39 भावरूपाज्ञानभङ्गवादः

अथैकोनचत्वारिंशो वादः ।

श्रुतिकिरीटनिरूपणनिर्भरप्रसरयैव धिया परिशोधिताम् ।

सुखिमलां पदवीमदवीयसीं भजत माधवभक्तिमयीमिमाम् ॥
भावरूपं यदज्ञानं ये जनाः परिचक्षते ।
तच्चिते तत्तथाभूतं निश्चिन्वन्ति विपश्चितः ॥
एवं ह्यज्ञानमुषिततत्त्वज्ञानैर्विज्ञातम् - प्रत्यक्षानुमानागमैर्भावरूपमज्ञानं प्रतीयते ।
तत्र प्रत्यक्षं तावदहमज्ञो मामन्यं च न जानामीत्यादिरूपं सर्वसम्मतम् ।
तत्किं भावरूपमज्ञानं विषयीकरोति उताभावरूपमिति विवेचनीयम् ।
न तावदभावरूपम्; अभावो हि प्रतियोगिनिरूपणाधीननिरूपणः; ततश्च ज्ञानभावप्रतीतिर्ज्ञानग्रहणमन्तरेण नोपपद्यते; ज्ञानं विषयनिरूपणाधीननिरूपणमिति विषयेण सहैव गृह्यते, ततश्च यद्विषस्य ज्ञानस्याभावो व्यवजिहीर्षितस्तद्विषयं ज्ञानं तदानीमेव सञ्जातमिति कथं तदभावः प्रतीयेत? यः प्रतियोगिभूतज्ञानावच्छेदकत्वेन विषयः यदा व्यवह्रियते तदैव
तद्विषयज्ञानाभावं वदन् स्ववचनविरोधमपि न जानाति ।
ननु ज्ञानव्यक्तिभेदाददोषः, निषिध्यमानं ज्ञानमन्यत्तस्य निषेधप्रतियोगिनो निरूपणौपयिकं ज्ञानं चान्यदिति; नैवम्, संसर्गाभावस्य तज्जातीयसमस्तप्रतियोगिनिरूप्यत्वात्; इह भूतले घटो नास्तीतिवत् ।
ततश्च सर्वज्ञानप्रतियोगिको निषेधः एकयापि ज्ञानव्यक्त्या विरुद्ध एवः न ह्येकस्मिन् घटे विद्यमानेऽप्यघटं भूतलमिति व्यवहरन्ति ।
एतावन्तं कालं न किञ्चिदहमज्ञासिषमिति च प्रतीतिरपि न काञ्चिदपि तदानीं ज्ञानव्यक्तिं क्षमते ।
ननु कालभेदेन ज्ञानाज्ञानयोरविरोधः, न हि ज्ञानाभावप्रतिपत्तिकाल एव ज्ञानाभावेन भवितव्यमिति नियमः, मैवम्, प्रत्यक्षज्ञानस्य वर्तमानग्राहित्वनियमात् ।
तथा च सूत्रितम्भगवता जैमिनना* सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वादिति ।
यद्यपि योगीश्वरणां प्रत्यक्षमतीतानागतेऽपि गृह्णातीति शास्त्रबलादभ्युपगन्तव्यम्, तथाप्यस्मदादिप्रत्यक्षं वर्तमानग्राहीत्येव नियमः ।
अस्तु तर्हि प्रत्यक्षेतरेण प्रमाणेनावर्तमानज्ञानेन ज्ञानाभावप्रतीतिः, अस्वाप्समेतावन्तं कालं न किञ्चिदहमज्ञासिषमित्यादिषु कालविशेषस्येव ज्ञानाभावस्याप्यतीतस्यानुमेयत्वोपपत्तेरिति चेत्; तन्न, अहमज्ञो मामन्यं च न जानामीत्यत्र वर्तमानतयावैज्ञानप्रतीतेः ।
किमिदं जानासीति पृष्टश्च कश्चिन्न जानामीत्युत्तरं दिशति ।
अत एवात्र प्रमाणान्तरजन्यज्ञानेनापि विरोधः स्थित एव ।
एतेन ज्ञानाभावगोचरज्ञानेनापि विरोधस्सिद्धः ।
नहि
ज्ञानमुदयमानं तदानीमेव सर्वज्ञानाभावं प्रकाशयितुमलम्, स्वस्यापि ज्ञानत्वाविशेषात्, विद्यमानत्वाच्च ।
एवमाश्रयज्ञानेनापि विरोधः, न हि यत्किञ्चिदाश्रयप्रतीतिमन्तरेणाभावप्रतिपत्तिमनुमन्यामहे ।
उक्तं चाभियुक्तैः *लब्धरूपे क्वचित्किञ्चित्तादृगेव निषिध्यत इति ।
ननु सामान्यतः आश्रयप्रतियोग्यादिज्ञानमुपजीव्य विशेषतस्तत्तद्विषयं ज्ञानं निषिध्यत इति न कश्चिद्विरोध इति; तदपि मन्दम्, निषिद्धेस्तन्निषेधायोगेन व्याघातस्य स्थितत्वादिति ।
नच भावरूपेऽप्यज्ञाने विरोधप्रसङ्गः, भावरूपत्वादेव स्वरूपेण निरूपयितुं शक्यत्वात् ।
अस्ति च स्वरूपेणैव प्रतीतिःमुग्धोऽस्िम, मूढोऽस्मीत्यादिका ।
तस्मादहमज्ञ इत्यत्रापि तदेव भावरूपमज्ञानं प्रतीयते ।
न च वाच्यं नित्यसर्वगतसाक्षिसन्निधाने कथं ज्ञाताज्ञातविभाग इति; ज्ञाततयाऽज्ञाततया वा सर्वस्य साक्षिचैतन्यविषयत्वात् ।
इदमहं जानामीत्यत्र ज्ञानावच्छेदकतया, दिं न जानामीत्यत्र त्वज्ञानावच्छेदकतयेति विशेषः ।
न च तत्प्रकाशमात्रेणाज्ञाननिवृत्तिप्रसङ्गः, साक्षिप्रकाशस्याज्ञानगोचरभ्रान्तित्वेन तन्निवर्तकत्वायोगात् ।
यथा इदं रजतमिति भ्रान्तेरिदम्प्रकाशो न निवर्तकः, तद्वदत्रापि अज्ञानावच्छेदकविषयप्रकाशः ।
प्रमाणभूतज्ञानोदये ह्यज्ञाननिवृत्तिः ।
नच ब्रह्मस्वरूपप्रकाशस्य ब्रह्माज्ञानविरोधित्वम्, तस्य साक्षित्वावस्थायां तद्विषयत्वेन तदविरोधित्वात् ।
स्वरूपमात्रप्रकाशदशायामप्यज्ञानाभावादेव तन्निवर्तनस्यानपेक्षितत्वात् ।
नच ब्रह्मविषयज्ञाने सति तदज्ञानाभावः, तद्विषयज्ञानाभावे तु तदवच्छिन्नाज्ञान प्रकाशानुपपत्तिरिति वाच्यम्, स्वप्रकाशतया स्वविषयज्ञानान्तरमन्तरेणापि तदवच्छेदकत्वोपपत्तेः ।
तदवच्छेदकप्रकाशस्य तद्विरोधित्वे भवत्पक्षेऽप्यज्ञानग्रहणानुपपत्तिप्रसङ्गात् ।
एवं बाह्यविषयेऽपि प्रमाणोदयात्प्रागज्ञानावच्छेदकतया साक्षिणैव तत्तद्विषयप्रकाशो न विरुद्धः ।
अतस्सिद्धं भावरूपमज्ञानं प्रत्यक्षसिद्धमिति ॥
अनुमानं च - विप्रतिपन्नं मानज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेश गतस्त्वन्तरपूर्वकम्, स्वप्रकाशितार्थप्रकाशकत्वात्, अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति ।
धारावाहिक द्वितीयादिव्यवच्छेददार्थं विप्रतिपन्नशब्दः ।
स्वरूपभूतज्ञानव्यावृत्त्यर्थं भ्रान्तिभूतज्ञानव्यावृत्त्यर्थं च मानशब्दः ।
करणप्रतीतिव्युदासाय ज्ञानशब्दः ।
