31 जीवन्मुक्तिभङ्ग वादः

शतदूषणी ॥ एकत्रिंशो वादः ।

अन्ते विरोधिजनसङ्क्रमणीयसर्व
पूर्वोत्तराधनिवहप्रतिबन्धकेन ।

यद्व्यानसन्ततिलताप्रथमाङ्कुरेण
मुक्ता इवात्र मुनयः स गतिस्स्वयन्नः ॥
समन्वयाधिकरणभाष्ये परेषां सयूध्यकलहमुपक्षिप्य जीवन्मुक्त पक्षः प्रतिक्षिप्तः, तदेवात्र पूर्वापरसङ्गतेर्व्याकुर्मः ।

यदाहुः - ब्रह्मात्मैक्योपदेशपरतत्वमसिवाक्यश्रवणजनिततत्वाध्यवसायादेव जीवन्नपि मुच्यते पुरुषः, ज्ञानस्यैव स्वाभाविक मोक्षप्रतिबन्धनिवर्तकत्वात्, तस्यच निष्पन्नत्वात्; बाधातिरिक्तायाश्च विरोधिनिवृत्तेरभावात् ।
नहि रज्जुयाथात्म्यज्ञानातिरेकेण मिथ्याभूतसर्पभयनिवृत्तेः सर्पविनाशोऽप्यपेक्षितः ।
नच शरीरदेस्सत्यत्वमिच्छामः, येन ज्ञानमात्रान्न निवर्तेत ।
श्रूयतेच - “तमेवं विद्वानमृतइह भवति’ “तमेव विदित्वाऽतिमृत्युमेति’ “यदा सर्वे प्रमुच्यन्ते कामा येस्य हृदि स्थिताः ।
अथ मर्त्यो मृतो भवति अत्र ब्रह्म समश्नुते’ इति ।
जीवन्मुक्तिशब्द एव च क्वचित्पुराणेषु पठ््यते “जीवन्मुक्ता भवन्ती’ त्यादि ।
यः पुनर्जीवन्मुक्तस्यापि यथापूर्वं देहाद्यनुबन्धः, सोपि दग्धपटवन्नबन्धकः; स्वयमेवच कदाचिच्चक्रभ्रमस्वप्नादिवदत्यन्तप्रतिभासलयमेष्यति ।
“कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ “न कर्म लिप्यते नरे’ “यस्य नाहङ्कृतो भाव’ इत्यादिभिर्ब्रह्मविदां कर्मालेपोपदेशश्च जीवन्मुक्तिमन्तरेण न घटते ।
“तस्यकार्य न्नविद्यत’ इति सर्वोपायानुष्ठाननिवृत्तिरपि तेषान्तदैव मुक्तिमावेदयति ।
अतो वयन्निर्गुणब्रह्मविदस्सर्वस्वैरयोग्याः - इति ।

अत्र ब्रूमः - यदुक्तं ज्ञानस्यैव मोक्षप्रतिबन्धकनिवर्तकत्वात्तस्य च निष्पन्नत्वात्तदानीमेवासौ मुक्त इति; तदसत्, असकृदावृत्तस्या प्रयाणादनुवृत्तस्य ज्ञानविशेषस्य मुक्तिसाधनत्वस्थापनात्; तस्य च प्रक्रान्तस्याप्यन्तिमप्रत्ययसावधिकत्वेन निश्शेषनिष्पन्नत्वाभावात् ।
भवतुवोपायभूतज्ञानं निष्पन्नम्, तथापि तदानीमेव फलसिद्धिरिति नायन्नियमः, स्वर्गादिसाधनेषु सगुणानुष्ठितेषु यज्ञादिष्विव प्रतिबन्धकेन फलविलम्बोपपत्तेः ।
नच प्रतिबन्धकमपि मिथ्यात्वाविशेषात्तत्वज्ञानेनैव निवृत्तमिति वाच्यम्, तथासति जीवनादेरपि निवृत्तिप्रसङ्गेन जीवन्मुक्तिवाचोयुक्तेरेवायुक्तेः ।
शरीरादि मिथ्यात्ववर्णनदूषणमपि विस्तरेणान्यत्र द्रष्टव्यम् ।
इहामृतत्व श्रुत्यादिकमपि प्रत्यक्षादिविरोधात् बहुविधश्रुतिस्मृत्यादिविरोधाच्च उत्तरपूर्वाधाश्लेषविनाशरूपमुक्तिकल्पावस्थाविशेषाभिप्रायमिति व्यवस्थाप्यते ।
एतदभिप्रायेण हूयुक्तं महाभारते - “मुक्तानां लक्षणं ह्मेतद्यच्छ्वेतद्वीपवासिनामि’ ति ।
“अत्र ब्रह्म समश्नुत’ इत्येदपि समाधिदशाभाविब्रह्मानुभवपरम् ।
नच सैव साक्षाद्ब्रह्मप्राप्तिः, अस्या नुकलं विच्छेदात्; अपुनर्विच्छेदस्य निरवशेषब्रह्मानुभवस्य सिषाध यिषितत्वात् ।

