36 आत्माद्वैतभङ्गः वादः

अथ षट्त्रिंशो वादः ।

नमस्त्रेधा विभक्तानामात्मनामन्तरात्मने ।

ब्रह्मणे हयवक्त्राय बन्धमोक्षैकहेतवे ॥
यदुच्यते तावदात्माद्वैतवादिभिरेक एवात्मा देहाद्युपाधिभेदेन बहुधा प्रतिभाति, तरङ्गचन्द्रवत्, सौभर्यादिवच्च ।
तथा च प्रयोगाः - विगीतानि शरीराणि मयैवात्मवन्ति, शरीरत्वात्, सम्प्रतिपन्नमच्छरीरवत्; सर्वं जाग्रच्छरीरं मदविद्याकल्पितम्, शरीरत्वात्, कल्पितत्वाद्वा, स्वप्नदृष्टमच्छरीरवत; सर्वोप्यात्मा अहमेव, चेतनत्वात्, अहमिव; सर्वाणि सुखदुःखानि मयैव भुज्यन्ते, सुखदुःखत्वात्, मत्सुखदुःखवत्; विगीतानि शरीराणि देवदत्तात्मना आत्मवन्ति, शरीरत्वात्, सम्प्रतिपन्नदेवदत्तशरीरवत्; एवं सहस्रशोनुमानानि विभज्य प्रयोज्यानि ।
विप्रतिपन्नश्शरीरभेदोऽनेकात्मनिरपेक्षः, शरीरभेदत्वात्, सौभरिशरीरभेदवत् ।
एवमनुमानान्तराण्यपि करणभेदादिपक्षीकारेण भाव्यानि ।
एवमनभ्युपगमे कल्पनागौरवप्रसङ्ग इति ।
ननु - पण्डितत्वमूर्खत्वसुखित्वादिविरुद्धर्माध्यासाद्भेदस्सिद्धः, तथाचाक्षपादैस्सूत्रितम् - ““नानात्मानो व्यवस्थात’ इति, उक्तञ्चत्वदासन्नैस्साङ्ख्यैरपि - ““जन्मजरामरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चेति ॥’’ सत्यपिचविरुद्धधर्मे यद्यभेदः, तदा सत्यमिथ्यैक्यादिकमपि स्यादिति शून्याद्वैतमेव स्यादिति चेन्न; तेषां विरुद्धत्वाभावात् ।
सहानवस्थानलक्षणो ह्यत्र विरोधोभिमतः, स चाधिकरणभेदे सिद्धे, तत्सिद्धिश्च विरुद्धधर्माध्यासादिति अन्योन्याश्रयणात् ।
नचैवं घटपटादिष्वपि विराेधपरिहारे सर्वभेदविलय इति वाच्यम्, तेषु स्वरूपभेदस्यैव स्फुटतरमुपलभ्यमानत्वात्; अन्तत
इष्टप्रसङ्गरूपत्वाच्च ।
अत एवानुमानानां प्रत्यक्षबाधोपि परिहृतः ।
अत्र परस्परसुखादिप्रतिसन्धानप्रसङ्गो बाधक इति चेन्न; - एकेनानुभूतानामेव क्वचिदप्रतिसन्धानदर्शनात् ।
नहि जन्मान्तरानु भूतेषु एकस्मिन्नपि वा जन्मनि चिरकालदृष्टेषु पूर्वदिवसभुक्त व्यञ्जनादिषु वा सर्वेषां पुरुषाणां तत्तत्प्रतिसन्धानमुपलभामहे ।
संस्कारप्रमोषात्तदपटुत्वाद्वा तत्र प्रतिसन्धानाभावः, ये पुनरप्रमुषितस्फुटतरसंस्कारास्ते जातिस्मरादयो जन्मान्तरानुभूतमेतज्जन्मानुभूतं च प्रतिसन्दधत इति चेन्न; - अत्राप्यविद्यावैचित्रयादुपाधिभेदप्रतिनियततया वा प्रतिसन्धानाभावः प्राकृतानाम्, तत्वविदस्तु प्रह्लादवामदेवादयः
प्रतिसन्दधतीति तुल्यम् ।
यथोक्तं ““सर्वगत्वादनन्तस्य स एवाहमवस्थितः ।
मत्तस्सर्वमहं सर्वमयि सर्वं सनातने ॥’’ इत्यादि ।
श्रुतिश्च - ““तद्धैतत्पश्यन्तृषिर्वामदेवः प्रतिपदे अहं मनुरभवं सूर्यश्चाहं कक्षीवानृषिरस्मिविप्र’’ इति ।
आदिभरतऋभुनिदाघादिवृत्तान्तेषु च व्यक्तोयं पन्थाः ।

किञ्च परस्परसुखादिप्रतिसन्धानमस्मदादिष्वपि प्रसज्यमानन्ना निष्टम् ।
योहि स्वसुखादीन् प्रतिसन्धत्ते स एवान्योपीत्यस्मन्मते तत्प्रतिसन्धानमप्येतत्प्रतिसन्धानमेवेति किमत्र प्रसञ्जनीयम् ।
नाहं राजादिसुखमनुभवामीति प्रतिसन्धानाभावः प्रत्यक्षसिद्ध इति चेन्न; - अहं सुखमनुभवामीति राजशरीरे तदुपलम्भात् ।
अन्यस्यैव उपलम्भ इति चेन्न; - अद्याप्यन्यत्वासिद्धेः ।
अहमस्मादन्यः अयं च मत्तोन्य इति परस्परान्यत्वं प्रत्यक्षसिद्धमिति चेन्न; - परस्याप्रत्यक्षत्वेन तद्गतान्यत्वस्य प्रत्यक्षयितु मशक्यत्वात् ।
स्वस्य प्रत्यक्षत्वेपि स्वगतान्यत्वस्यापि प्रतियोगिभूतपरप्रतीतिमन्तरेणानुपपत्तेः ।
परश्च प्रतीयमानो ऽन्यतया वा स्यात्, अनन्यतया वा, सामान्यतो वा? नाद्यः, प्रत्यक्षतस्तदप्रतीतेः ।
लिङ्गतोपि कश्चिदस्तीत्यनुमीयते, न तु मत्तोन्य इति ।
मुखविकासादिना स्वविरुद्धसुखाद्यनुमानेन्यत्वमप्यनुमितं भवतीति चेन्न; - तेषां विरुद्धत्वस्य प्रागेव दूषितत्वात् ।
न द्वितीयः, सर्वेषां स्वप्रतियोगिकव्यतिरेकप्रसङ्गेन शून्यवादावतारात् ।
अत एव न तृतीयः, प्रतिसन्धानमात्रात् भेदे स्वस्मादपि भेदप्रसङ्गात् ।
तथापि कथं प्रतिसन्धानतदभावयोस्सिद्धिरिति चेन्न; - तदभावस्यासिद्धेः ।
सिद्धावपि देशकालोपाध्यादि भेदेन तदुपपत्तेः ।
अन्यथा स्वाश्रयैकदेशवर्तिसंयोगादि (गुण) विलयप्रसङ्गात् ।
नचैतद्युक्तम्, ईश्वरघटादिसंयोगस्य व्यापित्वे घटादेरपि विभुत्वप्रसङ्गात् ।
संयोगादीनां स्वाभावसमानाधिकरणतयैव धर्मिग्राहकेणैव सिद्धेस्तथाभ्युपगमः, इहतु न तथेति चेन्न; - अत्रापि प्रागुक्तानुमानैरद्वैतशास्त्रैश्च सुखादीनामपि तत्सिद्धेः ।
वैशेषिकादिभिस्तथाभ्युपगमाच्च ।
तथाच श्रूयते - ““अथातोहङ्कारादेश’‘इत्यारभ्य, ““अहमेवेदं सर्वमात्मैवेदं सर्वमि’‘ति ।
आत्मभेदश्च बहुशो निषिध्यते - “नेह नानास्ति किञ्चन ।
मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ।
यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं विजानीयादात्मेत्येवोपासीत, द्वितीयाद्वै भयं भवती’’ त्यादिभिः ।
तथाच स्मृतिः - ““तस्यात्मपरदेहेषुसतो प्येकमयं हि यत् ।
विज्ञानं परमार्थो हि द्वैतिनोतथ्यदर्शिनः ॥ यद्यन्योस्ति परः कोपि मत्तः पार्थिवसत्तम ।
तदैषोहमयं चान्यो वक्तुमेवमपीष्यते ॥ वेणुरन्ध्रविभेदेन भेदष्षड्जादिसञ्ज्ञितः ।
अभेदव्यापिनो वायोस्तथासौ परमात्मनः ॥ आकाशमेकं हि यथा घटादिषु पृथग्भवेत् ।
तथात्मैकोह्यनेकस्थो जलाधारेष्विवांशुमान् ॥एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥’’ इति ।
उक्तञ्च भगवता - “सर्वभूतस्थमात्मानं सर्वभूतानिचात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥’ इति ।
एवंविधान्यन्यान्यपि वचनान्यसङ्ख्यातत्वान्न कार्त्स्न्येनोदाहर्तुं शक्यन्ते ।
नच बद्धमुक्तव्यवस्थाभावप्रसङ्गः, ब्रह्माज्ञानवादे त्वितः पूर्वं मुक्ताना मेवाभावात् ।
एकमेव हि ब्रह्मैकया अविद्यया बध्यमानं बहुतया बम्भ्रमीति, तदेव कदाचिन्मोक्ष्यत इति स्थितेः ।
शुको मुक्तो वामदेवो मुक्त इत्यादि शास्त्रं कथमिति चेन्न; - कथञ्चित्स्वप्नपुरुषमोक्षवत् तस्यापि मिथ्यात्वात् ।
जीवाज्ञानवादे तु प्रतिजीवमविद्याभेदाज्जीवानाञ्च बिम्बप्रतिबिम्बस्थानीयत्वात्प्रातिस्विकाविद्यानिवृत्त्या प्रत्येकमोक्ष जीवान्तरस्थित्युपपत्तेः ।
ब्रह्मणस्तु नित्यमुक्तत्वेन बद्धमुक्तावस्थयोरेवाभावात् ।
तस्मादविद्यापरिकल्पितोयं जीवानां मिथो भेद इति ।

