अथ पञ्चत्रिंशो वादः ।
यन्मायामोहितात्मनो यान्मायामोहितं विदुः ।
तत्प्रपद्य तदुक्तोयं तिरोधिरवधूयते ॥
यदाहुर्ब्रह्मधातिनो ब्रह्मविदो ब्रह्मस्वरूपमविद्यातिरोहितमिति ।
तत्र किमिदन्तिरोधानम्? किमिन्द्रियसम्बन्धनिवारणम्, किमैन्द्रियकज्ञानस्य तद्विषत्तानिवर्तनम्, यद्वा सर्वेषामपि ज्ञानानां तद्विषयतापाकरणम्, अथवा स्वस्य स्वकर्मताव्यपोहः, स्वप्रकाशभङ्ग एव वा, विशदस्वरूपस्याप्यविशदस्वरूपत्वापादनं वा, ब्रह्मप्रकाश सामग्र्यनुप्रविष्टस्वभावनिरासो वा, अनिरूपणीयस्वरूपमन्यदेव वा किञ्चिदिति ।
नाद्यः, अशक्यत्वात् ।
तथाहि - सम्बन्धशब्देन किं सामान्यतस्सम्बन्धमात्रं विवक्षितम्, तद्विशेषो वा? आद्येत्विन्द्रियाणां ब्रह्मणश्चारोपणीयत्वारोपणाधि करणत्वादिसम्बन्धोपि न स्यात् ।
तथाच सति तेषामेवासिद्धौ किन्तत्सम्बन्धनिवारणापेक्षया ।
तदसिद्धिरपि नास्माकं दोषायेति चेन्न; - अवगति (शेष) क्रमाधीनसिद्धिभङ्गस्य भवद्भिरनभ्युपगमात्; अन्यथा व्यावहारिकप्रत्यक्षतन्मूलानुमानादि व्यवहारव्यवस्थापि न सिद्ध्येत् ।
इन्द्रियोत्पत्तिवादिन्यः श्रुतयश्च प्रकुष्येषुः ।
द्वितीयेतु किं सर्व विशेषनिषेधः, कतिपयविशेषनिषेधो वाभिमतः? पूर्वन्तु पूर्वेणैव दत्तोत्तरम्, निर्विशेषं न सामान्यमिति हि न्यायविदः ।
उत्तरत्रापि स विशेषः किं ज्ञानोत्पत्त्यनुपयुक्तः संयोगादिमात्रलक्षणः, उततदानुगुण्यविशेषित इति ।
अनुपयुक्तत्वपक्षे तिरोधानशब्दानुपपत्तिः, सर्वव्यापिनि ब्रह्मणि सर्वाधिष्ठाने सोपि सम्बन्धो दुर्निवारश्च ।
पक्षान्तरेतु तदानुगुण्यं किं सर्वत्रापि निवर्तनीयम्, ब्रह्ममात्रे वा? सर्वत्र चेत्?प्रत्यक्षद्यनुपपत्तिरेव ।
ब्रह्ममात्रे चेत्? किमिदं तिरोधानं कदाचिन्निवर्तनीयम्, उतानिवर्तनीयम्? निवर्तनीयत्वे ब्रह्मण ऐन्द्रियकत्व प्रसङ्गेन ““अद्रेश्यमग्राह्य’’ मित्यादिश्रुतिविरोधः ।
दृश्यत्वप्रयुक्त मिथ्यात्वजडत्वादि प्रसङ्गः ।
शास्त्रस्य च ब्रह्मविषयस्यानुवादरूपता च ।
अनिवर्तनीयत्वे तु नित्यतिरोधानान्नित्याध्यासः, तस्य तदधीनत्वाभ्युपगमात् ।
एवञ्च सन्मात्रग्राहिप्रत्यक्षवादोपि प्रतिक्षिप्तस्स्यात् ।
तत एव न द्वितीयोपि ।
किञ्च किमिदमैन्द्रियकत्वेन सम्प्रतिपन्नं ज्ञानं साधिष्ठानं जगद्गृह्माति, उत निरधिष्ठानम्? आद्ये त्वारोपितवत् अधिष्ठानस्यापि शुक्तिरजतादिष्विदमर्थस्येव तत्प्रतीतिविषयत्वाविशेषात् कथमिवतन्निवर्तनीयम् ।
द्वितीये त्वपसिद्धान्तो निरधिष्ठानभ्रमापातश्च ।
नच ब्रह्मव्यतिरिक्तं किमप्यधिष्ठानं ब्रूषे ।
अत एव न तृतीयोपि; उक्तेन न्यायेन सर्वेषामपि ज्ञानानां तद्विषयत्वात् ।
अन्यथा कथं ब्रह्मविषयाजडत्वस्वयम्प्रकाशत्व सत्यत्वविचारसङ्कथाः प्रवर्तेरन् ।
नापि चतुर्थः, भवतैव तदनभ्युपगमात् ।
अन्यथा ब्रह्मण एवसाक्षाद्दृश्यत्वप्रसङ्गात् ।