स्वप्रागभावस्वोत्पादकादृष्ट्सवोत्पत्तिप्रतिबन्धकादृष्टस्ववेद्यगतवृत्त्यभिव्यक्तिप्रागभावाः साध्यविशेषणैर्व्यवच्छेद्याः ।
वस्त्वन्तरशब्दो वैशद्यार्थः ।
एवं स्वशब्दोऽपि ।
प्रागभावव्यतिरिक्तेत्येतावता प्रथमचतुर्थविशेषणफलसिद्धौ पृथग्विशेषणनिर्देशो व्यवच्छेद्यविशेषव्यञ्जनाय ।
धारावाहिकद्वितीयादिष्वनैकान्त्यपरिहारायाप्रकाशितार्थशब्दः ।
आलोकमध्यारोपितदीपव्यवच्छेदायान्धकारोक्तिः ।
तत्रापि द्वितीयादिप्रभाव्यवच्छेदाय प्रथमोत्पन्न शब्दः ।
इन्द्रनीलादिप्रभाव्यवच्छेदाय प्रदीपशब्दः ।

आगमश्च - * अनृतेन हि प्रत्यूढाः, तेषां सत्यानां सतामनृतमपिधानम् * नासदासीन्नो सदासीत्तदानीं तम आसीत्तमसा गूढमग्ने प्रकेतम्, * इन्द्रो मायाभिः पुरुरूप ईयते इत्यादिरिति ।

तदेतदतीव स्थवीयः ।
तथा हि - यदुक्तं भावरूपमज्ञानं प्रत्यक्षेण प्रतीयत इति, तत्र किं ज्ञानविरोधित्वेनैव भाति? उतविरोधित्वेन? नाद्यः, पूर्वोक्तसमस्तप्रसङ्गाविशेषात् विरोधितयाऽपि हि भासमानं प्रतियोगिप्रकाशमन्तरेण न प्रकाशेतैव ।
ततश्च तद्विषयप्रकाशे सति तद्विरुद्धस्याज्ञानस्य दूरापक्रमणात् कुतस्तद्ग्रहणम्? ननु गृह्यमाणमिदमज्ञानं सामान्यतः
स्वप्रतियोगिनिरूपणं न विरुणद्धि, अपि तु विशेषत इति चेत्; अभावरूपाज्ञाने तर्हि कः प्रद्वेषः, सामान्य विशेषरूपेण परिहारस्य समत्वात्? यच्च निषिध्यमानविशेषज्ञानेऽपि प्रतियोगिविषयापेक्षया विरुद्धत्वमुक्तम्; तदपि भावरूपेऽपि तुल्यम् ।
अन्यथा तदविरुद्धत्वप्रसङ्गात् ।
तत्र सामान्यतः प्रतियोगिविशेषज्ञानमस्तीति चेत्, तदपि तुल्यम् ।
गौरवं पुनरधिको दोषः ।
न हि भावरूपाज्ञानस्य ज्ञानविरुद्धत्वं ज्ञानाभावनिरूपणमन्तरेण घटते ।
यत्तूक्तमज्ञानावच्छेदकतया प्रतियोगिविषयप्रकाशस्याज्ञानविरोधित्वाभावात् ब्रह्मणोऽन्यस्य वा अज्ञानावच्छेदकत्वेन प्रकाशो न निरुद्ध इति; तदभावपक्षेऽपि किं तथा नाङ्गीक्रियते, अभावप्रतियोगिभूतज्ञानावच्छेदकतया तत्तद्विषयप्रकाशो न विरुद्ध इति? तद्विषयज्ञानस्य तद्विषयज्ञानाभावेन विरुद्धत्वादिति चेन्न; भावरूपाज्ञानेनापि तद्विषयत्वहेतुकविरोधाविशेषात् ।
अन्यथा तद्गोचरप्रमाणज्ञानोदयेऽपि तदज्ञानानिवृत्तिप्रसङ्गात् ।
प्रमाणत्वादेव तस्य तन्निवर्तकत्वमिति चेन्न; स्वरूपप्रकाशांशेन प्रमाणत्वस्य साक्षिप्रकाशेऽप्यविशिष्टत्वात् ।
अन्यथोत्तरस्यापि तदभावप्रसङ्गात् ।
वस्तुतः प्रामाण्यस्य च उभयत्रापि त्वयाऽनभ्युपगमात् ।
प्रतियोगिविषयप्रकाशतामात्रेण तद्विरोधित्वे त्वज्ञानसाक्षिप्रकाशस्यापि प्रतियोगिप्रकाशत्वावश्यम्भावेन विरोधाविशेषात् ।
इदम्प्रकाशस्तु शुक्तिरजतसाधारणाकारगोचरत्वेन विरोधाभावान्न रजतभ्रमं निवर्तयति ।
न चात्रापि तथेति त्वया वक्तुंशक्यम्, निराकारे तदयोगात्, साकारे तु बाह्ये समाधानाविशेषात् ।
ततश्च वरं यथोपलम्भमुभयस्वीकारः ।
स्वप्रागभावव्यतिरिक्तेति वदता त्वयापि ह्यभावरूपमज्ञानं व्यवच्छेद्यतया स्वीकृतम् ।
नापि द्वितीयः,अनुपलम्भात् ।

मुग्धोऽस्मीत्यादिरूप उपलम्भ उक्त इति चेन्न; तस्यापि ज्ञानविरोधमन्तर्भाव्यैव प्रतीतेः ।
इतरथा ज्ञानविरोधित्वे प्रमाणाभावात् ।
अतः प्रध्वंसप्रलयविनाशावसानादिशब्दवन्नञर्थगर्भवाक्यार्थव्युत्पन्ना एव मोहादिशब्दाः ।
नञनुपलम्भमात्रेण तु स्वरूपतो निरूप्यत्वभ्रमो बालकानाम् ।
यच्च सर्वैः प्रमाणैर्ज्ञानाभावप्रतीतिर्न स्यादिति; तदप्यसत्, तथा सति ज्ञानाभावाभावेन मानज्ञानानां नित्यत्वप्रसङ्गात् ।
स्वप्रागभावेत्यादि च व्यर्थम्, अज्ञानं च न कदाचिदपि स्यात् ।
अतस्सिद्धं भावरूपमज्ञानं न प्रत्यक्षसिद्धमिति ।

या चेयमनुमानजीर्णकन्था; तत्र किमिदमप्रकाशितार्थप्रकाशकत्वादित्यत्र प्रकाशकत्वं नाम? किं ज्ञानत्वम्? किं वा ज्ञानकारणत्वम्? अथवा करणानुग्राहकत्वम्? यद्वा ज्ञानहेतुत्वमात्रम्? किं वा प्राकट्यहेतुत्वम्? यद्वा सामान्यतस्साक्षाद्वा परम्परया या विषयव्यवहारानुगुण्यहेतुत्वमिति? नाद्यः, दृष्टान्तस्य साधनविकलत्वात् ।
न द्वितीयः, पक्षे तदभावेन स्वरूपासिद्धिप्रसङ्गात् ।
दीपस्य च करणभूतेन्द्रियानुग्राहकत्वेन साक्षात्करणत्वासिद्धेः ।
न तृतीयः, पक्षे तदभावात् स्वरूपासिद्धेरेव ।
नापि चतुर्थः, इन्द्रियादिष्वनैकान्त्यात्; स्वरूपासिद्धेश्च ।
न पञ्चमः, प्राकट्यमनभ्युपगच्छतां स्वरूपासिद्ध्यादेरेव ।
अभ्युपगच्छतामपि दीपप्रभायास्तद्धेतुत्वाभावेन साधनविकलत्वात् ।
नापि षष्ठः, इन्द्रियादिभिरनैकान्त्यात् ।
किञ्च इदमनुमानमप्रकाशितार्थप्रकाशकं न वा? आद्ये स्वगोचरावरणाज्ञाननिवर्तकमनिवर्तकं वा? निवर्तकत्वे स्वगोचराज्ञानविषयाज्ञानान्तरावश्यम्भावात् तत्प्रकाशेऽपि तथेत्येवं क्रमेणानवस्था ।
यदि पुनस्तदेवाज्ञानं स्वात्मानमपि तिरस्करोतीति मतम्, तदा तेनैवानुमानेनाज्ञाननिवृत्तिप्रसङ्गः ।
यत्प्रकाशकं यज्ज्ञानं तदेव तदज्ञानस्य निवर्तकमिति च व्याहतमेव ।
अनिवर्तकत्वे तु निष्प्रयोजनत्वमनुमानकुसृतिनिर्माणमहाप्रयासस्य ।
तेनानैकान्तिकत्वप्रसङ्गश्च ।
