33 संविदद्वैतभङ्गः वादः

अथ त्रयस्रिंशो वादः ।

बहुविधभक्तिज्ञानप्रभावपूतैर्निषेवितं बहुभिः ।

प्रभयेव भानुमन्तं लक्ष्म्या सेव्यन्तु लक्षयामस्तम् ।

अत्र खलु महार्णवावर्तगर्तकुहरेषु आवर्तमानाः पुरुषा आवर्तयन्ति नियतमेतादृशानि वाक्यानि - एकैव संविदनेकज्ञातृज्ञेयतदवच्छिन्नज्ञप्तिरूपेण विवर्तन इत्येवमादीनि ।
तदसङ्गतम्, घटादि विषयैकैकधियान्तथा विवक्षायां क्वचिदपि विदिताविदितविभागा भावप्रसङ्गात् ।
तत्तत्पूर्वोत्तरकालयोः प्रपञ्चानुपलब्धिप्रसङ्गाच्च ।
सैव संवित्तच्चातच्च वेद्यं क्रमेणोपसर्पतीति चेन्न; - घटादेरिव सुखादेरिव च संविदोप्युत्पत्तिविनाशादिप्रत्ययस्य निराबाधत्वात् ।
यौक्तिकबाधस्य सुखदुःखादावपि वक्तुं शक्यत्वात् ।
विषयाश्रय रूपोपाधिमात्रं व्यावर्तते, संवित्तु प्रत्यभिज्ञाबलात्सर्वत्रैकैवेति चेन्न, - अहमर्थस्य तद्धर्मसुखादेश्च तद्वत्प्रसङ्गात् ।
निराकारायास्संविदः स्वतो भेदाप्रतीतेः विषयाश्रयाभ्यान्तत्प्रतीतेश्च तद्भेद आैपाधिक इति चेन्न; - संयोगादिष्वपि सम्बन्धिव्यङ्ग्यभेदत्वेन तथा प्रसङ्गात् ।
अन्वयव्यतिरेकाभ्यां तत्कार्यत्वादिसिद्धिरिति चेत्? तुल्यम् ।
व्यक्तिमात्रमेव संविद इतिचेन्न; - श्रद्धधानस्य ते संयोगादावपि तथाध्यवसातव्यत्वात् ।
अथान्या काचिन्निराश्रया निर्विषया नित्या संवित् सर्वविषयभागिनीति चेन्न; - तस्यास्सर्वमानानाघ्रातत्वेन खपुष्पायमाणत्वात् ।
आघ्रातत्वेपि मिथ्याकोटिनिवेशात् ।
तदभ्युपगमेपि तदेव सर्वदा सर्वोपलब्धिप्रसङ्गात् ।
क्रमेण नियत विषयोल्लेखस्वभावेयमिति चेन्न; - तन्नित्यत्वेन हेतुतो नियमायोगात् ।
निर्विकारत्वेन विकाररूपोल्लेखस्यापि दुर्वचत्वात् ।
नित्यं व्यापित्वेन सन्निधितदभावनियमस्याप्ययोगात् ।
विषयसत्वमेवोल्लेख इति चेन्नः - मिथ्यात्वेनाभ्युपगते सत्त्वाभ्युपगमायोगात् ।
वर्तमानत्वमिहसत्त्वमिति चेन्न; - भूतभविष्यतोःकदाचिदनुल्लेखप्रसङ्गात् ।
तत्काले वर्तमानत्वं विवक्षितमिति चेन्न; - तदभावेपि भ्रान्त्योल्लेखस्य विद्यमानत्वात् ।
तत्कालवर्तित्वेनाध्द्यसनमुल्लेखशब्दार्थ इति चेन्न; - अध्द्यासरूपस्यैव उल्लेखस्य निरूप्यमाणत्वात् ।
अतो नित्यैकसर्वसाक्षि संविदभ्युपगमे युगपत्सर्वोपलब्ध्यादिप्रसङ्गो दुर्वारः ।
नवा किञ्चित्कदाचिदपि भायात् ।
सर्वेषाञ्चायत्रलभ्यं सार्वज्ञ्यम् ।
सर्वेप्यन्धबधिराद यश्च स्युः ।