अतिरोहितदशायां विषयत्वविषयित्वलक्षण स्वभाववैशिष्ट्येन भेदसत्यत्वप्रसङ्गाच्च ।
नापि पञ्चमः, स्वप्रकाशशब्देन किं स्वगोचरं प्रकाशान्तरं विवक्षितम्, स्वरूपमेव वा? नाद्यः, दत्तोत्तरत्वात् ।
द्वितीये तु स्वप्रकाशभङ्ग इति किं सिद्धस्य प्रकाशस्य विनाशो विवक्षितः, उत सेत्स्यत उत्पत्तिप्रतिबन्धः?पूर्वत्र नश्वरत्वं ब्रह्मणः प्रसज्यते; ततश्च श्रुतिविरोधः, निरधिष्ठानभ्रमप्रसङ्गादयश्च पूर्वोक्ताः पार्ष्णिं गृह्णीयुः ।
उत्तरत्र ब्रह्मानादित्वभङ्गः ।
एवञ्च ब्रह्मस्वरूपघातिन्यविद्या स्वयमस्ती किमाश्रया तिष्ठेत् ।
तस्यास्तदन्तरेणापि सिद्धौ सत्यत्वप्रसङ्गः ।
नच षष्ठः, प्रत्यक्षैकस्वरूपे स्वात्मनि पारोक्ष्य लक्षणावैशद्यापादनायोगात् ।
अन्यथा स्वात्मभङ्गप्रसङ्गात् ।
निर्विकारे निर्विशेषे वस्तुनि विषयातिरेकलक्षणवैशद्यस्यापि दुर्निरूपत्वात् ।
वेदान्तजन्यवृत्तिविशेषविषयत्वमेव वैशद्यमिति चेन्न; - प्रकाशयातिरेका भावे धारावाहिवदनुपकारकत्वात् ।
प्रकाशयातिरे सविशेषत्वस्यावर्जनीयत्वात् ।
नापि सप्तमः, स्वरूपभूतप्रकाशस्यासाध्यत्वेन सामग्रीनैरपेक्ष्यात्; तद्गतस्यातद्गतस्य वा प्रकाशान्तरस्य तद्विषयस्यानभ्युपगमात् ।
अभ्युपगमे वा सधर्मकत्व -
दृश्त्वादेर्दुर्निवारत्वत् ।
तन्मिथ्यात्वे तदर्थसामग्रीनैष्फल्यं स्यात् ।
भ्रान्तिज्ञानोत्पत्तिसामग्रीविच्छेदस्य च दोषत्वाप्रसिद्धेः ।
प्रतिबन्धकाभावस्य हेतुत्वमनभ्युपगच्छतां सप्तमस्य पक्षस्य दुर्घटत्वाच्च ।
अष्टमस्तु कष्टः पक्षोविकल्प्यते ।
किन्तदधिष्ठानभूतं
ब्रह्म प्रकाशप्रतिपक्षभूतम्, उत तदनुगुणम्, अथोदासीनमिति? आद्ये पूर्वोक्ता एव दोषाः ।
द्वितीये असाध्यस्य किं तदानुगुण्येन ।
साध्यत्वे च प्रागुक्ता दोषाः ।
प्रकाशानुगुणे च कथन्तिरोधानवाचोयुक्तिः ।
प्रकाशमानेच कथमध्यासः ।
प्रकाशमान एवाधिष्ठाने सर्वत्राध्यास इतिचेत्? तर्हि किन्तिरोधान प्रयासेन ।
यथावत्प्रकाशमानेध्यासायोगादिति चेन्न; - निर्विशेषस्य स्वप्रकाशस्याविद्याशचेनाप्ययथास्वरूपप्रकाशत्वापादनायोगात् ।
तद्योगे वा निर्विशेषत्वादिभङ्गप्रसङ्गात् ।
तृतीयेप्यजागलस्तनवदनुपकारकत्व मेव ।
ननु भवत्पक्षेपि जीवब्रह्मणोः स्वरूपं स्वयम्प्रकाशम्, तदुभयमपि कर्मरूपयाविद्यया तन्मूलगुणत्रयमयपापरूपया मायया तिरोहितमिति निर्विगानमेव; अन्यथा संसारात्यन्ताभावप्रसङ्गात्; ततश्च भवतोपि समानं चोद्यमिति समदुःखसुखौ भवावेति चेन्नः; - भवत एव दुःखसम्बन्धः, अस्माकन्तु सुखमेवेति पश्यतु भवान् ।
ब्रह्मणस्तावत् स्वरूपं स्वयम्प्रकाशमपि नान्यस्मै प्रकाशते, तद्धर्मेण तु तस्य प्रकाशते, सर्वेषामात्मनां स्वरूपमपि स्वस्मा एव स्वप्रकाशत्वात् अन्यस्मै तदीयज्ञानान्तरकर्मतयैवावभासते; ततश्च तद्गोचरज्ञानप्रसरोत्पत्तिप्रतिबन्धादिलक्षणं तिरोधानमुपपन्नमेव ।