अत्रोच्यते - यदुक्तं “विगीतानि शरीराणि मयैवात्मवन्ती’ति; तत्र मयेति किमहमर्थो विवक्षितः, उत तदनुबन्धिनी संवित्, उत तदुभयोत्तीर्णः कश्चित्तयोरपि साक्षी? नाद्यः, एकस्मिन्नपि शरीरे भवद्भिरहमर्थस्यात्मत्वानभ्युपगमेन तद्दृष्टान्तस्य साध्यविकलत्वात् ।
पक्षस्य चाप्रसिद्धविशेषणत्वात् ।
अनात्मनात्मवन्तीति प्रतिज्ञाविरोधापत्तेः ।
स्वसिद्धान्तविरुद्धाहमर्थात्मत्वतदभेद सङ्कथनेनापसिद्धान्त प्रसङ्गाच्च ।
न द्वितीयः, अस्माभिस्तस्याः क्वचिदप्यात्मत्वानभ्युपगमेन साध्यविकलत्वादेव ।
तथैवाप्रसिद्ध विशेषणत्वमपि, सर्वत्र संविन्मात्रस्यास्माभिरात्मत्वप्रतिक्षेपात् ।
तथैव च विरोधः, अनहमर्थेन संविदा आत्मवन्तीति प्रतिज्ञानात् ।
नापि तृतीयः, भवदभिमतस्य साक्षिणोस्माभिरन्यत्र
प्रतिक्षेपात् ।
अस्मदिष्टेन तु सर्वाध्यक्षेणेश्वरेणात्मवन्तीति साधने सिद्धसाधनात् ।
जीवाधिष्ठितान्यपि हि शरीराणि परमात्मनात्मवन्त्येव, तस्य सर्व शरीरत्वात् ।
सद्वारकमिति तु विशेषः ।
एवमुत्तरेष्वपि प्रयोगेष्वस्मच्छब्दविकल्पेन दूषणमूह्यम् ।
विशेषतोपि ब्रूमः - यत्तुमदविद्याकल्पितमिति साध्यते, तत्रापि दृष्टान्तस्य साध्यविकलतैव, स्वप्नदृष्टानामपि पदार्थानामीश्वरसृष्टत्वस्य श्रुतिसिद्धत्वात् ।
“न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान्पथः सृजते, सहिकर्ते’ तीश्वरकर्तृत्वश्रवणात् ।
समर्थितं चैतत् “सन्ध्ये सृष्टिराह ही’ त्यस्मिन्नधकरणे ।
मदविद्याकल्पितमित्यस्य साध्यस्य प्रपञ्चसत्यत्वप्रतिपादनेन बाधोपि द्रष्टव्यः ।
तेनैव कल्पित्वादिति हेतोरसिद्धिश्च ।

यत्तु सर्वोप्यात्मा ऽहमेव, चेतनत्वादिति ।
तत्राहमर्थत्वमात्र साधने सिद्धसाधनता ।
स्वतादात्म्यसाधने वक्ष्यमाणेन विरुद्धधर्माध्यासेन बाधः ।
चेतनत्वादिति हेतोस्स्वपक्षेणासिद्धिः ।
दृष्टान्तस्य साधनविकलता च ।
चिद्रूपत्वमात्रस्य हेतुत्वे धर्मभूत ज्ञानेनानैकान्तः ।
त्वत्पक्षे वृत्तिज्ञानेनापि ।
वैशेषिकादिमतेना सिद्धिश्च ।
आत्मत्वादिति प्रयोगेपि चेतनत्वचिद्रूपत्वादिविकल्पेन दूषणमूह्यम् ।
आत्मत्वजातिमत्त्वादिति विवक्षायां नानात्मवाद प्रसङ्गः, व्यक्तिभेदनान्तरीयककत्वाज्जातेः ।

यत्तु सर्वाणि सुखदुःखानि मयैव भुज्यन्त इति ।
तत्र स्वहृदयविसंवादस्तावत् ।
यदिच सर्वाणि दुःखानि स्वेनैव भुज्यन्ते, तर्हि कथं परहिंसादिप्रवृत्तिः ।
नहि स्वसुखोच्छेदाय स्वदुःखोत्पादनाय वा प्रेक्षावन्तः प्रवर्तेरन् ।
अद्वैतदर्शिनां न तथा प्रवर्तनमिति चेन्न; - सर्वतत्वोपदेशिना भगवता वासुदेवनापि स्वयमेव वा धनञ्जयादिमुखेन वा परपीडादर्शनात् ।
नित्यमुक्तवेनास्पृष्टसुखदुःखस्यात्मनस्तद्भोक्तृत्व सम्भवादपसिद्धान्तश्च ।
अतएव दृष्टान्ते साध्यवैकल्यं च ।
अथ परमतेन भोक्तृत्वमन्वारुह्योच्येत, तदापि तन्मतेनाहमर्थस्यैवात्मत्वात्तदद्वैत साधने भवतः कथ मात्माद्वैतसिद्धिः ।

अस्मच्छब्दानुबन्धेन यान्यन्यान्यैक्यसाधने ।

प्रयुक्तान्यनुमानानि तेषामेषा निराक्रिया ॥
यत्पुनरस्मच्छब्दानुबन्धमुत्सृज्य विगीतानि शरीराणि देव दत्तात्मनात्मवन्तीति प्रयुक्तम्, तत्राप्यहमर्थत्वसंविन्मात्रत्वाद्यात्म शब्दार्थविकल्पेन प्रागुक्तदोषो दुस्तर एव ।

यच्च प्रतिपन्नश्शरीरभेदोनेकात्मनिरपेक्ष इति; तत्रैकात्माधिष्ठितत्वविवक्षायामीश्वराधिष्ठानेन सिद्धसाधनता ।
भिन्नात्माधिष्ठान राहित्यविवक्षायान्निषेध्यसिद्धौ तथैव तत्सिद्धेर्बाधः ।
तदसिद्धौ किन्निषेध्यम् ।
क्वचित्प्रमितस्यैव निषेध्यत्वमिति स्थितमन्यत्र ।
एवमन्येष्वप्यात्मैक्यसाधनेषु दूषणमूह्यम् ।

यः पुनर्विपक्षे दण्डवत्प्रदर्शितः कल्पनागौरवप्रसङ्ग इति; स तदा स्यात्, यदि नोपलभ्येत न श्रूयेत वा भेदः ।
वक्ष्यते तदुभयम् ।
प्रतिप्रयोगाश्च - चैन्नात्मा मैत्रात्मनो भिन्नः, कदा चिदपि मैत्रानुभवजनितस्मृतिहितत्वात्, घटवत्; व्यतिरेकेण वा, यो मैत्रान्नभिद्यते स तदनुभवजनितस्मृतिमान्, यथामैत्रात्मैव, इत्यादयः ।
नचात्र हेत्वसिद्धिः, स्वात्मप्रत्यक्षसिद्धत्वात् ।
अन्यथाऽऽचार्यानुभूतमखिलं च स्मरन् किमर्थं शृणोषि ।
पराभिप्रेतं च जानन् किमर्थं विकल्पयसि ।
मयि च त्वदभिप्रेताभिज्ञे किमर्थ मुत्तरं ददासि ।
परोक्तं च त्वदुक्तमभिमन्यमानः किमर्थं दूषयसि ।
निर्विशेषणतया पूर्वेषां प्राबल्यमिति चेन्न; - विशिष्टस्याप्युपलम्भानुरोधिनो बलीयस्त्वात् ।
अन्यथा मेयत्वाभिधेयत्वादीनामाभासहेतूनां निर्विशेषणतामात्रेण बलीयस्त्वे सविशेषणानां हेतूनामुपप्लवः ।
तेन पूर्वेषामपि बाधो निर्विशेषणानामपि जायते ।

यत्तु - पण्डितत्वमूर्खत्वादीनां विरुद्धत्वन्नास्ति, अधिकरणभेदेसिद्धे सहानवस्थानलक्षणीविरुद्धत्वम्, ततश्च स इत्यन्योन्याश्रयणादिति ।
तत् किं क्वचिद्विरोधमभ्युपगम्य सोत्र नास्तीत्युच्यते, उत क्वचिदपि विरोधाभावमभिमत्य? नाद्यः, अविशेषात् ।
नहि सितासितादिभेदात् ज्ञानाज्ञानादिभेदस्य वैषम्यं पश्यामः ।
अधिकरणस्वरूपभेदस्य स्फुटोपलम्भाद्वैषम्यं सिद्धमिति चेन्न; असिद्धेः ।
नहि वैषम्यानुपलम्भेपि वस्तूनां भेदस्सिध्यति, तस्यैव तत्त्वात् ।
अन्यथा वैधर्म्याग्रहेपि स्वरूपोपलम्भमात्रेण भेदसिद्धौ संशयविपर्ययोच्छेदप्रसङ्गात् ।
अथ पुनर्वैधर्म्योपलम्भवेलायां स्वरूपभेदोप्यन्यः प्रतीयत इत्यभिमन्यसे, तर्ह्यत्रापि तथानुमन्यस्व ।
नापि द्वितीयः, अविवादप्रसङ्गात् ।
नहि स्वसिद्धान्ताविरोधिनि परमते विवादसम्भवः ।
अन्यथा स्वसिद्धान्तवादिभिरपि विवादप्रसङ्गात् ।
अनैकान्तवादस्य च साम्राज्यापातात् ।

