्वशून्यत्वमपि दुर्घटम्, ततोऽपि सर्वशून्यत्वमेव प्रतिष्ठितमितीष्टप्रसङ्गतां यदि ब्रूयुः, तदानीं किं वक्ष्यसि? यदि सर्वशून्यत्वं दुर्घटम्, तदा परपक्षविजयप्रसङ्गः, ततश्च दुर्घटपक्षं परित्यज्य परपक्षः स्वीक्रियतामिति ब्रूयामिति चेत्; तर्ह्यस्माभिरप्येवमभिधाने भन निरुत्तरः ।
तदेतत्सर्वमुपक्षिप्तं भाष्ये - *निर्विषया निराश्रया स्वप्रकाशेयमनुभूतिः स्वाश्रयदोषवशादनन्ताश्रयमन्तविषयमात्मानमनुभवतीत्यत्र किमयं स्वाश्रयदोषःपरमार्थभूतः, उतपरमार्थभूतः, इति विवेचनीयमित्यादिना ।
आरम्भणाधिकरणे च व्यस्तृणीत ॥
॥इति शतदूषण्यामविद्यास्वरूपानुपपत्तिवादः एकचत्वारिंशः ॥41॥

नृसिंहराजीया

पूर्वसङ्गतिमभिप्रेत्यवादार्थं सङ्गृहणाति - अविद्याख्येति । (++++) रो नास्तीत्यर्थः इदमेवं भूतवाक्यार्थः । सामान्येन नपुंसक निर्देशः वेदान्ते प्रतिपाद्यन्तइत्यर्थः । तमश्शमयत्वित्युक्त्या ज्ञानस्य भगवदुपासनानिवर्त्यत्व मुक्तं तेन सत्यत्वं सिद्धमिति वादार्थसूचनम् । ननु सहकारिवशाद्भ्रमः उत्पन्ने तत्वज्ञाने सहकारिणो निवृत्तौ न भ्रमोत्पाद इति शङ्कते सहकारीति । ब्रह्मणि सत्यपि सहकार्यभावे भ्रमानुत्पत्तेस्तत्सत्वे च भ्रमोत्पत्तेरत्वयव्यतिरेकाभ्यां सहकारित्वेनाभिमतस्यैव दोषत्वं युक्तं न ब्रह्मण इत्याहः - तर्हीति । विकल्पेनानुपपत्तिरिति तृतीया समासः । यद्वाविकल्प्यत इति विकल्पः । विकल्पितयोः कोट्योरनुपपत्तिरित्यर्थः । दुर्वारेति । ब्रह्मव्यतिरिक्तस्यत्वित्यादिना । वक्ष्यमाणदोषोऽपारमार्थ्ये प्रसज्यत इति भावः । वैयर्थ्यप्रसङ्गादिति । न च परिणाम्यर्थः । तदुपादानमभावस्य भावपरिणामत्ववद्भाव परिणामित्वस्याप्यविरोधादिति भावः । किं प्रागभावो ब्रह्मस्वरूपमेव उत तदतिरिक्त इति विकल्पमभिप्रेत्याद्ये दोषमाहः - तस्य चेति । तथा च शून्यवादप्रसङ्ग इति भावः । द्वितीये दोषमाह ब्रह्मव्यतिरिक्तस्येति । तथा च मिथ्याभूतप्रागभावाध्यास हेतुर्दोषो नान्य इति भावः । इष्टापत्तिं परिहरतिः - ब्रह्मणश्चेति । तस्येति । प्रागभावस्येत्यर्थः । दोषे सति ज्ञानप्रागभावाध्यासस्य तत्वज्ञानोत्पत्तिसमये आवश्यकतयाप्रागभाव (+++) प्रागभावप्रतियोगिनोरेककालीनत्वायोगात्तत्वज्ञानं न स्यादिति भावः । अपरमार्थभावरूपेति । अविद्याया ज्ञानविरोधिन्या मिथअयात्वात्तदर्शनहेतुदोषत्वं ब्रह्मण इति तस्य नित्यतया तत्वज्ञानसमयेप्यविद्याध्यासस्यावश्यकत्वे वि (+++) तत्वज्ञानं नोत्पद्यत इत्यर्थः । न च