यत्तु यथा पूर्वं देहानुबन्धस्य दग्धपटवन्नबन्धकत्वमिति, तदपि स्वहृदयविसंवादेनोक्तम् ।
नहि तत्वमस्यादिवाक्य श्रवण समनन्तरमप्यनुवर्तमानदेहेन्द्रियादिभिर्दुःखादिकं न जायेत ।
काचेयं जीवन्मुक्तिः? किं जीवत एव देहादिभेदनिवृत्तिः, उत तत्प्रतिभासस्य, अथ तदधीनप्रवृत्तेः, यद्वा तन्मूलपुण्यपापादेः, अथवा तत्प्रयुक्तसुखदुःखादेः, यद्वान्यस्य कस्यचिदिति ।
नाद्यः, व्याघातात्; जीवनस्य शरीरादिसम्बन्धात्मकत्वात् ।
सशरीरत्वं बन्धः, अशरीरत्वं मोक्ष इति त्वयैव श्रुतिभिरुपपादितत्वात् ।
अथ सशरीरत्वप्रतिभासे सत्यपि बाधात् सशरीरत्वं निवृत्तमिति न विरोध इति चेत्? सशरीरत्वे निवृत्ते कथमशरीरस्य सतो जीवन्मुक्तिः? अजीवतोपि हि मुक्तिः सशरीरत्वरूपमिथ्यार्थाध्यवसाय निवृत्तिमात्रात्मा, नतु त्वन्मते तदधिका वस्तुस्वरूपनिवृत्तिरिति जीवन्मुक्तेरजीवन्मुक्तेश्च न विशेषं पश्यामः ।
सशरीरत्वप्रतिभासबाधेपि द्विचन्द्रज्ञानादिवत्तदनुवृत्त्या विशेष इति चेन्न; - त्वत्पक्षे बाधितानुवृत्त्यसम्भवस्योक्तत्वात् ।
प्रत्यक्षविरोधाच्च ।
निवृत्तावप्यनुवृत्तवद्भातीति चेन्न; - स्वरूपतो नित्यनिवृत्तस्य प्रतिभासमात्राधीन सिद्धितया भिमतस्य प्रतिभासानुवृत्तौ निवृत्तिवचनायोगात् ।
न द्वितीयः, बाधादेव, जीवनविरोधाच्च ।
नच देहादिभेदप्रतिभासा त्यन्तनिवृत्तौ जीवनन्नाम किमपि ।
नच सुषुप्तवदसौ जीवन्मुक्तो निवृत्तप्रतिभास एव प्राणिति,तथासति यथापूर्वं प्रवृत्तिविरोधात् ।
अत एव न तृतीयः ।

