32 जीवन्मुक्तिभङ्गो वादः

अथ द्वात्रिंशो वादः
यदधिकरणमेतद्यद्विधेयं यदर्थं यत उदितमपीति प्रोच्यते यद्वि विश्वम्् ।

तमजमजडमन्तर्यामिणं सर्वजन्तोः निरवधिमहिमानं देवमाराधयामः ॥
यदाहुः - य इह निर्विशेषचिन्मात्रब्रह्माविद्याविवर्तरूपाणां तत्तत्पदार्थानां तत्वोपदेशपरेषु वाक्येषु ब्रह्मणा सह सामानाधिकरण्यनिर्देशः स बाधार्थ एव, अर्थान्तरासम्भवात् तस्यैव विवक्षितत्वात् ।
तथाहि - अन्धकारादिषु स्थाणुमविशिष्टमवलोक्य यश्चोर इति मुह्यति तं प्रति तत्वदर्शी कश्चिद्वदति त्वद्द्ष्टश्चोरः स्थाणुरिति ।
तस्य कोर्थः? चोरत्वाभिमानविषयः ते न चोर इति ।
नहि कल्पान्तरादिष्वपि चोरस्यैव स्थाणुत्वं स्थाणोर्वा चोरत्वं प्रतीतिमधिरोहेत् ।
नचाप्तो व्याहतं भाषते ।
नच स्थाणुत्वं तदानीमुपदेष्टव्यम्, अनपेक्षितत्वाच्छ्रोतुः ।
अतोवसीयते चोरत्वबाधार्थ एवायमुपदेश इति ।
तद्वदिहापि “इदं सर्वं यदयमात्मा’ “पुरुष एवेदं सर्वम्’ “जगच्च सः’ “ज्योतींषि विष्णुर्भुवनानि विष्णु’ रित्यादिषु सत्यासत्यसामानाधिकरण्येषु स्वरूपक्यासम्भवादसत्यांशबाध एवाभिप्रेतः ।
नच स्थाणावारोपितचोरबाधेपि चोरमात्रस्थितिवत् ब्रह्माध्यस्तप्रपञ्चबाधेपि प्रपञ्च स्वरूपस्थितिश्शङ्क्या, इदं सर्वमिति कृत्स्नानुवादेन बाधेऽवशिष्टा सम्भवात् ।
अतश्चोरभयनिवृत्त्यर्थं स्थाणुत्वोपदेशेन चोरत्वबाधवत् “द्वितीयाद्वै भयं भवती’ त्यादिप्रतिपन्नसमस्तसांसारिकभयनिवृत्तये सर्वस्यात्मत्वोपदेशेन सर्वस्य बाध एव विवक्षित इति ।

अत्र वदामः - किमिह प्रपञ्चमिथ्यात्वं सिद्धं कृत्वा सामानाधिकरण्यस्य तद्बाधपरता स्वीक्रियते, उत सामानाधिकरण्य शक्त्यैव प्रपञ्चमिथ्यात्वपर्यवसितो बाधस्साध्य इति? नाद्यः, विश्वलुण्टाकवैयात्यवात्यावेगस्य सर्वतः प्रशमितत्वात् ।
अस्तुवा प्रपञ्चमिथ्यात्वम्, तथाप्यत्र न बाधार्थतैवेति निश्चेतुं शक्यम्, “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीते’ त्यत्र शान्त्यर्थं
ब्रह्मात्मकसर्वानुसन्धानविधानस्य भवद्भिर्व्याख्यातत्वात्; तस्यैवच लक्षणादिदोषदवीयसः शास्त्रार्थस्यान्यत्रापि नेतुं शक्यत्वात् ।
नच विधिसन्निधानासन्निधानाभ्यां विशेषः, सर्वत्र प्रकरणे व्यवहितस्याव्यवहितस्य वा विधेः स्थितत्वात्;
अनेकपदलक्षणादिदोषशत परिग्रहाद्विप्रकृष्टविधिसमन्वयमात्रस्वीकारस्य समीचीनत्वात् ।
तत्वमस्यादिवाक्यप्रस्तावे तदेतत्सर्वमभिप्रेत्याह “बाधार्थत्वेच सामानाधिकरण्यस्य तत्त्वम्पदयोरधिष्ठानलक्षणा निवृत्तिलक्षणा चेति लक्षणादयस्त एव दोषाः ।
’ इति ।

नापि द्वितीयः, प्रवृत्तिनिमित्तभेदेनैकार्थ्यपर्यवसानमात्रे सामानाधिकरण्यशक्तिस्थापनात् ।
प्रवृत्तिनिमित्तयोरेकाश्रयत्वविरोधादत्र सामानाधिकरण्यस्य बाधार्थता स्वीक्रियत इतिचेत्? तथापि न सामानाधिकरण्यशक्त््या बाधप्रतीतिः, व्यधिकरणवाक्य इव विरोधादेवार्थान्तरपरत्वे विवक्षिते प्रकृत्यंशेनैव समन्वययोग्ये निमित्ते लक्ष्यमाणे तद्विशिष्टैकार्थविषयत्वात् सामानाधिकरण्यस्य ।
तथापि स्थाणुपदस्य चोरपदसमानाधिकरणप्रयोगबलादेव चोरत्वाभावलक्षकत्वस्वीकार इति अन्ततो बाधनिदानमेवात्र सामानाधिकरण्यम्, तद्वत् प्रकृतेपीति चेत्? विरोधपरिहाराय लक्षणास्वीकारेपि राजा राष्ट्रमित्यादाविव लघीयस्येकपदलक्षणापक्षे तिष्ठति न सर्वपदलक्षणादिपरिग्रहो युक्तः ।
तथाहि - चोरः स्थाणुरित्यत्र चोरपदेन चोरत्वारोपाधिकरणलक्षणा स्थाणुपदेन तु चोरत्वाभावसहचरितस्वार्थेन तल्लक्षणेति सर्वपदलक्षणासिद्धा, द्वयोरपि पदयोर्मुखभेदेन प्रवृत्तेर्विरूपलक्षणा, तत्रच पदान्तरोपस्थापितधर्माभावस्य पदान्तरेण लक्षणेति विरुद्धधर्मलक्षणा चेति ।
एतत्सर्वं पूर्वोक्तेन भाष्येण सूचितं “अधिष्ठान लक्षणा निवृत्तिलक्षणाचेती’ ति ।
गत्यन्तराभावादेव चोरस्थाणुशब्दसमभिव्याहारे स्वीक्रियतान्नाम तथा क्लेशः, नच तत्रापि दृष्टान्ते क्लेशः, यश्चोर इति ख्यातस्स स्थाणुरिति स्थाणुशब्दे लक्षणागन्धाभावात् ।
अथापि जगच्च स इत्यादिषु गत्यन्तरं लाेकवेदप्रसिद्धं दृश्यत एव ।
प्रयुञ्जते हि नरपतिरेव लोक इति लौकिकाः ।
सस्मारच भगवान्वाल्मीकिः - “रामभूतं जगदभूद्रामे राज्यं प्रशासती’ ति ।
श्रुतौच “सराष्ट्रमभवत् सराष्ट्रन्नाभव’ दित्यादि प्रयोगास्सन्दृश्यन्ते ।
अत्र च एकेनैव निमित्तेन एकस्यैव पदस्य पदान्तरोपस्थापितानुगुणार्थलक्षकत्वमेवेति न पूर्वोक्तदोषः ।
“इदं सर्व’मिति चेतनाचेतनात्मकसर्वप्रपञ्चनिर्देशेन ब्रह्मत्वोक्तौ चिदंशे तादात्म्यमचिदंशे बाध इत्यपि वैरूप्यं भवता स्वीकार्यम् ।
अथैतद्दोषपरिहाराय अचिदंश एव इदं सर्वमिति निर्दिष्ट इति मन्यसे, तदा स्वेच्छामात्रसिद्धस्सङ्कोचक्लेशः ।