तस्यापि पक्षीकारे तस्मिन्नंशे बाधः ।
द्वितीयेऽपि प्रकाशितप्रकाशकत्वं वा विवक्षितम्, अप्रकाशकत्वमेव वा? पूर्वत्र निष्प्रयोजनत्वम्, येनैवादौ प्रकाशितं तेनैव कृतत्वात् ।
उत्तरत्राप्रमाणत्वमेवानुत्पत्तिलक्षणमिति ।

यच्चागमैस्तत्सिद्धिरित्युक्तम्; तदपि न, तन्नानिर्वचनीयत्वाभिमताज्ञानप्रसङ्गभावात् ।
सदसद्वैलक्षण्यादेर्व्याघातग्रस्तत्वाच्च ।
अनृतशब्दस्यात्र ज्ञानसङ्कोचहेतुभूतकर्मविषयत्वात् ।
तद्वि ज्ञानविरोधित्वेन बहुश्रुतिस्मृतिसिद्धम् ।
ऋतशब्दश्चानुकूले कर्मणि प्रयुक्तः * ऋतं पिबन्तावित्यादिषु; ततो नञस्तदन्यत्वेन तद्विरोधित्वेन वानृतशब्दः ।
अत्र सांसारिकं पुण्यमपि मुमुक्षोः प्रतिकूलतया पापमिति तदप्यनृतशब्देन सङ्गृहीतम् ।
* न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निर्वतन्त इति श्रुतेः ।
तमश्शब्दोऽप्येवं मूलप्रकृतिविषय इति * तम एकीभवति, * यस्य तमश्शरीरम् * आसीदिदं तमोभूतमप्रज्ञातमित्यादिभिस्सिद्धम् ।
सदसदभावोक्तिश्च व्यष्टिचेतनाचेतनविलयपरा ।
नह्यत्र सदसदन्यत्वमुक्तम् ।
विलयोऽप्यवस्थान्तरमे, न बाधः ।
एवं मायाशब्दोऽपि प्रकृतिविषय एव श्रुत्या समर्थितः * अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः, *मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमिति ।
प्रकृतिशब्दस्य रूढ्या पदार्थविशेषे वृत्तेः उपादानार्थत्वादपि तस्य प्रथमं बुद्ध्युपारोहः ।
अत्र हि मायाशब्देनाभिहितं किमित्यपेक्षायां प्रकृतिरित्युच्यते, न पुनः प्रकृतेर्मिथ्यात्वं प्रतिपाद्यते ।
न हि सम्भवति मिथ्याभूतस्योपादानत्वम् ।
मायाशब्दश्च
विचित्रसृष्टिकरार्थवाची, असुरराक्षसास्त्रादिषु प्रयोगात् ।
* देवयामेव निर्मितेत्यादिषु प्रयोगदर्शनाच्च ।
अत एवैन्द्रजालिकादिष्वपिमायाशब्दो मन्त्रौषधादिविचित्रसृष्टिकरार्थत्वादेव, एकरूपप्रवृत्तनिमित्ते सम्भवति विरुद्धार्थकल्पनायोगात् ।
तत्र मुख्यामुख्यविभागहेत्वभावाच्च ।
मायामूलभ्रान्तिविषयेषु क्वचिन्मायाशब्दो लक्षणया, न पुनर्मिथ्यार्थत्वात् ।
मायामृगोऽपि मारीचसृष्टिरेव हि तात्त्विकी ।
न चेद्रामशरेणास्य निधनं नोपपद्यते ॥ शुक्तिरजतादिषु मायाशब्दप्रयोगादर्शनाच्च ।
ननु भावान्तरमभाव इति भवतां सिद्धान्तः, ततश्च भावरूपमेवाज्ञानं भवद्भिरभ्युपगन्तव्यम्, तत्र तत्किमर्थं निषिध्यत इति ।
अत्र ब्रूमः - यदर्थं भवता प्रसाध्यते तदर्थमस्माभिः प्रतिषिध्यते ।
यदि भवता ज्ञानाभावात्मकमज्ञानं भावरूपमिति प्रसाध्यते तदा न वयं प्रतिक्षिपामः ।
अस्ति हि नित्यस्य प्रमाणशब्दाभिलपनीयविषयाभिमुख्यवस्थाविशेषाद्विलक्षणः यत्प्रागभावादिशब्दाभिलप्योऽवस्थाविशेषः ।
न ह्येतावदेव भवता साध्यते, अपि तु ज्ञानप्रागभावातिरिक्तः कश्चित्सदसदनिर्वचनीयो जगत्कारणत्वब्रह्मतिरोधायकत्वादिविशिष्टः प्रसाध्यते ।
सच निष्प्रमाणकत्वादस्माभिःप्रतिक्षिप्यते ॥
॥इति शतदूषण्यां भावरूपाज्ञानभङ्गवादः एकोनचत्वारिंशः ॥39॥

नृसिंहराजीया

सर्वस्यवाक्यस्य विशिष्टबोधकत्वमेवेत्यनुभवसिद्धमपि दुरदृष्टदूषितैर्ज्ञातुं न शक्यं यतो ज्ञानाभावातिरिक्तं भावरूपं ज्ञानं प्रमाणिकं स्वीकुर्वन्तीति सङ्गत्या वादार्थं सूचयन्नभीष्टदेवतां प्रार्थयतेः - श्रुतीति । आद्यविशेषणेन सूचितं वादार्थं श्लोकान्तरेण विशदयतिः - भावरूपमिति । यदज्ञानमज्ञानं ज्ञानाभावः ज्ञानाभावरूपं (++++) तद्भावरूपं ये वदन्ति तेषाञ्चित्ते तद्ज्ञानं तथा भूतं तथात्वं सत्तां प्राप्तमितिनिश्चिन्वन्तीत्यर्थः । अभावे भाव प्रमादादत्यन्ताज्ञा इत्यर्थः । विज्ञातम्भ्रान्तम् । प्रत्यक्षं तवदिति । निरूप्यत इति शेषः । तदेव निरूपयतिः । अहमज्ञ इति । अहमज्ञो मामन्यञ्च न जानामीत्यादिरूपं प्रत्यक्षं तावत्सर्वसम्मतमित्यन्वयः । मामन्यं च न जानामीत्येदहमज्ञ इत्यस्य विवरणम् । अभावज्ञाने प्रतियोगिज्ञानस्यावश्यकत्वात्स्वप्रकाशवादे प्रतियोगिज्ञानस्यापि ज्ञानास्य आवश्यकत्वास्व प्रकाशवादेऽपि सामग्र्यास्सत्वेनानुव्यवसायस्य वर्जनीयत्वाद्बाधभावेन भ्रान्तित्वकल्पनायोगाच्च ज्ञानसामान्याभवग्रहरूपत्वमहमज्ञ इति प्रतीतेर्नोपपद्यत इत्याहः - अभावेहीति । न केवलं प्रतियोगिगोचरज्ञानसत्वात् ज्ञानसामान्याभावग्रहासम्भवः । किन्तु ज्ञानविषयीभूतार्थविषयक प्रतियोगिभूतज्ञानसत्वाच्चेत्याहः - ज्ञानमित्यादिना । यद्वा अस्तु प्रतियोगिभूतस्य ज्ञानस्य ज्ञानं तथापि न दोषः । अहमज्ञ इति ज्ञानातिरिक्त घटाद्यर्थविषयक ज्ञानाभावो गृह्यते नतु ज्ञानसामान्याभाव इत्याशङ्क्य घटाद्यर्थविषयक ज्ञानमप्यवर्जनीयमेवेत्याहः - ज्ञानम्मिति । यद्विषयस्येति यच्छब्देनार्थ उच्यते । अर्थविषयक ज्ञानाभावोह्यहमज्ञ इति प्रतीतेर्विषय इत्यक्तम् । तस्य च ज्ञाने कथं तदभावग्रह इत्यर्थः । एवं ज्ञानाज्ञानयोर्विरोधमजानन् स्ववचनविरोधमपि कथं जानीयादित्युपालभतेः - यः प्रतियोगीति । नन्वस्तु प्रतियोगिज्ञानं भवतु च तन्निरूपकार्थविषयकज्ञानं