स्वस्मै तु नित्यं प्रकाशमानत्वान्नित्यसर्वज्ञत्वाच्च ब्रह्मणो न स्वरूपहानाज्ञत्वादिदोषलेशावकाशः ।
जीवस्य तु स्वरूपं यद्यपि स्वस्मै स्वयं प्रकाशते, यद्यपि च तत्रैव दोवाद्यध्यासः, तथापि न भवत्पक्षवद्दोषः; प्रकाशमानाकारस्याधिष्ठानत्वोपाधिकत्वात्ः, तथापि न भवत्पक्षवद्दोषः; प्रकाशमानाकारस्याधिष्ठानत्वो पाधिकत्वात्, तदारोपप्रतिबन्धकस्य तत्तद्विरोधर्मप्रकाशस्य विनिवारणेन तिरोधानोपपत्तेश्च ।
देवादि विलक्षणस्वरूपप्रकाशे कथन्तेध्यास इति चेन्न; - वस्तुतो विलक्षणत्वेपि विलक्षणवित्त्यभानात् ।
शुक्तिरजताख्याताबिदम्भानवत् ।
इदमर्थो हि वस्तुतोरजतात् विलक्षणोपि न तथा भाति, तद्वैलक्षण्य व्यवस्थापकस्य शुक्तित्वादेरप्रतीतेः ।
तथेहापि सावयवत्वस्थूलत्वा नित्यत्वविकारित्वजडत्वादि धर्मविशिष्टेदेहाद्वैधर्म्यरूपनिरवयवत्वागुणत्व नित्यत्वनिर्विकारत्वस्वप्रकाशत्वादीनां स्वरूपप्रकाशे प्रकाशाभावात्तद्विपरीताकारारोपः स्वरूपमात्रेच प्रकाशमाने युक्त एव ।
ममाप्येवमस्त्विति चेन्न; - भवत्पक्षे तत्तद्धर्माणामभावात् ।
तदभावस्तदप्रकाशस्योपकारक एवेति चेत्? तथासति नित्यतिरोधानान्नित्याध्यास प्रसङ्गः ।
नहि तत्तत्प्रकाशलक्षणा तिरोधानानिवृत्तिः कदाचिदप्युपपद्यते ।
ब्रह्मण्यसतान्तेषां तत्वज्ञानोदयदशायां प्रकाशे तत्वज्ञानस्यैवातत्वज्ञानत्वप्रसङ्गेन पुनरप्यनिर्मोक्षप्रसङ्गात् ।
ब्रह्म स्वरूपमेव तथा तथा भातीति न दोष इति चेत्? किन्तथात्वं स्वरूपम्, उत स्वरूपातिरिक्तम्? पूर्वत्रेदानीमपि तत्प्रकाशोदुर्वारः ।
उत्तरत्र तु तदानीन्तनभ्रान्तिर्दुर्वारेति दुस्तरं व्यसनम् ।
ततो यदि निर्धर्मकमपि जडत्वेनाभ्युपेतम्, तदा तत्स्वरूपाप्रकाशलक्षणं तिरोधानमपि वक्तुं शक्यते, यद्वा स्वयम्प्रकाशमपि सधर्मकत्वेनाभ्युपेतम्, तदा तद्धर्माप्रकाशलक्षणं तिरोधानं सुवचमिति न कथञ्चिदपि निर्विशेषनित्यस्वयम्प्रकाशे स्वस्य परस्य वा ज्ञानान्तरागोचरे वस्तुनि तिरोधानवाचोयुक्तिर्घटत इति ।
इति शतदूषण्यां तिरोधानानुपपत्तिः पञ्चत्रिंशो वादः ।
(35)
नृसिंहराजीया
नन्वेकज्ञानमात्रात्सर्वेषां ज्ञानात्प्रकाशा सभ्यवादुपदेशनुपपत्तिरित्युक्तम् । तिरोधानेन प्रकाशा प्रकाशोपपत्तेरित्याशङ्कय तिरोधानमेवाक्षेप सङ्गत्या निराकुर्वन्वादर्थं सङ्गृह्णातिः - यदीतियन्मायामोहितात्मानः आज्ञा इत्यर्थः । अत एव यद्ब्रह्म मायामोहितं मायया स्वात्मनि भेदभ्रमादिति भ्राम्यन्तीत्यर्थः । इदं च परैः तिरोधानस्याङ्गीकारे हेतुः । अयं तिरोधिरितीदं तिरोधनं निरस्यत इति वादार्थः उक्तः । पूर्व पक्षमनुवदतिः - यथा हरिति"यो दूषयति सम्मोहाद्वासुदेवं जगत्पतिम् । सर्वलोकैककर्तारं तं विद्याद्ब्रह्मधातिनम् “यः प्रवृत्तांश्रुतिं सम्यक्च्छास्त्रं वा मुनिभिः कृतम् । दूषयत्यनभि ज्ञाय तं विद्याद्ब्रह्मधातक’‘मित्यादि प्रमाणात् । ब्रह्म हन्ति ब्रह्मघातीति व्युत्पत्त्यनु साराच्चाहः - ब्रह्मघातिन इति। ब्रह्ममीमांसकाः ब्रह्मणो मोहं तद्विभूतेश्चमिथ्यात्वं वदन्तः प्रकाशविनाशस्यैव तिरोधानोक्त्या प्रकाशरूपं ब्रह्मविनाशं च वदन्तो ब्रह्म दूषयन्ति । तथाऽपार्थ प्रतिपादनेन श्रुतिसूत्राणि च दूषयन्ति - अब्रह्मविद इति छेदः । दुर्निरूपत्यादावरण मनुपपन्नमिति वक्तुं विकल्पयितः - तत्रेति ।