अथ चतुस्त्रिंशो वादः ।
हयमुखमुखैस्तत्तद्रूपैरकर्मविनिर्मितै
रुपदिशति यस्तथ्यं पथ्यं सतामवसीदताम् ।
जननपदवीयातायातश्रमापहरां धियं
जनयतु स मे देवः श्रीमान् धनञ्जयसारधिः ॥
अस्ति तावदासर्वेश्वरादस्मदादिपर्यन्तमासंसारमनुवर्तमानो दृष्टा दृष्टप्रयोजनः सर्वसैद्धान्तिक सम्मतश्शिष्याचार्यक्रमः ।
स एष निर्विशेषैकशेमुषीमात्रपरिशेषमुषितनिरवशेषभुवनस्य न कथञ्चिदपि सङ्गच्छते ।
तथाहि - आत्माद्वैतमुपदिशन्नाचार्यः किं शिष्यतया शिक्षणीयं कं चिदपि नोपलभते, उतोपलभते? आद्ये कस्मा उपदिशेत्? न कस्मैचिदितिचेत्? तर्हि नोपदिशेदेव, श्रोतृप्रतिपत्तिप्रयोजकत्वादुपदेशस्य ।
अन्यथाआरण्यकोपदेशस्य ।
स्वस्मा एवेति चेन्न; - उपदेष्टव्यप्रतिपत्तौ नैराकाङ्क्ष्येण श्रोतृत्वासिद्धेः ।
तदप्रतिपत्तौ वा अज्ञत्वेनानुपदेष्टृत्वात् ।
द्वितीये तु स्वात्मनोन्यमनन्यंवा? अन्यत्वेपि सत्यमसत्यंवा? नाद्यः, अपसिद्धान्तादिप्रसङ्गात् ।
न द्वितीयः, मिथ्याभूतस्य शिष्यस्य मिथ्यात्वेनोपलम्भे तदर्थमुपदेशाद्यसम्भवात् ।
नहि प्रतिबिम्बादित्वेन प्रतीयमानेभ्यः प्रतिबिम्बादिभ्य उन्मत्तोप्युपदिशेत् ।
पाञ्चालिकादिभ्यो बालिकादिव्यवहारवदिति चेन्न; - मौग्ध्यमन्दीकृतकृत्याकृत्यविवेकानां बालिकादीनां क्रीडारसादि निर्विविक्षया तदुपपत्तेः ।
अत्रापि तथास्त्विति चेन्न; - स्वपरहृदयविसंवादादपसिद्धान्ताच्च ।
समूलभेदभ्रमनिर्मूलनाय तत्वमस्याद्युपदेश इति वो मठकमठसम्प्रदायः ।
मिथ्याभूतं शिष्यं सत्यत्वेनोपलभानस्तु स्वयं भ्रान्तत्वादननुविधेयवाक्यः स्यात् ।
स्वस्माद्भिन्नतया सत्यत्वेनोपलभ्यमानाय शिष्याय स्वात्मैक्यमुपदिशन्नाचार्यः विप्रलम्भकश्च स्यात् ।
कथञ्चासावद्वैतवाक्य श्रवणमहिमनिश्शेषितातत्वप्रतिभासे मृषाभूते शिष्ये सत्यतां प्रत्येष्यति ।
अनन्यत्वपक्षे प्यनन्यत्वेनान्यत्वेनवा शिष्यस्य उपलम्भः? उभयमपि पूर्वोक्तैरेव दूषणैरचूषितम् ।
किञ्चाद्वैतोपदेष्टाचार्यो निवृत्ताविद्यः, उतानिवृत्ताविद्यः? निवृत्ता विद्यत्वे शब्दार्थतत्प्रतिभासादिभेदगुच्छोच्छेदेन तुच्छहेतुरुपदेशस्स्यात् ।
बाधितानुवृत्तिस्तु बाधिता ।
न चेश्वरकृतेषूपदेशेषु बाधितानुवृत्तिमूलत्वसम्भवः, अनादिसर्वज्ञतया करणपरतन्त्रज्ञानत्वाभावेन तस्य भ्रमतद्बाधितानुवृत्त्यादेरसम्भवात् ।
““यस्सर्वज्ञस्सर्ववित्’’ ““परास्य शक्तिर्विविधैव श्रूयते, स्वाभाविकी ज्ञानबलक्रियाचे’’ त्यादि हि श्रूयते ।
अस्तु वा बाधितानुवृत्तिसम्भवस्त्वन्मते, तथापि नोपदेशादिप्रवृत्तिसम्भवः ।