किञ्च जगद्ब्रह्मसामानाधिकरण्ये लक्षणायामप्यस्मदभिमतार्थ लाघवमुक्तम्, नचात्र लक्षणेति निगमान्तविदः ।
अपृथक्सिद्धविशेषणवाचिशब्दानां विशेष्यपर्यवसानव्युत्पत्तेः शरीरस्यच शरीर्य पृथत्सिद्धेश्शरीरवाचिनां च देवमनुष्यादिशब्दानां शरीरिपर्यन्त प्रयोगस्य लोकवेदयोर्दर्शनात् विश्वस्य चेतनाचेतनात्मकस्याविशेषेण परमात्मशरीरत्वश्रुतेस्तत्तद्वाचिशब्दानां ब्रह्मपर्यवसानोपपत्तौ तन्निबन्धनमेव ब्रह्मसामानाधिकरण्यमिति युक्तमङ्गीकर्तुम् ।
तथाच सति चेतनाचेतनविषयब्रह्मसामानाधिकरण्यप्रयोगाणामेकस्मिन्वाक्ये वाक्यान्तरेप्येकरूप एव निर्वाहः, सर्वश्रुत्यविरोधश्च सिद्ध्येत् ।

किञ्च - यत्र यत्र जगद्ब्रह्मणोस्सामानाधिकरण्यं दृश्यते तत्र तत्र प्रायशस्तद्धेतुमपि सर्वप्रमाणाविरुद्धं, निर्दिशन्ति श्रुतिस्मृतयः, यथा “तदनुप्रविश्य सच्च त्यच्चाभवत्’ “स भूमिं विश्वतो वृत्वा, अत्यतिष्ठद्दशाङ्गुलम्, पुरुष एवेदं सर्वम्’, “सर्वं समाप्नोषि ततोसि सर्वः’, “सर्वगत्वादनन्तस्य स एवाहमवस्थितः ॥’ इत्यादि ।
ततश्च सर्वविरोधिप्रशमनपटीयसि सामानाधिकरण्यनिदाने श्रुर्त्येव दर्शिते सर्वक्षोभकबाधार्थतास्वीकारो वेदविप्लावकरुचिभ्य एव रोचते ।

किञ्च - चोरः - स्थाणुरित्यादिषु चोरादिपदलक्षिताधिष्ठानातिरेकिणि स्थाणुत्वादौ विरोधिधर्मे पदान्तरेणोपस्थापिते चोरत्व निवृत्तिः, न पुनः पदान्तरेणापि स्वरूपमात्रनिर्देशे, ब्रह्मणि तु जगद्वाचिशब्दलक्षितस्वरूपातिरेकेण को नाम विरोधिधर्मः पदान्तरेणोपस्थाप्यते ।
न कश्चिदिति चेत्? न तर्हि ततो बाधः ।
कल्पितो विरोधिधर्म इति चेत्? कल्पितत्वाविशेषे किं कस्य बाधकं बाध्यं वा भवतु? सुन्दोपसुन्दवत्परस्परमिति चेन्न; - एकस्यैवोद्देशोपादानादेरेकस्मिन्वाक्ये दुश्शकत्वात् ।
विरुद्धोभयपरित्यागेन स्वरूपमात्रं पदद्वयेन विवक्षितमितिचेत्? नतर्हीदं बाधार्थसामानाधिकरण्यम्, उपलक्षणसामानाधिकरण्यताया भवद्भिरेवोक्तत्वात्, तस्य च निरस्तत्वात् ।

ननु किं धर्मोपस्थापनेन, स्वरूपमेव तु तद्विरोधीति तदुपस्थापनेन बाध इति चेन्न; - भ्रमाधिष्ठानतया स्वत एव प्रकाश मानस्य स्वरूपस्योपदेशनैरपेक्ष्यात्; भ्रमविरोधित्वासम्भवाच्च ।
सम्भवे वा नित्यं भ्रमानुदयप्रसङ्गात् ।