गुरुशिष्यपण्डितजडादिभेदश्च ज्ञानभेदनिबन्धनो निर्मूलः स्यात् ।
ननु विषय एव नास्तीति वादिनं प्रति सर्वविषयोपलम्भादिप्रसङ्गो निरर्थक इति चेत्? किमिह विषयानुल्लेखो विवक्षितः? स्वमात्रविषयत्वं वा, मिथ्याविषयत्वं वा, तथाविधमन्यद्वा? नाद्यः, सर्वलोकोपलम्भस्ववचनसिद्धान्तादिविरोधात् ।
बन्धाभावेन शास्त्रवैय्यर्थ्यादिप्रसङ्गाच्च ।
न द्वितीयः, नीलादिकमन्तर्भाव्यैव स्वशब्दोक्तौ नीलादिनानात्वेन संविन्नानात्वप्रसङ्गात् ।
तन्नानात्वे पह्नवे च सर्वविरोधः, नानात्वैकत्वसमुच्चयस्य चित्राद्वैतस्य च त्वदनभिमतत्वात् ।
अभ्युपगच्छतामपि व्याघातशतवात्यावैयात्य निरासघूर्णितत्वात् ।
अथानन्तर्भाव्य, तथासति कथं तत्प्रकाशः, तदप्रकाशेवा कथं तद्व्यवहारः, तदभावे च कथं तदनन्तर्भावोक्तिः ।
न तृतीयः, सर्वोपलब्ध्यादिप्रसङ्गस्य दीर्घायुष्ट्वात् ।
नच मिथ्याभूतं सर्वमेकम्,
विचित्रोल्लेखव्याघातात् ।

तथापि तत्प्रसङ्गस्थितेश्च ।
न चतुर्थः, असद्विषयत्वादौ दत्तोतरत्वात् ।
अनिरूपितभेदाभेदाविद्याविलासदौर्घट्यविश्रमेऽ स्मदुक्तदूषणाभ्युपगतिमन्तरेणापर्सपणासिद्धेः ।
अवस्तुनि प्रयुक्ता दोषा न दोषा इति चेन्न, - प्रपञ्चइव खपुष्पादौ प्रसङ्गात् ।
वस्तुनि च दोषानवकाशात् क्व दोषः? न क्वचिदिति चेत्? जितं जैनेन ।
सर्वत्रेति चेत्? त्यज संविदमपि ।

न संविदीति चेत्? आशामात्रमेतदिति ।
विद्याविद्ययोरपि भेदाभेदानिरूपणे कथं शोधकवाक्यावकाशः ।
कथं चशुद्धविद्यात्मब्रह्मविज्ञानादपवर्ग इति नियमः ।
तत्स्वरूपादिदौस्थ्यं च स्वदेशे द्रष्टव्यमिति ।

अविद्येति विद्याभावस्तदन्यस्तद्विरुद्धो वा कश्चिदर्थः? विद्या च ब्रह्म वा, तदन्यद्वा किञ्चित्? न तावदभावः, ब्रह्मणो देशादिभेदेपि तदयोगात् ।
न च तदन्यः, अन्याभावस्य सिद्धान्तितत्वात् ।
तन्मिथ्यात्वादिवर्णनस्यच निस्सारत्वात् ।
नच तद्विरुद्धः, अनाद्यविद्यानुवृत्तिवैघट््यात् ।
ब्रह्मव्यतिरिक्तस्य तु सर्वस्या विद्यात्मकत्वेन विद्याकोटिनिक्षेपासिद्धेः ।
भ्रान्तिरूपविद्याविरोधित्वे मुमुक्षूपकारकत्वप्रसङ्गात् ।
किञ्च - यदि दुर्घटाविद्या विश्वकर्त्री, ब्रह्मैवाविद्या स्यात्, निरधिष्ठान एव विश्वभ्रमः ।
तत्वमेव भेदाभेदौ, तत्वावेदकवाक्यान्येवातत्वावेदकानि, सत्तैव नास्ति, शून्यमेव तत्वम्, ज्ञानमेवाज्ञानम्, पूर्वपक्ष एव सिद्धान्तः, प्रमाणमेवाप्रमाणम्, अनुपपत्तिरेवोपपत्तिः, जय एव पराजयः, तत्वज्ञानमेवातत्वज्ञानम्, इत्यादिजल्पान् किमिति नकल्पयन्ति ।
