॥ अथ जीवाज्ञानभङ्गवादः चत्वारिंशः ॥40॥
अखिलचिदचिदन्तर्यामितां प्राप्य तिष्ठन् स्वयमखिलगुणाढ्यस्सूरिभिर्नित्यसेव्यः ।
निजचरणनिषेवावैभवेनापराधान् व्यपनयति नराणां व्यक्तमेनं भजामः ॥
ये पुनः प्रसक्तं ब्रह्मणोऽविद्यादिरूपमसाध्यदोषं भिषज्यन्त इवाहुः - न ब्रह्मणि साक्षादज्ञान संसारादिगन्धः, अविद्यान्तः करणप्रतिबिम्बितस्य तस्य जीवत्वात्; जीवाश्रयत्वाच्चाज्ञानसंसारादेः ।
यद्यपि मूलबिम्बस्वरूपेण प्रतिबिम्बेनापि भवितव्यम्, तथापि यथा मणिकृपाणदर्पणादि प्रयुक्ताल्पत्वमलिनत्वतरलत्वादयो धर्माः प्रतिबिम्बैकवर्तिनो वस्तुतस्तदभिन्नेऽपि मुखे न सम्बध्यन्ते, नापि परस्परं सङ्कीर्यन्ते, तथाऽत्रापि ब्रह्मप्रतिबिम्बभूतजीवगता दोषा ब्रह्मणि न सम्बध्यन्ते, प्रतिजीवं नियताश्च भवन्ति ।
वस्तुतो ब्रह्माव्यतिरिक्तानां जीवानां कथमशुद्धिरिति चेन्न; मुखाव्यतिरिक्तानां प्रतिबिम्बानां कृपाणाद्युपाधिकश्यामत्वादिवदौपाधिकाशुद्धिसम्भवात् ।
अत एव जीवेश्वरबद्धमुक्तशिष्याचार्यादिव्यवस्थाश्च सिध्यन्ति ।
नन्वविद्यास्वरूपलाभे तत्र जीवाख्यप्रतिबिम्बप्रकाशः, तत्प्रकाशे तदाश्रयाविद्याकॢप्तिरित्यन्योन्याश्रयणं प्रकटमिति चेन्न; उभयोर्बीजाङ्कुरन्यायेनानादितया परिहारात् ।
नच प्रासादनिगरणादिवदवस्तुरूपत्वेनानुपपन्नतैकवेषाया मविद्यायामितरेतराश्रयत्वादयो वस्तुदोषाः क्षतिमावहन्ति ।
यद्वा स्वरूपत एवाविद्यानां तत्कल्पितानां च जीवानामनादित्वमस्तु, एकजीववाद इवानेकजीववादेऽपि तदविरोधात्।
मुखप्रतिबिम्बश्यामत्वादेरिव जीवाशुद्धेरपि मिथ्यात्वात् ज्ञाननिवर्त्यत्वमप्युपपद्यते ।
प्रतिबिम्बस्थानीयानामपि जीवानां परमार्थब्रह्माव्यतिरेकात् ।
* अनेन जीवेनात्मनाऽनुप्रविश्येत्यपि परब्रह्मणो जीवतादात्म्यानुसन्धानमप्युप पद्यते ।
अत एव * क्षेत्रज्ञं चापि मां विद्धीत्यादिकमपि निर्व्यूढम् ।
एवं परमार्थतो ब्रह्माव्यतिरेकेऽपि काल्पनिकभेदाश्रयणेन व्यवस्थेत्युक्तमिति ॥
अत्र ब्रूमः - तत्र तावदन्तः करणप्रतिबिम्बाद्यसम्भवस्यान्यत्र प्रतिपादनात्तन्निबन्धनजीव भेदादिकॢप्तिरपि निर्मूलैव, अथाऽपि वदामः ।
किं जीवानामकल्पितेन स्वाभाविकेन रूपेणाविद्याश्रयत्वम्? उत तदतिरिक्तेन तस्मिन् कल्पितेन? अथ कल्पिताकारविशिष्टस्वरूपेण? जडस्य स्वाज्ञाननिवृत्तिवाञ्छानुपपत्तेः, जडस्याज्ञानप्रसङ्गाभावाच्च, अज्ञाननिवृत्तेः पुरुषार्थत्वमपि न स्यात् ।
नच तृतीयः, तत्र किं स्वकल्पिताकारविशिष्टे वा स्वयमविद्या तिष्ठेत्, अविद्यान्तरकल्पिताकारविशिष्टेवा? पूर्वत्र आत्माश्रयत्वमन्योन्याश्रयणं वा, स्वकल्पिताकारविशिष्टस्वरूपलाभे सति स्वात्मलाभवर्णनात् ।
उत्तरात्राप्युक्तचोद्यावतारे अविद्यान्तरापेक्षायामन्योन्याश्रयचक्रकानवस्थान्यतमापत्तेः ।