च तथापि तदानीं विद्यमान ज्ञानातिरिक्त ज्ञानाभाव एवगृह्यते । सामान्याकारेण प्रतियोगिविषयकस्यापि यत्किञ्चित्प्रतियोगिकाभावविषयत्वस्य घटो भविष्यति घटोध्वस्त इति ध्वंस प्रागभावविषयकस्य ग्रहणस्य दर्शनादित्याशङ्कतेः - नन्विति । यदवच्छिन्न प्रतियोगिकतया भावो भासते तदवच्छिन्न सत्व ज्ञानस्य तत्प्रकारतया भाव प्रत्यक्ष विरोधित्वादहमज्ञ ति ज्ञानत्वसामान्य धर्मावच्छिन्नतया भावग्रहो न सम्भवति । श्यामरूपवति घटे रूपं भविष्यतीति रक्तरूपप्रागभावप्रतीत्यभावादिति परिहरतिः - नैवमिति । ध्वंसप्रागभावयोः कारणसमवधानक - पालमालादि दर्शने सत्येव तद्ज्ञानान्नतयोःप्रत्यक्षतेति न तदृष्टान्तनेत्यप्याहुः । तज्जातीयः प्रतियोगिनि भासमानधर्मावच्छिन्नः । इह भूतले घटाभाव इ(++++)दृश प्रत्यक्षप्रतीतिरेकघटज्ञानेनापि प्रतिबन्धादिति भावः । सर्वज्ञानप्रतियोगिकं सर्वञ्ज्ञानं प्रतियोगिनिष्ठधर्मावच्छिन्नं यस्य ज्ञायमानाभावस्येत्यर्थः । यत्र विशेषाभावविषयत्व शङ्कया नावकाशस्तां प्रतीतिमुदाहरतिः एतावन्तमिति । (+++)सुप्तोत्थितस्य तादृशपरामर्शः । स्व पूर्वानुभवमुखेन तत्काले काञ्चदिपि ज्ञानप्यक्तिं न सहत इत्यर्थः । ननु सुषुप्तौ ज्ञानाभावोऽपि साक्षिणानुभवितुं शक्यते । अभावज्ञान काले प्रतियोगितं निरूपकार्थस (++++)अहमज्ञम् इति प्रतीतेः प्राक्कालीनज्ञान सामान्या भावविषयत्वमस्त्विति शङ्कतेः - नन्विति । पूर्ववर्तित्वमात्रेण कारणत्वेऽपि प्रतियोगि तन्निरूपकार्थज्ञानेन व्यवधानादव्यवहित पूर्वकालीनत्वाभावान्न प्रत्यक्षसम्भव इत्याहः - मैवमिति । सत्सम्प्रयोग इति । “चोदनालक्षणार्थो धर्म’’ ( ) धर्मे चोदनैव प्रमाणमित्ययुक्तं प्रत्यक्षस्यापि तत्र सम्भवादित्यशङ्कयोच्यतेः - सत्सम्प्रयोग इति । इन्द्रियाणां सन्तोर्थेन सम्प्रयोगे सति पुरुषस्य बुद्धिर्जायते । तदेवेन्द्रियजन्यत्वमेव प्रत्यक्षस्य - प्रत्यक्षत्वस्य निमित्तं च भवति । ज्ञान जननं भवतीति यावत् । विद्यमानोपलम्भनत्वाद्विद्यमानस्यैवार्थस्य विषयसन्निकर्षण प्रत्यक्षविषयत्वादित्य विद्यमानधर्मविषयकज्ञानजनकत्वासम्भवाद्धर्मे न प्रत्यक्षं प्रमाणमिति सूत्रार्थः । यद्यपीति । यस्येन्द्रियसंयोगानपेक्षत्वान्न विद्यमानस्यैवोपलम्भनमिति भावः । नन्वहमज्ञ इति प्रतीतिः परोक्षरूपाऽस्तु ततश्च कालान्तरीय ज्ञानाभावविषयत्वेनानुपपत्तिरिति शङ्कतेः - अस्त्विति । अवर्तमानज्ञानेन अवर्तमानविषयत्वयोग्येन। ज्ञानाभाव प्रतीतिः - ज्ञानभाव विषयीकरणमित्यर्थः । क्वचित्तु अस्तु तर्हि प्रत्यक्षेतर प्रमाणेनावर्तमानज्ञानाभावप्रतिपत्तिरितिचेदिति पाठः । स सुगम एव वर्तमानत्व बोधक शब्दाभावेन तत्कालीनव्याप्तेर (++++) वर्तमानत्वसादाकानुमानाभावेष्यहमज्ञ इति प्रतीतेर्वतमानत्वविषयत्वा परोक्षप्रमाणेन न पूर्वकालीनाभवगोचरपरोक्ष ज्ञानमित्याहः - तन्नेति । वर्तमानविषयत्वे विप्रतिपन्नं प्रत्याह - । वर्तमानत्वविषयप्रश्नोत्तराभ्यो तादृशमेव ज्ञानमितिद्रढयतिः - किमिदमिति । पूर्व प्रतियोगि भूतज्ञाननिरूपकार्थ विषयस्मरणेन विरोध उक्तः। इदानीं तादृशार्थविषयकानुभवेनापि विरोध इत्याहः - अत एवेति । अत्र प्रमाणान्तरपदेन प्रश्नवाक्यं विवक्षिताम् एतेनेत्येतद्विवृणोतिः - नहीति । एतञ्चसमानकालवर्तिविषयग्राहकं प्रत्यक्षमिति मतेनोक्तम् । विद्यमानस्यैव प्रतियोगिनोभावेन विरोधादविद्यमानत्वेन दोष इत्यत आहः - विद्यमानत्वाच्चेति । लब्दरूपे - ज्ञाते । तदृगेवज्ञातमेव । नन्वस्त्वभावप्रत्यक्षं प्रतियोग्यंशे योऽवच्छेदको भासते तदवच्छिन्न प्रतियोगिज्ञानेन विरुद्धमिदं त्वहमज्ञ इत्यभावज्ञानं विशेषाकारेणैव प्रतियोगिविषयकम् । तथा च ज्ञानत्व शास्त्रर्थ ज्ञानं त्वदुक्तार्थ ज्ञानत्वादिना प्रतियोग्यादिज्ञानस्याभाव ज्ञानहेतुत्वा तत्सत्वेऽपि नाभावप्रत्यक्ष विरोधः । नचैवं घटत्व प्रकारकज्ञानाभावज्ञानापत्तिः सामान्यविशेषा भावस्य नियामकत्वादिति शङ्कतेः - नन्विति । आश्रये सामन्यमहं त्वं विशेषोदेहातिरिक्तत्वादिः । प्रतियोगिभूतज्ञाने सामान्यधर्मो ज्ञानत्वशास्त्रार्थविषयकत्वत्वदुक्तंविषयकत्वादिः । आदिशब्देन विषयग्रहः । अभावज्ञानस्य विषयविशेषविषयत्वे “अर्थेनै’‘व विशेषोहिधिया ( )मिति धर्म न जानामीत्यादिकारधीर्नस्यात् । सा च प्रतीतिविरुद्धेत्याहः - तदपि मन्दमिति ननु भावरूपाज्ञानवादिनाप्यज्ञानत्वेन भानं वाच्यमेव । तच्च ज्ञानविरोधित्वमेव । तथा च तद्ज्ञानरूपप्रतियोग्यादिनिरूप्यतया प्रतियोग्यादिज्ञानावश्यं भावे तस्यापि व्याघातेन ज्ञानं न सम्भवतीत्याशङ्क्याहः - न चेति । भावरूपवत्वादेवेति । अभावस्यहि प्रतियोगिनिरूपणाधीनप्रत्यक्षविषयत्वनियमऽभावस्य तु तन्नियमो नास्तीत्यर्थः । ननु भावान्तरस्य तन्नियमाभावेप्यज्ञानस्य ज्ञानविरोधित्वेनैव भानमिति प्रतियोगिज्ञानापेक्षानियम इत्यत्राहः - अस्तिचेति । चकारोभिन्नक्रमः । स्वरूपेणैव प्रतीतिश्चास्तीत्यन्वयः । विरुद्धत्वेनापि समुच्चीयतेऽस्ति चेत्यादिना ।