तत्वज्ञानसामग्रयाऽविद्याध्यासप्रतिबन्ध इति वक्तुं शक्यम् । तथा सति मुक्तिकाले अविद्याध्यासप्रसङ्गादिति भावः । नन्वविद्याप्रागभावयोरनादित्वात्तदध्यासस्याप्यनादितया न तत्र दोषापेक्षेति शङ्कते । तयोरिति - अविद्याप्रगभावयोरित्यर्थः । न पुनरिति । अध्यासप्रवाहस्यानादित्वेऽपि न स्वरूपतोऽनादित्वं वक्तुं शक्यमिति भावः । निबन्धनं - कारणम् । अन्यथेति । दोषाजन्यज्ञानस्य तत्वविषयत्वादित भावः । नन्वविद्याध्यासे ब्रह्म न दोषः । किन्त्वन्यः । तच्च तत्वज्ञानान्निवर्ततम् इति न नित्यमविद्याध्यासप्रसङ्ग इत्यत्राहः - दोषस्येति । निर्वाहकान्तर नैरपेक्ष्यमेव स्व निर्वाहकत्वमित्यभिप्रायेणाहः - नेति । ननु मिथ्यार्थस्य दोषं विना अधअयासाऽयोगात्प्रपञ्चाध्यासे तत्तदर्थानामेव दोषत्वे गौरवादविद्याया एव स्वपरनिर्वाहकतया दोषोङ्गीकार्य इति शङ्कतेः - मिथ्यार्थस्येति । तत्तदर्थानामेव “धर्मिकल्पनाद्वरं धर्मकल्पनेति न्यायेन दोषत्वकल्पनं युक्तमित्यभिप्रायेण परिहरतिः - अविद्यादेरिवेति । स्वस्यैवेति । अविद्यायास्तु स्वाध्यासहेतुत्वमगत्याकल्प्यते प्रपञ्चेत्वविद्याया दोषत्वसम्भवान्नागतिरिति भावः । अविशेषादेकत्वादित्यर्थः अनाद्यविद्याध्यास इति । भवदङ्गीकृत इति शेषः । अविद्याध्यासे अविद्याया एवत्वया हेतुत्वस्याङ्गीकारादध्यासोत्पत्त्योस्त्वयेव भेदो दर्शित इति भावः । नन्वविद्याया अध्यस्तत्वमेव नेष्यत इत्यत्राहः - नहीति । नन्वविद्याया अध्यस्तत्वे स्वस्य दोषत्वमित्यत्राहः - न चेति । अभ्युपगमविरोधमुक्तवार्थ विरोधमप्याहः - न च सेति । प्रपञ्चेति । प्रपञ्चवदेवं स्वव्यतिरिक्त दोषापेक्षत्व प्रसङ्गादित्यर्थः । इष्टापत्तिमाशङ्क्याहः - तथा चेति । यथा अविद्यान्तरेणाध्यस्यते एवं प्रपञ्चान्तर्गतो दोषः । क्लप्ततया लघुत्वेनादोषत्वादनियमतोऽपि स्वस्यकारणादेवाध्यासस्य न्याय्यत्वादन्यथाविस्थिता विद्यापरम्पराकल्पनागौरवम् एवमध्यासोत्पत्त्येर्विशेषस्साधितः । इदानीमविशेषाभ्युपगमेऽपि स्वस्य स्वाध्यासदोषत्वाङ्गीकाराहध्यासोत्पत्त्योविशेषत्स्वस्य स्वोत्पत्तिकरणत्वमपि सिद्धेदित्याहः - अध्यासोत्वत्त्योरिति । अनादित्वान्नदोषापेक्षेति शङ्कयाः परिहारान्तरमाहः - यदीति । पूर्वापरकालयोर्हेत्वधिकरणत्वतदनधिकरणत्वरूपवैषण्याभावादित्यर्थः । निवृत्तित्वादिति । मुक्तिकालेऽविद्यारूपविरहविषयान्नाविशेषादिति भावः । भवत्पक्ष इति । मिथ्यावस्तुनः (+++) प्रतिभासमानतया प्रकाशानिवृत्तौ तन्निवृत्त्ययोगात्तत्कृतवैषम्यमपि स्यादिति भावः । तयोरिति अध्यासाध्यासमाननिवृत्त्योरैक्याद्वासमानकालीनत्वाद्वा न साध्यसाधनभाव इत्यर्थः । एवमर्थाभावादप्रकाशमानमाशङ्क्य परिहरतिः - तत्वज्ञानोदयादिति । इष्टापत्तिं परिहरतिः - तथा चेति । विराडिति केशोण्ड्कादिभ्रमे हेतुत्वदर्शनादित्यर्थः । विशेषाग्रहादेरिति । सत्वादिगुणविशेषोन्मेषकाले तत्तत्सृष्टयादिकार्याणि नियमेनस्युरिति भावः । कल्पितेति । आतत्वज्ञानमितिच्छेदः । प्रवाहरूपेणानादिभूतानि आतत्वज्ञानमनुवर्तमानानि प्रातिस्विकेनरूपेण तत्तत्कालनियतानि घटादिकार्याणि सत्वादुन्मेषमात्रान्नसिद्धयेरन्निति भावः । तत्राभावपक्ष इत्यर्थः । घटाद्युत्तरविवर्तानां मृत्पिण्डादिपूर्वपूर्वविवर्तसापेक्षितत्वात्तत्तन्मृत्पिण्डादिरूपेण निवृत्ताविद्यैव तत्तद्घटादिरूपेण विवर्तत इति प्रतिनियतकार्यसम्भव इति चोदयतिः - विवर्तपारम्पर्यादिति । नत्वभावस्येति विवर्तपारम्पर्यमिति शेषः । तत्कार्याव्येवेति । ये (+++)त्पत्तिकानीत्यर्थः । उक्तेति । नियताधअयाससम्भवादित्यर्थः । तदेवोपपादयतिः - स्वरूपत्वेति । परम्परयाः स्वरूपत्वं हि परम्परान्तर्गतानां तदभेद एवेति नियामकत्वेनाभिमतानामपि सर्वेषां घटादीनां सर्वदा ध्यासप्रसङ्ग इत्यर्थः । निर्वाह्यस्यैवेति । कार्यक्रमनियामकप्रश्ने क्रमविशेषविशिष्ट कार्यस्यैव नियामकत्वोक्तावात्माश्रय इत्यर्थः । मिथ्यात्वेपीति । प्रतिनियताध्यास नियामत्वेनाङ्गीकृतायाः ववर्तपरम्परायाः क्रमिककार्यघटितत्वात्कार्यक्रमेऽपि विवर्तपरम्परान्तरापेक्षायामनवस्था प्रसङ्गादित्यर्थः । ननु परम्परात्मकसमुदायस्य न समुदायरूपेण नियामकत्वं येनोक्तदोषस्यात्किन्तु पूर्वपूर्वविवर्तविशेषस्योत्तरोत्तर विशेषहेतुत्वमिति शङ्कतेः - पूर्वेति । ब्रह्मपरिणामानामिति (+++) शरीरकब्रह्मपरिणामानामित्यर्थः । प्रकृतिपरिणामानामितिसाक्षाद्विकाराभिप्रायेण । केचित्तु - यादवसाङ्ख्यमतानसारेणोक्तरीत्याह तदेवोपपादयतिः - ब्रह्मण्येवेति ।तर्हीति । पिण्डत्वाद्यवस्थाविशेषातिरिक्त (+++++)पिण्डत्वाद्यवस्थान एवोत्तरावस्थासिद्धेरित्यर्थः । प्रत्यक्षेति । पिण्डघटाद्यवस्थाव्यतिरेकेणातुगतस्य द्रव्यस्यदर्शनान्मृदाद्यवस्थाव्यतिरेकेण त्रिगुणात्मिकायाः प्रकृतेः श्रुत्यादिसिद्धत्वादित्यर्थः । तद्विषयेति । अविद्याविषयेत्यर्थः । अध्यासाधिष्ठानतया स्वीकारइत्यत आहः । न तथा निरधिष्ठानेति । अपरमार्थ भूततयेति । स्वयमधिष्ठानान्तरमपेक्षमाणा