37 जीवेश्वरैक्यभङ्गः वादः

अथ सप्तत्रिंशो वादः ।

आत्मतत्वविदां पुंसां यद्दास्यं लास्यकारणम् ।

तद्वन्दे परमानन्दमिन्दिरामन्दिरं महः ॥
यत्पुनर्महासाहसिका दृढतरनिरूढहेदात्ममोहमन्दधियः प्रत्यक्षादिविरोधमपि तिरस्कृत्य स्वात्मानमेवेश्वरमभिमन्यन्ते, तदपि
भेदसामान्यस्य आत्मनानात्वस्य च समर्थनात् ““एको बहूना’’ मित्याद्युक्तैकानेकतादात्म्यायोगाच्च निरस्तप्रायमेव ।
विशेषतोपि पश्यामः ।
जीवस्येश्वरत्वं किं प्रत्यक्षबलादभ्युपगम्यते, उतो पपत्तिसामर्थ्यात्, यद्वा शास्त्रवैभवात्? अन्यतः कुतश्चित्र सम्भत्येव ।
नाद्यः, अनीश्वरतयैव स्वात्मन उपलम्भात् ।
अप्रतीत्तेश्वरस्य कथं तत्प्रतियोगिकानीश्वरत्वनिरूपणमिति चेन्न; - श्रुत्यादिभिः प्रमितेश्वरतत्वानां तत्प्रतियोगिकभेदनिरूपणोपपत्तेः, स्वात्मनि अप्रत्यक्षमेर्वादिभेदोपलम्भवत्, यदीश्वरःस्वात्माप्रत्यक्षमवे तथोपलभ्येतेत्यप्रतीतेश्वराणामपि स्वगसेच्छाविघात दुःखादिदर्शनात्तावत एवानीश्वरत्वोपलम्भरूपत्वात् ।
अनीश्वरोहमित्युपलम्भो नास्तीति चेन्न;
अशक्येष्वनीश्वरोहमित्येवोपलम्भात् ।
सामर्थ्याभावलक्षणधर्मविषयोयमनीश्वरशब्द इति चेन्न; - ईश्वरप्रतीतावपि तस्यैव धर्मस्य ईश्वरव्यतिरेकात्मनोल्लिख्यमानत्वात् ।
माभूद्वा स्वात्मन्यनीश्वरशब्दः, ईश्वरव्यतिरेकरूपधर्माणां स्वरूपतस्तावत् प्रतीतिरपरिहार्या ।
कार्यविशेषेषु ईश्वरोहमित्यभिमन्यन्त एव सर्वे पुरुषाः ।
कर्मण्यैश्वर्यबोधोधिकर इत्युच्यत इति चेन्न; - क्षेत्रज्ञानामपि तावन्मात्रेश्वरत्व प्रतिपादनेस्माकमिष्टापातात् ।
एतावानेवेश्वरशब्दार्थो लोके व्युत्पत्तिसिद्ध इति चेन्न; - ईश्वरत्वस्यात्यन्तनिम्नोन्नततारतम्यवत्तयोपलम्भात् ।
ततः किमिति चेत्? इयदेवेश्वरत्वमिति परिच्छेदासिद्धिः ।
तथापि लोकसिद्धोत्कर्षकाष्ठामात्रे पर्यवसानमस्त्विति चेन्न; - लोकायतवादप्रसङ्गात्, सर्वव्यक्तिसाधारणाकारस्यैव वाक्प्रवृत्तिनिमित्तत्वेन लोके प्रसिद्धेः ।
साधारणाकारेपीश्वरशब्देन प्रतिपिपादयिषिते तद्विरुद्धदुःखादिधर्मवत्तामात्रस्य प्रतिक्षेपायोगात् ।
सर्वविषयमीश्वरत्वमनुपलब्धमिति चेत्? सत्यम्, तत एव हि शास्त्रावतारः ।
अनुपलम्भादेव बाधे शास्त्रमपि तत्प्रतिपादनासमर्थमिति चेन्न; - अनुपलम्भमात्रेण बाधेतिप्रसङ्गात्, योग्यानुपलम्भस्यासिद्धेः, सिद्ध्यतश्च तस्य स्वस्मिन्नीश्वरत्वमात्रप्रतिक्षेपसामर्थ्यात् ।
ततश्च नाहमीश्वर इत्यनुपलम्भात् सिद्ध्यति, न पुनरीश्वरो नास्तीति ।
तदेवं कर्मवश्यानां प्रतिहतिभूयिष्ठसङ्कल्पानामाध्यात्मिकादिदुःख सन्ततिसन्तप्तानां स्वदुःखमूलोन्मूलनाय लौकिकमलौकिकं वा हेतुमन्विच्छतामस्मदादीनामनीश्वरत्वे प्रत्येकं प्रत्यक्षतः परस्परमनुमानतश्च सिद्धे न काचिदप्युपपत्तिर्जीवेश्वरत्वं साधयितुमीष्टे ।

एतेन द्वितीयोपि विकल्पो निरस्तः, स्वशरीरवत्परशरीरेपि जीवानामीश्वरव्यतिरेकस्य दुःखादिसम्भेदसिद्धत्वात् ।
तस्य च तेषां प्रत्यक्षत्वात् ।
तथाच सति जीवः ईश्वराद्भिन्नः चेतनत्वादित्यादौ बाधप्रतिज्ञाविरोधादयो द्रष्टव्याः ।
अत विरुद्धधर्ममित्यात्वेन जीवेश्वरयोः स्वरूपैक्यमविरुद्धमित्युच्यते, तथापि जीवेश्वरयोः कार्यकारणोपाधिरूपेणाध्यस्तत्वाभ्युपगमात् रज्जवारोपितसर्पभूदल नादेर्ब्रह्माध्यस्ततेजस्तिमिरादिविरुद्धवर्गस्य च तादात्म्यविरोधो न स्यात् ।
न चैतद्युक्तमभ्युपेतुम्, व्यावहारिकत्वेपि यथालोकं व्यवस्थाप्यत्वात् ।
आरोपितोभयबाधदशायामप्यधिष्ठानमात्रपरिशेष एव, न पुनरारोपितयोस्तादात्म्यम्, नाप्यधिष्ठानारोपितयोः; अन्यथा सर्वशून्यत्वे सर्वसत्यत्वे वा पर्यवसानात् ।
तैमिरिकस्य चन्द्रे चन्द्रान्तरवत् स्वस्मिन्नेव स्वाध्यासात् अविरोध इति चेन्न; - उपरिदेशस्य तत्र चन्द्रान्तराध्यासाधिष्ठानत्वञ्चन्द्रस्य वा द्वित्वाध्यासाधिष्ठानत्वमिति न क्वचिदपि स्वस्मिन्नेव स्वाध्यासः ।
स्वमहिमप्रतिष्ठितत्वाद्युक्तेरपि निराधारत्वादिमात्रे तात्पर्यम् ।
तथापि चन्द्रद्वित्ववत्स्वरूपभेदाध्यासः, तन्निवृत्तौ स्वरूपैक्यमविरुद्धमिति चेत्? हन्तैवमचेतनवर्गेपि किन्न कल्प्यते ।
तन्मिथ्यात्वप्रतिपादनबलादिति चेन्न; - “नेह नानास्ती’ त्यादीना ज्ञानज्ञेयज्ञानरूपसमस्त निषेधाभ्युपगमात्, “यत्रत्वस्य सर्वमात्मैवा भृदि’ ति वाक्यशेषेण त्वदनभिमतस्यापि सर्वस्वरूपैक्यस्य स्वरसप्रतीतेः ।
प्रत्यक्षादिसिद्धविरोधानुसारेण तत्र तादात्म्यं परित्यजाम इति चेत्? तर्हि सैव दृष्टिर्जीवेश्वरयोरपि किन्न निक्षिप्यते ।
अन्यथा कालात्ययापदेशस्य विरोधस्य च निर्मूलत्वे प्रतिवाद्यपि यत्किमपि जल्पन्न निगृह्येत ।

नापि तृतीयः ।
शास्त्रमपि हि सहस्रशो जीवेश्वरयोर्भेदमेव कण्ठोक्त्या क्वचित्प्रतिपादयति,
क्वचिद्विरोधिधर्मम्, क्वचित्तु भेदाक्षेपकं सम्बन्धविशेषम् ।
यथा ““क्रियागुणैरात्मगुणैश्च तेषां संयोगहेतुरपरोपि दृष्टः।
’’ ““जुष्टं यादपश्यत्यन्यमीशम्’ “पृथगात्मानं प्रेरितारं च मत्वा’ “द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं साद्वत्त्यनश्नन्नन्योभिचाकशीति’ “तस्माद्वा एतस्माद्विज्ञान मयात् ।
अन्योन्तर आत्मानन्दमयः’ “अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः’ ।
“उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः’ ।
“अन्यश्च राजन् स परस्तथान्यः पञ्च विंशकः’ इत्यादिभिर्जीवपरयोर्भेदः स्वशब्देनोच्यते ।
तथा “यस्सर्वज्ञस्सर्ववित्’ “परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ “स कारणं करणाधिपाधिपः’ “तमीश्वराणां परमं महेश्वरं तन्दैवतानां परमं च दैवतम् ।
पतिं
पतीनां परमम्’ “दासभूतास्स्वतस्सर्वेह्यात्मानः परमात्मनः’ “आत्मदास्यं हरेस्स्वाम्यं स्वभावञ्च सदास्मर’ इत्यादिभिर्विरोधिनो धर्माः ।
“एषत आत्मान्तर्हृदये’ “एवमयमन्तरात्मन्’ “पुरुषो मनोमयः’ ।
“य आत्मनि तिष्ठन्….यस्यात्माशरीर’ मित्यादिभिः, “पतिं पतीनामि’ त्यादिभिश्च पूर्वोक्तौर्भेदाक्षेपकः सम्बन्धः ।
मुक्तिदशायामपि विशेषतो भेदः श्रूयते सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता ।
’ “तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ “इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः ।
’ इत्यादिभिः ।
एवञ्च प्रत्यक्षद्यविरुद्धतत्वस्थितौ श्रुतिशतसिद्धायां सर्वत्र जीवेश्वर सामानाधिकरण्यमैक्यनिर्देशश्च स्वस्मामिभावबन्धादिभिरुपचारतोपि निर्वोढव्यम् ।
तथाच श्रुतिशैली - “सराष्ट्रं नाभवत् स राष्ट्रमभवत् स इदं भविष्यती’ त्यादि ।
श्रुतवेदान्तस्य तु शब्दशक्तिनिष्कर्षे सत्यपर्यवसानात् विशिष्टैक्यादिविवक्षया च तयोरुपपत्तिः ।
एवमनभ्युपगमे
चेतनवदचेतने प्यैक्यव्यपदेशबाहुल्यात् अचेतनतादात्म्यमपीश्वरस्य दुर्वारम्, विरुद्धधर्माध्यासादेरनादरमात्रेण वाङ्मात्रेण परिहर्तु मशक्यत्वात् ।
चेतनस्यापरमार्थत्वाद्बाधार्थं तत्र सामानाधिकरण्यमिति चेन्न; - जीवेपि प्रसङ्गात् ।
उपास्तिप्राप्तिदशयोरप्यैक्यव्यपदेशाज्जीवैक्यं परमार्थभूतमिति चेन्न; - आरोपेणाप्युपासनस्य सगुणब्रह्मोपासनादिषु भवद्भिरेव स्वीकारात् ।
नचाहङ्ग्रहोपासनमात्राज्जीवेश्वरैक्यसिद्धि;, भवत्पक्षेहमर्थभूतान्तःकरणेन ब्रह्मण ऐक्यप्रसङ्गात् ।
केवलाहमर्थोपासनदशायान्तदीश्वरत्व प्रसङ्गस्याभावात् ।
ईश्वरदृष्टिविधौ तु जीवेश्वरभेदस्यैव पारमार्थिकत्वम् ।
यथात्मनि गरुडदृष्टौ गरुडात्मनोर्भेदस्य ।
अन्यथा दृष्टिविधेः सत्योपासनविधेश्च वैषम्यासिद्धिप्रसङ्गात् ।
वामदेवेन्द्रादिवदहमर्थविशिष्टतदन्तर्यामिनिर्देशेपि विशेषणविशेष्यभावादिना भेदस्सिद्धः ।
एवमेव परमात्मशरीरत्वविशेषितप्रत्यगात्मोपासनेपि ।
तदेवमचेतनेपि चेतनभ्रमवदनीश्वरेष्वपि जीवेष्वीश्वरभ्रमं परित्यज्य तद्वशीकरणहेतुभिस्तत्पारतन्त्र्यानुसन्धानादिभिरात्मानं बन्धान्मोचय, न पुनस्समस्तनिग्रहानुग्रहक्षमसत्यसङ्कल्पेश्वरतादात्म्यमोहमहापराधेन सर्वनिग्रहपात्रमात्मानमन्धे तमसि पातय ।
प्राप्तावैक्यव्यपदेशोपि भवत्पक्षे प्रपञ्चैकक्यव्यपदेशद्बाधेनापि किन्नोपपद्यते ।
आत्मबाधे कथं मोक्षस्य पुरुषार्थत्वमिति चेत्? धिङ्मूर्ख, अहमर्थबाधे मोक्षस्य पुरुषार्थतां वदन् किमीद्दशोक्तौ जिह्रेषि ।
तत्वावेदकवाक्यप्रतिपन्नं जीवैक्यमिति चेत्? अचिद्यैक्यमपि हि तेनैव प्रतीयते ।
अन्यथा तत्र बाधार्थसामानाधिकरण्यस्वीकारोपि दुश्शकः, आरोपितैक्यमात्रेण समन्वयोपपत्तेरौपचारिकोक्तेरपर्यनु योज्यत्वात् ।
नदीसमुद्रघटाकाशमहाकाशादिदृष्टान्तेन मुक्तौ भेदनिवृत्तिवचनं च साम्यसहश्रुत्याद्यनुरोधेन कर्मोपाधिक नामरूपादिवैधर्म्यरूभेद तन्निवृत्तिभ्यामचरितार्थम् ।
जीवेश्वरैक्यश्रुतीनां च निवार्हक्रमं"अवस्थितेरिति काशकृत्स्न’ इत्यसूत्रयत् ।
आह च मोक्षधर्मे - ““अन्यश्च राजन् स परस्तथान्यः पञ्चविंशकः ।
तत्स्थत्वादनुपश्यन्ति ह्येक एवेति साधवः ॥‘‘इति ।
इममेवार्थमभिप्रेत्य “आत्मेति तूपगच्छन्ति ग्राहयन्ति चे’ त्यहङ्ग्रहोपासनमपि सूत्रितम् ।
नच भेदविषयस्फुटानेकश्रुतिबाधोन्याय्यः ।
एकवाक्यप्रतिपाद्ये च क्वचिच्चिदतिरीश्वरतादात्म्ये वैरूप्यकल्पनप्रयासश्च ते निरर्थकः ।
भिन्नवाक्यप्रतिपन्नेपि सम्भवदैकरूप्यमपरित्याज्यम् ।
अस्मत्पक्षे तु भेदश्रुतिघटकश्रुतिप्रत्यक्षाद्यविरुद्धं सर्वत्र विभूतितद्वद्भावेनैकरूपमेव चिदचितोरीश्वरसामानाधिकरण्यम् ।

