॥ अथ असत्यात्सत्यसिद्धिभङ्गवादः त्रिंशः ॥30॥
सत्यैरेव सदातनोक्तिनिवहैस्सत्यप्रमाहेतुभिस्सत्यं ज्ञानमनन्तमेकममलं यद्ब्रह्म निर्दिश्यते ।
तत्सत्यैःपरिकर्मितं गुणगणैस्सत्यादिसन्धिक्रियं सत्यानन्दविभूतिकं विचिनुमस्सत्यस्य सत्यं महः ॥
योऽयमसत्यप्रलापः -असत्यादपि शास्त्रादेस्सत्यस्य ब्रह्मणः सिद्धिस्सम्भवति ।
अस्ति चासत्यात्सत्योत्पत्तेस्सत्यप्रतिपत्तेश्च लोके बहुलमुपलम्भः; आरोपितैरेव शुक्तिरजतरज्जुसर्पशङ्का विषभावितगरुडादिभिः सत्यस्य हर्षभयमरणगरलहरणादेर्दर्शनात् ।
तथा स्वाप्नार्थेन शुभादिः, प्रतिबिम्बेन बिम्बतत्त्वम्, लिप्यक्षरैरक्षराणि, रेखागवयादिभिस्सत्यगवयादिः, चित्रपुरुषदिभिः पुराणवृत्तान्तादिः, नादविशेषोपाधिकशब्दनानात्वेनार्थभेदश्चेति असत्यैरेव सत्यानि निश्चीयन्ते ।
तथा वाष्पारोपितधूमादिभिर्यदृच्छासन्निहितधूमध्वजादिसिद्धिः ।
न चात्र सर्वत्र तत्तत्संवित्स्वरूपमेव सत्यं कारणमिति वाच्यम्; ज्ञप्तिस्वरूपमात्रम्य कारणत्वे ज्ञप्त्यन्तरादपि तदुत्पत्तिप्रसङ्गात् ।
विषय विशेषविशेषितायास्तु कारणत्वोक्तौ नागृहीतविशेषणन्यायेन विषयस्यापि कारणत्वावश्यम्भावात् ।
नचासत्यात्सत्यसिद्धौ लिङ्गविभ्रमात्साध्यसिद्धिप्रसङ्ग इति वाच्यम्, यादृच्छिकसंवाददशायामिष्ट प्रसङ्गत्वात् ।
तत्सिद्धिनियमः प्रसज्यत इति चेन्न; तदनियमस्यासत्यत्वप्रयुक्तत्वाभावात्, अपि त्वव्याप्तिनिबन्धनत्वात् ।
व्याप्तं हि साधनम् ।
नह्यसन्धूमाभासो वह्निव्याप्तः ।
बहुलत्वोद्धवत्वादिवत्त्वादनारोपितत्वस्यापि व्याप्त्युपयोगितयाऽन्वयव्यतिरेकसिद्धत्वात् ।
प्रतिबिम्बादेश्चासत्यस्यापि सत्यमुखादिसिद्धौ अन्वयव्यतिरेकाभ्यां व्याप्तिसिद्धेः ।
प्रतिबिम्बस्यासत्यत्वेऽपि बिम्बप्रतिबिम्बयोव्यार्प्तिस्सत्या, तद्वशात्तत्र बिम्बसिद्धिरिति चेन्न; व्याप्तिर्हि सम्बन्धत्वाद्धाप्य व्यापकसापेक्षा, कथं तयोरन्यतराभावे सा सत्या भवेत्? अतो व्याप्यं प्रतिबिम्बादिकमसत्यमेवेति तद्गता व्याप्तिरपि तद्गतमालिन्यादिवदसत्यैव ।
न च विषयमिथ्यात्वे तद्विषयज्ञप्तिसत्यत्वसिद्धिः, न
हि नभःप्रसूनमिथ्यात्वे तत्परिमलपारमार्थ्यम् ।
अतश्शास्त्रादेर्मिथ्यात्वनिश्चयेऽपि ततः परमार्थनिर्विशेषब्रह्मनिश्चय उपपद्यते ।
नच सहसा शास्त्रस्यासत्यताधियमधिरोहति, स्वजन्यविश्वनिवर्तकाद्वैतबोधजन्मनः प्राक् सत्यतयैवावभासात् ।
अतो बोधनदशायां स्वयमपि सदित्यवभासात् स्वजन्यबोधसामर्थ्यादेव स्वस्यापि निवृत्तिसिद्धौ पुनः बोधान्तरस्यानपेक्षितत्वेन तदुत्पादकत्वाभावाच्च न कश्चिद्विरोधः ।
न च वाच्यं सत्यतया प्रत्यक्षादिसिद्धस्यापि प्रपञ्चस्य शास्त्रेणेव शास्त्रसिद्धसत्यत्वस्यापि ब्रह्मणः केनचिद्बाधे मिथ्यात्वं सम्भवतीति, अदर्शनादेव तन्निरासात् ।
न च कारणदोषनिश्चयात् फलितः प्रतीतिविषयबाधः, यादृच्छिकसंवादिलिङ्गविभ्रमादिभिरेवानैकान्त्यात् ।
अतो वस्तुतो मिथ्याभूतादपि शास्त्रादेः परमार्थसद्वितीयब्रह्मनिश्चय उपपद्यत इति ।
अत्रोच्यते -यदुक्तमसत्यात्सत्योत्पत्तिर्दृश्यत इति, तदसत्, सत्यैर्ज्ञानादिभिरेव तत्र तत्र तत्सिद्धेः ।
यत्तत्रोक्तम् -ज्ञप्तिस्वरूपमात्रस्य कारणत्वे ज्ञप्त्यन्तरादपि तत्सिद्धिप्रसङ्ग इति, तदपि मन्दम्, ज्ञप्तिस्वरूपाणां परस्परविचित्रशक्तित्वात् ।
विषयविशेषमन्तरेण वैचित्र्यं कुतस्सिद्धमिति चेत्, किमयमुत्पत्तिप्रश्नः? उत ज्ञप्तिप्रश्नः? आद्ये तत्सामग्रीवैचित्र्यमेवोत्तरम् ।
तदेव च कुतस्सिद्धमिति चेन्न; सामग्रीवैचित्र्यपारवश्यस्य सार्वत्रिकत्वात् ।
सामग्री वैचित्र्यादेव हि तत्तद्विषयत्वनियमोऽपि संविदः ।
न च तत्तद्विषयत्वमेव सामग्र्यधीनो विशेष इति वाच्यम्, एकविषयत्वेऽपि सामग्रीविशेषात्प्रत्यक्षत्वपरोक्षत्व -स्मृतित्वानुभवत्वगरल निवर्तकत्वतदशक्तत्वादिविशेषदर्शनात् ।
न च विषयोऽपि ज्ञप्तिसामग्र्यनुप्रविष्ट इति वाच्यम्, अतीतानागतानुमानादिषु तदयोगात् ।
अस्मदादिप्रत्यक्षज्ञानमात्रे त्विन्द्रियसम्प्रयोगाधारतया तस्य कारणत्वमिष्यते ।
न च मिथ्याभूतस्य विषयस्य सम्प्रयोगाधारता, प्रकाशात्पूर्वं तत्स्वरूपाभावात् ।
प्रकाशस्य च सम्प्रयोगसमनन्तरभावित्वेन चक्रकाश्रयप्रसङ्गात् ।
द्वितीयेऽपि स्वयम्प्रकाशादनुव्यवसायादेर्वा यथाभिमानं तत्सिद्धिः ।
तथाऽप्यवान्तरवैचित्र्योपलम्भे विषयविशेष एव कारणमिति चेन्न; विषयविशेषस्यैव तत्र तदवान्तरवैचित्र्यरूपत्वात्; तत्प्रकाशं प्रति सत्यस्य दोषादेरेव प्रयोजकत्वात् ।
मिथ्याभूतस्य विषयस्यैव च तत्प्रकाशप्रयोजकत्वे सत्यादसत्यप्रतीतिमात्रसिद्धेः ।
तदुलपक्षितस्य ज्ञानस्य च हर्षभयानुव्यवसायादिहेतुत्वेऽप्युपलक्षणस्य तस्य हेतुत्वाभावात् ।
न हि कारणोपलक्षणमपि तत्कार्यकारणं भवति, अतिप्रसङ्गात् ।
अन्वयव्यतिरेकाभ्यां नातिप्रसङ्ग इति चेन्न; विषयस्यैव निरपेक्षहेतुत्व विवक्षायामप्रतीयमानादपि सर्पादेर्भयादिप्रसङ्गात् ।
ज्ञप्तिसापेक्षत्वविवक्षायां तदुपलक्षणमात्रेणान्वय व्यतिरेकयोरन्यथासिद्धेः ।
तर्हि ज्ञप्तेरपि निरपेक्षाया हेतुत्वे ज्ञप्त्यन्तरादपि तदुत्पत्तिप्रसङ्गः, सविषयाया हेतुत्वे विषयोपलक्षणत्वमिति विपरिवर्तप्रसङ्ग इति चेन्न; ज्ञप्तेरुपलक्षणत्वे तदुपलक्षितस्य विषयस्याज्ञायमानदशायामपि भयादिहेतुत्वप्रसङ्गात् ।
कार्योत्पत्तिदशायामपि
कारणोपलक्षणावस्थाना पेक्षायां नामान्तरेण तस्यापि कारणत्वस्वीकारात् ।