नच स्वरूपन्न प्रकाशत इति वाच्यम्, तथाच निरधिष्ठानभ्रमोदयप्रसङ्गात्; नित्यप्रकाशत्वविरोधाच्च ।
अविद्यातिरोहितम् अविशदं स्वरूपं
भ्रमसहतया पूर्वं प्रकाशते, अतिरोहितन्तु विशदरूपं बाधार्थपदेनोपस्थाप्यत इति चेन्न; - तिरोधानवैशद्याद्यसम्भवस्य स्वरूपनाशादिप्रसङ्गेन प्रपञ्चितत्वात्; वैशद्यस्य चान्ततः स्वरूपानतिरेकिणः प्रागेव सत्वे प्रकाशे चावश्यम्भाविनि तत एव सर्वबाधोपपत्तौ सर्वभ्रमानुत्पत्तौ वा न सामानाधिकरण्येन बाध्यं पश्यामः ।

प्रागेव सत्वेऽसत्वे च तत्स्वरूपप्रकाशयोः ।

सामानाधिकरण्येन नैव बाध्यन्तु दृश्यते ॥
ननु शुक्तिरजतभ्रमे नेदं रजतमितिवत् प्रपञ्चाभावो बाधार्थ शब्देन उपस्थाप्यते, नह्यवश्यं शुक्तित्वोपदेशादेव रजतभ्रमनिवृत्तिः, अपितु साक्षाद्रजतत्वाभावोपदेशादपीति चेत्? इदमपि पिष्टपेषणम्,प्रपञ्चाभावस्य ब्रह्मस्वरूपान्तर्भावबहिर्भावयोरुक्तोत्तरत्वात् ।
नच नेदं रजतमितिवत् इह साक्षान्निषेधकश्शब्दः ।
नच चोरः स्थाणुरितिवदगत्या विधायकस्थैव निषेधपरत्वकलृप्तिः,निष्कण्टकस्य गत्यन्तरस्य दर्शितत्वात् ।
अत इदमेव शिष्यते “ज्योर्तिषि विष्णुर्भुवनानि विष्णुरि’ त्यादौ विनिविष्टानामेकैकशोनञस्समर्पणेन बाध इति, तत्रापि च वयं नञन्तरन्निक्षिप्य तदेव बाधेमहि ।

तदेतत्सड्गृहीतम् - “नेदं रजतमितिवत् अप्रतिपन्नस्यैव बाधस्या गत्या परिकल्पनम्, तद्वदेव तत्पदेनाधिष्ठानातिरेकिधर्मानुपस्थापनेन बाधानुपपत्तिश्च’ त्यादिभिर्भाष्यैः ।

इति शतदूषण्यां जीवन्मुक्तिभङ्गो द्वात्रिंशो वादः ।
(32)

नृसिंहराजीया

पूर्ववादे शरीरादेब्रह्म ज्ञानेन बाधितया जीमन्मुक्तिरित्यक्तं न सम्भवतीति सधितमिदं"सर्वं यदयमात्मे (बृ 6.5.7)त्यादेः बाधार्थ सामानाधिकरण्याद्बाध इत्येतन्निराकुर्वन्नवादार्थं सङ्ङ्गृणातियदितियद्ब्रह्म अधिकरणत्वादिभिर्विश्ववाचि पदैः प्रोच्यते तदेव समाराधयाम इत्यर्थः । तथा च सामानाधिकरण्ये बाधकाभावान्न बाधार्थत्वमिति भावः विधेयं - नियाम्यम् । यदर्थं - यच्छेषभूतम् । यत उदितं यस्माज्जातं सर्वजन्तोरन्तर्यामिणम् अन्तः प्रविश्य नियन्तारम् ।य इहेतिब्रह्मणो निर्विशेष चिन्मात्रत्वात्सर्वे पदार्थास्तदविद्या विवर्तभूताः अतस्तेषामधिष्ठान भूत ब्रह्मणा सामानाधिकरण्य निर्देशो बाधार्थ इत्यर्थः विवर्तः परिणामः ।