नहि पानीयाभिमाननिवृत्तावपि दोषवशात् प्रकाशमानासु मरुमरीचिकावीचिकासु कश्चित्पिपासति ।
अनिवृत्ताविद्यश्चेत् भ्रान्तत्वादेव पूर्ववदनाप्तत्वप्रसङ्गः ।
किमर्थश्चायमात्माद्वैतोपदेशः? अविद्यानिवृत्त्यर्थ इति चेत्? किमुपदेष्टुः; उत श्रोतुः, उतोभयोः अथोभयव्यतिरिक्तस्य? नाद्यः, पूर्वमेव तस्य निवृत्ताविद्यत्वात् ।
अनिवृत्ताविद्यत्वे परोपदेशेन स्वभ्रमनिवृत्त्ययोगात् ।
परोपदेशजनितपरमादृष्टप्राबल्यादिति तु सम्भवन्नप्यर्थः प्रपञ्चसत्यत्वभयाद्भवता नाबलम्ब्यते ।
नापि द्वितीयः, उपदेष्टृज्ञानस्याविद्यानिवर्तकत्वमस्ति नवा? अस्तिचेतेनैव शिष्याविद्याया अपि निवृत्तावुपदेशनैष्फल्यम् ।
नास्तिचेत्, तर्हि तत एव शिष्यज्ञानस्याप्यविद्याया अनिवर्तकत्वादुपदेशनैष्फल्यम् ।
नच तृतीयः, उक्तदोषसमुच्चयप्रसङ्गात् ।
नापि चतुर्थः, अतिप्रसङ्गात्; नहि देवदत्ताय सर्पाभावोपदेशेन यज्ञदत्तस्य सर्पभ्रमो निवर्तते ।
तथाच सति सर्वतत्वसाक्षात्कारिषु ईश्वरादिषु जागरूकेषु क्वचिदपि कस्यचिदपि भ्रमानुदयप्रसङ्गात् ।
यश्च नित्यनिवृत्ताविद्यं ब्रह्मेति भाषते, स कथं ब्रह्माविद्यानिवृत्त्यर्थ उपदेश इत्युपदिशेत् ।
अस्तु तर्हि निष्प्रयोजन एवायमुपदेश इति चेन्न; - “प्रयोजनमनुद्दिश्च न मन्दोपि प्रवर्तत’ इति न्यायात् ।
नच वस्तुतो न कश्चित्कस्मैचिदुपदिशतीति वाच्यम्, व्यावहारिकव्यवस्थया सर्वस्य निर्वाह्यत्वेनाभ्युपगमात् ।
अन्यथा स्वसिद्धान्तसमर्थनस्येव परसिद्धान्तदूषणस्याप्यसिद्धौ परेषामेव विजयित्वप्रसङ्गात् ।
दूषणसमर्थनप्रयोजनाभावेपि प्रयोजनसद्भावभ्रममूलोयमुपदेशभ्रम इति चेत्? हन्त पुनरपि समीचीनमेव तत्ववित्त्वमुपदेष्टुरुपपादितम् ।
माभूत्तत्ववेदित्वम्, तथापि स्वप्रसिद्धशिष्याचार्यवद्व्यवहार इति चेत्? हन्त तर्हि सिद्धान्तान्तरशिष्याचार्यादिव्यवहारात्को विशेषः? नहि जिनसुगतादिशिष्याचार्यव्यवहारात् प्रतिभासते भवतां विशेषः, येन वैषम्यं वक्ष्यसि ।
विशेषस्तत्वविषयत्वमिति चेन्न; - तत्वविषयत्वस्याप्यतत्वकोटिनिवेशेन पुनरप्यविशेषात् ।
तत्वातत्वविषयताव्यवस्थापनस्य तस्यापातरमणीयाभिमानमात्रसारत्वाविशेषात् ।
अस्त्वविशेषः, को दोष इति चेन्न; - परिग्रहबहिष्कारादिव्यवस्थाभङ्गप्रसङ्गात् ।
सापि व्यवस्था समीचीनताऽसमीचीनतामोहहेतुकेति चेत्? तर्हि जितमनायासेन सर्वैस्त्वद्विरोधिभिः, त्वन्मतप्ररिग्रहस्य त्वयैव समीचीनताभ्रमहेतुत्वकण्ठोक्तेः ।