कल्पयन्तिचेत्? न नः काचित्क्षतिः ।
लौकिकाः परिहसन्ति, वैदिकाः प्रतिक्षिपन्ति ।
किं बहुना स्वयमप्यन्तर्हसन्तीति तानाक्षिपन्ति सन्तः ।
तथाचानिरूपितरमणीयत्वव्यावहारिकत्वादिविडम्बनमप्यम्बरककुसुमायते,प्रातिभासिकवद्व्यावहारिकस्यापि अप्रामाणिकत्वाविशेषात् ।
तस्याप्यविचारितरमणीयत्वस्य तैरेवाङ्गीकारात् ।
तथाच अशेषस्यापि वेदान्तस्य व्यवहारसम्बन्धित्वात् तत्वावेदकातत्वावेदकवाक्ययोः स्वरूपतः प्रवृत्तितो विषयतः फलतो वैषम्या भावात् ।
तद्धैषम्ये भेदवादप्रसङ्गः ।

तत्वावेदकवेद्यं चेद्ब्रह्ममिथ्येति कथ्यते ।

अब्रह्मवेद्यतापक्षे भेदवादः प्रसज्यते ॥
इति शतदूषण्यां संविदद्वैतभङ्गः त्रयास्रिंशो वादः ।
(33)

नृसिंहराजीया

ननु चोरस्थाणुरित्यत्र स्थाणुत्व बोधाच्चोरत्वाभावानुमान मित्ययुक्तम् । ज्ञानत्वेनोत्पाद विनाशा योगादिति पूर्वार्ध सङ्गत्या वादार्थं सङ्गृह्णातिः - बहुविधेति। भक्तिरूपाणि ज्ञानानि तेषां प्रभावैः पूताः नष्टपूर्वोन्त्तराधाः प्रथयेत्यनेन भास्करस्य प्रभा यथेति प्रमाणसिद्धो नित्ययोगोऽभिप्रेतः ।लक्ष्म्या सेन्यमिति पाठस्सम्यक् । लक्ष्मीसेव्यमिति पाठो तु प्रभयेत्यनन्तरं सेव्यमित्यध्याहार्यः । अत्र बहुविधेति ज्ञानभेद प्रतिपादनासता (वादार्थस्सूचितः ।एकैवेति। संविदैक्यमेवास्मिन्वादे निरसनीयमिति संविद्विवर्तानुवाद एव कार्यः । प्रसङ्गात् ज्ञात्राद्यनुवादः ।घटादीति। यद्येकं देवदत्तस्य घटविषयकं ज्ञानं निरुक्तरूपं तदा तस्मिन् ज्ञाने जाते तत्परिणामत्वा कृत्स्नस्यापि सर्वापि ज्ञप्तिर्देवदत्तस्यैवेति तं प्रति विदिता विदित विभागो न स्यादविदितार्था भावात् तथा यज्ञदत्तादीनां ज्ञानस्यैवा भावातान् प्रति सर्वस्याविदितत्वादपि विदिताविदित विभागो न स्यादेव । यदि चैकं यज्ञदत्तस्य ज्ञानं तदाप्यवं प्रसङ्ग इत्यर्थः । दूषणान्तरमाहःततदिति। यदैकस्य ज्ञानं निरुक्तरूपं तदातत्पूर्वोत्तर कालयोग्यस्या भावेन प्रपञ्चानुपलब्धि प्रसङ्ग इत्यर्थः । नित्ये घटसंविदवे सामग्रीक्रमातत्तत्प्रमातृभिस्तद्विषयैस्सम्बधअयते क्रमेणेति न विदिताविदित विभागाभाव प्रसङ्गः । नापि पूर्वोत्तर कालयोः प्रपञ्चानुपलभ्य प्रसङ्ग इति शङ्कते सैवेति । घट संविदे वेत्यर्थः ।