ननु भवतोपि क्वचिद्वैरूप्यमङ्गीकार्यम्, “ब्रह्म वेद ब्रह्मैव भवती’ त्यादिना मुक्तस्य ब्रह्मसामानाधिकरण्ये विभूतितद्वद्भाव विवक्षानुपपत्तेः ।
प्राप्याकारोहि तत्र निर्दिश्यते ।
नच विभूति भावः प्राप्यः, तस्य नित्यसिद्धत्वाभ्युपगमात् ।
तदाविर्भाव विवक्षायां तस्य तत्राशब्दत्वात् ।
यदि चेश्वरविभूतित्वं मुक्तस्याङ्गीक्रियते, तदा मुक्तस्य तत्पारतन्त्र्यशेषत्वे अपि स्याताम् ।
न चायमिष्टप्रसङ्ग इति वाच्यम्, स्वरूपाविर्भावलक्षणस्य मोक्षस्यापि संसारवद् दुःखात्मकत्वप्रसङ्गात्; चेतननिष्ठयोश्शेषत्वपारतन्त्र्ययोः दुःखानुषङ्गव्याप्तेः ।
तथाच स्मरन्ति - “सर्वं परवशं दुःखं सर्वमात्मवशं सुख’ मिति निषेधन्ति च पारतन्त्र्यम्, “सेवाश्ववृत्तिर्व्याख्याता तस्मात्तां परिवर्जये’ दिति ।
श्रुतिश्च मुक्तस्य स्वातन्त्र्यमेव दर्शयति - “सस्वराड्भवती’ ति ।
सूत्रं च मुक्त विषयम् - “अत एव चानन्याधिपति’रिति ।
“सङ्कल्पादेवास्यपितरस्समुत्तिष्ठन्ते’ “सत्यकामस्सत्यसङ्कल्पः’ “सर्वेषु लोकेषु कामचारो भवति’ “कामान्नी कामरूप्यनुसञ्चरन्नि’ त्येवमादयश्च मुक्तस्य पारतन्त्र्यगन्धं प्रतिरुन्धते ।
“सङ्कल्पादेव तच्छ्रुते’रिति च मुक्तस्य विचित्रसृष्टौ हेत्वन्तरनैरपेक्ष्यमसूत्रयत् ।
नच “जगद्धापारवर्ज’ मिति जगद्धापारनिषेधात्पारतन्त्र्यमपि सूत्रकार सम्मतमिति वाच्यम्, प्रतिसर्गदशायामीश्वरस्येव स्वतन्त्रस्याप्यनिच्छतो जगद्धापारनिवृत्त्युपपत्तेः ।
अस्तु वा जगद्धापारोचितस्वातन्त्र्यविरहः, तथापि स्वप्रवृत्त्यादिषु न पराधीनत्वसिद्धिः ।
अल्शक्तिरधिकशक्त्यपेक्षया परतन्त्र एवेति चेन्न; - भिन्नविषयत्वे तत्प्रसङ्गाभावात् ।
एकविषयत्वे
प्यविरोधे परस्परसहकारित्व मात्रेण परस्परं पारतन्त्र्यस्य परस्परं स्वातन्त्र्यस्य वा प्रसङ्गात् ।
स्वव्यापारांशे नैरपेक्ष्यस्य च द्वयोरपि वक्तुं शक्यत्वात् ।
नच मुक्तकर्तृकप्रवृत्तिनिष्पत्तावीश्वरः मुक्तनिरपेक्ष इति युक्तम्, स्ववचनाविरोधात् ।
नच मुक्तसङ्कल्पाधीनभोगनिर्माणे मुक्तेश्वरयोः प्रयोज्यप्रयोजकभावः, प्रमाणभावात्, पूर्वोक्त श्रुत्यादिविरोधाच्च ।
कारयितृत्वश्रुतेरप्यन्निनीषाधोनिनीषागर्भत्वेन कर्मवश्यमधिकृत्यैव प्रवृत्तेः ।
आनन्दयितृत्वश्रुतेश्च मोक्षप्रदनादिना चरितार्थत्वात् ।
नच निवारणसमर्थेश्वरस्यानिवारणमुपजीव्य मुक्तः प्रवर्तत इति वाच्यम्, विपरिवर्तेपि निवर्तका भावात् ।
नच प्रागशक्त्या परापेक्षया च पश्चादपि तयोः नियमः, प्राङ्मुक्तत्वाभावेनापवर्गस्यात्यन्तोच्छेदप्रसङ्गात् ।
प्रागशक्त्योदश्च कर्मोपाधिकत्वात् ।
संसारदशायामीश्वरपारतन्त्र्यमपि सांसारिकसुखदुःखैकभोगहेतुतया राजादिपारतन्त्र्यवत् कर्मानुरूपमेव ।
अतः कर्मनिवृत्तौ तदपि निवर्तिष्यत एवेति स्वतन्त्रो मुक्तः ।
अतः सस्वराड्भवतीत्यत्राकर्मवश्य इति व्याख्यानेपि
कर्मवश्यत्वाविनाभूतमीश्वरपारतन्त्र्यमपि फलतो निवर्तितं भवति ।
नच मुक्तस्वातन्त्र्यविषयाणां श्रुतीनां “पतिंविश्वस्ये’ त्यादिश्रुतिबलादनीश्वरविषयतया सङ्कोचः, पतित्वश्रुतीनामेवामुक्तविषयतया सङ्कोचोपपत्तेः ।
नच द्वयोरपि पृथग्विषयलाभे नियामकाभावात्कस्य सङ्कोच इति नित्यसन्देह इति वाच्यम्, “सस्वराड्भवती’ त्येवंरूपस्य व्यपदेशस्य स्वेतरसमस्तवश्यत्व निवृत्तावेव तात्पर्योपलम्भात् ।
यदि तु न कस्य चिद्वश्यो मुक्त इत्येवमादिव्यपदेशस्स्यात्तदा स्यादेव सन्देहः ।
नच तथास्ति ।
अतएव सूत्रकारोपि अनन्याधिपतिरिति शब्दं प्रायुङ्क्त, न त्वधिपतिरहित इति ।
अत्र “ब्रह्मवेद ब्रह्मैव भवती’ त्येवमादयश्च मुख्यार्थत्यागमसहमाना भवत्पक्षेण परमसाम्यश्रुतयोवा निस्सङ्कोचत्वमभिलषन्त्यः सहकारिण्यो भवेयुः ।
आदिभरत मृगत्वप्राप्तिवत् कृशोदरीनीडनिहितस्य कीटस्य कृशोदरीत्ववच्च ब्रह्मोपासकस्य ब्रह्मतापत्तिश्च युक्ता ।
नचास्य मुख्यब्रह्मत्वे “यतो वा इमानी’ त्यादिलक्षणस्याव्याप्तिः, तस्य जगद्धापारजागरूकजिज्ञास्यव्यक्तिविशेषविषयतया विरोधाभावात् ।
कारणब्रह्मविषयैका द्वितीयादिशब्दोपि विभक्तनामरूपकार्यबहुत्वाभावाधिष्ठात्रन्तरनैरपेक्ष्यादिकमेव दर्शयतीति भवद्भिरेव व्याख्यातम् ।
अन्यथा नित्यसूरिपरिग्रहाद्ययोगात् ।
नच समनिषेधश्रुतिबलात् परमसाम्य श्रुतेस्सङ्कोचः, पारम्यविशेषणविरोधप्रसङ्गात् ।
नच भोगमात्रसाम्यपारम्याच्चरितार्थता, स्वतन्त्रपरतन्त्रयोर्भोगसाम्यासम्भवेन स्वातन्त्र्यसाम्यस्यापि नान्तरीयकत्वात् ।
अनिच्छया जगद्धापारविरहरूपवैषम्यन्तु न भोगवैषम्यहेतुः, इच्छाविघातादिप्रसङ्गाभावात् ।
अतस्सिद्धम्मुक्तानामीश्वरद्भेदे सत्यपि तदपेक्षया पारतन्त्र्यासम्भवादैक्ये साम्ये वा पारम्यविशेषिते विभूतितद्वद्भावेन मुक्तेश्वरयोस्सामानाधिकरण्यमनुपपन्नमिति ।

अत्रोच्यते - न वयं सर्वत्रैकरूप्यमन्विच्छामः, यावद्बाधं तदभ्युपगमात् ।
अचेतनेश्वरयोः क्षेत्रज्ञेश्वरयोश्च सामानाधिकरण्ये विभूतितद्वद्भावेनैकरूप्यस्य बाधकाभावात्तदभ्युपगच्छामः ।
ब्रह्मैव भवतीत्यत्र तु फलनिर्देशरूपतया पूर्वसिद्धस्य प्राप्यत्वाभावाच्च विभूतित्वातिरिक्तः कश्चिदर्थस्सामानाधिकरण्यहेतुरित्यास्थेयम्, स च “परमं साम्यमुपैती’ ति श्रुत्यन्तरानुसारेण परमसाम्यापत्तिरूप इति निश्चीयते ।
अतो गौणोयं प्रयोगः, ““वैष्णवं वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वेमान् लोकानभिजयती’‘ति वत् ।
नहि तत्र पश्चालम्भनमात्राद्विष्णुतादात्म्यमुपपद्यते ।
एवम् - “विष्णुक्रमान् क्रमते विष्णुरेव भूत्वेमान् लोकानभिजयती’ त्यादि भाव्यम् ।
एवकारश्चोपमाद्योतक इत्यपि कैश्चित्पूर्वैर्व्याख्यातम् ।
“इववद्वैवमेव’ ति नैखण्डुकाश्च पठन्ति ।
अतो गौण तया मुख्यतया वा ब्रह्मसाम्यमेवात्र प्रयोगे विवक्षितम् ।
अस्तु वा ब्रह्मविभूतित्वमेवात्रापि सामानाधिकरण्यहेतुः, तथापि तदाविर्भावविवक्षया प्राप्यत्वोपपत्तिः ।
यत्तत्रोक्तं - शाब्दत्वाभावादिति; तत्स्वपक्षमपरामृश्योच्यते, भवत्पक्षेपि हि नित्यं ब्रह्मभूतस्य नामापूर्वब्रह्मभावः ।
आरोपिताकारनिवृत्तिर्वा ब्रह्मस्वरूपत्वप्रकाशो वेति चेत्? न तर्हि तत्रैवशाब्दत्वम्, साक्षाद्ब्रह्मभावस्य नित्यसिद्धत्वेन साध्यत्वयोगात् ।
अशाब्दोपि साध्यः कश्चिदर्थो विवक्षित इति कल्प्यत इति चेत्? हन्त तर्ह्य स्मदुक्ते कःप्रद्वेषः ।
नूनं प्रमाणोपपत्तिशतविरोधमप्यनादृत्य नित्यनिर्दोषस्य ब्रह्मण एवाज्ञत्वसंसारित्वादिकमङ्गीक्रियत इत्ययमेव भवतो लाभः ।
अस्मदुक्तार्थे तु “पतिं विश्वस्य’ “करणाधिपाधिपः’ “यस्यात्मा शरीरं’ “दासभूतास्स्वतस्सर्वेह्यात्मनः परमात्मन’ इति श्रुतिस्मृत्यादिकमप्यनुग्राहकं भवति ।

यदुक्तं पारतन्त्र्यशेषत्वयोरपुरुषार्थान्वितत्वमिति; तत्र किन्ताभ्यां तदपि साध्यते, उत तदभ्युपगमे तत्प्रसङ्गमुखेन तद्विपर्ययेण तद्विपर्यय इति? तत्र न तावत्तत्साधनम्, कालात्ययापदिष्टत्वात् ।
तथाहि - मुक्तोपि कदाचिद्दुःखी, चेतनत्वे सति परतन्त्रत्वात्, शेषत्वाद्वा, सम्प्रतिपन्नवत्; मुक्तगतं पारतन्त्र्यं शेषत्वं वा स्वाश्रयस्य कदाचिद्दुःखावहम्, चेतनगतपारतन्त्र्यादिरूपत्वात्, सम्प्रतिपन्नवत्; ईश्वरो मुक्तानामपि इच्छाविघातानिष्टापादनादिभिः कदाचिद्दुःखहेतुः, तदपेक्षया तदानीमपि स्वातन्त्र्यादियोगित्वात्, यो यच्चेतनापेक्षया उक्तसाधनः स तद्दुःखहेतुः, यथा सम्प्रतिपन्नः, इत्यादिर्हि
तत्र प्रयोगस्स्यात् ।
तत्र तावत् सर्वत्र मुक्तस्य दुःखरहितनिरतिशयानन्दविधायकैः “अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः’ “रसँ ह्येवायं लब्ध्वानन्दी भवती’ त्यादिभिः श्रुतिशतैर्बाधस्सुगमः ।
उपाधिश्च - कर्मवश्यत्वं दुष्कर्ममूलत्वं दुष्कर्मजनिताप्रीत्यादिदुःखकारणयोगित्वमित्यादिरूह्यः ।

किञ्च मुक्तः कदाचिद्दुःखीत्यत्र प्राच्यदुःखित्वेन सिद्धसाधनम्, मुक्तिदशायां दुःखवानिति साध्ये दृष्टान्तस्य साध्यविकलता, एवं पारतन्त्र्यपक्षीकारेण प्रयोगेपि तस्य यावदात्मभाविन एकत्वात् प्राचीनदुःखहेतुत्वेन सिद्धसाधनता, मुक्तिदशायां दुःखावहमिति साध्ये पूर्ववत्साध्यवैकल्यम्, एवमीश्वरोमुक्तानां दुःखहेतुरिति साध्येपि प्राचीनदुःखहेतुत्वेन सिद्धसाधनत्वम्, मुक्तिदशायां दुःखहेतुरिति साध्ये साध्यवैकल्यञ्च सिद्धम् ।