न चैवं विषयेऽप्यस्त्विति वाच्यम्, विषयोल्लेखमन्तरेण विषयिणो ज्ञानस्यावस्थानाभावादेव केवलज्ञानात्तदुत्पत्ति प्रसङ्गस्यानवतारात् ।
अप्रसृतनिर्विषयाभ्युप गमपक्षेऽपि प्रसरावस्थाविशेषविशिष्टस्य कारणत्वस्वीकारात् ।
ज्ञानमन्तरेण विषयस्याप्यवस्थानं कथमिति चेन्न; क्षणभङ्गात्मख्यात्यादिप्रसङ्गात् त्वयाऽपि तत्प्रतिक्षेपात् ।
तथाऽपि लिङ्गतज्ज्ञानयोरिवात्रापि विषयविषयिणोर्द्वयोरपि कारणत्वमस्त्विति चेन्न; तत्र द्वयोरप्यनन्यथासिद्धान्वयव्यतिरेकवत्वात्, अत्र तु विषयस्यान्यथासिद्धत्वाद्विषयिणश्च हेतुताया दुस्त्यजत्वात् ।
लिङ्गज्ञानेऽपि विषयस्योपलक्षणत्वमस्त्विति चेन्न; लिङ्गभ्रमेऽप्युपलक्षणत्वसिद्धेः तदुपलक्षितेन ज्ञानेन लिङ्गिसिद्धिनियमप्रसङ्गात् . अतो न लिङ्गज्ञाने विषयोपलक्षणत्वम् ।
अत्रापि तर्हि विषयान्तरोपलक्षितज्ञानेऽप्युपलक्षणत्वं सिद्धमिति ततो हर्षादिसिद्धौ घट्टकुट्यां प्रभातमिति चेन्न; तद्विषयोपलक्षणज्ञप्तिस्वरूपविशेषस्यैव तत्कारणत्वस्वीकारात् ।
यथा गुणविशेषोपलक्षितजात्यादिस्वरूपस्य वाच्यत्वे गुणस्य वाच्यबर्हिभावः, तथाऽत्रापि विषयस्य कारणबहिर्भावः ।
भवतु वा परमार्थधूमाद्युपलक्षितं ज्ञानं कारणमिति, तथाऽपि भवतो न कश्चिल्लाभः, तत्रापि विषयस्याकारणत्वात्, सर्वत्र ज्ञानस्य सत्यस्य कारणत्वसिद्धेः ।
किञ्च
“कार्यकारणभावे हि पौर्वापर्यमुदीर्यते ।
असत्यत्वे कथं पूर्वभावित्वं कस्यचिद्भवेत् ॥’’
ननु तत्तद्विषयाणां मिथ्याभूतानामपि कारणत्वं शास्त्रतस्सिध्यति; स्वप्नेष्वगम्यागमनं च धन्यमित्यादिभिस्तद्विषयाणामेव हि शुभाशुभादिसिद्धिहेतुत्वं स्वप्नाध्यायादिषु पठ्यते इति चेन्न; उपचारादपिप्रयोगसम्भवात्, तद्भ्रमस्यैव तत्र हेतुत्वात्तस्य च सत्यत्वात् ।
स्वाप्नार्थनामीश्वरसृष्टत्वपक्षे तन्मिथ्यात्वासिद्धेश्च ।
यत्तु लिप्यक्षरैरक्षरग्रहणमिति, तत्र लिपिस्वरूपं सङ्केतो वर्णबुद्धिश्च न मिथ्याभूताः ।
न च वर्णबुद्धिरेव तद्वर्णबुद्धिहेतुः, आत्माश्रयप्रसङ्गात् ।
न च लिपिषु वर्णभ्रमः सत्यवर्णधीहेतुः, गौरवात् ।
सङ्केतवशादेव तत्सिद्धौ वर्णभ्रमस्य कारणत्वकल्पने प्रमाणाभावात् ।
भावेऽपि
तत्पारमार्थ्यस्योक्तत्वाच्च ।
रेवागवयेऽपि सत्यादेव रेखासन्निवेशसादृश्यमात्रात् पूर्वानुभूतगवयस्य पुरुषस्य प्रथमं गवयस्मृतिः ।
अननुभूतगवयस्य तु न गवयस्मृतिरपि, रेखासादृश्याबोधनात् ।
कदाचिदाप्तवाक्येन गवयोपलक्षणात्पश्चाद्रेखायामपि कस्यजिद्गवयभ्रमस्सम्भवेदपि, तस्यापि न ततः परं किमपि ततस्सत्यगवयज्ञानमिति समस्तीति नासत्यात् सत्यधीः ।
चित्रपुरुषादिभिः पुराणवृत्तान्तादिज्ञानेऽपि उपदेशो वा, प्रत्युत पुरुषलिखितत्वव्यवसाये सति लिङ्गं वा निदानम्; न तु चित्रगोचरः पुरुषभ्रमः ।
नादविशेषोपाधिकशब्दनानात्वेऽपि तत्तन्नादाभिव्यक्तरूपेण सम्बन्धग्रहणसहकृतशब्द स्वरूपमेवार्थधीहेतुः ।
तच्च विशेषणेन सह सत्यमेव ।
न चौपाधिकं शब्दनानात्वम्, एकरूपस्य शब्दस्यानुपलम्भात्, कल्पकाभावाच्च ।
क्रमयौगपद्यादिविकल्पदुःस्थत्वेन वर्णानां बोधकत्वे निरस्ते बोधकान्तरं किञ्चित्कल्प्यते; तच्च सामर्थ्यादिशालिभिः प्रत्यक्षयितुमपि शक्यते; “स्फोटस्त्वं वर्णसंश्रय’’ इति महाभारतेऽप्युच्यत इति चेन्न; वर्णानां स्फोटव्यञ्जकत्वेऽपि क्रमयौगपद्यादिविकल्पावतारप्रसङ्गात् ।
परिहारस्य च समत्वात् ।
“स्फोटस्त्वं वर्णसंश्रय’’ इत्यस्य वर्णानामेव स्फुटीकरणशक्तिमात्रविषयत्वात् ।
समाधिग्रन्थेष्वपि शब्दब्रह्मापरनाम्नो वाचकेतरस्यैव कस्यचिद्वाचकहेतोः परब्रह्मानुसन्धानोपकारकतयाऽनुसन्धेयत्वविधेः, तावत एव च
योगिभिस्साक्षात्कारणात् ।
स्फोटदूषणविस्तारस्त्वाचार्यादिग्रन्थेष्वनुसन्धेयः ।
वाष्पारोपितधूमेन यादृच्छिकाग्निसिद्धिस्तु नभ्रमसामर्थ्याधीना, अन्यथा सर्वत्र तद्भ्रमे तत्सिद्धिप्रसङ्गात् ।
अत एव हि तत्र प्रामाण्यमपि नाङ्गीक्रियते ।
अत्रापि यादृच्छिकब्रह्मासद्बावे शास्त्रादेस्स्वयमप्रमाणत्वात्प्रमाणान्तरासम्भवाच्च, न तत्सत्यत्वव्यवसायः शक्यः ।
तदेवं लोकदृष्ट्या अस्मद्दृष्ट्या च सत्यादेव सत्यस्य सिद्धिः ।
भवद्दृष्ट्या त्वसत्यादसत्यस्यैव सिद्धिरिति न कथञ्चिदप्यसत्यात्सत्यसिद्धिरुदाहर्तुं शक्यते ।
असत्यस्यापि प्रतीतिः सत्यादेव दोषादेर्भवति, किं पुनस्सत्यस्य ।
ननूपलक्षणत्वं नाम ज्ञाप्यबहिर्भावेऽप्युपलक्ष्यज्ञानहेतुत्वम्, तथा च मिथ्याभूतस्य विषयस्य उपलक्षणत्वाङ्गीकारे पुनरपि हेतुत्वं सिद्धमिति चेन्न; उपलक्षणं हि न स्वरूपेण ज्ञापयति, अपि तु स्वज्ञानेन; तथा च ज्ञानगतमेव हेतुत्वं न पुनर्विषयगतम्, विषयस्य मिथ्यात्वेन हेतुत्वायोगात् ।
अन्यथाकुलालविज्ञानविषयभूतस्यागामिघटस्य घटं प्रति हेतुत्वं स्यात् ।
न च तद्युज्यते, नियतपूर्ववृत्तित्वाभावात् ।
न च तावता विषयस्य हेतुत्वाभावे कुविन्दज्ञानस्यापि हेतुत्वं स्यादित्यतिप्रसङ्गश्शक्यते वक्तुम् ।
तद्वदत्रापि ।
कार्यस्य कारणकालासन्निधानात्तत्राहेतुत्वमिति चेत्तुल्यम्, अविशेषादसान्निध्यस्य ।
अथाप्यत्र पुनः अतिप्रसङ्गात् तत्परिहारर्थं विषयस्यापि हेतुत्वमकामेनापि स्वीकर्तव्यमिति चेत्, तर्हि कर्तृज्ञानविशेषणे घटादावपि किं न स्वीकार्यम् ।
कार्यकारणभावनियमस्यावश्याङ्गीकार्यत्वात् कारणायत्तमेव वैषम्यं तेषुतेषु स्वीक्रियत इति चेत्, तुल्यमत्रापि ।