कथमधिष्ठानंस्याद्यदितस्या अधिष्ठानान्तरमस्ति तदेवाधिष्ठानं स्यादित्यर्थः । नन्वविद्या(++++) नाधिष्ठानापेक्षेतिचेत्तत्राहः - तथा सतीति । अधिष्ठानार्थं ब्रह्मणोनपेक्षणादित्यर्थः । श्रुतिबलादिति । “नित्या सततविक्रिया’’ “अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीसरूपां’’ इत्यादिश्रुतिर्विवक्षिता । (नित्य(++++) स्वेन सत्यत्वप्रतिपादकत्वमिति भावः । किञ्चाविद्याप्रकाशानिरूपणादप्यविद्या न सिद्धयतीत्याहः - किञ्चेति । निरूपाख्यत्वं - प्रकाशाविषयत्वं तस्याः अविद्यायाः तस्य ब्रह्मणः स्वप्रकाशत्वेनेति । चैतन्याविषयत्वे नेति मिथ्या (++++)श्यत्वाभावादिति भावः । तयोरविद्याया ब्रह्मणश्चेत्यर्थः । अन्योन्याश्रयमुपपादयतिः - प्रकाशाध्यासस्येति । अविद्यानिबन्धनत्वादित्यर्थः - तस्याश्चाविद्यायाः प्रकाशाधीनसिद्धिकत्वादिति । अध्यस्तस्याध्यासात्प्रागसिद्धेरित्यर्थः । ननु प्रपञ्चस्यादिमत्वादहेतुकत्वमयुक्तमविद्याप्रकाशस्यानादित्वात्तद्युज्यत इत्यत्राहः - आदिमदिति । अप्रयोजकत्वोक्तेरिति । अनादित्वेऽपि कारणापेक्षापरिहर्तुं शक्यत इत्यत्रेत्यर्थः । निर्दोषेति । दोषमन्तरेण प्रकाशमानस्य ब्रह्मवत्सत्यत्वप्रसङ्ग इत्यादिनोक्तदोषाविवक्षिताः । अविद्याङ्गीकारपक्षोनायमन्योन्याश्रयः पूर्वपूर्वाविद्याया उत्तरोत्तरप्रकाशोपपादनसम्भवादित्यत्राहः - एतेनेति । एतद्विवृणोतिः - प्रपञ्चेति । कार्यानुपपत्त्यभावेऽपि प्रमाणबलात्स्वीक्रियत इत्यत्राहः - उपलम्भादिति । किञ्चेति । यद्यपि जीवाश्रितत्व ब्रह्माश्रितत्वनिरासवादे अविद्याश्रयखण्डनं कृतं तथापि विशेषान्तरं वक्तुं पुनः प्रसञ्जनमिति ध्येयम् । स्वतन्त्रोऽन्य इति ब्रह्मानाश्रय इत्यर्थः । अन्यतरेति । शुद्धिर्वा अशुद्धिर्वेत्यर्थः । मिथ्यात्वमभावःप्रतिभासस्सत्यो मिथ्योवा न द्वितीय इत्याहः - मिथ्यात्व इति । प्रथम आह तत्सत्यत्वेति । मिथ्यात्वीपीति ।व्यावहारिकसत्यस्य विद्यमानत्वादपुरुषार्थत्वात्तन्निवृत्तिः पुरुषार्थेति भावः । तर्हीति । ब्रह्मणो हेयसम्बन्धाङ्गीकारे तस्य निरवद्यत्व प्रतिपादकानां वह्वीनां श्रुतीनां तदुपबृहक बहुस्मृतीति हासपुराणानामप्रामाण्यप्रसञ्जने हेयसम्बन्धस्य मिथ्यात्वेनाप्रामाण्यं परिहरसि तस्य यदि सत्वमङ्गीकरोषि तदा यादृशत्व विशिष्टाशुद्धिर्लोके तादृशीं ब्रह्मण्यप्यङ्गीकृतैवेति तच्छृतिप्रामाण्योपपादन - मुपच्छन्दमात्रमेवेत्यर्थः । उभयमिथ्यात्व इति । उभयविरोधोदोषः । अपसिद्धान्त निवृत्ति नैरपेक्ष्यं चेत्यर्थः ।