किञ्च सर्वजीवभेदकल्पिकाविद्या किमेका, उत प्रतिजीवं भिन्ना? पूर्वत्र एकमुक्तावविद्याविनाशात् सर्वमुक्तिप्रसङ्गे कथं बद्धमुक्त व्यवस्था? अन्यस्यामुक्तत्वे त्वविद्यास्थित्यवश्यम्भावात् कथमेकस्यापि मोक्षः? उत्तरत्रापि जीवभेदे स्थिते तन्मूलाविद्याभेदकॢप्तिः, तन्निश्चयाच्च जीवभेदकॢप्तिरिति परस्पराश्रयणम् ।
नच सत्यो जीवभेदस्त्वयेष्यते ।
नच तदा तत्सिद्ध्यर्थमविद्याकल्पनमपेक्षयते ।
प्रत्यक्षादिसिद्धजीवभेदानुसारेण तत्कल्पकाविद्याभेदक्लृप्तौ को विरोध इति चेन्न; प्रत्यक्षादिसिद्धस्य जीवभेदस्य अस्मन्मतेन सत्यतायां तन्मूलभूताविद्याकल्पनवैयर्थ्यात् ब्रह्मज्ञानवादेन तु जीवभेदस्य अस्मन्मतेन सत्यतायां तन्मूलभूताविद्याकल्पनवैयर्थ्यात् ।
ब्रह्माज्ञानवादेन तु जीवभेदस्य मिथ्यात्वेनैव जीवैक्यात् तद्भेदक्लृप्त्यर्थाविद्याभेदक्लृप्त्यनुपपत्तेः ।
उभयपक्षोल्लङ्घिनः परमार्थस्य वाऽपरमार्थस्य वा भवदभिमतस्य जीवभेदस्याप्यसिद्धेः ।
किञ्च याभिरविद्याभिर्जीवाः कल्प्यन्ते किं तासां ब्रह्मैवाश्रयः? उत जीवा एव? आद्ये ब्रह्माज्ञानमपरिहार्यम् ।
द्वितीये भिन्नजीवाश्रयाविद्याभेदसिद्धौ जीवभेदः, तत्सिद्धौ च तदाश्रयाविद्याभेदसिद्धिरिति मिथस्संश्रयः ।
अत जीवभेदकल्पनार्थं नाविद्यान्तरापेक्षा, बद्धमुक्तव्यवस्थासिद्ध्यर्थं कल्पिताभिरेवाविद्याभिर्जीवभेदस्यापि सिद्धेरिति चेन्न; प्रागुक्तपरस्पराश्रयानतिलङ्घनात् ।
बीजाङ्कुरन्यायेन तदुल्लङ्घनमिति चेत्? किं याभिरविद्याभिर्ये जीवाः कल्प्यन्ते तासां तज्जीवाश्रयाणामेव बीजाङ्कुरन्यायमिच्छसि? उत पूर्वपूर्वजीवाश्रयाभिरविद्याभिरुत्तरोत्तरजीवकॢप्तिः? न प्रथमः, तत्र बीजाङ्कुरन्यायस्यासम्भवात्; न हि यदङ्कुरोत्पादकं यद्बीजं तदेव तस्यारम्भकम् ।
नापि द्वितीयः, जीवानां भङ्गुरत्वादिप्रसङ्गेन जीवनित्यत्वाजडत्वादिश्रुतिविरोधात्; अताभ्यागमकृतवि प्रणाशादिप्रसङ्गाच्च ।
सन्तानैक्यादविरोध इति चेन्न; क्षमभङ्गवादस्य दुर्निरसनत्वप्रसङ्गात् ।
जीवब्रह्मणोरत्यन्तवैदेशिकत्वप्रसङ्गाच्च ।
अथ ब्रह्मण एव पूर्वपूर्वजीवभावाश्रयाभिरविद्याभिरुत्तरोत्तर जीवभावप्रकल्पनमिति मन्यसे, तदपि दत्तोत्तरम्, अविद्याप्रवाहकल्पितजीवभावस्यापि तद्वत्प्रवाहानादित्वे ध्रवरूपताभङ्गप्रसङ्गात् ।
नच तदिष्टम्, आमोक्षाज्जीवभावस्य ध्रुवत्वाभ्युपगमात् ।
यत्त्ववस्तुरूपायाम विद्यायां नेतरेतराश्रयत्वादयः वस्तुदोषाः क्षतिमावहन्तीति, तद्ब्रह्माज्ञानवादे दुर्घटत्वपक्षदूषणेनैव निरस्तम् ।
एवं च सति ब्रह्माज्ञानवादे मुक्तानामज्ञानसद्भावे को विरोधः? शुद्धविद्यास्वरूपे तत्र तेजसीव तमसः कथमशुद्धेस्सम्भव इति चेन्न; अवस्तुभूतायामसम्भवस्यैव त्वया गुणत्वस्वीकारात् ।
अन्यथा कथं प्रागुक्तेषु बाधकेषु जीवत्सु जीवाश्रयाविद्याकॢप्तिः? तेन