तर्ह्यसत्त्वेऽपि कारणत्वमस्त्विति चेन्न; व्याघातात् ।
नियतपूर्वभावित्वं हि कारणत्वम् ।
व्यावहारिकमपि कारणत्वं तेनैव
रूपेण निर्वहन्ति दुर्वैतण्डिकाः ।
पूर्वभावित्वं हि पूर्वकालसत्त्वमेव ।
कारणं हि पूर्वावधिः ।
अवधित्वं च स्वसद्भावेनैव ।
कारणानां नियतपूर्वत्वमिति सामान्यनिर्देशेऽपि तत्र सद्भावोऽसद्भावो वा कश्चिदेकः परिशिष्यते, परस्परविरोधात् ।
तत्रासद्भावपक्षस्त्वकारणलक्षणत्वादवधूयते ।
सद्भावपक्षस्त्ववशिष्यते ।
अतो नागामिनःकारणत्वम् ।
नाप्यत्यन्तासतः ।
तेन सत्यादेव कारणात्कार्यस्य, ज्ञापकाद्वा ज्ञाप्यस्य सिद्धिः ।
श्रुतिरपि - “कथमसतस्सज्जायेतेति,’’ (छान्दोग्य -6 -2 -2) “सन्मूला’’ (छान्दोग्य -6 -8 -6) इति सदेव सोम्येदमग्र (छान्दोग्य 6 -2 -1) इति च ।
ननु मिथ्यार्थज्ञानस्योपलक्ष्यज्ञानहेतुत्वेऽपि तज्ज्ञानोपलक्षणार्थम्मिथ्यार्थस्य हेतुत्वमिति चेन्न; तत्रापि तज्ज्ञानस्यैव हेतुत्वात् ।
तथा चानवस्थेति चेन्न, अवश्यवेद्यत्वा -भावात् ।
तथा च सत्यस्यैव ज्ञानस्य हेतुत्वमिति नासत्यात्सत्यसिद्धिः ।
किञ्च प्रतिबिम्बाद्बिम्बसिद्धौ विप्रतिपन्नः प्रतिबिम्बोबिम्बपूर्वकः प्रतिबिम्बत्वादिति वा, प्रतिबिम्बज्ञानं बिम्बज्ञानपूर्वकं प्रतिबिम्बज्ञानत्वादिति वा अनुमानप्रकृतिः ।
उभयत्रापि सत्यादेव ज्ञाप्यसिद्धिः,प्रतिबिम्बत्वस्य ज्ञानस्य च सत्यत्वात् ।
नहिचन्द्रत्वादित्यनुमानं प्रयुज्यते, व्यभिचारात् ।
अपि तु चन्द्रत्वेनारोपितत्वादिति ।
चन्द्रत्वेनारोपितत्वं सत्यमेव ।
यथा रजतत्वेनारोपितमिदमिति ज्ञानं परमार्थविषयमेव; बाधकज्ञानत्वात्; तथा प्रतिबिम्बचन्द्रोऽयमिति ज्ञानं परमार्थविषयमेव ।
ततो वानासत्यात्सत्यसिद्धिः ।
किञ्चासत्यत्वेऽपि प्रतिबिम्बादेर्ज्ञातृत्वज्ञानाद्यनेकसत्योपश्लेषेणैव सत्यबुद्धिहेतुत्वसिद्धिः ।
यत्तूपलक्ष्यबहिर्भूतत्वे सत्युपलक्ष्यप्रतीतिजनकत्वमुपलक्षणत्वम्, ततश्च ज्ञानोपलक्षणतया विषयो यद्यभिमतस्स्यात्तर्हि तत्रैवासत्यात्सत्यप्रतिपत्तिरिति,तन्न; वस्तुतो विषयस्योपलक्षणत्वमपि नाभ्युपगच्छामः, स्वेनैव वा स्वविषयज्ञानान्तरेण वा सविषयज्ञानस्वरूपप्रकाशस्य प्रागेवोक्तत्वात् ।
अभ्युपगम्यापि वदामः . न हि भ्रमविषयस्यापि सर्वथा मिथ्यात्वं ब्रूमः,
सामान्यरूपेण देशकालान्तरादिषु सत्त्वाभ्युपगमात् ।
रजतज्ञानमिति तेन रूपेण उपलक्षणे तु सत्यमेवोपलक्षणम् ।
शुक्तिरजतज्ञानमिति प्रबुद्धपरामर्शेऽपि शुक्तिरजतत्वतत्संसर्गाणां स्वरूपतः सत्यत्वात्, शुक्तिगतात्यन्ताभावप्रतियोगिनोऽपि रजतत्वस्य शुक्तिनिष्ठतया प्रतीयमानताया अपि सत्यत्वात् ।
शुक्तिनिष्ठतया प्रतीयमानत्व -विशेषितरजतज्ञानमिति विशिष्टरजतेनोपलक्षणेऽपि न विशेषणविशेष्यतत्सम्बन्धादेरसत्यत्वं प्रपश्यामः ।
अतो न क्वचिदपि असत्यात्सत्यसिद्धिः ।
यद्यपि चासत्यानां केषाञ्चिदन्वयव्यतिरेक -नियमात्सत्यसिद्धिहेतुत्वनियमः,तथाऽपि नासत्यादेव सत्यब्रह्मसिद्धिनियमो व्यवहर्तुं शक्यते,अदर्शनादन्वयव्यतिरेकासिद्धेः ।
सम्भावनामात्रेऽपि यादृच्छिकसंवादिलिङ्गविभ्रमादिवत् प्रमाणत्वाभावात् ।
असत्यात्सत्यसिद्धिनिर्णायकस्यापि प्रमाणत्वानुपगमेन विवक्षितासिद्धेश्च ।
बाधाभावस्य च परिहरिष्यमाणत्वात् ॥
यत्तूक्तं विषयमिथ्यात्वे तद्विषयज्ञप्तेरपि सत्यत्वं न सिध्यतीति, तदपि हास्यम् ।
कारणमिथ्यात्वे कार्यमिथ्यात्वस्य च तुल्यन्यायतया दुस्त्यजत्वेनासत्यात्सत्योत्पत्तिभङ्गात् ।
एवं ज्ञापकमिथ्यात्वे ज्ञाप्यमिथ्यात्वमपि स्यात् ।
इदं च स्वसिद्धान्तोच्छेदनमनवेक्षमाणैरुच्यते, मिथ्याभूतप्रपञ्चसिद्धिरूपस्य ब्रह्मणोऽपि मिथ्यात्वप्रसङ्गात् ।
ब्रह्म स्वप्रकाशात्मकमेव, तथाऽपि साक्षिप्रकाशो वृत्तिप्रकाशो वा प्रपञ्चसिद्धिरूप इति चेन्न; तयोर्ब्रह्मव्यतिरेकेण सत्यत्वे भेदवादावतारात् ।
अव्यतिरेकेण सत्यत्वे तूक्तदोषानतिक्रमात् ।
असत्यत्वे तु तयोरपि ब्रह्माधीनसिद्धित्वेन तत्रैवोक्तदोषप्रसङ्गात् ।
अस्तु
ब्रह्मणोऽपि मिथ्याविषयत्वं मिथ्यावेद्यत्वं च, तथाऽपि बाधाभावात् सत्यत्वमिति चेत्, तुल्यम् ।
सविषयावृत्तिस्तत्र बाध्यत इति चेन्न; स्वप्नादिषु दर्शनमस्त्येव, अर्थास्तु न सन्तीत्येव बाधकप्रत्ययोदयात् ।
विषयाभावे कथं विषयित्वम्, विषयित्वाभावे च कथं ज्ञानत्वमिति चेन्न; अतीतविषयानुमानादिषु विषयाभावेऽपि विषयित्वदर्शनात् ।
यद्देशकालादिवृत्तितया यस्य प्रतिभासः, तद्देशकालादिवृत्तितया तस्य सद्भावे कथं तत्र विषयाभाव इति चेन्न; अत्रापि यथाकथञ्चिद्विषयस्य विद्यमानत्वात् ।
तदुक्तम् -
जन्मन्येकत्र भिन्ने वा तथा कालान्तरेऽपि वा ।
तद्देशे वान्यदेशे वा स्वप्नज्ञानस्य गोचरः’’ ॥ इत्यादि ।
तथाऽपि प्रतिपन्नोपाधिसम्भेदेन विषयस्य विद्यमानत्वं नास्तीति चेन्न; तावताऽपि तद्विषयत्वस्यानपायात् ।
प्रामाण्यमात्रमेव हि ततो निवर्तते ।
अख्यात्यादिपक्षे च क्वचिदपि विषयमिथ्यात्वानभ्युपगमात्, विषयमिथ्यात्वस्य च दूरतो निरस्तत्वात्; असत्ख्यातित्वस्यैवान्ततस्सत्त्वात्; तदसत्त्वे तत्पक्षाङ्गीकारस्यैवानुपपन्नत्वात्; उपपन्नत्वाङ्गीकारे चानियमात्, न कथञ्चिदप्यसत्यात्सत्यप्रति पत्तिरुदाहर्तुं शक्यते ।
यत्तु वस्तुतोऽसत्यस्यापि न सहसा पुनश्शास्त्रस्यासत्यता धियमधिरोहतीति ।
किं ततः?निर्विशेषबोधकत्वव्यवसायोपपत्तिरिति चेन्न; तदुपपत्तावपि तत्प्रमात्वसिद्धेः ।