व्याघातदयश्चेति । शुद्धयशुद्धयोर्भावाभावात्मकयोस्समानसत्ताकयोर्विरोध इत्यर्थः ।उभयोभिन्न सत्ताकत्वे च यद्यशुद्धे व्यावहारिकत्वं शुद्धेश्च प्रातिभासिकत्वमिष्यते तदा ब्रह्मणश्शुद्धिप्रतिपादकवेदा प्रामाण्यं स्यात् । यद्यशुद्धेः प्रातिभासिकत्वं शुद्धेव्यावहारिकत्वं तदासंसारस्य प्रातिभासिकत्वप्रसङ्ग इत्यादि दूषणान्यादि शब्दार्थः । नापीति । उपहितं ब्रह्मैवाद्याश्रयइत्यत्र किम् उपाधिरविद्यान्तरम् उतान्यः । उभयथापि सत्यत्वाङ्गीकारेऽपसिद्धान्तः । मिथ्यात्वे तु निराश्रयत्वे सत्यत्वापपत्त्या स्वाश्रयत्वेवाच्ये आश्रयान्तरऽसम्भवाद्ब्रह्माश्रयत्वे सत्ये केवलब्रह्मणाश्शुद्धिविरोधेन तदा (+++)श्रयासम्भवा - दुपहितस्यैव तदुपाध्याश्रयत्वे वाच्ये तदुपाध्याश्रयत्वमपि पूर्ववदुपाध्यन्तरति - रोहितस्यैवेत्यनवस्थास्यादेतत्वरिहारार्थं स्वस्यैवोपाधित्वे उच्यमाने स्वस्मिन्नपि स्ववृत्त्यापत्त्या विरोध इत्यर्थः । यदि (++++) उपाधिर्विशेषणं तदा तस्य संसारित्व प्रसङ्गः । यदि चोपलक्षणं ब्रह्मण एव सावद्यत्वादिप्रसङ्गइत्यादिरादिपदग्राह्यः । ब्रह्माज्ञान वादादित्यादिपदेन जीवाज्ञानपादादिपरित्यागः । तदज्ञाननिवृत्त्यर्थं पाद्यनुपपत्तिश्च विवक्षिता । तस्यापीति । स्वतन्त्रस्याप्यद्वितीयत्वभयादध्यस्तत्वं वक्तव्यमित्यधिष्ठानतया स्वतन्त्रोऽन्यो वाच्य इत्यनवस्था । तस्यस्वयमेव चेदधिष्ठानमात्राश्रयः पर न्योन्याश्रय इत्यर्थः । आश्रयाश्रयित्वयोरिति । भेदघटितत्वादाश्रयाश्रयिभावयोः स्वाभाविकभेदाभाव आैपधिको वक्तव्य इति भावः । कथं तर्हि “स्वेमहिम्नि प्रतिष्ठित’ (छां.7.24.1) इति श्रुतिरित्यत्राहः - आश्रयान्तरेति । आधार (+++) प्रयोजकाकारयोर्धमयोरप्यविरोधे द्रव्यत्ववृक्षत्वयोरिव कपिसंयोगतदभावयोरिव प्रयोजकत्वा सम्भवाद्विरोधे वाच्यतयोरप्येकाश्रयत्वयोपाध्यन्तरं कल्पनीयमित्यनवस्थेत्यर्थः । नन्वाधारात्येयत्व प्रयोजकाकारयोः परस्पर तादात्म्या (+++) धा एकत्र वृत्त्यनुपपत्तेस्तन्निर्वाह्ययोरप्याधारत्वाधेयत्वयोरप्येकत्र सम्भवान्नानवस्थेत्याशङ्कामन्द्य परिहरतिः - आद्येयाकारेति । आद्येयाकारःअधेयत्व प्रयोजकाकारइत्यर्थः । तस्य आधारत्वप्रयोजकाकारस्येत्यर्थः । स्वाधेयत्वमविद्यानिष्ठत्वमित्यर्थः । आश्रयत्वाधिष्ठानत्वयोर्भेदाभिप्रायेणशङ्कतेः - ननु मिथ्याभूताया इति । ब्रह्मण एव अधिष्ठानत्वसम्भवादिति भावः । भवत्पक्ष