अतच्च वेद्यमिति। घटातिरिक्तं वेद्यमित्यर्थः । अतच्चवेद्यमिति घटातिरिक्तं वेद्यमित्यर्थः । तच्च वेद्यमिति क्वचित्पाठः । तत्तद्वेद्यमित्यर्थः । संविदोप्यत्यत्ति विनाशादि प्रत्ययवन्निर्बाध इति संविदैक्यमयुक्तमिति परिहरतिःघटादिरिवेति। विनाशादित्यादिपदेन भेदोगृह्यते । ननु संविन्नोत्पद्यते संवित्वाद्यन्नैवं यथा घट इत्यनुमानेन लाघव सहकृतेन बादा इत्यत्राहःयौक्तिकेति। सुखादावपि सुखत्वादि हेतोर्लाघव सहकृतस्य सत्वादुत्पत्यादि बाधप्रसङ्गादिति भावः । ननु संविद्भेद प्रतीतिर्लाघव सहकृत बुद्धयैव बाध्यते न चैवं सुखदुःखादावपि तथा प्रसङ्गः । तत्रान्यथा सिद्ध भेदेप्रतीत्यानु गतबुद्धेर्जाति विषयत्व कल्पनात्संविद्भेद प्रतीतिस्तु विषयाश्रयरूपोपाधि विषयतयान्यथा सिद्धां सुखदुःखाभेद प्रतीतिरन्यथा सिद्धैव । तस्माल्लाधव सहकृतानुगत प्रत्ययस्य सत्वादन्यथा सिद्धेरयोग्याया भेदप्रतीतेर्न संविद्भेदसाधकत्वमित्युत्पत्यादि भेद प्रत्ययाश्च बाधित इति शङ्कतेः - विषयाश्रयेति । व्यावर्तत इति। भिन्नतया ज्ञायत इत्यर्थः । यद्येवमहमर्थादेरप्येक त्वमहमर्थाद्वेद प्रतीतेश्शरीर भेदविषयत्वं सुखदुःखादि भेद प्रतीतेश्चा श्रयभेद विषयत्वमिति साध्यादिचैकाश्रय सुखदुःखादि प्रतीतिरनन्यथा सिद्धेत्युच्येत तदैकाश्रयैकविषय संविद्भेद प्रतीतिरप्यन्यया सिद्धेत्युच्येत तदैकाश्रयैकविषय संविद्भेद प्रतीतिरप्यन्यथासिद्धैवेति तुल्यमित्यभि प्रायेण परिहरतिः - नेति । उत्पत्ति विनाशादि प्रत्ययस्य च च बाध इत्यपि ध्येयम् । ननु यथा घटपत्योः स्वरूपमात्राद्भेदः प्रतीयते तथा संवित्स्वरूप प्रतीतिमात्रात्संविद्भेदः प्रतीयते किन्तु विषयाश्रयान्यतर प्रतीतौ सत्यामेव । ततश्च संविद्भेद आैपाधिकः । उपाधिमन्तरेणाविभाव्य मानत्वादाकार भेदवदित्यभिप्रायेण शङ्कतेः - निराकाराया इति। आदिपदेनेच्छाद्वेषादि सङ्गृहः । कारणान्वय व्यतिरेकानु विधानात्संयोगादेः कार्यत्वं नानात्वं चेत्या शङ्क्य तुल्यत्वेन परिहरतिःअन्वयेति।व्यक्तिमात्रमिति। अभिव्यक्तिमात्र मित्यर्थः ।श्रद्धधानस्येति। उपदेशमात्रेणाभि व्यक्तिमभ्युपगच्छत इत्यर्थः । ननूत्पत्यादि योगितयान्तः करणवृत्तिरेव प्रतीयते न तस्याभेदं ब्रूमः । किन्तु तदन्यस्य स्वतो निर्विषयायस्संविद एवाभेदं ब्रूमः इति शङ्कतेःतथान्या काचिदिति । तस्या इति। प्रमाणा भावादिति भावः ।