आरोपितलिङ्गेन लिङ्गबुद्धिवत् ।
ततश्च सत्यब्रह्मव्यवसायासिद्धिः ।
न च शास्त्रस्यासत्यता सहसैव धियं नाधिरोहति, ब्रह्मव्यतिरिक्तसमस्तमिथ्यात्वश्रवणवेलायामेव शास्त्रस्य तत्प्रामाण्यस्याप्येकप्रहारेण बाध्यमानत्वात् ।
अन्यथा
सजातीयविजातीयादिसमस्तभेदशून्यब्रह्मप्रतीत्यनुदयप्रसङ्गात् ।
एतेन प्रमाणस्वरूपमिथ्यात्वेऽपि प्रामाण्यमस्तीति विप्रलम्भव्यवहारोऽपि दत्तोत्तरः ।
न च बाधितानुवृत्त्या सदिति प्रतीत्यनुवृत्तेः शास्त्रस्य कारणत्वम्, वाष्पादौ बाधितानुवृत्त्या धूमादिभ्रमे वर्तमानेऽपि धूमध्वजानुमानाद्यदर्शनात् ।
यत्तु मिथ्याभूतशास्त्रप्रतिपन्नस्यापि ब्रह्मणो बाधो न दृश्यत इति, तदसत्, कारणदोषनिश्चयादेव बाधसिद्धेः ।
तदुक्तम् -
“दुष्टकारणबोधे तु सिद्धेऽपि विषयान्तरे ।
अर्थात्तुल्यार्थतां प्राप्य बाधो गोदोहनादिवत्’’ इति ।
यत्तत्रानैकान्त्यमुक्तम्, तदपि मन्दम्, संवादकान्तराभावसहकृतकारणदोषनिश्चयस्य बाधाव्यभिचारित्वात् ।
शून्यमेव तत्त्वमिति माध्यमिकवाक्येन च साक्षाच्च बाधो दृश्यते ।
तद्वाक्यं दोषमूलत्वेनाप्रमाणत्वान्न बाधकमिति चेत्, तर्हि वेदान्तवाक्यान्यपि दोषमूलत्वेन भवतैवाभ्युपगतानि न विश्वबाधकानि स्युः ।
दोषावान्तरभेदकल्पनं चाप्रयोजकमेव ।
व्यावहारिकव्यवस्थया वेदान्तानां प्रामाण्यसिद्धिरिति चेत्, किं तद्व्यावहारिकत्वम्? अप्रामाणिकत्वेऽपि प्रामाणिकवत्प्रतिभासमानत्वमिति चेन्न; माध्यमिकैरपि तच्छास्त्रस्य तथैव प्रामाण्याभ्युपगमात् ।
त्वदनभ्युपगमस्य प्रयोजकत्वे तदनभ्युपगमस्यापि तत्प्रसङ्गाच्च ।
एवमनुपपन्नत्वेऽप्यनुपपन्नवद्भासमानत्वमित्यादीन्यपि लक्षणानि निरस्तानि ।
व्यावहारिकव्यवस्थया वेदप्रामाण्यं च त्वया दुरुपपादमिति स्थितमन्यत्र ।
अतस्स्वपक्षस्थापकप्रमाणपारमार्थ्यानभ्युपगतौ न कथञ्चिदपि स्वसिद्धान्तस्थितिरिति सिद्धं सत्यादेव सत्यस्य ब्रह्मणस्सिद्धिरिति ॥
॥इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यामसत्यासत्यसिद्धिभङ्ग
वादः त्रिंशः ॥30॥
नृसिंहराजीया
पूर्वमसत्यात्सत्यसिद्धिं दूषयिष्याम इत्युक्तम् । तद्दूषयिष्यन् वादार्थं सङ्गृह्णातिसत्यैरिति। सत्यभूतैस्सदातनोक्तिनिवहै ः तत्वहित पुरुषार्थप्रतिपादकत्वेनानेकविधैरित्यर्थः । यद्वा भेदाभेदघटकश्रुति निवहैरित्यर्थः ।सत्यप्रमाहेतुभिरिति। सत्यवस्तुगोचरप्रमायाः हेतुभिर्यद्वा सत्यभूतायाः प्रमाहेतुतद्धेतुभिरित्यर्थः ।र्निर्दिश्यते प्रतिपाद्यते सतैर्गुणगणैः परिकर्मितमलङ्कृतं सत्याभिसन्धिक्रमः - सत्यसङ्कल्पः प्रकारो यस्येत्यर्थः ।सत्यस्येति । निर्धारणे षष्ठी। चेतनेषु सत्यमित्यर्थः । सत्यशब्देन नित्यत्वं विवक्षितम् । सर्वचेतनानां नित्यत्वेपि तेषां गुणविग्रहादिविशिष्टतया नित्यत्वाभावादीश्वरस्यतुनित्योनित्यानां चेतनश्चेतनानां(कठ - 2 - 5 - 13 श्वे 6 - 23) च तत्सत्यादिति भावः । पूर्वार्धेन वादार्थसङ्ग्रहः ।उतरार्धेन तत्फलसङ्ग्रहः । कारणत्वस्य पूर्वं सत्वरूपत्वादन्त्यस्तदसम्भवादनुवादानर्हः पूर्वपक्ष इत्यभिप्रायेणाहयः प्रलापइति।सिद्धिर्ज्ञानम् असत्यादित्युत्पत्तिप्रदर्शनदृष्टान्तार्थ उत्पत्तौ निदर्शनमारोपितेत्यादिशङ्का विषभावितगरुडनिदर्शनमपरोक्षोप्यनिर्वचनीयाङ्गीकारेण । आदिशब्दाभ्यां मनसि ब्रह्मदृष्टिः तत्फलं च विवक्षितम् । ज्ञप्तौ निदर्शनमाह ।तथेत्यदि। प्रतिबिम्बे बिम्बभेदाध्यासात्तद्विष्टरूपेण सत्यत्वंलिप्यक्षरैः लिपावध्यस्ताक्षरैः रेखायामध्यस्त गवयवानरादिभिश्चित्रेऽध्यस्तपुरुषहस्त्यादिभिः भारतरामायणादि प्रतिपाद्ययुधिष्ठिराघवादिवृत्तान्तादिज्ञानमित्यर्थः ।नादेति। नगोनाग इत्यादौ कल्पित ह्रस्वदैर्ध्यादिभेदस्य स्फोट रूपशब्दस्यार्थ भेदहेतुत्वमिति भावः ॥यदृच्छासन्निहितेति। सत्य इत्यर्थः। अत्र किं ज्ञानस्वरूपमात्रं कारणम् उतविषयविशेषितमिति विकल्पाभिप्रायेणाहन ज्ञप्तीति। नागृहीतेति"“नागृहीतविशेषणा विशिष्टे बुद्धिरूत्पद्यत’’ इति न्यायेन ।लिङ्गविभ्रमादिति। भ्रमाध्यस्तलिङ्गादित्यर्थः । साध्यसिद्धिः - सत्यसाध्यसिद्धिः । अत्र किं क्वचिदापाद्यते उत सर्वत्र आद्य आहयादृच्छिकेति। द्वितीयं शङ्कतेतत्सिद्धिनियमइति । शङ्कतेव्याप्तीति। ननु तत्राप्यसति वह्निव्याप्तिरस्तु असत्यापिव्याप्तया वह्निसिद्धिरस्त्वित्यत्राहबहुलत्वेति। बहुलत्वमविच्छिन्नमूलत्वम् ऊर्ध्वत्वं भ्रङ्कषत्वम् । यथान्वयव्यतिरेकाभ्यां धूमे बहुलत्वादे वह्नि व्याप्त्युपयोगिता तथा लिङ्गेनारोपितत्वस्यापि व्याप्त्युपयोगिता तथा व्याप्त््यावप्यनारोपितत्वस्य साध्यसिद्धिप्रयोजकतेत्यर्थः । नन्व सत्यात्प्रतिबिम्बात् बिम्बसिद्धिः कथमित्यत्राहप्रतिबिम्बादेश्चेति। व्याप्तेस्सत्यत्वादित्यर्थः । नन्वसद्धूमवदसति प्रतिबिम्बे कथं सा सती स्यादित्यत्राहप्रतिबिम्बस्य असत्यत्वेपीति। व्याप्यव्यापकयोरन्यतरस्य सत्वादिति भावः उभयनिरूप्यत्वाद्व्याप्तेरन्यतराभावे सत्यं न स्यादिति परिहरतिव्याप्तिस्तर्हीति। विषयस्याहेतुत्वेप्यसत्यात्सत्यसिद्धिरपरिहार्या । ज्ञानस्याप्यसत्वादित्यत्राहन चेति। नन्व सत्यात्सत्यसिद्धिसम्भवेप्यसत्यतया ज्ञातच्छास्त्रा तत्सिद्धिर्नस्यात् यथाह्य सत्वेन ज्ञाताद्धूमात् वह्न्यनुमितिर्नस्यादित्यत्राहअत इति। युक्तं धूमादावसत्वेन ज्ञानस्य पक्षधर्मताज्ञानादिविघटकत्वात् प्रकृते त्वसत्वेन ज्ञानस्य न