38 अखण्डवाक्यार्थखण्डनं वादः

अथाष्टत्रिंशो वादः ।

ज्ञानानन्दगुणोपेतं ज्ञानानन्दमयं महः ।

पायादपायाद्भवतो भवबन्धविधायकात् ॥
सत्यज्ञानाजिभिर्वाक्यैरखण्डं बोध्यमिच्छताम् ।

अहङ्करोमि मूर्खाणामहङ्करणखण्डनम् ॥
यत्तु जल्पन्ति - विगीतं वाक्यमखण्डार्थपरम्, समानाधिकरणवाक्यत्वात्, सोयं देवदेत्त इत्यादिवाक्यवदिति ।
अत्र किमिदमखण्डार्थपरत्वं? निवयवार्थपरत्वं वा? अच्छेद्यार्थपरत्वं वा? निर्विशेषणपरत्वं वा? विशेष्यमात्रपरत्वं वा? निर्भेदार्थपरत्वं वा? भावरूपविशेषणरहितपरत्वं वा? एकविशेष्यपरत्वं वा? अन्यद्वा किञ्चित्? इति ।
न प्रथमद्वितीयौ, सिद्धसाधनात्; दृष्टान्तस्य साध्यविकलत्वाच्च ।
न हि देवदत्तपिण्डस्य निरवयत्वमच्छेद्यत्वं वा भवताऽभ्युपेतम् ।
नापि सोयं देवदत्त इति वाक्यादपि तथा प्रतीतिः ।
दृष्टान्तान्तरोपादनेपीह दुस्तरो व्यभिचारः ।
न तृतीयः, तत्र निर्विशेषणत्वमपि किं शब्दबोध्यत्वेनाभिमतम्? उत वस्तुगत्या? आद्ये निर्विशेषणत्वमपि लक्षणविशेषणविशिष्टार्थबोधनादविशिष्टार्थबोधकत्वाभिमानभङ्गः ।
निर्विशेषणत्वं न विशेषणम् अपि तु स्वरूपमेवेति चेत्; न, स्वरूपस्य सम्प्रतिपन्नत्वेनासाध्यत्वात् ।
तदाह्यर्थपरमित्येतावदेवोक्तं स्यात्, तथा च सिद्धसाधना ।
तत्परिहारार्थन्तर्ह्यखण्डविशेषणामिति चेत्, किं पर्यायपदोपादने सिद्धसाधनतापैति? अखण्डपरमित्येतावत्प्रयुञ्जानो न चोद्येतेति चेत्; तदपि दत्तोत्तरम्, यत्किञ्चिदर्थपरमिति विवक्षिते सिद्धसाधनात्; विशेषणाभावविशिष्टपरमिति पूर्वोक्तविरोधात् ।
द्वितीये तु सगुणब्रह्मप्रतिपादकस्य वाक्यस्य न कश्चिद्विशेषः ।
तदपि हि वस्तुगत्या निर्विशेषणमेव वक्ति भवतः ।
विशेषेणप्रतिपादना प्रतिपादनाभ्यां वैषण्यमिति चेत्; न, प्रातीतिकप्रतिपादनस्य परमार्थतोऽप्रतिपादनस्यचोभयत्रापि समानत्वात्; अस्मन्मते वस्तुत स्सविशेषणेपि देवदत्तश्श्यामोयुवेत्यादिवाक्यानां प्रवृत्तिदर्शनात्, दृष्टान्तस्य साध्यविकलत्वाच्च ।
त्वन्मतेन तु व्यधिकरणवाक्यानामपि परमार्थतो विशेषणशून्यार्थविषयत्वेन हेतुविशेषणवैयर्थ्यम् ।
न चतुर्थः, विशेष्यस्वरूपस्यैव मात्रशब्देनोपादाने सिद्धसाधनत्वात्; अतिरिक्तोपादने विवक्षितासिद्धेः ।
पदप्रतिपन्नविशेषणत्यागस्तेन विवक्षित इति चेत्; स किं वाच्यत्वेन विवक्षितः? उत तत्राविद्यमानतामात्रेण? उत विशेषणानां बोधनव्यापारागोचरत्वेन? आद्ये बोध्यवैशिष्ट्यप्रसङ्गः, सत्यपदस्यासत्ये तात्पर्यामिति व्याहतवर्णनप्रसङ्गश्च ।
साध्यवैकल्पञ्च, तदिदंशब्दयोस्तत्तेदन्ताऽभाव प्रतिपादकत्वाभावात् ।
द्वितीयेपि पूर्ववत् सगुणब्रह्मवाक्यसमानतया तेषामप्यखण्डपरत्वप्रसङ्गः; साध्यवैकल्यं च, देवदत्तस्य कालद्वयसम्बन्धाभावे क्षणिकत्वप्रसङ्गात् ।
तृतीयेपि किं सर्वेषां तथाविधबोधनव्यापारागोचरत्वमभिमतम्? उत निरूपकाणां? नाद्यः, - भवदभिमततर्कानभिज्ञानं तदभिज्ञत्वेपि तदविश्वासिनां च तद्विशेषणविशिष्टप्रतीतेः ।
न द्वितीयः, असिद्धेः; अनुपपत्त्यभावस्य वक्ष्यमाणत्वात् ।
नापि पञ्चमः,
व्यावृत्तिपरत्ववर्णनस्यापि निर्मूलत्वप्रसङ्गात् ।
अनृतजडपरिच्छिन्न व्यावृत्तिपरतया हि पदत्रयव्यावृत्तिरभिमता ।
सजातीयभेदराहित्यं विवक्षितमिति चेत्; न, तस्यैतच्छब्दप्रतिपाद्यत्वाभावात् विशेषणविशिष्टत्वेपि तत्सिद्ध्यविरोधाच्च पूर्ववच्च साध्यवैकल्यं स्यात् ।
जडादिभेदस्य मिथ्यात्वाभ्युपगमे अन्यत्रोक्तरमुक्तम् ।
न च षष्ठः, भावरूपविशेषणदूषकाणां तर्काणाम् अभावरूपविशेषणैस्सह का पैतृष्वस्रीयता? तैरपि सम्बन्धाभावात् ।
तथा च -
भावो यथा तथाऽभावो निर्विशेषत्वबाधकः ।

अबाधकत्वे भावेपि बाधकत्वकथा मुथा ॥
वाक्यार्थस्य सखण्डत्वं भावेन यदि जायते ।

अभावेनापि जायेत सखण्डत्वमखण्डितम् ॥
भावान्तरमभावो वा यद्वा भावान्तराधिकः ।

न खण्ड्यते सखण्डत्वं द्वयोरपि च पक्षयोः ॥
देवदत्तः श्यामोयुवेत्यादिभिरनैकान्त्याच्च ।
प्रत्यक्षबलात्तत्र वैशिष्ट्यम्, अत्र तु शब्दैकसमधिगम्यत्वाद्यथाशब्दं व्यवस्थेति चेत्; तर्हि शब्दकैसमधिगम्यार्थविषयत्वे सति समानाधिकरणवाक्यत्वादिति हेतुस्स्यात् ।
तथा सति दृष्टान्तस्य साधनविकलत्वप्रसङ्गस्स्यात् ।
नहि सोयन्देवदत्त इत्येतद्वाक्यमतीन्द्रियार्थाविषयम् ।
पूर्ववत्साध्यवैकल्यं च ।
सप्तमस्त्वस्मत्पक्ष एवेति सिद्धसाधनमेव ।
अष्टममपि विकल्पं विकल्पयामः, तत्किं निर्विवादयत्किञ्चिद्बोधनमात्रादधिकम्? उतानधिकम्? आद्ये विशिष्टपरत्वमकामेनापि स्वीकार्यम् ।
द्वितीये तु सिद्धसाधनत्वमेव ।

विगीतं वाक्यमिति किन्तत्वमसिसत्यज्ञानादिमात्रं विवक्षितम्? उतसोयं देवदत्त इति वाक्यव्यतिरिक्तं सर्वमपि समानाधिकरणवाक्यम्? नाद्यः, देवदत्तः श्यामोयुवालोहिताक्ष इत्यादिभिरनैकान्त्यात् ।
न द्वितीयः, तैरेव कालात्ययापदेशात् ।
नहि सोयन्देवदत्तइत्यादिवाक्यस्येव देवदत्तःश्यामइत्यादिवाक्यस्य विरोधाभासोप्यस्ति ।
आहुश्च - “सर्वस्यापि च पक्षत्वे बाध एव प्रसज्यते ।
अनैकान्तिकता तु स्यात् पक्षीकारे च कस्यचित् ॥ वाक्यत्वादिति हेतुश्च स्वरूपासिद्धतां व्रजेत् ।
आकाङ्क्षादित्रयाभावे तद्भावेक्वाविशिष्टघीः॥’ यश्चास्मिन्नेव साध्ये लक्षणवाक्यत्वात् प्रकृष्टप्रकाशचन्द्र इतिवाक्यवदिति प्रयोगः, सोप्येतैरेव दूषणैर्निरस्तप्रायः ।
प्रतिज्ञाहेत्बोर्विरोधश्च, लक्षणस्यासाधारणधर्मत्वात् ।
किञ्च प्रकृष्टप्रकाशचन्द्र इत्यत्र प्रकृष्टप्रकाशत्वं किं चन्द्रशब्दप्रवृत्तिनिमित्ततया विवक्षितम्? उत तदुपलक्षणतया? आद्ये चन्द्रशब्दस्य स्ववाच्यतापरत्वात् प्रवृत्तिनिमित्तभेदेन वैशिष्ट्यं स्यात्, अन्यथा चन्द्रशब्दस्य तत्रापि निष्प्रयोजनत्वप्रसङ्गात् सामानाधिकरण्यस्यासिद्धिप्रसङ्गाच्च ।
न हि पर्यायेणापि सामानाधिकरण्यम्, “भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्य’ मिति हि तल्लक्षणम् ।
द्वितीये प्युपलक्षणीयोपलक्षणाकारद्वयप्रतिपादनाद्वैशिष्ट्यं सुस्थितमेव ।
प्रतिपन्नाकारोप्यधिक इति प्रागेवोक्तम् ।
प्रकृष्टप्रकाशश्चन्द्रइतिवदित्यत्र प्रकाशमात्रविवक्षायां सर्वप्रकाशानामपि चन्द्रत्वप्रसङ्गः, तस्य तन्मात्रलक्षणत्वात् ।
प्रकाशविशेषविवक्षायां प्रकृष्टप्रकाशश्चन्द्र इत्यस्य विशिष्टार्थविषयत्वात् दृष्टान्तस्य साध्यविकलत्वं स्यात्; अन्यथा प्रकृष्टपदवैयर्थ्यं च ।
तथा गन्धवतीप्रथिपीत्यादिषु लक्षणवाक्येष्वनै कान्त्यम् ।

अथ मन्यसे सर्वलक्षणवाक्येषु लक्ष्यपदेन स्वरूपन्निर्दिष्टम्, लक्षणांशेन तु स्वेतरसमस्तव्यावृत्तिर्विवक्षिता, तेनाकारेण स्वरूपमेववा, अस्मिन् ज्योतिर्मण्डले कश्चन्द्रः, एषु द्रव्येषु का पृथिवीत्यादि वदतां तत्तत्स्वरूपविषयो हि प्रश्नः, तत्र यदि प्रतिवचनं प्रकारविषयं स्यात्तदान्यप्रश्ने तदन्योक्तिरित्यसङ्गतिःस्यात् ।
तस्मात्स्वरूपमेव वाक्यार्थः, तत्र लक्षण स्वरूपविशेषणवैशिष्ट्यम विवक्षितम् ।
एवं विशेषणलक्षणत्यागात् विशेष्यापरित्यागाच्च जहदजहल्लक्षणया ब्रह्मैवात्र प्रतिपाद्यम् ।
यद्वा कल्पितसत्तादिसामान्यस्यैव वाचकाः ।
जहल्लक्षणयैवैते प्रागुक्तब्रह्मबोधकाः ॥ इति ।

  • तन्न, अविवक्षितमिति किम् अबोध्यत्वं विवक्षितं? उतान्यार्थबोध्यत्वं? न हि गन्धवत्वमन्तरेण पृथिव्यां व्यावृत्तिप्रतीतिरस्ति ।
    न द्वितीयः,तदानीमपि तद्विशिष्टत्वस्यानपायात् ।
    अतस्सर्वत्र लक्षणवाक्येषु लक्षणान्वयस्तद्विरोधिव्यावृत्तिश्चाभिमतेइति तदुभयवैशिष्ट्यं वाक्यान्तरेभ्योधिकमेव ।
    अतस्सर्वेष्वपिवाक्येषु वैशिष्ट्यं दुस्त्यजमेव! प्रतिप्रयोगश्च - विगीतं वाक्यं विशिष्टपरं वाक्यत्वात्, व्यधिकरणवाक्यवदिति ।
    इदं चानुमानं सर्वलोकप्रतीत्यनुगुणत्वाद्विशेषणक्लेशरहितत्वाच्चाधिकबलमेवेति अनेन पूर्वयोर्बाधः प्रतिरोधो वा ।
    न च जरद्गवादिवाक्यैरनैकान्त्यम्, आकाङ्क्षादित्रयवत एव वाक्यत्वेन विवक्षितत्वात् ।
    यद्वा - प्रमाणत्वे सतीति विशेषणमिह प्रथममेव प्रक्षेप्यम्, तथाप्यनेन पूर्वयोर्बाधः प्रतिरोधो वा दुर्वारः ।
    न च व्यधिकरणवाक्यत्वमत्रोपाधिः, लोके वेदे च विशिष्टपरसमानाधिकरणवाक्यदृष्टेस्तस्य साध्यसमव्याप्त्यभावात् ।

किञ्चानयोरनुमानयोर्विपक्षे बाधकाभावात् अप्रयोजकत्वं च ।
नन्वस्ति विपक्षे बाधकम्; तथा हि - यदि विगीतं वाक्यं विशिष्टपरस्यात्तदा निर्गुणवाक्यविरोधप्रसङ्ग इति चेत्; न, निर्गुणवाक्यानां दोषनिषेधपरत्वस्थापनात् ।
विशेषणविशेष्ययोर्विशेषणनां न मिथोभेदादेकार्थपरताभङ्ग इति चेत्; किं प्रधानभूतैकार्थपरता भज्येत? उत विशेषणविशेष्यतादात्म्यलक्षणैकार्थपरता? उत निर्विशेषैकार्थपरता? न प्रथमः, प्रसञ्जकप्रसञ्जनीययोर्व्याप्त्यभावात् ।
न द्वितीयतृतीयौ, इष्टप्रसङ्गत्वेन दुष्टत्वात् ।
विशेषणविशेष्यतादात्म्यनिर्विशेषत्वयोरसिद्धत्वेन विपर्यये पर्यवसानासिद्धेश्च ।
द्वितीयस्य विपर्यये पर्यवसानं तु क्षपणकगन्धिवेदान्तिमतमुत्थापयत् भवतोपसिद्धान्ततामावहेत् ।