परमतस्यापि त्वयैवासमीचीनताभ्रमविषयत्वाभिधानेनार्थतस्तद्विपरीतसमीचीनत्वस्यैव समर्थितत्वात् ।
सर्वमप्यसमीचीनमिति तत्वस्थितावस्माकमेव जय इति चेत्? अस्यैव वाक्यार्थस्य समीचीनत्वाऽ समीचीनत्वयोः सर्वासमीचीनत्वासिद्धेः ।
एतस्याप्यसमीचीनत्वं सर्वासमीचीनत्वान्तर्गतमिति चेन्न; - दुष्परिहरस्वव्याघातनिरयनिपातस्य बहुशोन्यत्र स्थापनात् ।
तदलमनेन व्रणकिणभूषणशम्फलीजनसध्रीचां व्याहतवाचां भूषणाभिमतेन दूषणाभिधानेन ।
एवम् आत्मैक्यं स्वाभाविकमभ्युपगच्छतां भास्करयादवमतानु सारिणामुपाधितः स्वतो वा भेदेपि सार्वज्ञाज्ञत्वसङ्करादेरपरिहरणीय त्वादुक्तोपदेशानुपपत्तिरपरिहार्या ।
स्वाभाविकैक्येतु स्वाभाविकभेदो व्याघातादपि निरस्त एव ।
आैपाधिकोपि भेदो न प्रतिसन्धानपरिपन्थी, (तथान्तःकरणभेदोपिन प्रतिसन्धान) अन्यथा सौभरिदेहेष्वीश्वरावतारभेदेष्वप्यप्रतिसन्धानप्रसङ्गात् ।
यथा च चक्षुरादिकरणभेदः पाणिपदाद्यवयवभेदश्च न प्रतिसन्धानं प्रतिरुणाद्धि तथान्तः करणभेदोपि न प्रतिसन्धानं प्रतिरोद्धुमलम् अतएव सर्वगुणदोषसङ्करो दुर्वारः, निर्विकारनिरवद्यश्रुतिविरोधोपीति कृतमप्रसक्तोपालम्भेन ।
अतः परमार्थनिरुपाधिकात्यन्तात्मभेदमन्तरेण नोपदेशसम्भवः ।
ननु परस्परं शिष्याचार्यादिभावेनावस्थितेषु भगवदवतारेषु परमार्थत आत्मभेदाभावेपि व्यवस्था सुस्था, फलं चास्त्येव किञ्चित्, तत्रेश्वरमायापुरस्कारः परिष्कारश्शङ्करमतस्य, उपाधिभेदाभिधानेतु भास्करोदयप्रत्यूषः, विभागशक्तिवैभववादस्तु यादवराज्याभिषेकः, गत्यन्तरन्तु प्रमाणपथिकप्रान्तरं सम्भवदपि समानमस्माकमिति प्रतिबन्दिमुखेन श्वावराहकलहावतारे कस्ते निस्तार इति ।
अत्रबूमः - अस्ति हि समस्तसमाधानहेतुरीश्वरलीला, स भगवान् पुरुषोत्तमः स्वमाहात्म्यानुगुणलीलाप्रवृत्तः स्वेच्छया स्वीयमेव रूपं विचित्राकारं परिणमय्य तत्तज्जातीयोचितमभिनीय निखिल जगदुज्जिजीवयिषया शिष्याचार्यादिभावमप्यभिनीय स्वोपदेशानुष्ठानादिभिर्धर्म संस्थापनं लोकनिर्वाहादिकं च निर्वर्तयतीति किन्नोपपद्यते ।
उक्तं च न्यायाचार्यैरपि ““मायावत्
समयादय’’ इति ।
नच युष्मच्छिष्याचार्येष्वपि इयमेव रीति रिति वक्तुं शक्या, परस्यैवा भावेन परार्थत्वासिद्धेः ।
दुःखमयत्वेन केवलं स्वार्थत्वायोगात् ।
अस्माकमपीश्वरस्य तु स्वव्यतिरिक्तानन्तसंसारिचेतनसद्भावेन तदर्थं स्वलीलारसोचिततत्तत्संव्यवहारोपपत्तेः ।
चिन्मात्रस्य तु निर्विशेषत्वेन कथं लीला? कथञ्चेश्वरत्वम्? नचार्वाचीनेषु तादृशलीला सम्भव इत्युक्तम् ।