इति । आश्रयत्वाधिष्ठानयो - भेदाश्रयत्वाभावेऽधिष्ठानयोर्भेदादाश्रयत्वाभावेऽधिष्ठानत्वमपिन स्यादधिष्ठानत्वे जडत्वाद्यशुद्धयाश्रय - घटादिष्विव शुद्धिविरोधादुस्त्यज इति भावः । एकदेशिमते नाहः - घटादिति । अन्यथेति । यत्र यद ध्यस्तं न भवति तत्र तत्स्वात्यन्ता भाव समानाधिकरणं न भवतीति व्याप्त्या तत्र तस्य मिथ्यात्वासम्भवादिति भावः अविद्याध्यासोऽविद्याप्रतीतिः । तस्याप्यविद्याकार्यत्वातत्पूर्वमविद्याया अभावादविद्याप्रतीतिरेव (+++)दित्याहः - किञ्चेति । तदपत्यत्वं तत्कार्यत्वं तत्कार्यस्य च तदध्यासस्वरूपत्वमनुपपन्नं कार्यपूर्वकाले तदध्यासासम्भवेनाविद्यास्वरूपस्यैवासिद्धिप्रसङ्गादाध्यासिकस्याविद्यासकल एव नियतसत्ताकत्वादित्यर्थः । अन्यथेति । अविद्याकार्यत्वाभावेऽपि काल्पनिकत्वे तन्मूलदोषान्तरं वाच्यम् । तदध्यासस्यापि काल्पनिकत्वे तत्रापि दोषान्तरमित्यनवस्थेत्यर्थः । न च तत इति । अविद्याप्रतीतिरित्यनुषङ्गः । अन्तःकरणःविवृत्यपेक्षयेत्यर्थः । सा किं (+++) रूपा उतान्येति विकल्पमभिप्रेत्याद्य आह तस्या इति । काल्पनिकत्वाङ्गीकारादिति भावः । द्वितीय आहः - तदतिरिक्तसंविदन्तरेति । संविदन्तरं संविद्विशेषः । यद्वान्यत्वेति । अन्यत्वानन्यत्वान्यतरमात्रसहचरितत्वेन गृहीतरूपान्यरूपेणत्यर्थः । नहीति । प्रकाशइत्यर्थः । स्वभावनिह्नवस्साधारण धर्मप्रतीतिः । तत्प्रतीतौप्रकाशात्मकब्रह्मस्वरूपमेव न स्यात्तथाच तदधीनसत्ताकं किमपि न स्यात् स्वभावस्य स्वानतिरेकादिति भावः । प्राप्यनिवर्त्याया इति ।(+++)त्यर्थः । विभाषापः - इत्याप्नोतेर्णिचोऽयादेशा - भावपक्षेरूपम् । तेन निवर्तन क्रियया समानकर्तृत्वे सिद्धिः । आत्माह्यध्यसन्न विद्यां प्रापयति ज्ञानेन निवर्तयति च पूर्वं प्राप्यनिवर्ततेत्यर्थः । अविद्या (+++) इति स्वरूपेणैव प्रकाशेऽनर्थत्वादेर - प्रकाशात्प्रकाशाधीन सिद्धिकस्य तस्य प्रकाशाभावे चासिद्धेस्तत्वज्ञानात्प्रागनर्थसम्बन्धः ।तदुत्तरम्मनर्थनिवृत्तिरिति वैषम्यस्य निवृत्तिप्रसङ्गात्तदर्थशास्त्र वैयर्थ्यमित्यर्थः । क्वचित्तु (+++)त इति पाठो दृश्यते स तु प्रमादकृतः अपवर्गशब्दा वा तदर्थः प्रवृत्ति परः । समुच्चयस्त्विति । धर्मद्वयस्यैकाधिकरण्यमभेदाध्यासेन सन युक्तो भावाभावयोरिवेत्यर्थः । ननु जडाजडयो (+++) समुच्चय इत्यत्राहः - अन्यथेति । स्वभावतो विरोधाभावे शुक्तिरजतादावपि शुक्तिज्ञानादज्ञाननिवृत्तिस्यादिति तिरोधानादिभङ्गेषूक्तमिति