ननु विशेषणभेदेन विशिष्टताभेदात् विशेष्यभेद इति प्रसङ्गार्थ इति चेत्? कोयं विशिष्टताभेदो नाम? किं विशेषणभेद एव? उत तत्सम्बन्धभेदः? उत व्यावृत्तिभेदः? यद्वा - तदधीनबुद्धिभेदः?अथवा विशेष्यभेद एव? नाद्यः, व्याप्त्यभावस्योक्तत्वात्;
विशेषणभेदेन विशिष्टताभेदादित्यनयोरैकार्थ्यप्रसङ्गेन हेतुफलभावासिद्धेश्च ।
न द्वितीयः, अव्याप्तेरेव; एकस्य विशेष्यस्यानेकविशेषणसम्बन्धभेदादनेकत्वमिति स्ववचनविरोधाच्च ।
प्रसञ्जनीय विपर्ययेण प्रसञ्जकविपर्यये तात्पर्यात् अविरोध इति चेत्; एकश्चायम्, अतोऽनेकविशेषणसम्बन्धोस्य नास्तीति स स्यात्; तत्र च श्यामत्वाद्यनेकविशेषणविशिष्ट विशष्टतयोपलभ्यमाने देवदत्तादौ व्यभिचार एव ।
एकत्वमनेकविशेषणसम्बन्धाभावश्चेत्युभयमेकत्रोप संह्रियमाणमेकस्यानेकसम्बन्धो नोपपद्यत इति वदतः स्ववचनविरोधमावहति ।
न तृतीयः, तत्तद्विशेषणसबन्धभेदैर्यथास्वं विरोधि व्यावृत्तिभेदे विवक्षितेऽनेकव्यावृत्तीनामेकत्र सम्भवात्, अविरोधिव्यावृत्तिभेदस्य त्वसिद्धत्वात् ।
न हि नैल्यमुत्पलादपि व्यावर्तयेत्, तथा सति घटः पट इत्यादिवन्नीलमुत्पलमित्यादिसमानाधिकरणवाक्यानामनन्वयप्रसङ्गाच्च ।
भेदकं विशेषणं भेद्यं विशेष्यमिति स्थिते सङ्कोचकप्रत्यक्षाद्यसम्भवे स्वेतरसमस्तविशेषणाश्रयाद्भेदस्सिद्ध्येदिति चेत्;
तर्हि तत एव विशेषणान्तरप्रयोग इव तदप्रयोगेपि स्वाश्रयाद्भेदः किन्न सिद्ध्येत्? विरोधादिति चेत्; किमत्र मानम्? उपलम्भ इति चेत्; किं प्रत्यक्षादिजन्योयमुपलम्भः? उतैतद्वाकक्यस्थसत्यादिपदजन्यः? न प्रथमः, शास्त्रैकसमाधिगम्ये तदसम्भवात् ।
न द्वितीयः, अविशेषादविरोधिविशेषणान्तराश्रयादपि व्यावृत्त्यभावेन तत्तद्वाक्योदिताविरोधिसर्वविशेषणान्वयसिद्धेः ।
यदि चैकमेव विशेषणं स्वेतरसमस्ताश्रयाद्धाबर्तयेत्, तदा विशेषणान्तरप्रयोगस्सर्वत्र निरर्थकः ।
तस्यापि चैकस्य निरसनीयत्वेन तत्प्रयोगोपि प्रतिकूलः ““प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनंवर’’ मिति न्यायात् ।
परस्परप्रवृत्तिनिमित्तप्रतिक्षेपोनेकपदप्रयोजनमिति चेत्; न, अनृतजडपरिच्छिन्नभिन्नतया गूढसौगतकूटस्थैर्व्याख्यातत्वात्, पदद्वयप्रयोगेणापि चरितार्थत्वाच्च तेनैव निश्शेषप्रतिपक्षेपसिद्धेः ।
यद्वा - विशेष्यपदमात्रमेव प्रयोक्तव्यम्, प्रक्षालनादितिन्यायात्; एकं पदमबोधमिति चेत्; न, उपलम्भविरोधात् ।
स्मृतिमात्रं स्मृत्यविशिष्टबोधमात्रं वा तेन जन्येतेति चेत्? किमतः? तावतैव विशेष्यस्वरूपप्रकाशसिद्धेः तदतिरिक्तस्य च पदान्तरप्रयोगेपि भवता प्रक्षेपात् ।
विशेष्यपदमात्रप्रतिपन्नं स्वरूपं विशेषणविधिनिषेधसाधारणं प्रतीयेत, ततश्च संशयस्स्यादिति स्वयं विशेषणाभावनिर्णयाय विशेषणपदप्रयोग इति चेत्; हन्ताभावनिर्णयाय भावप्रतिपादनामिति महदिदमुपपादनमाहात्म्यमिति विपरीतनिर्णय एव ततस्स्यात् ।
विषं भुङ्क्ष्वेत्यादिवत्तात्पर्यपरीक्षा तदभावनिर्णय इति चेत्; एवं विशेष्यपदमात्रप्रयोगेपि तात्पर्यपरीक्ष्या सर्वविशेषणशून्यत्वमुन्नीयताम् ।
तात्पर्यनिश्चायकं तत्र नास्तीति चेत्? अहो विशेषणपदप्रयोगे विशेषणाभावतात्पर्यं निश्चीयते, तदप्रयोगे तु नेति सम्यक्परीक्षकत्वम् ।
देवदत्तोयभित्यादौ विशेषणपदाप्रयोगेपि तद्विशिष्टत्वं प्रतीयत इति सन्देहानपाय इति चेत्; श्यामोयुवेत्यादिविशेषणपदप्रयोगेपि तद्विशिष्टत्वं प्रतीयत इति सन्देहानपाय एव ।
प्रतीतमपि युक्त्या निरस्यत इति चेत्; अप्रतीतं किन्निरसितुं युक्त्या न शक्यते? नूनमुपकारकमेवापकारकं मन्यसे ।
प्रतियोगिस्मृत्यभावे तत्प्रतिक्षेपो न शक्यत इति चेत्; न, साधारणधर्ममात्रप्रतीत्यैव धर्मिणां बुद्ध्यधिरोहात् ।
अन्यथा संशयस्याप्यनुत्थाने सिद्धमेकपदेनैव निर्विशेषम्, किमनेकैरजागलस्तनायमानैस्सत्यादिपदैः ।
नापि चतुर्थः, स हिबुद्धिस्वरूपभेदमात्रं वा? ग्राहकविशेषाधीनप्रत्यक्षादिभेदो वा? ग्राह्याकारभेदो वा? आद्ये धारावाहिकबुद्धौ वस्तुनः क्षणिकत्व प्रसङ्गः ।
अभिज्ञाप्रत्यज्ञियोर्भिन्नविषयत्वेन क्षणिकत्ववादिसम्मत सर्वप्रत्यभिज्ञाप्रामाण्यभङ्गप्रसङ्श्च ।
अतिरिक्तस्त्वयं विशेषः, स्मृत्यनुभवयोर्भिन्नविषयत्वप्रसङ्गश्च ।
एवं वादिप्रतिवादिशिष्याचार्यबुद्धीनमेविषयत्वाभावात्परस्पर व्यवहारानभिज्ञतया कथा प्रवृत्त्यादिभङ्गप्रसङ्गश्च ।
एतेनात्मख्यातिवादस्तदनुविधायिविषयान्तः करणवृत्त्यध्यासवादश्च निर्मूलः ।
अत एव न द्वितीयः ।
स्वराद्यनुमितपुत्रादेः पूर्वानुभूतान्यत्वप्रसङ्गश्च ।
तथा च श्रवणमनननिदिध्यासनादीनां भिन्नविषयतया स्यात् ।
तृतीयेपि ग्राह्याकारमात्रं विवक्षितम्? विरुद्धग्राह्याकारभेदो वा? पूर्वत्र उक्तनयेन विशेष्यभेदासिद्धिः, एकस्यैवानेकविशेषणविशिष्टता
ग्राहणात् ।
अन्यथा व्यावहारिकस्यपि विरुद्धाविरुद्धधर्मव्यवस्थापनस्यासिद्धिप्रसङ्गात् ।
उत्तरोपि प्रागुक्तनयेनासिद्ध एव ।
तत्त्वमसीत्यत्र तत्त्वमाकारयोरविरोधस्तु सामानाधिकरण्यवादे द्रष्टव्यः ।
नापि पञ्चमः, विशिष्टताभेदाद्विशेष्यभेद इति हेतुसाध्यभावासिद्धिप्रसङ्गात् ।
पर्यायद्वारा पर्वक्रमेण बुध्यारोहणमात्रार्थमिदमिति चेत्; तर्हि विशेषणभेदाद्विशेष्यभेद इत्येतावदेवोक्तं भवति, तच्च व्याप्त्यभावादिनां प्रथममेव दत्तोत्तरम् ।
अस्तु तर्हि परस्परसमवायप्रसङ्गो विपक्षे दण्डेः ।
तथाहि - सर्वं हि वाक्यम् उद्देश्योपादेयविभागवत्; ततश्च क्रमावश्यम्भावः, यौगपद्येन विशेषणानामन्वये सत्युद्देश्योपादेयविभागासिद्धेः, “यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षण’ मित्याहुः, ततश्च यदि विशेषणविशिष्टमुद्दिश्य विशेषणान्तरं विधीयते तदोद्देश्यानुप्रविष्टविशेषणांशस्यापि विशेष्यांशस्येव विशेषणान्तरेण विशेष्यत्वप्रसङ्गः ।
एवं विशेषणान्तरविशिष्टोद्देशेपीति; तन्न, सर्वेषां वाक्यानामुद्देश्योपादेयनियमाभावात् ।
सर्वस्याप्राप्तत्वे विशिष्टमेव विधेयं निरणैषुः “यदाग्नेयोऽष्टाकपाल’ इत्यादिषु ।

गत्यभावविषयो विशिष्टविधिरिति चेत्? किमतः? उद्देश्योपादेयविभागस्स्वरस इति चेत्? तथापि कृत्स्नस्याप्राप्तत्वे स एव गत्यभाव इति विशिष्टविधिर्भवति ।
अन्यथा न क्वचिदपि विशिष्टविधिस्वीकारः ।
अतो विशिष्टविधिस्थलेषु युगपदेविशेषणविशिष्टैकप्रतीतिरनिवार्या ।
यत्र किञ्चिदुद्दिश्य किमपि विधीयते; न तत्रापि परस्परसमवायसिद्धिः, प्रथमन्तावत् परस्परमुद्देशासम्भवात् ।
प्राप्तोह्यंश उद्देश्य एव अप्राप्तोंशो विधेय एवेति व्यवस्थापनात् ।
प्राप्तस्यापि विशेषणस्य विशेष्यान्वयप्रतिपत्त्यर्थमितरांशानुवादेन तदंशविधिस्स्वीकार्य इति चेन्न; - तद्विशिष्टतानुवादेनैव तदन्वयप्रतीतिसिद्धेः ।
अत उद्देश्योपादेयभावस्य प्राप्तत्वाप्राप्तत्वनिबन्धनत्वान्नाभिधानदशायां क्रमापेक्षा ।
स्मृतिविमर्शयोस्तदपेक्षायामपि प्रत्येकंस्मरणात् यथायोग्यं विमर्शाच्च न परस्परसमवाय प्रसङ्गावकाशः ।
“यद्गृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षण’मिति तूच्चारणक्रमविषयम्, नाभिधानविषयम् ।
अत उद्देश्यांशगतविशेषणस्य तृपादेयविशेषणाधारत्वप्रसङ्ग इति च प्रत्युक्तम् ।
उद्देश्यपदवदुपादेयपदस्यापि विशेष्यसमवेतविशेषणबोधनव्युत्पत्तेर्यथाव्युत्पत्ति विवक्षितत्वात्प्रयोगाच्च ।
न हि “दण्डी देवदत्तः कुण्डली’ त्यत्र दण्डस्यापि कुण्डलित्वमनुन्मत्तोऽभिमन्येत् ! ननूद्देश्यस्य व्याप्यत्वमुपादेयस्य व्यापकत्वं सर्वत्राभिमतम्,अस्त्वेवम्, तथापि यथा यो यो घूमवान् सोग्निमानित्यादिषु, अतो विशिष्टस्योद्देश्यत्वे तस्यांशस्याशेषस्याप्युपादेयांशेन व्याप्तिर्वक्तव्येति चेत्; अस्त्वेवम्, तथापि न समवायेन व्याप्तिर्वक्तव्या; यथाप्रमाणं सम्बन्धनियमस्यैव व्याप्तिरूपत्वात्, न हि धूमोग्निव्याप्त इति धूमसमवेतोग्निः; ततोत्र विशेषणान्तरेणैकार्थसमवायतस्सम्बन्धनियम इति यथाप्रमाणमास्थीयताम् ।
एवन्तर्ह्युद्देश्यांशगतविशेषणस्य शाखासारसादिवदुपलक्षणत्वमात्रं स्यादितिचेत्; किन्तेन? न हि तथात्वेपि निर्विशेषत्वं सिद्ध्यति ।
लक्षणस्य बहिर्विषयत्वात्तत्सिद्धिरिति चेत्; न, तस्य बहिष्ठत्वेप्युपादेयस्य तन्निष्ठतया निर्विशेषत्वासिद्धेः; नचोपलक्षणं सर्वे बहिष्ठमिति नियमः, गोत्वपृथिवीत्वाद्युपलक्षणसास्त्रादिमत्वगन्धवत्त्वादेर्बहिष्ठत्वाभावात् ।
न च सारसादिकमपि बहिष्ठम्, संयोगादिमत्त्वात्; अन्यथा सम्बन्धाभावेन देवदत्तक्षेत्राद्युपलक्षणत्वासम्भवात्; असम्बन्धमुपलक्षयन्न कस्यचिदेवोपलक्षणं स्यात्; अपि त्वसम्बन्धाविशेषात् सर्वस्यापि स्याद्वा न वा ।
कस्यचिदुपलक्षणस्य सम्बन्धाभावे वाक्यस्यानन्वयप्रसश्च ।
एतेन चन्द्राद्युपलक्षणशाखादिकमपि निर्व्यूडम् ।
न हि साप्यसम्बन्धिनि तमुपलक्षयति; तस्यास्सर्वोपलक्षकत्वप्रसङ्गात् निर्णयासिद्धेः ।
सर्वस्य तदुपलक्षणत्वं तदानीमेव स्यादित्यतिप्रसङ्गेन तत्वासम्भवात् ।
कस्तर्हि तत्सम्बन्धः यस्तन्निर्देशविवक्षितः? स एव किमिति सौहृदेन पृच्छाम इति चेत्; शाखाग्रे चन्द्र इति वदन्तो द्विविधाः, प्रतीतिमात्रतन्त्राः निरूपकाश्च ।
तत्र पूर्वे व्याप्तिसिद्धं संयोगादिकमुपजीव्य प्रयुञ्जते, इतरे तु तदार्जवेदशलक्षणविवक्षयेति ।
अतः पारम्पर्येण सम्बन्धश्शाखायमपि सिद्धः ।
तादृशर्जवादिसम्बन्धस्साक्षात्सम्बन्धभ्रमेपि भ्रमकारणतयोऽपक्षितत्वात् नापैतीति भ्राम्यत्प्रयोगेपि सम्बन्धमात्रसत्यत्वसिद्धिः ।
अस्तु तर्हि विशेष्यं न विशेषणान्तराधिकरणम्, उद्देश्यपदप्रतिपन्नत्वात् तत्पदोपत्तिविशेषणवदिति चेत्; न, प्रागुक्तोपलम्भविरोधादिदूषणानामनिवार्यत्वात् तथाविधवाक्यातां सर्वेषां प्रामाण्यप्रसङ्गात् ।
त्वदुक्तेनैव हेतुना त्वदुक्तदृष्टान्तवदेव विशेष्यं न पदान्तरबोद्ध्यमित्यतिप्रसङ्गाच्च ।
एतेन युगपद्बोधने विशेष्यांशवत् प्रातिपदिकार्त्थैक्यपरसमानविभक्तिसामर्थ्यादेव विशेषणानाम्मिथो विशेषणान्तरैर्विशेष्येण च तादात्म्यप्रसङ्गोपि प्रत्युक्तः ।
न हि पदद्वयप्रतिपन्नविशेष्यैक्यमात्रात्तत्सिद्धः, भवत्पक्षे सगुणब्रह्मवाक्यपर्यालोचनेन व्याप्तिविरोधात् ।
न च सगुणसमानाधिकरणवाक्यस्य प्रातिपदिकार्त्थैक्ये तात्पर्यमिति स्यात्, तद्वदेव निर्गुणवाक्येष्वपि विशेष्यमात्रैक्यपरत्वनिर्णयात् ।
तथा च
सगुणे र्निर्गुणे वापि सामानाधिकरण्यधीः ।

विशेषणानां भेदेपि विशेष्यैक्ये नियम्यते ॥
अन्यथा व्युत्पत्तिपत्त्योर्विरोधात् ।
अत एव भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यमिति तल्लक्षणविदः ।