अतो वास्तवं जीवभेदं जीवश्वरभेदं चानभ्युपगच्छतां मोक्षार्थोपदेशादिप्रवृत्तिर्न सम्भवतीति ।
इति शतदूषण्याम् उपदेशानुपपत्तिः चतुस्त्रिंशो वादः ।
(34)
नृसिंहराजीया
संविदैक्ये एकस्य ज्ञानात्परस्यापि ज्ञानत्वात् ज्ञाना ज्ञानयोरयोगेन शिष्याचार्य भावायोगादुपदेशानु पपत्तिस्तद्भेदेतु - तदुपपत्तिरिति सङ्गत्यावादार्थं सङ्गृह्णातिह्यमुखेति। अवसीदतां सतां दुखिभ्यः सदूभ्य इत्यर्थः चतुर्थ्यर्थे षष्ठी। उपदिशतीत्यनेन धनं जयसारथिरित्यनेन च वादार्थस्सूचितः आसंसारमित्यव्ययी भावः । संसारमभि व्याप्येत्यर्थः ॥स एष इति। शेमुषीमात्रस्य परिशेषो यथा भवति तथा मुषित कृत्स्न प्रपञ्चस्येत्यर्थः । तुनु प्रपञ्च भेदस्य व्यावहारिकस्य सत्वादुपदेशः कथं नोपपद्यत इत्यत्राहःतथाहीति। उपदेशस्य सम्प्रदाननियमो नास्तीति शङ्कतेःन कस्मैचिदिति । अन्यथेति। प्रतिपत्ति प्रयोजकत्वाभावे वेदान्तानामरप्यरोदन वदप्रयोजन कत्वाभावे वेदान्तानामख्यरोदनवद प्रयोजकत्व प्रसङ्ग इत्यर्थः । आरप्यकमुपनिषत् ।उपपेष्टव्येति। उपदेष्टस्यार्थस्य स्वेन प्रतिपत्तौ बुमुत्साविरहान्न श्रोतृत्व सम्भव इत्यर्थः। तदप्रतिपत्ताविति । तन्प्रतिपत्तिं लक उपदेश एव स्यादित्यर्थः । अन्यमनन्यं वेति । उपलभ्यत इत्यनुषङ्गः ।अपसिद्धान्तादिति। अद्वैतहानेरिति भावः । आदिपदेन वस्तुतोऽन्यत्वे त्वदुक्तन्यायेन दृग्दृश्य सम्बन्धत्वानुपपत्तेस्तदुपलम्भोऽपित्वयाऽ रूपपाद इत्यादिकमभि प्रेत्वं मिथ्याभूतमपि विशिष्यमिथ्यात्वेनोपलभते उत सत्यत्वेनेति विकल्पमभिप्रेत्याद्यं दूषयतिः - मिथ्याभूतस्येति। आदिपदेन तदर्थानुष्ठानं गृह्यते । ननु मिथ्याभूतेनोपलभ्यमानायैव शिष्यायोप देशोऽस्तु । चैतन्याभावे ज्ञाते सालभञ्जिकादिभ्यः क्षीरदानादि व्यवहार दर्शनादिति शङ्कते पाञ्चालिकादिभ्य इति ।मौग्ध्यमङ्गीकृतेति। इदमुपलक्षणम् ॥ ज्ञातत्वादिकमारोप्यापि व्यवहारः स्यादेवेति द्रष्टव्यम् । अत्रापि कृत्याकृत्यविवेकमान्द्यादुप देशोऽस्त्वित्यर्थः ।स्वपरेति। आचार्यस्य विवेकिता पूर्तेस्सर्वैरक्ष्युपगमादिति भावः ।अपसिद्धान्तादिति। अज्ञस्योपदेष्ट्रत्वस्यानभ्युपगमादिति भावः । अपसिद्धान्तमेवोपपादयतिःसमूलेतितथा च तत्वमस्यादि वाक्यार्थज्ञनवत एवोपदेष्ट व्यत्वात्सर्वमिथ्यात्व ज्ञानस्या वश्यकतया विवेकमान्द्यमयुक्त मित्यर्थः । मठस्य कमठा इवमठकमठाःकमठा यथा बहिर्नजानन्ति तद्वदज्ञा इत्यर्थः ।