आघ्रातत्वेऽपीति। दृश्यत्वादिति भावः । ननु ब्रह्मस्वरूपस्य स्वप्रकाशत्वं सिद्धान्तेऽपीष्यत एव । तस्यैव ब्रह्मप्रकाशस्य संविद्रूपता कल्प्यतां लाघवात् । न चानादिर ज्ञानस्य निवृत्ति स्यादिति वाच्यम् । अज्ञाननिवृत्त्यर्थमन्तः करणवृत्त्यङ्गीकारादित्याशङ्क्य ब्रह्म स्वरूपस्य स्वप्रकाशत्वेपि तस्य विषय प्रकाशत्वा सम्भवात् । अन्यथा घटादेस्सर्वदा प्रकाशापत्तिरित्याहःतदभ्युपगमेऽपीति । तदेवेति। अयं घट इति प्रकाशवर्तमान काल इवेत्यर्थः । ननु तत्तत्सामग्रयधीन तत्तत्प्रत्युपरागे सत्येव विषय प्रकाशरूपत्वमभ्युपगम्यत इति न सर्वदा सर्वोपलब्धि प्रसङ्ग इति शङ्कतेःक्रमेणेति। किमुल्लेखन संविदभिन्न मुतभिन्नमिति विकल्पमभि प्रेत्याद्यं दूषयतिः - नित्यत्वेनेति। द्वितीयेऽपि किमुल्लेखः संविदः परिणामः उत विषय सन्निधिः यद्वा विषय सत्वमेवेति विकल्पमभि प्रेत्याद्यं दूषयतिः - निर्विकारत्वेनेति।द्वितीय आहः - नित्यत्वादित्वेनेति। सर्वदा प्रकाश प्रसङ्गो दुर्वार इत्यर्थः । तृतीयं शङ्कतेः - विषयसत्वमेवेति ।सत्वम्पारमार्थिकत्वम् उत स स्वरूपत्वमिति विकल्पे आद्य आहःमिथ्यात्वेनेति। द्वितीयमुपक्षिपतिःवर्तमानत्वमितिकिं विषयस्य ज्ञानकाले वर्तमानत्वं विवक्षितमुत स्वकाले नाद्य इत्याहःभूत भविष्यतोरिति। द्वितीयं शङ्कतेःतत्काल इति। स्वस्वकाल इत्यर्थः ।तदभावेऽपीति। अनिर्वचनीयोत्पत्त्यभावेऽपि परोक्षभ्रान्त्युल्लेखस्य विद्यमानत्वादित्यर्थः । विषयीकरणमेवोल्लेख इति शङ्कतेःतत्कालेति। अध्यवसानं - विषयीकरणमित्यर्थः ।न वेति। बाधकावैकल्प्येऽपि कदाचिद थाने भानमेव न स्यादित्यर्थः ।सर्वेषां चेति। ज्ञानार्थ प्रवृत्तिर्लोक वेदयौर्नस्यादिति भावः ।सर्वेऽपीति। इति वैकल्य प्रयुक्तकार्या भावादिति भावः ।गुरुशिष्येति। ज्ञान भेदा धीन किञ्चित्ज्ञत्व बहुज्ञत्वरूप वैषम्यादिति भावः ।निरर्थक इति। विषय एव नास्तीति वादिनं प्रति सर्व विषयोपलम्भ प्रसञ्जनं वाक्यं रवपुष्पसौरभ्यापादक वाक्यवदर्थ शून्यमित्यर्थः।किमिहेति। विषय एव नास्तीति वाक्य इत्यर्थः । विषयानुल्लेखः - निर्विषयत्वमित्यर्थः ।तथा विधमिति। अनुपपन्नतैकवेषमित्यर्थः । स्वमात्र विषयत्वम् । नाम किं विषयतया नीलविशिष्ट स्वमात्रविषयत्वं पीतविशिष्ट स्वमात्रविषयत्वं तथा शुक्ल विशिष्ट स्वमात्र विषयत्वादिकं विवक्षितं किं वा संविन्मात्र विषयत्वमेव नाद्य इत्याहःनीलादिकमिति । अन्तर्भाव्येति। संविदं प्रति विशेषण तया विषयीकृत्येत्यर्थः ।