विरोधित्वमाकाङ्क्षादिज्ञान विरोधित्वा भावा भावः । एवमत्यतया ज्ञानमभ्युपगम्योक्तम् । वस्तुतस्तु तदेव नेत्याहन चेति। श्रवणदशामारभ्य निवर्तकज्ञानोदयपर्यन्तं शास्त्रस्यासत्यतानधियमधिरोहति । अपितु तदतिरिक्तानामेव । ततश्च मनन निदिध्यासनाभ्यामसम्भावनाद्विपरीत भावना निरोधे सति अनन्तरोत्पन्न ज्ञानमेव शास्त्रस्याप्यसत्यतां विषयीकरोतीत्यर्थः । ननु शास्त्रं प्रपञ्च निवर्तकज्ञानेनैव निवर्तते उतान्येन आद्ये निवर्तक ज्ञाननिवृत्यर्थः ज्ञानातंरमपेक्षणीयम् । द्वितीये स्वनिवृत्यर्थमपि ज्ञानान्तरमित्युभयथा प्यसत्यतया ज्ञानस्य शास्त्रस्य ज्ञानोत्पादकत्वमावश्यकमित्यत्राहअतो बोधनदशायामिति। शास्त्रमेव सर्वासत्यता बोधजनकम् अन्ततश्च तद्ज्ञानात्पूर्वमर्थान्तरम् इव शास्त्रेप्यसत्यता बोधोऽस्त्येव । ततश्च बाधकज्ञानाभावाच्छास्त्रात्सर्वनिवर्तक सर्वासत्यताबोधसिद्धौवार्थान्तरैस्सर्व शास्त्रं निवर्तकज्ञानं च सर्वं तद्ज्ञानेन निवर्तत इत्यर्थः ।सदित्यवभासाज्जन्येत्यन्वयः । ननु बाधात्प्रपञ्च सत्यत्वं साधयता त्वया ब्रह्मणस्सत्यत्वं नाङ्गीकर्तुं शक्यम् ।तत्रापि बाधसम्भवादतः कथमसत्यात् सत्यसिद्धिरिति शङ्कां परिहरतिन च वाच्यमिति। बाधः किं प्रात्यक्षिकमुतानुमानिकः नाद्य इत्यत्राहअदर्शनादेवेति। बाधस्य प्रत्यक्षतो दर्शनाभावादित्यर्थः । द्वितीये आहन च कारणेति। दुष्टकारणजन्यत्वस्य अप्रामाण्य व्याप्तत्वादप्रमाण्यानुमितौ तदन्तर्भावेन विषयबाधं फलिष्यतीति नयुक्तं दोषमूलत्वस्य व्यभिचारेण व्याप्त्यभावादिति भावः । उपसंहरतिवस्तुत इति । अत्रोच्यत इति। ज्ञानादिभिरित्यदिशब्देन लिप्यादिपरिग्रहः। ननु ज्ञानस्य वैचित्र्ये शक्तिवैचित्र्यम् । शक्तिवैचित्र्यं च विषयवैचित्र्यादित्याशङ्कतेविषयविशेषमिति।आद्य इति। ज्ञान सामग्रीवैचित्र्यादेव ज्ञानवैचित्र्यं न विषयविशेषादित्यर्थः । ननु सामग्रीवैचित्र्यमपि विषयविशेषादेवेति शङ्कतेतदेवेति । सामग्री वैचित्र्येति। सामग्रीवैचित्र्यं तत्सामग्री वैचित्र्यादेवेत्यर्थः । ननु ज्ञानसामग्रीवैचित्र्यप्रयोजकं तत्सामग्रीवैचित्र्यं विषय एवेत्यत्राहसामग्रीवैचित्र्यादेवहीतितत्प्रयोज्यत्वान्नप्रयोजकमित्यर्थः । ननु सामग्रीवैचित्र्याधीनवैचित्र्यविशिष्टं ज्ञानं हेतुरिति वाच्यम् । वैचित्र्यं च विशेषः तत्तद्विषयत्वमेववान्यस्यासम्भवात्तस्य च तत्तद्विषयस्वरूपत्वमिति विषयस्यापि भयादिहेतुता प्राप्नोतीत्याशङ्क््य निराकरोतिनचेति ।एकेति। तथा च ज्ञानवैचित्र्यं विषयादेवेति नियमासिद्धिरिति भावः । विशेषदर्शनाद्वैचित्र्यदर्शनादित्यर्थः ।ज्ञप्तिसामग्रयनुप्रविष्ट इति। ततश्च विषयादेव ज्ञानवैचित्र्यमि शङ्कार्थः । ज्ञानमात्रे विषयस्य करणत्वमुतप्रत्यक्ष इति विकल्प्य आद्य आहअतीतानागतेति। द्वितीय आहअस्मदादीति। सम्प्रयोगस्सन्निकर्षः ।सम्प्रयोगाधारत्वमितिप्रकाशात्प्रागिति शेषःचक्रकेति। विषये सति सम्प्रयोगे सति प्रकाशः । प्रकाशे सति प्रातिभासिकरजतादि विषय इति चक्रकमित्यर्थः । ज्ञप्तिप्रश्न पक्षं दूषयतिद्वितीय इति। यथाभिमानं तन्मतभेदेन गुरुमते स्वयम्प्रकाशान्नैयायिकमतेऽनुव्यवसायाद्भाट्टमते ज्ञाततालिङ्गकानु मानाद्वैचित्र्य= ग्रह इत्यर्थः ।ननु भयजननशक्तिसाम्येपि भये तारतम्यदर्शनात् सर्पव्याघ्रादि भ्रमेषु शक्ति वैचित्र्यं विषयविशेषादेवावसेयम् । तथा चा सत्यस्य सत्यवैचित्र्य धीहेतुत्वं सिद्धमिति शङ्कतेतथापीति। तत्र उभयतारतम्यादेरेव तच्छक्तितारतम्यमनुमातुं शक््यम् । तथापि पराभ्युपगमेनेव परिहरतिनेति।तत्प्रकाशं प्रतीतितद्विषयस्या सत्वाद्दोषाधीनप्रकाशत्वादिति भावः । तत्प्रकाशप्रयोजकत्वे सत्यादित्यत्रासत्यादिति भेदः । एवं शक्ति वैचित्र्यादिति प्रसङ्ग परिहारः उक्तः । सम्प्रति विषयवैचित्र्यादतिप्रसङ्गनिरासेपि न दोषइत्याहतदुपलक्षितज्ञानस्येति । अतिप्रसङ्गादिति। चन्द्रोपलक्षक शाखाया अपि चन्द्रकार्यविषयप्रकाशहेतुता प्रसङ्गादित्यर्थः । विषयप्रकाशे चन्द्रमात्रस्य प्रयोजकत्वेपि दोषाभावादत्रतु ज्ञानमात्रस्य भयादि हेतुत्वा दर्शनाविशेष इति शङ्कतेअन्वयव्यतिरेकाभ्यामिति। अनन्यथासिद्धान्वयव्यतिरेकौ कारणता ग्राहकौ तावत्रनास्तीति परिहरतिविषयस्यैवेति । निरपेक्षाया इति। सर्पादिविषयकत्वनपेक्षया इत्यर्थः ।विपरिवर्तप्रसङ्ग इतिविषयोपलक्षितज्ञानस्य हेतुत्वे ज्ञानविषयीभूतविषयस्य कारणत्वमिति विपरिवर्तप्रसङ्गइत्यर्थः ।ज्ञप्तेरूपलक्षणत्व इति। उपलक्षणीभूतज्ञानाभावकालेप्युपलक्ष्यस्य विषयस्य सत्वादिति भावः ।कार्योत्पत्तीति। तेजोगतोद्भूतरूपवत्स्वतन्त्रान्वयव्यतिरेक सत्वादिति भावः ।विषयोल्लेखमिति। विषयमात्रं नोपलक्षणम् । अपितु विषयोल्लेखो ज्ञानगतो धर्मः तदभावे ज्ञानस्यावस्थानमेव नास्तीति भावः । ननु सिद्धान्ते विषयानुल्लेखेनापि ज्ञानस्वरूपावस्थानादिति प्रसङ्गस्तुल्य इत्यथ आहअप्रसृतेति ।ज्ञानावस्थाविशिष्टं कारणं तदेव च विषयोपलक्ष्यम् । तच्च प्रसरणविशेषदशाया मेव नानुल्लेखावस्थायाम्मतिप्रसङ्ग इत्यर्थः।क्षणभङ्गेति। ज्ञानव्याप्तिः ज्ञानकालमात्रसत्वे भवति ज्ञानात्मकत्वे वा आद्ये ज्ञानस्य क्षणमात्र स्थिति कत्वादर्थस्यापि तथापत्तिः । द्वितीयेचात्मख्यातिस्यादित्यर्थः । आदिशब्देन शून्यवादो ग्राह्यः । तदङ्गीकारेऽपसिद्धान्त इत्याहत्वये वेति। ननु ज्ञाने विषयस्योपलक्षणत्वान्नभयादिहेतुत्वं तदा लङ्गस्याप्यनुमितौ करणता न स्यादित्या शङ्कतेतथापीति।