मिथ्याभूतमिति। शिष्यः स्व प्रत्युपदेशादेव स्वस्मिन् गुरोस्सत्यत्व बुद्धिं जानन् तद्विपरीतमिथ्यात्वोपदेशे नाचार्ये भ्रान्तत्वादि शङ्कया तद्वाक्यं न श्रद्धधीतेत्यर्थः । आचार्यलक्षणमपि न स्याद्दभ्या सूयाविप्रलम्भादि वर्जितत्वादित्याहःस्वस्माद्भिन्नतयेति। आचार्यस्य सत्यता प्रतिपत्तिरवेन स्यादित्याह कथं चेति । अतत्व प्रति भासत्वभिन्ने सत्यता प्रतिभासस्येति भावः ।पूर्वोक्तैरेवेति। अन्यत्वेनोपलम्भपक्षे । ननु विधेयवाक्यत्व विप्रलम्भकवाक्यत्व ज्ञानासम्भवाः पूर्वोक्त दोषाः । अनन्यत्वेनोपलम्भपक्षे उपदेष्टव्य प्रतिपत्ति तदप्रतिपत्त्योः श्रोतृत्व वक्तृत्वासिद्धी पूर्वोक्त दोषौ । यद्यप्युभयबहिर्थावेनोपलम्भस्सम्भवति । तथापि तदन्यत्वेन ज्ञानाभावे उपदेशफलस्य श्रोतरिबोधोत्पादस्य ज्ञानस्या सम्भवात्प्रवृत्तिर्न स्यादिति भावः ।किञ्चद्वैतीति। अद्वैतं - द्वैतमिथ्यात्वम् ।शब्दार्थेति।शब्दो - विषयतयार्थः । प्रतिपाद्यतया तत्प्रतिभास वागादिकमपेक्षितम् । तत्रोपदेशहेतु भूत प्रतिभासाद्यसम्भवात्सामग्रयुच्छेदे तुच्छहेतुक उपदेश स्यादित्यर्थः । गुच्छः - समुदायः ननु शब्दार्थयोर्बाधितयोर्बाधितानुवृत्त्या तत्प्रविभानसम्भवान्न सामग्रयुच्छेद इत्यत्राहःबाधितानु वृत्तिस्त्विति।करणपरतन्त्रेति। तथात्वेहि करणदोषाद्भ्रमः सम्भाव्येतेति भावः । अनादि सर्वज्ञतायां करणपरतन्त्राभावे च प्रमाणमाहःयस्सर्वज्ञ इति। आचार्यस्य बाधितानुवृत्तिमभ्युपेत्याहः - अस्तु वेति । पानीयाभिमानेति। अप्रामान्यनिश्चये प्रामाण्यशङ्काशून्यनीयम भ्रमस्य विशष्टस्य निवृत्तिरभिप्रेता भ्रममात्रस्यानु वृत्तेस्ततश्च शिष्यादिरसत्य इति ज्ञानवतो गुरोर्नतान् प्रत्युपदेशस्सम्भवतीति भावः ।अनिवृत्तेति। तत्वज्ञाने सत्यविद्या निवृत्तेरावश्यकत्वात्तदनिवृत्तौ तत्वाज्ञानाभावादुपदेष्टृत्वं न स्यादिति भावः । प्रयोजनाथावाच्चोपदेशो न युक्त इत्याहःकिमर्थ इति।परेति। समानाधिकरण ज्ञानस्यैव विद्यानिवर्तकत्वाभावादिति भावः । प्रपञ्च सत्यत्व भयादिति । दृष्टद्वारा ज्ञाननिवत्यत्वे पुरुषोत्तमदर्शन निवर्त्यपापवत्सत्यता प्रसङ्ग इति भावः ।स्वस्येति। तथाचोपदेश सामग्रयभाव इति भावः ।नास्ति चेदिति। अविद्यानिवृत्तिर्नास्ति चेदिति भावः ।तत एवेति। गुरुज्ञानस्याविद्यानिवर्तकत्वा भावात्तुल्यन्यायेन शिष्यज्ञानस्याप्य विद्या निवर्तकत्वायोगाद्युपदेशानर्थक्य मित्यर्थः ।तथा च सतीति। व्यधिकरणज्ञानस्य निवर्तकत्व इत्यर्थः । आदिशब्देन योगिनोविवक्षिताः ।