ननु यत्काले पारतन्त्र्यं तत्काले दुःखहेतुत्वं व्याप्तमिति मुक्तिकालवर्तिनोपि पारतन्त्र्यस्य सामान्यव्याप्तिबलादेव
पक्षधर्मतासहकृतात्तत्कालवर्तिदुःखहेतुत्वं सिध्द्यति, अतो न वैकल्यं सिद्धसाधनत्वञ्चेति; तदपि मन्दम्, किं यत्काले पारतन्त्र्यं तत्काले सर्वत्र दुःखहेतुत्वं व्याप्तिसिद्धम्, उतात्यन्तायोगव्यवच्छेदमात्रम्, उत दुःखसम्भावनामात्रमिति? न प्रथमः, व्यभिचारात्; नहि पतिप्रभृतीनां परतन्त्रा भार्यापुत्रदासादयः सर्वे सर्वदा ततो दुःखिनो दृश्यन्ते, प्रत्युत पारतन्त्र्यमेव परमं भूषणमभिमन्य मानाः केचित्सद्भृत्यपुत्रादयः स्वातन्त्र्यनिर्देशेपि रोषलोहितचक्षुषः परिवादाभिमानिनो विमन्यन्ते ।
अतस्तेषु स्वातन्त्र्यमेवानिष्टतमम्, पारतन्त्र्यं त्विष्टतममेव दृश्यते ।
यदापि च तस्य किञ्चिद्दुःखहेतुत्वम्, तदापि तदनुबन्धित्वादेव तद्दुःखं सहन्ते ।
भ्रान्तिमूलन्तदिष्टत्वमिति चेत्? हन्त स्वातन्त्र्यस्य वान्यस्य वा कस्य चिच्छब्दादेरिष्टत्वमपि भ्रान्तिमूलमेव ।
सांसारिकं हि सर्वं भोगजातमन्ततो भ्रान्तिमेव कूटस्थयति ।
स्वयं दुःखरूपत्वेपि इष्टान्तरप्रतिलम्भकत्वात् पतिपारतन्त्र्यादेरिष्टतमत्वम्, यथा - कृषिचिकित्सादेरिति चेत्? तर्हि स्वातन्त्र्यस्यापि स्वयं सुखत्वाभावेपीष्टान्तरप्रतिलम्भकत्वादेवेष्टतमत्वमपि स्यात् ।
नियमनमात्रमपि केभ्यश्चित्स्वदत् एवेति स्वातन्त्र्यस्य स्वतस्सुखत्वमिति चेन्न; तृणाद्युत्क्षेपणादिस्वातन्त्र्यस्य तथाविधसुखत्वादर्शनात् ।
यत्र तु स्वातन्त्र्यं स्वरूपेण सुखवद्दृश्यते, तत्रापिख्यात्यादिकमन्तर्भाव्यैव तत्तथा ।
तच्च क्वचित्पारतन्त्र्येपि समानमिति तस्यापि स्वतस्सुखत्वसिद्धिस्स्यात् ।
अतो यत्रेष्टसाधनत्वबुद्धिर्गुणताभिमानो वा, तत्स्वातन्त्र्यं पारतन्त्र्यं वेष्टतमम्, यत्रत्वनिष्टसाधनत्वबुद्धिर्दोषत्वाभिमानो वा, तत्र तु तद्वा तदन्यद्वानिष्टतममविशेषाद्दृश्यते ।
अतः पारतन्त्र्यस्य स्वसत्ताकाले सर्वत्र दुःखहेतुत्वव्याप्तिर्न सिद्ध्यति ।
नापि द्वितीयः, निर्दोषभृत्यस्य गुणवत्पारतन्त्र्यादिभिर्व्यभिचारात् ।
तत्र पारतन्त्र्यस्य स्वाभाविकं दुःखहेतुत्वं गुणवत्प्रतिसम्बन्धित्वादविशादपोद्यत इति चेत्? तर्हि पारतन्त्र्यस्य दुःखहेतुत्वमपि दुष्टप्रतिसम्बन्धिकत्वादिनैवेति किन्न स्यात् ।
गुणवत्प्रतिसम्बन्धिकत्वेपि तस्य क्वचिद्दुःखहेतुत्वदर्शनादिति चेत्? तर्हि तस्यापवादकत्वमपि न स्यात् ।
निर्दोषभृत्यस्य तदपवादकमेवेति चेन्न; - तथापि पारतन्त्र्यस्य सुखहेतुत्वं दुष्टप्रतिसम्बन्धिकत्वादिनापोद्यत इति विपरिवर्तस्य दुष्परिहरत्वात् ।
एतदुक्तं भवति, स्वातन्त्र्यं पारतन्त्र्यस्य न कश्चिद्विशेषः सुखदुःखसम्भवे, अपितु भोगादृष्टादिकमेव नियामकमिति ।
किञ्च तत्तद्देहात्माभि मानानुगुण्येन देवतिर्यङ्मनुष्यस्त्रीपुंसादिषु पुरुषार्थव्यवस्थादर्शनादत्रापि स्वतन्त्रात्माभिमानिनां पारतन्त्र्यं दुःखाय, परतन्त्र यथाविस्थतात्मदर्शिनां पारतन्त्र्यमेव सुखकारणमिति यथालोकमनुसन्धेयम् ।
अतः पारतन्त्र्यस्य दुःखात्यन्तायोगव्यवच्छेद उपाधिमूलत्वादुपाधिनिवृत्तौ निवर्तेतैवेति न मुक्ते तत्साधनम् ।
नच तृतीयः, स्वरूपयोग्यत्वमात्रसाधने सिद्धसाधनात्; सहकारियोग्यत्वस्य संशयस्य वा साधने कालात्ययापदेशात् ।
नापि प्रसङ्गतद्विपर्ययाभ्यां मुक्तस्य पारतन्त्र्याभावसाधनम्, तत्रापि व्याप्तेरवश्यम्भावात् तस्याश्च दूषितत्वादिति ।
अतः “सर्वं परवशं दुःख’ मित्यादिकमपि संसारिविषयम् ।
“सेवा श्ववृत्तिर्व्याख्याते’ त्येतदप्यसेव्यसेवाविषयम् ।

स्वातन्त्र्यमपि दुःखाय स्वाङ्गलिच्छेदनादिषु ।

पारतन्त्र्यं सुखायैव पत्नीनान्तु स्वभर्तृषु ॥
,स्वातन्त्र्यं सुखहेतुः स्यादिति चेद्भवतोच्यते ।

न कथं सुखशाली स्यात्कीलोत्पाटी स वानरः ॥
अयोग्यपारतन्त्र्यं हि दुःखायेति निषिध्यते ।

भगवद्दास्यमेवाहुर्लास्यहेतुं मनीषिणः ॥
ईश्वरोहमहं भोगी सिद्धोहं बलवान् सुखी ।

इत्यादिकानुसन्धानमासुरम्भावमाह हि ॥
हिरण्यासुरसिद्धान्तसिद्धामीश्वरभावनाम् ।

भावयन्तोवलम्बन्ते हरिदास्यविडम्बनम् ॥
हरिदासस्य राजर्षेरिति तन्मुनिभाषितम् ।

दासोहं कोसलेन्द्रस्येत्यादिसंवादमृच्छति ॥
परतन्त्रान्वयाभावे स्वातन्त्र्यं ब्रह्मणः कथम् ।

अस्वातन्त्र्ये कथं सौख्यमात्मनो निर्गुणस्य ते ॥
स्वातन्त्र्यपारतन्त्र्याभ्यां सुखंवा दुःखमेव वा ।

न व्याप्तं हि यतस्तत्तत्प्रमाणानुगुणं द्वयम् ॥
“स स्वराड्भवति’ “अत एव चानन्याधिपति’ रिति श्रुति सूत्रे अपि दुःखहेतुकर्माधीनपारतन्त्र्य प्रतिक्षेपपरे एव, आत्मतत्वस्य शरीरत्वविधायकश्रुतिबलात्स्वतोदासत्वस्मृतेश्च तत्सङ्कोचोपपत्तेः प्रपञ्चयिष्यमाणत्वात् ।
“सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ते’ इत्यत्रावधारणेनापि तत्तत्कार्यहेतुतया तथा प्रसिद्धकारकव्यापारादिनैर पेक्ष्यमेवोच्यते, न पुनरीश्वरव्यापारनैरपेक्ष्यम्, तथा सति चास्यैव सङ्कल्पादिति निर्देशेन भवितव्यम् ।
व्युत्क्रमेणान्वये स एव दोषः ।
नचेश्वरसङ्कल्पसापेक्षतामात्रेण सत्यसङ्कल्पत्वश्रुतिविरोधः? ईश्वरस्य तत्सङ्कल्पानुगुणसङ्कल्पयोगित्वात् ।
एतेन कामचार श्रुतिः सङ्कल्पादेवेति सूत्रं च निर्व्यूढम् ।

यत्तु स्वतन्त्रस्याप्यनिच्छतो जगद्धापारनिवृत्त्युपपत्तिरिति; तदसत्, मुक्तस्य सर्वगोचरशक्तिसद्भावे प्रमाणभावात् ।
नच मातापितृप्रभृतिसृष्टिवचनात्सर्वविषयशक्तिकॢप्तिः, तन्मात्रसृष्टिशक्तेरेव सिद्धेः ।
नच “यं कामं कामयते सोस्य सङ्कल्पादेव समुत्तिष्ठती’ ति सामान्यवचनात्सर्वशक्तित्वसिद्धिः, “यं कामं कामयत’ इत्यस्यानुवादकत्वात्, तस्यच काम्यमानमात्रविषयत्वात्, मुक्तस्य कामनायाः सर्वविषयत्वे प्रमाणाभावात् ।
विश्वामित्रादिसङ्कल्पवत्सङ्कलुचितविषयत्वेनापि तत्सिद्धेः ।
ईश्वरस्य तु “सोकमयत बहुस्या’ मित्यादिभिस्तत्सिद्धेः ।
मुक्तस्य तु कामनायां सत्यां जगद्धापारविरहायोगात् ।
शक्तस्य चिकीर्षा हि व्यापाराविनाभूता ।
अशक्तस्य कामना दुःख हेतुरेव ।
नच “सएकथा भवती’ त्यारभ्य, “अपरिमितथ भवती’ ति श्रुतेर्मुक्तस्य जगद्धापारोपि सम्भवतीति वाच्यं तस्याःश्रुतेः परमात्मभोगशेषभूतस्व भोगार्थानन्तशरीरपरिग्रहमात्र विषयत्वात् ।

यत्तु मुक्तकर्तृकभोगनिर्माणे मुक्तेश्वरयोः प्रयोज्यप्रयोजकभावे प्रमाणाभावः, पूर्वोक्तश्रुत्यादि विरोधश्चेति; तत्र विरोधः परिहृत प्रायः ।
प्रमाणमपि समर्थयिष्यमाणनियन्तृत्वादिश्रुत्यसङ्कोचः ।
अत एवेश्वरानिवारणान्मुक्ताप्रवृत्तौ विपरिवर्तप्रसङ्गोपि प्रत्युक्तः ।

यत्तु कर्मनिवृत्तौ पारतन्त्र्यमपि निवर्तत इति; तत्र किकं कर्माधीनस्य पारतन्त्र्यस्य निवृत्तिर्विवक्षिता, उत पारतन्त्र्यमात्रस्य? पूर्वत्रेष्टापादनम् ।
तदतिरिक्तं पारतन्त्र्यं जीवेषु न दृष्टिमिति चेन्न; - समर्थयिष्यमाणत्वात् ।
संसारिणामीश्वरपारतन्त्र्यं कर्महेतुम्, कर्मफलभोगहेतुत्वात्, राजादिपारतन्त्र्यवदिति चेन्न; - नित्यैरेव तद्धेतुभूतैर्जीवपरस्वरूपादिभिरनैकान्त्यात् ।
नच तेषान्तादर्थ्यनियमाभावान्नानैकान्त्यमिति वाच्यम्, ईश्वरपारतन्त्र्यस्यापि तादर्थ्यनियमानिश्चयेनासिद्धिप्रसङ्गात् ।
कार्यत्वे सतीति विशेषणासिद्धेः ।
कार्यपारतन्त्र्यपक्षीकरणे सिद्धसाधनात् ।
उत्तरत्राचेतनेष्वनैकान्त्यम् ।
चेतनगतं पारतन्त्र्यं कर्मव्याप्तमिति तन्निवृत्त्या तन्निवृत्तिरिति चेन्न; - तथाप्यप्रयोजकत्वात् ।
मुक्तो न परतन्त्रः, चेतनत्वे सत्यकर्मवश्यत्वादीश्वरवदिति हि तदा प्रयोगः, तत्रेश्वरत्वमेवोपाधिः ।
नचेदं पक्षेतरत्वम्, अचेतनानां संसारिचेतनानां च पक्षव्यतिरिक्तानां व्यवच्छेद्यानां सिद्धेः ।
नच पक्षेतरत्वमित्येतावता परित्यागः, बाधे सति तस्याप्युपाधित्वस्य क्वचित्स्वीकारात् ।
अग्नेरनुष्णत्वसाधने पदार्थत्वेनग्नित्वमेवोपाधिमाहुः ।
मुक्त ईश्वरपरतन्त्रः, अनीश्वरत्वात्, सम्प्रतिपन्नवदिति प्रत्यनुमानञ्च ।
नचात्र मुक्तेतरत्वमुपाधिः, ईश्वरे तस्य व्यभिचारात् ।
नापि मुक्तेश्वरव्यतिरिक्तत्वमुपाधिः, मुक्ते पारतन्त्र्यस्य बाधकाभावेन तद्व्यतिरेकस्याप्युपाधि कुक्षिनिक्षेपायोगात् ।
अन्यथा पक्षविपक्षव्यतिरिक्तत्वमुपाधिरिति सर्वानुमानभङ्गप्रसङ्गात् ।
निर्विशेषणत्वाच्च ।
प्रत्यनुमानबलीयस्त्वं वा ।
अतः कर्मनिवृत्तावपि मुक्तस्य पारतन्त्र्यनिवृत्त्ययोगात् “सस्वराड्भवती’ त्यत्राकर्मवश्यत्वविवक्षायां न स्वरूपप्रयुकक्तपारतन्त्र्यनिवृत्तिः फलति ।

यत्तु “सस्वराड्भवती’ त्येवम्भूतव्यपदेशसामर्थ्यात् “पतिं विश्वस्ये’ त्यादिश्रुतीनां सङ्कोच इति; किमस्य सामर्त्थ्यम्? स्वाधीनत्वप्रतिपादनं वा, पराधीनत्वनिवृत्तिपर्यवसितत्वं वा? नाद्यः, स्वाधीनमात्रस्येश्वराधीनत्वेन सह विरोधाभावात् ।

एकस्यैवानेकाधीनत्वं हि लोकवेदयोर्दृष्टम् ।
जीवश्वराधीनं हि क्षेत्रज्ञशरीरम् ।
स्वाधीनत्वं चात्र स्वसङ्कल्पाधीनप्रवृत्त्यादियोगित्वम्, तच्चेश्वरानुमत्या सिद्ध्यत्येव ।
न द्वितीयः, कर्माधीनत्वनिवृत्तिमात्रादपि तदुपपत्तेः ।
स्वतेरसमस्ताधीनत्वनिवृत्तिस्तात्पर्यतो लभ्यत इति चेन्न; - स्वेतरसमस्तपेक्षया ईश्वरत्वस्य परमात्मन्यपि “सर्वस्येशान’ इत्यादिभिश्शब्दत एव सिद्धेः ।
एवमपि सन्देहे मुक्तस्य पारतन्त्र्यन्न सिद्ध्यतीति चेन्न; - शाब्दत्वेनाविलम्बितप्रतीतसर्वेश्वरत्वस्यैव सङ्कोचोपपत्तेः ।
भूयसान्न्यायाच्च ।
भूयांसि वाक्यानि परमात्मनस्सर्वेश्वरत्वं विदधति ।
“स स्वराड्भवती’ त्येकमेव मुक्तस्यानन्येश्वरत्वं विवक्षतीति ततोप्यस्यैव सङ्कोचो युक्तः ।