ननु भिन्नप्रवृत्तिनिमित्तत्वं हि भिन्नार्थत्वम्, प्रवृत्तिनिमित्तस्य शब्दवाच्यत्वात्, अतो भिन्नार्थानां शब्दानामेकार्थपरत्वमिति व्याघात इति चेत्; किमिदं लक्षणवाक्यस्य दूषणाभिप्रायेणोक्तम्? उतान्यपरत्वाभिमानेन? नाद्यः, अनभ्युपगमात्; न द्वितीयः,भिन्नप्रवृत्तिनिमित्तानां शब्दानां प्रवृत्तिनिमित्तपरित्यागेनैकार्थपरत्वमिति शेषपूरणेन व्याख्येयमिति चेत्; कुत एतत्? एकैकस्मिन्नर्थे प्रवृत्तिरिति शेषपूरणेन विपरीतं वा किन्न स्यात्? एकार्थत्वस्य तात्पर्यसिद्धत्वात् भिन्नार्थत्वस्य तद्विरुद्धत्वाच्चेति चेत्; तर्हि व्यधिकरणवाक्येष्वपि नानाकारकादिवैशिष्ट्यन्न स्यात्; तत्राप्येकार्थत्वस्य तात्पर्यसिद्धत्वात् ।
“अर्थैकत्वादेकं
वाक्यं साकाङ्क्षञ्चेद्विभागे स्या’दिति हि वाक्यविदः ।
न च बौद्धगन्धिवैयाकरणादिवत्तत्रापि वैशिष्ट्यं माभूदिति वाच्यम्; अपसिद्धान्तात् ।
वस्तुतस्तत्रापि वैशिष्ट्यन्न सिद्धान्त इति चेत्; तर्हि तद्वदेव समानाधिकरणवाक्यस्यापि विशिष्टपरत्वमभ्युपगम्य तैस्सह बाध उपपाद्यताम् ।
एवं च समानाधिकरणवाक्यत्वादिति हेतुविशेषणोपादानवैयर्थ्यं च प्रागेवोक्तम् ।
अनेककारकविशिष्टैकर्थपरत्वं व्यधिकरणवाक्येषु व्युत्पत्तिसिद्धमिति चेत्; तर्हि अनेकविशेषणविशिष्टैकविशेष्यपरत्वं सामानाधिकरणवाक्येषु व्युत्पत्तिसिद्धमिति समस्समाधिः ।
एवं च विषयव्यवस्थया विरोधे शमयितव्ये बाधाध्याहारलक्षणादिपरिग्रहो देवानां प्रियेभ्य एव रोचते ।
प्रवृत्तिनिमित्तशब्दवाच्यविशेषणनिष्ठो हि भेदस्तदाश्रयभूतविशेष्यगतञ्चैकत्वमिति कोत्र विरोधमनुसन्दधीत? अतस्सामानाधिकरण्यलक्षणानुपपत्ति र्न ते विपक्षे बाधिका, अपि तु स्वपक्ष एवेति तूष्णीमास्व ।
पदद्वयप्रतिपन्नविशिष्टद्वयैक्ये विशेष्यैक्यवद्विशेषणैक्यमपि दुस्त्यजम्, तद्वदेव वा विशेष्यभेदोपि किन्न स्यादिति चेत्; किमिदम्? अथश्शायितोपि केशान्न मुञ्चति! विशिष्टद्वयैक्यशब्देन विशेषणद्यैक्यविवक्षायामात्माश्रयसिद्ध्यादिदोषः, विशेष्यैक्यविवक्षायान्तस्य विशेषणैक्यं प्रत्यसाधकत्वस्योदीरितत्वात्; यथा जात्यादिरूपविशेषणैक्येपि विशेष्यभेदः प्रत्यक्षादि सिद्धत्वाद्दुरपह्नवः; तथा विशेष्यैक्येपि विशेषणभेदस्तत एव दुरपह्नवः ।
अन्यथानेकगुणविशिष्टैकवस्तुप्रतिपादकतयाभिमतानां सगुणवाक्यानामनुत्थानप्रसङ्गात् ।
यथा वानेकप्रतियोगिभेदेपि तत्तद्धावृत्तवस्त्वैक्यम्; तथानेकविशेषणभेदेपि तत्तदन्वितवस्त्वैक्यं न व्याहतमेव ।
एवं च विशेषणैक्यप्रसङ्गे प्रतियोग्यैक्यप्रतिबन्देरपि दुस्तरत्वं स्यात् ।
किञ्च - यथा क्रमेण युगपद्वा प्रत्यक्षादिभिरनेकविशेषण विशिष्टैकवस्तुप्रतिपत्तौ विशेष्यभेदो वा विशेषणानां मिथस्तादात्म्यसमवायो वा न प्रसज्येते; तथा शब्देनापि, प्रत्यक्षाद्यनुसारिव्युत्पत्तिवशंवदत्वात् तत्सामर्थ्यस्यापि प्रायशः तत्समानत्वात् ।
एवमन्यदपि द्रष्टव्यम् ।

प्रतिकूलतर्काश्च भवन्ति तथाहि - यद्येकपदप्रतिपन्नादन्यूनानधिकमेव पदान्तरेणापि बोध्येत; तदा पर्यायत्वप्रसङ्गः, पदान्तरवैयर्थ्यञ्च; निमित्तेभेदादपर्यायत्वमितिचेत्; तर्हि वैशिष्ट्यप्रसङ्गः, तथा च स्वेष्टभङ्गः, निमित्तभेदे सत्यपि तदन्वयाभावाद्वैशिष्ट्याभाव इति चेत्; किमत्र घटः पट इतिवत्प्रमाणविरोधादनन्वयः? उत तदविरोधेपि श्रद्धासङ्गृहीततर्कावस्करबलात्? नाद्यः, असिद्धेः; न द्वितीयः, प्रागेव निरस्तत्वात्; यदि च सन्तमपि निमित्तभेदमनादृत्य सर्वैः पदैस्स्वरूपमात्रमेव बोध्येत; तर्ह्येकेतरपदप्रयोगे नैरर्थक्यं स्यात्, प्रतिपन्नेपि स्वरूपे तत्तत्प्रतियोगिव्यावृत्तिसिद्ध्यर्थं पदान्तरप्रयोग इति चेत्; किन्तत्प्रवृत्तिनिमित्तान्वयसामर्थ्यात्तत्प्रतियोगिव्यावृत्तिसिद्धिः? उत तत्तत्पदजन्यस्वरूप मात्रबोधादेव? नाद्यः, वैशिष्ट्यस्य दुर्वारत्वात्; न द्वितीयः, अविशेषात्; प्रथमपदेनैव स्वरूपप्रतिपत्तौ सर्वव्यावृत्तिसिद्धिप्रसङ्गात्, तेन तदसिद्धौ पदशतेनापि तदसिद्धिप्रसङ्गात्; यथा पर्यायाणां शतमपि पठ्यमानं न व्यावृत्तिभेदमापादयति, तथात्रापि ।
अत एकेतरपदानां नैरर्थक्यमेव ।
सामानाधिकरण्येन निर्विशेषपरत्व सिद्ध्यर्थमनेकपदप्रयोग इति चेत्; न, तथापि पदद्वयमात्रेणापि तत्सिद्धेः बहुपदप्रयोगे नैरर्थक्यप्रसङ्गात्; तथा च विशेषण पदद्वयमपि प्रयोक्तव्यम्; एकविशेषणपदसहितविशेष्यपदमात्रेण सामानाधिकरण्यसिद्धेः ।
सामानाधिकरण्यस्य निर्विशेषपरत्वे सिद्धे तदर्थतया अनेकपदप्रयोगसाफल्यम्, तत्साफल्ये च सति सामानाधिकरण्यस्य निर्विशेषपरत्वसिद्धिरित्यन्योन्योश्रयता ।
ननु तत्तत्प्रवृत्तिनिमित्तविशिष्टं वस्तु शब्दबोध्यम्, प्रवृत्तिनिमित्तानि च स्वविरोधिव्यावृत्तिसहवर्तीनि, अत्र तु विशिष्टबोधनानुपपत्या विशेष्यमात्रं बोधयन्त्यपि पदानि नैरर्थक्यादिपरिहाराय स्वप्रवृत्तिनिमित्तसहिततत्तद्विरोधिव्यावृत्तिमपि
लक्षयन्ति, ततस्ततद्धावृत्तमेकं वाक्यार्थ इति किन्नोपपद्यते? श्रूयताम् ।
तत्तद्धावृत्तिः किमत्र धर्मिस्वरूपम्? उत ततोन्या? तत्र न तावत्स्वरूपम्, स्वरूपस्यैव तत्प्रकाशत्वात्; प्रकाशाप्रकाशयोरध्यासानुपपत्त्यादेरन्यत्र प्रतिपादनात् ।
किञ्च - तत्तद्विरोधिव्यावृत्तिः किं परस्परभिन्ना? उतैका? भिन्नत्वे तदात्मकत्वात् ब्रह्मणोपि भेदप्रसङ्गात्; न च व्यावृत्तिभेदो मिथ्येति वाच्यम्; मिथ्याभूताभेदप्रतिपादनायानेकपदनैष्फल्यात्; अतत्वावेदकप्रसङ्गाच्च ।
एकत्वे प्रथमपदेनैव सर्वव्यावृत्तिसिद्धौ पदान्तरप्रयोगनैष्फल्यमनतिक्रान्तम् ।
एकनिष्ठानेकप्रतियोगिकान्योन्याभावनिरूपणं तर्हि कथमिति चेत्; इत्थम् ।
प्रतियोगिभेदादन्योन्याभावभेदाभ्युपगमे दोषाभावात् ।
अभेदेपि तत्तत्प्रतिसम्बन्धित्वलक्षणविशेषणविशिष्टैकान्योन्याभावपरत्वात् अनेकपदप्रयोजनसिद्धिः ।
एवं स्वरूपानतिरिक्तान्योन्याभावे समाधिरनुसन्धेयः ।
न चात्रापितत्तत्प्रतिसम्बन्धित्वलक्षणाविशेषणवैशिष्ट्यमात्रमभ्युपगतमिति वाच्यम्, प्रागेव तत्तद्धर्मवैशिष्ट्यस्य यथाप्रतीत्यभ्युपगन्तुमुचितत्वात् ।
नाप्यन्या; सा हि तत्तत्प्रवृत्तिनिमित्ताकारा वा स्यात्? उत ततोन्या तदविनाभूतेति? न प्रथमः, दूरं गत्वा घट्टकुटीप्रभात्तप्रसङ्गात्; नापि द्वितीयः, तत्तत्समानयोगक्षेमतया तदभावे तदसिद्धिप्रसङ्गात्, न हि घटत्वाभावेप्यघटव्यावृत्तिसिद्धि, तत्सिद्धौ तद्वैशिष्ट्यस्यापरित्याज्यत्वात् पुनरपि परपक्षकुक्षिप्रवेशेन
भस्मीभावः ।
अभावरूपविशेषणमात्रवैशिष्ट्यमनुमन्यामह इति त्वपक्षपातिनस्ते न युक्तम् ।
न च व्यावृत्तीनां मिथ्यात्वेन समाधिः, जडाद्यैक्यप्रसङ्गस्यान्यत्रोक्तत्वात्; पूर्ववदतत्वावेदकत्वप्रसङ्गाच्च ।
भवत्पक्षे तत्तत्प्रवृत्तिनिमित्तानामपि मिथ्यात्बात्तत्तद्वैशिष्ट्येप्येवं न भेतव्यम् ।
अतो भवता प्रथममेव तदभ्युपगम उचितः ।
एतेन शौकल्यं कार्ष्ण्यव्यावृत्तं पीतिमव्यावृत्तमित्यादिप्रतिबन्दिनिस्तारसिद्धिः, तत्र प्रतिपदं प्रतिपाद्यभेदाभ्युपगमात् ।
यदि पुनस्तत्रापि कार्ष्ण्यव्यावृत्तिरेव पीतिमव्यावृत्तिः स्यात्, तदा पीतिम्नः कार्ष्ण्यव्यावृत्तिसद्भावे न पीतिमव्यावृत्तिप्रसङ्गः ।
एवं विपरिवर्तेन कार्ष्ण्यव्यावृत्तिप्रसङ्गः ।
अतः कार्ष्ण्यव्यावृत्त्यभावे पीतिमव्यावृत्तेः कार्ष्ण्ये दर्शनात्तयोर्मिधो भेदस्सिद्धः, व्यावृत्त्यनुवृत्त्योरेकत्र विरोधात् ।
व्यावृत्त्यनुवृत्तिभ्यामेव हि व्यक्तिजातिभेदं सर्वेप्याहुः ।
ताभ्यामेव हि घटादेस्सतश्च मिथ्यात्वामिथ्यात्वविवेको भवद्भिरपि स्वीकृतः ।
अतः कार्ष्ण्यव्यावृत्तमित्यादौप्रतिपदं प्रतिपाद्यभेदस्याभ्युपगन्तव्यत्वान्न निष्प्रयोजनत्वप्रसङ्गावकाशः ।
यद्यपि भावान्तरं व्यावृत्तिरिति पक्षः, तथापि तस्य व्यावृत्तित्वं तत्तत्प्रतिसम्बन्धित्वसमुच्चितोपाधिभेदगर्भमिति तेनाकारेण प्रतिपाद्यभेदसिद्धिः, अन्यथा शौकल्यस्वरूपस्यैव पीतिमव्यावृत्तिरूपत्वे कार्ष्ण्ये पीतिमव्यावृत्तिशब्दो न प्रयुज्येत ।
न च तावता भआवान्तराभाववादपरित्यागप्रसङ्गः, अभावाभावेष्विवात्रापि निर्वाहस्य तन्त्राचार्यैस्समर्थितत्वात् ।
सम्भवति च शौकल्यादेस्सकलेतरव्यावृत्तिरूपत्वम्, तत्प्रकाशेऽन्याध्यासस्यादृष्टेः, ब्रह्मस्वरूपेनिर्विशेषे प्रकाशमान एव सर्वेतराध्यासात् सर्वेतरव्यावृत्तिरूपत्वं दुरुपपादमेव ।
किञ्च निर्विशेषबाधने वाक्यस्य सामानाधिकरण्यासिद्धिप्रसङ्गश्चासामानाधिकरणानेकार्थबोधकतयैव ह्यन्ततः शब्दानां सामानाधिकरण्यम् ।
अत एव हि भिन्नप्रवृत्तिनिमित्तानामित्यादि लक्षणमुक्तम् ।
न चैतदुदाहरण विशेषविषयमिति वक्तुं युक्तम्; एकप्रवृत्तिनिमित्तानां वा परित्यक्तमुख्यामुख्यसर्वप्रवृत्तिनिमित्तानां वा सामानाधिकरण्यादर्शनात् ।
सत्यज्ञानादिवाक्ये दृश्यत इति चेत्; न, आशामोदकतुल्यत्वात् ।
तर्हि पर्यायपाठेष्विति चेत्, किं पुनरुक्तोदाहरणेषु यथा घटं कुम्भमानयेत्यादिषु? किं वा निखण्डुवत् पर्यायव्युत्पादनार्थपाठेषु यथा कः पिक इत्युक्ते कोकिलः पिक इत्यादिषु? तत्राद्येऽनन्वयादेव सामानाधिकरण्यासिद्धिः, अनन्वयश्चाकाङ्क्षादि विरहात्, आकाङ्क्षादित्रयसमाहारे सत्येव ह्यन्वयः, अन्यथा नैराकाङ्क्ष्येण क्वचिदपि वाक्यभेदो न स्यात् ।
द्वितीये तु निमित्तभेदोस्त्येव, कोकिलशब्दस्य कोकिलत्वजात्यैव प्रवृत्तत्वात्पिकशब्दस्य पिकशब्दवाच्यत्वलक्षणविवक्षया प्रयोगात् ।
कथमिदमवगतमिति चेदित्थम्; कः पिक इति पृच्छतो हि पिकशब्दवाच्यः क इत्यभिप्रायः, तदुत्तरार्श्रस्तु तदनुरूप एव भवितुर्महति. ततश्च कोकिलः पिकशब्दवाच्य इत्येवोत्तरवाक्यार्थः ।
एतदनभ्युपगमे तत्रापि पौनरुक्त्यादिदोषो दुष्परिहर इति ।