अज्ञानत्वेन प्रतीतेरुदाहरणं विषयावच्छिन्नज्ञान बोधित्वेन प्रतीतिस्तु त्वदुक्तं न जानामीत्यादिरूपा (+++)वेति भावः । ननु स्वरूपेण ज्ञान प्रतीतौ ज्ञानसंशयस्याद्विरोधित्वेना भावादिति चेन्न । स्वरूपेण ज्ञानस्याप्ययं घट इति घटत्व ज्ञानस्य पटत्वसंशयप्रतिबन्धकत्वत्प्रतिबन्धकत्वादिति भावः । ननु सर्वस्य नित्यसर्वगत साक्षिवेद्यत्वादज्ञानासम्भवात्कथमज्ञानविषयतेत्याशङ्क्याहः - न चेति । साक्षिप्रकाशमात्रस्याज्ञानविरोधित्वान्नदोष इत्याहुः । ज्ञाततयेत्यादिना । ज्ञानत्वाकारेणेत्यर्थः । चक्षुरादिजन्यं घट इत्यादि ज्ञानमपि ज्ञानत्वविषयमेव घटादिनिष्ठवृत्त्यादिविषयत्वस्य साक्षिणा विषयीकरणादन्यथा ततो ज्ञान इति व्यवहारायोगादिति भावः । अज्ञानाद भेदकतयेति । ज्ञानवादज्ञानस्यापि विषयत्वात् ज्ञानवादज्ञानेऽपि साक्षाद्विषयोऽवच्छेदक इति भावः । लाघवेन प्रकाशमात्रस्यैवाज्ञाननिवर्तकत्वात्साक्षिप्रकाशेनाप्यज्ञानं निवत्यर्त इत्यत्राहः - न चेति । साक्षिप्रकाशो ज्ञाननिवर्तको न भवति अज्ञानगोचरभ्रान्तित्वादित्यनुमानेन ज्ञानानिवर्तकत्वं साधयतिः - साक्षि - ज्ञानस्येति । ननु साक्षिज्ञानमेवं घटाकारवृत्त्यवच्छिन्नं (++++) तच्चाज्ञानं निवर्तकमिति तस्यापि पक्षत्वादंशतो बाधः । अज्ञानगोचरत्वादित्ये तावन्मात्रस्य हेतुत्व सम्भवे भ्रान्त्यंशोऽपि व्यर्थ इति चेन्न । अज्ञानविषयविषयापरोक्षवृत्त्यनभिव्यक्तान्तः करणावच्छिन्न चैतन्यस्य साक्षि प्रकाशपदेन विवक्षितत्वादज्ञानगोचर भ्रान्तित्वादित्यत्रापि ज्ञानगोचरत्वाद्भ्रान्तित्वादिति हेतुद्वयं विवक्षितम् । शुद्धचैतन्यं दृष्टान्तः । भ्रान्तित्वं च प्रमाणज्ञानभिन्नत्वम् । तेन व्यावहारिकविषयतया भ्रान्ति रूपेशुक्तिज्ञाने तदज्ञाननिवर्तके व्यभिचार इति बोध्यम् । यत्र यद्ज्ञानावच्छेदकविषयप्रकाशस्साक्षीस्यात्तदा स तद्विषयाज्ञाननिवर्तकःस्यादित्यत्राप्रयोजकत्वं दर्शयतिः - यथेति । यथा भ्रान्तिसमानविषयत्वेनेदं प्रकाश्ये भ्रान्ति न निवर्तयति तथा ज्ञानसमानविषयोऽपि साक्षिप्रकाशो ज्ञानं न निवर्तयति । भ्रान्त्यज्ञानयोः तत्वज्ञानविरोधित्वस्याविशेषेणैक्यस्य समानविषय प्रकाशमात्रनिवर्त्येतरत्वस्य नेति वैषम्यायोगादिति भावः । समानविषयक ज्ञानस्याज्ञाननिवर्तकत्वं नास्तीति त्वयोक्तम् । भिन्नविषयस्य तु निवर्तकत्वेऽति प्रसङ्गादज्ञाननिवर्तकत्वमेव न स्यादित्यत्राहः - प्रमाणभूतेति । अन्तः करणवृत्तिप्रतिबिम्बतया विषयप्रकाश एवाज्ञाननिवर्तक इति भावः । ननु भवत्वज्ञानभासकत्वात्साक्षी तदनिवर्तकः । ब्रह्मभूतशुद्ध चैतन्यन्तु स्वरूपमात्र प्रकाशत्वाद्ब्रह्म ज्ञानं निवर्तयेदेवेत्याशङ्क्याहः - न चेति । किं ब्रह्मस्वरूपस्य साक्षित्वावस्थायान्निवर्तकत्वम् उत तदुत्तीर्णावस्थायां नाद्य इत्याहः - तस्य साक्षित्वावस्थायामिति । द्वितीयं दूषयतिः - स्वरूपेति ।मुक्तिदशायामित्यर्थः । अस्तुप्रमाणज्ञानस्यैवाज्ञाननिवर्तकत्वम् । तथापीह तत्प्रमाणज्ञानमस्तिचेत् अज्ञानं निवर्ततैव न चेत्तदवच्छिन्नाज्ञान प्रतीतिरेव न स्यादित्यत्राहः - न चेति । प्रमाणज्ञानमन्तरेणाप्यज्ञानस्य तदवच्छिन्नतया स्फुरणं न सम्भवतीत्याहः - स्वप्रकाशतयेति । तदवच्छेदकत्वमज्ञानविषय स्वरूपप्रकाशेनाज्ञानविषयस्वरूपप्रकाशे नाज्ञानव्यावर्तकतयास्फुरणम् । ब्रह्मणोऽज्ञानावच्छेदकत्वेन प्रतीतिश्च न प्रकाशस्यज्ञानविरोधित्वमन्यथातवाप्यगतेरित्याहः - तदवच्छेदकप्रकाशस्येति । भावोवाऽभावोवा भवत्वज्ञानं ब्रह्म न जानामीति प्रकाशोऽस्तीति भावः । ब्रह्माज्ञानमुक्तमितरा ज्ञानेप्यतिदिशतिः - एवमिति । विप्रतिपन्नमिति । सर्वस्यापि यत्किञ्चिद्वप्रतिपत्तिविषयत्वात्प्रकृत विप्रतिपत्तिपरत्वेन शेषवैयर्थ्यमित्यत्राहः - धारावाहिक इति । स्वस्वसामग्रयन्यतरकालीनज्ञान विषयमात्रविषयकज्ञानास्यसविकल्पकत्वं विप्रतिपन्नपदेनविवक्षितम् । तेनधाराद्वितीयज्ञानवत्प्रत्येकघटपट ज्ञानजन्य समूहालम्बनेच्छा व्यवघानेन प्रथमं ज्ञा (+++)तियक्षणोत्पन्नज्ञानादि व्यावृत्तिसिद्धिः । एवं प्रथमविशेषणस्य धारावाहिकद्वितीयादिज्ञानव्यावृत्तिमात्र प्रयोजकत्वाद्वितीयविशेषणमपि सार्थकमित्याहः - स्वरूपेति । ज्ञानपदवैयर्थ्यशङ्कां स्पष्टार्थत्वेन परिहरतिः - करणेति । वस्त्वन्तरशब्द इति । निवर्त्यपूर्वकमित्यस्य निवर्त्यकालीनप्रागभावप्रतियोगित्वार्थकतयातेनैव स्वविषयावरणपदेन च स्वेनार्थान्तर व्यावृत्तेरिति भावः । एवं स्वशब्द इति । आद्य इति शेषः । स्वोत्पादकादृष्टस्य च क्वचित्प्रतिबन्धकत्वसम्भवाद्विषयस्यापि घटादेरर्थान्तरावरणत्व सम्भवाच्चिकीर्षाद्वारास्वनिवर्त्यत्वाच्च जनकादृष्टस्वविषयाभ्यामर्थान्तरतावरणाय द्वितीय स्वपदस्य स्वप्रतिबन्धाकदृष्टस्य येन केनचिन्निवर्त्यतया तेनार्थान्तरतावारणाय तृतीयस्वशब्दस्यावश्यकत्वात्वत्स्वशब्दवैशद्यार्थ - मेवोपपादयतिः - प्रागभावव्यतिरिक्तेति । प्रथमस्वपदे सति