श्रुतिस्मृतीतिहासेषु पुराणेषु च सर्वतः ।

सर्वोत्तरागमेष्वेवं विष्णोस्स्वातन्त्र्यमुच्यते ॥
“सङ्कल्पादेव’ त्यादिकन्तु नान्याधीनत्वं प्रतिक्षेप्तुमलमिति प्रागेवोक्तम् ।
“यस्यात्मशरीर’ मित्यात्मतत्वस्य शरीरत्वविधानात् शरीरत्वस्य चाधेयत्वविधेयत्वशेषत्वस्वभावरूपत्वादपि तत्सङ्कोचो न्याय्यः ।
उपबृंहणानुसाराच्च ।
“आत्मदास्यं हरेस्स्वाम्यं स्वभावं च सदा स्मर ।
’ “दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मानः’ इत्यादिभिः स्वाभाविकं भगवद्दास्यमभिधीयते, “स्वभावं’ “स्वत’ इति च कण्ठोक्तितः, “दासभूता’ इति च्विप्रत्ययमन्तरेण प्रयोगाच्च ।
तत्रैवादरातिशयाद्धि स्वत इत्यप्यनृद्यते, दासभूता इति निरुपाधिकनिर्देशेनैव स्वतस्त्वसिद्धेः ।
सर्वशब्दश्चात्र न मुक्तबहिष्कारं क्षमते, प्रतिनिर्देशसामर्थ्याच्च ।
“अन्यराजानस्ते क्षय्यलोका भवन्ती’ त्वयिदुषां क्षय्यलोकत्वकारणमन्य राजत्वमुच्यते, तच्च निष्कर्षे कर्माधीनत्वमेव, तन्निवृत्तिश्च विदुषः “सस्वराड्भवती’ इति “सस्वराड्भवती’ ति विवक्षिता ।
अतोपि कर्मवश्यत्व मात्रमेवात्र निषिध्यत इति न स्वाभाविकभगवद्दास्यनिषेधः ।
अन्यथा “पतिंविश्वस्ये’ त्यादिप्रमाणेन विरोधः ।
एतेनानन्याधिपतिरिति सूत्रमपि निर्व्यूढम् ।
एवं बद्धमुक्ताविशेषेण शेषशेषिभावादिभेदे जीवेश्वरयोस्स्वाभाविके स्थिते तदविरोधेन “ब्रह्मैव भवती’ त्यादीनां “अविभागेन दृष्टत्वात्’ इति मुक्तिविषयसूत्रस्य च विभूतित्वाविर्भावादिमुखेन निर्वहणं प्रागुक्तन्यायेन भाव्यम्; ऐक्यापत्तिब्रह्मद्वित्वयोर्भेदश्रुत्या समाधिकाराहित्यश्रुत्या च प्रतिक्षेपात् ।
समनिषेधो हि केन चिदाकारेण सर्वातिशायित्वं प्रथयति ।
तथाच लक्षणवाक्यस्वारस्यम्, स्वतेरसमस्तवस्तुव्यावर्तकत्वाल्लक्षणस्य ।
नच परमसाम्यश्रुत्यसङ्कोचाय मुक्तस्यापीश्वरत्वमङ्गीकार्यमिति द्वयोस्सर्वप्रकाराविशेषादैक्यमभिलषितुं शक्यम्, “भोगमात्रसाम्यलिङ्गाच्चे’ ति भगवता सूत्रकारेणैव तत्परिहारात् ।
आहच वृत्तिकारः - ““जगद्धापारवर्जं समानो ज्योतिषे’’ ति ।
द्रमिडभाष्यकारश्च - ““देवतासायुज्यादशरीरस्यापि देवतावत्सर्वार्थसिद्धिस्स्या’’ दिति ।
ज्ञानानन्दयोरत्यन्तसाम्यादपि हि परमसाम्यशब्दश्चरितार्थः ।
सर्वज्ञत्वनिरतिशयानन्दत्वे हि तत्र तत्र मुक्तस्यापि वाक्यान्तरैः प्रतिपाद्येते इति सर्वगुणसाधारणरूपपरमसाम्यशब्दस्तत्रैव पर्यवसितुमर्हति ।
पारम्यविशेषणं च तत्रत्याल्पसादृश्यव्यवच्छेदेन सप्रयोजनम् ।
यथा - दशवर्णषोडशवर्णस्वर्णनिष्कयोः काञ्चनकलधौतनिष्कयोर्वा परमसाम्योक्तौ परिमाणवैषम्यमात्रं निषिध्यते, नतु वर्णवैषम्यम् ।

यत्तु स्वतन्त्रपरतन्त्रयोर्भोगसाम्यासम्भवेन मुक्तस्यापि स्वतन्त्रत्वमिति; तदसत् स्वातन्त्र्यपारतन्त्र्ययोर्भोगाप्रयोजकत्वस्य प्रागेव स्थापनात् ।
यथावस्थितात्मानुसन्धानानुगुण्येन स्वतन्त्रस्य स्वातन्त्र्यं परतन्त्रस्य च पारतन्त्र्यमनुकूलं भवतीति द्वयोरपि यथावस्थितात्मानुसन्धानानुबन्धिभोगस्याविशेषात् ।
पुत्रस्य पितृपारतन्त्र्यमेव स्वस्वातन्त्र्यादपि प्रीतिं जनयति ।
विभूतिमत्त्व जगद्धापारादिभिरीश्वरानन्दो मुक्तानन्दातिशयितस्स्यादिति चेन्न; - स्वाभाविकदास्यानुसन्धायिनः सद्भृत्यस्य स्वाम्यैश्वर्येणेव मुक्तस्यापि परमात्मविभूतिभिरेव निरतिशयानन्दोदयात् ।
एतदुक्तं भवति - यद्यत्प्रामाणिकं तत्तत्सर्वं मुक्तेश्वरयोर्यथावस्थिताकारेणानुकूल्येन भातीति भोगमात्रसमानता, यथा - राजराजान्तरङ्गयोस्सर्वमपि राजैश्वर्यमानुकूल्येन साधारणमेवेति ।
तदेवं चेतनाचेतनयोरिव जीवश्वरयोरपि यावदात्मभाविनि भेदे सिद्धे तद्भेदस्य मिथ्यात्वम् आैपाधिकत्वं स्वाभाविकत्वेपि अभेदसहत्वं वा वदतां कलिब्रह्ममीमांसकानां वेदान्तेषु न कश्चिदवकाशो दृश्यत इति स्थिते तार्किकरञ्जनार्थं ब्रूमः - ब्रह्म सत्येनात्मना सद्वितीयम्, पदार्थत्वात्, घटवदित्यादिभिर्मायावादिनो मुखपिघानम् ।
जीवः ईश्वरादनौपाधिकभेदवान्, सार्वज्ञ्यरहितत्वात्, घटवदित्यादिभिर्भास्करतिरस्कारः ।
ईश्वराहम्भावोपि विच्छेदरहितनित्याहम्भावान्तर सद्वितीयः, अहम्भावत्वात्, सम्प्रतिपन्नजीवाहम्भाववदिति यादव प्रकाशपिशाचवित्नासनम् ।
ईश्वराहम्भावस्य नित्यत्वाभावात् दृष्टान्तस्य साध्यविकलतेति चेन्न; - तथासतीश्वरस्य कदाचित् अचित्कल्पत्वादिप्रसङ्गात् ।
नचायमिष्टप्रसङ्ग इति वाच्यम्, सर्वज्ञत्वादिश्रुतीनां कालावच्छेदाभावात् ।
नच सर्वज्ञ इत्यादिशब्दाश्शक्ति विषयाः,
अनुशासनस्य “शुक्तौ हस्ती’ त्यादिना नियतविषयत्वात् ।
“परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चे’ ति ज्ञानशक्त्योः पृथक्स्वाभाविकत्ववचनाच्च ।
नच प्रलयादिषु निद्रानिर्देशात् कदाचिदज्ञता, तस्य निर्व्यापारदशामात्र विषयत्वात्, “व्यपगतनिद्राभयक्रोधतन्द्रि’ रित्यादिश्रुत्यनुसारात् ।
नचावतारेष्वज्ञानादि दृष्टमिति वाच्यम्, तस्याभिनयरूपत्वात् ।
उक्तं हि महाभारतेय - ““कालस्यहिच मृत्योश्च जङ्गमस्थावरस्यच ।
ईशते भगवानेकस्सत्यमेतद्ब्रवीमि ते ॥ ईशन्नापि महायोगी सर्वस्य जगतः प्रभुः ।
कर्माण्यारभते कर्तुं कीनाशइव दुर्बलः ॥ तेन वञ्चयते लोकान्मायायोगेन केशवः ।
ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ॥’’ इति ।
नच सदेवेत्यादिवशात्प्रलयदशायां गुणादेरपि विलयः, चिदचिदीश्वरशक्तित्रयस्यापि विलयप्रसङ्गेन पुनस्सृष्ट्याद्यभावप्रसङ्गात् ।
सद्विद्यानिरूपणेनैव सदेवेत्यादेर्निर्विशेषपरत्वप्रतिक्षेपात् ।
अतः स्वज्ञानमेव कुमतीनामविद्योपाध्यवस्था विशेषादिप्रयुक्तमीश्वराज्ञानकल्पनम् ।
तदेवमभेदगन्धासहवैधर्म्यशतप्रतिष्ठितो यावदात्मभावीजीवेश्वर
भेदः ।

स्वदुःखं यदि जानाति नारभेत परः पुमान् ।

यदि नैव विजानाति नारभेत पुनः पुमान् ॥
तदेतत्सर्वं “विभेदजनके ज्ञाने’ इति श्लोकमुपक्षिष्य भाष्ये प्रपञ्चितम् ।

इति शतदूषण्यां जीवेश्वरैक्यभङ्गः सप्तत्रिंशो वादः ।
(37)