किञ्च -
स्थिरीकृतो विरोधस्स्याद्विरोधं प्रतिरुन्धता ।

विरोधाप्रतिरोधेहि विरोधो निरुपद्रवः ॥
विरोधोद्घाटनम्मुक्त्वा किन्नु दूषणमुच्यते ।

सर्वत्रैवाविरोधे तु भवेत्सर्वविरोधिता ॥
यत्तु - प्रलपितम्, घटपटादिष्वपि विरोधपरिहारद्भेदविलय इत्यत्र इष्टप्रसङ्त्वमिति; तत्स्वसिद्धान्तोच्छेदायोक्तम्, सर्वाद्वैते सत्यमिथ्यार्थविभागभङ्गप्रसङ्गात् ।
सर्वमिथ्यात्वस्य च भवद्भिरनभ्युपगमात् ।
विरोधमुत्सृज्य सत्यमिथ्याविभागस्य दुरुपपादत्वाच्च ।
एवञ्च विरोधसिद्धावनुमानादिसिद्धपरप्रतियोगिक भेदस्य स्वात्मनि प्रत्यक्षतया प्रत्यक्षबाधोपि सिद्धः ।
अतएव परस्परप्रतिसन्धानप्रसङ्गोपि निरुपद्रवः ।
पटुप्रत्ययाभ्यासादरा हितातिशयतादात्विकसंस्कारवशेन प्रतिसन्धानप्रसङ्गे
सति न जन्मान्तराद्युदाहरणावकाशः ।

यत्तु - तत्रोक्तम् - अविद्यावैचित्र्यादुपाधिभेदप्रतिनियततया वा प्रतिसन्धानाभाव इति; तदपि न, अविद्यास्वरूपतत्प्रमाणादेरन्यत्र प्रतिक्षेपात् ।
अन्यथा चिदचिद्विभागस्यापि तद्वैचित्र्यनिबन्धन तथा तदैक्यस्यापि प्रसङ्गात् ।
उपाधिभेदस्तु न प्रतिसन्धान प्रतिबन्धकः, सौभर्युपाधिभेदवत्; अन्यथा जातिस्मरत्वमपि कस्य चिन्न स्यात् ।
अन्तः करणैक्यात्तदुपपत्तिरिति चेन्न; - केषाञ्चित्कल्पान्तरानुभूतस्मृतिदर्शनात् ।
अन्तः करणभेदात्सुखादिव्यवस्थायां बाह्यकरणभेदादपि व्यवस्था किन्न स्यात् ।
नच तथास्ति; दृष्टमेव स्पृशामीति प्रतिसन्धानात् ।
एवं पाणिपादाद्यवयवभेदादपि प्रसङ्गो दर्शयितव्यः ।

यत्तु - तत्वविदः प्रहूलादवामदेवादयः प्रतिसन्दधत इत्युक्तम्; तदपि मन्दम्, तेषां सर्वान्तरात्मभूतपरमात्मपर्यन्तस्वात्मानुसन्धानेन तथा तथा व्यपदेशात् ।
अत एव हि ““सर्वगत्वादनन्तस्ये’‘त्युक्तम् ।
तदभिप्रायेण च श्रुतिः - ““तद्वैतत्पश्यन्नृषि’’ रिति ।
तदेतद्ब्रह्मान्तर्यामिकत्वं पश्यन्नित्यर्थः ।
एव मेव हि ““सर्वं समाप्नोषि ततोसि सर्व’’ इत्यादिकमपि ।
एते नैवादिभरताद्यनुसन्धानाप्रकारोपि निर्व्यूढः ।
अन्यथा तत्वविदां सर्वात्मगतसुखदुःखानुसन्धाने त्वेकदर्वीकरभयपलायितस्यानन्तसर्पमध्यनिपातन्यायेन तत्वदर्शित्वं विपरीतफलं स्यात् ।
नच तेषां सर्वकर्मक्षयात् भोगो नास्तीति वाच्यम्; स्वगतसुखदुःखानुसन्धास्यैव भोगत्वेन तदनङ्गीकारव्या घातात् ।

यत्तु सुखादिप्रतिसन्धानप्रसङ्गे परप्रतिसन्धानमपि स्वप्रतिसन्धानमेवेति किमत्र प्रसञ्जनीयमित्युक्तम्; तदपि विरोधोपपादनेनैव परिहृतम् ।

यत्तु परस्परान्यत्वोपलम्भे जल्पितम् - परस्याप्रत्यक्षत्वे तद्गतान्यत्वमपि न प्रत्यक्षयितुं शक्यमिति; तस्य किं प्रत्यक्ष निर्बन्धेन, अनुमानतोपि तत्सिध्द्युपपत्तेः ।
स्वात्मनि तदन्यत्वस्य प्रत्यक्षत्वे स्वप्रतियोगिकतद्गतान्यत्वस्यानुमातुं शक्यत्वात् ।
यो यद्गतान्यत्वप्रतियोगी स ततोन्यः, यथा सव्यहस्ताद्दक्षिणहस्त इति हस्तस्थत्वाद्व्याप्तेः ।
यत्तत्रोत्तरम्परः प्रतीयमानोन्यतया वा, अनन्यतया वा, सामान्यतोवेति; तत्रान्यतयैवेति ब्रूमः ।
यद्यपि तत्र न प्रत्यक्षम्, तथापि मुखविकासाद्यनुमितेन हर्षादिना स्वस्मिन्ननुपलभ्यमानेन स्वस्मादन्यतयैवानुमातुं शक्यते ।
दर्शितं च सुखदुःखतदभावादीनां यथोपलम्भं विरुद्धत्वम् ।
अत एव सामान्यतः प्रथमप्रतीतावप्यनन्तरं विरुद्धधर्मोपलम्भेनापि भेदानुमितिस्सिद्धा ।

एतेन प्रतिसन्धानतदभावयोः कथं सामानाधिकरण्यमित्यत्र तदभावासिद्धिवचनमपि प्रत्युक्तम् ।
तदभावसिद्धावपि उपाधिभेदेन तदुपपत्तिस्तु प्रागेव दूषिता ।

यत्तु प्रतिसन्धानतदभावविरोधशमनाथ प्रदेशवर्तिसंयोगादिक मुदाहृतम्; तद्विवक्षितमजानतैवोक्तम् ।
नहि वयं प्रतिसन्धान स्वरूपस्य सर्वत्र वृत्तिं प्रसञ्जयामः, आत्मवैभववादिनो हि प्रदेशवर्तिन एव ज्ञानादिगुणान् वदन्ति ।
यत्र क्वचित्प्रदेशेनुभवोत्पत्तावपि तदन्येनापि प्रदेशेन प्रतिसन्धानादिकमवर्जनीय मेव ।
अन्यथा दक्षिणहस्तेन स्पृष्टं सव्यहस्तेन स्पृशामीति प्रतिसन्धानं न स्यात् ।
सौभरिप्रतिसन्धानमपि दूरमपास्येत; तत्रापि प्रादेशिकप्रतिसन्धानोत्पत्त्या प्रतिसन्धानाभावस्य वक्तुं शक्यत्वात् ।
तस्मादश्रयणविषयीकरणयोरविशेषभ्रमात् संयोगादिनिदर्शनम् ।
श्रुतयस्तु ““अहमेवेदं सर्वम्, आत्मैवेदं सर्व’’ मित्यादिकाः प्रह्लादादिवाक्योक्तन्यायेन निर्व्यूढाः ।
““नेह नानास्ति किञ्चने’’ त्यादिभेदनिषेधास्तु समस्तचिदचिद्विशिष्टे ब्रह्मण्येकस्मिन् ज्ञाते विशिष्टबहिर्भूतप्रतिक्षेपपराः, यथा - शरीरजातिगुणवसनभूषणादिपरिगणिते कस्मिंश्चित् पुरुषेवस्थिते तत्रैक एव तिष्ठति नान्यः कश्चिदिति व्यपदिशन्ति; तद्वदत्रापि ।
एवमनभ्युपगमे ऽहन्त्वमादिलोकोपलम्भविरोधः ।
शास्त्रप्रत्यक्षविरोधे प्रत्यक्षप्राबल्यं स्थितमन्यत्र ।
तथा ““नित्योनित्यानां चेतनश्चेतनानामेको बहूनामि’’ त्यादिभेदश्रुतिशत कोपश्च ।
विषयभेदाद्विरोधे शाम्यत्यन्यतरबाधोनुपपन्न इति सगुणनिर्गुणश्रुतिचिन्तने सुस्पष्टम् ।

मीमांसाशास्त्रसन्दर्भः सर्वो विषयभेदतः ।

श्रुतीनामविरोधाय जायते नतु बाधनात् ॥
एतेन स्मृतिष्वपि भारोवरोपितः ।
तत्रापि ब्रह्मात्मकत्व प्रतिपादनप्रकरणे प्रागुक्तन्यायावतारः ।
जीवानां परस्परभेदनिषेध प्रकरणे तु ज्ञानरूपतयात्यन्तसमस्वरूपाणां कर्मकृतदेहोपाधिक देवत्वादिभेदस्य स्वरूपानुबन्धित्वप्रतिक्षेपे तात्पर्यम् ।
तथाचोच्यते - ““देवादिभेदे ऽपध्वस्ते नास्त्येवावरणो हि सः ।
’’ ““पुमात्र देवो न नरो न पशुर्नच पादपः ।
’’ इत्यादिना ।
““यद्यन्योस्ति परः कोपि’’ त्यत्रान्यशब्देनान्यादृशत्वमेवोच्यते, अन्यथा परशब्दपौनरुक्त्यात् ।
एवं सत्यात्मनां परस्परसाम्य प्रतिपादकवाक्यान्तरानुगुण्यमपि सिध्द्यति ।
अत एव भगवद्वचनमपि निर्व्यूढम्, ““सर्वत्र समदर्शिन’’ इति तत्रैवोक्तेश्च ।