यच्चेति। नित्यनिवृत्ताविद्यं ब्रह्मैवकोजीव इति पक्षस्तस्मिन् पक्षेस्तुरामुपदेशानुपपत्तिरित्याहः - यच्चेति। मिथ्यात्वादुपदेशस्य तदनुपपत्तिर्न दोषायेत्याशङ्कयाहः - न चेति । व्यावहारिकेति। व्यावहारिक प्रयोजनोद्देशादि व्यवस्थया लोक व्यवहारस्य समर्थ्यत्वदित्यर्थः ।अन्यथेति। मिथ्यात्वादेवस्वाङ्गी कृतस्योपदेशस्यानिर्वांह्यत्वे तद्वदेव प्रतिवादिनिर्णयस्यापि मिथ्यात्वेन तद्दूषणस्यकर्तव्यतया तदसिद्धौ परेषामेव विजयत्व प्रसङ्ग इत्यर्थः ।दूषणेति। उपदेशोऽस्था द्वैतरूप स्वमत समर्थनम् । द्वैतरूप परमतदूषणं चेत्युभयात्मकंः तादृशस्यो पदेशस्य प्रयोजनाभावेऽपि प्रयोजन भ्रममूलोऽयमुपदेश इत्यर्थः ।हन्तेति। गुरोः परम भ्रान्तत्वमेवोपपादि भावाभ्यां तत्वविषयत्वा तत्वविषयत्वादि व्यवस्था त्वदभिमत न्यायानामसामीचीन्यस्य साधितत्वात्तदभिमानमात्रं तु नो दावपि समानमित्यर्थः ।परिग्रहेति। त्वया जिनमतादि बहिष्कार्यं किमर्थं क्रियते परिग्रह एव किं न क्रियत इत्यर्थः । आदि पदेन तदनुक्तानुज्ञानं गृह्यते भ्रमाद्यवस्थेति शङ्कतेः - सापीति । तर्हि जितमिति। त्वन्मतमेव बहिष्कार्यं परमतमेव स्वीकार्यमिति पर्यवस्यतीति भावः । ननु समीचीनमसमी चीनमिति विभागो नास्त्येव सर्वमप्य समीचीनमेव इदमेवमतमस्माकमिति शङ्कतेः - सर्वमितिसर्वासमीचीनत्वे एकस्य वाक्यस्य समीचीनत्वमेतत्समीचीनत्वस्यैव सिद्धान्तस्य समीचीनत्वादस्या सामीचीन्ये - एको न सर्वान्त समिचीन्या (+++) भावः । इदं वाक्यं स्वस्याप्य सामीचीन्यं समर्थयत इत्याशङ्क्यतमिति भावः । स्वाप्नाचार्यस्य तत्ववित्त्वा भावेऽपि स्वप्नोपदेशवदस्त्विति शङ्कतेः - मा भूदिति। व्यवहारः उपदेशः श्रवणं च ।तर्हीति। आचार्यस्यातत्व वित्वविशेषादिति भावः । अतत्ववित्वेप्युपदेश वैशम्यमस्त्वित्यत आहःनहीति। काकुगर्भम् । जिन सुगतादि शिष्याचार्यं व्यवहाराद्भवतां व्यवहार विशेषो न प्रतीयत इत्येतन्नास्ति किं न प्रतीयतम् एव तथा च तद प्रतिपत्तेर्भवतां वैषम्यं वक्तुं न शक्यमिति भावः । ननु सिद्धान्तेप्युपदेशस्य तत्वविषयत्वादेव वैषम्यं वाच्यम् । तत्पूर्व पक्षिणोप्यस्त्वित्याशङ्कतेः - विशेष इति। तत्व विषयत्वस्य मिथ्यात्वेन वस्तुतदभावस्यो भयत्रा विशेषादिति भावः । ननु तत्व विषयत्व तदभावाभ्यां वैषम्यं न ब्रूमः । किन्तु तत्व विषयत्वा(++++)भ्या मित्यत्राहः - तत्वा तत्वेति। मूलभूतन्यायानां समीचीनस्य तदस्वस्या सामीचीन्यमपि स्वसमीचीन्यायत्तमिति व्याघातो