तत्रद्वयोरितिअनुमितौ लिङ्गात ् ज्ञानयोरित्यर्थः ।लिङ्गज्ञानस्यान्यथा सिद्धि शङ्कतेलिङ्गज्ञानेऽपीति। ननु लिङ्गविभ्रमादावपि भ्रमरूपानुमिर्तिर्भवत्येवेत्यत्राहतदुपलक्षितेनेति। प्रमारूपानुमितावेव हेतुत्वमित्यर्थः ।अत इति। यतो लिङ्गविभ्रमादिस्थले भ्रमरूपानुमिति प्रसङ्गस्ततो न विषयस्योपलक्षणत्वम्मित्यर्थः। अत्रापि तर्हीति। ज्ञानमात्रं सर्पाद्युपलक्ष्यमविशेषादिति भावः ।हर्षादिसिद्धिप्रसङ्ग इति। कृत्वा विषयस्यापि हेतुत्वमायास्यतीति भावः। सर्पादिना तद्विषयकमेव ज्ञानमुपलक्षणमिति परिहरतितद्विषयोपलक्षणेतिसविषयः उपलक्षणं यस्येति बहुव्रीहिः । क्वचित्तद्विषयो पलक्षितेति पाठः ।यथेति। पाकजरूपसमानाधिकरणद्रव्यत्वसाक्षाद्वयाप्यजतिः पृथिवीत्वमित्यत्रजातिविशेषःपृथिवीशब्दवाच्य न रूपं तथेहविषय इत्यर्थः । अयं भावः । ज्ञाने धर्मविशेष एव व्यावर्तकोः न विषयः । स जातिरन्योपेत्यन्यदेतत्तादृश धर्मविशेषोपलक्षणाय घट ज्ञानं पट ज्ञानमिति व्यवहारः । तद्वाचकासाधारणशब्दाभावाद्यधिक्षीर माधुर्यं गुडमाधुर्यमिति । तथा च न सर्वा व्यावर्तकत्वमिति न तस्य हेतुता ।गन्धइति । वस्तुतो न लिङ्गं कारणम् । परामर्श घूमोपलक्षित ज्ञानस्यैव प्रमानुमिति हेतुत्वादतो न तदृष्टान्तानुरोधावपि विषयो हेतुरित्याहभवतु वेति । तथापीति ।तथा चेत्यर्थः ।तत्रापीति ।अनुमितौ परामर्शविषयस्येत्यर्थः । कारणतायां साधकाभावमुक्त्वा यः बाधकं चाहकिञ्चेति। पौर्वापार्यं हि पूर्वापरकालसत्वम् । असतःकदापि सत्वं बाधितमिति भावः । धन्यमितिधनं प्रयोजनमस्येत्यस्न्निर्थे"“स्वर्गादिभ्यो यदिति’’ यत्प्रत्ययां तेन धनहेतुत्वावगतिरिति भावः । अपिशब्देन पानं च मद्यस्य पुरीषलपः ।““यदा कर्मसुकाम्येषु स्त्रियं स्वप्नेषुपश्यति समृद्धिं तत्र जानीयात्तत्र स्वप्ननिदर्शने’’ । (छां - 5 - 2 - 8) ““पुरुषं कृष्णं कृष्णदन्तं पश्यते एवं हन्न्ति ।’’(ऐ - आ 3 - 2 - 4)इत्यादिश्रुति स्मृत्यादिसङ्ग्रहः ।यूपादित्यवाक्यवदुपचारोत्रेत्याहउपचारेति । अथ रथान् रथयोगान् पथः सृजते स हि कर्तेति(बृ - 6 - 3 - 10) श्रुत्यनुसारि सिद्धान्तेनाहस्वप्नार्थानामिति। लिपिः - रेखा सङ्केतः । अस्या लिपेरयं वर्णो बोद्धव्य इति बुद्धिविशेषः । गकारादिर्वर्णः ।वर्णबुद्धेर्लिप्यक्षरपदेन विवक्षायां दूषणान्तरमाहन चेति। भ्रमप्रमाभेदान्नात्माश्रय इति शङ्कते ।न चेति।वर्णभ्रमेसङ्केतभ्रमस्य कारणत्वमिति प्रमायामपि तस्यैव कारणत्वमिति भावः । तत्पारमार्थिकत्वस्य भ्रमसत्यत्वस्य ।ननु रेखायां गवयभ्रमात्सत्यगवयस्मृतिरित्यत्राहरेखागवयेपीति। यद्यपि गोसदृशो गवय इत्युपलक्षणेन गवय प्रतिपत्तयनन्तरं रेखा गवयेऽपि गवय भ्रमः । तथापि तेन भ्रमेण ततः परं तस्याप्यर्थस्यासिद्धेर्ना सत्यात्सत्यधीरित्यत्राहयत्रत्विति । चित्रेति। चित्रे क्वचिच्चित्रं प्रदर्श्यतदनुरूपपुराणवृत्तान्तस्योप देशाद्यत्रतु विस्रम्भणीय पुरुषलिखितत्वनिश्चयः तत्रानुमानात्पुराणवृत्तान्तज्ञान मित्यर्थः । नगो नागइत्यादौ कल्पित हस्वदैर्घ्यादि विशिष्टशब्दत्वेन कारणत्वम् । किन्तु ह्रस्वदैर्घ्यनादाभिव्यक्तित्वेन । तथैवं सङ्केतग्रहा त्तत्र ह्रस्वदीर्घा नादाभिव्यक्तत्वविशेषणम् । शब्दस्वरूपं च सत्यामेवेत्याहनादेति। इदं चाभ्युपेत्योक्तम् । वस्तुतो नानात्वह्रस्वदीर्घत्वदिकं स्वाभाविकमित्याहन चेति। कल्पकं शङ्कतेक्रमेति। शब्देनवर्णाःप्रत्येकं बोधकाः सम्भूय वा । नाद्यः एक वर्णेन बोधसिद्धौ वर्णान्तरवैयर्थ्यात् । न द्वितीयः यौगपद्यासम्भवात् ।तस्मात्वर्णातिरिक्तोर्थ बोधकः स्फोटो नामकश्चिदभ्युपेय इत्यर्थः ।““शब्दब्रह्मणिनिष्णातः परं ब्रह्माधिगच्छति’’।इति प्रमानानुसाराद्योगिनामुप - लम्भोप्यस्तिहीत्याहतच्चेति। आगममपि प्रमाणयतिस्फोट इति। एवं च पदस्फोटेसिद्धे लाघवात्तदैक््यकल्पित दैर्घ्यादिभेदादर्थ भेदधीरिति भावः । स्फुटीकरणशक्तिःअर्थ प्रतिपादनसामर्थ्यम् ।समाधिग्रन्थेष्वपीति। वाचकशब्दापेक्षया भिन्नस्य वाचकताप्रयोजकस्य तात्पर्यग्रहानुकूलत्याय - कलापस्येत्यर्थः ।विधेरिति। योगिनां मन्त्रजपस्य"“तज्जपस्तदर्थ भावनामिति’’(पा - यो सू - 1 - 28)योगसूत्रेण तदर्थानु सङ्घानात्मकत्वेन निर्णीतत्वादर्थानुसन्धानानुकूलव्यापरश्शब्द ब्रह्मपदार्थ इति तन्निष्ठाः शब्दब्रह्मणीत्यादिना विधीयत इत्यर्थः ।आचार्यग्रन्थः - श्रुतप्रकाशिकादिः ।अग्निसिद्धिरिति। सिद्धिः प्रमाणा भावाधीना सत्वशङ्काविच्छित्तिः । सा च संवादिप्रमाणान्तराधीनेति भावः ।अत एवेति। अग्निसिद्धिसामर्थ्याभावादेव तद्व्यक्तेः प्रमाणत्वेपि प्रमाणत्वेन नव्यवह्रियत इत्यर्थः ।प्रमाणान्तरसंवादाद्ब्रह्मसिद्धिरस्त्वित्यत्राहअत्रापीति । भवदृष्ट्येति। पूर्वोक्तरीत्येति भावः । कौमुत्येनाप्यसत्यासत्यसिद्धिर्नास्तीत्याहअसत्यस्यापीति। ननु उपलक्षणत्वोक्तिरेवहेतुत्वोक्तेरिति शङ्कतेननूपलक्षणत्वं नामेति । उपलक्षणं हीति। तथा च ज्ञाप्यबहिर्भावे सत्युपलक्ष्यज्ञानहेतुज्ञानविषयत्वम् । उपलक्षणत्वमित्यर्थः । ननु लाघवादुपलक्ष्यज्ञान हेतुत्वमेवोपलक्षणत्वम् । तथाचा सतोपि हेतुरस्त्वित्यत्राहअन्यथेति। आगामि घटज्ञानस्य तच्चिकीर्षाद्वाराघटनिर्माणप्रयोजकत्वादिति भावः । विषयस्य हेतुत्वाभावे कुविन्दज्ञानस्यापीत्यत्यत्राहकुविन्द ज्ञानस्यापीति ।