घटाकाशतरङ्गचन्द्राद्युदाहरणवाक्यस्य जीवविषयत्वेऽयमेव न्यायः ।
तत्तु यदा परमात्मविषयम्, तदा तद्गतदोषैरस्पृष्टत्वमात्रे तदुभयदृष्टान्ततात्पर्यमिति ““वृद्धिह्रासभाक्त्वमन्तर्भावादुभय सामञ्जस्यादेवं दर्शनाच्चे’’ ति सूत्रेणैव समर्थितम् ।

एवमनभ्युपगमे बद्धमुक्तव्यवस्थाभङ्गश्च ।

यत्तत्रोक्तम् - ब्रह्माज्ञानवादे तावत्पर्वूम्मुक्ता एव न सन्ति, शुक्तादिमोक्षोपि स्वप्नदृष्टपुरुषमोक्षवन्मिथ्येति; तत्र तावदद्वैत विद्योपदेशिनान्त्वदाचार्याणामपि मोक्षस्य मिथ्यात्वे स्वयं कथं मोक्षमन्विच्छसि? कथं वा शिष्यांश्च प्रेरयसि ।
आमोक्षाज्जीववच्छरीरं किमित्यपरिज्ञानादिति चेन्न; - सर्वशरीराणामेकात्माधिष्ठितत्वे मिथ्यात्वे चाविशिष्टे तत्तददिष्ठाने च प्रतिभासमात्र सिद्धेर्द्रष्टृदृश्यशरीरविशेषासिद्धेः ।
ततश्च पश्चात्तनोपि मोक्षोमिथ्याभूत इति कथमद्यतनाद्विशेषः ।
तस्मान्न कदाचिदपि मोक्ष इति वा न कदाचिदपि बन्ध इति वा स्यात् ।
इष्टमेवैत दुभयमपीति चेन्न; - पूर्वत्र नित्यबन्धप्रसङ्गेन निवर्तयितुमशक्यत्वात् उत्तरत्र निवर्त्याभावाच्च बन्धनिवर्तनोपायोपदेशादि परशास्त्रनैरर्थक्यादिप्रसङ्गात् ।
जीवाज्ञानवादे तु ब्रह्मणो बन्धानभ्युपगमात् ब्रह्मव्यतिरिक्तस्य च मित्यात्वात् केवलं बाधिता बाधितव्यवस्थेत्येव स्यात्, नतु बद्धमुक्तव्यवस्था ।
अथ ब्रह्म प्रतिबिम्बस्थानीयानामपि जीवानां ब्रह्मत्वम्, तदा ब्रह्माज्ञानवाद प्रसङ्गे प्रतिपादित एव दोष इति ।

एवं भास्करादिपक्षेपि परस्परं जीवानाम् ईश्वरेण चाभेदस्य स्वाभाविकत्वात् उपाधिभेदस्य चोकिञ्चित्करत्वस्थापनात् - सर्वसुखदुःखादिप्रतिसन्धानप्रसङ्गे बद्धमुक्तजीवेश्वरव्यवस्थाभङ्गप्रसङ्गो दुर्वारः ।

यत्तु - भेदवादेप्यतीतकल्पानन्त्यात्प्रतिकल्पमेकमुक्तावपि सर्वमुक्तिप्रसङ्गात् कथं बद्धमुक्तव्यवस्थेत्याहुः; तदपि मुग्धभाषितम्, अनन्तघटध्वंसेपि घटान्तरस्थितिवदनन्तकल्पानां ध्वंसेपि कल्पान्तरवदनन्तपार्थिवपृथक्कारेपि द्रव्यान्तरानन्त्यवद्यथोपलम्भमानन्त्यातिशयाद्धवस्थोपपत्तेः ।
एकस्य वात्मनः कथमितः पूर्वमपवर्गाभावः? हेत्वनागमनादिति चेत्? एवमनेकेष्वपीतिभावय, तथा अनन्ता एव जीवा इत्यपि यथाप्रमाणामनुसन्धत्स्व ।
नन्वेवमपि कश्चिन्नित्यं मुक्तः कश्चित्तु बध्यते मुच्यते चेति व्यवस्था न सिद्ध्यति, आत्मनां स्वतस्समत्वादीश्वरस्य साधारण्यादिति चेत्? हन्तैवमास्तिकपदवीमनुप्रविष्टोसि! ततश्च किं जीवेश्वरभेदमनभ्युपगम्य पृच्छसि, उत तदभ्युपगमेन? न प्रथमः, श्रुति - विरोधादभेदवादिनापि सर्वज्ञत्वादिवैषम्याङ्गीकाराच्च ।
नापि द्वितीयः, आत्मत्वाविशेषेपि कथमीश्वरो नित्यमुक्त इतिवदपहास्यत्वात्? संसारहेत्वत्यन्ताभाववत्तया धर्मिग्राहकेण तत्सिद्धेरिति चेत्? हन्तानीश्वरेष्वपि केषुचित्तथा धर्मिग्राहकसद्भावे किं कुर्मः ।
अनीश्वरत्वादेव संसारयोग्यत्वमस्तीति चेत्? तत्सत्यम्, सा स्वरूपयोग्यता, नतु सहकारियोग्यता ।
स्वरूपयोग्यत्वं सहकारियोग्यत्व व्याप्तमिति चेन्न; - निस्तुषबीजादिष्वङ्कुरादिसहारिसन्निपातादर्शनात् ।
तथाप्यविरुद्धयोरसंसर्गः प्रणाशाभावे कालविप्रकर्षव्याप्त इति चेन्न; - मुक्तानामुत्तरकालबन्धाभाववदुपपत्तेः ।
हेतूनाम् अत्यन्तोच्छेदात् न पुनस्सहकार्यागमोपुनरावृत्तिश्रुतेरिति चेन्न; - तुल्यत्वात् ।
अत्यन्ताभावादिति हि विशेषः, सतु विरुद्ध इति चेन्न; - धर्मिग्राहकतस्तत्सिद्धौ विरोधासिद्धेः ।
ततश्च तद्विपरीतानुमानाद्युत्थानमपि प्रतिरुद्धम् ।
धर्मिग्राहकमेव न पश्यामीति चेत्? तर्हि निर्विषयं चोद्यमिति तुष्णीम्भव, अधीष्व वा तत्वमाचार्येभ्य इति ।
तदेतत्सर्वमादिभरतवाक्यव्याख्यानव्याजेन भाष्यकारैस्सूचितमिति द्रष्टव्यम् ।

इति शतदूषण्याम् आत्माद्वैतभङ्गः षट्त्रिंशो वादः ।
(36)