एवं च न समानाधिकरणवाक्यस्य मुख्येपि विशिष्टैक्ये सम्भवति लक्षणा, तत्रापि सर्वपदलक्षणा, तत्र च निर्विशेषविशेष्यमात्रलक्षणा, तदुपरि व्यावृत्तिलक्षणेत्यादिपरिक्लेशो भवति ।
इदं च तात्पर्यानिर्णयवशास्त्वीक्रियत इति वदन् कथन्न जिह्रेति? स्वप्रतिपत्तिर्भवतीति कथमेनन्न निर्भत्सर्यति? अथ वा लक्षणयापि ब्रह्मणश्शब्दबोध्यत्वं वदता “यतो वाचो निवर्तन्त’ इत्यादेः स्ववचनविरुद्धोप्यसङ्कोचोपपादनप्रयासो विस्मृतः ।
मुख्यतया बोध्यत्वं तत्र निषिध्यत इति चेत्; विपरीतं किन्न स्यात्? उभयथापि वाग्वृत्त्या बोध्यत्वस्याविशेषात्, बोध्यत्वे मिथ्यात्वप्रसङ्गभयं लक्षणया बोध्यत्वेपि समानमेव, विशेषाभावात् ।
अत एव परमार्थतो वा लक्षणया वा बोधनं नेच्छाम इति चेत्; तर्ह्यखण्डवाक्यार्थासिद्धिरेव
भवेत्, परमार्थतस्तत्प्रतिपादनाभावेपि तत्सिद्धौ तत्रैव सखण्डवाक्यार्थसिद्धिरपि किन्नस्यात्?
यत्तु वाक्यतात्पर्याविरोधायैकपदलक्षणेव सर्वपदलक्षणापि न दोष इत्याहुः ।
तदपि तात्पर्यस्यान्यथानिर्णयादेव निरस्तम् ।
यत्पुनर्विषं भुङ्क्ष्वेत्यादिषु सर्वपदलक्षणा दृष्टेति; तदपि न भुङ्क्ष्वेत्यस्य निषेधप्रतियोगिविशेषसमर्पकस्य, तत्रापि मुख्यत्वात्, विपशब्देनैव ह्यनर्थकरभक्ष्यरूढेन भुज्यमाने तस्मिन्ननर्थहेतुतया निषिद्धतामभिप्रयता भोजननिषेधोप्यभिप्रेतः ।
यद्वा भुङ्क्षत्वेत्यत्र प्रकृत्या निषिद्धभोजनं विवक्षितम्, विषशब्देन तन्निषेध एव विवक्षितः, तथापि प्रत्ययांशस्य मुख्यत्वं सिद्धम् ।
अस्तु तर्हीहापि प्रत्ययांशस्य मुख्यत्वम्, विशेष्यैक्यस्य तदर्थस्यापरित्यागादितिचेत्, न, विशेष्यमात्रस्यैव प्रतिपत्तुमशक्यत्वोपपादनेन विशेष्यैक्यस्यापि दुष्प्रतिपादत्वात् ।
यत्तु विशेषस्यापि मुख्यार्थैकदेशत्त्वात्तत्र वृत्तिर्नलक्षणेति के चिदाहुः, तदपि मन्दम्, विशिष्टविषयायाश्शक्ते र्विशेषणाभावे विशिष्टाभावेन निर्विषयत्वात् ।
किञ्च
विशेष्यविषया शक्तिर्यदि नैवोपपद्यते ।

अभिधेयत्वयोगेन तन्मिथ्यात्वं प्रसज्यते ॥
अतो विशेष्यबोधने विशेषणद्वारायाश्शक्तेस्तदभावे कुण्ठितत्वमेव; अन्यथा विशेष्यपरित्यागेनापि बोधनमात्रेण सर्वत्र मुख्यत्व
प्रसङ्गात् ।
अतोत्र निर्निमित्तलक्षणादिदोषो दुष्परिहरः ।

यद्यपि विशेष्यमात्रे तदैक्ये च मुख्यत्वं सम्भवति, विशेष्यं हि वाक्ये प्रधानोंशः, तथापि तत्र स्वारस्यहानिरवर्जनीयैव ।
किञ्च वाक्यार्थस्य निश्शेषभेदरहितत्वे तत्प्रतिपादकस्य वाक्यत्वाभावप्रसङ्गः, परस्परसंसृष्टपदार्थपरतया वा तत्संसर्गपरतया वा खल्वन्विताभिधानाभिहितान्वययोस्सम्भवः ।
निर्विशेषे तु तदुभयमपि न सम्भवति, बौद्धमतगन्धिवैयाकरणाद्यभिमतबुद्धिविशेषादिवाक्यार्थत्वं मीमांसाचार्यादिभिर्विस्तरेण प्रतिक्षिप्तमिति न तत्रास्माभिरिह प्रयस्यते ।

नन्वस्तु तत्वमसिसत्यज्ञानादिवाक्यानामखण्डपरत्वं निष्प्रमाणकम्, तथापि भवता वादजल्पयोस्सखण्डपरत्वे प्रमाणं वाच्यमितिचेत्; उच्यते ।
विप्रतिपन्नं वाक्यं विशिष्टपरम्, बोधकत्वात्; सम्प्रतिन्नवत्; न च पदमात्रैर्भ्रमहेतुर्भिवाऽनैकान्त्यम्; तेषामपि यत्किञ्चिद्विशिष्टबोधकत्वमात्रस्य सिद्धत्वेन तत्रापि साध्य सामान्यस्य विद्यमानत्वात्, स्मारकत्वं हि पदानाम् ।
विशेष्टमेव स्मार्यम्, एकत्यापि पदार्थस्य प्रकृत्याद्यंशभेदेन विशिष्टत्वात्पदार्थानामपि निपुणनिरूपणे प्रावशो विशिष्टत्वादेव ।
अख्यातिगर्भमयथार्थगोचरवा भ्रान्तिज्ञानमपि विशिष्टविषयमेव ।
संसर्गमात्राख्यातिरेवह्यख्यातिर्न पुनस्सर्वाख्यातिः ।
एतेनाखण्डवाक्यार्थ इति भवद्वाक्येनाप्यनैकान्त्यं परिहृतम् ।
न च निर्विशेषगोचरप्रत्यक्षादिभिरनैकान्त्यम्, तेषामन्यत्र प्रतिक्षिप्तत्वात् ।
पराभिमतनिर्विकल्पकस्य निश्शेषोन्मूलनात् ।
एवं वाक्यत्वादिति प्रागुक्तश्च हेतुरनुसन्धेयः ।
यद्वा - किमनुमानक्लेशेन? सत्यज्ञानादिवाक्यश्रवणसमनन्तरं निपुणनिरूपितनीति परिशद्धबुद्धीनामपि विशिष्टवाक्यार्थबोध एव जायते, यथा सगुणब्रह्मादिपरतया भवदभिमतवाक्यश्रवणे; न चैतदपह्नवमर्हति, सर्वेष्वपि वाक्येषु विशिष्टवाक्यार्थबोधापह्नवप्रसङ्गात्, न च तत्साहसिकानां पश्यतोहराणां भवतामपीष्टम् ।
अतोऽनन्यथासिद्धानन्तर्य नियमाधिगमादन्यत्रेवात्रापि स्वानन्तरभाविविशिष्टवाक्यार्थबोधं प्रति करणत्वं प्रत्यक्षत एव सिद्धम् ।
बाधशङ्का तु प्रागेव निरस्तेति ।
अतस्सिद्धं सखण्डपरं “तत्वमसि’ “सत्य’ मित्यादि वाक्यमिति ।

इति शतदूषण्याम् अखण्डवाक्यार्थखण्डनम् अष्टत्रिंशो वादः ।
(38)