भेदः कार्यस्य वैषम्यं शङ्कतेकार्यस्यतर्हीति ।तत्र - कार्येअसान्निध्यस्येति असत्यस्चेति शेषः तर्हीति। पटगोचरज्ञानस्य पटचिकीर्षाद्वाराहेतुत्वं माप्रसाङ्क्षीदिति घटस्यादि हेतुत्वं वाच्यमित्यर्थः ।तत्कार्यकारणायत्तमिति। कार्यकारणयोः पौर्वापर्यनियमात्कार्यस्य स्वपूर्व सत्ता भावरूप वैषम्यान्नकारणत्वमित्यर्थः ।तुल्यमत्रापीति। पूर्वसत्वाभावस्य तुल्यत्वान्नकारणतेति भावः । आगामि घटादेरपि हेतुत्वमस्त्वित्यभिप्रायेण शङ्कतेअसत्वेपीति। व्यघातमुपपादयतिनियतेति। कारणत्वमिति शेषः ।युष्माकमपीष्टमित्याहव्यावहारिकमपीति।तेनैवनियतपूर्वभावत्वेनैवकारणपदार्थविवेचनेन कारणस्य सत्वमुक्तम् । प्रकारान्तरेणापि तदाहकारणं हीति।ननु भावित्वंशं परित्यज्य नियमेन न यस्मात्पूर्वकाले यत्सत्वं कारणत्वमित्युच्यते । इदं चासतोपिसमानमित्याहनियतपूर्ववर्तित्वमिति। नियत पूर्वत्वमितीत्यनेन योऽर्थोभिधीयते तन्मात्रस्य निर्देशेपीत्यर्थः ।तत्रेति। नियमेन यदीत्यत्र साकाङ्क्षत्वादस्तीति नास्तीति वा वक्तव्यमित्यर्थः । नन्वस्ति नास्तीत्युभयमाकाङ्क्षते । तत्रास्तित्वगर्भलक्षणं कारणत्वं दण्डादिषु सत्सु नास्तित्वगर्भमसत्सु भवत्वित्यत्राहपरस्परेति। उभयघटितं कारणत्वं न सम्भवतीति विरोधात्प्रत्येकघटितत्वेनानुगम इति भावः । नन्वन्यतरत्वेनान्वयोस्तु तथा च न विरोधो नाप्यननुगम इत्यत्राहतत्रासद्भावेति ।कार्यात्पूर्वं सत्वस्य कारणत्वाभावव्याप्यतया ग्रहादसतः कारणत्वं विरुद्धमेवेत्यर्थः । किं चान्यतरत्वेनानुगमोपि भाविन्यकारणेऽति व्याप्तत्वात्तद्व्यावृत्यर्थं सत्वविशेषणमावश्यकम् । तथा च लाघवात्तन्मात्रमेव परिशिष्यत इत्याहसद्भावपक्षस्त्विति । सिद्धिरिति। उत्पत्तिः ज्ञप्तिश्चेत्यर्थः । असतः कारणत्वं श्रुतिरेव प्रतिक्षिपतीत्याहश्रुतिरपीति। ननु प्रपञ्चस्य प्रकृतिमूलत्वात्प्रकृतेश्चाविद्यात्वात् तस्या मिथ्यासत्कारणत्वसिद्धिरित्यत्राहः ।सन्मूला इति ।प्रपञ्चोपादनस्याविद्याशब्दवाच्यत्वेपि न मिथ्यात्वमिति भावः ।सदेवेति। इदमग्ने - स्वोत्पत्तेः पूर्वं सदेव सद्रूपकारणकमेवेत्यर्थःअवश्येति। उपलक्षणत्वस्येत्यर्थः । ननु ज्ञानं भयादिहेतुश्चेत् विषयस्योपलक्षणत्वज्ञानावश्यकत्वेप्युपलक्षणत्वमावश्यकम् । अन्यथा ज्ञानान्तरस्यापि भयादि कार्यजनकत्वापत्तेरिति चेन्न । ज्ञानविशेषस्य कारणत्वं तत्स्वरूपज्ञानमपेक्षितं चेत्तद्विषयज्ञानेन ज्ञायत इति तद्ज्ञानं नावश्यकमिति भावः । बिम्बानुमानेपि ज्ञानस्यैव हेतुत्वं पूर्वोक्तन्यायेन सिद्धम् । इदानीं लिङ्गस्य हेतुत्व पक्षेपि नासत्यात्सत्यसिद्धिरित्याहकिञ्चेति । विप्रतिपन्नइतिपक्ष विशेषणमितिवानुमानप्रवृत्तिरितिएतत्प्रयोगानुरूपानुमानमित्यर्थः । ज्ञानस्य च ज्ञनत्वस्य चेत्यर्थः । ननु प्रतिबिम्बचद्रं पक्षीकृत्य चन्द्रत्वादिति हेतुप्रयोगे प्रतिबिम्बचन्द्रस्य तत्र चन्द्रत्वस्य च प्रतिभासिकत्वे नासत्यात्सत्यसिद्धिस्यादित्यत्राहनहीति। सत्यचन्द्रे व्यभिचारान्नतथानुमानमित्यर्थः। ननु प्रतिबिम्बत्वस्य हेतुत्वेपि तदेव प्रातिभासिकं स्यदित्यत्राहअपित्विति। जलादौ चन्द्रत्वेनारोपितत्वमेव प्रतिबिम्बत्वमिति भावः । कथं परमार्थत्वमित्यत्राहयथेति। इदं रजतमिति ज्ञानस्य रजतत्वेनारोपितमिति ज्ञानं बाधकत्वात्तत्विषयमिति वाच्यं तथाच प्रतिबिम्बमिति ज्ञानमपि बाधकत्वात् तत्त्वविषयमिति तद्विषयप्रतिबिम्बत्वादेस्सत्यत्वमिति भावः । लिङ्गस्य कारणत्वेप्यसत्यात्सत्यसिद्धभावमुपसंहरतिततो वेति। विषयस्यासतः कारणत्वेपि मिथ्याभूताच्छास्त्रात् ब्रह्मसिद्धिमाहकिं चेति। ज्ञातृत्वं - ज्ञानसम्बन्धः । आदिशब्देन ज्ञात्रादेः परिग्रहः । विषयातिरिक्तस्य सत्यस्य करणस्याभावेपि सिद्धिर्न भवतीति भावः । असत्वं च मुपलक्षणत्वं विषयस्याभ्युपगम्य परिहृतम् । अथानभ्युपगम्य परिहर्तुमनुवदतियत्विति ।स्वप्रकाशेन ज्ञानेन ज्ञानविषयर्योयुगपदेव ग्रहान्नविषयज्ञानत्वरूपमूललक्ष्यत्वं ज्ञानस्यास्ति । अनुव्यवसायपक्षेपि विशेषणज्ञानस्य । हेतुत्वान्नास्तीत्यर्थः । उपलक्षणत्वाङ्गीकारेपि भ्रमविषयस्य सत्वेनासत्वाभावात्परिहरतिअभ्युपगम्यापीति। सर्वथेति। स्वरूपतो न मिथ्यात्वम् । किं तु प्रतिपन्नदेशकालयोरित्यर्थः ।सामान्येति। देशकालविशेषान्निर्धारण सामान्यमिति भावः । आदिशब्देन क्रियागुणादिः ।दूषणान्तरमहरजतेत्यादिना। किं रजतज्ञानमिति ज्ञानेन सत्यस्योपलक्षणतया हेतुन्वमुच्यते उत शुक्तिरजतज्ञानमिति ज्ञाने इति विकल्पमभिप्रेत्य प्रथमे; दोषमाहरजतज्ञानमिति। रजतज्ञानमित्यत्र रजतत्वेनोपलक्षणता स्यादिति सत्यमेवोपलक्षणमित्यर्थः । द्वितीय आहशुक्तिरजतेति। किं शुक्तिरजतज्ञानमित्यत्र शुक्तिपदस्य सप्तम्यततया ज्ञानान्वयेन शुक्तिविशेष्यकं रजतत्वप्रकारं ज्ञानमिति विवक्षितम् उत शुक्तिपदस्य षष्ठ्यन्ततया रजतपदान्वयेन शुक्तिनिष्ठतया प्रतीयमानं यद्रजतत्वं तस्य ज्ञानमिति विवक्षितमिति विकल्पमभिप्रेत्य आद्य आहशुक्तिरजतत्वेति। द्वितीये शुक्तिगतेति विशेषणविशेष्य तत्सम्बधादित्यादि शब्देन विशेषणग्रहः असत्यस्य सत्यसिद्धि हेतुत्वं नास्तीत्युक्तम् । इदानीं तदभ्यपगम्यापि शास्त्राद्सत्यब्रह्मसिद्धिर्न सम्भवतीत्याहयद्यपि चेति । असत्यानामिति। प्रतिबिम्बादीनामन्वयव्यतिरेकनियमहेतुसामर्थ्यादेव सर्वत्र प्रमाणाभाव प्रयुक्तासत्वशङ्का निवर्तकप्रमितिहेतुत्वम् । न तु यदृच्छासंवादिलिङ्गवदनियम इत्यर्थः ।