तत्वोपदेश परेष्विति।मनो ब्रह्मेत्युपासीते (तै - उ.छा.3.18.1)त्यादि व्यावृत्तिः । तस्य कोऽर्थ इत।ि बो….बोधनात्कथं बाधार्थत्वमित्यर्थः ।चोरत्वेति। चोरत्वाभिमान विषय इत्यर्थः । ननु चोरत्वाभिमान विषयेस्थाणुत्व विधानान्न बाधार्थतेत्यत्राहः - न च स्थाणुत्वमिति। क्वचित्तु न हि कल्पान्तरेष्वपि चोरस्यैव स्थाणुत्वं स्थाणोर्वा चोरत्वं प्रतीतिमधिरोहेदिति पाढः ।अनपेक्षितत्वाच्छोतुरिति। चोर भ्रमजन्य भयनिवृत्त ये चोरबुद्धिमात्रं निवर्त्यमिति भावः ।सत्येति। सत्यासत्ययोः परस्परं सामानाधिकरण्येष्वित्यर्थः ।इदं सर्वमिति। स्थाणौ चोर बाधेऽपि गृहादौ ज्ञायमानस्या बाधात्तत्सिद्धिरिह तु द्वितीय प्रतिपत्ति स्थले सर्वत्र श्रृति बाधावतारान्न कस्यापि सिद्धिरिति भावः ।चोरत्वबाधवदितिचोरबाधवदित्यर्थः । सर्वत्वबाधः सर्वपदार्थ बाध इत्यर्थः ।प्रशमितत्वादिति। मिथ्यात्व भङ्ग इत्यर्थः । शान्तः - शान्तिकामः । आशंसायां भूते क्त(अष्टा 3.3.132)इति भावः ।अन्यत्रापीति । इदंसर्वं यदयमात्मे (बृ 6.5.7)त्यादावपीत्यर्थः ।सर्वत्रेति। प्राकरिणकस्य व्यवहितस्य वा विधेस्सत्वादिति भावः । तर्हि व्यवहितान्वयो दोष इत्यत्राहःअनेकेति। आदि पदेन भेद वाक्यबाधगुण श्रुतिविरोधादि सङ्ग्रहः ।अभिप्रेत्याहेतिभाष्यकार इति शेषः । भाष्य ग्रन्थं पठतिःबाधार्थत्वे चेत्यारभ्यत एव दोषा इत्यन्तम्। प्रवृत्तिनिमित्त भेदेनेति । प्रवृत्तिनिमित्त सामानाधिकरण बोधने शक्तिरित्यर्थः ।प्रवृत्तिनिमित्तयोरिति। क्लप्त व्युत्पत्तेर सम्भवात्सामानाधि करण्यस्य बाधे व्युत्पत्तिः कल्पत इत्यर्थः ।तथापीति। मुख्य प्रवृत्ति निमित्तयोरेकाश्रयत्व विरोधेऽपि न व्युत्पत्त्यन्तरं कल्पनीयम् - यथा गङ्गायां घोष इत्यादौ विभक्त्यनुसारेण प्रकृतेरेव लक्षणा कल्प्यते नत्वन्यत्र सिद्धमाधाराधेय संसर्गबोधन सामर्थ्यं विहाय वाक्ये शक्यन्तरं कल्प्यते तथात्रापि समानविथक्यनुरोधेन प्रकृतेर्वृत्त्यन्तर स्वीकारेण क्लृप्त व्युत्पत्तेर्निवाहादित्यर्थः । न वयं व्युत्पत्त्यन्तरं स्वीकुर्मः । किन्तु क्लृप्तव्युत्पत्त्यनुरोधाय प्रकतेबाध लक्षकत्वमिति सामानाधिकरण्यस्य बाधार्थतेति शङ्कतेः - तथापीति। व्युत्पत्यन्तरा कल्पनेपीत्यर्थः । तथाप्यन्तत (+++) इत्यन्वयःअन्तत इति। विचार्यमाण इत्यर्थः । विरोध परिहारस्यैक पदलक्षणमात्रेणापि सम्भवान्न बाधार्थतेत्याहःविरोधेति। ननु स्थाणुपदेनाभावो लक्ष्यतां पद्वय लक्षणा कथमित्यत्राहःतथाहीति। दे तर्हीदं दूषणं (+++) किमिति नोक्त मित्यत्राहःएतत्सर्वमिति। मुखभेदो भावाभाव रूपेण । ननु चोरस्थाणुरित्यत्रे"वेदं सर्व’‘मित्यादावप्यङ्गी क्रियते तुल्य योगक्षेमत्वादित्यत्राहः - अन्तरा भावादेवेति। चोरस्थाणुरिति दृष्टान्तेऽनन्य गत्याङ्गीक्रियतां न दार्ष्टान्तिकेऽपि “राजा राष्ट्रमितिवत्तादृधीन्यादि मात्रेणैकपद लक्षणयैवोपपत्तेरिति भावः । तथाक्लेश इत्यनन्तरं न दार्ष्टातिकेऽपीति शेषः । दृष्टान्ता सिद्धिश्चेत्याहः - न च तत्रापीति ।लक्षणा गन्धाभावादिति । ननु स्थाणुत्वस्यान पेक्षितत्वाच्छ्रोतुरित्युक्तमिति चेत्सत्यं तस्य भय निवृत्तिरेवापेक्षिता। सा च तत्कारण सर्पचोरभ्रम निवर्तकस्थाणुत्वो पदेशेऽपि भवति वाष्पार्थिनो धूमोपदेशेने वेति भावः । अथापीति चोरस्थाणुरित्यादौ गत्यन्तरा भावाल्लक्षणास्तु प्रकृतेतु (+++) लोकवदप्रसिद्धां तादधीन्यं तद्व्यपदेशनिमित्तमस्तीति भावः । तदधीन्यस्य लोकवेद प्रसिद्धिं दर्शयतिः - एवं प्रयुज्यति इति । दामभूतमिति ।दामस्वरूपमित्यर्थः ।स शष्टमिति। यजमानस्य शष्टशब्द वाच्यता राष्टस्य तादधीन्यादिति भावः । नन्वस्तु तादधीन्या । तथापि क्षणाङ्गीकृतेवेत्यत्राहः - अत्र चेति। दोषान्तरमाहःइदं सर्वमितिचिदंशेऽपि बाधाङ्गीकारे जीवस्यापि मिथ्यात्वं स्यात् । तथा च कस्य मुक्तिरिति भावः । ननु सङ्कोच एव न क्रियते कुत स्वभाव सङ्ङ्कोच क्लेशः । किन्तु ब्रह्मणः सत्तात्म्यस्य बोधात्तद्व्यतिरिक्तस्य सर्वस्य सर्वस्यापि बाधः । अतिरिक्तस्या भावाद्ब्रह्म संसरतीति पक्षाङ्ङ्गीकारादित्यत्राह कि ॥ ननु बाधार्थत्वेप्येकपदस्यैव निषेधो लक्षणाङ्ङ्गीक्रियते इति कुतो लाधवमित्यत्राहःन चात्रेति । अपृथक्सिद्धेति। ननु रूपादीनामपि तथात्वात्तद्वतस्तच्छब्द वाच्यत्व प्रसङ्गः । तथा देवदत्त युवादिशब्दानामिव शरीर देहादि शब्दानामपि तत्प्रसङ्ग इति चेन्न । केचन शब्दाः केवलाधर्मवाचकाः - यथा रूपादयः, केचन धर्मिमात्र बोधकाः - घटादयः, केचनोभयबोधकाश्शुक्लादयः तथा च वृत्त्यन्तर सन्देहे सत्युभय प्रयुक्तानाम पृथक्सिद्धविशेषण