नृसिंहराजीया

पूर्ववादे संविदभेदो न सम्भवतीति साधितस्य दृढीकरणार्थमात्मनोऽपि नानात्वं साधयन्वादार्थं सङ्गृह्णातिः - नम इति। अव्येतु तिरोधानान्यथानुपपत्त्या आत्मभेदस्सिद्धोः । युक्त्यन्तरेणापि साध्यत इति सङ्गति माहः । त्रेधाविभक्तानां नित्यमुक्तं बद्धरूपेण विभक्ताना मित्यर्थः । अनेन वादार्थस्सङ्गृहीतः । ननु नाहं देवः किन्तु मनुष्य इत्यादि प्रत्यक्षाद्देवांश्च प्रणमेद्यदीत्यादि शास्त्राञ्च व्यवहारात्कथं भेदवासना इत्याहःदेवाद्युपाधीति। उपाधिपदेन प्रतिबिम्बोपाधिर वच्छेदकोपाधिश्च विवक्षितः । ब्रह्मणः प्रति बिम्बो जीव इति मते - तरङ्गचन्द्रवदिति। घाटकाशवदुपाधिना भिन्नो ब्रह्मणो जीव इति मतेसोभर्यादिवदिति।तथा चेति। यथा जीवैक्यं सिद्धयति तथेत्यर्थः । स्वशलीरस्य पक्षत्वे सिद्धसाधन परिहारार्थंविगीता नीति।मयेति। अत्रात्मान्तरवत्वेऽपि मया आत्मवत्व सम्भवादर्थान्तर शङ्कागौरवादेव निराकार्या । फलितार्थानुवाद एवकारः ।सर्वमिति। स्वाप्नशरीरेऽपि सिद्धसाधनवारणायजाग्रदिति। स्वाविद्या कल्पितस्य न स्वव्यतिरिक्तात्मवत्वं भवानेति भावः ।अहमेवेति। मदभिन्न इत्यर्थः ।एवमिति। प्रतिपुरुषमुक्तनुमानानि प्रयोज्यानीत्यर्थः । ऐक्यसाधकानुमानमुक्त्वा भेदनिराकरणानुमानमाहः - विप्रतिपन्न इति। देवदत्तादि शरीराणां परस्पर भेद एकमात्राधिष्ठेय धर्मिप्रतियोगिक इत्यर्थः ।एवमिति। देवदत्तकरणानां यज्ञदत्तकरणानां च परस्पर भेद एकात्ममात्राधिष्ठेय धर्मि प्रतियोगिकरणा भेदत्वात्सौभरि शरीरस्थ करणभेदवद्देवदत्त चक्षुश्रोत्रादि परस्पर भेदवद्वेत्वोत्यर्थः । आदिशब्देन देवदत्तादीनां बुद्ध्यादि भेदो विवक्षितः । कल्पनागौरवम् अनेकात्म कल्पनागौरवम् । मूर्खत्वं - अज्ञत्वम् । सुखित्वादीत्यादि भेदनासुखित्व स्वाप तदभावादि गृह्यते ।नानात्मनो व्यवस्थात इति। सुखित्व दुःखित्वादि व्यवस्थया विरुद्ध धर्मवत्तया आत्मानो नाना भिन्ना इत्यर्थः ।त्वदासन्नैरिति। अहमर्थाध्यासाङ्गीकारादासन्ना इति भावः । जन्मादि व्यवस्थया पुरुष बहुत्वमात्मनो नानात्वं सिद्धमित्यर्थः । सत्यमिथ्येत्यादिकमित्यादि शब्देन निरधिष्ठान भ्रमो विवक्षितः । तथा च सत्यस्यापि ब्रह्मणो मिथ्यात्वान्निरधिष्ठान भ्रमवादि माध्यमिकमत प्रसङ्ग इत्यर्थः ।तेष्विति। विरुद्धधर्माध्यासाद्भेद कल्पनायामुक्त दोषस्स्यान्न चात्र(तो) भेदः कल्प्यते । किं तु प्रत्यक्षेण सिद्ध इति भावः ।अन्तत इति। भेदमात्रस्य कल्पितत्वादिति भावः ।अत एवेति। आत्म स्वरूपभेदस्य स्फुटतरोपलम्भा भावद्भेदमात्रस्य मिथ्यात्वाच्चेति भावः ।अत्र परस्परेति। वस्तुतोः एकत्वादिति भावः । तदभिन्नत्वे तदनुभूतानुसन्धान प्रसङ्ग इत्याशयं मत्वा व्यभिचारमाहः - एकेनेति। शङ्कतेः - संस्कार प्रमोषादिति। संस्कारस्या पटुत्वमस्फटप्रतीति जन्यत्वम प्रमोष हेतुस्फुट - तरेति। स्फुटतरप्रतीति जन्य इत्यर्थःजातिस्मरादय इति। स्मरतीति स्मरः वचाद्यजन्तः । जातेस्मरः इति सम्बन्धा सामान्य षष्ठया समासः ।आदिशब्दे नैकस्मिन्नेव जन्मन्यनुभूतां स्मर्तारो विवक्षिताः । अत्रापीति। आत्मभेदेऽपीत्यर्थः । तुल्यमित्यने नान्वयःवैचित्र्यादिति। विचित्रशक्तियोगादित्यर्थः ।उपादीति। एतदन्तः करणावच्छिन्नानुभूतमेतदन्तः । तत्वविदामनु सन्धानं दर्शयतिः - यथोक्तमिति। अहं सर्वं मयि सर्वमिति तदन्यत्वेन पामर प्रतीतिविषय पुरुष सुखादीनामप्यनु सन्धानमुच्यते ।अहं मनुरनु भवमिति। तदैक्यानु सन्धान तद्गतसुखाद्यनु सन्धानं सिद्धमिति भावः ।आदिभारत ऋभ्बीति।ऋत्यक( ) इति प्रकृति भावः ।नाहं राजादीति। ततश्च तत्प्रतिसन्धानमप्ये तदनुपपन्नमिति भावः । तदुपलम्भादिति । राज्ञोऽनुसन्दानमेवै तदुसन्धानम् । न चैवं नाहं राजसुखमनुभवामीत्यनेन विरोधः । एतच्छरीरावच्छेनाननु भवेन विरोधा भावादिति भावः । तस्यैव प्रतिसन्धानमित्ये तदसिद्धमिति शङ्कतेः - अन्यस्यैवेति। असिद्धिरसिद्धेति शङ्कतेः - अहमस्मादिति । परस्येति। अधिकरणयोग्यताया भेदग्रहे तन्त्रत्वादिति भावः । परस्य प्रतीत्यनन्तरं प्रत्यक्षं भवत्वित्यत्राहःपरश्चेति। अन्यथेति प्रतीयमान इति शेषः ।प्रत्यक्षत इति। अधिकरणस्या प्रत्यक्षत्वादिति भावः ।लिङ्ङ्गातोऽपीति। इदं शरीरमात्मवच्छरीरत्वात्सम्प्रति पन्नवदित्यनुमानेनेत्यर्थः । ननु मुखविकासादिना सुखादिकमनुमाय तस्य स्वाहत्वविरुद्ध तया विरुद्ध धर्माध्यासात्स्वान्यत्वेनानुमान मस्त्विति शङ्कतेः - मुखविकासेति । तेषामिति। अन्योऽन्याश्रयेण विरुद्धत्व ग्रहासम्भवान्नानुमानमिति भावः ।सर्वेषामिति। अनन्यत्वेन गृहीतत्वादन्यत्वं ग्राह्यम् । तथा च स्वस्यापि स्वानन्यत्वेन ग्रहात्स्वान्यत्व ग्रह प्रसङ्गेस्वान्यत्व स्वानन्यत्वाभ्यां विरुद्धं धर्माभ्यां समाक्रान्ततया धर्मिणो व्याघातेन सिद्धै शून्यवाद प्रयङ्गे घटाघटव्यतिरिक्तस्येव तृतीयप्रकाराभावादिति भावः ।प्रतिसन्धानेति। प्रतिसन्धानद्भेदमात्राद्भेद ग्रहेस्वव्यावृत्त प्रतियोगितावच्छेदक ग्रहास्वस्मादपि स्वस्य भेदग्रह प्रसङ्ग इत्यर्थः । ननु राजशरीरेऽहं सुखीति प्रतिसन्धानस्य देवदत्तीयत्वे सति नाहं राजसुखमनुभवामीति प्रतिसन्धानाभावस्याप्यनु भवाद्विरुद्धयोः प्रतिसन्धान तदभावयोःस्सामानाधिकरण्यापत्तिरिति शङ्कतेः - तथापीति। तदभावस्येति प्रतीति प्रतिसन्धान भ्रान्तेति भावः विपरीत प्रमायां सत्यां भ्रान्तिरप्यनुपपन्नेत्याहः - सिद्धावपीति।देशेति। क्वचिदक्यव प्रदेशभेदे न क्वचिदेकस्मिन्नपि प्रदेशेकालभेदे न क्वचिन्निरवयवाकाशादौ उक्ताधि भेदेन । आदिशब्देन सत्वत्वमिथ्यात्वादि भेदोगृह्यते ।तदुपपत्ति - रिति। प्रतियोगि तदभावयोस्सामानाधिकरण्यो पपत्तेरित्यर्थः ।अन्यथेति। अवच्छेदक भेदेनापि सामानाधिकरण्या योग इत्यर्थः ।घटादेरपीति। न च संयोगस्य व्याप्यवृत्तित्वेपि द्रव्यस्याविभुत्वं न हि व्यापि संयोगाश्रयत्वमात्रेण विभुत्वमिति वाच्यम् । तथाप्येकदेशवर्ति ब्रह्मादिभिर्व्याप्य संयोग सम्भवात्सर्वदाहापत्तावेक देश दाहो न स्यादिति भावः । शङ्कतेःसंयोगादीनामिति।तथाभ्युपगम इति। उपाधि भेदेना विरोधाभ्युपगम इत्यर्थः ।अत्रापीति। प्रमाणबलादात्मद्वैतसिद्धे तस्मिन्प्रतियोग्रिग्य भावयोस्सामानाधिकरण्य स्थानुभवबलात्सिद्धेरित्यर्थः । वेशेषिकादिभिरिति । पादे मे वेदना शिरसि सुखमित्यादि प्रतीतिबलात्सुखादेर्विरोधि सामानाधिकरण्याभ्युप गमादित्यर्थः । अद्वैते प्रमाणं दर्शयतिःतथा “चेति। इत्यारभ्याहमवैदमिति श्रूयत इत्यन्वयः ।