तत्र - ब्रह्मणीत्यर्थः । ज्ञानवैकल्यस्यैव तिरोधानत्वं लोकसिद्धमित्यभिप्रायेणाहकिमिन्द्रियेति। इन्द्रिय सम्बन्ध निवारक कुड्या देशवारकत्वादिति भावः । तद्विषयता निवर्तनमिति ज्ञानमान एव घटे दैवानुपपन्नस्य तमसस्तद्विषयतया विभेदकस्यावरकत्वादिति भावः।सर्वेषामपीति। अनुमित्यादि परोक्षज्ञानज्ञानस्यापीत्यर्थः ।स्वकर्मता व्यपोह इति। स्वशब्देन ज्ञानमुच्यते । घटस्य ज्ञानकर्मता व्यपोहहेतोस्तमस आवरकत्वादिति भावः ।स्व प्रकाशेति ।घटप्रकाश भञ्जकस्यावारकत्वादिति भावः । अविशदस्वरूपत्वापादनमिति । उक्तस्थल एव घटेदरपरोक्ष ज्ञानान्तरमवैशद्यापादकत्वात्तमस इति भावः ।प्रकाशसामग्रयनु प्रविष्टेति। अनुप्रविष्टपदमनु प्रविष्टत्व परम् । तदनु प्रविष्टत्वरूपो यस्स्वभावः तन्निरास इत्यर्थः । तिरोधायकस्य तमसो घटादेर्विषयतया सामग्रयनु प्रवेशकत्वात्सामग्री विघटने हि तदनुप्रविष्टत्व निरासो भवतीति भावः ।सम्बन्धा मात्रमिति। सम्बन्धत्व पुरस्कार इत्यर्थः । तथा च सम्बन्धात्वावच्छिन्न सामान्याभावो निवारणमिति पर्यवस्यति ।तेन द्वितीय विकल्पशिरसि किं सर्वविशेषनिषेध इति विकल्प कोप्युत्थितिरिति भावः ।आरोपणीयत्वेति।अधिष्ठानाध्यस्यमान भावरूप सम्बन्ध इत्यर्थः । आदिशब्देन तादात्म्यादिर्गृह्यते ।असिद्धाविति। पारमार्थिकत्वानङ्गीकारादनारोपि तत्वेन मिथ्यास्वरूपाभावातुच्छ शश्रृङ्गादिवत्तुच्छत्वापतावित्यर्थः ।अस्माकमिति। ब्रह्म व्यतिरिक्तस्य सत्वमनङ्गीकुर्वतामित्यर्थः ।अनवगतेति । “आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भयः पृथिवी । पृथिव्या आेषधयः’’(तै.उ.) इत्यादिभिः दण्डाद्घट इत्याद्वन्वय व्यतिरेकाभ्यां च तत्तदनन्तर पदार्थजन्य नाशादेर्व्यावहरिकरीत्याङ्गीकार्यत्वादिति भावः । नन्वन्यत्रावगति बलात्सिद्ध्यङ्गीकारेपीन्द्रिय सिद्धिर्नेष्यत इत्यत्राहःअन्यथेति। इन्द्रियाणां व्यावहारिक सत्वस्यानङ्गीकारेप्रत्यक्षस्य तन्मूलानुमानादि प्रमाणानां तत्तत्प्रमेयाणां प्रमाणसाध्य तद्व्यवस्थायाश्चा सिद्धि प्रसङ्ग इत्यर्थः ।व्यवहारो हि हेयोपादान ज्ञानाभ्यां निवृत्ति प्रवृत्ति व्यवस्थाया दृश्यते । आदिशब्देन परिशिष्ट प्रमाण प्रमेययोस्सङ्ग्रहः । तुच्छस्योत्पत्त्य योगादुत्पत्ति ग्राहक प्रमाणविरोध इत्याहः - इन्द्रियेति । एतस्माज्जायते प्राणः । मनस्सर्वेन्द्रियाणि चे( ) त्यादि श्रुतयः ।सर्वेति ।