जीवाश्रयाविद्यामपि दुर्घटय, सुघटय वा ब्रह्माश्रयाविद्यामेव ।
यत्तु मिथस्संश्रयादिपरिहारस्य स्वरूपत एव जीवकल्पिकाविद्यानां तत्कल्पितजीवानां चानादित्वमस्त्वित्यन्वारूढम्, तत्र किमेकैकजीवकल्पिकाविद्या जीवानां जीवान्तरदर्शने कारणम्, नवा? पूर्वत्र जीवान्तरदर्शनस्यापि भ्रमरूपत्वात् तयैवानन्तजीवकॢप्तिरनिवार्या ।
तथाच जितमेकजीववादेन, लाघवात्; दोषाणाञ्चाविशिष्टत्वात् ।
उत्तरत्र जीवानां परस्परवार्तानभिज्ञत्वप्रसङ्गेन वादिप्रतिवादिशिष्याचार्यादिव्यवस्थाभङ्गः ॥
यत्पुनरुक्तं प्रतिबिम्बश्यामतादेरिव जीवाशुद्धेरपि मिथ्यात्वज्ज्ञाननिवर्त्यत्वमुपपद्यत इति; तदप्यसत्, अशुद्धिनाशे तत्तदशुद्धिहेतुभूताविद्याख्योपाधिविगमे च प्रतिबिम्बस्थानीयो जीवस्तिष्ठति वा, न वा?तिष्ठति चेदाविद्यकभेदस्थितेरनिर्मोक्षः ।
न चेज्जीवस्य स्वरूपोच्छित्तिरेव मोक्षः स्यादित्यवैदिकमतावतारः ।
मुखात्मना प्रतिबिम्बमिव ब्रह्मात्मना जीवस्तिष्ठतीति चेत्; किं प्रतिबिम्बस्यात्मा मुखम्? तथा सति सत्यमिथ्यैक्यादिप्रसङ्गात् ।
अत एव दार्ष्टान्तिकमपि निरस्तम् ।
किञ्च यस्य ह्यपुरुषार्थरूपो दोषः स्वनिष्ठतया प्रतिभासते तस्य तदुच्छेदापेक्षा स्यात्, तत्र किं बिम्बस्थानीयेन स्वात्मनैव स्वगताशुद्धिं पश्यति ब्रह्म? उत प्रतिबिम्बस्थानीयेन जीवात्मना? उतान्येन केनचिदात्मना? अथान्य एव कश्चित्पुरुषस्थानीयः पश्यतीति? न प्रथमः, ब्रह्माज्ञानवादप्रसङ्गात् ।
न द्वितीयः, स्वाशुद्धिनिवृत्तेः प्रतिबिम्बवत्स्वनाशाविनाभावेन तदुच्छेदापेक्षाविरहप्रसङ्गात् ।
मुख्यबिम्बप्रतिबिम्बभावविवक्षायां च द्वयोरपि कल्पयोर्मुखादि वद्दोषप्रतिभासाधारत्वायोगाच्च, तद्वदेवाचेतनत्वात् ।
न तृतीयचतुर्थौ, असम्भवादनभ्युपगमाच्च ।
किञ्च जीवकल्पनारूपो भ्रमः किमविद्यायाः? उत जीवस्यैव? अथ ब्रह्मणः? नाद्यः, अचेतनत्वात्तस्याः ।
न द्वितीयः, भ्रमविषयतयैव स्वसिद्धौ भ्रमोदयात्प्राक्स्वरूपासम्भवेन निराश्रयभ्रमोदयासम्भवात् ।
स्वभ्रमाश्रयतया पूर्वमेवात्मसद्भावे त्वात्माश्रयः ।
कल्प्यकल्पनायाः स्वकल्पकत्वं च शुक्तिरजतादिषु न क्वचिद्दृष्टमितितत विरुद्धोपलम्भबाधः।
न तृतीयः, ब्रह्माज्ञानवादप्रसङ्गादेव ।
यत्पुनरुक्तम् - जीवात्मनामपि वस्तुतो ब्रह्माव्यतिरेकात् *जीवेनात्मनेति ब्रह्मणो जीवतादात्म्यानुसन्धानं युक्तमिति; तदप्यसारम्, जीवानुसन्धानस्य कल्पितत्वे ब्रह्माज्ञानवादावतारात् ।
अकल्पितत्वे सयूथ्यदूरापक्रमणप्रसङ्गात् ।
अनुभयात्मत्वे त्वनुसन्धानासिद्धेरेव ब्रह्मणो बहुभवनसङ्कल्परूपेक्षणतत्पूर्वकविचित्र सृष्टिजीवात्मत्वानु सन्धानतत्पूर्वनामरूपव्याकरणादिवदनादिसमस्तव्यापारनिरोधेन समन्वयाविरोधलक्षणोक्त समस्तार्थविलयप्रसङ्गात् ।