“अथातोऽहङ्कारादेश’’(छां.7.27.1)इत्यारभ्याधीतैः"अथ सत्या’’(बृ.4.3.6)दि सर्ववस्तु तादात्म्य प्रतिपादकमेवाधस्तादित्यादि वाक्यैः"अहमेवेदं सर्व’’ (7.17.1)मित्युपसंहारवाक्ये च सर्ववस्तुतादात्म्या प्रतीतेश्चाद्वैतं सिद्धमित्यर्थः । “यतुवतोऽहङ्कारादेश’’ (छां - 7.15.1)इत्यत्राद्यमहमर्थस्यात्म भेद प्रतिपादन परमिति नद्भ्रान्ति जल्पितत्वादुपेक्ष्यं"यत्रत्वस्येति’’।यत्र हि द्वैतमिव भवति तदितर इतरं पश्यती’’ (बृः4.4.1)त्यपक्रमात्"यत्र’‘त्वस्य सर्वमात्मैवा भू’’ (बृ.4.4.1)दित्येवकारार्थे द्वैतनिषेधे तात्पर्यमिति भावः ।आत्मन्येवेति। ननुयोऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेदे (बृ.3.4.10)त्युपक्रमादेव कारेणभेदोपासन निषेधादीश्वर भेद निषेधादीश्वर भेदस्सिध्यति । ननु जीवानां परस्पर भेदनिषेध इति चेन्न । सर्वजीवानाम्मीश्वराद्भेद निषेधे परस्परभेद निषेधोप्यर्थ सिद्ध इति भावः । एकमयं - एकमित्यर्थः । स्वार्थे मयद् । द्वैतिनो - अतभ्यदर्शिन इति छेदः । निन्दार्थवाद भेदरिति भावः । यद्यन्योस्तीति काकुगर्भादन्यो नास्तीत्यर्थः । अयं चान्य इत्यनन्तरमिति अध्याहर्तव्यः ।अभेदव्यापिन इति। अभेदेन व्यापिन इत्यर्थः ।जीवाधारेष्विति। प्रति बिम्बो जीव इत्यभि प्रायेण । नन्वेतानि वचनानि पक्षद्वय साधारणानि नन्तव्यानि च वस्तुनि विकल्पा सम्भवेन शास्त्रस्य विरुद्धार्थ प्रतिपादकत्वा योगादिति चेन्न । एतेषां वचनानाम्मुपाधिकृत भेदपरत्वे तात्पर्यात्तथा च यस्मिन्पक्षे यथा युक्तं तथा योज्यमिति ध्येयम् । सर्वभूतस्थमात्मानमिति - आत्मशब्दः स्वपर इति भावः । ननु बद्धब्रह्मणा मुक्तस्यापि जीवस्येक्यात्पुनर्बन्ध एवस्यादिति न बद्धमुक्त व्यवस्थैव नास्तीति भावः । तत्र हेतुमाहः - एकमेव हीति। ननु श्रुतेरसदर्थबोधकत्वे व्यावहारिक प्रमाण्यमपि न स्यादित्यत्राहजीवनामिति। तथा च व्यावहारिक प्रामाण्यमपि न स्यादित्यत्राहः - जीवानामिति । तथा च व्यावहारिक भेदमादाय व्यवस्थेति भावः ।ब्रह्मणस्त्विति। अज्ञाना भावान्नित्यमुक्तत्वमिति भावः ।तदनुबन्धिनीति। अहमर्थधर्मतया प्रतीयमनेत्यर्थः ।तयोरिति। अहमर्थ तदनुबन्धि संविदोरित्यर्थः ।अप्रसिद्धविशेषणत्वादिति। मयैकत्वविदित्यत्र - मद्रूपात्मवन्तीत्यर्थः । तथा च साध्यस्या प्रसिद्धया सन्दिग्ध साध्यत्वरूप पक्ष विशेषणा प्रसिद्धया आश्रयासिद्धिरिति भावः ।प्रतिज्ञा विरोधेति। यद्यप्यनात्मनात्मवन्तीति न प्रतिज्ञा तथाप्यहमर्थस्य वस्तुतो नात्मत्वात् प्रतिज्ञा विरोध इति भावः । नन्वहमर्थस्यात्मत्वाभ्युपगमान्न प्रतिज्ञा विरोध इत्यत्राहः - स्वसिद्धाविति। अहमर्थस्यानात्मत्वं तस्य नानात्वं च सिद्धान्त इति भावः । उभय सम्प्रतिपन्नस्यैव दृष्टान्तत्वमित्यभि प्रायेणाहःअस्मभिरिति।साध्य विकलत्वादिति। दृष्टान्तस्येति शेषः । आश्रयासिद्धिमप्याहः - अप्रसिद्धेतिसंविन्मात्रस्य - संविदाश्रयरहितस्य ।तथैव च विरोध इति। प्रतिज्ञाविरोध इत्यर्थः । तदेवोपपादयतिःअहमर्थेनेति। किं भवदभिमतः साक्षी विवक्षितः उतास्मदभिमतं - यद्वे (+++) न नाद्य इत्याहःभवदभिमतस्येति। तथा च साध्य विकलत्वादि दोष इति भावः । द्वितीय तृतीययोराहः - अस्मदिष्टेति।नत्विति। ननु शरीराणां जीवाधिष्ठितानां कथं मीश्वराधिष्ठि तत्वमित्यत्राहःजीवाधिष्ठितान्यपीति।सद्वारकत्वमितित्विति। तु शब्दोप्यर्थकः । तथा च परमात्मनः साक्षादपि शरीरित्वं जीवद्वारापीति साराद्युक्त्य विरोध इति भावः । स्वाप्नस्या विद्याकल्पितत्वमेव नास्तीत्यभि प्रायेणाहः - तत्रापीतिस्वाप्नस्या विद्या कल्पितत्वाङ्गीकारेषीश्वरा विद्याकल्पितत्वमेव स्यान्न तु जीवाविद्याकल्पितत्व मित्याहःस्वप्नदृष्टानाम - पीति ।ईश्वर कृर्तुकत्वे श्रुतिमाहः - न तत्रेति। यदधिकरणे स्वप्नाः पदार्थाः सिद्धयन्ते तत्र लोकिक रथादयो न सन्ति अथ तद्विलक्षणान् तान् सृजति सृष्ट्याच ।स हीति। ईश्वर एव कर्तेत्यर्थः । ननु न तत्रेत्यादिना मिथ्याभूतस्य प्रपञ्चस्य स हि कर्तेति जीवकर्तृकत्व मेवोच्यत इत्यत्राहः - समर्थितमिति । सन्ध्ये सृष्टीति। स्वप्नेश्रूयमाणा “अथरथान्रथयोगन् पथः सृजत इति स्वाप्नसृष्टिः स्वप्नस्रष्ठा जीवेन कृता कुतः “आह हि स हि कर्ते’‘ति श्रुति राहेति सूत्रार्थः । एवं च सूत्रद्वयेन जीवस्य स्रष्टुत्वं पूर्वपक्षीकृत्य"मायामात्रमित्यादिभिषड्भिस्सूत्रैः"स हि कर्तेति’‘तच्छब्दस्येश्वरपरत्वादीश्वर कर्तृत्वं समर्थित मित्यर्थः । सत्यस्याविद्या कल्पितत्वं नोपपद्यत इत्यभिप्रायेणाहः - मदविद्येति। तेनैव - सत्यत्वोपादने - नैव । घटोऽभिधेयः प्रमेयत्वादित्यत्राभिधेयत्व महमेव तत्राप्यहं त्वं साध्यं किं वा अहमो घटभेद इति विकल्पमभिप्रेत्याहः - अहमर्थत्वमात्र इति। द्वितीय आहःस्वतादात्म्येति। किं चेतनत्वं ज्ञानाश्रयत्वं चिद्रूपन्त्वं वा नाद्य इत्याहःस्वपक्षेणेति। मयिमते ज्ञाना श्रयत्वादिति भावः । द्वितीयआहचिद्रूपत्वेति।तत्पक्षेणेति। वृत्तेरपि ज्ञानशब्द वाच्यत्वादिति भावः ।वैशेषिकादीति। कणादाक्षपादादिभिरात्मनश्चिद्रूपत्वा नभ्युपगमादिति भावः । मयैव भुज्यत इत्यत्रास्मच्छब्देनाहमर्थ एव विवक्षितः । उत तदनुबन्धिचैतन्यमात्रम् आद्य आहः - स्वहृदयेति। तथा च बादा इति भावः । अर्थापत्तिबाधितं चेत्याहः - यदि चेति। ननु स्वपरभेद भ्रमवतां प्रवृत्तिरित्याशङ्कतेःअद्वैत दर्शिनामिति । सर्वतत्वेति। तस्य भ्रमाभावादिति भावः । द्वितीय आहः - नित्यमुक्तत्वेनेति। न हि त्वदभिमत संविदो भोक्तृत्वमभ्युपगम्यते किन्त्वन्तः करणस्यैवेति भावः । अत एव चैतन्यस्य भोक्तृत्वाभावादेवेत्यर्थः । वस्तुत आत्मनो भोक्तृत्वा भावेऽपि परपक्षमभ्युपगम्योच्य तेत्यत्राहः - (++++)मित्याहःउतपरमतेनेति। अहं देव दत्तशरीरस्थात्मनिष्ठान्योन्याभाव प्रतियोगी अहमर्थादेव (++++++) अहमर्थवदित्यनुमानानि सन्तीत्यत्राहःअस्मादिति। संविन्मात्रत्वादित्यादिपदेन साक्षित्वादि गृह्यते ।तत्रैकात्मेति। यथाश्रुतेवक्ष्यमाण दूषणभीत्यैवं विवक्षायामिति भावः । निषेधा प्रसिद्धावुच्चमानायां साप्रसिद्धिः पक्ष (+++++) तीतितया बाध इति भावः ।किं निषेध्यमिति। तथा च निषेधस्या प्रसिद्धेरप्रसिद्धविशेषगतादिरिति भावः । अन्यत्रमिथ्यात्वादि भङ्गेषु ।एवमन्येष्वपीति। करणभेदादिपक्षकानुमानेष्वितित्यर्थः । प्रमाणिकं गौरवं न दोषायेत्याहः - तदास्यादिति। तदुभयं प्रत्यक्षोपलम्भः श्रुतिश्च ।हेत्वसिद्धिरिति। सन्दिग्धासिद्धिरित्यर्थः ।अन्यथेति। साध्याभावे हेत्वभावे - चेत्यर्थः ।