तत्तद्विशेषावच्छिन्न प्रतियोगिकतया यावदभाव कूट इत्यर्थः ।पूर्वेणेति। सामान्याभाव दूषणेनेत्यर्थः । ननु सामान्याभाव पक्षोक्त दूषणं कथमत्रस्यात्सामान्या भाव विशेषा भावयोर्थदेऽपि प्रतियोगि भेदाभावाद्विशेषाभावे सामान्यस्याप्य भावात्तयोक्तमेव दूषणमत्रापीत्यभि प्रायेणाहःनिर्विशेषमिति। संयोगादित्यादि शब्देनाधिष्ठानाध्यस्य मानसम्बन्धोऽपि विवक्षितः । तिरोधान शब्दानु पपत्तिरिति । ज्ञानोत्पत्ति हेतु संयोगनिवर्तनस्यैव तिरोधानत्वादिति भावः । संयोगमात्रस्य निवर्तयितुमशक्यत्वा प्रत्युत सर्वदा प्रकाशप्रसङ्ग इत्याहः - सर्व व्यापिनीति। आनुगुण्य विशिष्ट संयोगस्य निषेधो (+++) यो नापि विशेष्यस्य संयोगस्योक्तरीत्या ब्रह्मणि सत्वादपि तु विशषणी भूतानुगुण्यस्यैवेति मत्वातदंशे विकल्पयतिःतदानुगुण्यं किमिति। सर्वत्र - सर्वस्मिन् विषयेऽपि । प्रत्यक्षादित्यादि शब्देनानुमानादि विवक्षितम् । प्रत्यक्षमूलकत्वात्तस्य ।निवर्तनीयत्व इति ।निवृत्तिरिति भावः । आनुगुण्याभावा भावस्यानुगुण्यरूपतया ब्रह्मण इन्द्रियग्राह्यत्वस्या भावा’‘दद्रेरयम् अग्राह्यं “( )’’ नमांस चक्षुरभिवीक्षते तं मत्यादि श्रुतिविरोध इत्यर्थः । जडत्वादित्यादि शब्देना नित्यत्वादि गृह्यते ।शास्त्रस्य चेति ।ब्रह्मणो मानान्तर सिद्धत्वादग्निहिम भेषज वाक्यवदनु वादकता स्यादिति भावः ।नित्यतिरोधानादिति। तथा च मुक्तिरेव न स्यादिति भावः ननु तत्व ज्ञानेनाऽज्ञान निवृत्त्या नाध्यास इति चेत्तत्राहः - तस्येति। अध्या स हेतौ तिरोधाने सत्यज्ञान निवर्तकत्व ज्ञाना योगादन्यथा तिरोधवाकल्पना वैयर्थ्यादिति भावः निवृत्तौ वा संसारदशायां तिरोधानस्या वश्यकत्वा तिरोहितस्य सन्मात्रस्य प्रत्यक्षायोगात्सन्मात्र ग्राहि प्रत्यक्षमिति त्वत्पक्षो निर्मूलस्यादित्याहः - एवं चेति। इन्द्रिय ज्ञानस्य तद्विषयता निवर्तनमिति पक्षोऽपि पूर्वोक्त तिरोधान निवृत्त्यनिवृत्ति दूषणैरेव निरस्त इत्याहःतत एवेति। ऐन्द्रियक ज्ञानशब्देन ब्रह्ममात्र विषयकं स्वमति कल्पितं किञ्चित्ज्ञानं विवक्षितमुत सम्प्रतिपन्नघटादि ज्ञानमेव नाद्यः तादृशज्ञाने मानाभावादित्यभि प्रेत्यद्वितीयपक्षं दूषयितुं विकल्पयतिः - किमिदमिति।साधिष्ठानमिति। अधिष्ठान लक्षणम् । वस्तुतोध्यस्तं विषयीकरोति उत वस्तुतोऽधिष्ठान शून्यमिति विकल्पार्थः । तेन शुक्तिरजतस्थल दृष्टान्तेनारोपित ज्ञानस्याधिष्ठान विषयत्व समर्थनमुपपन्नम् ।आद्ये त्विति। अध्यस्तविषयक ज्ञानत्वस्याधिष्ठान विषयकत्वव्याप्तेश्शुक्ति रजतादिज्ञानेषु दर्शनादित्यर्थः ।शुक्तिरजतादिषु शुक्तिरजतादिस्थल इत्यर्थः । तत्प्रतीतिः - आरोपित विषयकप्रतीतिरित्यर्थः ।द्वितीयेत्विति ।