नृसिंहराजीया

आत्मनानात्वसमर्थनेनेव जीवश्वेर भेदोऽपिसिद्ध्यतीति (++++) गत्यावादार्थं सङ्गृह्णातिः - आत्मत्वविदामिति। यद्दास्यं - यस्यब्रह्मणो दासत्वम् । अनेनभेदस्योक्तेः वादार्थस्सूचितः । मोहस्य दृढतरत्वं शास्त्रेणापि दुर्निरसत्वम् ।तदपीति। भेदसामान्यस्यैवाभावज्जीवेश्वराभेद इत्येतद्भेदसमर्थनाप्रतिसन्धान तदभावव्यवस्था्यात्मनानात्वसानाच्च तुल्यन्यायेन निरस्तमित्यर्थः ।एकेति। एकश्च अनेकेषां तादात्म्यमित्यर्थः । ननुत्यदादीनि सर्वैर्नित्यमि( )ति एकशेषः स्यादिति चेतत्रकेचित् सङ्ख्याशब्देष्वनेकशब्दोऽनेनं नास्तीति वदन्ति । अन्येतु एकाधिका अनेके इति समास इत्याहुः । आपत्तिरनुमानम् । विकल्पन्यूनतां पराचष्टेः - अन्यत्र कुतश्चिदिति। प्रत्यक्षानुमानशास्त्रपेक्षयान्यस्मान्न सम्भवत्येवेति यत्तस्मात्प्रत्यक्षादय एव विकल्पिता इति भावः । किं निरङ्कुशैश्वर्यं किञ्चिदभ्युपगम्यत भेदः प्रत्यक्ष उच्यते उतानभ्युपगम्य आद्यआहः - अनीश्वरतयेति। ननुभावप्रत्यक्षे प्रतियोगिप्रत्यक्षं योग्यानुपलब्दिहेतुः । अत्रेश्वरस्यायोग्यत्वात्तदुभयं न सम्भवतीत्याशङ्कतेः - अप्रतीतेति। किमभावत्वेन प्रत्यक्षं न सम्भवति । यद्वातद्गोचर प्रत्यक्षमात्रमिति विकल्पमभिप्रेत्याद्यः आहः - श्रुत्यादिभिरिति। प्रतियोगिज्ञानं हेतु प्रत्यक्षमिति भावः । ननु मेर्वादेः प्रत्यक्षयोग्यत्वाद्योऽयोग्यानुपलब्धिरस्ति । ने हेत्यत्राहः - यदीति। न हि योग्यस्यानुपलब्धिः योग्याऽनुपलब्धिः । किन्तु यत्र यत्सम्बन्धसत्वे तत्सम्बन्धवत्तया तदुपलम्भावश्यकत्वं तत्रत्यानुपलब्धिः योग्यानुपलब्धिः । सा चात्रप्यस्तीत्याशयः । इति हेतो (+++) आवश्यको यत इत्यर्थः । द्वितीयआहः - तेति। अभावत्वेन प्रतीतावेव प्रतियोगिज्ञानं कारणं न स्वरूप प्रतीतावित्याशयः । ननु यदि भेदवाचकानीश्वरशब्दानुविद्धोपलम्भोदुःरकदेस्तदा तस्येश्वरभेदरूपतास्यादत्र तदभावत्कथं दुःखित्वाद्युपलम्भमात्रस्य अनीश्वरत्वोपलम्भमेत्याशङ्कतेः - अनीश्वरोहमिति। अशक्येषु विश्वसृष्ट्यादिषु अनीश्वरोऽहमिति बुद्धिरविधातादिकं भेदशब्दानुविद्धतया भेदत्वेन विषयीकरोति । अतस्तत्समान विषयः प्रतिहतेच्छोऽहमित्याद्युपलम्भोऽपि भेदोपलम्भ इत्याहः - अशक्येष्विति। ननु अशक्येश्वनीश्वरोऽहमिति बुद्धिस्सामर्थ्याभावं विषयीकरोति न त्वनीश्वरशब्दानुविद्धतयेश्वरभेदत्वेन विहतेच्छात्वादीति शङ्कतेः - सामर्थ्येति। ततश्च न तत्समानविषयत्वेन विहतेच्छात्वादिरेवा भावान्तरस्यैवाभावत्वात्तत्समान विषयासाम्थार्यवबुद्धिरपि विहतेच्छात्वात्मक भेदविषयत्वादीश्वरेति । यतस्सामर्थ्याभावबुद्धेः प्रतीतेश्वरानीश्वरबुद्धिसमानविषयत्वादेर्भेदबुद्धिरूपत्वं तत एव प्रतिहतेच्छात्वादि बुद्धेरपि भेदोपलम्भत्वसिद्धेरशक्येष्वनीश्वरत्व बुद्ध्यनङ्गीकारेऽपि न दोष इत्याहः - माभूद्वेति। अलौकिकानीश्वरानभ्युपगमेन प्रत्यक्षादेव देवजीवेश्वरैक्यसिद्धिरिति द्वितीयं कल्पं शङ्कतेः - कार्येति। अप्रतीतेश्वरा इतिशेषः । तत्रोषष्टम्भकमाहः - कर्मण्यैश्वर्यमिति। वैदिकेष्वधिकरबोधं विना वृत्त्यभावा तत्राधिकारबोधो प्रतीतेश्वराणामपि भवतीति भावः । निरतिशयैश्वर्यवद्भेदस्य साध्यत्वादसर्वविषयेश्वरैक्य साधनेऽथान्तरमित्याहः - क्षेत्रज्ञानामिति। जीवेष्वदृष्टं सर्वविषयैश्वर्यं तावदसम्भावितमिति तद्विशिष्टाद्यभेदसाधनमशक्यं प्रसिद्धत्वात् यल्लोकदृष्टान्ताश्रयाद्भेदस्तु बाधित इति कथमीश्वरभेदसाधनमिति शङ्कतेः - एतावानिति।ईश्वरत्वस्येति। लोक एवेश्वरत्वोत्कर्षापकर्षोप - लम्भाल्लोकोत्तरं सर्वविषयैश्वर्यं सम्भाव्यत इति भावः । ननु लोकसिद्धैश्वर्य काण्ठैव निरतिशयैश्वर्यं सर्वविषयप्रमाणाभावादिति शङ्कतेः - तथापीति। यद्यपि तादृशेश्वराद्भेदस्य प्रत्यक्षत्वात्तदभेदसाधनमपि बाधितं तथापि तस्य जीवत्वा तदभेदश्च तस्य प्रत्यक्षसिद्ध इति भावः ।लोकायतेति। सर्वविषयकेश्वरबोधकशास्त्रानादरादिति शेषः । एवं च शास्त्रात्सर्वविषयेश्वरसिद्धेस्साधरणाकारविषयेश्वर बुद्धिशब्दमात्रात्तादृशेश्वर भेदस्तद्विरुद्धधर्मवत्त्वरूपः प्रतिक्षेप्तमशक्य इति भावः । ननु नाहमिश्वर इति भेदबुद्धिर्नसम्भवति । ईश्वरशब्दप्रवृत्तिनिमित्तस्यत्वरत्वरूप प्रतियोगितावच्छेदकस्य जीवे सत्वादित्यत्राहः - सर्ववृत्तीति। नानीश्वरं प्रवृत्तिनिमित्तं लाघवादीश्वरत्वमात्रं न तु सर्वविषकेश्वरत्वं तस्य जीवेऽपि सत्वेन निषेधानुपपत्तिरित्यत्राहः - साधारणेति। निर्दुखत्वादिविशिष्टेश्वरस्य प्रतियोगितावच्छेदकं नन्वीश्वरमात्रस्येति भावः ।दुःखादीति। दुःखादिकं हि विरुद्धधर्मोभेदः । स च न प्रतिक्षेप्य इत्यर्थः । अनुपलम्भबाधान्न शास्त्रेणेश्वर सिद्धिरिति । गूढाभिसन्धिश्च शङ्कते ःसर्वेति। अनुपलब्धिमात्रं न बाधकमिति गूढाभिप्राय उत्तरमाहः - सत्यमिति। शङ्कभिसन्धिमुद्घाटयतिः - अनुपलम्भेति । पूर्वं योग्यताया उपपादितत्वात्तद्विरोधं परिहरतिःसिद्धयत इति। ईश्वर स्वरूपानुपलम्भस्तत्साधको वाच्यः । सत्वयोग्यानुपलम्भत्वादबाधकः । जीवात्मतयानुपलम्भस्तु योग्यानुपलम्भोऽपि तद्भेदस्यैव साधक इत्यर्थः । प्रत्यक्षासिद्धिहेतुमुपसंहन्द्वितीयकल्पस्यापि निरस्ततामाहः - तदेवमित्यादि निरस्त इत्यन्तेन। कर्मवश्यानामित्यादिनेश्वर भेदरूपाऽपहतपाप्मत्वादि प्रतिपक्षा विवक्षिताः । अनुमानतः - विरुद्ध धर्मवत्वलिङ्गानुमानतः । उपपत्तिः - प्रत्यक्षमितिः। अनुमाने फलितदूषणं दर्शयति ।तथा च सतीति। जीवत्वं - प्रतिहतेच्छात्वादि । ईश्वरत्वं - अप्रतिहतेच्छात्वादितया विरोधात्प्रतिज्ञाविरोध इत्यर्थः । आदिशब्देन प्रतिपक्षादयो ग्राह्याः । ननु मिथ्याभूत भेदविषयत्वात्प्रत्यक्षानुमानयोर्न बाधकत्वमिति शङ्कतेः - अथेति। धर्मिणस्सत्यत्व एव विरुद्ध धर्ममिथ्यात्वाद्धर्मैक्य सिद्धिः । न तु तन्मिथ्यात्वेपि । अन्यथारज्वारोपित सर्वभूदलनायोस्तेजस्तिमिरत्वादि धर्माणां मिथ्यात्वादैक्यप्रसङ्ग इति प्रतिवक्तिः - तथापीति।कार्य - कारणेति। कार्योपाधिरयं जीवः कारणोपाधिरीश्वर इति तदुक्तेः कार्योपाधिरन्तः करणम् । कारणोपाधिर - ज्ञानम् । ननु जीवेश्वरयोः पारमार्थिकत्वाभावादुपपत्तिनिरपेक्षतया विरुद्धधर्मवत्वेप्यैक्यमस्त्वित्यत्राहव्यावहारिकत्वेऽपीति। व्यावहारिकत्वाद्भेदस्य व्यावहारिकैक्य सम्भवः । धर्मिमिथ्यात्वान्न तात्विकैक्य सम्भवः । तथैव भूदतनादिषु व्यवस्था दृष्टेरिति भावः । ननु व्यवहारदशायां यथालोकं व्यवस्था भेदनिवृत्त्यनन्तरमैक्यं भविष्यतीत्यत्राहः - आरोपितेति। ननु सर्पभूदलनवज्जीवेश्वरौ द्वाषपि नाध्यस्तौ किन्त्वीश्वरे जीवोऽध्यस्त इत्यत्राहः - नापीति । अन्यथेति। अधिष्ठानाध्यस्तयोर भेदेऽध्यस्तस्य शून्यतया तदभिन्नस्य ब्रह्मणोऽपि शून्यत्वे सर्वशून्यत्वमधिष्ठानाभिन्नतयाध्यस्तस्य सत्यत्वे सर्वसत्यत्वं मित्यर्थः । ननु दोषवशाच्चन्द्रौ द्वावित्यध्यस्तोऽस्ति तत्रैकस्य सत्वत्वात्तस्मिन् स्वस्यैव भिन्नत्वेना - रोपः । तथा च भेदस्य निवृत्तावधिष्ठनाध्यस्तयोरभेदोदृष्टस्तथेश्वरत्वविशिष्टचैतन्ये जीवत्व विशिष्टस्याध्यासे जीवत्वेश्वरभेदनिवृतौ वाक्यमुपपद्यत इत्युक्तदोष इति शङ्कतेः - तैमिरिकस्येति। तिमिरेण जानाति - तैमिरिकः गत्यठन् । ननु"स्वे महिम्निप्रतिष्ठितः’’ (छां - 7.4.21) पति विश्वस्यात्मेश्वर (तै.ना.13)मिति श्रुत्यवगतस्वाश्रयत्वस्येश्वरत्ववत्स्वाधिष्ठानत्वमपि न विरुद्धयत इत्याशङ्क्य दृष्टान्तासिद्धया दूषयतिः - स्वमहिमेति । नेहनाने (बृ.6.4.9)ति ज्ञात्रादीनामपि निषेधे च चेतनानामिवाचेतनानामपि मिथ्यात्वं स्यादिति भावः । ननु विरुद्धधर्ममिथ्यात्वेप्यैक्ये प्रमाणाभावादचेतनवर्गस्य नेश्वरैक्यमित्यत्राहः - यत्रत्वस्येति। सर्वपदस्य चेतनाचेतनपरत्वादिति भावः ।सैवेति। जीवेश्वरैक्यमपि प्रत्यक्षादि विरोधबलात्त्यक्तव्यमित्यर्थः ।अन्यथेति। त्यागाभाव इत्यर्थः ।शास्त्रमपीति। प्रत्युत शास्त्रं बाधकमेवेत्यर्थः । कण्ठोक्त्यादिभिर्भेद प्रतिपादकश्रुतीरुदाहरतिः - यथाक्रियतेत्यादिना । अन्यमीशमिति ।जीवापेक्षयान्यत्वेनेशं पश्यतीत्यर्थः ।पृथगात्मानमिति। आत्माज्जीवः । प्रेरिता ईश्वरः। तौ पृथक्त्वेन मत्वेत्यर्थः ।द्वा सुपर्णेति । पर्णौ - पुण्यपापनिग्रहवन्तौ । तयोरन्यः । अनश्नन्नन्यः इति भेदोक्तिः । अभिः श्रुतिभिर्भेदकधर्मा अप्युच्यन्त इत्यत्राहः - स्वशब्देनैवेति। अपरः - पृथगन्यः इत्यादिभिर्भेद प्रतिपादकशब्दानां स्फुटत्वात्तदुक्तिरित्यर्थः ।विरोधिनो धर्मा इति । “यस्सर्वज्ञ’‘इत्यादिभि सर्वज्ञत्वसर्वशक्तित्वकारणत्वजीवनियन्तृत्व निरतिशयदीप्तिमत्व तत्प्रतिपक्षाज्ञत्वास्वशक्तिमत्वकार्यत्व प्रेर्यत्वकर्मवश्यत्वादयोधर्मा इत्यर्थः ।भेदज्ञापकसम्बन्ध इति। नियाम्यनियन्तृत्वाधाराधेय भाव शरीर शरीरि भावशेषशेषि भावादिभेदगर्भस्सम्भन्धा इत्यर्थः । भेदश्रुतिस्सर्वापि व्यावहारिकं भेदपरेत्यत्राहः - मुक्तिदशायामित्यादि। तदध्या स हेत्वज्ञाना भावादिति भावः ।सोश्नुतइति ।कर्मकर्तृभेदः ।“सर्वान्कामानि’’ (तै.उ.2)भेदाधीन सर्वत्व बहुत्वे सत्यं च मुक्तौ श्रूयत इत्यर्थः ।तदा विद्वानिति। उपैति - कर्मकर्तृ भेदः । सादृश््यनिमित्तभेदश्च प्रतीयत इत्यर्थः । परोक्तदुरर्थापाकरणायोपबृह्मणमाह - इदमिति। का तर्ह्यैक््यश्रुतेर्गतिरित्यत्राह एवं चेति ।तत्वमसी (छां 6.8.7)ति सामानाधिकरण्यमेकमेवाद्वितीय ( )मित्यैक्यनिर्देशो वा “राजा रष्ट’‘मित्यादिवदुपपद्यत इत्यर्थः । निर्वोढव्यं निर्वोढव्यश्चनिर्वोढव्यञ्चेति नपुंसकस्यैकशेषः । ननूपचारवृत्तिरस्वरसेत्याशङ्क्य श्रुतिशैल्यनुसारित्वादिमेव स्वरसेत्याहतथाचेति श्रुतेतिशब्दशक्तेर्विशेष्य ब्रह्मपर्यन्त विषयता निर्णयः नीलो घट इति तत्वमादि शब्दानां चेतनान्तर्यामि पर्यन्ततया सामानाधिकरण्यमुपपद्यते तथा समस्त चिदचिद्विशिष्ट ब्रह्मैक्यविवक्षयौक्य निर्देशश्चेत्यर्थः । अनादरःसत्यत्वानङ्गीकारः । वाङ्मात्रं धर्माणां विरोध एव “नास्तीत्युक्तिः । अचेतनाज्जीवस्य वैशम्यं शङ्कतेः - उपास्तीति। उपास्यत्वेन प्राप्यत्वेन चैक्य व्यपदेशादित्यिर्थः । नहि मोक्षार्थोपास्ति विषयत्वमात्रेणापरमार्थता मुमुक्षूणां सगुणापासने व्यभिचारादिति परिहरतिः - ोपेणापीति। ननु साक्षान्मोक्षोपासनस्याहङ्ग्रहो पासनेन जीवेश्वरैक्यपारमार्थिकवन्नकस्यापि मते वक्तुं शक्यम् । त्वत्पक्षेऽन्तः करणस्य ब्रह्मैक्य प्रसङ्ङ्गन्मीमांसकमते केवलमहमर्थस्यैवोपासनादि विषयत्वादीश्वरैक्य प्रसङ्गाभावात्साङ्ख्यवैशेषिकादिपक्षे दृष्टिविधित्वादस्मत्पक्षेऽहमर्थभूत चेतनशरीरकपरमार्थोपासने विशेषणविशेष्य भावेन भेदस्यैव सिद्धेरित्यर्थः ।वैशम्यसिद्धिप्रसङ्गादिति। अवनेयतबुद्धित्वादिति भावः ।वामदेवेति । “अहं मनुरभवं सूर्य’‘श्चे (बृ - 3.4.10)“मामुपास्वे’’ (कौषी 3.1)ति निर्देशः । अचेतने चेतनभ्रमः । देहात्मबुद्धिः । यथातत्वमसी (छां.6.8.7)त्यत्र बाधार्थत्वमापादितं तथा"ब्रह्मैव भवती (मुण्ड3.2.1)त्यत्रापि बाधार्थतैव स्यादिति जीवैक्यं कुत्रापि न सिद्ध्यतीत्यत्राहः - प्राप्तावपीति । अहमर्थ बाध इति। पुरुषार्थ प्रतिसम्बन्धभूताहमर्थबाधेऽपि पुरुषार्थतां वदतस्तव तदप्रतिसम्बन्धि भूतात्मबाधे पुरुषार्थतोक्तौ न लज्जेत्यर्थः । हेत्वन्न्तरेण जीवैक्यं शङ्कतेतत्वावेदकेति।