नच यत्किञ्चित्प्रवृत्तिशून्यं कञ्चिदद्वैतन्निष्ठं पश्यामः श्रृणुमोवा ।
प्रतिष्ठिताद्वैतविज्ञानैरेवहि भवत्सिद्धान्त ग्रन्धकन्थाशतानि निर्मितानि ।
नापि चतुर्थः, जातिवर्णाश्रमाद्युपाधिकानां विधिनिषेधानां ब्रह्मविदोप्यनुवर्तनीयत्वस्य ““नाविरतो दुश्चरितात्’’
““नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ।
’’ इत्यादिभिस्सिद्धत्वात् ।
अलेपकमतभङ्गेचास्य प्रपञ्चो ग्राह्यः ।
अथ मन्यसे अबुद्धिपूर्व केषु न लेप इति, अस्त्वेवं; तथापि नासौ मुक्तः, बुद्धिपूर्वैः
प्रारब्धैश्च बन्धानुवृत्तेः ।
एतावन्मात्रजीवन्मुक्तेरश्लेषश्रुतिवशेनास्माभिरपीष्यमाणत्वात् ।
अत एव न पञ्चमः, प्रामादिकैः कर्मभिः ब्रह्मविदां फलारम्भानभ्युपगमात् ।
बुद्धिपूर्वैः प्रारब्धैश्च फलस्य प्रत्यक्षादिसिद्धस्य दुरपह्नवत्वात् ।
अनिर्वचनीयत्वादिमात्रेण तदपह्नवे तत्वज्ञानात्प्रागपि वस्तुतो मुक्तत्वेन जीवन्मुक्तिपर्वकल्पनानुपपत्तेः ।
नापि षष्ठः, अन्यस्यापि निवृत्तिः जीवनविरोधिनी नवा? आद्ये विरोधादेव जीवन्मुक्त्यसम्भवः ।
द्वितीयेपि जीवनाविनाभूत दुःखादेरेवावर्जनीयत्वान्न मुक्त्युपपत्तिः ।
अन्ततो अविद्याशेषमन्तरेण जीवनानुपपत्तिः ।
तच्छेषेच मुक्त्यनुपपत्तिः ।

ईश्वरावताराणामिव ब्रह्मविदामपि जीवतान्दुः खाद्यभिनयमात्रमिति चेत्? हन्त स्वानुभवविरुद्धं धार्ष्ट्यम् ।
शक्यञ्चेदं सर्वैर्वक्तुम् ।
नच स्वपर प्रयोजनविरहे मन्दोपि कश्चित्प्रवर्तेत ।
नच मुक्तस्य लीलाप्रसङ्गमप्यनुमन्यसे, जक्षदादिवाचामेव भक्षणात् ।
अतो जिवतिचेन्न मुक्तः, मुक्तश्चेन्नजीवतीति न कथञ्चिदपि जीवन्मुक्तिस्सम्भवतीति ।

यत्तु चक्रभ्रमादिदृष्टान्तेनानुवृत्तांशस्य स्वयमेव विलय इति, तदप्यहेतुकविनाशाद्यनुपपत्त्या बाधितानुवृत्तिभङ्गे निरस्तम् ।

यत्पुनरलेपोपदेशो जीवन्मुक्तिमन्तरेण न घटत इति, तदपि प्रामादिकविषयत्वस्थापनादेव परिहृतम् ।
““तस्य कार्यं न विद्यत’’ इत्यादिसर्वोपायानुष्ठाननिवृत्तिवादाश्च मुक्तविषयतया समाध्यवस्था विषयतया च यथासम्भवं व्यवस्थाप्याः ।
अन्यथा ब्रह्मविदामेव यावज्जीवानुष्ठानस्य निषिद्धपरिहारस्य च श्रुतिस्मृतिसिद्धस्य बाध प्रसङ्गात् ।

किञ्च निर्गुणविषयत्वाभिमतसद्विद्यानिष्ठस्यैव ““तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्य’’ इति शरीरपातमात्रमपेक्षते मोक्ष इति विलम्बावधिमुपदिशन्ती श्रुतिरेव जीवन्मुक्तिं वारयति ।
तथा ““नह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशत’’ इति श्रुतिमप्यधीमहे ।
अत्राशरीरत्वञ्च कर्माधीनशरीरवैधुर्यमित्यन्यत्र स्थापितम् ।
आपस्तम्बेनोपासनगत्यादिविषयबहुविधाध्यात्मशास्त्रार्थतत्वपारदृश्वना निराकृतेयं जीवन्मुक्तिः - ““वेदानिमं लोकममुञ्च परित्यज्यात्मान मन्विच्छेत्, बुद्धे क्षेमप्रापणम्, तच्छास्त्रैर्विप्रतिषिद्धम्, बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेत, एतेन परं व्याख्यात’’ मिति ।
एतेन - निर्विशेषवादिनां जीवन्मुक्तिनिराकरणेन, तत्कल्पितं निराकरणीयं सर्वं तुल्यन्यायतया निराकृतमित्यर्थः ।
अतः प्रत्यक्षश्रुति स्मृत्यादिविरोधात्, स्वैराभिलाषिभिः स्वैरजनसङ्ग्रहश्रद्धाव्यामुग्धैर्वाकल्पितेयं जीवन्मुक्तिरिति प्रत्यक्षीकृतस्वदुःखैर्मुुमुक्षभिरुपेक्षणीयेति ।