नृसिंहराजीया

यत एव जीवेश्वरयोभेदसिद्धान्त एव तत्वमसी (छां.6.8.7)ति वाक्यस्य विशिष्टार्थबोधकत्वं सिद्धयति । न च सामानाधिकरण्यवाक्यस्य खण्डार्थत्वं सत्यादि वाक्यस्थले सिद्धमित्यत्रापि तथेति वाच्यम् । तत्राप्यखण्डार्थत्वं नास्तीति सङ्गत्यावादार्थं सङ्गृह्णन् परोदीरितकुतर्क प्रभवखण्डार्थता भ्रान्तिकारणं भगवत्सकाशात्प्रत्ययमानो सर्वज्ञा इत्यादिवाक्य इव सत्यादिवाक्येऽपि सत्यत्वादि वैशिष्टयं विषय इति (++++)त्वमिति सूचयतिः - ज्ञानानन्देति । भगवता कर्तव्यमर्थमाशास्य स्वकर्तव्यतां तावदाहः - सत्यज्ञानादीति । विगीतमिति । सत्यादि वाक्यमित्यर्थः । खण्डशब्दस्यावयवार्थत्वमभिप्रेत्याह निरवयवेति । खण्डशब्दस्य छेदनपरत्वामभ्युपेत्याहः - अच्छेद्येति । खण्डशब्दलाभार्थमभिप्रेत्याऽन्ये विकल्पोद्रष्टव्यः । अन्यस्तत्रान्यतरलाभेप्युपाधिभेदाद्भेद इति ध्येयम् । किं वस्तुतः सादृश्यार्थ बोधकत्वं विवक्षितमुत तथा बोधकत्वं नाद्य इत्याहः - सिद्धसाधनादिति । द्वितीयं दूषयतिः - नापीति । जातिगुणादिविषयसोऽयमिति वाक्यं दृष्टान्त इत्यत्राहः - दृष्टान्तान्तरेति । इह दुस्तरो व्यभिचार इति प्रथमविकल्पाभिप्रायेण सोऽयं देवदत्त इति वाक्यस्य वस्तुतस्तथाविद्यार्थाबोधकत्वाद्ध्वितीय विकल्पेतुसमानाधिकरणवाक्यस्य तत्प्रकारकबोधजनकत्वाद्वयभिचार इति भावः । किं निर्विशेषणत्वं विशेषण मुनोपलक्षणमित्यभिप्रायेण विकल्पयतः - तत्र निर्विशेषगत्वमपीति । अविशिष्टार्थेति स्वरूपातिरिक्ता बोधकत्वाभिमान भङ्ग इत्यर्थः । निर्विशेषणत्वमिति । तथा च न स्वरूपातिरिक्तविषयत्वमित्यर्थः स्वरूपस्येति । स्वरूपं ह्यर्थ स्वरूपम् । तथा च विषयत्वस्य सिद्धत्वान्न सत्यतेत्यर्थः । स्वरूपस्य विशेषणभावत्वसाधनम् । न तु सगुणवाक्यसाधारण्यान्न साधनार्थमिति भावः सिद्धसाधन भयादखण्ड विशेषणं दहतस्तवापि स्वरूपपरत्वसाधने सिद्धसाधनता समतैवेति वस्तुसाध्यक देशभूतार्थपरत्वे पर्यवसानमाहः - तदाहीति । ननु यत एव साध्यनिर्देशैकदेशभूतार्थपरत्वमात्रे सिद्धसाधनत्वमत एवा खण्ड विशेषणं कृतमित्यापाततः शङ्कतेः - तत्परिहार्थमिति । अखण्डशब्दस्य स्वरूपमात्रमर्थः उत यत्किञ्चित् अथवा विशेषणाभाव विशिष्टमिति विकल्पामभिप्रेत्याद्य आदः - पर्यायेति । द्वितीय आहः - अखण्डेति । तृतीयविशेषणेति । न कश्चिद्विशेष इति । सत्यज्ञानादि वाक्यम - खण्डार्थम् । यस्सर्वज्ञ इत्यादिवाक्यसखण्डार्थमिति विशेषो न स्यादित्यर्थः । वस्तुगत्या निर्विशेषणविकषयत्वे सति विशेषणाप्रतिपादकत्वमखण्डार्थत्वमिति शङ्कतेः - विशेषणेति । प्रातीतिकेति । विशेषण प्रतिपादकत्वं भ्रमो वस्तुतस्तदप्रतिपादनं चोभयत्रापि समानमित्यर्थः । सगुणवाक्यानां विशिष्टप्रतिपादकत्वं व्यावहारिकं सत्यादिवाक्यानां तु प्रतीतिकमिति वैषम्यस्यासिद्धेः त्वदुक्ततर्क प्रतिसन्धान शून्यानां निर्गुणवाक्यानामपि सगुणवाक्यानामिव गुणविशिष्टार्थबोधकत्वस्य दर्शनात्तस्य ब्रह्मज्ञानेतराबोध्यत्वाच्च वस्तुतो निर्विशेषण विषयत्वे सतीति विशेषण वेय्यर्थ्यचेति भावः । साध्यविकलत्वाच्चेति । दृष्टान्तस्येति शेषः । त्वन्मतेत्विति । ब्रह्मव्यतिरिक्तस्यापारमार्थिकत्वादिति भावः । विशेष्यस्वरूपस्येति । स्वार्थिकेषु स्वरूपमात्रपरत्वस्य दर्शनादत्रापि तत्सम्भावनयाविकल्पः । अतिरिक्तोपादान इति । अतिरिक्तार्थविभक्त्यादिषु विशेषणपरत्वस्य दर्शनादत्रापि विशेषपरत्वेह्यखण्डार्थसिद्धिरित्यर्थः । सकिमित्यादि । त्यागशब्दस्याभावपरत्वमाद्य विकल्पद्वय - विवक्षितम् । विशेष्यमात्रपदस्य विशेषणाभाववद्विशेष्यपरत्वंविशेषणा भावस्य विशेषणत्वं चाद्यविकल्पविवक्षितम् । द्वितीये विकल्पे तस्योपलक्षणत्वं विवक्षितम् । विशेष्यमात्रशब्दस्य विशेषणत्यागशब्दस्य स्वारसिकार्थाभिप्रायेण तृतीयविकल्पः । बोध्य वैशिष्ट्यप्रसङ्ग इति । बोध्यस्य विशिष्टात्मकत्व प्रसङ्गः । विशिष्टबोधनप्रसङ्ग इति यावत् । पूर्वोक्ताविशिष्टार्थ बोधकत्वाभिमानभङ्ग इति भावः । सत्यपदस्येति । सत्यज्ञानादिपदस्यासत्यादि परमसत्याद्व्यावृत्तिरूपधर्माणां विशेषणानामभावपरत्वमुक्तं स्यात्तद्विरुद्धम् । न हि घट पदं घटाभावपरं भवति ब्रह्मणो मिथ्यात्वादि प्रसङ्गश्चेति भावः । साध्यवैकल्यमुपपादयति ः - तदिदं शब्दयोरिति । पूर्ववदिति । वस्तुतो ब्रह्मणि विशेषणाभावस्य (+++++)दक यस्सर्वज्ञ इत्यादेरपि खण्डतार्थास्यादित्यर्थः । साध्यवैकल्यं दृष्टान्तस्योपपादयतिः - देवदत्तस्येति । सर्वेषामिति सर्वेषां पुरुषाणामित्यर्थः । निरूपकाणामिति । परीक्षकाणामित्यर्थः । अविश्वासिनामिति । असमीचीनत्व ज्ञानवतामित्यर्थः । अनृतेति । व्यावृत्तिर्विभेदः । अनृतादिभिन्नत्वेन बोधनाभिधानान्निभेदत्वेन बोधनाभिधानं व्याहतमिति भावः । पदत्रयव्यावृत्तिः । सत्यादिपदानां परस्परं भिन्नार्थमपर्यायत्वमिति यावत् । एतच्छब्दः अखण्ड - शब्दः । तत्सिद्धिः सजातीय मुख्य भेदराहित्यसिद्धिः । पूर्ववदिति । अयं च साधारणोदोषः । तैरपीति । अद्वैतश्रुतिबलाद्भावरूपविशेषणेनेवाभाव रूपविशेषणेनौपि ब्रह्मणस्सम्बन्धाभावादित्यर्थः । सम्बन्धाभावे निर्विशेषणत्वश्रुतिः भावस्येवा भावस्यापि समान इत्याहः - तथा च भाव इति भावेन सम्बन्धाभावे हेत्वन्तरमाशङ्क्य तदपि समानमित्याहः - वाक्यार्थस्येति । ननु भावान्तरं यद्यभावस्यात्तस्मिन्पक्षे सखण्डतास्यान्नत्वतिरेक्य इत्यत आहः - भावान्तरेति । न खण्डयते सखण्डत्वमिति । सखण्डत्वं स्यादेवेत्यर्थः । देवदत्त इति । तत्र विशेषण वैशिष्टयतात्पर्यात्सखण्ड परत्वं समानाधिकरणवाक्यत्वञ्चास्तीत्यर्थः । प्रत्यक्षेति प्रत्यक्षेण हि भावरूपविशेषण प्रतीतिः न शब्दतः मानान्तरप्रतीतिविशेषणराहित्ये सतीति तत्र विशेषणमिति न तत्र व्यभिचार इत्यर्थः । तत्किमिति । यत्किञ्चिद्रूपमखण्डार्थत्वम् । सम्प्रतिपन्न यत्किञ्चिद्बोधनादधिकबोधने पर्यवसित मुतनेत्यर्थः । आद्य इति । अधिक बोधने वैशिष्ट्य बोधस्या वश्यकत्वादित्यर्थः । नाद्यः देवदत्त इति पक्षबहिर्भावादित्यर्थः । कालात्ययापदेशमुपपादयतिः - न सोऽयमिति । विरोधाभास इति । तत्कालावच्छिन्नस्यैतत्कालवैशिष्टये एतत्कालावच्छिन्नस्य तत्कालवैशिष्टयेच युगपत्कालद्वय सत्वप्रसङ्गः । अवच्छेदकस्यावच्छेद्य समानकालत्वाच्च विरुद्धमिति सोऽयं देवदत्त इत्यादौ भ्रमोऽस्ति देवदत्तः श्यामो युवोत्त्यादौ तु सोऽपि नास्तीत्यर्थः । सर्वस्येति । सोऽयमिति वाक्यव्यतिरिक्तस्य सर्वस्येत्यर्थः । कस्यचिदिति । तत्वमसि - सत्यज्ञानादिवाक्यपक्षत्वे देवदत्तश्श्यामोयुवोच्यादौ व्यभिचार इत्यर्थः । किञ्चाकाङ्क्षदित्रयकत्वमस्ति न वा नास्तिचेद्वाक्यत्वस्य तद्घटितत्वादसिद्धिरस्ति चेत्पदान्तर विरहप्रयुक्तान्वयाननुभावकत्वरूपाया आकाङ्क्षायास्संर्गा बाधरूपयोग्यताया अविलम्बेनान्वय प्रतियोग्युपस्थिति रूपाया आसत्तेश्च विशिष्टज्ञान वेषत्वात्तद्वतो वाक्यस्या विशिष्टार्थ बोधकत्वं न स्यादित्याहः - वाक्यात्वादिति । आकाङ्क्षादित्रयाभावे स्वरूपासिद्धितां व्रजेदित्यन्वयः । तद्भावे - आकाङ्क्षासत्वे निरस्तप्राय इति । साक्षात्प्रेयोगोपादनेन दूषणकथनादिति भावः । तदुपलक्षणतया - प्रवृत्ति निमित्तोपलक्षणतया । आद्य इति । चन्द्रशब्दस्य चन्द्रशब्दवाच्यतापरत्वात्प्रकृष्टप्रकाशचन्द्रपदयोः प्रवृत्तिनिमित्तभेद । तदुभयवैष्टियं वाक्यार्थस्स्यादित्यर्थः । अन्यथेति । चन्द्रशब्दस्यस्ववाच्यतापरत्वाभावे प्रकृष्टप्रकाशपदानति रिक्तार्थकत्वाद्वैयर्थ्यं स्यादित्यर्थः । न हीति । चन्द्रपदस्यापि प्रकृष्ट प्रकाशत्वमेव प्रवृत्तिनिमित्तमिति । पयायत्वमिति भावः । तस्य तावन्मात्रलक्षणत्वादिति । चन्द्रत्वस्य प्रकाशमात्रलक्ष्यत्वादित्यर्थः । प्रकाशविशेषेति ।प्रकृष्टश्चासौ प्रकाशश्चेति समासे बहुव्रीहौ वा वैशिष्ट्यबोधनं सिद्धमिति भावः। अन्यथेति । पक्ष वैशिष्ट्यबोधनाभावे स्वरूपं निर्दिष्टमिति स्वरूपमात्रमित्यर्थः । व्यावृत्तिर्विवक्षितेति । तथा च लक्षणवैशिष्ट्यस्याविवक्षितत्वान्नखण्डार्थत्व हानिरित्यभिमानः ।ननु तथापि व्यावृत्तिवैशिष्ट्य बोधनात्सखण्डार्थत्वमितिरूचेराहः - तेनाकारेणेति । व्यावृत्तत्वाकारेणेत्यर्थः । व्यावृत्तित्वं स्वरूपवदेव तात्पर्यविषयतावच्छेदकं न तु बोध्यतया ततश्च व्यावृत्तित्व वैशिष्ट्य बोधनेन सखण्डार्थता । एवं च स्वरूपात्मक व्यावृत्तिपरमिति पर्यवसितार्थः । तथा च लक्षणवाक्यज स्वस्वरूपात्मक व्यावृत्ति धीरेवेतराभेद संशयादि निवृत्तिहेतुरिति भावः । लक्षणांशेन लक्षणस्य प्रतीयमानत्वात्कथं तत्र तात्पर्याभाव इत्याशङ्क्य स्वरूपस्यैव प्रश्नविषयत्वादुत्तरमपि तत्परत्वमेव युक्तं व्यावृत्तिश्च स्वरूपमेवेति न तत्परत्वेऽपि स्वरूपपरत्वहानिरित्यभिप्रायेणाहः - अस्मिन् ज्योतिर्मण्डल इति । ननु लक्ष्यपदेनापि विशेषणस्य प्रतीतेर्वाक्यस्य कथं स्वरूपमात्रपरत्वं स्वरूपस्य वाच्यत्वात्कथं वा तल्लक्षणेत्यत्राहः एवं विशेषणेति । लक्ष्यलक्षणपदाभ्यां विशेषलक्षणयोस्सत्यागादित्यर्थः । सत्तादिति । सामान्य वाचकस्य निर्विशेषवस्तु बोधने जहल्लक्षणैवेति भावः । अन्यार्थेति । व्यावृत्तिप्रतीत्यर्थमित्यर्थः । लक्षणवैशिष्ट्येति । स्वरूपस्य व्यावृत्तित्वेप्यभेद संशयनिवृत्तिस्तद्धेतु ज्ञानं वा लक्षणवाक्येनैवेति नियमोऽयं लक्षण वैशिष्ट्यप्रुक्त एवेति भावः । व्यावृत्तेरपि - व्यावृत्ते प्रतीतेरपि । न हि गन्धवत्वमन्तरेणेति गन्धवत्वप्रतीति मन्तरेणेम्यर्थः । तद्विशिष्टत्वस्य तद्विशिष्टबोधकत्वस्येत्यर्थः । अतस्सर्वत्रेति । यद्यपि व्यावृत्तिस्य स्वमते प्रयोजनमेव न तु शब्दार्थः तथापि तेन व्यावृत्तेश्शब्दार्थतयाऽभिधानाल्लक्षण वैशिष्टयं विना व्यावृत्त्यसिद्धेस्तदर्थत्वस्य आवश्यकत्वात्तदुभय वैशिष्ट्यं विशिष्टविषयेभ्यो वाक्यान्तरेभ्योधिकमेव तेषां व्यावृत्तिपरत्वाभावात् । न च व्यावृत्ति स्वरूपमेवेत्यक्तमिति वाच्यम् । स्वरूपपरत्वस्य सर्ववाक्य साधारण्यात्स्वरूपात्मक व्यावृत्ति परत्वेनैव वाच्येति व्यावृत्तिवैशिष्टयं वाक्यान्तरेभ्योऽधिक - मित्युक्तमिति भावः । वस्तुतस्तु न प्रतिपक्षमात्रमपि तु बाध इत्याहः - इदं चेति । लोके हि लक्षणवाक्यजन्य प्रतीतिर्विशिष्टविषयेति सिद्धोऽनुभवः . न च बाधकाभावेप्यनु भवस्य भ्रमत्वं तत्कल्पकं वा न त्वदुक्तावान्तरस्योत्क्रमान्त प्राणत्वात्तदनुगुणैस्तदनु मानस्याधिकवत्वात्तथा वाक्यस्वस्य विशिष्टपरत्व व्याप्यत्वे लाघवं समानाधिकरणवाक्यत्वस्याखण्डार्थ व्याप्यत्वे गौरवं भिन्नंविषयन्वेऽपि विरोधे सतिसकर्तृकत्वानुमान इव गौरवलाघव तर्कावतारादित्यर्थः । पूर्वयोरिति । समानाधिकरण व्याप्यत्वयोरित्यर्थः ।