नीलादि नानात्वे नेति। नीलविशिष्ट स्वमात्र विषयायाः पीतविशिष्टस्यमात्र विषय संविदभेदायोगा योगात्संविन्नानात्वं सिद्धयेदित्यर्थः । ननु नीलपीतादिकं सर्वमेकमेव वाऽतो नील विशिष्टस्वमात्रविषयायास्संविदः पीत विशिष्ट स्वमात्र विषयसंविद भेदो युज्यत इति शङ्कामनूद्य दूषयतिःतन्नानात्व इति। ननु नीलादीनामेकत्वं नानात्वं चेति संविदैक्यं नानात्व प्रतीतिश्चोपपद्यत इत्यत्राहःनानात्वेकत्वे इति। ननु कथं समुच्चयानङ्गीकारः । अद्वैतं ह्यङ्गीकृतम् । तद्भेदेय चित्राद्वैत मित्यत्राहःचित्रेति। ननु कथमनभ्युपगमः । स्वगीष्ठीमध्यभ्युपगमस्यैव स्वाभ्युपगमत्वादित्यत्राहःअभ्युपगच्छतामपीति। नानात्वैकत्वयोरेकत्रा सम्भवादन्यथा सत्यत्वमिथ्यात्वयोरपि समुच्चयादि प्रसङ्गादिति भावः । रासः शब्दः । संविन्मात्र विषत्वमेव स्वमात्र विषयत्वमिति द्वितीयं कल्पमुत्थाप यतिः - अथेति । तथा सतीति। नीलादीनां प्रकाशो न स्यादित्यर्थः ।तदभावे चेति। नीलादि व्यवहारा भावे कथं नीलाद्यनन्तर्भावोक्तिः । तदुक्तेरेव नीलादि व्यवहारत्वादिति भावः ।सर्वेति। सर्वेषां मिथ्यात्वाविशेषादिति भावः आदि पदेन ज्ञाताज्ञातत्वादि सङ्ग्रहः । ननु मिथ्यार्थस्यैक्यमिति कथं सर्वशब्दार्थ इत्यत्राहः - न चेति । तथापीति। सर्वशब्दस्या शेषपरत्वात् ज्ञाताज्ञातविभागो न स्यादिति भावः ।असद्विषयत्वादाविति। किं प्रतीयमानस्य घटादेरसत्वं विवक्षितम् उत प्रतीतेः रवपुष्पादिविषयत्वं नोभयमित्याहः - दत्तोत्तरत्वादिति। सिद्धान्तविरोधात् घटादीनां निस्वरूपत्वानभ्युपगमाद्बन्धा भावेन शास्त्र वैयर्थ्यादाद्यो न युक्तः । सुखादि प्रत्यक्षविरोधात्सर्वोप लब्धि प्रसङ्गस्य दीर्घायुष्ट्राच्च द्वितीयोप्ययुक्त इत्यर्थः । नन्वस्तु नीलादि विशिष्ट स्वमात्रविषयत्वमेवेति पक्षः । न चैवं सति संविद्भेद प्रसङ्गः । नीलादीनां भिन्नाभिन्नत्वे ना भेदमादाय संविदैक्योपपत्तेः । न च भेदा भेदयोर्विरोधादेकत्रा सम्भवः । अविद्याविलासत्वेन मिथ्याभूतयोर्दुर्निरूपत्व भावयोदौर्घप्यस्यैकलङ्कारत्वादित्याशङ्कामनूद्य दूषयतिः - अनिरूपितेति। अनिरूपितत्वं निरूपणायोग्यत्वम् । निरूपितो यो भेदा भेदरूपाविद्याविलासस्तद्दौर्धप्यस्या दोषत्व पर्यवसान इत्यर्थः । दौर्घट्याङ्गीकारोस्मदुक्त दूषण ग्रासाधीन इति दोषास्तदवस्था इत्याहः - अस्मदुक्तेति। ननु त्वदुक्तदोषाः पारमार्थिकत्व विरोधिनो न तु विद्यमानत्वस्य तथा च तदङ्गीकारो न दोषायेति