इति शतदूषण्यां जीवन्मुक्तिभङ्ग एकत्रिंशोवादः ।
(31)

नृसिंहराजीया

पूर्ववादे वेदान्तानां तत्र ज्ञान हेतुत्वा सम्भवो उक्तः । इह तत्वज्ञान मात्राज्जीवमुक्तिर्न सम्भवतीत्यभिप्रायेण वादार्थं सङ्ङ्गृह्णातिःअत इति। पूर्वोत्तराधनिवहस्य प्रतिबन्धकः तत्फलोत्पत्ति प्रतिबन्धक इत्यर्थः ।तदधिगमोत्तर पूर्वाधयोरश्लेष विनाशा (ब्र.सू.4.1.13)वित्युक्तेः मुक्ता इत्यनेन वादार्थ सङ्ङ्ग्रहः । जीवन्मुक्ता न भवन्तीत्यर्थः । स्वयमित्युपायान्तरस्थान स्थित इत्यर्थः । पूर्वापरवादानां प्रथमसूत्र भाष्याभिप्राय विवरणत्वात्सम्मन्वय सूत्रस्थ जीवन्मुक्ति भङ्गभाष्य विवरणस्य कः प्रसङ्ग इत्यत्राहः - समन्वयेति। पूर्वत्र वेदान्तवाक्यैस्तत्वज्ञान रूप कारणं दुर्घटमित्युक्तम् । इदानीं तत्कार्यं च न सम्म्भवतीत्यच्यत इति भावः ।ज्ञानस्यैवेतिजीवस्य ब्रह्मभावो हि मोक्षः । स च स्वाभाविक एव । तादृशस्यापि कर्णचामीकरवदविद्या वशाहतात्विका प्राप्तिरित्यप्राप्ति हेतुत्वेनाज्ञानं प्रतिबन्धकं तन्निवृत्ति ज्ञानमात्राद्भवतीत्यर्थः नन्वविद्यनिवृत्तिः मोक्षः ज्ञानेन तु मीथ्याभूतस्य बाध एव न निवृत्तिरिति कथं ज्ञान मात्रान्मुक्तिरित्यत्राहबाधेति। ननु ज्ञानेना ज्ञान निवृत्तावपि प्रतिबन्धक ध्वंसासिद्धेः कथं मोक्ष इत्यत्राहःनहीति॥ सत्यसर्पस्थल एव भयादि निवृत्तेर्मुद्गरादिजन्य सर्पविनाशापेक्षा । मिथ्या सर्पस्थले रज्जुयथात्म्य ज्ञानादज्ञान निवृत्तिमात्रमपेक्षितम् । एवमिहावीत्यर्थः । ननु कथं ज्ञानमात्रादिना निवृत्तिस्याच्छरीरादेस् सत्यत्वादित्यत्राहःन चेति। मिथ्यात्वे प्रमाणमाहः - श्रूयते चेति। ज्ञानमात्रान्निवृत्तिरिति शेषः तदन्यथानुपपत्त्या शरीरादेर्मिथ्यात्वं कल्प्यमिति भावः । यद्वा जीवन्मुक्तौं प्रमाणमाहःश्रूयत इति । तमेवमिति। विदित्वैवं नान्वयादन्य निरवेक्षज्ञानादेव मोक्षश्रुतेर्जीवितम् एव मोक्षस्सिद्ध इत्यर्थः ।यदेति । अथेति ।ज्ञानान्तर्योक्तेरिहेति वर्तमान शरीर एवेत्युक्तेश्च जीवत एव मुक्तिरिति गम्यते । ननु यदि मुक्तावपि देहाद्यनुबन्धानुवृत्तिस्तर्हि पश्चादपि कथमत्यन्त निवृत्तिरित्यत्राहस्वयमेवेति । कुर्वन्नेवेति। ब्रह्मनिवदोऽपि संसार हेतुकर्मानु ज्ञानादलेपोष देश इत्यर्थः । शिवमुक्तिमन्तरेणेति अमुक्तस्यापहहतपाप्मत्वा योगादिति भावः ।मुक्तिमावेदयतीति। अमुक्तस्य कार्यशतवत्वादन्ततो मुक्तिसाधनकर्यस्य सत्वादिति भावः ।