वाचिनां विशिष्ट बोधकत्वं तथा च मत्वर्थीय निरपेक्ष धर्मि प्रयुक्ता धर्मिवाचका इति जगद्वाचिनामपि ब्रह्मापृथक्सिद्ध विशेषणवाचित्वाद्ब्रह्म बोधक इति भावःशरीरस्य चेति। शरीरत्वादेवा पृथक्सिद्धत्वं यस्य चेतनस्य यद्रव्यम्मपृथक्सिद्धं तत्तस्य शरीरमिति लक्षणादिति भावः । शरीरवाचित्वादपि शरीरि पर्यन्तत्वमित्याहःशरीरवाचिनां चेति। पदान्तर समभिव्याहार निरपेक्षशरीरमात्र बोधनासमर्थत्वमपि विशेषणम् । तेन देहादि पदेनाति प्रसङ्ग इति भवः ।किञ्च जगद्वाचि शब्दानां ब्रह्मणि प्रयोगोऽस्ति सनिर्वाच्यः । न च लक्षणया निर्वाहः । तस्या एव दोषत्वात् ।न चान्यथानुपप (++++) मखस्य प्रयोगस्य देवमनुष्य युवादि शब्देष्व सम्भवाज्जगतां ब्रह्म शरीरत्वस्य श्रुतिशत सिद्धत्वान्मुख्यतया निर्वाह्य इति भावः । ननु बाधार्थत्वेनापि निवार्हस्तु विनिगमका भावादित्यत्राहःतथा च सतीति। चेतनांशे ऐक्यमचेनांशो बाध इति बाधार्थत्वे वैरूप्यं दोष इति भावः ।सर्वश्रुतीतिकर्मकाण्ड ब्रह्मकाण्ड श्रुतयो विरुद्धयेरन्निति भावः । किञ्च श्रुतय एव सामानाधिकरण्य प्रयोगस्य निमित्तं वदन्त्यो बाधार्थत्वाय कुप्येयुरित्याहः - किञ्चेति । सच्चत्यच्चेति ( )निर्देशस्य तदनुप्रवेशनिमित्तं शरीरत्वम्पुरुष एवेद (पु.सू)मित्यस्यविश्वतोवृत्त्या (पु.सू)त्यतिष्ठ( )द्विति नियमनं निमित्तम् । तथा सर्वगमन निमित्तमिति द्रष्टव्यम् । एवं श्रुत्या स्पष्टं निमित्तेऽवगते बाधार्थत्वाय बौद्धादन्यो न स्पृह्यत इत्याहः - तत श्चेति। किञ्च किं विरोधि धर्मोपस्थापनेन बाधार्थत्वमुत साक्षाद भावोपदेशेन्न नाद्य इत्याहःकिञ्चेति।न पुनरिति। विरोधाभावादिति भावः ।न तर्हीति। साक्षाद्बाधा भावाद्विरोध धर्मेन तद्बाधो वक्तव्यः स न स्यादिति भावः ।कल्पितत्वादि विशेषइति। प्रमाणत्वस्योभयत्रा भावाद्विरोधि विषयत्वस्य विशिष्टत्वादिति भावः ।एकस्यैवेति। इदं सर्वमित्यस्य निषेध्यत्वे नोद्देश्यत्वं विरोधि धर्मनिषेध रूपत्वेनोपादेयत्वं च विरुद्धत्रिकद्वयापत्तेरप्युक्तमित्यर्थः । अत एवोद्भदा यजेतेत्यादि (+)यजेरुद्देश्यत्व विधेयत्वादि विरुद्धत्रिकदोषापत्त्या नामधेयत्वमङ्गीकृतं नोद्भिदादि गुणविधेयकत्वमिति भावः । आदि शब्देन सिद्धत्व साध्यन्ता देर्गहः ननु स्वप्रकाशस्यापि स्वरूपस्य न भ्रमविरोधित्वमत उपदेश इति चेत्तत्राहःभ्रमेति। विरोधि विषयकं ज्ञानं भ्रमविरोधि न तु स्वरूपातिरिक्तं ज्ञानम् । अन्यथा घटादि विषयक ज्ञानस्यापि भ्रम निवर्तकत्व प्रसङ्ग इति भावः ।