शङ्कतेः - अवस्तुनीति । प्रपञ्च इति। प्रपञ्चे या त्वया व्यवस्थाङ्ङ्गीक्रियते । तद्विपरीत व्यवस्थायां त्वदुद्भाविता दोषा न दोषास्युस्तथेन्द्रिय सन्निकर्षाभावाद सतः प्रत्यक्षत्वं नास्तीत्य सत्यात्सत्यख्याति निरसनं चायुक्तं स्यादित्यर्थः । दोषो हि स्वरूपस्य विधातः क्वापि दोषो न स्यादिति दूषणान्तरमाहः - वस्तु निचेति। सर्वत्र दोष एव मास्तु किन्नश्च्छिन्नमिति शङ्कतेः - न क्वचिदिति। स्यदस्तीत्यादिना जैनावस्तुमात्रे नैकान्त्यमभ्युपगच्छन्ति । तन्मतमेवादुष्टं स्यादिति भावः ।सर्वत्रेति। दोष इति शेषः ।त्यजेति।संवित्स्वरूपस्यापि (+) लिधादोष स्यादित्यर्थः । ननु संविद्यतिरिक्ते । दोषा न संविदिति शङ्कतेः - न संविदिति । आशामात्रमिति। संविद्व्यतिरिक्तस्या वस्तुत्वादवस्तुनि च दोषाभावस्य त्वयैवोक्तत्वादिदानींसंविदतिरिक्ते दोष इत्युक्तेऽविरुद्धत्वान्न स्वाभिलषितार्थ सिद्धिरित्यर्थः । दूषणान्तरमाहः - विद्याविद्ययोरिति।अनिरूपणमविरोधः । नीलादीनां भेदाभेदयोरनिरूपण वद्विद्याविद्ययोः भेदा भेदयोरनिरूपणादनृतजड परिच्छिन्न व्यावृत्ति बोधकसत्यादि वाक्यस्य तत्वावेदकत्वं न स्यादित्यर्थः ।कथञ्चेति। मिथ्यावस्त्वविषय शुद्धा या विद्या तत्स्वरूपं यद्ब्रह्म ज्ञानं तस्य शुद्ध ज्ञानापेक्ष या भिन्ना भिन्नतया शुद्ध ज्ञानादेवापवर्ग इति कुतो नियम इत्यर्थः । किं चाविद्या स्वरूपे हि सिद्धे तद्विलास भेदादयो दौर्घट्यं न दोषायेत्यपि वक्तुं शक्येत सैव न सिद्धयतीत्याहः - तत्स्वरूपादिति। अविद्याया दोषान्तरमाहः - अविद्येति । ब्रह्मविद्येति - समानाधिकरण समासः ।देशादीत्यिदि। ना कालो गृह्यते देश कालयोर्बहुत्वेऽपि व्यापकत्वान्नित्यत्वाच्च क्वापि देशे काले वा तदभावायोगादित्यर्थः ।अन्याभावस्येति। ब्रह्मव्यतिरिक्तस्या सत्वेन विद्यान्याविद्येति वक्तुं न शक्यते इत्यर्थः । ननु वयं ब्रह्म व्यतिरिक्तस्य स्वरूपेण शून्यत्वं ब्रह्मत्वं किन्तु मिथ्यात्वमित्यत्राहःमिथ्यात्वादिति। मिथ्यात्वस्य शून्यतातिरिक्तस्य निरासात्तत्साधने शून्यतायामेव पर्यवस्यतीति भावः । आदि पदेन व्यावहारिकत्वं गृह्यते । अनादित्व वैघप्यादनुवृत्ति वैघट्यादित्यर्थः । एवं विद्यायाः ब्रह्म स्वरूपत्व पक्षे दूषणमभिधाय ब्रह्मातिरिक्तपक्षे दोषमाहः - ब्रह्म व्यतिरिक्तस्येति। एवं ब्रह्मातिरिक्त विद्या पक्षेऽपि तदन्यतदभाव तद्विरोधि रूप