सर्वस्वैरयोग्या इति। मुण्डभिक्षुभिर्जीव मुक्ति समर्थनं परहारादि निषेवणार्थमिति गम्यते । अविधेयज्ञानस्य साधनता नास्तीति सिद्धान्त माहःअत्र ब्रूम इति । स्थापनादिति। अविद्येय ज्ञानभङ्ग इत्यर्थः । अविद्येय ज्ञानस्य साधनता मभ्युपेत्याहःभवतुवेति। फलविलम्बोपपत्तेरिति । तवापि प्रारब्धकर्म प्रतिबन्धवशादेव निश्शेषा विद्या निवृत्त्यभाव इत्यर्थः । सगुणं - साङ्गम् ।तथा सतीति। मिथ्यात्वाविशेषादिति भावः । प्रतिबन्धाकानां मिथ्यात्वमप्य सिद्धमित्याहःशरीरादितिनन्वमतमित्यादि श्रुतेः का गतिरित्यत्राहः - इहेति। ग्रावाणप्लवनादि श्रुतिवदिति भावः ।श्रुतिस्मृतीति । “निदिध्यासित्यः’ (बृ.4.4.5)“तस्य तावदेवचिर’’( ) मित्यादि श्रुतिः ।बुद्धे चे(आ.ध 2.25.14)दित्यादि स्मृतिः ।अश्लेषविनाशेति। तत्सकंल्पाभि प्रायं ननु मुक्तानां लक्षणमित्यभिप्रायः । वचनेन जीवतोऽपि मुक्तिप्रतीतेरित्यत्राहःएतदभिप्रायेणेति।सिसाधयिषितत्वादिति। मुमुक्षुणा सिषाधयिषितस्य मुक्तित्वादिति भावः । स्वहृदय विसंवादमेव दर्शयतिःनहीति।“मञ्चे शयाना दृश्यन्ते किञ्च भेषजकाङ्क्षिणः’‘इति बहुलमुपलम्भादिति भावः । द्वितीयादि विकल्पेषु निवृत्तिरित्यध्याहारः । चतुर्थे निवृत्तिरनुप(त्य)पत्तिः ।व्याघातादिति। शरीरसम्बन्धतन्निवृत्योर्बन्ध मोक्षयोश्च परस्परं व्याघात इति व्याघात द्वयं विवक्षितम् । इदं च क्रमेण जीवनस्येत्यादि पञ्चम्यन्त हेतुद्वयेनोपपाद्यते ।श्रुतिभिरिति।न ह वै सशरीरस्य (छां.8.1.2.1) अशरीरं वाव सन्तमित्यादिभिरित्यर्थः । द्वितीय व्याघात परिहारं शङ्कतेःअथेति। स शरीरत्व निवृत्तौ परममुक्यपेक्षया जीवन्मुक्तेः को भेद इत्यपेक्षायां प्रतिभासो विशेष इत्याहःसशरीरत्व प्रतिभास इति।कथमिति शरीर सम्बन्धस्यैव जीवनत्वादिति भावः । मुक्त्योरविशेषापत्ति दूषणान्तरमाहःअजीवतोऽपिहीति।मुक्ति सामान्यरूपे सिद्धे हि जीवमुक्तिरिति विशेषो वाच्यः । अतः शरीरनिवृत्तिरिति वाच्यम् । ततश्च परम मुक्तौ प्रतिभासनिवृत्त्यतिरेकेण शरीर निवृत्त्य भावाज्जीवन्मुक्तावपि प्रतिभायानिवृत्तिर्वाच्या । ततश्चो भयोरविशेष इत्यर्थः । मिथ्याध्यवसायः मिथ्याभूतस्यार्थस्याध्यावसायः बाधात्प्रति भासोऽपि विषयेण सहैव निवृत्तः तथापि प्रतिग्रासान्तरौत्पत्त्या प्रतिभासानुवृत्तिर्युज्यते । अप्रामाण्याध्यवसाय लक्षणबाधे सत्यपि द्विचन्द्रज्ञानानुवृत्तिवदित्युच्यर्थः ।प्रत्यक्षविरोधाच्चेति। नाद्य इत्यनेनान्वयः । अविरोधं शङ्कतेनिवृत्तावपीति । बाधादेवेति। प्रत्यक्षविरोधादित्यर्थः ।न चेति। जीवनस्य तद्व्याप्तत्वादिति भावः ।किमपीति। देहसम्बन्धो वा प्राण सम्बन्धो वेत्यर्थः ।