तथापीति। प्रमाणान्तरसंवादेन विना सत्यमेव ब्रह्म सिद्ध्यतीति निर्धारणं न सम्भवति । असत्यभूतस्य शास्त्रस्य ब्रह्मसिद्धेःप्रति बिम्बवदन्यत्रान्वयव्यतिरेकादर्शनादित्यर्थः ।अदर्शनादिति। प्रत्यक्षादि प्रमाणभावादित्यर्थः । नन्वेवमपि बाष्पारोपित धूमाद्वह्निसिद्धिरिव सत्यस्यापि ब्रह्मणस्सिद्धौ न विरोध इत्यत्राहसम्भावनेति। मानाभावप्रयुक्तासत्वशङ्कानिवर्तकत्वाभावादित्यर्थः । ननु सत्यब्रह्मसिद्धौ न सम्भावानामात्रं किं तु"“वेदान्तविज्ञानसुनिश्चितार्था’’ (तै - महाना) इत्यादि प्रमाणैस्सत्य ब्रह्मसिद्धिहेतुत्वं निश्चीयते । सोपसर्गेणात्र विपर्ययव्यवच्छेदादित्याहअसत्यादिति। तेषामपि प्रमाणानामसत्यतया तैः ब्रह्मसिद्धिजनकत्वस्यासत्यास्याप्ति शङ्किततया सत्यब्रह्मसिद्धिजनकत्वनिर्णयो न सिद्धयतीत्यर्थः । ननु बाधाभावाद्ब्रह्मसिद्धिस्सम्भवतीत्यत्राहबाधेति। मिथ्याभूत बाध प्रतिबन्धस्या विशेषादित्यर्थः ।मिथ्याभूतेति। एवं च ब्रह्मणः असत्यत्वं प्रपञ्च सत्यत्वं स्यादिति भावः ।तथापीति। तयोस्सत्यत्वे ऽसत्यत्वे वा न विरोध इति भावः ।उक्त दोषेति। ब्रह्मणो मिथ्यात्वप्रसङ्ग इत्यर्थः ।ब्रह्माधीनेति। मिथ्याभूतयोर्वृत्ति साक्षिणोः प्रकाशाधीनसिद्धित्वं वाच्यं तत्र ब्रह्मनान्यत्प्रकाशाङ्गीकारे ऽनवस्थाप्रसङ्गात् ब्रह्माधीनसिद्धित्वं वक्तव्यम् । तथा च विषयमिथ्यात्वात् ब्रह्ममिथ्यात्वं स्यादित्यर्थः । मिथ्याविषयत्वं - मिथ्याभूतप्रपञ्च - विषयत्वम् । मिथ्यावेद्यत्वम्मिथ्याभूतशास्त्र वेद्यत्वमित्यर्थः ।तुल्यमिति ।रज्जुसर्पज्ञानादिष्वतिशेषः ।स्वप्नादिष्वितिसाधारणस्य सत्वादिति भावः ।विषयित्वाभाव इति। तस्य ज्ञानस्वभावत्वादिति भावः ।अत्रापीति। अन्यथाख्यातिपक्षेपि विषयस्य यत्र क्वापि सत्वादिति भावः । यथाकथञ्चित्सत्वमेव प्रदर्शयतितदुक्तमिति। भिन्ने जन्मान्तरेवेति । वा शब्देन तदानीं वेति गम्यते । स्वप्नज्ञानस्येत्युपलक्षणं भ्रान्तिमात्रस्येत्यर्थः । तावतापीति । प्रतिपन्नोपाधावभावेति। तन्निष्ठतया ज्ञानविषयत्वं सत्यमेवत्यर्थः । अख्यात्यपीत्यादिपदेन यथार्थख्यातिग्रहः ।असत् ख्यातित्वस्येति। रजताविषयत्वादे(र) सत्यत्वाङ्गीकारेप्यसद्विषयत्वं सदित्येव त्वयेष्टव्यम् । अन्यथा मिथ्यात्वपक्षस्यैवानुपपन्नत्वादिति भावः । न तु रजताभावे रजतविषयत्वमनुपपन्नम् । सतोऽविषयत्वे असद्विषयत्वमनुपपन्नत्वादङ्गीक्रियते इत्यत्राह उपपन्नेति । एवमपि विषयस्य सत्वे तद्विषयत्वमसदिति नियमो भग्न इत्यसद्विषयक लिङ्ग ज्ञानादेवानुमितिरित्यर्थः ।किन्तत इति। स्वरूपेण सत्यत्वस्यानपायादित्यर्थः ।निर्विशेषेति। प्रतिबन्धकतासत्यता ज्ञानाभावादिति भावः ।ततश्चेतिब्रह्मसदिति निश्चयस्य प्रमात्वनिश्चयाधीनत्वायान्निश्च सम्भवीदिति भावः ।नचेति। धियमधिरोहेत्यर्थः । तदेवोपपादयतिएकप्रहारेणेति। प्रपञ्चेन सहैव सप्रामाण्यस्य शास्त्रस्यापि मिथ्यात्वेन ज्ञायमानत्वादिति भावः ।अन्यथेति।शास्त्रतत्प्रामाण्ययोः मिथ्यात्वेन ज्ञानाभावे शास्त्रप्रामाण्य भेदरूपभेदवत्वज्ञानादित्यर्थः । नन्वद्वैत प्रामाण्यस्यासत्यत्वेपि प्रामाण्यस्य सत्यत्वमारोपितलिङ्गहेतु प्रामाण्यस्यापि (मिथ्यात्व) मिति वैषम्याच्छास्त्रात्सत्यब्रह्मसिद्धिरिति कस्यचिन्मतं निरस्यति ।एतेनेति। प्रामाण्यस्याप्येक प्रकारेणबाध्यत्वादित्यर्थः ।वाष्पादिति। धूमो न भवति बाध ज्ञानेप्यैपाधिक धूम भ्रमाद्वह्न्यनुमित्य भावादित्यर्थः ।यत्विति। अत्रपि बाधो निषेधः। कारण दोषेति। इयं प्रतीतिस्तद भाववति तद्गोचरा दुष्टकारणजन्यत्वादिनुमानद्वारा विषयाभाव प्रतीतेस्सम्भवाद्बाधकज्ञानं सिद्धमित्यर्थः ।दुष्टकारणेत्यादिपूर्व मेवव्याख्यातम् । अनैकान्त्यमुक्तमितियदृच्छासम्भवादि लिङ्गभ्रमादिभिरुक्तमित्यर्थः ।संवादकान्तरेतिअत्र निश्चयो न हेतु प्रविष्टः तथाच संवादकान्तराभावे सति दुष्टकारणजन्यत्वं हेतुरित्यर्थः । संवा तुसाक्षादिति। दोषज्ञानादनुमितिद्वारा न बाधः अपि तु वाक्याद्बाधः प्रत्यक्षतो दृश्यत इत्यर्थः । नन्विद्यादोषमूलत्वेपि वक्तृभ्रमादि देषजन्यत्वाभावान्माध्यमिकवाक्यवैषम्यात् वेदस्य न बाधइत्यत्राहदोषेति।अन्यथादुष्टेन्द्रियादेरपि वक्तृदोषाभावात्प्रामाण्यप्रसङ्गादिति भावः । व्यावहारिकं प्रामाण्यं दूषयतिकिमिति ।तथैवेति। अप्रामणिकत्वेपि प्रमाणत्वेन स्वीकारात्तत्प्रमाणस्य प्रमाणिकवत्प्रतिभासमानत्वमस्त्विति भावः ।मया तथानभ्युपगतत्वाद्व्यावहारिक प्रामाण्यं तत्र नास्तीत्याहत्वदिति।इत्यादीन्यपीतिस्वारसिक बाधाभावाद्यौक्तिकस्य तुल्यत्वान्निरस्तानीत्यर्थः । दुरूपपादमित्यत्र दुरूपपादा च दुरूपपादञ्चेति विग्रहे अन्यथा"“नपुंसकमनपुंसकैकवच्चान्यतरस्यां’’(अष्टा - 1 - 2 - 6 - 9) नपुंसकस्यैकशेषः एकवचनं च अपौरुषेयत्वं हि वक्तृदोषाभावमुखेन प्रामाण्यं सत्यस्यैव सतः प्रयोजयति । नासत्यस्या अन्यथा घट पदेऽ ध्यस्तजडपदस्य भ्रान्तिजनकस्य वक्तृदोषाभावात्प्रामाण्यप्रसङ्गात्तस्माद्वैदस्यासत्यत्वे सत्यब्रह्मसिद्धिर्नस्यादित्यकामेनापि सत्यत्वमभ्युपेत्यमित्याहसत्यादेवेति। इति श्रीकुशिककुलसुधाकरस्य वेदान्तचार्यस्य भागिनेयेन वत्सजलधिकौस्तुभनृसिंहगुरुसुतेन नृसिंहराजेनकृतायां शतदूषणीटीकायां त्रिंशो वादस्समाप्तः ॥