मिथ्यात्वादि खण्डने दर्शित इत्याहः - सर्वसमीचीनत्वेति । व्रणिकिणेति। विरूपता पादका (+++) नां स्वरूपतापादकत्व भ्रमवतीनामिव दूषणानां भूषणत्व भ्रमवत्तयात्यन्त पारमत्वं सूच्यते । यादवादिमतेप्युपदेशानु पपत्तिमतिदिशतिः - एवमिति। प्रसङ्गात्स्वाभाविक भेदवादं दूषयतिः - स्वाभाविकेति। अपि शब्द उपदेशानुपपत्तिं सूचयति । प्रसङ्गाद्भास्कर पक्षेमपि दूषयतिः - आैपाधिक इति। न प्रतिसन्धान परिपन्थीति । तथा चा प्रतिसन्धानार्थमौपाधिक भेदकल्पनं व्यर्थमिति भावः ननु सौभर्यादि शरीरेऽपि प्रतिसन्धानं नास्त्येवेत्यत्राहः - यथाचेति। उपकरणत्वा विंशेषेऽकं तरवैषम्यस्य प्रयोजकत्वादिति भावः ।अत एवेति। एतादृश भेदस्य व्यवस्थापकत्वाभाव देवेत्यर्थः । साङ्कर्ये दोषमाहः - निर्विकारेति। परमार्थत्यनेन कल्पित भेदव्यावृत्तिःनिरूपाधिकेतिभास्करमतव्यावृत्तिः ।अत्यन्तपदेनयादवमत व्यावृत्तिः । भेदस्यात्यन्तिकत्वमभेदासहिष्णुत्वम् । ननु भवतापि वास्तवभेदा भावेऽपि शिष्याचार्य व्यवस्थाभ्युप गम्यते । तथास्माकमस्त्विति शङ्कतेःफलं चेति। फलाभावे प्रवृत्त्ययोगात्फलं चास्तति भावः। मायापरस्कारः - मायाधीन भेद पुरस्कारः - विभागशक्ति वैभववादः शक्तिमाहात्म्याधीन विभागा इत्यर्थः प्रमाणपथिकप्रान्तरं प्रामाणिकानां दूरं प्रमाण शून्यमिति यावत् - एकस्य वराहस्य बहुभिः कलहः - श्वावराहकलहः भगवल्लीलैव निस्तार इत्याहः - अत्र ब्रूम इति। तद्विष्णोतिः सभगवानिति। अस्ति ह्यत्र प्रयोजनं परनुग्रता हादिरिति प्रयोजनार्थं प्रवृत्ति व्यवस्था चोपपद्यत इति भावः ।उक्तं चेति। सर्गाद्यकाले व्यवहारा भवेन व्युत्पत्तिग्रहो नोपपद्यत इत्यनोक्तमुदयनेन"मायावत्समयादय’’ (न्या कु.2.3)इति इदं च तेनैव विवृतं यथा हि सूत्र सञ्चाराधिष्ठितदारु पुत्रिकादिकमिदमानयेति प्रयुङ्के स (+++) दारु पुत्रकस्तं तथा करोति तथा चेत न व्यापारादिवत्तदर्शितालोऽपि व्युत्पाद्यत एव तथं हापिस्यादिति । एवं प्रतिबन्दीं पराकृत्ये दानीम्मीश्वरस्यापि परमते शिष्याचार्य व्यवहारोऽपपन्न इत्यत्राहः - चिन्मात्रस्येति। ननु विशे (++++)शलीलाद्यसम्भवेप्यर्वाचीनानां लीलया शिष्याचार्यादि भावोऽस्त्वित्यत्राहः - अर्वाचीनाना मिति ।आचार्यस्य तत्वदर्शित्व लीलादि प्रतिसन्धानासम्भवः अतत्वदर्शित्वेत्वाचार्यत्वाद्यनुपपत्तिरिति भावः ॥ वत्सकुलजलधि कौस्तुभ नृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणी टीकायां चतुस्त्रिंशो वादस्समाप्तः ॥