तथा सतीति। सुषुप्तवदेवेति भावःअत एवेति। प्रत्यक्षविरोधादेवेत्यर्थः । तदेवोपयादयतिःन चेति । नाविरत इति। प्रज्ञानेनैनं ब्रह्म नैवाप्नुयादिति ज्ञानवत एव पापसम्बन्धो पपत्तेरिति भावः । ननु कर्मणां सन्न्यासस्य शासनान्नैतद्युक्तमित्यत्राहः - नियतस्यत्विति। सन्न्यासः । त्यागः । त्यागवचनं काम्य परमिति भावः । ननु नाविरत इत्यादि वचनं ब्रह्मविदामेवेत्यत्राहःअलेपकेति। तत्र हेतुमाहःबुद्धिपूर्वैरिति। नन्वबुद्धिपूर्वाश्लेषमात्राज्जीवमुक्ति रिष्यत इति चेतत्राहःतावन्मात्रेति। ननु प्रत्यक्षसिद्धस्यापि परमार्थत्वाभावान्मुक्तिरित्यत्राहःअनिर्वचनीयत्वादिति । न च मुक्त्युपपत्तिरिति। दुःखविरोधिन एव मुक्तित्वादिति भावः । नन्वस्य निवृत्तिर्जीवना विरोधिन्येव । न च जीवनाविनाभूत दुःखादि प्रसङ्गः । जीवनस्य दुःखाद्य प्रयोजकत्वान्नापि प्रत्यक्ष विरोधः अभिनयमात्रादिति शङ्कतेःईश्वरेति। किं च स्वार्थमभिनयः परार्थङ्क । यद्वा निष्प्रयोजनं नाद्य इत्याहः - न चेति। सुख दुःखादिरहितस्य स्व प्रयोजनासम्भवादिति भावः । अभिनयादि शक्तिस्तस्मिन्निष्ट साधनता ज्ञान मित्यर्थः । द्वितीय आहःनापीति। न हि निर्विशेष ब्रह्म साक्षात्कारवतोर रूपभेदबुद्धिवदुपकार बुद्धिर्वा सम्भवतीति भावः । तृतीय आहःन च स्वेति। ननु सिद्धान्ते मुक्तस्य"जक्षन् - क्रीडन् - रममाण’’ (छां.8.12.3)इति व्यापारोङ्गी क्रियते तद्वदत्रास्त्वित्यत्राहःन च मुक्तस्येति। सिद्धान्ते मुक्तस्य जन्यसुखाङ्गीकाराद्युक्तं तव तु निर्विशेषवादिनो भेदबुद्धि विरोद्धेति भावः ।भक्षणादिति। अप्रमाणत्वादित्यर्थः । ननु जीवद्दशाविषयत्वान्न मुक्तविषयत्वमित्यत्राहःसमाधीति। तत्काले कर्तव्यान्तराभावादिति भावः । एवं सङ्कोचे प्रमाणमाहः - अन्यथेति । “नाविरतो दुश्चरिता’’( ) दित्यादि सिद्धात्वादित्यर्थः । जीवन्मुक्त श्रुतिरेव निषेधतीत्याहःनिर्गुणेति। उक्तश्रुत्यालब्धार्थमाहःशरीरपातमिति । अधीमह इति। शरीरवतो मुक्तिनिषेधस्य वाचनिकत्वा तद्वतो मुक्तिवचनमनधीतत्वमापदयतीति भावः । नन्वीश्वरस्यापि प्रियाप्रिय स्पर्श प्रसङ्ग इत्यत्राहःअत्राशरीरत्वं वेति। जीवन्मुक्तेरभ्युपगमात्तन्निषेधो न युक्त इति चेन्न । तदभिप्रायवेदि तत्सूत्रवृत्तिकृद्बोधायन शिष्येण निराकृतत्वान्न वेदाचार्यस्य साभि प्रेतेत्याहः - आपस्तम्बेनेति। बुद्धे क्षेम प्रापणं (2.25.14) ब्रह्मज्ञानेजाते सति मुक्तिरित्यर्थः । शास्त्रस्य ता (++++)चिर(+++) शास्त्रैर्विरुद्धमित्यर्थः । प्रत्यक्ष विरोधोपित्याह - बुद्धे चेति । वत्सकुलजलधिकौस्तुभ नृसिंह गुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायाम् एकत्रिंशोवादस्समाप्तः ॥