प्रथमचरमविशेषणस्यावश्यकतया ताभ्यां विशेष्य प्रतीतिर्भवतीति भावः । तत्रापीति । अन्धकार इत्येतत्प्रदीप विशेषणम् । द्वितीय प्रभापि अन्धकारोत्पन्न प्रदीपस्य प्रभावतीति विशेषणं सार्थकमिति भावः । अस्या (तेन) हीति । प्रत्यूढस्तिरोधिः तद्धेतोर्भावत्वमुचितम् । अपिधानं तिरोधानम् । असन्नासीदित्यसत्व व्यवच्छेदात्तमसोज्ञानस्य भवत्वसिद्धिरिति भावः । इन्द्र इति । निर्विकारब्रह्मणो (+++++) पादनत्वं यद्वैशिष्ट्ये भवनीत्यस्य भवत्वमावश्यकमिति भावः । सिद्धान्तमारभतेः तदतिस्थवीय इति । ज्ञानविरोधित्वेनैवेति । अज्ञानमिति शेषः । अविरोधित्वे नेति । विरोधित्वादन्येनरूपेणेत्यर्थः । ततश्च विरोधित्वं भासते न चेति वि(++)त्यार्थः । (++++++)गितदवच्छेदज्ञानाभ्यां प्रमाणान्तरजन्यज्ञानेनाश्रयाज्ञानेन च विरोधादज्ञानमेव न स्यादित्यर्थः । विरोधितयेति । विरोधस्यापि प्रतियोगिनिरूप्यत्वादिति भावः । इदं चाश्रयज्ञानावच्छेदकज्ञानयोरप्युपलक्षणम् । (+++) प्रकाशस्तथापि प्रतियोगिनो सत्त्वान्नाज्ञानविरोध इत्यत्राहः - ततश्चेति । तद्विषयप्रकाशस्यैव प्रतियोगित्वादिति भावः । ननु सामान्यतः प्रतियोग्यादिज्ञानमेवकारणं तेन च न विरोधः विशेषण विषयत्वाभावेन प्रतियोगित्वाभा(+++) शेषतोज्ञानमेव विरोधीति शङ्कतेः - गृह्यमाणमिति । सामान्यविशेषाभावस्य नियामकत्वङ्गीकारेणाति प्रसङ्गपरिहारस्य तुल्यत्वमित्याहः - सामान्येति । ननु सामान्यतोऽर्थज्ञान निषेधे निषेधप्रतियोगिभूतार्थ सामान्यावच्छिन्न ज्ञानाज्ञानेसति (+++) तार्थसामान्यस्यापि ज्ञाने विरोधो यथा तथा विशेषज्ञाननिषेधेऽपि निषेधप्रतियोगिभूतार्थ विशेषवच्छिन्न ज्ञानज्ञाने सति तदपेक्षित विशेषस्यापि ज्ञानात्तद्विरोध इति विशेषाभावप्रतीतौ विशेषज्ञनस्यावश्यकत्वाद्विशेषाभाव प्रतीतिर्न सम्भवतीत्याशङ्क्येदं भावरूपज्ञानपक्षेऽपि तुल्यमित्याहः - यच्चनिषिध्यमानेति । प्रतियोगीति । निरूपकः विषय इत्यर्थः । विषयापेक्षयेति । विषयशब्दस्ततद्ज्ञानपरः । विषयाधीनज्ञानतथेत्यर्थः । ननु प्रतियोगिनि विशेषाकारस्याज्ञाने तद्विशेषाभाव ज्ञानं न सम्भवत्येव । अभावज्ञाने च प्रतियोगिनिभासमान धर्मावच्छिन्न यावत्प्रतियोगिकत्वविषयत्वस्याभाव प्रत्यक्षे उक्तत्वाद्भावरूपज्ञानस्य तु तन्नियमा - भावाद्विशेषज्ञानाभावोऽपि सामान्यतो ज्ञानादेवविरोधप्रतीतौ को विरोध इत्यत्राहः - अन्यथेति । विशेषस्याभानेह्यभावरूपाज्ञानेऽपि सामान्याकारप्रतीतौ तदवच्छिन्नविरोध एव प्रतीयेत न विशेषविरोध इति विशेषज्ञानविरोधत्वमप्रामाणिकं स्यादिति भावः । विरोधपरिहारयोरुभयत्रसाम्ये भावरूपज्ञान प्रद्वेषे किं निबन्धनमित्याहः - गौरवमिति । किं च ज्ञानविरोधित्वं हि भावरूपाज्ञानस्य ज्ञानाधारव्याप्यत्वं तद्ग्रहश्चाभावग्रहाधीनो भावग्रहश्च प्रतियोग्यादि ग्रहेणव्याहत इति त्वयैवदर्शितम् । तथाचाभाव ग्रहाभावाद्ज्ञानविरोधित्वेनाभावरूपाज्ञानग्रहो दूरोत्सारित इत्याहः - न हीति । साक्षिप्रकाशस्या ज्ञानेगोचरादज्ञानं तेन विरुद्धयत इति यदुक्तं तदनूद्य दूषयतिः - यत्विति । प्रतियोगिनो विशेषस्य चा ज्ञानवाचकतया प्रकाशमानतया तद्विषयप्रकाशस्याज्ञान विषयत्वान्नविरोधो ब्रह्म (+++) घटपटादेर्वाज्ञानावच्छेदकतया प्रकाशसत्वेऽपि न भावरूपाज्ञानस्य विरोध इत्यर्थः । तदिति । प्रतियोग्यादिज्ञानमित्यर्थः । तथेति । अविरुद्धमित्यर्थः । तथा शब्दार्थमाहः - अभावप्रतियोगीति । अभावप्रतियोगिभूतज्ञानवच्छेदकतया तं तद्विषयप्रकाशस्यापि ज्ञानाभावविषयत्वान्न विरोध इति कुतो नाङ्गीक्रियत इत्यर्थः । तद्विषयत्वहेतुकेति ज्ञानाज्ञानयोस्समानविषयकत्वेनैव विरोधाद्भावरूपा - ज्ञानविषयत्वप्रयुक्तविरोधस्या विशिष्टत्वादित्यर्थः । अन्यथेति । समान (+++)पिसाक्षिणो विरोधाभावे त्वदभिमतवृत्तिज्ञानरूपप्रमाणोदय इत्यर्थः । स्वरूपप्रकाशांशेनेति । तत्वावेदकत्वं - प्रामण्यं तच्च स्वरूपांशमादायास्त्येवेत्यर्थः । अन्यथेति । विषयत्वेऽपि साक्षिणोविरोधाभावे प्रकाशांशमादायत्तत्तावे - र्तकताप्रयोजकमित्यङ्गीकारेजन्यस्यापि वृत्तिज्ञानस्य निवर्तकत्वं न स्यादित्यर्थः । ननु साक्षिणः स्वरूपप्रकाशांशमादायापि वास्तवं प्रामाण्यं नास्तीत्यत्राहः - वस्तत इति । प्रतियोगीति । प्रतियोगिभूतज्ञानविषय प्रकाशस्य प्रतियोगितया विरोधि (+++) साक्षि प्रकाशस्याप्यज्ञाननिष्ठज्ञानविरोधित्वं निरूपकप्रतियोगि भूतज्ञानविषय प्रकाशत्वावश्यं भावेनाज्ञानसमानविषय प्रकाशतया विरोधावश्यक इति भावः । एवं समानविषयक - प्रकाशस्याज्ञाननिवर्तकत्वमिदं प्रकाशस्याप्यज्ञाननिवर्तकत्वं स्यादिति शङ्कां परिहरतिः - इदं प्रकाशस्त्विति । समानविषयत्वमात्रं न तत्रम् अपितु साधारणाकारगोचरत्वमपीति भावः । ब्रह्मणो निराकारत्वान्न साक्षिणस्साधारणाकरगोचरतया ब्रह्माज्ञाननिवर्तकत्वं सम्भव इत्यभिप्रायेणाहः - निराकार इति । शास्त्रार्थं न जानामीति साक्षिणश्च यदि साधारणाकारेण गोचरतया न भावरूपाज्ञानविरोधित्वं