अत एव भास्करोऽस्तमितः, ब्रह्मणो जीवतादात्म्यानुसन्धाने स्वात्मनो दुःखाद्यनुसन्धानस्य दुर्वारत्वात्; तदभावे बहुभवनसङ्कल्पानुपपत्तेरिति ।
यादवप्रकाशमते तु प्रतिसर्गदशायां सन्मात्रपरिशेषस्य ब्रह्मणश्चिदचिदीश्वरसृष्ट्यनुरूपसङ्कल्पप्रसङ्गो न सम्भवतीति विशेषः ।
प्राचीनकल्पान्ते भविष्यत्सृष्टिसङ्कल्प इति चेन्न; तथात्वे प्रमाणाभावात्, प्रतिसर्गमनन्तरसङ्कल्पश्रुतेर्बाधकाभावाच्च ।
अतो यावद्ब्रह्मणाः परस्परं च जीवानामत्यन्तभेदः पारमार्थिको नाङ्कीक्रियते न तावज्जीवेश्वरबद्धमुक्तादि व्यवस्थासिद्धिरिति ।
जीवाज्ञानविभागादीश्वरचिदचिद्विभागकॢप्तिरभूत् ।
इति कल्पयतां जीवः कारणमीशस्तु तत्कार्यम् ॥ तेनाद्वैतवादिनां पारम्पर्यवैपरीत्यकॢप्तिः पाषण्डपदपर्यवसानभूमिरिति परित्यजन्ति सन्तः ॥
॥इति शतदूषण्यां जीवाज्ञानभङ्गवादः चत्वारिंशः ॥40॥
नृसिंहराजीया
प्रसङ्गसङ्गतिमभिप्रेत्य वादार्थं सङ्गृहणातिः - अखिलेति । अखिलगुणानि निखिल चिदचिदन्तर्यामी(+)त् जीवगतामज्ञानमिति ब्रह्मणो दोषाभावो वक्तव्यः । न त्वभेदे ज्ञत्वे तदभिन्नस्य जीवस्यज्ञत्वायोगात् जीवस्याज्ञानाश्रयत्वजीवाभिन्नब्रह्मणोप्यज्ञत्वप्रसङ्गादिति मायिना ब्रह्मणोविद्याविरहे जीवोविद्येति व्यवस्था वक्तुं न शक्यत इति वादार्थ सङ्ग्रहः । ब्रह्मणः प्रसक्त इति । संसारस्य जीवगतत्वात्तन्मूलभूता ज्ञानमपि तद्गतमेवेति तदभिन्नस्य ब्रह्मणो न ज्ञानसंसारानादिः । निर्दोषश्रुति विरुद्धमिति ब्रह्मणो दोषपरिहारमाहुरित्यर्थः । इव शब्देन परिहारस्यासाध्यत्वं धीत्यते । साक्षादिति जीवद्वारा ज्ञानासम्बन्धादिति भावः । संसारोजन्म । आदिशब्देन तत्कार्य परिग्रहः । मतभेदेना विद्यान्तः करण प्रतिबिम्बित (+++) प्रतिबिम्बयोरभेदाज्जीवगतधर्मा ब्रह्मणि स्युः । तत्तज्जीवगतधर्माणामपि परस्परसाङ्कर्याप्रसङ्ग इति । शङ्कतेः - यद्यवीत्यादिना प्रतिबिम्बमूलभूतस्य बिम्बस्यस्वरूप धर्मो यस्येति तथोक्तः । तथा च प्रतिबिम्बगतधर्मबि (+++)यं नियमस्साधुः । बिम्बे सतामपि धर्माणां प्रति बिम्बेदर्शनादित्याहः - तथापीति । तथा च जीव गतदोषा न ब्रह्मणि स्युरिति भावः । माभूज्जीवगतशुद्धिज्जीवेत्याशङ्कतेः - वस्तुतो ब्रह्मेति । स्वतो वर्तुलाद्यपि मुख्य दै(+++) ब्रह्मशुद्धयाशुद्धस्यापि जीवस्यौपाधिकाशुद्धौ बाधकाभावादिति परिहरतिः - न मुखेति । अत एवेति । बिम्बधर्माणां प्रतिबिम्बे तिरोहितत्वात्प्रतिबिम्बधर्माणां बिम्बगतत्वाभावात्तत्त प्रतिबिम्बधर्माणां परस्परमसाङ्कर्याच्चेत्यर्थः । नन्वविद्यास्वरूपे सिद्धे तदुपाधौ प्रतिबिम्बप्रकाशः तत्प्रकाशे सति तत्समानकालीन प्रतिबिम्बत्वलाभात्प्रतिबिम्ब जीवाश्रया विद्यासिद्धिरित्यन्योन्याश्रय इत्याशङ्क्य प्रतिबिम्बन्तराश्रिताविद्योपाधिना