भावः । अन्यत्रशब्दशास्त्रपरः । शास्त्रेणालमित्यप्याहुः । उभय ति) कोटिद्वयोक्तमित्यर्थः । ननु ब्रह्म विद्ययोरसाधारणंरूपद्वयं तयोर्विरोधश्च प्रतीयत एव न चैवं ब्रह्मण्यविद्याध्यासानुपपत्तिः । अधिष्ठानाध्यायमानयोरसाधारणाकारे प्रतीयमानाध्या (+++)था शश्वतिकविरोधे आलोकेविद्यमाने सन्तमसदर्शनाच्चेति शङ्कतेः - स्यादेतदिति । मुखाध्यांसानन्तरं क्रियत इति शेषः । यथा चेति । अतिरस्कृतेति छेदः । यथा वेति । अयं च निवर्तकसन्निधानेऽपि निवर्त्यसद्भावमात्र दृष्टान्तः । अनपह्नुतोऽभय स्वभावयोरिति । प्रतीयमानभेदकधर्मविशिष्टयोरित्यर्थः । आसत्ति विशेषः । तादात्म्यध्यास इत्यर्थः । परिहरतिः - किमस्मानिति । किं शब्दः आक्षेपे । इच्छामात्रमेव न तु तत्फलसिद्धिरित्यर्थः । वर्णनावशेनेति । दृष्टान्तोपन्यासेनेत्यर्थः । क्वचित्किमस्मान्वर्णनावशेन वशीचिकीर्षसि मैवमित्यस्ति पाठः ।तदा किं शब्दः प्रश्नपरः । मैवं तथा कर्तुं न शक्यमित्यर्थः । वशीचिकीर्षतीत्यन्तं पूर्वपक्षिवाक्यमित्यप्याहुः । सर्वत्रेति । भेदग्रहोहि तादात्म्याध्यासं प्रत्येव विरोधीति तादात्म्याध्यासो न स्यान्नतु संसर्गाध्यासः । संसर्गाध्यासं प्रत्यसंसर्गस्यैव प्रतिबन्धाकतया भेदग्रहस्य प्रतिबन्धकत्वाभावात्तस्मिन् सत्यपि दर्पणं मुखस्य संसर्गाध्यासस्सम्भवति (+++)ति नायं दृष्टान्त इत्यर्थः । ननु विरोधिभूतासंसर्गग्रहो सत्येवदर्पणे मुखसंसर्गाध्यास इव ब्रह्माविद्ययोर्भेदग्रहेप्य - भेदाध्यासोस्त्वित्यत्राहः - दर्पण इति । अन्तरालमसंसर्गः । नैरन्तर्य संसर्गः । यदि मुखदर्पणयोरसंसर्गग्रहो न स्यात्कथं दर्पणस्य मुखापेक्षया दूरस्थत्वग्रह इति शङ्कतेः - कथं तर्हीति । सान्तरालदर्पणग्रह इति । मुखासंसर्गविशिष्टदर्पणग्रह इत्यर्थः । अगृह्यमाणान्तरालेति । अगृह्यमाणदर्पणासंसर्गमुखस्वरूप ग्रह इत्यर्थः । तत एवेति । प्रतिस्रोतसा तेजः प्रवाहेण दर्पणासंसर्गस्य मुखग्रहेभावान्मुखग्रहणाच्च तेन दर्पणाभिप्रवृत्तनायनरश्मिजन्यज्ञानोपनीत दर्पणस्यमुखे संसर्गभ्रमो दर्पणे मुखमित्याकारकोजायत इत्यर्थः । यद्यपि दर्पणे मखासंसर्गग्रहे मुखे दर्पणासंसर्गग्रहेऽपि संसर्गज्ञानं न सम्भवति घटेघटग्रहवदिति भावः । अख्याति पक्षानुसारेणाहः व्यवहारमात्रमिति । किमिति । दृश्यत इत्यनुषङ्गः । अत्रत्विति । प्रथमप्रवृत्तनायरश्मिभिर्मुखासं सृष्टतया मुखज्ञानं भ्रमः । शैध्यातिदेशयातद्भेदाप्रतीतिरिति भावः । क्लप्तिरिति । भ्रम इत्यर्थः । विरोधगन्धः - अनुपपत्तिगव्दा इत्यर्थः । यथावाऽतिरस्कृतो भयस्वभावयोर्दीपकज्जलयोस्सम्भेद इत्यत्र यथा दीपकज्जलयोर्भेदेभासमानेप्य भेदोध्यस्यते - तथा त्रापीति विवक्षितम् । उत यथा दीपकज्जकलयोर्विरुद्धयोरपि संसर्गस्तथेहापि विरुद्धयोरपि विद्याविद्ययोस्संसर्ग इत्येवं विकल्पमभि प्रेत्याद्यं दूषयतिः - तत्राध्यासेति । द्वितीयं दूषयतिः - वध्यधातकेति । वध्यघातकभावो निवर्त्यनिवर्तक भावः आदिशब्देनैकस्मिन् काले सहानवस्थानियमो विवक्षितः । ननु मूर्तयोस्समानदेशत्वविरोधेऽपि यथा दीपकज्जलयोस्समानदेशत्वमेवमिहापि निवर्त्य - निवर्तक्योस्सामान्यतो विरोधेसत्यपि विद्याविद्ययोरविरोधोस्त्वित्यत्राहः - मूर्तयोरिति । विरोधः उपपत्तिः ।समानदेशत्वं दीपकज्जलयोर्नास्त्येवेत्यर्थः । आलोकेति । यद्यप्यालोकसन्तमसयोः निवर्तकभावोस्त्येव तथापि समानदेशत्वेनैव । तथा च भिन्नदेशस्थस्यानिवर्तकत्वात्सामीप्यलक्षणस्संसर्ग उपपद्यत इति भावः । ननु ब्रह्माविद्ययोरपि सादेश्य एव विरोदा इदानीं च परस्परं समीपदेशत्वा (+++) न चेति । आदिपदेन परस्परावच्छिन्नात्यन्ताभाव प्रतियोगित्वादि गृह्यतेः - परिच्छिन्नत्वादीति । मिथ्यात्वादिति किञ्ञ्च स्यादिति भावः । अविद्याब्रह्मासत्तिरविद्या ब्रह्मणोरा सत्तिस्तादात्म्याध्यासः । एवमविद्या ब्रह्मात्मना प्रकाशत इति पक्षो दूषितः । द्वितीयतृतीयपक्षौ दूषयन् सर्वत्र दूषणान्तरमपि गृह्णातिः - एवमन्यापीति । मिथ्यापदार्थस्याधिष्ठानसत्यमेव सत्वमिति तवसिद्धान्तः । तच्च तादात्म्यध्यास एव स्यात्ततश्च ब्रह्मण्य(+++)स्तदन्यत्वेन प्रकाशमानायास्तादात्म्येनाध्यासाभावे व्यावहारिकत्व प्रातिभासिकत्वयोरयोगात्पारमार्थित्वं स्यात् । साधारणाकारेणभाने सत्ताप्रतीतिर्नस्यात् तस्या असाधारणत्वात् । किञ्चाविद्याया व्यावहारिकत्वे प्रातिभासिकरजतोत्पत्तिर्नस्यात् । प्रातिभासिकत्वे व्यावहारिकघटाद्युत्पत्तिर्नस्यत् । असरूपादप्यसरूपोक्तावभआव एवाविद्यास्यादभावादपि भावपरिणामे बाधकाभाव इत्यादीनिपरश्शतानि दूषणानि प्राप्नुवन्तीत्यर्थः । (+++) पन्नानिमिथ्याभूता तर्हि भवदुक्ताधिष्ठानानङ्गीकरेऽध्यासो न स्यात् अध्यासार्थम्ब्रह्मसदित्यङ्गीकार्येमिति ब्रह्मसाधनं न स्यादित्याहः - हन्तेति । अविद्यास्वरूपमपि दुर्घटं चेत्परपक्ष विजय एव स्यादित्याहः - तर्ह्यस्माभिरिति । वत्सकुलजलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायाम् एकचत्वारिंशो वादस्समाप्तः ॥