तस्याभावरूपाज्ञानविरोधित्वं तस्याभावपक्षेऽपि प्रतियोगिज्ञानस्य साधारणाकारगो - प्रतियोगितया न विशेषाभाव विरोध इत्याहः - साकारेत्विति । ननु प्रतियोग्यादि ज्ञानविरोधपरिहारयोस्तुल्यत्वे अहमज्ञ इति प्रतीतेः ज्ञानाभाव एव विषय इति कथमङ्गीक्रियत इत्यत्राहः - ततश्चेति । ननु ज्ञानाभावो(++) सिद्धइत्यथावस्य नोभयसिद्धत्वमित्यत्राहः - स्वप्रागभावेति । अविद्यानुमान इति शेषः । अनुपलम्भादिति । स्वरूपमात्रविषयकज्ञानानुभवस्यानुपलम्भादित्यर्थः । न तस्यापीति । त्वयाह्यज्ञानप्रतीतरेभावत्वविषयत्वनङ्गीकुर्वता ज्ञानविरोधिविषयत्वमङ्गीकर्तव्यमन्यथा ज्ञानानुभवस्य ज्ञानानुभवविरोधाभावप्रसङ्गादित्यर्थः । नन्वज्ञानविषयावच्छिन्नमेव प्रतीयते तेन विरोधित्वेन प्रतीत्यभावेप्यभावानुभव इवाज्ञानानुभवो ज्ञानुनुभवविरोधीस्यादित्यत्राहः - इतरथेति । विरोधित्वस्याभाव इत्यर्थः । ननु नर्त्र्यस्वकथमनञा प्रतीतिरित्यत्राहः - अत इति तर्हि तदथे4षु भवत्वबुद्धिः कथमित्यत्राहः - नञीति । स्वरूपतो निरूप्यत्वं भवत्वमित्यर्थः । तथा सतीति । ज्ञानाभावस्यमाणपथानारोपो प्रागभावप्रध्वंसयोरप्यभावादिति भावः । स्वप्रागभावेन्यादीति । अज्ञानानुमाने साध्यविशेषणमित्यर्थः । किञ्च भावरूपाज्ञानसाधनार्थं प्रवृत्तस्तदेव खण्डयसीत्याहः - अज्ञानं चेति । ज्ञानस्य सर्वदासत्वाद(+++) कदावकाशं लभतेति भावः । अत्र किं वृत्तेः । पक्षत्वमुत चैतन्यस्य वृत्यवच्छिन्न चैतन्यस्य वा नाद्यः । वृत्तेर्जडत्वेनानिवर्तकतया बाधात् । न द्वितीयः । चैतन्यस्य प्रागभावाद्यसिद्धया बाधादेव वा त सव न तृतीयः । किञ्चवृत्तेरुपलक्षणत्वे चैतन्यस्य प्रागभावसिद्धया बाधः । विशेषणत्वे जडभूतायावृत्तेनिवर्तकत्वापत्तिः । तदङ्गीकारे च चैतन्यस्यै वा निवर्तकतापातिः । साध्ये च विषयावरणत्वस्य तद्विषयज्ञानप्रतिबन्धकतया ज्ञानानुत्पत्ति प्रसङ्गेनाश्रयासिद्धयादिरिति पक्षसाध्ययोदूर्षणस्य स्फुटत्वात्तदुपेक्ष्य हेतुं दूषयतिः - तत्र किमिति । सामान्यत इत्यस्य विवरणः - साक्षाद्वेत्यादि । पक्ष इति । अत्र भावासिद्धिविवक्षिता । परामर्शादेर्ज्ञानकरणस्य सम्भवात्करणत्व - सिद्धेरिति । तथा च दृष्टान्तस्य साधनवैकल्यमिति भावः । पटे तदभावादिति । अत्रापि भागासिद्धि - विवक्षिता । विशेषणज्ञानादेः पक्षतावच्छेदकावच्छिन्नस्य करणानुग्राहकत्वस्यापि सम्भवात्स्वरूपासिद्धयादेरित्यादिशब्देन साधनवैकल्यग्रहः । स्वगोचरेति । स्वस्यानुमानस्यगोचरो विषयः अज्ञानं तस्या ज्ञाननिवर्तकनित्यर्थः । तदेति । अज्ञानसाधकानुमानस्यैवाज्ञानविरोधित्व प्रसङ्ग इत्यर्थः । तथा सति को दोष इत्यत आहः - यत्प्रकाशकमिति । तत्प्रकाशस्य तन्निवर्तकत्वासम्भवात्साक्षि प्रकाशस्य ना ज्ञाननिवर्तकत्वमितित्वयैवोक्तत्वादिति भावः । अनिवर्तकत्व इति । न च व्यवहार एव प्रयोजनमिति वाच्यम् । ब्रह्म स्वरूपभूतज्ञाने सत्यप्यज्ञानवाशादस्ति प्रकाशत इति व्यवहाराभावरूपमावरणं वदतस्तवाज्ञान निवर्त्या भावे तस्यैव सम्भवादिति भावः । प्रत्युत दुःखमेव फलिष्यतीत्याहः - अनुमान मस्तु वा मा वा अनुमानादविद्यासिद्धौ न विरोध इति चेत्तयाविद्यानुमितिः किं पक्षबहिर्भूता पक्षान्तभूर्ता वा नाद्य इत्याहः - तेनेति द्वितीय आहः - तस्यापीति । नन्वप्रामाण्यं बाधितार्थविषयत्वं तत्कथमविद्याया (++++)त्यत्राहः - उत्पत्तिलक्षणमिति । प्रमाजनकत्वाभावादप्रमाणत्वमिति भावः । ननु कथमयुक्तताः - अनृतेनहि प्रत्यूढा ( ) अज्ञानेनावृतं ज्ञान ( ) मित्यादिना तदवगमादित्यत्राहः - तत्रेति । अनृतेन हि प्रत्यूढा अनृतेन हि प्रत्यूढा ( ) अज्ञानेनावृतं ज्ञान( )मित्यादिना इत्यीत्यस्यार्थमाहः - अनृतशब्दस्येति । बहुश्रुतीति । एषह्ये वा साधुकर्म कारयति यमधो निनीषती (कौषी.3.9)तिश्रुतिः - पापं प्रज्ञां नाशयति क्रियमाणं पुनःपुनः ( ) इति स्मृतिः । उपासना प्रतिबन्धाकासाधुकर्मद्वारा धोनयनस्य विवक्षितत्वात् श्रुत्याकर्मणां ज्ञानमुपगतमिति भावः । ऋतं पिबन्ताविति । यद्यपिगुणाधिकरणभाष्ये ऋत शब्दः कर्मफलपरतया व्याख्यातः । तथापि ऋतमिति कर्मवाचिऋतं पिबन्ताविति दर्शनादिति भाष्यवचनात् ऋतं सत्यं तथा धर्म इत्यादि बलाच्च ऋत शब्दस्य कर्मवाचिनः पिबतिना साहचर्य लक्षणयातत्परतया व्याख्यातः । तथा च मुख्यार्थस्यापि विशेषतयोपादान प्रयुक्त इत्युक्तिरिति भावः । एवममृतशब्दस्यानुकूलेकर्मणि प्रयोगात्’’ यथा वृक्षस्य सम्पुष्तिस्य दूराद्गन्धोवात्येव पुण्यस्य कर्माणां दूराद्गन्धो वात्येवममृतादात्मानं जुगुप्सेदिति पुण्यप्रतियोगि भूतानृत शब्दस्य योगाद्वृजिनमनृमं दुश्चरितमिति वाक्ये दुश्चरितमनृत - मित्युक्तत्वाच्चनृतशब्दोदुष्कर्मपर इत्यभिप्रेत्याहः - तत इति । ननु पुण्यस्यापि मोक्षविरोधितया तेनापि - प्रत्यूढत्वात्कथं पापमात्रपरत्वम् । तथा चोभयसाधारणज्ञानपरत्वम्मस्त्वित्यत्राहः - अत्रेति । अनभिसंहितफलकर्मण एव