मयि चेति। त्वदभिप्रेताभिज्ञत्वेन ज्ञानादिति भावः ।निर्विशेषणतयेति। व्याप्तेर्विरोधादन्यतर व्याप्ति स्वीकारे भिन्नविषयत्वेऽपि लाघवनियामकमिति पूर्वेषां प्राबल्यान्न प्रतिविरोधित्वमिति भावः ।अन्यथेति। ज्ञानं गुणः सामान्यवत्वे सत्येकेन्द्रय ग्राह्यत्वात् घटो दण्डजन्यः दण्डान्वयव्यतिरेकानु विधायित्वदित्याद्यनुमानेषु ज्ञानं गुणो न भवति प्रमेयत्वात् घटो दण्डजन्यो न भवति प्रमेयत्वादित्यादिनाधिकबलेन बाधस्यादित्यर्थः । उपप्लवः - उपद्रवः । स्यादिति शेषः । उपसंहरतिःतेनेति। अपिद्वयेन भूयस्त्वेऽपि निर्विशेषत्वेपीति विवक्षितम् ।क्वचिदपि विरोधाभावमभ्युपेत्येति। क्वचिदपि विरोधो नास्तीत्यभ्युपेत्येत्यर्थः । अविशेषादिति ज्ञानाज्ञानयोरप्ययमज्ञोऽयमज्ञो न भवतीति धर्मिभेदत्वाविशेषादित्यर्थः ।सितेति। सितासितादिरूपात्तदाश्रय भेदात् ज्ञानाज्ञानादिरूपस्य भेदस्य वैषम्यं न शाम्यत इत्यर्थः । असिद्धेः वैषम्यस्येति शेषः । किमधिकरणस्वरूपोभेद इति विवक्षितं किंवाधिकरणस्वरूपानुबन्धिभेदः स्वरूपभेद इत्यन्योऽन्याभावो विवक्षित इति विकल्पमभिप्रेत्य प्रथमे दोषमाहः - नहीति। हि शब्दोभिन्नक्रमः । तस्यैव तत्वाद्धि वैधर्म्यानुपलम्भेऽपि वस्तूनां भेदो न सिद्ध्य - तीति । सम्बन्धः । द्वितीयं शङ्कतेः - अथ पुनरिति । तर्हीति । देवदत्तघटयोः ज्ञानाज्ञानलक्षणवैधर्म्य ग्रहणवेलायां तयोस्तत्स्वरूपैक््य निरूप्योन्यो भेदः प्रतीयते तथा च ज्ञानाज्ञानयोर्विरोधसिद्धेस्तद्रूपविरुद्ध धमाध्यासात्मभेदस्सिध्यातीति भावः ।अनेकान्तवादस्येति। भेदाभेदयोरपि विरोधाभावात्सर्वं सर्ववस्त्वभिन्नम्भिन्नं च स्यादिति जैनसिद्धान्तस्साधित स्यादित्यर्थः । किं च विरोर्धः प्रतिरिच्य(ध्य)ते न वा आद्ये येन विरोधोऽस्ति न तस्य विरोधस्स्थितः । द्वितीये सर्वो विरोधस्सुस्थित इत्याहःकिञ्च स्थिरीकृत इति । विरोधोद्घाटनमिति ।सर्वत्रविरोधोद् घाटनमुखेन दूषणमुच्यते । विरोधाभावे तन्न स्यात् । अपि च सर्वत्रैव विरोधाभावे विरोधेन सह विरोधाभावादविरोधिनामादि सर्वेषां विरोधिता स्यादित्यर्थः । स्वमतच्छेदोपपादनंःसर्वाद्वैतेति। ननु सत्यत्वमिथ्यात्वाभ्यां व्यवस्था सम्भवतीत्यत्राहःविरोधमिति। विरोधाभावे भेदाभावत्कथं व्यवस्थेति भावः ।एवं चेति। अनुमानादि सिद्धत्वं परस्य विशेषणम् । भेदस्य स्फुटोपलम्भात्सत्यमिथ्याविभागस्य सिद्धत्वाच्च विरोधसिद्धौ मुखविकासादिना स्वविरुद्धसुखादिमत्तयानुमानेन नान्यत्वेन प्रतियोगिग्रहणेऽपि दोषाभावाद्भेद प्रत्यक्षसम्भवात्तद्बाधः । अपि शब्दाद्विरुद्धधर्माध्यास लक्षण प्रति कूलधर्मबाधश्च सिद्ध इति भावः ।अत एवेति। प्रतिसन्धान तदभावयोः रूक्तगत्याविरोधो सिद्धे प्रतिसन्धान प्रसञ्जने नेष्टापत्तिरित्यर्थः । नहि जन्मान्तरेत्यक्तं व्यभिचारमुद्धरतिः - पट्विति। पटुप्रत्ययेनाभ्यासेनादरेण वाऽहित तिशयो यस्संस्करवदभेदेतत्संस्कार विषयस्मरणवत्व रूपाद्यमिति न व्यभिचार इति भावः । अविद्यास्वरूपस्यैवा भावा (++++) वैचित्र्यं (++) किं पुनस्तदधीनानित्याहः - अविद्येति। भावरूपाज्ञानभङ्ग इत्यर्थः ।अन्यथेति। अप्रतिसन्धनस्याविद्या वैचित्र्यात्रानत्वे चिदचिद्विभागस्याज तन्निबन्धनत्व प्रसक्त्यैत्यर्थः । यौभरीति ।उपाधिश्शरीरम् अन्यथेति। उपाधेः (+++) प्रतिबन्धकत्वे सौभर्यादेः कस््यविदपि जातिस्मरत्वं न स्यादित्यर्थः । नन्वन्तः करणोपाधिभेद एव प्रतिसन्धान प्रतिबन्धकः । अन्तः करणैक्याप्रतिसन्धानमिति शङ्कतेःअन्तः करणेति । कल्पान्तरेति ।कल्पादौ"एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च (मुण्ड 2.1.3) तन्मनोऽकुरूतीतिसृष्टिश्रवणात्कल्पान्तरीयान्तः करणस्य पूर्वकल्पप्रलयेनष्टत्वात्तदैक्यं न सम्भवतीति भावः ।बाह्येति। करणत्वाविशेषादिति भावः । इष्टापत्तिं परिहरतिः - न चेति । पागिपादादीति। पाणिना स्पृष्टं पादेन स्पृशामीत्येवं रूपेणेति भावः ।तेषामिति। सर्वगत्वादित्यस्यायमर्थः । अनन्तस्यैवात्मतया सर्वगत्वात्सएवाहमात्मेति निश्चितः विशिष्टस्य परमात्मनः कारणत्व बोधकमेव प्रमाणं तथानुसन्धने हेतुरित्याहः - मत्त इतितथा च मुद्विशिष्टस्य करणत्वादिति । एवं च सर्वगत्वादि हेतूक्तिस्सङ्गते त्याहः - अत एवेति। परपक्षे वैफल्यमिति भावः ।तदभिप्रायेणहीति। अहं मच्छरीरकः - परमात्मेत्यर्थः । मनुरभवं - मनुशरीरकः परमात्माऽभवम् । तथा सूर्यशरीरक परमात्मापीत्यर्थः ।अन्यथेति। एतदनुरान्धानस््योक्तप्रकारमपहाया भेद प्रयुक्तत्वाङ्गीकाराइत्यर्थः ।विपरीत फलं स्यादितिप्रारब्धकर्मावसने निश्शेषाविनिवृत्तौ सत्यां भेदकलेशस्याप्यभावात्संसार्थात्मभिर्थैकार्युपपदपरिमित दुःखप्राप्तये ब्रह्मज्ञानं सम्पादनं स्यादिति भावः ।तदङ्ङ्गीकारव्याधातादिति। भोगाङ्गीकारस्यावश्यकत्वादिति भावः ।विरोधोपपादनेनैवेति। प्रति सन्धानतदभावयोर्विरोधस्य सिद्धत्वात्तदभाववत्तयाप्रत्यक्षसिद्धे प्रतिसन्धानं सम्भवतीत्यर्थः ।तस्य किमिति। अन्यत्वेन ज्ञानमात्र सापेक्षितत्वादिति भावः ।हस्तस्थत्वा - दिति। हस्ते प्रत्यक्षसिद्धत्वादित्यर्थः । ननु परस्यान्यतया प्रतिपत्तिः । स्वगतान्यत्व प्रतिपत्त्यर्थं तथा च परस्यान्यतया प्रतिपत्तौ स्वगतान्यत्व प्रतिपत्तिश्च परगतान्यत्व प्रतिपत्त्येत्सन्योन्याश्रयः । न च मुखविकासद्यनुगतविरुद्धधर्मवत्तया परगतान्यत्वप्रतिपत्तौ न दोषस्तत्रापि प्रतियोगिनः स्वस्मादन्यत्वेनावगन्तव्यत्वादित्य सात्सामान्यतः प्रतियोगिप्रतीत्या परसारभेदधीरिति पक्षीन्तरमव - लम्बते । अत एवेति । उपलम्भानुसारादित्यर्थः । न च स्वस्मादपि भेदप्रतीति प्रसङ्गो भेदाभेदाभावादनुपलब्ध्य भावच्चेति भावः ।प्रथमप्रतीतावपीति। प्रतियोगिन इति शेषः ।एतेनेति। तदभावस्योपलम्भेनेत्यर्थः।उपाधिभेदेनेति। शरीरान्तः करणाद्युपाधिभेदेना प्रतिसन्धानसमर्थ न इत्यर्थः ।न हि वयमिति। प्रदेश विशेषोत्पन्नस्य प्रदेशान्तरेऽपि वृत्तिं न प्रसञ्जयाम इत्यर्थः ।यत्रेत्यतं प्राक किन्न्त्विति शेषः। आदिपदेन तत्कार्यपरिग्रहः । एवेत्यनन्तरमध्याहार्यः । प्रसञ्जयाम इत्यनेनान्वयः ।अन्यथेति। यद्यपि तदानीं साक्षात्करः स्यादेवेन्द्रियसन्निकर्षसत्वात् । तथापि स्पृष्टमेव स्पृशामीति प्रत्यभिज्ञारूपमिदं ज्ञानं तन्नस्यात् परस्परानभिज्ञत्वादिति भावः ।सौभरीति। शरीरभेदेन प्रदेशभेदस्य स्फुट्त्वादिनि भावः ।तस्मादिति। प्रतिसन्धानं स्वभावानच्छिन्न प्रदेशमेवाश्रयतीति नियमः । न तु स्वभावानवच्छिन्नमेव विषयीकरोतीति । तथा च शरीरान्तरावच्छिन्नेऽपि जानामीति प्रतिसन्धानं स्यादेव तथाप्याश्रयणवद्विषयीकरणेपि तन्नियमभ्रमात्संयोग निदर्शनमित्यर्थः ।