जगद्विषयकं ज्ञानं भ्रमरूपमुत न द्वितीये दोषमाहः - अपसिद्धान्तेति। ब्रह्मव्यतिरिक्त विषयक ज्ञानस्य प्रमात्वे तस्य सत्यत्व प्रसङ्गादिति भावः । आद्य आहः - निरधिष्ठानेति। ननु न वयमधिष्ठान निषेद्धारोऽपितु ब्रह्मणोऽधिष्ठानत्वस्येत्यत आहः - न चेति। तदङ्गीकारे चापसिद्धान्तः सदधिष्ठानत्वा भावेनाध्यस्ये सत्व प्रतीत्यनु पपत्तित्वेति भावः ।अत एवेति। ब्रह्मरूपाधिष्ठानग्रहणस्या वश्यकत्वादित्यर्थः ।अन्यथेतिब्रह्मणो ज्ञानविषयत्वाभावे विचारहेतु प्रयोजना भावाद्विचारोच्छेद इत्यर्थः ।भवतैवेति। तथाच तस्याविद्या मूलत्वा भावेन नित्यतिरोधान प्रसङ्ग इति भावः ।अन्यथेति। ब्रह्मणः स्वकर्मत्वाङ्गीकारे ।साक्षादिति। उपाधिमनपेक्ष्येत्यर्थः । तथाच मिथ्यात्वादि प्रसङ्ग इति भावःअतिरोहितेति। तिरोधान निवृत्तेर्मौक्तो वक्तव्यत्वात्तस्याश्च प्रतियोगिभूतस्वकर्मत्व रूपत्वात्तस्य च भेदाधीनत्वाच्च भेदस्य मुक्तिकालीनस्यसत्वत्वंस्यादित्यर्थः ।दत्तोत्तरत्वादिति। दृश्यत्व निबन्धनैस्तिरोधान निवृत्तिनिबन्धनैश्च दौषैर्दूषितत्वादित्यर्थः ।श्रुतिविरोध इति । “नित्यो नित्यानां’’ (कठ 2.5.1.3 श्वे6.13)मित्यादि श्रुतिविरोध इत्यर्थः ।निरधिष्ठानेति। तिरोधाने सति ब्रह्मणो निवृत्तौ ब्रह्मणोऽधिष्ठानस्था भावादिति भावः । आदिशब्देन मुक्तौतिरोधान निवृत्तेरावश्यकतया पुनर्विषयत्व प्रसङ्गेन दृश्यत्वादि प्रसङ्ग इति विवक्षितम् । पक्षद्वय साधारण दोषमाहःएवं चेति। घातः निवृत्तिरुत्पत्ति प्रतिबन्धा वा । तथा चाविद्यया भावकस्यैव न स्यादिति किं तिरोधान चिन्तया तस्या इति । निरधिष्ठान भ्रमायोगादधिष्ठानाभावे विद्यया अध्यस्तत्वा योगादिति भावः । वैशद्यावैशद्येकिं प्रतीति गते उत प्रकाश्यगते इति विकल्प्य प्रथमं शिरोदूषयतिःप्रत्यक्षेति । अन्यथेति। अवैशद्यापादानङ्ङ्गीकार इत्यर्थः ।स्वात्मभङ्ग प्रसङ्गादिति। पारोक्ष्यपस्यापारोक्ष्य विरुद्धतया तन्निवृत्त्यभावेपारोक्ष्या पादना सम्भवाद्यावदाश्रय भाविनश्च तस्याश्र निवृत्तिं विना निवृत्त्ययोगेनाश्रयस्यापि निवृत्ति प्रसङ्गेन पारोक्ष्यस्य निराश्रयस्या पादनमेव न सम्भवतीति भावः । ननु विषयाति रेक एव वैशद्यं तदभाव एव “वचावैशद्याम्मित्याशङ्कायाहः - निर्विकार’’ इति। वस्तुपदं प्रकाश्यपरं ततश्च निर्विकारे निर्विशेषे प्रकाश्ये सतीत्यर्थः । न च मिथ्याभूतो विकारो विशेषो वास्त्विति वाच्यम् । मुक्त्यन्वयिनो मिथ्यात्वा योगादिति भावः । द्वितीयं पक्षं शङ्कतं ः - वेदान्तेति। विशेष शब्देनावधारणत्वादिकं विवक्षितम् ।अनुपकारत्वादितिस्वविषयत्वस्य स्वागोचरत्वात्तिरोधान दशासमानकालीन ज्ञानसमान विषयत्वाद्वेदान्त जन्यज्ञानस्य मुक्तिर्नस्यादित्यर्थः ।सविशेषत्व इति ।तत्वावेदकवृत्ति विषयत्वेन सत्यतां स्यादिति भावः । ब्रह्मप्रकाश सामग्रयनु प्रविष्ठेत्यत्र ब्रह्मैव प्रकाशो ब्रह्मणः प्रकाश इति वा तत्र नाद्य इत्याहः - स्वरूप भूतेति। तथा च तिरोधानस्यादिति भावः । द्वितीयेऽपि प्रकाशांशे ब्रह्मगत उत तदन्यगत उभयथाप्यप सिद्धान्तमाहः - तद्गतस्येति ।