मुमुक्षुप्रत्यनुकूलत्वात्तद्विरोधित्वात्पुण्यस्याप्यनृत शब्देनाभिधानं युज्यत इति भावः । “न दुष्कृतमिति । नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतोनिवर्तन्त’’ इति श्रुतौ सर्वशब्देन दुष्कृतपर्यन्तानां पापशब्देनाभिधानादिति भावः । नासदासीदिति श्रुतितात्पर्यमाहः - तमःशब्दोऽपीति । वाक्यान्तरेषु तमश्शब्दस्यमूलप्रकृतौ प्रयोगात्प्रसिद्धतमसः प्रकृतान्वयेनास्यापि तमश्शब्दस्य प्रकृतिपरत्वमेव युक्तमित्यर्थः । ननु प्रकृतिरेव भावरूपाज्ञानं तस्याः नासदासीन्नो सदासी’‘दित्यादिना सदसद्वैलक्षण्यावगमादित्यत आहः - सदसद्भावोक्तिरिति । प्रतिषेधवाचिनः पर्युदासार्थत्वस्यलाक्षणिकत्वादित्यर्थः । नन्वेवमपि चेतनाचेतनयोर्बाधे मिथ्यात्वावश्यम्भावात्तदुपादानमपि मिथ्याभूतं सिद्धयतीत्यत्राहः - विलाेयऽपीति । न त्वदुक्तशुक्तिरजतादिवत्स्वरूपतो निषेध इत्यर्थः । इन्द्रोमायाभिरितिश्रुत्यर्थमाहः - एवं मायाशब्दोऽ - पीति । लोकेमायाशब्दस्य मिथ्यार्थपरत्वसम्भवेऽपि इन्द्रोमायाभिरित्यत्र मायाशब्दो न मिथ्यार्थवाची किन्तु प्रकृतिपर एव । अम्मान्मायीति श्रुतौ विद्यमानमायाशब्दस्य मायां तु प्रकृति विद्या ( )दिति प्रकृति परत्वेन व्याख्या तत्वात्सर्गकर्तृसम्बन्धिमायाशब्दस्य प्रकृतिपरत्वौचित्यादित्यर्थः । ननु प्रकृतिशब्दस्य प्रक्रियत इति योगेन विकारिपरत्वं विकारि ( ) दानत्वमिति तस्याभानेऽपि नानिष्टमित्यत्राहः - प्रकृतिशब्दस्येति रूढियोगमपहरतीति न्यायात्प्रथमोपस्थितरूढ्यर्थ एव ग्रह्यत इति भावः । उपादानार्थात् - उपादानरूपार्थात् - ननु प्रकृतिमुद्दिश्यमायात्वविधानाद्विधेयान्वय योग्य (++++)ति शब्दस्य यौगिकार्थ एकेपादेय इत्यत्राहः - अत्र हीति । अस्मान्मायीति पूर्ववाक्ये मायामायिनोः प्रकृतयोरेवोद्देश्यमुचितं न तु प्रकृतेरिति मयामायिशब्दावेव प्रकृतिमहेश्वरशब्दाभ्यां व्याख्येयेते इति न प्रकृतेर्मिथ्यात्वसिद्धिरित्यर्थः । प्रकृति शब्दस्य योगार्थत्वेऽपि न मिथ्यात्व सिद्धिरित्यत्राहः - नहीति । सत एवोपादनत्वदर्शना “गौरनाद्यन्तवती’’ (मान्त्रिकोपनिषत्) त्यादि श्रुतिभिर्नित्यस्यैवोपादानत्वप्रतिपादनाच्चेति भावः । एवं मायाशब्दस्य मिथ्यार्थ परत्वमङ्गीकृत्यमायाशब्दस्य मथ्यत्ववाचित्वमेवेनेत्याहः - मायाशब्दश्चेति । विचित्रेति । आश्चर्यत्वमेव प्रवृत्तिनिमित्तमिति भावः । न तु मिथ्यात्वं प्रवृत्तिनिमित्तं किन्त्वाश्चर्यमेव प्रवृत्तिनिमित्तमि (+++++)त्यत्राहः - आसुरेति । नन्वैन्द्रजालिकादि मिथ्यार्थस्रष्टरि मायाशब्दप्रयोगो दृश्यते तत्र च मायाशब्दस्यमिथ्यार्थपरत्वमेवेत्याशङ्क््यानुगतप्रवृत्तिनिमित्ते सम्भवति नानाप्रवृत्तिनिमित्तकल्पनेगौरवादत्रत्य मायाशब्दस्य मन्त्रोषहादि मायावगत विचित्रसृष्टिकरार्थ विषयत्वान्नमिथ्याविषयत्वमित्याहः - अत एवेति । विचित्रसृष्टिकरार्थवाचित्वादेवेत्यर्थः । मायाशब्दश्च मायाविशब्दान्तर्गतो विवक्षितः । एवं च विचित्रार्थसर्गकरत्वं विचित्रार्थ प्रतीति जनकत्वं व्यवर्तत इति तत्राश्चर्यरूपप्रवृत्तिनिमित्तसद्भावादेवमायाशब्द प्रयोग इति भावः । विरुद्धार्थ इति । विविधार्थेत्यर्थः । ननु मात्राविशब्दे मायाशब्दोमिथ्यार्थवि,य एव किं न स्यात् । न च नानर्थत्वकल्पनापत्तिः । असुरराक्षसाशास्त्राद्विषु मायशब्दप्रयोगस्यामुख्यार्थत्व सम्भवादित्यत्राहः मुख्यामुख्येति । नन्वैन्द्रजालिक प्रसादनिगरणादिष्वपि मिथ्याभूतेषु त्वदुक्त विचित्रार्थसर्गकरत्व रूपाश्चर्यत्वरहितेषु मायाशब्द प्रयोगादर्शनान्मिथ्या (++)प्रवृत्तिनिमित्तंस्यादिति शङ्कां प्रौढकदेन परिहरतिः - मायामूलेति । विचित्रार्थसर्गकरत्वमेव नाश्चर्यत्वं किन्तु विचित्रतया प्रतीतिविषयत्वमेव तच्च तत्रापि सम्भवत्येवेति भावःनन्वासुरशास्त्रादावपि मायाशब्दप्रयोगो मिथ्यात्वादेवेत्यत्राह - मायामृग इति । सृष्टिरेवेति मारीचस्य नाध्यासः । किन्तु घटादिवत्तात्विकीसृष्टिरेवेत्यर्थः । तत्र हेतुः नचेदिति । ज्ञानैकनिवर्त्यत्वान्मिथ्यावस्तुनः इति भावः । इदं चोपलक्षणम् असुरशस्त्रादिभिर्यथादिकं च तन्मिथ्यात्वेन स्यादिति भावः । अन्वयव्यभिचारमप्याहः - शुक्तिरजतादिष्वपि । मायिकमिदं रजतमिति व्यवहारो भवति य एव न लौकिक इति भावः । ननु भावरूपाज्ञान भवद्भिरप्यङ्गीकृतम् । ज्ञानाभावस्यापि भावत्वातन्निषेधसिद्धान्त इति शङ्कते नन्विति । भावरूपत्वमात्रं न प्रतिक्षिपामः । किन्तु सदे (+++)र्वचनीयं ज्ञाना भावातिरिक्तं जगत्कारणं ज्ञानमिति परिहरतिः - अत्र ब्रूम इति । भावरूपं ज्ञानाभावमुपपादयतिः - अस्तिहीति । धर्मभूतज्ञानस्य विषयाभिमुख्यावस्थाविशेषो विषयव्यवहारहेतुः परिगति विशेषः प्रमाणजन्यस्तत्प्राक्कालीन (+++) प्रयोजकतावस्थाविशेषो ज्ञानप्रागभावध्वंसात्यन्ताभावलक्षण इत्यर्थः । ननु ज्ञानाभावस्तादृशोस्त्वित्यत्राहः स चेति । वत्सकुलजलधिकौस्तुभनृसिंहगुरुसुतेन सिन्देवेनकृतायां शतदूषणीटीकायाम् एकोन चत्वारिंशो वादस्समाप्तः ।