अन्यथेति। अचिदैक्यस्य प्रतीत्यभावे तदंशे आरोपितैक्यस्य वा प्रतीतौ विरोधाभावात्पादार्थत्वं किमर्थं कल्प्यामीति भावः । ननु"यथा नद्यस्स्यन्दमाना समुद्रेऽस्तं गच्छन्ति नामरूपेविहाय । तथा विद्वाञ्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’’ (मुण्ड.3.2.8) “घटध्वंसे घटाकाशो न भिन्नो नभसायथे’’ (शौनक वचनम)त्यादि दृष्टान्तानुरोधेन मुक्त्यन्वयाज्जीवैक्य पारमार्थ्यासिद्धिरिति शङ्कायामाहः - नदी समुद्रेति।अवस्थितेरिति। अन्तर्यामितयाऽवस्थितेरित्यर्थः । किं च"ऐतदात्म्यमिदं सर्वं’’ (छां 6.8.7) “सर्वं खल्विदं ब्रह्म’’ (छा.3.14.1) “इदं सर्वं यदयमात्मा’ (बृ.6.5.7) यत्रत्वस्य सर्वमात्मैवा भूति’’ (बृ.4.4.14)द्यादि वाक्येषुजीवांशेऽभेदार्थतया चिदंशे बाधार्थतया सामानाधिकरण्यस्यत्वया वाच्यत्वा द्द्वैरूप्यापत्तिरित्याहःएकवाक्येति। चिदंशे मुख्यार्थस्वरूप तादात्म्यमचिदंशे तद्विरोधि स्वरूपतादात्म्यमिति तादात्म्यवैरूप्यमित्यर्थः । ननु"तत्वमसी’’(छां.6.8.7)त्यत्रैक्यम्प्रतिपाद्यते"सर्वं खल्विदं’’(छां.3.14.1)इत्यादौत्वचेतनसामानाधिकरण्यमेवेति नैकस्मिन्वाक्ये वैरूप्यमित्यत्राहभिन्नवाक्येति। अचेतनमात्रपरत्ववचनमप्यसरसमित्यपि नानूच्यते । ननु इदं ब्रह्म भवतीत्य (++++) शे विभूति भावो सामानाधिकरणं"ब्रह्मैव भवती’’ (मुण्ड.3.2.1)त्यत्र मुक्तांशे तु तदन्यरूपेण मुक्तस्यपारतन्त्र्याधीन विभूतित्वाभावादिति सिद्धान्तेऽपि वैरूप्यमस्तीति शङ्कते ।नन्विति। विभूति तद्वद्भाव इति विभूतिश्च तद्वांश्चतयोर्भावः । ए (+++++) विभूतिमद्भाव इत्यर्थः ।अशाब्दत्वादिति। यद्यपि विभूति भावोप्यशाब्दः तथापि ततोऽपि व्यवधानमिति भावः ।तत्पारतन्त्र्येति। विभूतित्वस्य तद्व्याप्यत्वादिति भावः ।स्वरूपाविर्भावलक्षणेति। जीवस्वरूपाविर्भावस्य"स्वेन रूपेणाभि निष्पद्यत’’(छां.8.12.2)इति मुक्तितयोक्तत्वाच्छेषत्वपारतन्त्र्ययोरप्याविर्भावात्स्वरूप सतोरेव सर्पादिवदनिष्टत्वे तद्ज्ञानात्सुतरां दुःखादिकं भवतीत्यर्थः ॥ चेतेनेति। यद्यपि पारतन्त्र्यं चेतननिष्ठमेव तथापि शेषत्वस्याचेतन साधारण्याच्चेतननिष्ठत्वं विशेषणं बोध्यम् । परवशं - पारत्रन्त्रयम् ।निषेधन्ति चेति। तथा च हेयत्वान्नमुक्त प्राप्यं पारतन्त्र्यमिति भावः । सेवा - पारतन्त्र्यमित्यर्थः ।स्वातन्त्र्यमेवेति। स्वराट् स्वतन्त्रोविज्ञेय इति दर्शनादिति भावः ।अनन्याधिपतिरिति। न विद्यतेऽन्योऽधिपतिर्यस्येति तथोक्तः ।सत्यकाम इत्यादि। पारतन्त्र्ये परप्रयुक्ते चाविद्यातसम्भवात्सत्यकामत्वादिकं स्यादिति भावः ।सङ्कल्पादेव तदितिबद्धेषु सर्वव्यापारनिमित्तस्यापीश्वरस्य क्वचिन्मुक्तव्यापारे न कर्तृत्वं तस्य मुक्तता प्रयुक्तमेव न वाच्यमिति तस्यापारतन्त्र्यसिद्धिरिति भावः ।प्रतिसर्ग इति। प्रतिसर्गः प्रलयः । ईश्वरस्य कालविशेष इवमुक्तस्य कालसामान्य एव सिसृक्षा नास्तीति भावः । स्वातन्त्र्य विरहः - शक्तिविरहः ।अल्पशक्तिरिति। ईश्वरस्याधिकशक्तित्वाज्जीवस्य न्यूनशक्तित्वादिति भावः ।भिन्नेति। एवं चेश्वरशक्तेर्जगत्सृष्ट््यादौ व्यापारान्मुक्तशक्तेः पित्रादि सृष्टौ व्यापारद्विषय भेदान्न पारतन्त्र्यमिति भावः । मुक्तकर्तृकसृष्टावीश्वरस्य कर्तृत्वमभ्युपेत्याहएकेति। मुक्तस्य पारतन्त्र्यादिनामीश्वराभि प्रेताविरुद्धकारित्वमवश्य वाच्यमेवं च परस्पर सहकारित्वं मात्रं भवति । तावतापि यथेश्वर सहकारित्वेन मुक्तस्येश्वरं प्रति स्वातन्त्र्यं न भवति तथा पारतन्त्र्यमपि न प्रसज्यते । अन्यथा तव चेश्वरस्यापि मुक्तपारतन्त्र्यप्रसङ्गादित्यर्थः ।स्वातन्त्र्यस्य वेति। वा शब्द इवार्थः । प्रसङ्गादिति छेदः । परस्परसहकारित्वेपीश्वरस्य स्व व्यापारांशे मुक्तनिरपेक्षत्वं न परतन्त्रत्वमित्यत आहस्वव्यापारेति। यद्यपि मुक्तव्यापारस्सर्वोऽपीश्वरसापेक्षस्तथापि श्रुति स्वारस्यात्तन्निरपेक्षपित्रादि सृष्टिव्यापार इति भावः । नन्वीश्वरो मुक्तव्यापारेऽपि तन्निरपेक्षो न स्वव्यापार एवेत्याशङ्क्य निराकरोतिनचेति । स्ववचनेति। मुक्तकर्तृकस्य मुक्तसापेक्षत्वान्निरपेक्षत्वकथनं व्याहतमित्यर्थः । ननु केवल मुक्तस्येश्वरसहकारित्वं न तु तत्प्रयोज्यत्वमप्यतः पारतन्त्र्यामित्याशङ्कय निराकरोतिन चेति। पूर्वश्रुतिः सत्यकामत्वादि श्रुतिः । आदिशब्देन मुक्तत्वं विवक्षितम् । ननु साधुकर्मकारयितृत्वादि श्रुतेः का कतिरित्यत्राहकारयितृत्वेति।“एष’‘ह्येव साधुकर्मकारयति यमुन्निनीषति “एष ह्येवासाधुकर्मकारयति यमधो निनीषति’’ (कौषी. 3.1)इत्युन्निनीषादि पूर्वकतया कर्मविषयत्वादिति भावः ।नन्वैषह्येवानन्दयाती (तै.आ.7.1)ति श्रुतिरानन्दहेतु पित्रादि सृष्टि प्रभृतिद्वारानन्द हेतु परेति मुक्तस्यापि पित्रादिसृष्टावीश्वर प्रयोज्यत्वे प्रमाणमित्यत्राहआनन्दयितृत्वेति। आदि शब्देन भोग्यत्वादि विवक्षितम् । नन्वीश्वर प्रयोज्यत्वाभावेप्यधिकशक्तित्वान्निवारण समर्थस्येश्वरस्य निवारणमुपजीव्याल्पशक्तिर्मुक्तः प्रवर्तते । अतः ईश्वरपारतन्त्र्यं स्यादित्याशङ्क्याहन चेति । विपरिवर्ते - पीति। परमसाम्यश्रुत्यादयोस्तुल्यशक्तित्वाद्वैपरीत्यं किं न स्यादित्यर्थः । ननु विपरिवर्त प्रसङ्गे नियामकसत्वादित्याशङ्क्य निराकरोति न चेति । यदि प्राक् स्थितमेव पश्चादपीति न स्वातन्त्र्यं तदा बद्ध एव पश्चादपि स्यादित्यर्थः ।कर्मेति । कर्मैवप्रयोजकं न जीवत्वमित्यर्थः । नन्वितर पारतन्त्र्यस्य कर्मोपाधिकत्वेऽपि संसारदशायामपीश्वर पारतन्त्र्यं स्वाभाविकमिति न तस्य मुक्तौ निर्वृतिरित्यत आहसंसारेति। जीवस्येश्वर पारतन्त्र्यं कर्मोपाधिकं सुखदुःखहेतु पारतन्त्र्यत्वाद्राजादि पारतन्त्र्यवदिति प्रयोगः । पारतन्त्र्यमत्र शेषत्वम् । तथाचाचेतन पारतन्त्र्ये व्यभिचारवारणार्थ सुखदुःखेति ।अनीश्वरविषयतयेति। अनीश्वरापेक्षया मुक्तानां स्वातन्त्र्यमित्यर्थः ।स्वराड्भवतीत्येवमिति। स्वमात्मैव तन्त्रं प्रयोजकत्वं यस्य स्वतन्त्रः । न च स्वं स्वस्य प्रयोजकम् एवं भूत व्यपदेशाद सङ्कोचेन न स्वेतरसमस्त वश्यत्वनिवृत्तिरवगम्यत इत्यर्थः ।यदित्विति। कस्यचिदिति सामान्यशब्दस्यानीश्वरे विशेषसङ्कोच सम्भवादिति भावः ।अत एवेति। अनधिपतिरिति व्यक्तव्येऽनन्याधिपति शब्दोऽन्यत्वा वच्छेदेनाधिपतित्वा भावद्योतनार्थ इति भावः । नन्वन्यस्यान्य वस्तुत्वं कथमित्याशङ्कायामाहआदि - भरतेति। अन्यस्यान्यवस्तुत्वं कारणस्य सत्वे सति नायोग्यमिति भावः । ननु मुक्तस्य ब्रह्मत्वे"ब्रह्म वा इदमेक एवाग्रासीदि (बृ.3.4.11)दिति श्रुत ब्रह्मैकत्वविरोध इत्यत्राहकारणेति। एकशब्देनकार्य बहुत्वाभावः । अद्वितीयशब्देनाधिष्ठातृभूतद्वितीयर्घश्च उच्यते । प्रथमादिपदेनैवकारोद्वितीयेनोपादानापेक्षया निमित्तस्यान्यत्वाभावश्च गृह्यते ।अन्यथेति। तद्वयतिरिक्तवस्तुमात्र निषेधे नित्यानां विग्रहस्य तदा तस्य चाभाव प्रसङ्ग इति भावः ।पारम्येतिपरमसाम्यश्रुतेः कतिपयाकारविषयतया सङ्ङ्कोचे पारम्यविशेषणस्य बाध एव ।न तत्समश्चे (श्वे.6.8)त्यत्र समशब्दस्य संसारिविषयतया सङ्कोचमात्रम् । किञ्च समानं दृश्यत इति समदर्शन योग्येषु संसारिषु समाभावस्सिध्यतीति भावः । ननु परमं साम्यमित्यत्र साम्यशब्दस्य भोगसाम्यविषयतया सङ्ङ्कोचः पारम्यं च तस्य विशेषणं तच्चाङ्गीकृतमेवेति न कस्यापि बाध इत्याशङ्कय निराकरोतिन चेति । नान्तरीयकत्वादिति। नियतत्वादित्यर्थः । ननु स्वतन्त्र्याङ्गीकारेऽपि जगद्व्यापारविरहाद्भोगवैषम्यं स्यादित्यत आहअनिच्छयेति। इच्छा विधाते हि दुःखाधीन भोगवैषम्यं स्यादनिच्छत इच्छाविधाताभावादिति भावः । सामानाधिकरण्ये ऐकरूप्यासम्भवमुपसंहरतिअत इति। विभूति तद्वद्भावेन सामानाधिकरण्यं न भेदमात्रात्सम्भवति किन्तुपारतन्त्र्याच्छात्र नास्तीति तथा सामानाधिकरण्यानुपपत्ते रैक्यमङ्गीकृत्य वा भेदाङ्गीकारेऽपि परमसाम्येन ब्रह्मत्व प्राप्त्या वास योहृवै तत्परमं ब्रह्मवेद ब्रह्मैव भवतीति (मुण्ड 3.2.9)सामानाधिकरण्यं निर्वाह्यम् । अतस्सर्वत्र विभूति तद्वद्भावेन जीवेश्वरयोरैकरूप्येणैव सामानाधिकरण्यमनुपपन्नमिति सिद्धमित्यर्थः ।पारम्यविशेषित इतिसामानाधिकरण्यनिबन्धने वाच्य इति शेषः ।न वयमित्यादि। बाधकाभावेऽपि सामानाधि - करण्येत्वयैकूरप्यं त्यज्यते अस्माभिस्तु बाधकबलात्तज्यत इति भावः ।“ज्योतींषि विष्णुर्भुवनानि विष्णुं (वि.पु.2.12.38)रित्यचेतनसामानाधिकरण्यं’’ तत्वमसी (छां.6.8.7)ति क्षेत्रज्ञसामानाधिकरण्यम् ।पूर्वसिद्धस्येति। विभूतित्वस्येत्यर्थः । परमसाम्यादेव सामानाधिकरण्यमित्यत्र नियामकमाहसचेति। ननु तादात्म्याथावे कथं गुणयोगाद्वयवहार इत्यत्राहवैष्णवमिति। ननु तत्रापि तादात्म्यादेवास्त्वित्यत्राहन हीति। त्वयाप्यद्वैतविद्यासाध्यत्वस्याभ्युपगमादिति भावः ।एवकारश्चेति। तथाचब्रह्मैव भवती (मुण्ड.3.2.9)त्यत्र न सामानाधिकरण्यं तथा च नैकरूपा व्याहतिरिति भावः । उपमाद्योतकत्वे प्रमाणमाहइवेति। नन्वस्माकमपि पक्षेबाधकमस्त्येव जडाजडयोरैक्यायोगादिति वैरूप्यं न दोषायेत्यस्वरसादाहअस्तु वेति।तथापीति। भवति शब्देनाविर्भावो विवक्षितः । ब्रह्मविभूतिस्सन्नाविर्भवतीत्यनेन विभूतित्वाविर्भाव सिद्धिरिति भावः ।स्वपक्षमपरामृश्येति। शाब्दत्वाभावस्य मुख्यार्थपरित्यागस्य स्वपक्षेप्यावश्यकत्वादिति भावः । अशाब्दत्वं परपक्ष उपपादयतिभवत्पक्षेऽपऽिहीति । आरोपितेति।तदुभयस्यापिसाध्यत्व सम्भवादिति भावः । ननु नित्यसिद्धब्रह्मभावस्यैव साध्यत्वमस्तु तथाच नाशब्दत्वमित्यत आहसाक्षाद्ब्रह्म भावस्येति। अस्त्वशाब्दत्वं तावता को दोष इति शङ्कतेअशाब्दोऽपीति ।अस्मदुक्तेब्रह्मविभूत्याविर्भावे शाब्दत्वाभावस्य (+++)त्वादिति भावः । प्रत्युत भवदुक्त एव प्रद्वेष कारणमस्त्वित्याहनूनमिति। भवत्पक्षेऽपि तुल्यत्वमित्यत आहअस्मदुक्तेतिश्रुतिस्मृत्युपपत्त्यादि सिद्धो विभूति तद्वद्भावस्सामानाधिकरण्य प्रयोजक इति भावः ।ताभ्यामिति। तदुभयं मुक्त (++++)भ्युपगम्य साध्यत इत्यर्थः । आद्ये पक्षे हेतुग्राहकमानेन बाध इत्याहतत्र न तावदितिअचितीत्यभिचार परिहारायञ्चेतनत्वेति। ईश्वरे व्यभिचारवारणाय द्वितीयं विशेषणम् । सम्प्रतिपन्नोबद्धः । द्वितीय हेतावप्य चेतने व्यभिचारवारणाय विशेषणमनुषज्यते । पारतन्त्र्यादित्यादिपदेन शेषत्वं विवक्षितम् । इष्टविधातेत्यादि स्वरूपकथन परं मुक्तानां दुःखहेतुरित्येव साध्यन्तदपेक्षयेति। सामान्यव्याप्ति सिद्धयर्थं तदानीमित्येतस्त्व रूपकथनमन्य (++++) कालिक व्याप्तिप्रसङ्गेन व्यभिचारात्तथा च तदपेक्षया स्वातन्त्र्यादि योगत्वादित्येव हेतुरिति बोध्यम् । आदिशब्देन मुक्तत्वं समानकालीन दुःखसामानाधिकरान्त्वात्सम्प्रतिपन्नवदित्या (+++)उपाधिश्चेतिशेषत्वपारतन्त्र्य पक्षेके दुष्कर्ममूलत्वं पारतन्त्र्यत्व शेषत्वरूपपक्षधर्मावच्छिन्न साध्यप्यापकउपाधि । तेन न चेतन ज्ञानादौसाध्य व्यापकत्वादीति बोध्यम् । ईश्वरपक्षके दुष्कर्मजनित तद्विषयकाप्रीत्यादिकमुपाधिः । साध्ये दुःख प्रयोजककर्तृत्वं दुःखहेतुत्वं विवक्षितम् । तेन न कालादौ साध्यव्यापकत्वं मुक्तपक्षके दुःखकारणयोगित्वन्तदसाधारणकारणयोगित्वं तच्च दुष्कर्मेति न साधनव्यापकता यद्यपि मुक्तस्य बन्धदशायां तदप्यस्त्येव ।