सधर्मकत्वेति ब्रह्मण इति शेषः । पक्षाद्वयेऽपि दोषादृश्यत्वादेरिति । किं स्वप्रकाशस्सत्यो मिथ्यावेति विकल्प्याद्येऽद्वैतहानेः स्पष्टत्वाद्द्वितीयं दूषयतिः - तन्मिथ्यात्व इति। संस्कारदशायां तत्सामग्रयननु प्रविष्टतया तदानीं प्रकाशोत्पादनायोगान्मोक्ष दशायामेव तदुत्पादनं वक्तव्यं तच्च न सम्भवति । तदानी मिथ्यावस्त्व सम्भवा ततश्च सामग्री नैष्फल्य मित्यर्थः । किं च प्रकाशान्तरस्य स्वरूप प्रकाशादधिकविषयत्वमस्ति न वा न चेत्तत्सामग्रयनु प्रविष्टत्व स्वरूपा भावापादनेऽपि ब्रह्मण आवृतत्वं न स्यात् चक्षुषा साक्षात्क्रियमाणे घटे साक्षात्कारान्तराभाव मात्रेणावृतत्व व्यवहारात्प्रथमे दोषमाहःभ्रान्तिज्ञानेति। तस्याधिकस्य ब्रह्मव्यतिरिक्ततया मिथ्यात्वात्प्रकाशस्य भ्रान्तित्वस्यावश्यं भावात्तत्सामग्री विच्छेदकस्य दोषत्वमनुपपन्नं प्रत्युतगुणत्वमेवेति भावः । प्रतिबन्धकाभावस्येति । प्रतिबन्धकाभावस्य हेतुत्वे तद्घटितत्वात् सामग्रया तद्विघटनेन सामग्रीविघटनात्तत्प्रविष्टत्व विघटतकत्वं क वक्तुं शक्यम् । तस्याहेतुत्वे तदभावविघटन मात्रेण सामग्री विघटनाभावात्तदनु प्रविष्टत्व विघातकत्वं न वक्तुं शक्यमिति सप्तमपक्षोऽनु पपन्न इत्यर्थः । सदस्यदपि साद्योः पक्षस्येत्यर्थः । क्वचित्तु सप्तमस्येति पाठः ।ब्रह्म प्रकाशप्रतिपक्ष भूतमिति। अस्ति प्रकाशत इति व्यवहार योग्यत्वं नास्ति । न प्रकाशत इति व्यवहार योग्यत्वं चोभयं विवक्षितं प्रकाशसमान कालीनतया विरोधित्वादिति भावः । पूर्वोक्ताः - पञ्चमपक्षोक्ताः। स्वरूपविनाशादि प्रसङ्गादय इत्यर्थः । द्वितीये किं प्रकाशोऽसाध्यः उत साध्यः । आद्ये - असाध्य प्रकाशं प्रत्यनुपकारकत्वात्तदानुगण्याङ्गी कारोव्यर्थ इत्याह ।असाध्यस्य चेति।द्वितीय आहः - सध्यत्वे चेति। तस्य साध्य प्रकाशस्य ब्रह्मणस्वरूपत्वे ब्रह्मणोऽनादित्व भङ्गः । अतिरेके तु ब्रह्मणां दृश्यत्वादि प्रसङ्ग इत्याहप्रागुक्ता इति । प्रकाशमान एवेति। अधिष्ठान स्वरूपप्रकाशस्याध्यास हेतुत्वादिति भावः ।तर्हीति। प्रकाशे सत्यध्यासयोगाद्धि तिरोधानमिति भावः ।यथावदिति। यथावत्प्रकाशा भावार्थं तिरोधानमिति भावः ॥ निर्विशेष स्वरूपं यथा वत्प्रकाशत एव न च तस्य स्वरूपमात्र प्रकाशस्य निर्विशेषत्व प्रतिकोटि धर्मान्तर प्रकाशत्वमापादयितुं शक्यम् । येन स प्रकाशो यथा प्रकाशो न स्यादिति भावः ।तदोगोवेति। स्वरूप प्रकाशत्वे तादृशधर्मस्य ततः प्रागध्यास हेतोरथावादध्यस्तत्वेन सत्यतया सविशेषत्व प्रसङ्ग इत्यर्थः । आदि शब्देन स्वप्रकाशत्वादि भङ्गोदृश्यतेतृतीयेऽपीति। ततश्चोक्त दोष प्रसङ्ग इत्यर्थः ।कर्मरूपया विद्ययेति। यद्यपि कर्माविद्यादीन्यत्र भेदेनोक्तिः तथापि विद्यां चा विद्यां चेत्यनुसारात्तथोमिति भावः । माया - प्रकृतिः ।