विकल्पमभिप्रेत्य त्रयाणां साधारणं दोषमभिधाय विरोधिपक्षे प्रातस्विकं दोषमाहः - भ्रान्तीति । रूपेति। ब्रह्मस्वरूपातिरिक्तस्य कृत्स्नस्यापि मिथ्याविषयतया भ्रान्तिरूपत्वादिति भावः । किञ्च यदि दुर्घटत्वमपि विद्याया न दोष तर्ह्य विद्यां ब्रह्मैकस्तु न च ज्ञान निवर्त्याया अविद्याया ब्रह्म भावानुपपत्तिर्नापि ब्रह्मण एव दोषत्वेन तदतिरिक्ताधिष्ठाना भावादध्यासानुपपत्तिः दौर्घट्यस्या दोषत्वादे वेत्याहः - किञ्चेति । नन्वेवं दुर्घटत्वादिभिस्तैरनेकान्त वादस्यैवा वलम्बने जयपराजयादि व्यवस्थाया अभावे भवद्भिस्ते कथ पराजिता भवेयुरिति तटस्था शङ्कामनुवदतिः - त्वमित्यादिना। दौर्घट्यस्य दोषत्वाभावादिति भावः । आदिशब्देन । पसिद्धान्तः । एवं सिद्धान्त दूषणान्येता दूषणानीति सङ्ग्रहः । न तन्निरसनेऽ स्माभिर्यतित व्यमित्याहः - न न इति। सद्भिः प्रतिक्षेप हेत्वन्तरमाहः - तथा चेति। अनिरूपितेति भाव प्रधानो निर्देशः । अनिरूपितत्वमेव रमणीयत्वं यस्यव्यावहारिकस्य तद्व्यवस्थायाश्च तेन व्यावहारिकत्वादिना यत्प्रलोभवं तदर्थशून्यमापद्यते दुर्घटस्याङ्गीकारादेव व्यावहारिकत्वं तद्व्यवस्थाश्च न सिद्धयन्तीत्यर्थः । ननु दुर्घटत्वेपि प्रामाणिकत्वादेव तत्सिद्धिरित्यत्राहः - प्राति भासिकवदिति। ततश्च तद्वैषम्यं न सिद्धयेदिति भावः । ननु कथं व्यावहारिकस्य प्रतिभासिकवद प्रामाणिकं कल्प्यमित्यत्राहः - तस्यापीति। अविचारित रमणीयत्वस्या प्रामाणिकत्व प्रयोजकत्वादिति भावः । फलितमाहःतथाचेति । व्यवहारसम्बन्धित्वादिति। व्यावहारिकत्वादित्यर्थः । फलतो वैशम्याभावादिति । तानाभिपन्ति सन्त इत्यनुषङ्गः । वैशम्याङ्गीकारे बन्धकमाह तद्वैशम्य इति । प्राति भासिकत्व व्यावहारिकत्वाभ्यां वैषम्यस्य वक्तुमशक्यत्वात्पारिमार्थिकत्वेनैव वैशम्यस्य वक्तव्यतया भेदवाद प्रसङ्ग इत्यर्थः । नन्वतत्वावेदकवाक्यमपारमार्थविषयं तत्वावेदक वाक्यं पारमार्थ विषयमिति विषयतो वैषम्यमस्त्येव तत्राह - तत्वावेदकेति।ब्रह्मतत्वावेदकेति ।यदि ब्रह्मतत्वावेदक वेद्य मित्युच्यते तदाक्योन्तरेण ब्रह्म मिथ्येत्युक्तं भवति । दृश्यत्वाद्यदि ब्रह्मव्यतिरिक्तस्य तत्वावेदक वेद्यत्वं तर्हि तत्वा वेदकवेद्यस्य पारमार्थिकत्वाङ्गीकारादेव भेदवाद प्रसङ्ग इत्यर्थः ॥ वत्सकुल जलधिकौस्तुभनृसिंह गुरुसुतेन सिंहदेवेन कृतायां शतदूषणी टीकायां त्रयस्त्रिंशा वादस्समाप्तः ॥