प्रतिरोध इति । उक्त युक्ति प्रतिसन्धानाभाव इत्यर्थः । न चेति । प्रमादकत्वगार्थं साध्यम् । तच्च जरद्गवादौ नास्तीति भावः । आकङ्क्षादीति जरद्गवादिवाक्ये योग्यता नास्तीति भावः । यद्वेति । न चैवं विशिष्ट वैयर्थ्यम् । चक्षुरादौ व्यभिचारवारकत्वाद्विशिष्टपरत्वस्य विशिष्टतात्पर्यरूपस्य तत्राभावात्पूर्वविशेषितस्य पश्चाद्विशेषणे हेत्वन्तरं स्यादिति प्रथममेवेत्युक्तम् । ननु तर्हि विशेषण प्रक्षेपस्य तत्रापि समानत्वात्कथं तद्रहितत्वेन पूर्वोक्ताधिक बलतेत्याशङ्क्य परेणाप्यखण्डार्थ प्रमापकत्वस्यैव साधनात्तस्य चा योग्य समानाधिकरण लक्षणवाक्ययोरभावाद्व्यभिचारवारणाय तेनापीदं विशेषणं देयमेव । वस्तुतस्तु सोऽयमित्यप्रमाणवाक्यस्या खण्डार्थत्वा सम्भवात्प्रमाणत्वे सति तवाप्यावश्यकं समानाधिकरणत्वं लक्षण प्रतिपादकत्वं चाधिकमिति तद्विशेषणरहितमेवाधिकबलमित्यभिप्रेत्याहः तथाप्यनेन पूर्वयोर्बाध इति । लोके देवदत्तो लोहिताक्षो दीर्घबाहुरिति वेदे “बार्हत्पत्यश्चरुर्भवति’ ( ) वज्ञवस्तु पुरन्दर ( ) इत्यादि । साध्य समव्याप्त्यभावादिति । “साध्येन समं साकं व्याप्त्या अभावा’‘दित्यर्थः । साध्यव्यापत्वाभावादिति यावत् । निर्गुणवाक्यविरोधेति । विशेषणस्य तत्वावेदक वेद्यत्वे सत्यत्वावश्यं भावादिति भावः । दोषनिषेधेति । गुणशब्दस्य दुष्टगुणविशेषपरत्वादिति भावः । विशेषणविशेष्य योरित । यदिविगीतं वाक्यं विशिष्टपरं स्यात्तदेत्यनुषङ्गः । प्रधानभूतेति । एकविशेष्यकत्वं भज्येतेत्यर्थः । विशेषण विशेष्येति । विशेष्य भेदस्य तादात्म्यभञ्जकत्वादेतत्कोट्युत्थितिः । उत निर्विशेषैकार्थेति । विशेषणविशेष्य भेदस्य विशेषणानां मिथो भेदस्य च तत्वादेक वेद्यत्वे सत्यत्वापातेनाद्वितीयत्व भञ्जकत्वादेतत्कोट्युत्थितिः । व्याप्त्यभावादिति । देवदत्तः श्यामोयुवालोहिताक्ष इत्यादौ व्यभिचारादप्रयोजकत्वादिति भावः । द्वितीयतृतीययोस्तर्कयो यथाक्रममङ्गातरवैक्यमप्याहः - द्वितीयस्येति । अस्ति तादात्म्यमिति विपर्यये पर्यवसानं वाच्यम् । तथा च विशेषण विशेष्य भावस्य भेद सापेक्षत्वात्तादातम्ये च भेदाभेद प्रसङ्गेन जैनमतानुसारियादवमतावतार इत्यर्थः । प्रथमपक्षमेवोद्बलयन्पुनश्शङ्कतेः - नन्विति । तदधीनेति । विशेषणभेदाधीनेत्यर्थः । व्याप्त्यभावस्योक्तत्वादिति । विशेषणभेदे विशेष्यभेद इति व्याप्तिनास्तीत्युक्तत्वादिति भावः । अन्योप्तेरेवेति । विशेषण सम्बन्धभेदे विशेष्यभेदइति व्याप्तिर्नास्तीत्यर्थः स्ववचन इति । एकत्वावच्छिन्नधर्मिणमनूद्यानेकत्व प्रतिपादने स्ववचन विरोध इत्यर्थः । प्रकारान्तरेण स्ववचनविरोधमाहः - एकत्वमिति ।प्रसज्य प्रसञ्जकविषर्ययात्मकत्वानेकविशेषण सम्बन्धाभावरूपविशेषणद्वयेनैकस्यैव योगादिकं स्वेनैव व्याहतमित्यर्थः । किं तद्विशेषणैस्तत्तद्विशेषणानाश्रयप्रतियोगिक व्यावृत्तिभेदमात्रमापाद्यते उततत्तद्विशेषणाविरोधिधर्माश्रयप्रतियोगिक व्यावृत्तिभेदोपीति वकिल्पमभिप्रेत्याद्येदोषमाहः - तत्तद्विशेषणेति।व्यावृत्तिरूपोभेदः व्यावृत्तिभेदः । व्यावृत्तिश्चभेदश्च व्यावृत्तिभेदमिति वा विवक्षितम् । व्यावृत्तिभेदादन्येत्यभि - प्रेतम् । द्वितीये दोषमाहः - अविरोध इति । तत्तद्विशेषणा विरोध्याश्रय व्यावृत्तेस्तद्विशेषणेनासाध्यतया तादृशव्यावृत्तिभेदासिद्धेरित्यर्थः । नहि नैन्त्यमिति । हिशब्देन लोकप्रसिद्धस्सूच्यते । अविरोधि व्यावृत्तिभेदस्यासिद्धौ हेत्वन्तरमाहः - तथा सतीति । अविरोधिव्यावृत्तिभेदसिद्धावित्यर्थः । विशेषणानां भेदकत्वस्यौत्सर्गिकत्वात्सत्यादिवाक्ये त्वप्रत्यक्षादि सङ्कोचकाभावात्सत्यत्वादिभिज्ञानादि व्यावृत्तिरपि सिद्ध्येदिति शङ्कतेः - भेदकमिति । विशेषणान्तरेति । यथाविशेषणान्तरप्रयोगे तथाश्रयएतद्विशेषणाश्रयाद्भेपस्सिद्धयति तथैतद्विशेषणप्रयोगेप्येतद्विशेषणैतद्विशेषणाश्रयाद्भेदः किं न सिद्धयेदित्यर्थः । विरोधादिति सत्यत्वाद्यवच्छेदकाश्रये तदवच्छिन्नभेदस्यवृत्त्य सम्भवादित्यर्थः । उपलम्भइति । सत्यत्वदेरेव स्वाश्रयभेदाभावरूपतया सत्यत्वाद्युपलम्भसत्यत्वाश्रये तद्भेदासम्भवेमानमित्यर्थः ।एतद्वाक्यस्थेति । एतद्वाक्यान्तर्गतं सत्यादिपदजन्य वाक्यार्थोपलम्भो विवक्षितः । सदजन्यपक्षास्मृतिरित्येके । अविशेषादिति । यथा तद्विशेषणस्यावगमात्तदाश्रये तदाश्रयभेदो न सम्भवति तथा तत्रैव विशेषमान्तरस्याप्यवगमात्तदाश्रय भेदश्च न सम्भवति । अन्यथा ब्रह्म सत्यज्ञानानन्दाद्यात्मकं न स्यात्तथाच विशेषण्सय विरोधिविशेषणान्तराश्रय व्यावर्तकता न त्वविरोधि विशेषणान्तराश्रयाव्यावर्तकतापीत्येकस्मिन्नेव तत्तद्वाक्योदितानेक विशेषणान्तयस्सम्भवतीत्यर्थः । विशेषणन्तरेति । ज्ञानादिपदव्यावर्त्यजडादेरपि सत्यपदेन व्यावृत्तेरिति भावः । किं च न वैयर्थ्यमात्रं प्रत्युतैतद्वेशेषणस्यापि वैयर्थ्यापादकत्वेन प्रतिकूलश्चेत्याहः - तस्यापीति । एतद्वेशेषणस्यापि विशेषणान्तरेण निरसनाद्विशेषणान्न्तरनिरसनीयस्य प्रथमविशेषण्योपादानं स प्रयोजनं न स्यात्तदा प्रक्षलनादिति न्यायमावहति । अत्र तु प्रथमविशेषणं विशेषणन्तर प्रतिक्षेपार्थमेवेति तस्यापि न वैयर्थ्यमेवेति शङ्कतेः - परस्परेति । परस्परस्य प्रवृत्तिनिवृत्ति प्रतिक्षेप इत्यर्थः । परस्परव्यवृत्तिनिमित्तेति पाठे तु परस्परं व्यावृत्तानि यानि प्रवृत्ति निमित्तनीत्यर्थः । विशेषणद्वयस्यापि स्वेतराश्रयव्यावर्तकत्वे परस्पर प्रतिक्षेपसिद्धिरिति भावः । अमृतेति । अनृत जड परिच्छिति रूपभिन्नव्यावृत्तिपरतया सत्यादिवाक्यं व्याखातं न तु सत्यज्ञानानन्त व्यावृत्तिपरतया तथा व्याखाने ब्रह्मणोप्यसत्वादि प्रसङ्गेन प्रकट सौगतत्वादि प्रसङ्गादित्यर्थः । पदद्वयेति । तथा च सत्यं ज्ञानमनन्तमित्यत्रैकं पदं व्यर्थमिति भावः । विशेष्य पदमात्रमिति । परमते ब्रह्मपदस्य लक्षणया विशेष्यमात्र बोधकत्वादितीन्द्रियशब्दादन्येन विशेषणानामप्रसक्तेः केनचिच्छब्देन किञ्चिद्विशेषणं प्रसज्य पदान्तरेण तद्व्यावृत्यर्थं विशेषणान्तरबोधने प्रक्षालनादिति न्यायात्किमपि विशेषणं नोपादेयमित्यर्थः यद्वा मात्रशब्देन विशेषणद्वयप्रयोगपक्षो - व्यावर्त्यते । विशेष्यपदस्वारस्याल्लक्ष्य पदमसर्पकं ब्रह्मपदमेकविशेषण पदसंहितं विवक्षितम् ।तदेव सर्वव्यावर्तयिष्यति किमितर विशेषणैरित्यर्थः । ननु विशेषण प्रकाशार्थं पदान्तरमन्यत्राहः - तदतिरिक्तस्येति ।तदभावनिर्णयायैव तद्विशेषणप्रयोग इति शङ्कतेः - विशेष्यपदमात्रेति । किं भाव प्रतिपादनमुखेनाभाव निर्णयो विवक्षितः । उतसाक्षादेव । आद्ये दोषमाहः - हन्तेति । तदभावनिर्णयाय तत्प्रतिपादनमसङ्गतं विरोधाद्विशिष्टपत्वापत्तच्चेति भावः । किञ्च भावप्रतिपादनासम्भवात्तद्विपरीत सत्यत्वादिनर्गय एव स्यादित्याहः - इति विपरीतेति । द्वितीयमाशङ्कतेः - विषमिति । लक्षणया तदभावनिर्णय इति भावः । सर्वविशेषणशून्यत्वमिति । लक्षणया सर्व विशेषणशून्यत्वप्रतिपादकत्वमित्यर्थः । तत्रेति । विशेषणपदाप्रयोगस्थले तात्पर्यनिश्चायकं सामानाधिकरण्यं नास्तीत्यर्थः । अहो इति । अभाव विरोधि विशेषण पदप्रयोगोप्यभाव तात्पर्यनिश्चायकः । अतः प्रकृते विशेष्यपदमात्रप्रयोगस्तु न तथेति कथं सदसि वदसीत्यर्थः । विशेषणपदाप्रयोगो न तदभाव तात्पर्य निश्चायकः अतः प्रकृते विशेष्यपदमात्रप्रयोगे विशेषणतदभावसन्देह एवेति शङ्कतेः - देवदत्त इत्यादिना । तद्विशिष्टत्वमिति । अतो न तदभाव तात्पर्यनिश्चय इति भावः । विपरीत निर्णय एव स्यादिति । यत्पूर्वमुक्तं तत्रशङ्कतेः - प्रतीतमपीति । अप्रतीतं किमिति । प्रत्युत प्रमाणाभावात्सुतरां निरसितुं शक्यत इति भावः । नूनमिति । विहितस्य निषेधायोगादप्रतीतत्वमुपकारकमिति भावः । अप्रतीतत्वमुपकारकं न भवतीति शङ्कतेः - प्रतियोगीति । स्मृत्यर्थमेवतन्निर्णयोऽपेक्षित इति भावः । साधारणेति । अभावाश्रयाविशेषित धर्ममात्रप्रतिपत्तेयेत्यर्थः । बुध्यधिरोहादिति । स्मृत्यवरोहादित्यर्थः । तथा च स्मृत्यर्थं न तन्निष्ठतया अनुभवा पेक्षेति भावः । अन्यथेति । तन्निष्ठतयानुभवास्यैव स्मृति हेतुत्वेकस्यापि विशेषणपदस्याभाव तन्निष्ठतयानुभक भावेन कोटिस्मृतेरभावात्संशयानुत्थाने सन्देहनिराकरणार्थं विशेषणपदस्यानपेक्षितत्वाद्विशेष्यपदेनैव निर्विशेष सिद्धिरित्यर्थः । बुद्धिस्वरूपमात्रभेदं वेति । तदधीन बुद्धिभेद इति चतुर्थकोटौ तदधीनेत्यस्य विशेषणभेदाधीनेति खल्वर्थः । ततश्च व्यक्तिभेदस्य कारणाधीनभेदस्य च विशेषणभेदाधीनत्वाभावात्कथमनयोश्शङ्कयोरुत्थानं कथं च धारावाहिक बुद्धयभिज्ञादिषु दोषोद्भावनम् । तत्र विशेषणभेदाभावादिति चेदित्थं बुद्धिभेदमात्रं तत्र विशेष्यभेदप्रयोजकताय विवक्षितं विशेषणभेदाधीनत्वं तु प्रकृतिभिप्रायेण तदुपपादकतया विवक्षितमतो न दोषः । ग्रहकेति । करणविशेषणाधीनेत्यर्थः ।आद्य इति । बुद्धिभेदात्पूर्वक्षणावच्छिन्नघटस्यैतत्क्षणावच्छिन्नघटस्य च भेदेक्षणिकत्वं स्यादिति भावः । अभिज्ञेति । अभिज्ञाविषयस्य प्रत्यभिज्ञाविषयस्य च ताभ्यां भेदादिति भावः । सम्मतेति प्रामाण्यभङ्गविशेषणम् । सौगताद्विशेषमाहः - अतिरिक्तस्त्विति । अयं वक्ष्यमाणः । एतेनेति । बुद्धिभेद तद्विषयभेदे आत्मनो भेदाभावाद्विषयभेदो नस्यात्तदधीनां तः करणाध्यासो वा कथं स्यात् । अधिष्ठानज्ञानविषयध्यासविषयाधिष्ठानयो भेदादिति भावः । अत एवेति । अभिज्ञा प्रत्यभिज्ञास्मृत्यनुभवविषयाणां भेद प्रसङ्गादेवेत्यर्थः । स्वराद्यनुमित पुत्रादेरिति । प्रत्यक्षानुमित्योर्भिन्न विषयत्वादिति भावः । श्रवणमननेति । तेषां ग्राहकभेदवत्वादिति । ग्राह्याकारमात्रमिति । ग्राह्याकारभेदमात्रमित्यर्थः । उक्तनयेनेति । अनेकव्यावृत्तीनामेकत्र सम्भवादिति व्यावृत्तिकोप्युक्तनयेनेत्यर्थः । अन्यथेति । एकस्यानेकविशेषण विशिष्टाभआवे सर्वस्यापि विरुद्धत्वादविरुद्धधर्माप्रसिद्धिरिति भावः । प्रागुक्तेति । प्रागुक्तविरोधि व्यावृत्ति भेदवदित्यर्थः । तत्वमाकारयोरिति । तत्वमित्यनुकरणशब्दावेतौ ताभ्यां तदर्थलक्षणा तयोर्यावाकारौ तयोभिन्नप्रवृत्तिरित्यादि सामानाधिकरण्य निरूपणेनाविरोधस्य सिद्धत्वादित्यर्थः । पर्यायेति । विशेषणभेदाद्विशेष्य भेद इत्युक्तिर्विमतस्य बुद्धिं सहसैव नाधिरोहति । अतो विशेषण भेदप्रयोज्यत्वेनसम्मतम्। विशिष्टताभेदमापाद्य विशेष्यस्वरूपातिरिक्त विशिष्टताया अभवाद्विशिष्टताभेदाद्विशेष्य भेदस्यादेवेत्यनेन तात्पर्येण विशेष्यभेदापादने बुद्धिग्धावधिरोहतीत्यर्थः । परस्परसमवायप्रसङ्ग इति । विशेषणानामन्योन्य सम्बन्ध इत्यर्थः । सर्वंहीत्यादि । सर्वस्य कार्यस्योद्देश्योपादेय विभागवत्वनियमादुद्देश्यतायाश्च प्रथमाभिधानप्रयुक्तत्वात्प्राधान्यस्य विशेषणेप्यविशेषण तस्याप्युद्देश्यत्ववश्यं भावादुद्देश्यान्वयिनो विधेयस्य विशेष्य इव तद्विशेषणेनाप्यन्वयत्यन्वय प्रसङ्ग इत्यर्थः । नन्वेवमपि विधेय विशेषणान्वयादिति कथं परस्परसमवाय इत्यत्राहः - एवं विशेषणान्तरेति । प्राप्तस्यापि विशेषणस्येत्यादिवक्ष्यमाणाभिप्रायो ग्राह्यः । किमत इति । उद्देश्योपादेयविभाग नियमासिद्धेरुद्धेश्ये बाधकाभावे तत्त्यागो नन्याय इति भावः । सत्यादिवाकयेपिकृत्स्नाप्ति रूपोद्देश्योपादेयविभागबाधकस्य सत्यादि विशिष्टविधिरित्याहः - तथापीति । अन्यथेति । कृत्स्नस्याप्राप्तत्वेप्युद्देश्यविधेयभावाङ्गीकारे विशिष्टविधिमात्रमुच्छिद्येत उद्देश्योपादेयनियमाङ्गीकारेन स्वरूपपरत्वसिद्धिश्चोद्देश्यो पादेयभावस्य भेदघटितत्वादिति भावः । प्रथमन्तावदिति । यदुक्तं पूर्ववादिनापरस्परमुद्देश्यो पादेयभावः । पदार्थानांवक्तव्यः । ततश्चाभिधान क्रमो वक्तव्यः । ततश्च क्रमाविशेषाद्विशेषणानामपि परस्परमुद्देश्योपादेय भावात्परस्परसमवाय प्रसङ्ग इतितत्र प्रथममुद्देश्योपादेयत्वं सम्भवतीति भावः । विहितस्येवान्वयः । ततश्च प्राप्तस्यापि विशेषणस्य विशेष्यान्वयप्रतिपत्त्यर्थं तद्विशेषणविशिष्टनुपादेन विधेः स्वीकार्यत्वात्परस्परोद्देश्योपादेय भाकत्परस्परान्वयो दुर्वार इति शङ्कतेः - प्राप्तस्यापीति । तद्विशिष्टतानुवादेनेति । विशेष्यान्वये विहितत्वमप्रयोजकमिति भावः । अभिधान क्रमोऽपिनास्तीत्याहः - अत इति । अस्यविवरण मुद्देश्येति ।अभिधानदशा - वाक्यार्थज्ञानदशा । स्मृति विमर्शेपि ज्ञाते उद्देश्येधर्मिणि विधेयान्वयविचाररूपः प्रत्येकेति ।तथाच विशेषणान्तरविशिष्टे विशेषणान्तरविशिष्टविशेषाणान्तरान्वयप्रतीतिनस्तिति भावः । विमर्शेक्रमे सत्यपि विशेषणे विशेषणान्वयस्या योग्यत्वाद्विशेश्य विशेषादुद्देश्य विशेषणे विधेय विशेषणाद्यारता प्रसङ्ग इति शङ्काप्युद्देश्योपादेययोः क्रमाभावादेव निरस्तेत्याहः अत इति । ननूद्देश्यविधेययोः क्रमाभावेऽपिविशिष्टस्यैवोद्देश्यत्वातदन्तर्गते विशेषणे विशेष्य इव विधेयान्वययोरवर्जनीय इत्यत्राहः - उद्देश्यपदवदिति ।यथोद्दश्यपदं विधेयविशेषणे स्वविशेषणान्वयं बोधयतीति किन्तु यथा व्युत्पत्तितद्विशेष्येतथाविधेयपक्षमप्युद्देश्य पदविशेष्य समवेतमेव विशेषणं बोधयति न तु तद्विशेषणे तथैव व्युत्पत्तेरित्यर्थः ।विशेषणस्य विशेषणान्वयोवक्तृ तात्पर्यविरुद्धश्चेत्याः - यथाव्युत्पत्तीति । तात्पर्याभावमेव विवृणोति नहीति । तस्यांशस्येति ॥ तस्य विशिष्टात्मान उद्देश्यस्य यो विशेषणविशेष्यात्मकः तस्यांशेस्येत्यर्थः । उपादेयांशेन विधेयविशेषणेनेत्यर्थः । न उद्देश्यस्योपादेयव्याप्यत्वेप्युद्देश्यस्योपादेय । धारतानियमोनचैता व्याप्यत्वाभावः । तन्मात्रस्यैव व्याप्तित्वादन्यथा धूमेऽपि वह्निर्व्याप्तिर्नस्यात्तस्माद्यथा प्रमाणमुद्देश्यविशेषस्याधारतया विधेयविशेषणान्वयनियमः उद्देश्यविशेषणस्य विधेयविशेषणेन सामानाधिकरण्येनान्वय नियम इत्यस्थेयमित्याहः - अस्त्वेवमिति । न स्वरूपेणैवेति । तत्सम्बन्धनियम इत्यनुषङ्गः । विशेषणान्तरेणेत्यतः प्राक्किञ्चिदिति शेषः । एवं तर्हीति । उद्देश्यविशेषणस्य विधेयविशेषणानाश्रयत्वे चन्द्रत्वकेदारत्वानाश्रययोः शाखासारसयोवोपलक्षणत्वमवेस्यान्नतु घटं पश्येत्यादाविव घटत्वादेर्विधेयान्वयितया विशेषणत्वमित्यर्थः । उपलक्षणत्वमात्रं स्यादिति । तथाच निर्विशेषत्वं सिद्धमित्यभिप्रायः । शङ्कतेः - उपलक्षणस्येति । बहिर्विषयत्वादिति । विषयाद्बहिः - बहिर्विषयमित्यव्ययीभावः । विशेष्यगतत्वाभावादित्यर्थः । तस्येति उद्देश्यविशेषणस्येत्यर्थः । उद्देश्यविशेषणेनापि सविशेषत्वमाहः - नचेति । एवं क्वचिदुपलक्षणस्य बहिष्ठत्वमङ्गीकृत्योक्तम् । इदानीं क्वाप्युपलक्षणस्य बहिष्ठत्वं नेत्याहः - न च सारसाधिकमिति। वाक्यस्येति । सदेवदत्तकेदारो यत्र सारसइत्यादेरित्यर्थः । कुतः सर्वोपलक्षणत्वप्रसङ्ग इत्याकाक्षां व्युदस्यन्नहीत्यादिनोक्तमेवार्थं विवृणोतिः - निर्नयेत्यादिना । असम्बन्धाविशेषणलक्ष्यविशेषनिर्णयासम्भवाद्युगपदेव सर्वस्यतदुपलक्षणकत्वं स्यादित्येवं रूपेणातिप्रसङ्गेनाति प्रसङ्गिन्याश्शाखायाश्चन्द्रोपलक्षणत्वासम्भवादित्यर्थः । अस्तु तर्हीति । तद्वाक्यस्योद्देश्यपपोपात्तविशेष्यं तद्वाक्यस्थविधेयपदेन तद्विशेषणान्वयितयानुभाव्यं तद्वाक्यस्थोद्देश्यपदोपात्तत्वात्तत्पदोपात्तविशेषणवद्भूतलेघट इत्यादि व्यधिकरणवाक्यस्थ विधेयपदविशेष्य घटादवंशतो बाध इत्यत उक्तंः - तद्वाक्यस्थेत्यादि । यथा श्रुते परमते समानाधिकरणवाक्यर्थत्वेनाभिमत विशेष्यस्वरूपमात्रस्यापि वस्तुतो विशेषणान्तरयोगाद्बाध इत्यनुभाव्यपर्यन्तम् । व्यधिकरणवाक्यस्थोद्देश्यपदविशेष्ये तद्विशेषणान्वयितयानुभाव्ये व्यभिचार इति विधेयपदम् । व्यधिकरणवाक्यस्थविधेयपदेनविशेषणवत्तया बोध्येविशेष्येव्यभिचारवारणाय हेतौ तद्वाक्यस्थेति । प्रागुक्तेति । स्वोक्तविशिष्टपरत्वानुमानस्य सर्वलोकप्रतीत्यनुगुणत्वेनाधिकबलत्वं प्रागुक्तं तत्रैव परकीयानुमानस्योपलम्भाविरोध इत्युक्तं भवति । तथा च स एव अत्राप्युपलम्भविरोध इत्यर्थः । आदिपदेन पदान्तरं वैयर्थ्यादिगृह्यते । तथा विधेति । विशिष्टार्थपरेषुदेवदत्तश्श्यामो युवेत्यादि वाक्येषु व्यभिचार इति भावः । आभासमायोगत्वमाहः - त्वदुक्तेति । तद्वाक्यस्थोद्देश्य पदोपस्थाप्यं विशेष्यं न तद्वाक्यस्थ पदान्तरेणबोध्यमेतद्वाक्यस्थोद्देश्यपात्तत्वात्तत्पदोपात्तविशेषणवदिति अति प्रसङ्ग इत्यर्थः । यद्यपि वाक्यार्थस्य सकलपदप्रतिपाद्यतया तद्विशेषणीभूत पदार्थानामपि पदान्तर प्रतिपाद्यत्वमस्तीति नबाधादृष्टान्तासिद्धिश्च । तथापि तत्पदावाच्यविशेषणान्तरशून्यतया पदान्तरप्रतिपाद्यत्वाभावस्य साध्यत्वान्न बाधोन दृष्टान्तासिद्धिश्चेति भावः । विशेषणान्तरेति एतद्वाक्यस्थपदप्रतिपन्नस्य विशेषणस्यसामानाधिकरणपदान्तरेणापि प्रतिपादने तद्वाक्य प्रतिपन्न विशेषणान्तरैरपि विशेषणानामैक्यं स्यादित्यर्थः ।किमत्र समानविभक्ति पदबोध्यत्वमात्रेणविशेष्यवद्विशेषणानाम्मैक्यं स्यादिति विवक्षितं किं वा समानविभक्तेः प्रादिपादिकार्थैक्ये तात्पर्याद्विशेषणानमप्यैक्यं स्यादिति विवक्षितम् । आद्ये दोषमाहः - नहीति । न विशेषैक्यदृष्टान्तमात्रेण विशैषणैक्यसिद्धिः । समानाधिकरण सगुणब्रह्मवाक्यप्रतिपन्न विशेषणानामैक्यस्य त्वयाप्यनङ्गीकाराद्वभिचार इति भावः । द्वितीये दोषमाहः - न च सगुणेति । नहि सगुणब्रह्मपरस्य सर्वज्ञ इत्यादि समानाधिकरणवाक्यस्य यावत्प्रादिपादिकार्थैक्य तात्पर्यमिति सम्भवति । देवदत्तः श्यामो युवालोहिताक्ष इत्यत्रेव विशेष्यैकपरत्वनिर्णयात्तया च समानविभक्तेर्विशेष्यैक्ये तात्पर्यमित्यर्थः । पक्षभूते सत्यादिवाक्येति । दिशीति । तद्वदेवेति । सगुणे गुणविशिष्टतया बोध्येनिगुर्णणे ज्ञानादिगुणं विना सत्यत्वादिना बोध्य इत्यर्थः । व्युत्पत्तिः - समानाधिकरणवाक्यानां भिन्नविशेषणद्वारेणैकविशेष्यपरत्वावधारणं - प्रतिपत्तिस्तन्मूलकोऽनुभवः । अत एवेति । सामानाधिकरणवाक्यानां विशिष्टार्थपरत्वादेवेत्यर्थः । नन्विति । प्रकृष्टावृत्तिः प्रवृत्तिः - अभिधानिमिति यावत् । निमित्तशब्दो विषयपरः । तथाच भिन्नाभिधेयानामेकस्मिन्नर्थे वृत्तिरितिकैश्चिदर्थाभिधानात्तदनुसारेण शङ्केयमतएव विषय व्यवस्थाया विरोधः परिहरिष्यतेः - लक्षणवाक्यस्येति ।भिन्नप्रवृत्तिनिमित्तानामित्यादि लक्षणवाक्यस्येत्यर्थः । अन्यपरत्वेति । यथाश्रुते विरोधाद्भिन्न प्रवृत्तिनिमित्तेत्यादि वाक्यमन्यपरमित्यभिप्रायेणेत्यर्थः । अनभ्युपगमादिति । अस्य लक्षण वाक्यस्य त्वयाप्यभ्युपगमादिति भावः । एकस्मिन्निति । एकस्मिन्प्रवृत्तिनिमित्तलक्षणेऽर्थेरित्यर्थः एकार्थत्वस्येति । समानाधिकरणवाक्यस्यैकार्थ परत्वं तत्वादेव सिद्धमित्यर्थः । तात्पर्य सिद्धत्वमेवाहः - अर्थैकत्वादिति । वाक्यस्यैकार्थवत्वं नाम एकार्थबोधकत्वम् । कियदेकार्थबोधकत्वमित्यपेक्षायां घटमानयेत्यादौ घटमित्यस्य विभागेप्रयोगाभावे कर्मसापेक्षमानयेति । तदप्रयोगेघटमित्ययं क्रियापेक्षमिति परस्परं साकाङ्क्षत्वा देकवाक्यमिति वाक्यस्यैकार्थ परत्वं सिद्धिमित्यर्थः । न च बौद्धगन्धीति । एकं वाक्यमेकोवाक्यार्थ इति वाक्यस्य तदर्थस्यचैक्यानुभवाच्छब्दानां च भिन्नत्वाद्बाह्यार्थानां घटतदानयनादीनामनेकत्वात्प्रतीतिरेव वाक्यार्थभावेन दृश्यत इति बौद्धशाब्दिकाः प्राहुःतद्वदित्यर्थः । तद्वदेवेति । व्यधिकरणवाक्यस्येव समानाधिकरणस्यापि वैशिष्ट्ये तात्पर्यमभ्युपगम्यव्यधिकरण वाक्यार्थस्य समानाधिकरमवाक्यार्थस्य चापारमार्थिकत्वमभ्युपगम्यतामित्यर्थः । तथापि व्यधिकरणवाक्य व्यावृत्तत्वमखण्डार्थत्वं ना सिद्ध्यतीति भावः । एवं चेति । तात्विकवैशिष्ट्याभाव परत्वस्यैव साध्यत्वात्तस्य च व्यधिकरण वाक्येऽपि सत्वेन निर्विशेषणपरत्वं वेति विकल्पदूषणावसरे त्वन्मते नतु व्यधिकरणवाक्यानामपि परमार्थतो विशेषणशून्यार्थ विषयत्वेन हेतुविशेषणवैय्यर्थ्यमिति यद्दूषण मुक्तं तत्रापि प्रसज्यत इत्यर्थः । व्यधिकरण वाक्यानां प्रधानभूतार्थैक्यादेकार्थत्वमिति शङ्कतेः - एवं चेति । भेदस्तु विशेषणगतः । ऐक्यं विशेष्यगतमिति व्यवस्थयेत्यर्थः । बाधः - भिन्नार्थानामेकार्थत्वमिति यथा श्रुतार्थत्यागः । अध्याहारः - प्रवृत्तिनिमित्तात्यागेनेति विशेषपूरणम् । लक्षणा - शेषपूरणार्थानुगुणा लक्षणवाक्यस्थपदैस्स्वरूपमात्र - लक्षणा । आदिशब्देन लोकविरुद्धव्युत्पत्तिग्रहः । एवं प्रवृत्तिनिमित्तशब्दस्याभिधेयपरत्वानुसारेण व्यवस्थोक्ता । इदानीं तस्य विशेषणवाचित्व पक्षमनुसृत्य विरोधशङ्गैव नेत्याहः - प्रवृत्ति निमित्तशब्देति । शङ्कतेः - पदद्वयेति । तद्वदेवेत्यतः पूर्वमन्यथेति शेषः । विशेषणस्य विशेषत्वेन विशेष्यस्य विशेषणेन सम्बन्धस्य च सम्बन्धे नैक्यमिति विकल्प्याद्ये दोषमाहः - अविशिष्टद्वयेति । विशेषणस्य विशेषणैक्यापादकत्वे आत्माश्रयः। विशेषणैक्यस्य प्रागसिद्धत्वादसिद्धिः । विशेषणैक्यमात्रस्यापाद्य व्याप्तत्वेन विशेषणाद्यैक्य समुदायस्याव्याप्यत्वात् व्याप्यत्वासिद्धिरादिशब्दार्थः । उदीरितत्वादिति । न हि पदद्वय प्रतिपन्नविशेष्यैक्य मात्रात्सिद्धिरित्यत्रेत्यर्थः । विशेषणैक्यस्य विशेष्यैकाना - पदकत्ववद्विशेष्यैक्यमपि विशेषणैक्यापादकं न भवति । अन्यैकस्यात्मैक्ये नापादकत्वादित्याहः - यथा जात्यादीति । यथावाऽनेकप्रतियोगि भेदेपीति । न तु व्यावृत्तिः स्वरूपस्यैव न वस्तुस्वरूपं तथा च तद्भेदांस्तीति चेन्न । व्यावृत्तीनां भेदेऽपि तद्वते ऐक्यादिति भावः । ननु प्रत्यक्षादौ यथा तथा वस्तु शब्देन यन्नियम इत्यत्राहः - प्रत्यक्षाद्यनु सारीति । ननु प्रत्यक्षादि शक्तिग्राहकमात्रं न तु विशिष्टबोधन सामर्थ्यापादकमिति चेत्सत्यं परस्परमन्वयबोधे विरुद्धार्थानां वैशिष्ट्यमपि स्यादेव अत एवाग्निर्माणक्क इत्यादौ गौणता अन्यथा स्वरूपमात्रबोधन व्युत्पत्तौ गौणतायाः प्रसङ्गादिति भावः । ननु तत्वमसीत्यादावभेदस्य बुभुत्सितत्वात्तस्यैव साक्षात्प्रतिपादने लाघवमभेद सिद्धयर्थं धर्मान्तरोपलक्षिते धर्मान्तर प्रतिपादने तु गौरवमित्यादि तर्कानाशङ्कयाङः - एतदन्यदपीति अयम्भावः न हि सामान्येना भेदस्वरूपं बुभुत्सितं किन्तु तत्कालीनस्यैतत्कालीनाभेदः स च तत्कालैतत्काल प्रतिपादन पुरस्सरं साक्षादेव वाक्येन प्रतिपाद्यते । अन्यथा जिज्ञासायाभेदभ्रमस्य चानिवृत्तेः । न हि विशेषणविशेष्योपरक्ता भेदजिज्ञासा । तदनुपरक्तस्वरूपमात्रविषय ज्ञानान्निवर्तते । तादृशज्ञानजनकोत्तरस्य प्रश्नानुरूपत्वादिति विशिष्टतात्पर्यकल्पने गौरवादिति कुतर्काणां च दूषणं वक्ष्यते । निमित्तभेदोऽस्ति न वा न चरम इत्याहः - यद्येकपदेति । यत्पदं यत्पदापेक्षया भिन्ननिमित्तकं (+++++) तेन पर्यायो यथा घटशब्दः कुम्भशब्देनेति व्याप्तेरिति भावः। द्वितीयं शङ्कतेः - निमित्तेति । वैशिष्ट्यप्रसङ्ग इति । स खण्डार्थत्वप्रसङ्ग इत्यर्थः । ततन्वथाभावादिति प्रवृत्तिनिवृत्ता पादनादित्यर्थः । तर्कावस्कर इति । एकार्थपरत्व भङ्गइत्यादिः । अवस्करः - मलम् । “वर्चस्केऽवस्कर’’ ( ) इति निपाननात् । अवकर इति क्वचित्पाठः । अवकरः - सम्भार्जनी निरास्यः ।“सङ्करोऽवकरस्तथे’‘ति नामानुशासनात् । तर्काणामङ्गवैकल्यमाहः - यदि चेति । एकेतरपदप्रयोगे वैयर्थ्यं स्यादिति । पदान्तरस्येति शेषः । क्वचिदेकतरपदप्रयोग नैरर्थक्यमिति पाठः । स्वरूपस्यैक्येऽपि व्यावृत्तिभेदान्न वैयर्थ्यमिति शङ्कतेः - प्रतिपन्नेऽपीति । प्रवृत्ति निमित्तान्वयसामर्थ्यादिति ।अन्वयबोधसामर्थ्यादित्यर्थः । अविशेषादिति । पदान्तर जन्यप्रतीतेः प्रथमपदजन्यप्रतीतेश्चाविशेषादित्यर्थः।न हि पदभेदजन्यत्वमात्रेणाव्यावृत्ति भेदसिद्धिः । किन्तु प्रतीति विशेषत एव । अन्यथा घटः कुम्भः इन्द्रः शक्रः शतक्रतुः । कन्दुः कोष्ठः कुसूल इत्यादावपि व्यावृत्ति भेदप्रसङ्गात्तदाहः - पदशतेनापीति । नन्वेकेनैव स्वरूपोपस्थितिरस्तु । पदान्तराणां पृथगर्थवत्वमेव मास्तु । नचैवं तदप्रयोग प्रसङ्गः । एकस्यापि पदस्य स्वरूपोपस्थित्यर्थं तत्प्रयोग इति शङ्कतेः - अथेति । नैरर्थक्यं पृथगभिधान शून्यत्वम् । सामानाधिकरण्येन प्रयोगस्य तात्पर्यग्राहकत्वापदान्तरप्रयोगाभावान्निर्विशेषतात्पर्यग्रहो न स्यादिति भावः । तथापीति । सामानाधिकरण्यं भिन्नर्थतात्पर्यकमित्युक्तमेव । एकार्थतात्पर्यकत्वाङ्गीकारेपीत्यर्थः । पदद्वयेति । विशेषणपदद्वयेमात्रेणेत्यर्थः । वस्तु तस्तु विशेषण पदद्वयमपिमास्त्वित्याहः - तथा चेति । ननु सामानाधिकरण्यार्थं विशेषणद्वयमित्याहः - एक विशेषणेति । विशेष्यपदमात्रे - अन्योन्याश्रयतेति । सामानाधिकरण्यस्य यत्रक्वचित्स्वरूपमात्र तात्पर्यकत्वग्रहे तादृशसामानाधिकरण्यार्थकतया पदान्तरसार्थक्यं - पदान्तरसार्थक्यसिद्धौ च नैरर्थक्यपसङ्गरूपबाधकाभावात्सामानाधिकरण्य वाक्यस्वरूप मात्रपरत्वसिद्धिरित्यन्योन्याश्रय इत्यर्थः । ननु पदप्रवृत्तिनिमित्तानां स्वविरोधि व्यावृत्तिव्याप्यत्वात्सामानाधिकरणवाक्यस्य स्वरूपमात्रपरतया व्युत्पत्तिसिद्धत्वाद्विशिष्ट - बोधकत्वाभावेऽपि पदान्तरैस्स्वप्रवृत्तिनमित्तविरोधिव्यावृत्तिरूपस्थाप्यत इति न वैयर्थ्यमिति शङ्कतः - नन्विति । स्वप्रवृत्तिनिमित्तसहितेति । स्वप्रवृत्तिनिवृत्ति व्याप्य व्यावृत्तमित्यर्थः । परिहारग्रन्थः - श्रूयतामिति ।