अन्यथेति। तिरोधाना भावे ब्रह्मस्वरूपनिरतिशयानन्दानु भवात्तत्तत्पुण्य पापरूप कर्मानु गुणस्वर्गनिरयादि “फलप्रदत्वस्य च ज्ञानात्पुण्यपाप रूप कर्मानुष्ठानं न स्यात्तदभावे च तन्मूल जन्मजरामरणादि रूप संसारो न स्यात् । तथा च भगवच्छेषतैकरस स्वरूपस्य तदनुगुण निरतिशय पुरुषार्थ तच्चरण परिचरण योग्यता ज्ञाने मद्विरोधि कर्मकरणाभावात्संसारात्यन्ता भाव प्रसङ्ग इत्यर्थः ।स्वरूपस्य स्वप्रकाशत्वेषीति। तिरोधानोपपत्तेर्न प्रतिबन्धिरिति परिहरतिःनेति । नान्यस्मै प्रकाशत इति। स्वरूप प्रकाशेनेति शेषः।तद्धर्मेणेति। अन्यस्य धर्मभूत ज्ञानेन तस्मै प्रकाशत इत्यर्थः।स्वस्मा एवेति। प्रकाशत इत्यनुषङ्गः । अस्तु ज्ञानान्तर कर्मतया ततः किमायतमित्यत्राहततश्चेति। आदिशब्देन विद्यमान प्रकाशो गृह्यते । तच्च ज्ञानकालोत्पन्न तमसि सम्भवत्येव । ज्ञान प्रतिबन्धकत्वादिकमपि साक्षात्परम्परा साधारणं विवक्षितं तेनेन्द्रिय संयोगप्रतिबन्धादि हेतुकुड्यादेरपि तिरोधायकत्वलाभः । यथा परमते स्वप्रकाशब्रह्मणः स्वरूपनाशस्तिरोधायकत्वेना ज्ञत्वं च प्रसज्यते न तथासिद्धान्त इत्याहःस्वस्मैतं नित्यमिति। किं विरोध्याकार विषय प्रकाशस्य प्रतिबन्धकत्वभुत प्रकाशमात्रस्येति विकल्प्याद्य आहःप्रकाशमानेति। विरोध्याकारस्य स्वरूप प्रकाशगोचरत्वादिति भावः । धर्मभूतज्ञानेनापि प्रतिबन्ध इत्याहः - तदारोपेति। धर्मभूत प्रकाशस्येत्यर्थः । द्वितीयं पक्षं शङ्कते ।देवादीति।ननु शुक्तित्वादिवदत्र स्वरूपाति रिक्ततादृशधर्मोदुलर्भम् इत्यत्राहः - तथेहापीति। आदि शबदेनानित्यत्वादि परिग्रहः । द्वितीयादि शब्देन भगवद्दासत्वादि गृह्यते । ननु सिद्धान्त इव आनन्दत्वादीनां स्वरूप प्रकाशाविषयत्वादावरणेन तदप्रकाशेपि न स्वरूपनाशापत्तिः । नाप्यध्यासानुपपत्तिरिति शङ्कतेः - ममापीति । तदभाव इति। अनेनाप्यध्यास विरोधि प्रकाशा भावो दृढीकृत इति भावः ।तथासतीति। तदभाव प्रयुक्त प्रकाशा भावस्य सार्वकालीनत्वात्तिरोधान निवृत्त्यावादविद्याया अपि निवृत्तिर्नस्यादिति भावः ।कदाचिदपीति। मोक्षावस्थायामपीत्यर्थः ।ब्रह्मण्यसतामिति। इदमुपलक्षणम् । मोक्ष एव बन्धास्यादिति भावः । ननु तत्वज्ञाने स्वरूपातिरिक्तानन्दत्वादि धर्मरूपतया भासत इति शङ्कते ।ब्रह्मस्वरूपमिति ।किं तथेति। आनन्दत्वादिकमित्यर्थः ।तिरोधानमपीति। अपिशब्दोवार्थे । तेनाधिष्ठान ज्ञानाभावा दध्यासो नोपपद्यत इति सूच्यते ।तद्धर्मप्रकाशं लक्षणमिति। तत्वज्ञाननिवर्त्यमिति शेषः । तथा च त्वया निर्धर्मकतयाभ्युपेतत्वात्तत्तद्धर्म विशिष्टतया प्रकाशा भावारूपं तिरोधानं वक्तुं शक्यमिति भावः । वत्सकुलजलधिकौस्तुभ नृसिंह गुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायां पञ्च(षट्त्रिं)त्रिंशो वादस्समाप्तः ॥