ने हेति। चिदचिद्विशिष्टस्य वस्तुनः प्रमाण सिद्धत्वादिह जगति चिदचिद्विशिष्ट ब्रह्मणो नानाभूतं भिन्नं किमपि नास्तीत्यर्थः ।ज्ञात इति। प्रमाणसिद्ध इत्यर्थः । ननु विशेषणस्य विशिष्टाद्विशेष्याद्वा भिन्नत्वान्निषेधानुपपत्तिः न वा बहिर्भूत प्रतिक्षेप सिद्धिरित्यत्राहःयथेति। तत्तुल्यं प्रधानान्तरं नास्तीत्यर्थः । नन्विहनास्तीति सामान्यतः प्रतीयते कथं विशिष्टनिषधपरत्वमित्यत्राहः - एवमिति। अन्यथा (+++++)दिति भावः । यथा श्रुते श्रुत्यन्तरविरोधाद्विशिष्ट निषेधपरत्वमित्याहःतथेति। ननु परत्वान्नेहनानेति श्रुत्याद्वैत श्रुतिबाधोस्त्वित्यित्राहः - विषयभेदादिति। पदाहवनीयन्यायादिना (++++)स्य श्रुतस्यतिरिक्तपरत्वस्य सकलमीमांसक सिद्धान्तत्वादित्यर्थः । अन्यथा षोडशिग्रहनिषेधे श्रुत्या यागीयपश्वालम्भनहिंसानिषेधेन बाधप्रसङ्गादिति भावः । किं च न ब्रह्म सामानिगायतीति निषेधेनापि विध्यङ्गीकारो मीमांसक सम्मतश्चेत्तद्विधिसत्वेऽपि तदनङ्गीकारो मीमांसकत्वं व्यनक्तीत्याहःमीमांसकेति। एकस्याः श्रुतेः श्रुत्यन्तरविरोध प्रतीतिविषयभेद प्रदर्शनेन मीमांसान्यायैर्निराक्रियते नत्वेकस्यां श्रुतेर्बाधनादित्यर्थः । स्मृति (+++) निषेधो द्विविर्धः ब्रह्मणो जीवानां जीवानमन्योन्य निषेधश्च । तत्र ब्रह्मान्यनिषेधश्रुतितामुक्तगम्या निर्वाह इत्याहःएतेनेति। अवरोपित भारांश्च दर्शयतिः - तत्रापीति। अनवरोपित भारांशे आहःजीवाना - मिति। उक्तार्थपरमैक््येतु स्मृतिरेवेत्याहः - तथा चेति। देवादिभेदे देवादिशरीरभेदे नष्टे स्वरूपे आवरणे देवादिभेदोनास््येवेत्यर्थः । तदेवाहः - पुमानिति । साम्यप्रतिपादकेति “विद्याविनय सम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैवश्वपाके च पण्डितास्समदर्शिना’’ ( )इत्यादिकमित्यर्थः ।भगवद्वचनमिति । सर्वभूतस्थमात्मामित्यादिकमित्यर्थः ।वृद्धिह्रासभाक्तवमित्यादि। अस्यार्थः - पृथिव्यादिषु परमात्मनः स्थितत्वेऽपि तदन्तर्भावात्तदन्तरावस्थानात्तत्प्रयुक्त वृद्धिह्रासभात्वं निवर्त्यते । कुतः उभयसामञ्जस्यादेवं"आकाशामेकं’’ “यथाजलाधारेष्विवांशुमानि’’ (तयाज्ञ) प्राय आत्म244)त च उभयदृष्टान्तोपादान सामञ्जस्यादेवगम्यते । परमार्थतः स्थितमनवस्थितं चोभयं दृष्टान्ताधियोपादाय तथा"त्म्यैकोह्यनेकस्थ’‘इति निगमनात्तत्तस्थानप्रयुक्तवृद्धिहासादि दोषा’‘न सन्तीत्यवगम्यते इति ।एवमिति। एवं श्रुत्यादि तात्पर्यमनभ्युपगम्य स्वरूपाभेदाभ्युपगम इत्यर्थः ।जीववच्छरीरं किमित्यपरिज्ञानादिति। एकस्यैव शरीरस्य सजीवत्वं तस्यैव मोक्षः । अन्यशरीराणां निर्जीवत्वेऽपि (++++) दुपदेश इत्यर्थः ।सर्वशरीराणामिति। आत्मबन्धस्य समानत्वान्मिथ्यात्वस्य चाविशेषाज्जीवच्छरीरमिति द्वैविध्याभावदद्यतमोपदेशेन ज्ञानसम्भवे मोक्षोऽपि सत्य स्यात् । अद्यतमोपदेशेन ज्ञानाभावे अविशेषात्पश्चात्तनेनापि ज्ञानायोगात्मोक्षो न स्यादित्यर्थः ।तस्मादिति। इतः पूर्वं मोक्षानङ्गीकारं पश्चादपि न स्यात् । पश्चादङ्गीकारे वामदेवादेरपि मुक्तिस्वीकार्येति श्रुतिप्रतिपाद्यवामदेवमुक्तेः प्रवाहानादित्वस्या नित्यसंयोगपरिहारार्थमङ्गीकार्यन्त्वात्कदाचिदपि बन्धो न स्यादित्यर्थः ॥ पूर्वत्र न कदाचिदपि न मोक्ष इति पक्षे । उत्तरत्र न कदाचिदपि बन्ध इति पक्षे ।बाधितेति। वामदेवाद यो बाधिताः ततोऽन्येत्वबाधिता इत्यर्थः । ननु प्रतिबिम्ब जीवस्य मिथ्यात्वमते स्याद्यं दोषः । ननु बिम्ब ब्रह्मभिन्नो जीव इति पक्षे इत्यत्राहः - अथेति ब्रह्माज्ञानवादप्रसङ्ग इति। ऐकैकोपाधिविगमेप्युपाध्यन्तर्गत प्रतिबंवैक्यात्तत्वज्ञानात्प्रागिव पश्चादपि मोक्षो न स्यात् बिम्बब्रह्मैक्यात् - मुक्तौ तु न कदाचिदपि बन्धः तस्य प्रागपि सत्वादित्युक्तदोषः स्यादित्यर्थः । यद्यपि प्रतिबिम्बास्योपाधिविगमे सति बिम्बैक्यमेव न तु प्रतिबिवैक्यमिति न पश्चादपि बन्धः। बिम्बैक्यं तु काल्पनिक भेदनिवृत्तिः । न स्वाभाविकभेद इति न प्रागपि मोक्षप्रसङ्ग इति चेन्न । उपाधि निवृत्तौ तन्निबन्धनत्वाविशेषाद्बिम्बाभेदवत्प्रतिबिम्बातराद्भेदस्यापि निवृत्त्यवंश्यं भावादिति भावः । भास्करादीत्यादि शब्देन यादवपरिग्रहः । अनन्त घटेति अनन्तानां घटानां ध्वंसेऽपि (++) घटान्तर स्थितिवदनन्तकल्पानां ध्वंसेऽपि कल्पान्तरस्थितिवदनन्त जीवानां मुक्तत्वेऽपि जीवान्तरस्य बन्धोपपत्त्या बद्धमुक्त व्यवस्थोपपत्तेरित्यर्थः । तत्र हेतुरानन्त्याति शयादिति। अतीत कल्पापेक्षया कल्पानां घटानामिव च जीवनामानन्त््यातिशयादित्यर्थः । आनन्त्यातिशये दृष्टान्तमाहः - अनन्तपार्थिणेति। द्रव््यान्तरानन्यवत् द्रव्यान्तरानन्त्यस्येत्यर्थः । पार्थिवानन्त््यापेक्षया यथा द्रव्यान्तरानान्त््यातिशयः तथा कल्पानन्तयापेक्षया जीवानन्याशयादित्यर्थः ।पार्थिवपृथक्कारे - पार्थिवव्यतिरिक्त द्रव्यापेक्षया पृथक्परिगणन इत्यर्थः । कल्पानन्त्येऽपि प्रतिकल्पं मुक्तिर्माभूत् शुक्तादीनामेव मुक्तिरस्तु अतो वा बन्धमुक्त व्यवस्थितिरित्याशयेन प्रतिबन्दिमाहः - एकस्यैवेति।प्रसङ्गात्संसार्यसंसार व्यवस्थापि युक्तेत््याहः - तथेति । नन्वेवमिति। आनन्त्याबद्धमुक्तव्यवस्थोपपत्तावपीत्यर्थः । समत्वादिति संसारयोग्यतातदभावप्रयोजक वैषम्याभावादित्यर्थः । ईश्वरसङ्गल्पादपि न व्यवस्थेत्याहः - ईश्वरस्थेति।आस्तिकपदवीमिति। स्वतआत्मनां समत्वाङ्गीकारादिति भावः ।आत्मत्वेति। आत्मपदवीमनु प्रविष्टेवश्रुतिविरोधभीरूणा जीवेश्वर भेदस्याभ्युपगन्तव्यत्वाज्जीवेश्वरयोरात्मत्वाविशेषेऽपि संसारित्वासंसारित्वव्यवस्थाजीवेष्वप्युपपद्यत इत्यर्थः । नन्वीश्वरत्वमेव संसारहेतुरित्याशङ्कतेः - अनीश्वरत्वादेवेति । सत्यमिति। पारतन्त्र्यमात्रं न संसारोऽपि तु कर्मादि सहकारिसम्पत्तिरपि नास्तीति भावः ।तथाप्यविरुद्धयोरिति। स्वरूपयोग्यस्य सहकारिसम्बन्धाभावे भिन्नकालीनत्व(त्वा)व्याप्त इति कदाचित्तयोन्नित्यस्य सहकारिसम्बन्ध स््यादित्यर्थः ।अत्यन्ताभावादिति। मुक्तानां कदाचित्सहकारिसम्बन्धस्थितः । नित्यानां सोऽपि नास्तीत्यर्थः ।सत्विति। सहकारि सम्बन्धा भाव इत्यर्थः ।तद्विपरीतेति। विमतः कदाचिद्बन्धहे संसर्गगे आत्मत्वादित्यनुमानमित्यर्थः ।तर्हीति। तथा च नित्यानामेकप्रतिपन्नतया कुत्रापाद्यत इति भावः । वत्सलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायां षट्त्रिंशोवादस्समाप्तः ।