स्वरूपस्यैवेति । ततश्च तद्बोधनार्थं वाक्यं व्यर्थमित्यर्थः । दूषणान्तरमाहः - प्रकाशाप्रकाशयोरिति । स्वजन्य व्यावृत्तिबोधने नाध्यासनिवृत्तिः समानाधिकरमवाक्यप्रयोजनं स्वरूपात्मक व्यावृत्तेः - प्रकाशेतद्विरोधि जडाध्यासो न स्यादप्रकाशे तु धर्मि प्रकाशाभाकदध्यासो न स्यादिति वाक्य वैयर्थ्यमित्यर्थः । किं स्वरूपभूता सत्यादिपद लक्ष्य व्यावृत्तिर्भिन्नेति पक्षे किं भेदः परमार्थः उतापरमार्थ इति विकल्पं हृदि कृत्वा प्रथमे दोषमाह भिन्नत्व इति । तथा सति “एकमेवाद्वितीयं ( )मिति विरोध इति भावः ॥ किं मिथ्याभूत भेदवद्व्यावृत्तिस्वरूपं तत्प्रतिपादनार्थमनेकपदमुत मिथ्याभूत भेदवत्तयाप्रतिपादनार्थम् । आद्ये दोषमाहः - मिथ्याभूतेति । मिथ्याभूतत्वमनेकत्वांशे विवक्षितम् । परमार्थतो व्यावृत्तेरेकत्वात्तत्प्रतिपादनमेकेन पदेन युक्तमिति पदान्तर व्यैयर्थ्यमिति भावः । द्वितीये दोषमाहः - एकनिष्ठेति । सिद्धान्ते एकस्मिन्नधिकरणेऽनेकनिरूपित एक एवान्योऽन्याभावात् घटत्वादिरूपो घटेस्तम्बाद्भेदः पटाद्भेद इत्यनेक पदैर्व्यवह्रियत इत्यभिप्रायः । प्रौढवादेन परिहरतिः - प्रतियोगीति । स्वमतेन परिहारमाहः - अभेदेऽपीति । यथा घटान्योऽन्या भाके घटपटादिन भवतीत्यत्र (+++++) पत्वेप्यनेक प्रतिपदिकसत्वेन निरूपणार्थमनेकपदं तद्वदेक निष्ठान्योन्याभावनिरूपणेपीत्यर्थः।ब्रह्मण एव व्यावृत्तित्वेऽपि पदान्तरसाकल्यं स्यादिति चोद्यमप्युक्तरीत्या परिहृतमित्याह एवमिति । स्वरूपानतिरिक्तान्योन्या - भावसमत्वशङ्काप्येवमुक्तप्रकारेण विशिष्टार्थबोधायखण्डर्थत्वाभावप्रसङ्गेन परिहृतेत्यनुसन्धेयमित्यर्थः ।वैशिष्ट्यमात्रमिति । बोधनमित्यर्थः । प्रागेवेति । व्यावृत्तिलक्षणमङ्गी कृत्य तत्रधर्म वैशिष्ट्य बोधनद्वारं लक्षणामनङ्गीकृत्य - यथा प्रतीति सत्यत्वादि विशिष्टबोधनमित्यर्थः । दूरङ्गत्वापीति । व्यावृत्तिलक्षणामङ्गीकृत्यापीत्यर्थः । प्रवृत्तिनिमित्त वैशिष्ट्याङ्गीकार इति शेषः । तेन क्वस्समानकर्तृकत्वं सिद्धम् । तत्समानयोगक्षेमतयेति । तत्तद्विरोधिव्यावृत्तेरिति शेषः । तत्पदं प्रवृत्तिनिमित्तपरम् । एवं तदसद्भाव इत्यत्रापि द्रष्टव्यम् । तदसिद्धीति । अत्र तत्पदं तत्तद्विरोधिव्यावृत्ति परम् । किं च तत्तद्विरोधिव्यावृत्तिस्सिद्धा चेतत्तद्विरोधिव्यावृत्तिवैशिष्टयेनैव सखण्डार्थत्वं दुर्वारमित्याहः तत्सिद्धाविति । अपक्षपाति न इति । स्वरूपमात्रपरत्व भङ्गस्य समानत्वेप्यभाव वैशिष्ट्यबोधनमात्राङ्गीकारे निर्मिमित्तपक्षपातादित्यर्थः । सत्यभूतधर्मवैशिष्ट्यबोधनेऽपि सखण्डार्थत्वमित्यत आहः - न चेति । न भेतव्यमिति । यथा व्यावृत्तेर्मिथ्यात्वात्तद्वैशिष्ट्य बोधनेऽपि नाखण्डार्थत्वक्षतिरित्यार्थः । व्यावृत्तिवैशिष्टयबोधपक्षे लक्षणाङ्गीकारोऽधिकदोषइत्याहः - भवतीति । ननु यदि सर्वैः पदेः स्वरूपमेव बोध्यते तदैकेतर पदवैयर्थ्यं स्यादिति यत्पूर्वमुक्तं तत्र शोकल्यादिषु कार्ष्णादि व्यावृत्तिरूपेष्वनेक पदसार्थक्य दर्शनान्न ब्रह्मण्यपि तद्व्यावृत्तिरूपे पदान्तरनैरर्थक्यप्रसङ्गः । अन्यथा शौक्ल्यं कार्ष्णव्यावृत्तमित्यादावपि नैरर्थ्यक्यं स्यादिति प्रतिबन्दिरप्येकनिष्ठानेक प्रतियोगिकान्योऽन्या भावनिरूपणप्रतिबन्दि निरासेन निरस्तैवेत्याहः - एतेनेति । प्रतिपाद्यभेदेति । कार्ष्णव्यावृत्तिरपीति । व्यावृत्त्योर्भिन्नयोरेव प्रतिपाद्यत्वादित्यर्थः । तद्भेदेनाङ्गीकारे बाधकमाह यदिपुनरिति । ननु व्यावृत्त्यनुवृत्योरविरोधोऽस्त्वेत्यत्राहः - व्यावृत्त्यनुवृत्तिभ्यामिति । ननु भावन्तराभाववादेःशोक्ल्यादेरेवेतरसमस्त व्यावृत्तित्वात्पूर्वोक्त - नैरर्थक्यमेवेत्यत आहः यद्यपीति । तत्तत्प्रतियोगिकत्व प्रयोजक तत्तदध्यासविरोद्युपाधिरूपोपाधिविशेषणनिरूपण नियतनिरूपणत्वातादृशोपाधिभेद प्रतिपादनात्प्रतिपाद्यभेद इत्यर्थः । अन्यथेति ।अनुगतोपाध्यभाव इत्यर्थः । अननुगतानामभावत्वं घटत्वेनानुगतीकृत्यतां घटानामेव यथाङ्गीक्रियते घटघटत्वयोः क्लप्तत्वान्नत्वतिरिक्ताभावः । तद्वदिहाप भावस्य तद्गतानुगत धर्मस्य च क्लृप्तत्वात्तत एव व्यवहारोपपतौ नातिरिक्तकल्पनाप्रसङ्ग इति भावः । एवं ब्रह्मस्वरूपस्य व्यावृत्तित्वमभ्युपेत्य शौक्ल्यादिप्रतिबन्दिर्निरस्ता । इदानीं तस्य व्यावृत्तत्वमेव न सम्भवतीत्याहः सम्भवति चेति । समानाधिकरणेति । स्वरूपतस्सामानाधिकरण्यस्याति प्रसक्ततयार्थद्वारक एव तस्मिन्समानाधिकरण्य वाचः पर्यवसानमिति वाच्यम् । तथा च समानाधिकरणार्थकत्वमेव व्यधिकरणवाग्वायवृत्तं शब्दानां सामानाधिकरण्यमित्यर्थः । न चैतदिति । देवदतश्श्यामो युवा लोहिताक्ष इत्यादि वाक्यविषयत्व - मित्यर्थः । प्रवृत्तिनिमित्तभेदस्यावश्यकत्वे हेतुमाहः - एकप्रवृत्तीति । प्रवृत्तिनिमित्तस्यावश्यकत्वे हेतुमाहः - परित्यक्तेति । एकप्रवृत्ति निमित्तकत्वनिष्प्रकृतिनिमित्तकत्व योस्सतोस्सामानाधिकरण्यं न दृश्यतइत्ययुक्तम् । निष्प्रवृत्तिनिमित्तकस्य सत्यादिवाक्यस्य सामानाधिकरण्यदर्शनादिति शङ्कतेः - सत्यज्ञानेति ।सामानाधिकरण्यमित्यर्थः । तत्रै (+++)त्प्रमाणाभावत्कथं दृष्टान्तत्वमत्यभिप्रायेणाह आशेति । आशा - रागः । मनोरथिक इत्यर्थः । प्रवृत्तिनिवृत्त्यैक्ये सामानाधिकरण्यम् इति दृश्यत इति शङ्कतेः - तर्हीति । सामानाधिकरण्यं दृश्यत इति शेष - । अन्वयादेवेति । अन्वयप्रतीत्यभावेन वाक्यत्वस्यैवासिद्धत्वात्तद्विशेषसमानाधिकरणवाक्यत्वं सुतरामसिद्धमित्यर्थः । नैराकाङ्क्ष्येणेति । नैराकाङ्क्ष्येण यो वाक्यभेदः अहोविमलं जलं नद्याः कच्छेमहिषश्चररतीत्यादौ न स्यादित्यर्थः । तदुत्तरार्धस्त्विति । तथा च वाच्यत्व लक्षणा न दोषायेति भावः । वाच्यत्वलक्षणायां हेत्वन्तरमप्याहः एतदनभ्युपगम इति । मुख्येऽपीति । मुख्यार्थे विवक्षितेऽपीत्यर्थः । इदं च सर्वपदलक्षणादिकं विशिष्ट एव तात्पर्यनिर्णयादिति भावः । स्वप्रतिपत्तिरिति । सखण्डार्थत्वस्यैव सर्वानुभवसिद्धत्वात्स्वानुभव विरुद्धश्च निर्विशेषानुभव इति भावः । अथवेति । अपिचेत्यर्थः । असङ्कोचः शब्दविशेषविषयत्वेन सङ्कोचाभावः । विपरीतमिति । मुख्यतया बोध्यत्वमेव प्रथमोपस्थितं प्रसिद्धं चेति शङ्कावाच्यत्वभङ्ग एवाशङ्क्य निरस्तेति भावः । उभयथापीति । वृत्तिनिषेधस्यैव “यतोवाचो निवर्तन्त’ (तै.उ.आन 9) इत्यतः प्रतीतेरिति भावः । बोध्यत्व इति । अपिर्व्युत्क्रमेण मुख्यतया बोध्यत्वेमिथ्यात्वभयमपीत्यर्थः । अत एवेति । मिथ्यात्वभयादेवेत्यर्थः । वाङ्निवृत्ति श्रुतिः परमार्थवाङ्निषेधिकेति भावः । अपरमार्थतस्तद्बोधनादेव तत्सिद्धिरित्यत्राहः - परमार्थत इति । तत्रैवेति । सत्यादिवाक्य एवेत्यर्थः । यद्यपि बोधनादर्थसिद्धिस्तच्चापरमार्थतोप्यखण्ड एव न तु सखण्ड इति सखण्ड सिद्धिस्तथापि सगुणवाक्येसखण्डबोधनात्तत्रैव तत्सिद्धिप्रसङ्ग इति भावः । तात्पर्यस्येति । मुख्यवृत्त्यैव निर्वाह्यार्थविषयतयेत्यर्थः ।यत्पुनरिति । विषशब्दस्यानर्थावहवाचकतया निषेधनलक्षकत्वाद्भुङ्क्ष्वेत्वस्य भोजननिषेध लक्षणकत्वात्सर्वपदलक्षणेत्यर्थः । यदि भुङ्क्ष्वेत्वस्य मुख्यतयैव तर्हि निषेधावगमः केनेत्यत्राहः - विषशब्देनैवहीति । अपिस्त्वर्थः । भोजननिषेधस्तु निषिद्धपरतया त्वदभिमतेन - विषशब्देनैव लक्ष्यत इत्यर्थः । भोजनक्रियाकर्मोपस्थितित्वध्या हारादिति भावः । पूर्वं वाक्यार्थलक्ष्यत्वमुक्तम् इदानीं वाक्यार्थत्वमेवाहः - यद्वेति । प्रत्ययांशस्येति । भुङ्क्ष्येत्यत्राख्यानस्य मुख्यार्थपरित्यागादिति भावः । अन्येतु विषमिति प्रथमाविभक्तिस्साधुत्वार्थेत्याहुः । केचित्तु विषशब्देन द्विषदन्नं लक्ष्यते विधिप्रत्ययेन च निषेधोलक्ष्यते भुजघातुर्मुख्य एवेति न सर्वपदलक्षणेत्याहः । ननु शत्रुगृहे जलमपि नपि बेदित्यभिप्रायेण विषं भुङ्क्ष्वेति प्रयुज्यते । तत्र घातुः कतं मुख्यार्थो भत्रणपानयोर्भेदादिति चेन्न । शत्रुगृहे यन्नकर्तव्यं तदनेनैवनिषेध्यमिति न नियमः । शत्रुगृहे माभुङ्क्ष्व किमपि न पिबेत्यादि वाक्यान्तरेणापि निषेधसम्भवे त्मानुपस्थितिदशायां तस्य निषेध्यत्वासिद्धेश्च । यदि च भोजनपानोभय निषेधपरतया प्रयुज्यते यदि च पिपासुं प्रत्येव प्रयुज्यते तदानीमपि द्वितीया मुख्येव । न च वायुर्वैक्षेपिष्ठा देवतेत्यादि सर्वपदलक्षणोदाहरणं भवितुमर्हति तत्र प्राशस्त्यलक्षणायामप्यर्थवादस्य विधेयगत प्राशस्त्यार्थकत्वेन विध्येक वाक्यत्वाद्विधेयसमर्पकस्य च मुख्यत्वात् । न च विधेयान्वयप्रतीतेः पूर्वं प्रशस्तस्य सर्वैः पदैर्लक्ष्यत्वादवान्तरवाक्ये सर्वपदलक्षणा दृष्टेति वाच्यम् । पदार्थ संसर्गानुभावकत्वाभावेन तदादाय वाक्यत्वाभावात् । प्राशस्तस्यानुभवे प्रमाणाभावेनलक्षणगङ्गापदलक्ष्यस्यैव स्मार्थत्वात्ततोऽपि न वाक्यत्वमिति भावः । विशेषमात्रस्यैवेति । यदि विशेष्यैक्यवाचिप्रत्ययोमुख्यार्थःतदा तदर्थेनैव सखण्डार्थत्व प्रसङ्गः । ततश्च विशेष्यमात्रस्यैव प्रतिपत्तव्यं च तत्वयाभिमतम् । तदशक्यत्वमेव विशेष्यैक्यरूप मुख्यार्थ परत्वेनोपपादितं स्यादतस्सखण्डार्थत्वापादकत्वाद्विशेष्येक्यं दुष्प्रतिपादकमित्यर्थः । यथआ प्रवृत्तिनिमित्तवैशिष्ट्यं दुष्प्रतिपादं तथा विशेष्यैकपीति अपिना सूच्यते । निर्विषयत्वादिति (+++++) विषयाभावे न शक्तिर्नप्रवर्तत इत्यर्थः कुण्ठितत्वमबोधकत्वम् । अन्यथेति मुख्यार्थैकदेशविशेषणत्यागे कुण्ठितत्वाभावे प्रधाननिर्देशेपि लक्षणा न स्यादिति भावः । अत इति ।मुख्यार्थकत्वे बाधाभावेऽपि वाक्ये हेतुमन्तरेण लक्षणाकल्पनं तत्रापि सर्वपद लक्षणेत्यादि कल्पनमित्यर्थः ।ननु प्रधानांशस्यापरित्यागात्प्रकृते न लक्षणाभाव प्रधानेत्वप्रधानस्य प्राधान्येन बोधनाल्लक्षणा तथा च न लक्षणादि दोषइत्याशङ्क्य तथापि विशिष्टपरत्व एव स्वारस्यात्सर्वपदलक्षणावदस्वारस्यमेव दोषइत्याहः - यद्यपीति । किञ्चेति । अखण्डस्यवाक्यबोधकत्वम् इत्यर्थः । मीमांसाचार्यादिभिरिति । तर्कपादे भट्टाचार्यादिभिर्बुद्धेर्वाक्यजन्यायान प्रतिपाद्यता न सम्भवति । प्रतिपाद्यत्वं हि तज्जन्यबुद्धिविषयत्वं तयोर्भेद नियमादन्यथा सार्थकत्वनिरर्थकत्वादि विभागो न स्यात् । सर्वस्यापि तादृश विवक्षासम्भवेन सार्थक्याद्वयुत्पत्तिग्रहा वैयर्थ्य प्रसङ्गादित्यादिभिः प्रतिक्षिप्तमित्यर्थः । तत्र - निरसनविषये । इह - अत्रग्रन्थेमन्वित्यादि । विगीतं वाक्यं विशिष्टपरमिति पूर्वग्रन्थोऽखण्डार्थत्वानुमानदूषणपरः । अयन्तु सखण्डार्थत्व साधन पर इत्यपौनरुक्त्यम् । विशिष्टपरं - विशिष्टबोधकमित्यर्थः । न चेति । वाक्यवत्संसर्गानुभावकत्वाभावाद्भमहेतुभिरित्युक्तम् । तेषामपीति । स्वपदार्थसंसर्गज्ञानजनकत्वमात्रं न साध्यं किन्तु सामान्यतो विशिष्टबुद्धिजनकत्वं तस्य च न व्यभिचाराभावः । स्मारकत्व इति । शब्दप्रवृत्तिनिमित्तविशिष्टस्यैव पदार्थत्वादिति भावः । शक्तं पदमित्यभिप्रायेणेदम् । सुपृतिङन्तं पद ( )मित्यभिप्रायेणाह - एकस्येति । प्रतिपादनार्थं प्रकृतिप्रत्ययांश युक्तपदवत्वेन पदार्थानां प्रत्ययार्थविशिष्टप्रकृत्यथ रूपत्वात्स्वार्थिकानां प्रकृत्यर्थानतिरिक्तार्थत्वेन तत्र प्रत्ययार्थ वैशिष्ट्याभावात्प्रायश इत्युक्तम् । तत्रापि प्रवृत्तिनिमित्तविशिष्टरूपत्वं पदार्थानाम्मस्तीत्याहः - पदार्थानामपीति । भ्रान्तिजनकत्वमिति । भ्रान्तिजनकत्वं यथार्थविशिष्टविषयत्वेऽपि विशिष्टविषयमे - वेत्यर्थः । ननुख्यातिपक्षे ज्ञानाभावात्कथं विषयत्वमित्यत्राहःः - संसर्गाख्यातिरेवेति । तत्रापीति ज्ञानमुत्पद्यत इत्यर्थः । एतेनेति । पदार्थस्य प्रवृत्तिनिमित्तादि विशिष्टत्वेनेत्यर्थः । अन्यत्रेति । निर्विकल्पक भङ्ग इत्यर्थः । परोक्षानुमानं प्रत्यक्षेणैवबाधितमित्याहः - यद्वेत्यादिना । ननु भवतुविशिष्टानुभवो न वाक्यजन्य इत्यत्राह अत इति । नन्वानन्तर्येऽपि बाधकबलान्नतज्जन्यत्वमित्यत्राह - बाधेति । वत्सकुलजलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायांशतदूषणीटीकायाम् अष्टात्रंशो वादस्समाप्तः ॥