प्रतिबिम्बान्तरप्रकाशे तदाश्रयाविद्यान्तरं तदविद्यया च प्रति बिम्बान्तरमिति बीजाङ्कुरन्याया द्वा अविद्यायामिथ्यात्वे नेतरेत्तराश्रयत्वरूपानुपपत्तेर्भूषणत्वाद्वा अविद्याजीव तत्सम्बन्धानाम् आधरस्वरूपत एवानादित्वाद्वा न दोष इत्याहः - नन्वित्यादिना । नन्वेक जीववादिनैव स्वरूपानादित्वस्थोक्तत्वादनेक जीववादे कथमयं परिहार उच्यत इत्याशङ्क्य एकजीववाद इव जीवानादित्वश्रुतेस्दङ्गीकारे विरोधाभावादित्याहः - एकजीववाद इति । ननूपाधि प्रयुक्तधर्माणां भेदानां घटाकाशादिगतानां सत्यत्वदर्शनान्न जीवगताशुद्धेरौपाधिकत्वान्मिथ्यात्वमुपपद्यते । तदभाने च ज्ञान निवर्त्यता स्यात्तदभावे च मोक्षस्य तत्वज्ञान साध्यता न स्यात् । जीवगतशुद्धेरेवमोक्षत्वादित्याशङ्क्य प्रतिबिम्बोपाधि प्रयुक्तधर्मस्य मिथ्यात्वदर्शनादिहाप्यशुद्धेर्मिथ्यात्वं ज्ञाननिवत्यत्वं चोपपद्यत इति परिहरतिः - मुखेति । नन्वेवं जीवस्य ब्रह्म प्रतिबिम्बरूपत्वे बिम्बप्रतिबिम्बयोभिन्नयोर्विरोधेना - भेदायोगाद्ब्रह्मणो जीवतादात्म्यानुसन्धानं न स्यादित्याशङ्क्य समानसत्ताकयोरेवाभेदयोर्विरोधात् भेदस्य पारमार्थिकत्वात् भेदस्यानिर्वचनीयत्वाद्भेदेसत्यपि जीवतादात्म्यमुपपद्यत एवेत्याहः - प्रतिबिम्बेति । तर्हि पारमार्थिकाभेदे जीवब्रह्म साङ्कर्य स्यादित्याशङ्क्य पूर्वोक्तं स्मारयतिः - एकमिति (+++) तस्य प्रतिबिम्बासम्भव उक्त इत्यर्थः । अकल्पितेनेति । विशेष्यमात्रस्य भोजनान्वयेऽपि दण्डीभुक्त इति व्यवहारात्स्वरूपेण तदाश्रयत्वेऽपि जीवस्याज्ञानाश्रयत्व नाविरुद्धमिति भावः । उत तदतिरिक्तेनेति । स्वर्गीध्वस्त इति व्यवहारस्य विशेषणमात्रान्वयेऽपि सम्भवादिति भावः । इष्टापत्तिमाहः - जडस्येति । नित्यत्वं यवदाश्रयानुबन्धित्वम् । जडस्य यावत्स्वरूपाज्ञतया तस्मिन् सत्येव तदज्ञान निवृत्तिरनु - पपन्नेत्यर्थः । ननु जडस्य न भावरूपाज्ञानं यावत्स्वरूपानुबन्धि किन्तु ज्ञानाभावारूपम् । तथा च स्वाश्रये सत्येव तदज्ञाननिवृत्तिरनुपपन्नेत्यर्थः । ननु जडस्य न भावरूपाज्ञानं यावत्स्वरूपानबन्धि किन्तु ज्ञानाभावरूपं तथा च स्वाश्रये सत्येव तदज्ञाननिवृत्तिरस्त्वित्याशङ्क्य जडत्वात्स्वज्ञाननिवृत्ति वाच्छब्दानुपपत्तेरज्ञाननिवृत्तेरर्थ्यमानत्वाभावाज्जडत्वादेवाखण्डानन्दाभासा प्रसक्त्या तदभवासार्थक्तप्राज्ञानस्याप्यप्रसक्तेस्तन्निवृत्तेः पुरुषार्थत्वासम्भवामोक्षशास्त्रव्याक्तोप इत्याहः - जडस्य स्वाज्ञानेत्यादिना । तृतीयेपीति । जडाज्ञानवादस्तदवस्थः । अज्ञानस्य व्यासज्यवृत्तित्वाभ्युपगमे च मुक्तिससारयोरपि तथात्वापत्तिरित्यभिप्रायेणाहः - नापीति । विकल्पमुखेन दूषणान्तरमाह तत्र किमिति । किं स्वकल्पिताकरः स्वयमेव उत धर्मान्तरं नाद्य इत्याहः - पूर्वत्रेति । द्वितीय आहः - अन्योन्येति नन्वविद्या स्वकल्पिताकार विशिष्टमात्मानमाश्रयति चेत्कथमात्माश्रयः कथं च न्योन्याश्रयः । आश्रयणस्य कल्पिताकारवैशिष्ट्यापेक्षायाम्मपि स्वरूपे तदनपेक्षणादित्यत्राहः - स्वकल्पितेति । कदाचिदप्यज्ञानस्य निराश्रयत्वनङ्गीकाराश्रयणं विनास्वरूपं नास्तीति भावः । अविद्यान्तरकल्पिताकर विशिष्टऽविद्यातिष्ठतीति पक्षे अविद्यान्तरस्य स्वकल्पिताकारविशिष्टे वृत्त्यङ्गीकारे पूर्ववदात्माश्रयादि प्रसङ्गेनाविद्यान्तरकल्पिताकारविशिष्टाश्रयत्वेवक्तव्ये तस्याविद्यान्तरस्य स्वनिर्वाह्याश्रयत्वाकारक विद्यापेक्षयामन्योन्याश्रयः स्वनिर्वाह्यनिर्वाहया विद्यान्तरापेक्षायां कथं तत्परिजिहीर्षयाविद्यान्तरा पेक्षायाम्मनवस्थेत्याहः - उत्तरत्रेति । एवं जीवश्रयत्वे दूषणमुक्त्वा प्रसङ्गादज्ञाने दूषणान्तरमाहः - किञ्चेति । सर्वमुक्तिप्रसङ्गइत्यनन्तरं कथमन्यस्य सम्बन्धइत्यध्याहारः । एवमुक्तत्वे ह्येविद्याविनाशादविद्यानन्तरां भावात्सर्वमुक्तिर्वास्यादमुक्तत्वे एकस्याप्यज्ञान विनाशाभावात्सर्वेषामप्यविद्यावत्वात्सर्वबन्धः स्यादिति न व्यवस्थेत्यर्थः । उत्तरत्रेति । जीवभेदेनिश्चिते तद्भेदोपपादकतया च विद्याभेदक्त्यप्तिः क्लप्ते चाविद्याभेदे उपाधिभेदादुपधेयभेदावश्यकतया जीवभेद कॢप्तिरिति परस्पराश्रय इत्यर्थः । ननु त्वन्मतइव जीवभेदनिश्चयस्य नोपाधिभेद निश्चयधीनतेत्याशङ्क्यास्मन्मतो जीवभेदस्य सत्यतयोपाध्यन पेक्षत्वाज्जीवभेदस्य तद्ज्ञानमुपाधिभेद ज्ञानाधीनमेव । न हि घटादि भेद ज्ञानाभावे आकाशभेद ज्ञानं दृष्टमित्यभिप्रायेणाहः - न च सत्य इति । गत्यन्तराभावज्जीवभेदस्य सत्यत्वमिष्यत इत्याशङ्क्याविद्याभेदकल्पनमेव तथा सत्युपपन्नमित्याहः - न च तदेति । ननु प्रत्यक्षेण श्रुतिस्मृतिभ्यां च जीवभेदस्यसिद्धौ स्वाभाविकस्य तस्य श्रुति स्मृतिभ्यामेव निरासात्तस्योपाधिकत्वसिद्धये विद्याभेदकल्पनमुपपद्यत इत्याशङ्कतेः - प्रत्यक्षादीति सिद्धो जीवभेदोस्मन्मत इव सत्य एवेष्यते उत ब्रह्माज्ञानमत इव मिथ्यात्वेनेति विकल्पमभिप्रेत्य क्रमेण दूषयतिः - प्रत्यक्षेति । जीवभेदस्य मिथ्यात्वेनैव जीवभेदस्याभावेनेत्यर्थः । ब्रह्माज्ञानवादे व्यावहारिकोऽपि जीवभेदोनास्तीति भावः । ननु जीवभेदोऽस्तु स च कल्पित इत्यत्राहः - उभयेति । स्वाभाविक (+++) च जीवभेदस्यायोगेन तव व्यावहारिक जीवभेद एव न स्यादित्यर्थः । उत्तरपक्ष एवाहः - किं चेति । अपरिहार्यमिति । तत्र चानुपपत्तिरुक्तैवेति भावः । द्वितीयेऽविद्याभेदे सति जीवभेदः तस्मिंश्च सति जीवभिदाश्रयत्वं तस्मिंश्च सत्यविद्याभेद इति चक्रकमभिप्रेत्याहः - द्वितीय इति ॥ मिथ्यस्संश्रयश्चक्रकमित्यर्थः । अनन्तरोक्तस्यान्योन्याश्रयस्य परिहारं शङ्कतेः - अथ जीवेति । बद्धेति । इदानीं बद्धस्यानुभवाच्छुकादिमुक्तेश्च प्रमाणसिद्धत्वात्स्वाभाविक भेदस्य च निषेधाद्वादाद्युक्तमन्योन्याश्रयं स्मारयति प्रागुक्तेति । तदेव तस्यारम्भकमिति । तदङ्कुरमेवतद्बीजारम्भकमित्यर्थः । भङ्गुरत्वादिति । आदिशब्देनोत्पत्तिर्गृह्यते । वैदेशिकत्वप्रसङ्गादिति । भेदप्रसङ्गादित्यर्थः । एकस्य ब्रह्मणोऽनेकैर्जीवैरभेदानुपपत्तिरिति भावः जीवभावश्रयाभिरिति । जीवभावाधीनाभिरित्यर्थः । क्वचित्तु जीवाश्रयाभिरिति पाठः । स सुगम एव । दत्तोत्तरत्वमुपपादयतिः - अविद्येति । तद्वदिति । जीवकल्पकाविद्यावदीत्यर्थः। तदेव दूषणं स्मारयति एवं चेति । तेनेति । जीवाश्रयाविद्याङ्गीकारे ब्रह्माश्रया विद्यापि दुष्परिहरेति भावः । अन्वारूढमिति । कल्पितस्य सादित्वनियमेप्यनादित्वमभ्युपगतमित्यर्थः । एकैकेति । जीवकल्पिता एकैकाविधेत्यर्थः पूर्वत्रेति । एकस्य जीवस्येतरजीवदर्शनं हि भ्रमरूपमेवा अतस्तत्रार्थाभावत्सोऽपि स्वाप्नजीवान्तरजीवान्तरवत्तदविद्या कल्पित इति वाच्यम् । एवं जीवान्तरस्यापि जीवान्तरदर्शनं भ्रमरूपमिति तद्दृष्ठजीवान्तरमपि तदविद्याकल्पितं वाच्यं ततश्चानेकजीववादे प्रतिस्वप्नमिव बहुजीवकल्पनाप्रसङ्गादेक एव जीवः स्वाप्नन्यायेन तत्कल्पित जीवान्तरमित्यङ्गीकारे लाघवमित्येकशरीरैकजीववाद एव वरमित्यर्थः । परस्परेति । परस्परज्ञानाभावाच्छिष्यस्याज्ञातत्वे कस्मा उपदिशेदाचार्यस्य चा ज्ञातत्वे कमुपगच्छेदिति व्यवस्था न स्यादित्यर्थः । अशुद्धिः - ज्ञातृत्वादिः। (+++)दिति भाव - न चेदिति । प्रतिबिम्बस्यैव जीवत्वादिति भावः । मुखात्मना - बिम्बभूतमुखात्मनेत्यर्थः । प्रतिबिम्बात्मा प्रतिबिम्बस्य स्वरूपमित्यर्थः ।सत्यमिथ्यैक्यादि प्रसङ्गादिति । प्रतिबिम्बस्यमिथ्याभूतत्वादित्यर्थः । (+++)कं जीवोब्र (+++)तमित्यर्थः ।किञ्चाशुद्धिनिरासतत्साधनानुष्ठानादेवान्यथा श्रवणादिरूप तत्साधन वैयर्थ्यापत्तेः तदनुष्ठानं च तत्फलभूताशुद्धिनिवृत्तिभ्यां विनानोपपद्यते तदिच्छा चत्वन्मते न सम्भवति अशुद्धि (+++) शपर्यवसितत्वादतो नाशुद्ध्युच्छेदोपपत्तिरित्याहः - किञ्चेति । बिम्बस्थनीयेनेति । लोकसिद्धमुखादिबिम्बस्वरूपेणेत्यर्थः । प्रतिबिम्बस्थानीयेनलोकसिद्धमुखादिबिम्बस्वरूपेणेत्यर्थः । प्रतिबिम्बवदिति - प्रतिबिम्बस्थले श्यामतानिवृत्तेः प्रतिबिम्बनिवृत्त्यविनाभाववदित्यर्थः । किञ्च ब्रह्मजीवयोः बिम्बप्रतिबिम्बभावः किं मुख्यः उत अमुख्यः । आद्येत्वदभिमत व्यवस्थाया असिद्धिरित्यभिप्रेत्यद्वितीयं दूषयतिः - मुख्येति । द्वयोरिति । ब्रह्मणो जीवस्य वा दोष प्रतिभासाश्रयत्वपक्षयोरित्यर्थः ।