तथापीति। भ्रमाभावस्वतस्सिद्ध तन्निवर्तनार्थोपदेशनैरर्थक्यमिति भावः । ननु (+++) ना स्वरूपस्य प्रकाशाभावो नोच्यते । किन्त्व विद्याविरोधि प्रकाशो नेत्युच्यत इति शङ्कतेः - अविद्येतिस्वप्रकाश स्वरूपस्य तिरोधानं प्रकाशोत्पत्ति प्रतिबन्धः । प्रकाशनिवृत्वोत्पत्ति विनाशादि प्रसङ्गेन सम्भवतीति तिरोधानाधीन विशद प्रकाशयोर सम्भवादिति भावः । वैशद्यं प्रागस्ति न चेति विकल्प उत्तरस्य स्वरूपाभिन्नस्यवैशद्यस्यप्रागभावे विनाश प्रसङ्गान्निरासे प्रथमं दूषयतिःवैशद्यस्य चेति। तथा चोपदेशवैयर्थ्यमिति भावः ।तत एवेति। स्वरूपातिरेकि विशद प्रकाशादेवेत्यर्थः । अन्यथा विशद प्रकाशार्थं विशदप्रकाशादेवेत्यर्थः । अन्यथा विशद प्रकाशार्थं"तत्वमसी’’(छा 6.80)त्युपदेशवैय्यर्थ्यादिति भावः ।सर्व भ्रमानुत्पत्ताविति। विशदप्रकाशस्यानदित्वे विरोधिरूपतत्सन्निधौ भ्रमोत्पत्त्ययोगादिति भावः । उक्तमर्थं कारिकया सङ्गृहणाति ।प्रागेवेति। सत्स्वरूपमेव वैशद्यम् । तदेव प्रकाशः (++)र्रतस्य सत्वे भ्रमाद्यभछावात्प्रागसत्वे च सतो जीवस्यासता सामानाधिकरण्या योगात्तदुपदेश वैयर्थ्यमिति भावः द्वितीयकोटिमुपक्षिपतिः - नन्विति। यथा शुक्तित्वो पदेशमन्नरेण रजतत्वाभावो पदेशाद्बाधः तथा सर्वत्वा भावोपदेशात्प्रपञ्च बाधसम्भवाद्बाधार्थत्वमिति भावः ।ब्रह्मस्वरूपेति। स्वरूपान्तर्भावे प्रागेव प्रकाशादुपदेश वैयर्थ्यम् । बहिर्भावे सधर्मत्वापत्तिरित्यर्थः । ननु स्वरूपत्वेप्य भावत्वेन भेदाभ्युपगमाद्विशेष इति भावः । किं च निषेधस्य साक्षाद्ब्रह्मणाद्बाधःकल्प्यते उतगत्यभावान्नाद्य इत्याहः - न च नेदमिति। नापि द्वितीयम् इत्याहःन च चोरस्थाणुरिति। नन्वगत्या निषेधार्थत्वं न कल्प्यते किन्तु न श्रूयमाणोर्ष्णिमदन्तर्गतो वर्तत इति तद्बलात्पदार्थत्वमित्यत्राहःअत इति - निविष्ट इति परिहासोक्तिः । नाभिप्रदेशे वस्त्रस्य बन्धो निविष्टयः भाष्यैः भाष्य वाक्यैरित्यर्थः ॥ इति नृसिंह गुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायां द्वात्रिंशोवादस्समाप्तः ।