कालिक व्याप्त्यपेक्षयोपाधित्वे तत्काले तन्निवृत्तिरिति भावः । आदि शब्देन स्वाभाविकत्वादिगृह्यते ।मुक्तिदशायामिति। स्वमुक्तिकालीन दुःखवत्वं साध्यमित्यर्थः ।साध्यविकलतेति। बन्धस्य मुक्तयभावात्तदानीं साध्यज्ञानं नास्तीत्यर्थः । ननु मुक्ति दशायान्त पारतन्त्र्यादेः पक्षत्वान्नणान्त्वात्सम्प्रतिपन्नवदित्या (++++) उपाधिश्चेति । शेषत्वपारतन्त्र्य पक्षेके दुष्कर्ममूलत्वं पारतन्त्र्यत्व शेषत्वरूपपक्षधर्मावच्छिन्न साध्यव्यापकत्वादीति बोध्यम् । ईश्वरपक्षके दुष्कर्मजनित तद्विषयकाप्रीत्यादिकमुपाधिः । साध्ये दुःख प्रयोजककर्तृत्वं दुःखहेतुत्वं विवक्षितम् । तेन न कालादौ साध्यव्यापकत्वं मुक्तपक्षके दुःखकारणयोगित्वं तदसाधारणकारणयोगित्वं तच्च दुष्कर्मेति न साधनव्यापकता । यद्यपि मुक्तस्य बन्धदशायां तदयस्त्येव । कालिक व्याप्त्यपेक्षयोपाधित्वे तत्काले तन्निवृत्तिरिति भावः । आदि शब्देन स्वाभाविकत्वादिगृह्यते । मुक्तिदशायामिति । स्वमुक्तिकालीन दुःख हेतुरिति साध्य इति विशेषः । ननु पारतन्त्र्यं दुःखकाले दुःखवहम् । तत्कालीन पारतन्त्र्यत्वात् । यत्कालीन पारतन्त्र्यं यत्तत्कालीन दुःखहेतुरिति सामान्यव्याप्ति बलासिद्धसाधनमित्यत्राहः - तस्येति । साध्यवैकल्यं चेति । स्वमुक्तिकालीनत्पक्षधर्मता सहकृतान्मुक्तिकाले दुःख हेतुत्वं सिद्धयतीति शङ्ङ्कतेननु यत्कालेति। यत्काल इति स्थूलोपाधिर्विवक्ष्यते इति भावः ।सर्वत्रेति। तदन्तर्गत तत्क्षणकालेऽपीत्यर्थःअतन्ना - योगेति। स्थूलोपाध्यवच्छिन्नकाले भावादिति भावः ।सम्भावनामात्रमिति। स्वरूपयोग्यता विवक्षिता दुःख हेतुत्वमात्रं तु सिषाधयिषित स्वातन्त्र्येऽपि समानमित्याहप्रत्युतेति । पारतन्त्र्यत्त्विति। तथा च बाध इति भावः । ननु सत्यादि पारतन्त्र्यस्यापि यत्किञ्च दुःख हेतुत्वान्न बाधो व्यभिचारोवेत्यत्राहयदापीति। दुःखसाधनत्वमात्रं न त्यागहेतुरपित्वसह्यदुःखहेतुत्वमन्यथा ज्योतिष्टोमतुल्यादेस्त्याग प्रसङ्गात्तादृशमात्रसाध्यं नास्तीति भावः । किं सुखहेतत्वभ्रमो विवक्षितः उत देहात्मभ्रमः । नाद्यः अबाधादित्यविप्रेत्यद्वितीयआहहन्तेति ।उपपादयतिसांसारिकहीति।द्वयमितिपारतन्त्र्यादिरदृष्टद्वारा स्वनिवृत्त्यनन्तरभाविस्वर्गादिष्टान्तरप्रतिबन्धक इति पारतन्त्र्यजन्यसुखकाले व्यभिचार इति भावः स्वातन्त्र्यस्यापि दुःख हेतुत्वान्मोक्षदशायां स्वातन्त्र्यसत्वे दुःखंस्यादिति भावः ।नियमनेति। नियमनं नियन्तृत्वम्मेव स्वतन्त्र्यस्य सुखहेतुत्वं स्वाभाविकं पारतन्त्र्यस्य दुःख हेतुत्व स्वाभाविकमिति भावः । तथा विधसुरवत्वं स्वभावतस्सुख साधनत्वन्तत्रापीति। ख्याति लाभादिद्वारा सुखसाधनत्वा (++++)त्वाभावान्न स्वातन्त्र्यस्य स्वतस्सुखसाधनत्वम् । पारतन्त्र्यस्यापि सतोऽनिष्टत्वा भावान्न स्वभावतो दुःखसाधनत्वमिति भावः ।यत्रत्वेति। इष्टपदेन सुखसाधनख्यात्यादि गृह्यते । गुणताभि - मानः । अनिष्टसाधकत्वाभिमानः ।यत्रत्वितिअनिष्टपदेन दुःखसाधन ताडनाद्युच्यते ।अत इति। पारतन्त्र्यत्वान्न साध्यव्यापकस्यानिष्टसाधनत्वबुद्धिविषयत्वस्योपाधित्वान्न व्याप्तिरित्यर्थः ।निर्दोषेतितादृशपारतन्त्र्यकाले कदाचिदपि तत्प्रयुक्त दुःखाभावादिति भावः ।अत्र पारतन्त्र्यस्येति। तत्रोक्तापादकाभावे सतीतिविशेषणान्न व्यभिचार इति भावः । अत्रेश्वरपारतन्त्र्यस्य गुणवत्प्रति सम्बधित्वा भावोपाधिरिति दूषणमाहतर्हीति । गुणवदिति। तत्रदुष्टप्रतिसम्बन्धिकत्वस्य साध्यव्यापकत्वमिति भावः। तस्यापादकाभाव विशिष्टहेतोः पूर्वोक्तव्यभिचारः स्थिर इत्याहतर्हि तस्येति। दोषस्योत्तेजकत्वात्तस्यापवादकत्वमस्तीति न व्यभिचार इति शङ्कतेनिर्दोषभृत्यस्येति। तर्हि पारतन्त्र्यं सुखहेतुः दुष्टप्रतिसम्बन्धित्वाभाव विशिष्टपारतन्त्र्यत्वाद्गुणवत्पारतन्त्र्यवदिति सत्प्रतिपक्षेतिदूषयतितथापीति। नन्वेवमपिविनिगमकाभावेन पारतन्त्र्यस्य दुःखहेतुत्वसन्देहान्मोक्षस्य पुरुषार्थतानिर्णयाभावात्प्रवृत्तिर्नस्यादित्यत्राह - एतदुक्तमिति। कर्मणां सोपाधिकत्वादधिकबलेनोपाध्य भावेनबादा इति भावः । एवं कर्मण एव हेतुत्वात्स्वातन्त्र्यपारतन्त्र्ययो सुखदुःखहेतुत्वं नास्तीत्युक्तमिदानीं पारतन्त्र्यस्य सुखं प्रति हेतुत्वमपि सम्भाव्यत इत्याहकिं चेति। तत्तदात्माभिमान विशेषानुगुण्येन भोग साधन व्यवस्था दर्शनात्स्वातन्त्र्यभ्रमदशायां परानुवर्तनस्य सुखहेतुत्वाभावेऽपि भ्रमनिवृत्त्यनन्तरं परतन्त्रतयाऽत्माभिमानदशायां तदनुरूप परानुवर्तनद्वारा सुख हेतुत्वं सम्भवतीति भावः ।अत इति। बाधितत्वादनुमानं न प्रवर्तत इति भावः । किं सम्भावनशब्देनस्वरूपयोग्यताविवक्षितायद्वा सहकारियोग्यता उतसंशय इति विकल्पाभिप्रायेणाद्य आह स्वरूपयोग्यतेति । इतरयोराहसहकारीति।कालात्ययापदेशादिति। कर्मनिवृत्तिश्रुत्या"अशरीरं वा व सन्त’‘मित्यादिश्रुत्या च बाधादित्यर्थः । आद्य द्वितीयं दूषयतिनपीत्यादिना । दूषितत्वादिति। पूर्वदूष गैरितिशेषः । असेव्यः - सदोषः । स्वातन्त्र्यस्य सुखसाधकाद्वैषम्यमित्याशङ्ङ्क्य स्वातन्त्र्यस्य दुःखसाधनत्वं सुखसाधनन्ताभावं च साधायन् पूर्वोक्तं कारिकया सङ्ङ्गृणाति ।स्वातन्त्र्यमपीति। सुखहेतत्वमपि नास्तीत्याहस्वातन्त्र्यमितिअयोग्यं दोषवत्प्रतिसम्बन्धि । भगवद्दास्यं - गुणवत्प्रतिसम्बन्धि । स्वातन्त्र्यमपि निषिद्धमित्याहईश्वरोऽहमिति। ननु सङ्कोचो न न्याय इत्यात आहआत्मत्वस्येति । “यस्यात्मा शरीरं’’ (बृ.5.7.22) “दासभूतास्व तस्सर्वे’’ (अहि सां)इत्यादि बलादित्यर्थः । ननु नैरपेक्षयाभिधायकैवकारबलान्न सङ्कोच इत्यत आहसङ्कल्पादेवेति। प्रसिद्धस्यैवेतरनिषेधो वाच्यः । ईश्वरस्य तद्व्यापारस्य वातीन्द्रियत्वेना प्रसक्तेःनहिंस्यादित्यनेनकामप्रयुक्तहिंसानिषेधवत्प्रसिद्धं कारणव्यापारादिमात्रं निषिध्यत इति भावः । तत्ववाक्यार्थ सामर्थ्यादपि शरीर व्यापारादिरेव व्यावर्तत इत्याहतथासतीति। स एव - व्युक्तमान्वय एवईश्वरस्यत्विति। सङ्कल्पस्य सत्यत्वं हि तस्य विधाता भावः । विधातश्चेश्वर सङ्कल्पेन नास्तीति भावः ।तन्मात्रेति। श्रुत्यादि माता पित्रादि सृष्टिशक्तिः प्रतिपन्ना । न तया सर्वविषय शक्त्यनुमानंसम्भवो व्यभिचारादिति भावः ।न च यं काममिति। यच्छब्दस्य सामान्य तस्सर्वविषयत्वादिति भावः ।तस्य चेति।“यं यं कामं कामयत’’ (छां.8.12.3)इति यच्छब्दस्ययदासौ पितृलोककामो भवती (छां.8.12.3)त्यादिमुक्तकामना विषयम् एव सङ्कोचादिति भावः । ननु मुक्तकामना सर्वत्रास्त्वित्याहमुक्तस्य कामनाया इति। प्रत्युत सर्वविषयककामनायां बाधकमस्तीत्याहमुक्तस्यत्विति। मुक्तश्शक्तो न वा आद्य आहशक्तस्येति। शक्तत्वे तत्कामनायाश्चिकीर्षारूपत्वात्सृष्टिविरमो न स्यादित्यर्थः । द्वितीयम् आह - अशक्तस्यकामनेति। न चेति । अपरिमितशब्दस्य सर्वविषयत्वमिति भावःपरिहृतप्राय इति। अवधारणेनापि तत्तत्कार्यहेतुतया प्रसिद्धकायव्यावारादित्यनेनेत्यर्थः ।प्रमाणमपीति। असङ्कुचित नियन्तृत्व श्रुतिः प्रमाणमित्यर्थः ।अत एवेति। असङ्कुचितश्रुतेरेवेत्यर्थः । ननु कर्मफलभागैकहेतुत्वं हि हेतुः । तश्च कर्मफलभोगहेतत्वे सति तदनुपयोग्यहेतुत्वम् । जीवादीनां मुक्ति प्रत्यपि हेतुत्वान्नानैकान्त्यमित्याशङ्क्य निराकरोतिः - न चेति । ईश्वरेति। मुक्तौ पारतन्त्र्य सद्भावे तस्य तदा तनेश्वरानुवर्तनादि हेतुत्वतादर्थ्य नियमानिश्चयात्सन्दिग्धासिद्धि प्रसङ्गादित्यर्थः ।विशेषणासिद्धिरिति। ईश्वरोषत्वस्य स्वाभाविकत्वात्कार्यत्वरूप विशेषणासिद्धिरित्यर्थः ।उत्तरत्रेति। यत्पारतन्त्र्यं तत्कर्मनिवृत्तिनिवृर्त्यमिति व्याप्तेरचेनेष्वनैकान्त्यमिति शङ्कतेः - चेतनेति । तथापीतिउक्तरीत्या चेतनगते व्यभिचारवारणेप्य प्रयोजकत्वादेतन्नियमाधीनस्य चेतनत्वे सत्यकर्मवश्यत्वात्प्रारतन्त्र्य नियमस्याप्रयोजकत्वमिति भावः । प्रयोजकत्वमुपपादयतिः - मुक्त इति । बाधे सतीति। पक्षेतरत्वस्य नोपाधित्वाभावव्याप्तिरिति भावः ।ईश्वरे तस्येति। साध्यसमव्याप्तत्वाभावो विवक्षितः । समव्याप्तिमाशङ्क्य निराकरोतिः - नापीति । मुक्त इतिईश्वरस्यातिरिक्तमेव लाघवात्परतन्त्रत्व प्रयोजकमिति भावः ।निर्विशेषणत्वाच्चेति। लाघवादनीश्वरत्वमेव परतन्त्रत्व व्याप्तं न तु चेतनत्वे सत्यकर्मवश्यत्वं पारतन्त्र्यव्याप्तं गौरवादित्यर्थः ।लोकवेदयोरिति। एकस्य ग्रामप्रयोजकस्यानेक पुरुषाधीनत्वं तथा सत्रस्य क्रतोरनेकयजमानाधीनत्वं चदृष्टमित्यर्थः । नन्वेकस्यानेकाधीनत्वेऽपि जीवेश्वराधानत्वं न दृष्टमित्यत्राहः - एकस्येति। किं यत्किञ्चिदधीनत्व निवृत्तिमात्रं विवक्षितमुतेतर मात्राधीनत्वनिवृत्तिः । नाद्य इत्याहः - कर्माधीनत्वेति। द्वितीयकोटिमाशङ्कतेः - स्वेतरेति। स्वेतरमात्राधीनत्व निवृत्तिर्न सम्भवति श्रुत्यन्तरविरोधादित्याहः - स्वेतरसमस्तापेक्षयेति । आर्थत्वेनेति ।स्वराडित्यत्र स्वप्रयोज्यत्वमेव शाब्दम् । तदनुपपत्तिबलाल्लक्षणया स्वार्थद्वारा लस्था स्वेतरसमस्ताधीन निवृत्तिविलम्बिता । अतश्शीघ्र प्रतीतसर्वेश्वरत्ववशादार्थिकस्य सङ्कोच इति भावः ।भूयसां न्यायादिति। भूयसां स्याद्बलीयस्त्वादिति न्यायादित्यर्थः ।भूयांसीति। एष सर्वेश्वरः सर्वमिदं प्रशास्तीत्यादिरित्यर्थः । विदघतिविवक्षतिभ्यां पूर्वोक्ते शाब्दत्वार्थत्वे विवक्षिते । आत्मतत्वस्य सर्वावस्थात्मस्वरूपस्य । तेन संसारि विषयताश्रुतेर्निवर्त्यते । नियाम्यत्वं हि शेषत्वं सर्वदा शेष द्रव्यस्यैव शरीरत्वादिति भावः ।आत्मदास्यमिति। आत्मदास्यं हरेस्स्वाम्यं च स्वभावं सदास्मरेत्यन्वयः ।च्विप्रत्ययमिति। दासस्योपाधिकृतत्वे अभूत तद्भाववाचि च्वि प्रत्ययः प्रयोज्येत । अतोऽभूत तद्भावे मानाभावात्स्वाभाविकत्वसिद्धिः । ननु दासभूता इत्यनेन स्वाभाविकत्व सिद्धौ किं स्वत इत्यनेन तत्राहः - तत्रैवेति । सर्वशब्द इति। आत्मन इति । बहुवचने नैव सर्व परिग्रह सिद्धौ सर्वशब्दसर्वावस्था परिग्रहार्थ इति भावः ।प्रतिनिर्देशेति। नान्यथालक्षणं तेषां बन्धेमोक्षे तथैव चेति दास्य भाव प्रतिषेधलक्षण प्रतिनिर्देशसामर्थ्यादित्यर्थः ।अन्यराजान इति । “परीक्ष्यलोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्य कृतः कृते’’ (मुण्ड.1.2.12)ति कर्मणः कर्मणः क्षयिष्णु फलहेतुत्वमन्यत्रश्रुतमतस्तदैकार्थ्यादत्राविदुषां क्षय्य लोकत्वकारणत्वे चोच्यमानमन्यराजत्वं कर्मवश्यत्वमेवेतिस स्वराडित्यत्रविदुषां कर्मवश्यत्वनिवृत्तिरेवोच्यत इति भावः ।एतेनेति। कर्माधीनत्व इत्यर्थ प्रतिपादनेनेत्यर्थः ।अविभागेनेति। उपासनाकाले यथावस्थित परमात्मात्मक स्वात्मनो दृष्टत्वात्स्पष्टमनुभवतीत्यर्थः ।प्रागुक्त न्यायेनेति। स्वपक्षं परामृश्योच्यत इत्यादिप्रागुक्त प्रतिबन्दिन्यायेनेत्यर्थः ।समनिषेधोहीति। शक्तौ सत्यामनिच्छया मुक्तानां जगद्व्यापारविरहे नापकर्ष प्रयोजक इति भावः ।तथा चेति। ब्रह्मद्वित्वाभाव एवेत्यर्थः ।स्वेतरेति।स्वशब्दोलक्ष्यपरः

कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्य कृतः कृते’’ (मुण्ड.1.2.12)ति कर्मणः कर्मणः क्षयिष्णु फलहेतुत्वमन्यत्रश्रुतमतस्तदैकार्थ्यादत्राविदुषां क्षय्य लोकत्वकारणत्वे चोच्यमानमन्यराजत्वं कर्मवश्यत्वमेवेति स स्वराडित्यत्र विदुषां कर्मवश्यत्वनिवृत्तिरेवोच्यत इति भावः । एतेनेति । कर्माधीनत्व इत्यर्थ प्रतिपादनेनेत्यर्थः । अविभागेनेति । उपासनाकाले यथावस्थित परमात्मात्मक स्वात्मनो दृष्टत्वात्स्पष्टमनुभवतीत्यर्थः । प्रागुक्त न्यायेनेति । स्वपक्षं परामृश्योच्यत इत्यादिप्रागुक्त प्रतिबन्दिन्यायेनेत्यर्थः । समनिषेधोहीति । शक्तौ सत्यामनिच्छया मुक्तानां जगद्व्यापारविरहे नापकर्ष प्रयोजक इति भावः । तथा चेति । ब्रह्मद्वित्वाभाव एवेत्यर्थः । स्वेतरेति । स्वशब्दोलक्ष्यपरः । लक्ष्यतरेसमस्तवस्तु व्यावर्तकत्वं हि लक्षणम् । जगद्व्यापारजागरूकं हि ब्रह्म च लक्ष्यत्वाभिमतम् । एवं च लक्षणवाक्यस्थ ब्रह्मपदस्या चासङ्कोचे ब्रह्मान्तर व्यावृत्त्यप्रतीतेस्तद्भावर्तनार्थ ब्रह्मपदस्य सङ्कोचः कार्यः तथआचा स्वारस्यमित्यर्थः । भोगमात्रेति । ऐक्ये साम्यपदं चानुपपन्नमिति भावः । समानो ज्योतिषेति । ब्रह्मणासमान इत्यर्थः। देवतासायुज्यादेवेति । देवतया समान भोगादित्यर्थः । सर्वार्थसिद्धिः - सर्वभोग साम्यमित्यर्थः । ननु परमसाम्यशब्दानुपपत्तिरित्याशङ्क्याहः - ज्ञानानन्दयोरिति । सर्वज्ञत्वेति । उपाधिभेदज्ञानापेक्षत्वन्मते वाविद्योपाधिकत्वाज्जीव भेदस्य तद्ज्ञानमुपाधि भेदज्ञानाधीनमेवा नहि घटादि भेदज्ञानाभावे आकाशभेदज्ञानं दृष्टमित्यभिप्रायेणाहः - न च सत्य इति गत्यन्तराभावाज्जीवभेदस्य सत्यत्व मिष्यत इत्याशङ्क्य विद्याभेदकल्पनमेवा तया सत्यनुपपन्नमित्याहः - न च तदेति । ननु प्रत्यक्षेण श्रुतिस्मृतिभ्यां निरासात्तस्यौपाधिकत्वसिद्धये विद्याभेदकल्पनमुपपद्यत इत्याशङ्कतेः - प्रत्यक्षादिति । सिद्धो जीवभेदोऽस्मन्मत इव सत्ययेष्यते उत ब्रह्माज्ञानमत इव मिथ्यात्वेनेति विकल्पगतिप्रेत्य क्रमेण दूषयतिः - प्रत्यक्षेति । जीवभेदस्य मिथ्यात्वे नैव जीवभेदस्याभावेनेत्यर्थः । ब्रह्माज्ञानवादे व्यावहारिकोऽपि जीवभेदो नास्तीति भावः । ननु जीवभेदोऽस्तु स तु कल्पितइत्यत्राहः - उभयथेति । स्वाभाविकस्यौपाधिकस्य च जीवभेदस्यायोगेन तव व्यावहारिकजीवभेद एवस्यादित्यर्थः । उत्तर पक्ष एवाहः - किञ्चेति । अपरिहार्थमिति तत्र चानुपपत्तिरुक्तैवेति भावः । द्वितीये अविद्या भेदे सति जीव भेदः तस्मिन्श्च सति भिन्नजीवाश्रयत्वं तस्मिन्नित्यविद्या भेद इति चक्रकमभिप्रेत्याहः - द्वितीय इति । मिथ्यस्संश्रयश्चक्रकमित्यर्थः । अनन्तरोक्तावन्योन्याश्रयस्य परिहारं शङ्कतेः - अथ जीवेति । बद्धेति । इदानीं बद्धस्यानुभवाच्छुकादि मुक्तेश्च प्रमाणसिद्धत्वात्स्वाभाविक भेदस्य च निषेधादिति भावः । वादाद्युक्तमन्योन्याश्रयं स्मारयतिः - प्रागुक्तेति । तदेव तस्यारम्भकमिति । तदङ्कुरमेव तद्बीजाररम्भक - मित्यर्थः । भङ्गुरत्वादिति । आदिशब्देनोत्पत्तिर्गृह्यते । वैशिकत्वप्रसङ्गादिति । भेदप्रसङ्गादित्यर्थः । एकस्य ब्रह्मणोऽनेकैर्जीवैर भेदानुपपत्तेरित्यर्थः । जीवाश्रयाभिरिति । जीवभावाधीनाभिरित्यर्थः । क्वचित्तु जीवाश्रयाभिरिति पाठः । स सुगम एव । दत्तोत्तरत्वमुपपादयतिः - अविद्येति । तद्वदिति । जीवकल्पकाविद्यावदित्यर्थः । तदेव दूषणं स्मारयतिः - एवं चेति । तेनेति जीवश्रयाविद्याङ्गीकारे ब्रह्माश्रयाविद्यापि दुष्परिहरेति भावः । अन्वारूढमिति । कल्पितस्य सादित्वनियमेप्यनादित्वमभ्युपगत मित्यर्थः । एकैकेति । जीवकल्पिता एकैकाविधेत्यर्थः । पूर्वत्रेति । एकस्य जीवस्येतरजीवदर्शनं हि भ्रमरूपमेव अतस्तत्रार्थाभावात्सोऽपि स्वप्नजीवान्तरक्त्तदविद्याकल्पित इति वाच्यम् । एवं जीवान्तरस्यापि जीवान्तरदर्शन भ्रमरूपमिति दृष्टजीवान्तरमपि तदविद्या कल्पितं वाच्यम् । ततश्चानेकजीवादेः प्रतिस्वप्नमिव बहुजीवकल्पना प्रसङ्गादेक एव जीवः स्वप्नन्यायेन कल्पितं जीवान्तरमित्यङ्गीकारे लाघवमित्येकशरीरैक जीववाद एव वरमित्यर्थः । परस्परेति । परस्परज्ञानाभावाच्छिष्यस्य ज्ञातत्वेकस्मा उपदिशेत् । आचार्यस्य चा ज्ञातत्वे कमुपगच्छेदिति व्यवस्था च स्यादित्यर्थः । अशुद्धिः ज्ञातृत्वादिः । उपाधि विगमाभावेचाशुद्धिर्नश्येदिति भावः । न चेदिति । प्रतिबिम्बस्यैव जीवत्वादिति भावः । मुखात्मनां - बिम्बभूतमुकात्मनेत्यर्थः । प्रतिबिम्बस्यात्मा - प्रतिबिम्बस्य स्वरूपमित्यर्थः । सत्यमिथ्येत्यादि प्रसङ्गा - दिति । प्रतिबिम्बस्य मिथ्याभूतत्वादित्यर्थः । दार्ष्टान्तिकं जीवे ब्रह्मात्मना तिष्ठतीत्येतमित्यर्थः । किञ्चाशुद्धिनिरासस्तत्साधनानुष्ठानं च तत् फलभूताशुद्धि निवृत्तीच्छादिना नोपपद्यते । तदिच्छावत्वन्मते न सम्भवति । अशुद्धिनिवृत्तेः स्वनाशपर्यवसित्वादतो नाशुध्युच्छेदोषपत्तिरित्याहः - किञ्चेति । बिम्बस्थानीयेति । लोकसिद्धमुखादिबिम्बस्वरूपेणत्यर्थः । प्रतिबिम्बवदिति । मुखादिप्रतिबिम्बस्थले श्यामतादिनिवृत्तेः प्रतिबिम्बनिवृत्त्यविनाभावादित्यर्थः । किञ्चब्रह्मणि जीवयोर्बिम्ब प्रतिबिम्बाभावः किं मुख्यः उतामुख्यः । आद्ये त्वदभिमत व्यवस्थाया असिद्धिरित्यभिप्रेत्यद्वितीयं दूषयतिः - मुख्येति । द्वयोरिति ब्रह्मणो जीवस्य वा प्रतिदोष प्रतिभासाश्रयत्वपक्षयोरित्यर्थः । आदिशब्देन प्रतिमुख परिग्रहः । तद्वदेवेति । चाक्षुषस्यैव प्रतिबिम्बोपपादनात्तस्य च जडत्वात्मुखअयबिम्ब प्रतिबिम्बभावाङ्गीकारे जीवब्रह्मणोरचेतन्व प्रसङ्ग इत्यर्थः । यथासङ्ख्यदूषणमाहः - किञ्चेति । न द्वितीय इति भ्रमात्प्राक् जीवसिद्धौ तस्य भ्रमाश्रयत्वमेवानुपपन्नम् । ज्ञातुरेव वाक्यान्तरे मुक्तस्ययोगुणः प्रसिद्धः तस्मिन् गुणे परमसाम्यं विवक्षितमिति भावः । सामान्यवचनस्य गुणविशेषमादाय पर्यवसाने दृष्टान्तमाहः - यथा दृशवर्णेति । भोगविशेषादिति । स्वामिभृत्ययोः क्षीरपानादि भोग इति भावः । ननु भृत्यस्य तद्व्यापारादि सुखं नास्त्येव तस्य कर्तुरेवानुकूलत्वादित्यत आहः - एतदुक्तमिति । कर्तुरिव द्रष्टुरप्यानुकूल्येन भानादिति भावः । तद्भेदस्य मिथ्यात्वमित्यादि यथाक्रमं भास्करयादवमतानुसारेण द्रष्टव्यम् । ब्रह्मसत्येनेति । जीवस्य प्रतिबिम्बत्वं प्रतिबिम्बस्य च मिथ्यात्वं ये वदन्ति तन्मतानुरोधेन सिद्धसाधनकरणायः - सत्येनेति । घटवदिति । सत्यनब्रह्मणा सद्वितीयत्वात्सपक्षत्वमिति भावः । विच्छेदेति । नित्यत्वमिथ्यानादित्वं विवक्षितमिति भावः । सम्प्रतिपन्नवदिति । जीवहङ्कार ईश्वराहङ्कारेण साध्यवानितिदृष्टान्त इति भावः । तथा सति शुद्धस्य ज्ञातृत्वाभावादहं जानामीति प्रबलादहमर्थावस्थस्यैव ज्ञातृत्वादिति भावः . कालावच्छेदेति । उपाध्यनुक्तेरिति भावः । अनुशासनस्येति । तथा च कर्तृग्रहणानुवृत्त्यैव शक्तिलाभाच्छक्ति ग्रहणमनर्थकं स्यादिति भावः। वचनान्तरविरोधाच्च कादाचित्कत्वमयुक्तमित्याहः - परास्येति । ननु स्वाभाविकीत्यस्य सङ्कोचो भविष्यतीत्यत्राहः - ज्ञानशक््योरिति । ननु निद्रासर्वज्ञानोपरम इत्याशङ्क्य निद्राव्यय देसोऽन्यनिबन्धन इत्याहः - प्रलयेति । ननु मुख्ये बाधकाभाव इत्यत्राहः - व्यपगतेति । अज्ञानादिदृष्ट - मिति। अज्ञानं - निद्रा । उत्तिष्ठ नरशार्दूलेत्यादिनेति भावः । कर्मण्यारभत इति । अभिनयतीत्यर्थः । न च सदेवेत्यादीति । अद्वितीयादि शब्दानुरोधादित्यर्थः । ननु प्रमाणे किं कुर्म इति चेत्तत्राहः - सद्विद्येति । तुल्यद्वितीयादिनिषेध परत्वादिति भावः । अत इति । मायिपक्षे अविद्याभास्करपक्षे उपाधिः यादवपक्षे अवस्था विशेषः आदिशब्दस्तत्सम्बन्धादि परः । स्व दुःखमिति । स्व दुःखज्ञाने तन्नोत्पादयेत् । अज्ञाने सृष्ट व्याज्ञानात् जीवगतं स्व दुःखं नोत्पादयेदित्यर्थः । स्व दुःखित्वेनाज्ञाने सार्व यं हीयेतेति भावः । इति वत्सकुलजलधिनृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायां सप्तत्रिंशोवादस्समाप्तः ॥