आदिशब्देन प्रतिमुखपरिग्रहः । तद्वदेवेति । चाक्षुपस्यैव प्रतिबिम्बोपपादनात्तस्य च जडत्वान्मुख्यबिम्बप्रतिबिम्बभावाङ्गीकारेजीवब्रह्मणोश्चेतनत्व प्रसङ्ग इत्यर्थः । यथा सङ्ख्य दू (+++) द्वितीय इति । भ्रमात्प्राक् जीव सिद्धौ तस्य भ्रमाश्रयत्वेमेवानुपपन्नं ज्ञातुरेव तदाश्रयत्वात् ज्ञातुश्च ज्ञानकारणविशेषत्वात्कारणस्य पूर्ववर्तित्वावश्यं भावदिति भावः । स्वभ्रमाश्रयतयेति । स्वस्यैव सिद्धहेतुभ्रमाश्रयत्वात्प्राक् स्वस्यासिद्धेः स्वजन्यभ्रमाश्रयत्वायोगात्स्वसिद्धेः पूर्वं स्वस्य सत्वावश्यकतयाऽत्माश्रय इत्यर्थः । विरुद्धोपलम्भ इति । कल्प्यस्य स्वाकल्पकत्वस्यैवोपलम्भादिति भावः । ब्रह्माज्ञानवादेति । भ्रमसमानाश्रयत्वादज्ञानस्येति भावः । जीवानुसन्धानस्येति । जीवतादात्म्यगोचारानुसन्धानस्य कल्पितविषयत्वे भ्रमतया तद्धेतुभूताज्ञानं ब्रह्मणस्स्यादित्यर्थः । अकल्पितत्वे अकल्पितविषयस्य सत्यत्वे - नाद्वैत हानिः । ब्रह्म स्वरूपत्वे जडत्वापत्तिरिति तदङ्गीकारे सिद्धान्त विरोध इत्यर्थः । सयूथ्यसीन्न इति पाठेऽपसिद्धान्त इत्यर्थः । सथूथ्यदूरापक्रमप्रसङ्गादिति पाठः । तदाप्येवमेवार्थः । अनुभयात्मकत्व इति । सत्यमिथ्या विलक्षणविषयत्वे निरूपाख्यत्वमेव विषयस्यस्यादित्यर्थः । ब्रह्मण इत्यादि । जीवभावस्य निरुपाख्यात्वे बहुभवनस्यापि तथात्वात्सङ्कल्प तत्पूर्वक जगत्सृष्टि जीवत्मत्वानुसन्धान पूर्वकानु प्रवेशानुसन्धान तत्पर्वूक नामरूपव्याकरणादिनामसिद्धौ ब्रह्मणो जगत्कारणत्व प्रतिपादकशारीरकप्रथमाध्यायस्य तदविरोध प्रतिपादक द्वितीयाध्यायस्योच्छेद एव स्यादित्यर्थः । एवं शङ्करमते जीवभावानुसन्धानं नोपपद्यत इत्युक्तम् । प्रसङ्गाद्भास्करमतेप्यनुपपत्तिमाहः अत एवेति । वक्ष्यमाणयुक्तेरित्यर्थः । तादात्म्यानुसन्धानमेव माभूदित्याशङ्क्यानेन जीवेनेतिविरोत्वाद्दूषणन्तरमाहः - तदभाव इति । भास्करमते हि ब्रह्मणो बहुभवनं जीवभाव एव । तदभावेतरभावः स्यादिति भावः । यादवमते दूषणान्तरमप्याहः - यदवेति सन्मात्र परिशेषस्य सन्मात्रं परिशिष्टं यस्मिन् तत् - सन्मात्रपरिशेष कारणाभावादिति भावः । प्राचीनेति । तदा सङ्कल्पकारणसत्वादिति भावः । प्रत्युतविपरीतप्रमाणमेव नास्तीत्याह प्रतिसर्गमनन्तरेति । सदेवसौम्येत्यादिना प्रलये सन्मात्रकम्प्रतिपाद्यं तदैक्षतेति - सन्मात्रस्यैव बहुभवनसङ्कल्यप्रतिपादनेनार्थात्सङ्कल्पस्य प्रलयानन्तर्य सिद्धेरित्यर्थः ।केचि जीवाज्ञानभेदेन प्रथमं ब्रह्मविभज्यते अनन्तरमीश्वर इति वदन्ति । तन्मते “अस्मान्मायी सृजते विश्वमेतत् । तस्मिंश्चान्यो मायया सन्निरुद्धः’’ मायान्तु प्रकृति विद्यान्मायिनं तु महेश्वरम् (श्वेत.4.9) (+++) पतिविरोधादनादेयमित्यभिप्रायणानुवदति जीवाज्ञानविभागेत्यादिना ॥ इति वत्सकुलजलधिकौस्तुभ नृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणी टीकायां चत्वारिंशोवादस्समाप्तः ॥